यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह
॥ अथ चतुःषष्ठिरध्यायः ॥
श्रीशुक उवाच—
यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह ।
अच्छिनत् केशवस्तीक्ष्णैः शरैरेकैकशस्त्रिभिः ॥ १ ॥
पदरत्नावली
गरुडस्य पक्षाभ्यां निघ्नतान् निहतान् गजानच्छिनत् ॥ १–२ ॥
सत्यधर्मीया
एकैकश एकमेकं त्रिभिस्त्रिभिः शरैः ॥ १ ॥
उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नतान् गजान् ।
गरुत्मता हन्यमानास्तुण्डपक्षनखैर्गजाः ॥ २ ॥
सत्यधर्मीया
गजान्पक्षाभ्यां निघ्नता सुपर्णेनोह्यमानः गरुत्मता गतम् ॥ २ ॥
तुरङ्गमाश्च दुर्द्धर्षाः पेतुरुर्व्यां गतासवः ।
दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकम् ॥ ३ ॥
पदरत्नावली
हरिरिन्द्रः ॥ ३–५ ॥
सत्यधर्मीया
तुरङ्गमास्तुरगाः । तुरगोऽपि तुरङ्गश्च तुरङ्गम इतीष्यत इति त्रिरूपकोशः । गतासवा निष्प्राणाः ॥ ३ ॥
तं भौमः प्राहरच्छक्त्या वज्रेणेव हरिर्गिरिम् ।
तयाऽतिविद्धो गरुडो मालाविद्ध इव द्विपः ॥ ४ ॥
सत्यधर्मीया
हरिरिन्द्रस् तया शक्त्या । अतिविद्धो नरकादि दृष्ट्वा (?) मालाहतो द्विपो हस्तीव ॥ ४ ॥
न किञ्चिदपि राजेन्द्र चचाल नरकाहवे ।
ततः कार्मुकमादाय नरकः शरसञ्चयान् ॥ ५ ॥
सत्यधर्मीया
किञ्जिदीषदपि न चचाल ततः शक्तिमुक्त्यनन्तरम् ॥ ५ ॥
मुमोच कृष्णे तान् सर्वानच्छिनत् केशवः शरैः ।
ततोऽर्धचन्द्रं नरकं सुसंधाय शरासने ॥ ६ ॥
पदरत्नावली
आक्रष्टुकामम् आकर्णपूर्णमाकर्षणेच्छुम् ॥ ६ ॥
आक्रष्टुकामं विज्ञाय तच्चापं केशवोऽच्छिनत् ।
ततः कालायसमयीं गदां गुर्वीं धरासुतः ॥ ७ ॥
पदरत्नावली
नाम्ना क्षुरप्रेण शरेण ॥ ७–१० ॥
सत्यधर्मीया
अर्धचन्द्रं शरम् । शरासने सन्धायाक्रष्टुकामं नरकं विज्ञाय । तच्चापं सन्धितार्धचन्द्रधनुः केशवोऽच्छिनत् । कालायसमयींं कृष्णायोविकृताम् ॥ ६,७ ॥
आददे तां क्षुरप्रेण चकर्त मधुसूदनः ।
ततो निशातं परशुं भौमः परबलार्दनः ॥ ८ ॥
सत्यधर्मीया — मधुसूदनस्तां क्षुरप्रेण चकर्त निशातमुत्तेजितं परशुं भौमः प्राहिणोत्
॥ ८ ॥
प्राहिणोद् विष्णवे तं च चिच्छेद श्रीधरोऽसिना ।
ततः कृष्णाय चिक्षेप तोमरान् पञ्चसप्तति ॥ ९ ॥
सत्यधर्मीया
तं चासिना श्रीधरश्चिच्छेद पञ्चसप्ततितोमरान् चिक्षेप ॥ ९ ॥
चकार सिंहनादं च नरकः परवीरहा ।
**तांस्तोमरान् कुरुश्रेष्ठ शरेणैकेन केशवः **
चिच्छेद यौगपद्येन तदद्भुतमिवाभवत् ॥ १० ॥
सत्यधर्मीया
एकेन तत्रापि यौगपद्येनेति तदद्भुतमिवाभवत् । नेदं देवस्याद्भुतमिति सूचयतीवेन ॥ १० ॥
शूलं भौमोऽच्युतं हन्तुमाददे वितथोद्यमः ।
तद्विसर्गात् पूर्वमेव नरकस्य शिरो हरिः ।
अपाहरद् गजस्थस्य चक्रेण क्षुरनेमिना ॥ ११ ॥
पदरत्नावली
क्षुरनेमिना निशितनेमिना ॥ ११–१७ ॥
सत्यधर्मीया
वितथोद्यमो व्यर्थोद्यमो विगतं तथा सत्यं यस्मात्स वितथ उद्यमो यस्य सः । मिथ्या मृषा च वितथ इत्यमरोक्तेरयं वाच्यलिङ्गः शब्दः । तद्विसर्गाच्छूलो-त्सर्जनात् । क्षुरवद्विद्यमाननेमिवता चक्रेण गजस्थस्य शिरोऽपाहरत् ॥ ११ ॥
सकुण्डलं चारुकिरीटभूषितं बभौ पृथिव्यां पतितं समुज्ज्वलत् ।
हाहेति साध्वित्यृषयः सुरेश्वरा माल्यैर्मुकुन्दं विकिरन्त ईडिरे ॥ १२ ॥
दुर्घटभावदीपिका
यदा हरेश्चक्रेण नरकस्य शिरः पृथिव्यां पतितं बभौ तदा नरक-सम्बन्धिनो हाहेति चुक्रुशुः । ऋषयः सुरेश्वराः साध्वित्युक्त्वा माल्यैर्विकिरन्तः सन्तो मुकुन्द-मीडिर इति । एतेन सकुण्डलञ्चारुकिरीटभूषितमित्येतद्धरिर्नरकस्य शिरश्चक्रेणापाहर-दित्यनेनान्वित इति दूषणं परास्तम् । हरिर्नरकस्य शिरश्चक्रेणापाहरदिति विधानानन्तरं तदा किं जातमिति शङ्कापरिहारार्थं यदा तदेत्यनयोः शेषेण, हरिरित्यादीनामावृत्त्या च, यदा हरिर्नरकस्य शिरोऽपाहरदित्यनुवादं कृत्वा तदा नरकस्य शिरः पृथिव्यां पतितं सद्ब-भावित्यनेनानन्वितमिति चोद्यं प्रत्युक्तम् । शङ्कापरिहारार्थं च हाहेत्यादिशेषेण पृथिव्या-मित्यादीनामावृत्त्या च यदा नरकस्य शिरः पृथिव्यां पतितं सद्बभावित्यनुवादनं कृत्वा तदा हाहेति चुक्रुशुरित्यादिकं विधीयत इत्यङ्गीकारात् । एतेनैव हाहेत्येतदनन्वितमिति दूषणं परिहृतम् । नरकसम्बन्धिनश्चुक्रुशुरित्यनयोः शेषं कृत्वाऽन्वयस्योक्तत्वात् । एतेनैव साध्वित्यनन्वितमिति शङ्का परास्ता । उक्तेत्यस्य शेषमङ्गीकृत्यान्वयस्योक्तत्वात् ॥ १२ ॥
सत्यधर्मीया
पृथिव्यां पतितमुज्वलत्प्राक् । इदानीं सद्यः पतितत्वात्तत्रापि मातरि एव पाताद् बभौ इति उचितं भानम् । हाहेति नारका अवदन्निति शेषः । यद्वा हाहेति किं हससीत्याभाणकमूलमिदं सत्साध्विति हाहेति ऋषयः सुरेश्वरा इत्यनेनान्वेति । मुकुन्दं माल्यैः पुर्ष्पैर्विकिरन्तस्तडिरेऽस्तुवन् ॥ १२ ॥
हत्वा हरिर्नरकं दैत्यवर्यं मरुद्गणैः सहितो लोकपालैः ।
समाहूतः पौरमुख्यैः सभार्यः प्राग्ज्योतिषं प्राविशद् द्रष्टुकामः ॥ १३ ॥
सत्यधर्मीया
हरिर्नरकं हत्वा आश्वयुजचतुर्दश्यां पौरमुख्यैः समाहूतो द्रष्टुकामः प्राग्ज्योतिषं प्राविशत् ॥ १३ ॥
तत्रापश्यद् यदुश्रेष्ठो विचित्रं मणिपर्वतम् ।
छत्रं च वारुणं हृद्यं सलिलस्रावि भारत ॥ १४ ॥
सत्यधर्मीया
मणिपर्वतं सुरगिरित उत्कृत्य नीतं सलिलस्रावि सदा वरुणसम्बन्धि छत्रं चापश्यत् ॥ १४ ॥
शक्राय प्राहिणोद् भूयः केशवो मणिपर्वतम् ।
वरुणाय तथा च्छत्रं प्राहिणोद् दैत्यकिङ्करैः ॥ १५ ॥
दुर्घटभावदीपिका
केशवो भूयः शक्राय शक्रभोगाय मणिपर्वतं प्राहिणोदिति । एतेन कृष्णेन पूर्वं मणिपर्वतस्याप्रेषितत्वाद्भूयः प्राहिणोदिति कथनमनुपपन्नमिति चोद्यं निरस्तम् । भूय इत्यस्य प्राहिणोदित्यनेनान्वय इत्यनङ्गीकारात् ॥ १५ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे चतुःषष्ठितमोऽध्यायः ॥ १०–६४ ॥
सत्यधर्मीया
शक्राय मणिपर्वतं वरुणाय छत्रं च दैत्यकिङ्करैः प्राहिणोत् । त्रिविष्ट-पपर्यन्तं गरुडोपर्यारोप्य नीत्वेन्द्राय दत्वा दैत्यकिङ्करैः प्राहिणोद्वरुणायेत्यर्थः । यथोक्तम् । समन्ततो योजनानां शते द्वे प्रवृद्धमिन्द्रस्य सरत्नपर्वतम् । नित्यामृतस्रावि जलेश्वरस्य छत्रं च दोर्भ्यां गरुडे न्यधाद्धरिरित्याचार्यैः । तांस्तान्पदार्थांस्तत्र तत्र प्रेषयामास । अनेन निस्पृहता ध्वनिता ॥ १५ ॥
तान् विसृज्य हरिर्देवान् स्वयमेव जगत्पतिः ।
प्राविशद् भौमसदनं पुरन्दरपुरोपमम् ॥ १६ ॥
सत्यधर्मीया
तान्देवान्विसृज्य राजाऽन्तःपुरम् इतरैर्नागन्तव्यमित्यमरपरित्यागः
॥ १६ ॥
ततो धरा कृष्णमुपेत्य कुण्डले प्रतप्तजाम्बूनदरत्नभास्वरे ।
पौत्रं च वीरं भगदत्तसञ्ज्ञितं निवेद्य मालामपि वैजयन्तीम् ॥ १७ ॥
सत्यधर्मीया
ततोऽन्तरागमनानन्तरं धरा कृष्णमुपेत्य सङ्गम्य प्रतप्तं जाम्बूनदं निष्ठापितमष्टापदं तदात्मके च ते रत्नैर्भास्वरे चेति ते । अदितिकुण्डले भगदत्तसञ्ज्ञितं पौत्रं च तथा वैजयन्तीं मालां च निवेद्य अर्पयित्वा ॥ १७ ॥
अस्तौषीदथ विश्वेशं देवी देववरार्चितम् ।
प्राञ्जलिः प्रणता राजन् भक्तिप्रवणया धिया ॥ १८ ॥
पदरत्नावली
भक्त्या प्रणवया सन्नतया धिया बुद्ध्या ॥ १८ ॥
सत्यधर्मीया
देववरार्चितं देवी प्राञ्जलिः प्रणता सती भक्तिप्रवणया भक्त्या सदाऽ-वक्रया धियाऽस्तौषीत् ॥ १८ ॥
पृथिव्युवाच—
नमस्ते देवदेवेश शङ्खचक्रगदाधर ।
भक्तेच्छोपात्तरूपाय परमात्मन् नमोऽस्तु ते ॥ १९ ॥
पदरत्नावली
भक्तेच्छया उपात्तं स्वीकृतं रूपम् ॥ १९–२० ॥
सत्यधर्मीया
हे देवदेवेश देवदेवानां ब्रह्मादीनामीश शङ्खचक्रगदाधर भक्तानामिच्छया तत्संरक्षणेच्छयोपात्तं रूपं देहो येन तस्मै ते नमो नमः ॥ १९ ॥
नमः पङ्कजनाभाय नमः पङ्कजमालिने ।
नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २० ॥
सत्यधर्मीया
पङ्कजमालाऽस्यास्तीति तस्मै । शिखादिः ॥ २० ॥
नमो भगवते तुभ्यं वासुदेवाय विष्णवे ।
पुरुषायादिबीजाय पूर्णबोधाय ते नमः ॥ २१ ॥
पदरत्नावली
वासुदेवाय सर्वत्र स्थित्वा द्योतमानाय । विष्णवे सच्चिदानन्दरूपाय । पुरुषाय पूर्णषड्गुणाय । आदेर्ब्रह्मणो बीजाय व्यञ्जकाय ॥ २१ ॥
सत्यधर्मीया
आदित्वेनेतरमतानां बीजं तस्मै पूर्णबोधाय ज्ञानात्मने ॥ २१ ॥
अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्तशक्तये ।
चराचरात्मन् लोकेश परमात्मन् नमोऽस्तु ते ॥ २२ ॥
पदरत्नावली
अस्य प्रपञ्चस्य जनयित्रे उत्पादकाय । ब्रह्मणे वेदादिशब्दराशिवेद्याय । सर्वशब्दवाच्यत्वे हेतुमाह– अनन्तेति । ‘अनन्ता वै वेदाः’ इति श्रुतेः । चराचरात्मन् चराचरमात्मा देहः प्रतिमास्थानीयो यस्य स तथा । परमात्मन् प्रत्यक्स्वरूप ॥ २२ ॥
सत्यधर्मीया
अस्य जगतो जनयित्रे जनकाय । तेन न किञ्चित्प्रयोजनमिति तृना द्योत्यते । स्वस्य जनकोऽस्ति चेन्न । निरवधिकजगज्जनकता तस्येत्यत ॥ उक्तमजायेति ॥ ब्रह्मणे गुणपूर्णायानन्तशक्तयेऽपरिमितसामर्थ्यायाप्रतिबद्धशक्तये वा । अनन्तमक्षरतत्त्वं रमा शक्तिर्भार्या यस्य सः । शक्यत्वाच्छक्तयो भार्या इत्युक्तेः । चराचरात्मन् । तदन्तर्गत परमात्मन् विशिष्टचेतन लोकेश लोकनायक । अनेकश्रुतिप्रतीकत्वान्नासङ्गतिरियं पुनरुक्तिरर्थतोऽपि न दोषायेति ज्ञेयम् ॥ २२ ॥
त्वं वै सिसृक्षू रज उत्कटं प्रभो तमो निरोधाय बिभर्षि संवृतम् ।
स्थानाय सत्वं जगतो जगत्प्रभो कालः प्रधानः पुरुषोऽस्यपारः ॥ २३ ॥
पदरत्नावली
सिसृक्षुः स्रष्टुकामः । उत्कटस्त्वं रजोगुणं बिभर्षि उपादत्से । निरोधाय संहाराय । संवृतं ज्ञानसंवरणं तमोगुणम् । स्थानाय जगत्स्थित्यै सत्वगुणम् । कालः प्राणिनामदृष्टपाचकः । एवंविधः क इति तत्राह– प्रधान इति । प्रधानशब्दवाच्यः प्रधानपुरुषोऽसि, पुरुषोऽत्तमोऽसीत्यर्थः । ‘उत्तमः पुरुषस्त्वन्यः’ इति स्मृतेः । पुरुषत्वेऽपि परिच्छिन्नत्वं नास्तीत्याह– अपार इति ॥ यद्वा जगत्कारणं प्रधानपुरुष इति केचित् सङ्गिरन्ते । तदाशङ्कां निवारयति– प्रधान इति ॥ प्रधानशब्दवाच्यः पुरुषशब्दवाच्यश्च त्वमेव । तर्हि परिशिष्यमाणः क इत्यत्राह– अस्येति ॥ अस्य प्रपञ्चस्य पारः परिशिष्यमाणः संसारनदीपारस् तीरान्तरशब्दवाच्यस्त्वमित्यर्थः ॥ २३ ॥
सत्यधर्मीया
यदा त्वं सिसृक्षुः सर्जनेच्छावांस्तदोत्कटं कार्याभिमुखं रजो बिभर्षि । निरोधाय नाशं कर्तुमिच्छसि तदा संवृतं ज्ञानद्यावरकं तमोगुणमुत्कटं बिभर्षि । तथा स्थानाय पालनार्थमुत्कटं सत्त्वं बिभर्षि । उत्कटप्रभो इति पाठे हे उत्कटोत्कृष्ट प्रभो स्वामिन्नित्यर्थः । अपारोऽपरिच्छिन्नोऽस्य जगतः पारः पारयितेति वा । गुणवानपि नागुणवांल्लोकवदित्याह ॥ अपार इति ॥ अपगता अरा दोषा यस्मात्स इति वा । पुनर्जगत्प्रभो इति वदन्ती धरा वराहाभिन्नत्वेन जगत्प्राणः समीरण इत्यमरैकव्याकृतिमाश्रित्य मत्प्राणनाथेति समबोधयदिति बोध्यम् ॥ २३ ॥
अहं पयो ज्योतिरथोऽनिलो नभो मात्राणि देवा मन इन्द्रियाणि ।
कर्ताऽभिमानीत्यखिलं तु कारणं त्वय्यद्वितीये भगवन्नयं भ्रमः ॥ २४ ॥
पदरत्नावली
सृष्ट्यादिकर्ता त्वमित्युक्त्यैवाखण्डकर्तृत्वप्रतीतावपि धात्रादिशब्देभ्यो विरिञ्चादेरपि कर्तृत्वशङ्कामिदानी निवारयति– अहमिति ॥ अहं नाम्ना पृथिवी । मीयन्त इति मात्राणि शब्दादिविषयाः । मानं स्वविषयज्ञानं स्वसत्वेन त्रायन्त इति वा । देवा इन्द्रियाभिमानिनः । कर्ता अहङ्काराभिमानी । महान् महत्तत्वाभिमानी विरिञ्चः । तुशब्द एवार्थे । इतिशब्दः समाप्तिवचनः । महदाद्यभिमान्यन्तमखिलकारणम् अद्वितीये च त्वय्येव । त्वमेव धारयसीत्यर्थः । आतिथ्यवत् कदाचिन्नेत्याह– भगवन्निति ॥ हे ऐश्वर्यादिगुणार्णव अयं जगद्भ्रमश् चक्रभ्रमणवद् विश्वस्य परिवर्तनं त्वन्नियतमित्यर्थः । भ्रमशब्दस्यारोपार्थ-त्वाङ्गीकारे अर्थक्रियानुपपत्तिरिति ॥ २४ ॥
सत्यधर्मीया
अहं मही पय आपो ज्योतिरग्निरनिलो वायुर्नभो गगनं मात्रा गन्धाद्या देवा इन्द्रियाभिमानिनो मनः । मन एव मनुष्याणामित्युक्तेरिन्द्रियेभ्यः पृथक्कृत्योक्तम् । इन्द्रियाणीतराणि कर्ताऽहङ्काराभिमानी हरोऽभिमानी महत्तत्त्वाभिमानी ब्रह्मेत्यखिलम् इति यत्कारणं तत्सर्वमद्वितीयेऽसदृशे त्वदाधारतया वर्तते । यदा कदाचिद्यस्य कस्यचि-द्यत्किञ्चिदधीनं भवति न तथेत्याह । भगवन् अयं भ्रमो जगच्चक्रपरिवर्तनं त्वय्येवेति । सदा त्वदधीन एवायमिति भावः । एवं सति यच्चाहं कर्तेत्याभिमानी अभिमानवान्सोऽयं भ्रमोऽ-न्यथामतिरित्यर्थः ॥ २४ ॥
तस्यात्मजोऽयं तव पादपङ्कजं भीतः प्रपन्नार्तिहरं प्रसादितुम् ।
तत्पालयैनं कुरु हस्तपङ्कजं शिरस्यमुष्याखिलकल्मषापहम् ॥ २५ ॥
पदरत्नावली
साम्प्रतं तव किं विधेयमित्यत्राह– तस्येति ॥ अयं पुरोवर्ती, तस्य नरकस्यात्मज औरसः पुत्र इति जानीहीति शेषः । तर्हि किमिति मत्प्रणामं न करोती-त्यत्राह– तवेति ॥ तव प्रपन्नार्तिहरं पादपङ्कजं प्राप्य त्वां प्रसादयितुं भीतस्त्रस्त इत्यन्वयः । ततः किम् ? अत्राह– तदिति ॥ यतो भीतस्तत्तस्मात् पालनं चैतदेवेत्याह– कुर्विति । अनेन किं फलं स्यादित्याशङ्क्य पापनिमित्तं सर्वमनर्थजातं, तन्नाशे सर्वसुखं स्यादिति भावेनाह– अखिलेति ॥ यद्वा प्रपन्नार्तिहरं भगवन्तं प्रसादयितुं तव पादपङ्कजं भीतः सञ्चलितः प्राप्त इत्यर्थः । ‘भी भयसञ्चलनयोः’ इति धातुः । अतो रक्षेत्याह– तदिति
॥ २५–३० ॥
सत्यधर्मीया
एतावत्स्तवनेनावनि किं फलितमभिलपेत्यतो लपति ॥ तस्येति ॥ तस्य त्वन्मारितस्य मम कुमारस्यायमात्मजो भीतस्तातघातात् । प्रपन्नार्तिहरं तव पादपङ्कजमुपसादितः प्राप्तो यतस्ततोऽखिलकल्मषापहं तव हस्तपङ्कजममुष्य शिरसि कुर्वेनं पालय च ॥ २५ ॥
श्रीशुक उवाच —
इति भूम्याऽर्चितो वाग्भिर्भगवान् भक्तिनम्रया ।
प्रसन्नः प्रददौ तस्मै भगदत्ताय चाभयम् ॥ २६ ॥
सत्यधर्मीया
वाग्मिर्भूम्याऽर्चितस्तस्मै तदुपदिष्टाय भगदत्ताय प्रसन्नः सन्नभयं प्रददौ
॥ २६ ॥
राज्ये नियोज्य तं वंश्ये तदमात्यांश्च तत्पदे ।
भौमावरोधकान्तानां श्रेणीः स प्राविशद्धरिः ॥ २७ ॥
सत्यधर्मीया
वंश्ये वंशपरम्परायाते राज्ये तं भगदत्तं नियोज्य तत्पदे तत्तत्पदे अमात्यांश्च नियोज्यानन्तरं भौमेन नरकेणोपरुद्धानां कान्तानां योषितां श्रेणीः पङ्क्तीः प्राविशत् ॥ २७ ॥
तत्र राजन्यकन्यानां षट्सहस्राधिकायुतम् ।
भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः ॥ २८ ॥
सत्यधर्मीया
षट्सहस्रैरधिकं यदयुतं दशसहस्रं तच्छोडशसहस्रमित्यर्थः । षट्सहस्रैस्तथाऽधिकेन शतेन च सहितं यदयुतं तद्ददृश इत्यर्थः । यथोक्तं पराशरेण । कन्यापुरे स कन्यानां षोडशातुलविक्रमः । शताधिकानि ददृशे सहस्राणि महामुन इति । आचार्यवर्याश्च । द्व्यष्टौ सहस्राणि शतं च रूपशीलोदारा अक्षताः सद्व्रतस्था इत्युक्तवन्तः । विक्रम्य विक्रमं कृत्वा राजभ्यो राजसिद्धादिभ्यो राजतयाऽवतीर्णसिद्धादिभ्यो वा । यथोक्तं पराशरेण च–
‘देवसिद्धासुरादीनां नृपाणां च जनार्दन ।
हृत्वा हि सोऽसुरः कन्या रुरोध निजमन्दिर’ इति ।
भौमाहृतानां देवगन्धर्वकन्यास्तासां प्रधाना त्वष्टृपुत्री कशेरुरित्युक्तेस्तासां स्वरूपं ज्ञेयम्
॥ २८ ॥
तं प्रविष्टं स्त्रियो वीक्ष्य ताः सर्वा नवयौवनाः ।
स्वलङ्कृता विचित्राङ्ग्यो नरवर्य विमोहिताः ॥ २९ ॥
सत्यधर्मीया
नवयौवना इति विवृतमाचार्यैरक्षता इति । स्वलङ्कृता विचित्राङ्ग्यः स्वलङ्कृता इव विचित्राङ्ग्य इति योजनीयम् । तथा हि हरिवंशे । एकवेणीधरास्त्रियः । सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रिया इति स्वभावशोभानुपमेति भावः । नरवर्य हे राजन् । विमोहिता इत्युत्तरेणान्वेति । नरवर्येण कृष्णेन विमोहिता इति वा ॥ २९ ॥
मनसा वव्रिरेऽभीष्टं पतिं दैवोपपादितम् ।
भूयात् पतिरयं मह्यं धाता तदनुमोदताम् ॥ ३० ॥
सत्यधर्मीया
दैवोपपादितमदृष्टनियामकश्रीहरिघटितमभीष्टं पतिं वव्रिरे । धाता विधिः । तद्भर्तृभवनम् ॥ ३० ॥
इति सर्वेश्वरे कृष्णे ता नार्यो हृदयं दधुः ।
ताः प्राहिणोद् द्वारवतीं सुमृष्टरुचिराम्बराः ॥ ३१ ॥
पदरत्नावली
वंश्ये वंशप्राप्ते । तत्पदे अमात्यपदे । श्रेणी पङ्क्तिं शालां वा ॥ ३१ ॥
सत्यधर्मीया
इति सर्वेश्वरे कृष्णे । एवं प्रकारेण ता मनो दधुः । सुमृष्टं शुद्धं रुचिरमम्बरं यासां ताः । इदानीं दानवारिनारिभ्योऽम्बराण्याभरणं च दत्वा प्राहिणोदिति रुचिराम्बरत्वादिकं तासाम् ॥ ३१ ॥
खरैरुष्ट्रैर्महाकोशान् रथांश्च द्रविणं महत् ।
ऐरावतकुलेभांश्च चतुर्दन्तान् मदोत्कटान् ॥ ३२ ॥
पदरत्नावली
ऐरावतकुले जातानिभान् ॥ ३२ ॥
सत्यधर्मीया
महाकोशान् द्रविणमुपविद्यमानम् । ऐरावतकुलजगजान् चत्वारो दन्ता येषां ते तान् ॥ ३२ ॥
भगदत्ताय दत्वैकं सुप्रतीकं ततोऽपरान् ।
पाण्डुरांश्च चतुःषष्टिं प्रेषयामास केशवः ॥ ३३ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे चतुःषष्ठिरध्यायः ॥
पदरत्नावली
पाण्डुरान् श्वेतदेहान् ॥ ३३ ॥
॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे चतुःषष्ठिरध्यायः ॥
सत्यधर्मीया
तदर्थं कुबेरो भगदत्तोऽभवत्तस्मै न भगवद्दत्तः स इति नेत्याह । भगदत्तायैकं सुप्रतीकं तन्नामानं नागं दत्वा । अपरान्पाण्डुरांश्च चतुःषष्ठिं केशवः प्रेषयामासेति
॥ ३३ ॥
**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **
चतुःषष्ठिरध्यायः ॥ १०–६४ ॥