यथा हतो भगवता भौमो नीता यथा स्त्रियः
॥ अथ त्रिषष्ठिरध्यायः ॥
राजोवाच—
यथा हतो भगवता भौमो नीता यथा स्त्रियः ।
निरुद्धा यास्तदाचक्ष्व विक्रमं शार्ङ्गधन्वनः ॥ १ ॥
पदरत्नावली
यथा कथम् । पृष्टं तत् सर्वम् ॥ १–२ ॥
सत्यधर्मीया
भौमं हत्वेत्यारोप्यबीजं मुनौ स मुनिव्रते तदङ्कुरणप्ररोहणादिकं काम-यानः शुकं परीक्षित्पृच्छतीत्याह ॥ राजेति ॥ यथा भौमं नरको यथा निरुद्धास्ता स्त्रियस्तेन भौमेन कथं नीतास्तत् । अव्ययम् । शार्ङ्गधन्वनो विक्रममाचक्ष्व ॥ १ ॥
सुमनोरञ्जिनी
नरकासुरवधपारिजातहरणादिमहिमा निरूप्यतेऽस्मिन्नध्याये । याः स्त्रियो निरुद्धास्ता यथा येन प्रकारेण नीताः ॥ १ ॥
श्रीशुक उवाच—
द्वारवत्यां महाभागे निवसत्यच्युते नृप ।
दीनेनोद्विग्नचित्तेन समागम्य त्रिविष्टपात् ॥ २ ॥
सत्यधर्मीया
त्रिविष्टपात्स्वर्गात्समागम्यागत्योद्विग्नं चित्तं यस्य स तेन दीनेन ॥२॥
सुमनोरञ्जिनी
हृतं छत्रं यस्य तेन । अत एव दीनेनोद्विग्न्रचित्तेन वरुणेन सहेति शेषः । समागम्य सङ्गत्य त्रिविष्टपात् । आगतेन । हृतकुण्डलो बन्धुर्माता यस्य । तथा-विधेन शक्रेण । भौमचेष्टितं ज्ञापितो गोविन्द इन्द्रमाश्वास्य । सभार्यः भार्यया सत्यभामया सहितः गरुडारूढः सन् प्राग्जोतिषं नाम नरकासुरस्य पुरं ययाविति योजना ॥ २–४ ॥
हृतच्छत्रेण शक्रेण हृतकुण्डलबन्धुना ।
हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् ॥ ३ ॥
पदरत्नावली
हृते कुण्डले यस्य स हृतकुण्डलो बन्धुर्माता यस्य स तथा तेन नरकेण । हृतम् अमराद्रौ मेरौ स्थानं यस्य स तथा ॥ ३ ॥
सत्यधर्मीया — हृतं छत्रं यस्य स तेन । यद्यपि न छत्रं सहस्रनेत्रस्य । यद्वक्ष्यति वरुणाय तथा छत्रं प्राहिणोद्दैत्यकिङ्करैरिति । तथाऽपि पौलोमीरमणस्याखिललोकपाल-मुख्यत्वात् तदप्रदापने मानभङ्गः स्वस्यैवेति तदुक्तिरिति ज्ञेयम् । हृते कुण्डले यस्याः सा हृतकुण्डला सा बन्धुर्माता यस्य स तेन । हृतम् । अमराद्रोै स्थानं मणिपर्वतात्मकं यस्य तेन । शुक्रेण भौमचेष्टितं कुजकुचेष्टां ज्ञापितो विज्ञापितः ॥ ३ ॥
इन्द्रमाश्वास्य गोविन्दः सुसम्पूज्य विसृज्य च ।
सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ ॥ ४ ॥
पदरत्नावली
प्राग्ज्योतिषपुरं नरकस्य नगरम् ॥ ४ ॥
सत्यधर्मीया
इन्द्रं समाश्वास्य प्रसान्त्वय्य तमिन्द्रं सुसम्पूज्य विसृज्य गमयित्वा सभार्यः ससत्यभामः । सत्यभामाधामि्न स्थितं प्रत्यागतमिन्द्रमिदं सर्वं तच्छ्रुतिसृतिं गतमिति कौतुकमवलोकयितुकामिनी इति नीतवांस्तामिति सभार्यः । यद्वा भौमस्य दौरात्म्यं दृष्टवती चेदनपत्यं वरं मन्ये कदपत्याच्छुचास्पदादिति मतिमती शान्ता भवेदिति भूम्यात्मिकायाः सत्यभामायाः सह नयनमिति सभार्यः । यथोक्तमाचार्यैः । मुमोद सत्यभामया । रमैव साऽपि भूरितीति । अथवा पुष्पे पारिजातस्य सर्वकामितदे नारदेन दत्ते च रुग्मिण्यै कृष्णेन कुपितां तां समाधातुं पारिजातं तरुमेव तरुणि दास्यामीति प्रतिश्रुतत्वात्तां सह निनाय नायको नाकमिति सभार्यः । यथोक्तं हरिवंशमहाभारततात्पर्यनिर्णययोः । सोऽर्चितो वासुदेवेन मुनिरर्च्यतमः सताम् । परिजाततरोः पुष्पं ददौ कृष्णाय भारत । तद्दृष्ट्वा राजकुसुमं रुग्मिण्याः प्रददौ हरिरित्यारभ्य अलं कमलपत्राक्षि रुदितेन मनस्विनीत्यादिना विधाय तत्समाधिं प्रसीदैकापराधं मे मर्षयस्व शुचिस्मिते । पारिजातस्य पुष्पाणि यावत्कालं त्वमिच्छसीति । दाताऽस्म्यहं पारिजातं तरुं त इति । अहं रुद्राय धनुरातनोमीत्याद्युक्त-लक्षणं यत्तत्प्रदर्श्य रमात्वख्यात्यै नयनं नलिनाया इति सभार्यः । ननु न च कुतो ज्येष्ठया रुग्मिण्या विनिगमनविरहादिति तु दत्तोत्तरम् । कुसुमसुमनसत्वात्तस्याः । एतस्या द्युति-सुरतरुवितरणपरिहरणीयरुट्वाद्विनिगमकादिति सम्भवद्भगवन्नयनेऽयमेवेति सभार्यः ससत्यभाम इति वा । द्युमणिपराजयेन तत्प्रतमणिकृताहन्ताशान्त्यर्थं१ वैतन्नयनं ज्ञेयम् । नरकनगरं प्राग्ज्योतिषपुरम् ॥ ४ ॥
हिमाद्रौ तुङ्गशिखरे जलाग्न्यनिलदुर्गमम् ।
गिरिदुर्गं शस्त्रदुर्गैर्मुरपाशायुतैर्वृतम् ॥ ५ ॥
पदरत्नावली
कुत्र तन्नगरम् ? अत्राह– हिमाद्राविति ॥ जलेनाग्निनानिलेन वायुना दुर्गमं गन्तुमशक्यम् । मुरपाशानामयुतैर् अनेकैः षट्सहस्रैरित्यर्थः । यद्वा पुरपाशैरयुतैरसम्बद्धैः पृथक् कृतैः शस्त्रदुर्गैर् दुर्गमपि । गिर्यादिक्रमेण ॥ ५–६ ॥
सत्यधर्मीया
हिमाद्रौ तत्रापि तुङ्गशिखरे गिरिदुर्गैः शस्त्रदुर्गैर्मुरपाशयुतैर्वृतमासीद्बाह्ये गिरिं दुर्गं तदन्तः पानीयदुर्गं मौरवं पाशदुर्गं तस्याप्यन्तः क्षुरधारोपमं तत्पाशाश्च ते षट्सहस्राः सुघोराः । अभेद्यत्वमरिभिरतार्यता च दत्तं दुर्गाणां ब्रह्मणाऽराधितेनेत्याचार्योक्ते-रर्थोऽवसेयः । सुघोरा अन्ये चतुस्सहस्रपाशा इत्यर्थे महाभारततात्पर्यनिर्णयोक्तिविरोधो न । यद्वा मुरुपाशाश्च तेऽयुताः परस्परमलग्नाश्च तैः षट्सहस्रैरित्यर्थः । यथोक्तं स्थानान्तरे हरिवंशे । क्षुरान्तान् मौरवान्पाशान् षट् सहस्रान् ददर्श स इति । अत एव दुर्गस्थान-रथारथनाद्गरुडारूढ इत्युक्तिरिति ज्ञेयम् । अयुतेनेति वक्तव्येऽयुतैरिति यदवोचद्ग्रन्थकृत्तेन असंलग्नता तेषां संलग्नेत्यभिपै्रति ॥ ५ ॥
सुमनोरञ्जिनी
कुत्र तन्नगरमत्राह ॥ हिमाद्राविति ॥ जलेन अग्निना अनिलेन वायुना च आवरणभूतेन परितो विद्यमानेन । दुर्गमं गन्तुमशक्यम् । गिरिदुर्गैः प्राकारा-कारसंस्थितैर् गिरिदुर्गैर् गिर्यात्मकैर् दुर्गैर् मुरपाशानामयुतैर् वृतम् ॥ ५,६ ॥
स सम्प्राप्य भटैर्गुप्तं दानवेन्द्रपुरं महत् ।
गदया निर्बिभेदाद्रिं प्राकाराकारसंस्थितम् ॥ ६ ॥
सत्यधर्मीया
प्राकारस्याकारेण संस्थितं गिरिमद्रिं गदया निर्बिभेद । पर्वतच्छिदि-कार्यनिष्पादकतया तदमित्रगोत्राणामन्तरान्तरीयाचरणं न्याय्यं तत्पक्षपातिना गदयैतत्पातोऽपि न्याय्य इत्युक्तिर्युक्ता ॥ ६ ॥
तन्निर्भिद्य प्रविश्यान्तः शस्त्रदुर्गाणि सायकैः ।
चकर्त मौरवं पाशं चक्रेणामन्दमच्छिनत् ॥ ७ ॥
पदरत्नावली
अमन्दमनलम् ॥ ७–११ ॥
सत्यधर्मीया
चकर्ताच्छिनत् । अमन्दं मौरवं पाशं चक्रेणाच्छिनत् । मुर इति मुरुरिति च नामनी ॥ ७ ॥
सुमनोरञ्जिनी
चकर्त चिच्छेद । अमन्दं बहुधा ॥ ७ ॥
क्षुरमालां तथा घोरां निचकर्तासिना हरिः ।
वायव्यास्त्रेण सलिलं वारुणास्त्रेण पावकम् ॥ ८ ॥
सत्यधर्मीया
क्षुरमालां तदावलिम् ॥ ८ ॥
सुमनोरञ्जिनी
क्षुराणाम् अतितीक्ष्णखड्गानां मालाम् ॥ ८ ॥
हरिर्निमिषमात्रेण नाशयामास भारत ।
शङ्खनादेन तीव्रेण मनांसि च मनस्विनाम् ॥ ९ ॥
सत्यधर्मीया
तीव्रेण कर्णनिष्ठुरेण ॥ ९ ॥
सुमनोरञ्जिनी
मनांसि नाशयामास कम्पयामास ॥ ९ ॥
पाञ्चजन्यध्वनिं श्रुत्वा युगान्ताशनिभीषणम् ।
मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात् ॥ १० ॥
सत्यधर्मीया
अशनिवद्भीषणम् । पञ्चशिरांसि यस्य स मुरः । जलात्प्राक्-स्तम्भितादम्भसः ॥ १० ॥
सुमनोरञ्जिनी
युगान्ताशनिवद्भीषणम् । मुरस् तन्नामको दैत्यः । पञ्च शिरांसि यस्य सः ॥ १० ॥
त्रिशूलमुद्यम्य सुदुर्निरीक्ष्यो युगान्तसूर्यानिलरोचिरुज्ज्वलः ।
ग्रसंस्त्रिलोकानिव पञ्चभिर्मुखैरभ्यद्रवत् तार्क्ष्यसुतं यथोरगः ॥ ११ ॥
सत्यधर्मीया
युगान्तः प्रलयस्तत्कालिकौ यौ सूर्यानिलौ तयो रोचिषा तत्सम-कान्त्योज्वलः । पञ्चभिर्मुखैस् त्रिलोकाद्विशेषणसमासः ॥ ११ ॥
सुमनोरञ्जिनी
सु अत्यन्तं प्राणिभिर् दुर्निरीक्ष्य ईक्षितुमशक्यः । युगान्ते विद्यमानौ यौ सूर्यानलौ । तद्रोचिरिव रोचिर्यस्य । तार्क्ष्यसुतं गरुडम् ॥ ११ ॥
आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर्व्यनदन् स पञ्चभिः ।
खं रोदसी सर्वदिशोऽन्तरं महानापूरयन्नण्डकटाहमावृणोत् ॥ १२ ॥
सत्यधर्मीया
आविध्य भ्रामयित्वा निरस्य क्षिप्त्वा पक्षिणे गरुत्मते पञ्चभिर्मुखै-र्व्यनदन्ननाद । खं रोदसी द्यावापृथिव्यौ सर्वा दिशोऽन्तरं विदिशोऽण्डकटाहं चापूर्य नादेनावृणोदाच्छादितवान् ॥ १२ ॥
सुमनोरञ्जिनी
आविध्य आतोलयित्वा भ्रामयित्वा । गरुत्मते निरस्य । खम् आकाशम् । रोदसी द्यावाभूमी । सर्वासां दिशाम् अन्तरं मध्यम् । आपूरयन् नादेनेति शेषः
॥ १२ ॥
तमापतन्तं त्रिशिखं गरुत्मते चकर्त बाणद्वितयेन केशवः ।
मुखेषु तस्यापि शरान् समर्पयत् पुनर्गदां सोऽप्यमुचन्मधुद्विषे ॥ १३ ॥
पदरत्नावली
निरस्य मुक्त्वा । आपूरयन् नादेनेति शेषः ॥ १२–१४ ॥
सत्यधर्मीया
तं शूलम् । खलशूलाः पुंसि चेति लिङ्गानुशासनात्पुल्लिङ्गोऽपि शूलशब्दः । सोऽपि मरुरपि ॥ १३ ॥
(एतावत्पर्यन्तं सुमनोरञ्जिनी व्याख्या लब्धा । इतःपरं न लब्धा । यावल्लब्धं तावन्मात्रं मुद्रापितम् । येषु केषु च उपरितनव्याख्या विद्यते चेद् अस्मान् प्रापयतु । पुनर्मुद्रणे मुद्रापयितंु शक्यते ।)
तामापतन्तीं गदया गदाग्रजो गदां मृधे निर्बिभिदे सहस्रधा ।
उद्यम्य बाहूनभिधावतो रिपोः शिरांसि चक्रेण जहार लीलया ॥ १४ ॥
सत्यधर्मीया
गदाग्रजो गदां गदया कौमोदक्या सहस्रधा निर्बिभेद । दिशः प्रति
॥ १४ ॥
व्यसुः पपाताम्भसि कृत्तकन्धरो निकृत्तशृङ्गोऽद्रिरिवेन्द्रतेजसा ।
पपात विष्णोः शिरसि प्रमोदिनी प्रसूनवृष्टिर्निहते मुरेऽसुरे ॥ १५ ॥
पदरत्नावली
प्रमोदिनी सन्तोषजननी ॥ १५–१६ ॥
सत्यधर्मीया
इन्द्रतेजसा वज्रनिहितेन मुरेऽसुरे निहते प्रमोदिनी प्रसूनवृष्टिर्विष्णोः शिरसि पपात ॥ १५ ॥
तस्यात्मजाः सप्त पितुर्वधातुराश्चिकीर्षवस्तस्य रणे प्रतिक्रियाम् ।
ध्रुवश्चरिष्णुः श्रवणो विभावसुर्नभो वसुस्वानरुणश्च सप्तः ॥ १६ ॥
दुर्घटभावदीपिका
तस्य मुरस्य पितुर्वधातुरास्तस्य कृष्णस्य रणे प्रतिक्रियां चिकीर्षवः सप्तात्मजा सप्त भौमप्रयुक्ताः सन्तो वृषभप्रयुक्तान् रथान्समारुह्य भवनान्निराक्रमन् । तस्य सप्तात्मजा इत्युक्तम् । के ते सप्त इत्यत आह – ध्रुवश्चेति ॥ ध्रुवो विष्णुश्च श्रवणो विभावसुर् नभो वसुस्वानरुणश्चेत्येते सप्तेति । एतेन ध्रुवश्चेति वाक्यं पूर्वोत्तरवाक्याभ्यमनन्वितमिति चोद्यं प्रत्युक्तम् । सप्त के त इत्याशङ्कापरिहारार्थं प्रवृत्तं भिन्नं वाक्यमित्यङ्गीकारात् ॥ १६ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे त्रिषष्ठितमोऽध्यायः ॥ १०–६३ ॥
सत्यधर्मीया
प्रतिक्रियां हरिं हत्वा मृतापचितिरूपां प्रतिक्रियाम् । तन्नामान्याह ॥ ध्रुवश्चेत्यादिना ॥ ध्रुवश्चरिष्णुरित्यत्र चरिष्णुरिति वा रिष्णुरिति नाम वेति दैत्यगुरु र्विचार्यः । ताम्रोऽन्तरिक्ष इति च पठन्ति ॥ १६ ॥
रथान् समारुह्य वृषप्रयुक्तान् भौमप्रयुक्ता भवनान्निराक्रमन् ।
प्रयुञ्जतासज्य शरासनान् भटाः शक्त्यर्ष्टिशूलानमिते रुषोल्बणान् ॥ १७ ॥
पदरत्नावली
भौमेन प्रयुक्ताः प्रेरिताः । निराक्रमन् निर्गताः । आसज्य ज्यामारोप्य
॥ १७ ॥
सत्यधर्मीया
भवनान्निराक्रमन् बहिः । शरा अस्यन्तेऽनेनेति शरासनश्चापः । करणाधिकरणयोश्चेति ल्युट् । तान् अमिते कृष्णे आसज्य सज्यं कृत्वा शरान्प्रयुञ्जत प्रायुञ्जत ॥ १७ ॥
तच्छस्त्रकूटं भगवान् स्वमार्गणैरमोघवीर्यस्तिलशश्चकर्त ।
तान् योद्धुमिच्छूननयद् यमक्षयं निकृत्तशीर्षोरुभुजाङ्घ्रिकार्मुकान् ॥ १८ ॥
पदरत्नावली
कूटं समूहम् ॥ १८–२० ॥
सत्यधर्मीया
तच्छस्त्रकूटं तच्छत्रुमुक्तं शस्त्रसमूहं तिलशो मार्गणैश्चकर्त । निकृत्ततशीर्षोरुभुजाङ्घ्रिकार्मुकांस्तान् सप्त । यमक्षयं यमगृहमनयत् ॥ १८ ॥
ततो द्रुततरं गत्वा भटा राजपुरं महत् ।
हतान् मुरसुतान् सर्वान् नरकाय न्यवेदयन् ॥ १९ ॥
सत्यधर्मीया
भटा मृतोर्वरिताः सर्वान् सप्तापि ॥ १९ ॥
स्वानीकपानच्युतचक्रसायकैर्हतान् निशम्याशु चुकोप भूमिजः ।
निरीक्ष्य दुर्मर्षण आस्रवन्मदैर्गजैः पयोब्धिप्रभवैर्निराक्रमत् ॥ २० ॥
सत्यधर्मीया
दुर्मर्षणः सहनहीन आस्रवन्तो मदा येभ्यस्तैः । पयोब्धिः क्षीरसमुद्र-स्तस्मात् प्रभवन्तीति ते तथा तैः सह निराक्रमत् ॥ २० ॥
रथैरनेकसाहस्रैर्गजैश्च बहुभिर्वृतः ।
महत्या सेनया युक्तश्चायादायोधनं बली ॥ २१ ॥
पदरत्नावली
आयोधनं युद्धस्थानम् ॥ २१ ॥
सत्यधर्मीया
सहस्रमपि साहस्रम् । लक्ष्मिर्लक्ष्मी हरेः प्रियेति द्विरूपकोशः । अनेकसाहस्त्रैरायोधनं समरस्थलमायात् । न उत्तरवदुत्तरत्र भावीत्याह ॥ बलीति ॥ २१ ॥
दृष्ट्वा सभार्यं गरुडोपरिस्थितं सूर्योपरिष्टात् सतडिद्घनं यथा ।
गृहीतकोदण्डमुदारशङ्खकौमोदकीचक्रधरं चतुर्भुजम् ॥ २२ ॥
पदरत्नावली
सूर्योपरिष्टात् स्थितं तडिता सहितं घनं मेघम् ॥ २२–२३ ॥
सत्यधर्मीया
गरुडोपरि स्थितं सभार्यम् । सूर्यस्योपरिष्टात्तदुपरि विद्यमानतटिता सहितं घनं मेघमिव गरुडसमः सूर्यः । तटित्समा सत्यभामा । घनसमः श्रीघन इति तदेतदानुरूप्यं ज्ञेयम् । उदारेति शङ्खादिचक्रान्तविशेषणम् ॥ २२ ॥
नीलजीमूतसङ्काशं दृष्ट्वा तं गजवाहनम् ।
शङ्खमाध्माय गोविन्दः सिंहनादं व्यनीनदत् ॥ २३ ॥
सत्यधर्मीया
गजः सुप्रतीकः व्यनीनदच्चकार ॥ २३ ॥
वरुथिनी दैत्यपतेः सुघोरान् शरान् ववर्षाच्युतमूर्ध्नि दुर्जया ।
कृष्णे स भौमो व्यसृजच्छतघ्नीं लोहायसीं तेन भृशं स विव्यथे ॥ २४ ॥
पदरत्नावली
लोहेनायसा निर्मितां तेन शतघ्नीप्रयोगेण विव्यथे । ‘‘व्यथ ताडने’’ इति धातोः । ताडितोऽभूत् ॥ २४–२५ ॥
सत्यधर्मीया
दुर्जया वरूथिनी सेना । लोहमयीं किञ्चित्स्थलेऽयोमयीं शतघ्नीं तन्नाम्नीं शक्तिं तेन तत्क्षेपणेन विव्यथे ताडितोऽभूद् व्यथित इवाभवत् ।
‘आश्वस्तोऽथ हृषीकेशः सञ्ज्ञां प्राप्य च केशवः ।
धनुस्तस्यै ततो दत्वा शार्ङ्गभारसंहरणे ।
युद्व्यस्व नरकं देवि श्रान्तोऽस्मि युधि पीडितः ।
तदा युद्धं समारेभे नरकेण दुरात्मना’
इत्यारभ्य
‘शक्तिर्भगवतो देवि वासुदेवस्य पश्यतः ।
ततः प्रीतोऽथ तां वीक्ष्य परिष्वज्य महाविभुः ।
श्रमाम्भश्चापि तस्यास्तु परिमृज्याथ केशवः ।
कण्ठस्याभरणं तस्यै ददौ प्रीतमना हरिः ।
न दत्तमथ रुग्मिण्यै दत्तं तस्यै महात्मना ।
महार्ध्यं लोकविख्यातं हृतं बलिमखे तदा’
इत्यन्तेन ग्रन्थेन हरिवंशोक्तां सूचयामास व्यासो विव्यथ इत्यनेनानुसन्धेयम् । इत्येव कृष्णो दर्शयन् श्रान्तवत्स्वम् । तदा दृप्तं नरकं वीक्ष्य देवी सत्याददे कार्मुकं शार्ङ्ग सञ्ज्ञम् । चकार तं यतमानं च भौमं निरायुधं विरथं च क्षणेनेत्याचार्योक्तेश्च ॥ २४ ॥
अनेकबाणान् निर्मुक्तान् नरकेण स्मयन्निव ।
चकर्त बाणैर्युगपत् तदद्भुतमिवाभवत् ॥ २५ ॥
सत्यधर्मीया
अनेकबाणानेकदा ॥ २५ ॥
**ततोऽनु सैन्यं भगवान् गदाग्रजो विचित्रपत्रैर्निशितैः शरौघैः । **
निकृत्तबाहूरुशिरोङ्घ्रिविग्रहं चकार तूर्णं नृप साश्वकुञ्जरम् ॥ २६ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे त्रिषष्ठिरध्यायः ॥
पदरत्नावली
ततोनु तदनन्तरम् ॥ २६ ॥
॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे त्रिषष्ठिरध्यायः ॥
सत्यधर्मीया
विचित्रपत्रैः शरौघैः । विग्रहः शरीरम् । हे नृप परीक्षित् । तत्तदवान्तरनरपाश्च साश्वाः कुञ्जराश्च यस्मिंस्तदिति वा ॥ २६ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां
दशमस्कन्ध उत्तरार्धे त्रिषष्ठिरध्यायः ॥ १०–६३ ॥