एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तमः
॥ अथ द्विषष्ठितमोऽध्यायः ॥
श्रीशुक उवाच—
एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तमः ।
इन्द्रप्रस्थं गतः श्रीमान् युयुधानादिभिर्वृतः ॥ १ ॥
पदरत्नावली
तत्तदधिकारिणां तत्तद्योग्यगुणोपसंहारार्थं भक्तवात्सल्यादिविशेषं कथयति कतिपयेष्वध्यायेषु । तत्रादौ हरेर्भक्तवात्सल्यं दर्शयितुमाह एकदेति ॥ एकदा कस्मिंश्चिदवसरे । प्रतीतान् शौर्यादिगुणेन प्रख्यातान् कोविदान् वा । भगवद्भक्त्याभरणेन भूषितान् वा । ‘प्रतीतो भूषितो ख्याते ज्ञाते प्रत्यर्थिते बुधे’ इति यादवः । ‘प्रतीतः प्रथिते ख्याते वित्तविज्ञानकोविदे’ इत्यमरः ॥ १ ॥
सत्यधर्मीया
सर्वदा भक्तपरवान् हरिरिति प्रतिपाद्यतेऽत्र । तत्रादौ पाण्डवानां नष्टोज्जीवदृष्टितुष्टिमानिव द्रष्टुमगमदिन्द्रप्रस्थमिति वक्ति ॥ एकदेति ॥ प्रतीतान् प्राग्लाक्षा-गृहदाहतो हता इति मतान् इदानीं च प्रख्यातिमतः सन्तीति प्रमितानिति यावत् । प्रतीतः शारदे ज्ञाते प्रतीतः ख्यातदृष्टयोः । वाच्यवत्स्यात्प्रतीतं तु प्रोषितेऽपि मृतेऽपि चेति विश्वः । प्रतीतो भूषिते ज्ञाने ख्याते प्रत्यर्थिते बुध इति यादवः । प्रतीतः प्रथितः ख्याते वित्तविज्ञानकोविदा इत्यमरः । युयुधानः सात्यकिरादिर्येषां तैर्युतः ॥ १ ॥
सुमनोरञ्जिनी
अधुना कालिंद्यादिपञ्चकन्यापाणिग्रहणप्रकारं प्रदर्शयत्यस्मिन्नध्याये । प्रतीतान् शौर्यादिगुणैः प्रख्यातान् । प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुता इत्यमरः ॥ १ ॥
दृष्ट्वा तमागतं पार्था मुकुन्दमखिलेश्वरम् ।
उत्तस्थुर्युगपद् प्राणाः प्राणं मुख्यमिवागतम् ॥ २ ॥
पदरत्नावली
मुकुन्दं मुक्तिप्रदम् । शरीरं प्रत्यागतं प्रविष्टं मुख्यप्राणं दृष्ट्वा चक्षुरादीन्द्रियाणि यथोत्तिष्ठन्ति ॥ २ ॥
सत्यधर्मीया
पार्थाः पृथासम्बन्धिनस्तत्पुत्रा इति यावत् । तमागतं मुकुन्द-मखिलेश्वरं दृष्ट्वा । तमागतमित्यखण्डं पदम् । तमाया गतं गतिर्येन स चन्द्रस्तद्वद्विद्यमानं युगपदेकदैव । प्राणा इन्द्रियाणि मुख्यप्राणमागतं शरीरान्तर्निविष्टं दृष्ट्वा यथोत्तिष्ठन्ति तथोत्तस्थुः । वीरा इति क्वाचित्के पाठे चेन्द्रियाणीति शेषः । यद्वा वीरा इति पाठेऽपि स एवार्थः । विविधा ईरा वीराः पञ्चप्राणा इति ॥ २ ॥
सुमनोरञ्जिनी
आगतं मुख्यं प्राणं दृष्ट्वा यथा अन्ये इन्द्रियदेवा उत्तिष्ठन्ति ॥२॥
परिष्वज्याच्युतं वीरा अङ्गसङ्गहतैनसः ।
सानुरागस्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः ॥ ३ ॥
पदरत्नावली
अच्युतस्याङ्गसङ्गेन ॥ ३–४ ॥
सत्यधर्मीया
अङ्गसङ्गेन हतमेनः पापं येषां ते तथा । वीराः पञ्चाप्यविशेषेणाच्युतं कृष्णं परिष्वज्यालिङ्ग्याच्युतं दृढं यथा तथेति वा । सानुरागस्मितमनुरागः स्नेहस्तद्धेतुकं यत्स्मितं तेन सहितं तद् वक्त्रं च वीक्ष्य मुदं ययुः ॥ ३ ॥
सुमनोरञ्जिनी
अच्युतस्याङ्गसङ्गेन हतैनसः हतपापाः ॥ ३ ॥
युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् ।
फाल्गुनं परिरभ्याथ यमाभ्यामभिवन्दितः ॥ ४ ॥
सत्यधर्मीया
बहुतिथं दर्शने सति परवशत आश्लेषमुक्त्वा क्रामिकमभिवन्दनमाह ॥ युधिष्ठिरस्येति ॥ युधिष्ठिरस्य धर्मस्य भीमस्य तथा प्रदर्शनमात्रं नाभिमर्शनम् । ‘शुद्धे भागवते धर्मे निरतो यद्वृकोदरः’ इत्यादेः । लोके लोकैरेवमनुष्ठेयमिति शिक्षणार्थमेवमपि कृतिः । फल्गुनमर्जुनं परिरभ्य । अथार्जुनाज्जैष्ठ्यात्स्नेहविशेषात्परिरभ्यास्थितो कृष्णोऽथा-नन्तरमभिवन्दितस्तेनार्जुनेनेति शेषः । यथोक्तं भारते वनपर्वणि । अर्जुनात्केशवो ज्येष्ठः षड्भिर्मासैर्महाभुज इति । यमाभ्यामभिवन्दितो नमस्कृतः ॥ ४ ॥
परमासन आसीनं कृष्णा कृष्णमनिन्दिता ।
नवोढा व्रीडिता किञ्चिच्छनैरेत्याभ्यवन्दत ॥ ५ ॥
पदरत्नावली
कृष्णा द्रौपदी ॥ ५–६ ॥
सत्यधर्मीया
परमासने आसीनं कृष्णम् । अनिन्दिता प्रपञ्चातीतपञ्चभर्तृमत्यप्य-परनारीवदनिन्दनार्हा । न केवलं किन्त्वहल्याद्रौपदीत्यादिना स्वस्मरणपातकनिपातहेतुरिति चानुसन्धातव्यम् । व्रीडिता तत्र हेतुर्नवोढेति । किञ्चिच्छनैरतिमन्दमेत्य प्राप्य अभ्यवन्दत
॥ ५ ॥
सुमनोरञ्जिनी
कृष्णा द्रौपदी । नवोढा नूतनं विवाहिता ॥ ५ ॥
तथैव सात्यकिः पार्थैः पूजितश्चाभिवन्दितः ।
निषसादासनेऽन्ये च पूजिताः पर्युपासते ॥ ६ ॥
सत्यधर्मीया
अभिवन्दितः कनिष्ठैरन्ये च सहागताः ॥ ६ ॥
पृथां समागम्य कृताभिवन्दनस्तयाऽतिहार्दार्द्रदृशाऽभिरम्भितः ।
आपृष्टवांस्तत्कुशलं सहस्नुषां पितृष्वसारं परिपृष्टबान्धवः ॥ ७ ॥
पदरत्नावली
तस्यै कृताभिवन्दनः । अभिरम्भित आलिङ्गितः परिपृष्टबान्धवस् तयेति शेषः ॥ ७ ॥
सत्यधर्मीया
कृतमभिवन्दनं येन सः । तया कुन्त्याऽतिहार्ददृशाऽतिहार्देन बहुस्नेहेन । प्रेमाना प्रियसौहार्दप्रेमस्नेह इत्यमरः । हृदयस्य कर्म । युवाद्यण् । हृदयस्य हृल्लेखेति हृदादेशः । आर्द्रा क्लिन्ना च सा हृच्च तया करणेन । बहुव्रीहिणा सामानाधिकरण्यं वा । अभिरम्भितः । अत्र परिरम्भणमनुक्षणं ज्ञेयम् । द्वितीयपक्षे तयालिङ्गित इत्यर्थः । परिपृष्टबान्धवो माधवस्तया स्वयं सहस्नुषां स्नुषया सहितां पितृष्वसारं वसुदेवभगिनीम् । तत्स्वज्ञातमेव कुशलं परिपृष्टवान् । पितृष्वसारं पितृषु धृतराष्ट्रभीष्मादिषु । असारम् अन्याय्यं च परिपृष्टवानित्यप्यर्थः ॥ ७ ॥
सुमनोरञ्जिनी
हार्देन स्नेहेन आर्द्रे सजले दृशौ यस्याः सा । अभिरम्भित आलिङ्गितः । यद्वा तया कुन्त्या कर्त्र्या । हार्दार्द्रदृशा करणेन । आलिङ्गितो ऽवलोकित इति यावत् । तया परिपृष्टा बान्धवा यस्य सः । तस्याः कुशलं क्षेमम् । आपृष्टवान्
॥ ७ ॥
तमाह प्रेमवैक्लव्यरुद्धकण्ठाश्रुलोचना ।
स्मरन्ती तान् बहून् क्लेशान् क्लेशापायात्मदर्शनम् ॥ ८ ॥
पदरत्नावली
क्लेशापायात्मदर्शनं क्लेशनाशकरस्वरूपदर्शनम् । जतुगृहदाहादावनुभूतां-स्तांश्च बहून् क्लेशान् स्मरन्ती तं कृष्णमाहेत्यन्वयः ॥ ८ ॥
सत्यधर्मीया
प्रेम्णा दर्शनजेन निमित्तेन यद्वैक्लव्यं विव्हलता तेन रुद्धः सम्भाषणा-द्यननुकूलः कण्ठो यस्याः सा च साश्रूणि लोचनयोर्यस्याः सा च तान् । जतुगेहदाहादि-प्रसक्तिप्रसक्तान् क्लेशान् स्मरन्ती कुन्ती । क्लेशानामपायो नाशो येन तद्दर्शनं यस्य स तं कृष्णं प्रति प्राह ॥ ८ ॥
सुमनोरञ्जिनी
प्रेम्णा वैक्लव्यं तेन रुद्धः कण्ठो यस्याः । तान् पूर्वानुभूतान् । क्लेशानामपायो येन तथाविधमात्मदर्शनं यस्य । भजतां क्लेशापाये तत्समये तदर्थं वा आत्मानं दर्शयतीति वा । तं कृष्णम् ॥ ८ ॥
तदैव कुशलं नोऽभूद् यत् सनाथाः कृता वयम् ।
ज्ञातुं नः स्मरतां कृष्ण भ्राता मे प्रेषितस्त्वया ॥ ९ ॥
पदरत्नावली
किम् ? अत्राह तदैवेति । हे कृष्ण । यद् यदा स्मरतां नो वृत्तं ज्ञातुं त्वया यदा मे भ्राताऽक्रूरः प्रेषितस् तदैवास्माकं कुशलममूदित्यन्वयः । कथमेतत् ? अत्राह– यदिति ॥ यदित्युत्तरत्रापि सम्बध्यते हेतुत्वेन । अस्मत्कुशलं स्मरता त्वया सनाथाः स्वामिवन्तः कृता इति यत् पाण्डवानामुपद्रवो न कर्तव्यः यतस्ते कृष्णनाथा अस्मान् घ्नन्तीति ॥ ९ ॥
सत्यधर्मीया
यदा त्वां स्मरतां नः कुशलं ज्ञातुं त्वया मे भ्राताऽक्रूरः प्रेषितस्तदैव कुशलमभूत् । यद्यतो विचारणात् सनाथा वयं कृताः । यद्यदा च वयं सनाथाः कृतास्तदैव कुशलमभूदित्यन्वयो वा ॥ ९ ॥
सुमनोरञ्जिनी
हे कृष्ण यद् यदा स्मरतां नः । वृत्तं ज्ञातुं मे भ्राता अक्रूर-स्त्वया प्रेषितस्तदैव नोऽस्माकं कुशलम् । अभूत् । कुतः यस्माद् वयं सनाथाः कृताः । पाण्डवाः कृष्णनाथा इति ख्यापिता इत्यर्थः । त्वन्नाथानामस्माकं कथमकुशलं भूयादिति भावः ॥ ९ ॥
पाञ्चालेषु स्थितानस्मान् स्वयंवरकृते यदा ।
अनुस्मृत्यागतो यस्त्वं तेन स्मासं सुखोषिता ॥ १० ॥
पदरत्नावली
किञ्च यदा स्वयंवरकृते पाञ्चालेषु स्थितानस्माननुस्मृत्य यस्त्वमागतस् तदा तेन त्वया त्वद्गुणानुसंस्मृत्या अहं सुखोषिता आसमित्यन्वयः ॥ १० ॥
इत्युक्तायां तदा कुन्त्यां प्राह योगेश्वरः स्वयम् ।
पाञ्चालेषु स्थितानेत्य सुतांस्ते छद्मरूपिणः ॥ ११ ॥
कुम्भकारस्य शालायामुषितान् सह भार्यया ।
दृष्ट्वाऽगतोऽहं दिवसे तस्मिन्नेवाविलम्बितः ॥ १२ ॥
पदरत्नावली
इदानीमागमनविलम्बः किमिति कृत इति कुन्त्या हार्दशङ्कां परिहरन्नाह– इतीति ॥ ११–१२ ॥
सत्यधर्मीया
किञ्च यदा स्वयंवरकृते तदर्थं पाञ्चालेषु तद्देशेषु स्थितानस्मान्यस्त्व-मनुसृत्यागतस्तेनाहं तत्पश्चात् सुखोषिता आसं स्म । त्वदाग मनं स्मृत्वेति वा । इत्येवं प्रकारेणोक्तम् । भावे क्तः । उक्तिर्यस्याः सा तस्यां कुन्त्यां सत्याम् । धातोरर्थांतरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रियेत्युक्तेः कर्मणो वाक्य-रूपस्य प्रसिद्धेरविवक्षणाद्वाऽकर्मकत्वाद्गत्यर्थेति कर्तरि क्तो वा । उक्तायामुक्तवत्यां योगेश्वरः स्वयं प्राह । इयान्विलम्बः कुतोऽवलम्बितो दीनबन्धुना इति अम्ब न वद । किञ्चिद-त्यावश्यकं प्रयोजनमवर्तिष्ठ तन्निवृत्य तत्क्षण एव त्वन्निरीक्षणायायात इति किञ्चित्स्मारय-न्ननुभूतानुवादेन समाधत्ते ॥ पाञ्चालेष्विति ॥ ते सुतान् छद्मना । रूपं विप्राणामेषा-मस्तीति ते तथा तान् भार्यया द्रौपद्या सह कुम्भकारस्य शालायामुषितान्दृष्ट्वा तस्मिन्नेव दिवसेऽविलम्बितस्त्वरावानहं गतः ॥ १०–१२ ॥
सुमनोरञ्जिनी
किं च स्वयंवरकृते । पाञ्चालेषु स्थितान् अस्माननुस्मृत्य यदा त्वमागतस् तेन कारणेन सुखोषिता आसं स्मेत्यन्वयः ॥ तदारभ्य एतावत्पर्यन्तं त्वद्दर्शन-मस्माकं नास्तीति कुन्त्या हार्दं ज्ञात्वा तत्र निमित्तमाह ॥ इत्युक्तायामिति ॥१०–१२॥
निहन्तुं शतधन्वानं सत्यभामापितुर्द्रुहम् ।
शतधन्वनि दुर्बुद्धौ हते सीरधरोऽग्रजः ॥ १३ ॥
पदरत्नावली
सीरधरो हलधरः बलभद्र इत्यर्थः ॥ १३–१४ ॥
सत्यधर्मीया
इयत्त्वराकारणं किमित्यत आह । सत्यभामापितुस्तस्मै द्रुह्यतीति ध्रुक् तं शतधन्वानं निहन्तुं शतधन्वनि दुर्बुद्धौ हते सति । धरतीति धरः सीरस्य धरः सीरधरः । सीरस्तिग्मकरे हल इति विश्वः । हलधरोऽग्रजः ॥ १३ ॥
सुमनोरञ्जिनी
शीरधरः हलधरः ॥ १३ ॥
कुपितो मामनादृत्य विदेहान् विमना ययौ ।
एतावन्तमहं कालं तदागमनकाङ्क्षया ॥ १४ ॥
सत्यधर्मीया
कुपितो मामनादृत्य विमनाः सन् विदेहान् देशान् ययौ । कुतो विमनस्कतेत्यतोऽप्याह । दुर्बुद्धौ मयि मणिस्तेयविषयिण्यां विपरीतमतौ प्रादुर्भूतायामिति । एतावन्तं महाकालं पञ्चसंवत्सरात्मकं तदागमनकाङ्क्षया । तस्य बलस्य ॥ १४ ॥
पुर एवावसं क्वापि नागच्छं कार्ययन्त्रितः ।
इत्येवं वादिनं कुन्ती प्राह स्नेहपरिप्लुता ॥ १५ ॥
पदरत्नावली
कार्ययन्त्रितः कार्यवशः । ईश्वरस्य तवेदं वचनं लोकचेष्टानुसारि न तु तथ्यमिति भावेन प्रतिवक्ति– इतीति ॥ १५ ॥
सत्यधर्मीया
पुर एव द्वारकायामेव । पुर एव सर्वेषां पुरोऽग्र एवापवादतोदनार्थ-मवसमिति वा । कार्ययंत्रितः कार्याधीनः क्वापि नागच्छम् । एवं वादिनं स्नेहपरिप्लुता तद्रसार्द्रा कुन्तीति प्राह । इति वादिनमेवं प्राहेति वा ॥ १५ ॥
सुमनोरञ्जिनी
कार्ययन्त्रितः कार्याधीनः ॥ १५ ॥
**न तेऽस्ति स्वः पर इति विश्वस्य सुहृदात्मनः । **
तथापि स्मरतां सर्वान् क्लेशान् हंसि हृदि स्थितः ॥ १६ ॥
पदरत्नावली
स्वः स्वकीयः परः परकीयः शत्रुपक्षभवः । शत्रुमित्रविभागाभावे जनार्दनो मुरारिर्मधुसूदनः पार्थसारथिरित्यादीनि नामानि विक्रमनिमित्तानि कथम् ? अत्राह– तथापीति ॥ १६ ॥
सत्यधर्मीया
शतधन्वनः परत्वं सत्यभामादीनां स्वकीयत्वं च तत्कर्मानुरोधेन न तु तव विषमसमत्वादितः । किञ्च जनानां स्मृतित उद्धर्तुमियं लीलेत्यालपति ॥ न त इति । विश्वस्य जगतः सुहृदात्मनोऽनिमित्तोपकारिस्वामिनस्ते स्वः पर इति योग्यतां विना नास्ति । विश्वस्य विश्वासं कृत्वा नते नमस्कर्तरि सुहृच्छोभनमनस्कः स्वात्मनः स्वामिनस्ते स्वः स्वकीयस्तदाऽस्ति । अस्ति स्वं शाश्वतं धनं यस्य सोऽस्तिस्वः । यस्यासुहृदात्मनः सुहृद्भिन्नजीवस्य विश्वसि जगदात्मकवदाचरसि स पर इति वा योजना । तथाऽपि तव वैषम्याद्यभावेऽपि स्मरतां स्मरन्त्यश्च स्मरन्तश्च तेषां स्मरताम् । मधुमथन कंसहिंस-केत्यादिनामानि । हृदि स्थितः सर्वान्क्लेशान्हंसि ॥ १६ ॥
सुमनोरञ्जिनी
परमार्थबुध्या स्तौति ॥ न त इति ॥ स्वः स्वकीयः । परः शत्रुर् इति विभागस् ते नास्ति । कुतः । सर्वेषामनिमित्तसुहृत्त्वादित्याह ॥ विश्वस्येति ॥ यदि विश्वसुहृत् तर्ह्ययोग्यानां क्लेशो न स्यादित्यतः कल्पवृक्ष इव सेवानुरूपफल इत्याह ॥ तथापीति ॥ स्मरताम् अनन्यभावेन स्मरताम् ॥ १६ ॥
इति वै वार्षिकान् मासान् राज्ञा सोऽभ्यर्चितः सुखम् ।
जनयन् नयनानन्दमिन्द्रप्रस्थौकसां विभुः ॥ १७ ॥
पदरत्नावली
इति सल्लापे । वार्षिकान् वर्षाकालसम्बन्धिनः । राज्ञा अभ्यर्चितः, उवासेति शेषः ॥ १७–१८ ॥
सत्यधर्मीया
वार्षिकान्मासांश्चतुरो राज्ञा धर्मेणाभ्यर्चितः सुसुखं यथा तथा इन्द्रप्रस्थौकसां नयनानन्दं जनयन् इति सङ्कथयन्कथा उवासेति शेषः ॥ १७ ॥
सुमनोरञ्जिनी
इति स्तुतः । वार्षिकान् वर्षाकालसम्बन्धिनः । परमानन्दं जनयन् । उवासेति शेषः ॥ १७ ॥
एकदा रथमारुह्य विजयो वानरध्वजम् ।
गाण्डीवं धनुरादाय तूणी चाक्षयसायकौ ॥ १८ ॥
सत्यधर्मीया
विजयोऽर्जुनो वानरध्वजं हनुमत्केतुं रथमारुह्य गाण्डीवं धनुरादाय तथाऽक्षयसायकौ अक्षयाः सायका बाणा ययोस्ताविषुधी चादाय ॥ १८ ॥
सुमनोरञ्जिनी
विजयो ऽर्जुनः ॥ १८ ॥
साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं वनम् ।
बहुव्यालमृगाकीर्णं प्राविशत् परवीरहा ॥ १९ ॥
पदरत्नावली
विपिनं गम्भीरम् ॥ १९ ॥
सत्यधर्मीया — कृष्णेन साकं सह सन्नद्धो विहर्तुं बहुव्यालाः सर्पा मृगाश्च तैराकीर्णं व्याप्तमिति । विपिनं कम्पनं कम्पकम् । टु वेपृ कम्पने इति वेः प्ररूपत्वपक्षे वेपितुह्यो-र्ह्रस्वश्चेति इनन् । विशेषेण पियन्त्यत्रेति भानुः । वनमिति वनं सम्भजनीयं शूरैः । विपिनं काननमिति वा । परवीरहा प्राविशत् ॥ १९ ॥
सुमनोरञ्जिनी
गहनं गम्भीरम् । विपिनमिति पाठेऽप्ययमेवार्थः ॥ १९ ॥
तत्राविध्यच्छरैर्व्याघ्रान् सूकरान् महिषान् रुरून् ।
शरभान् गवयान् खड्गान् हरिणान् शशशल्यकान् ॥ २० ॥
पदरत्नावली
महिषान् वनमहिषान्, रुरून् कृष्णमृगान् शरभान् अष्टपदान् । खड्गान् मृगविशेषान् । हरिणान् सामान्यमृगान् । शल्यकान् शललान् ॥ २० ॥
सत्यधर्मीया
आविध्यद्विव्याध व्याघ्रादयोऽष्टमे स्पष्टाः । रुरून्सारङ्गान् सारङ्गः कुञ्जरः ख्यात इत्यनेकार्थध्वनिपदमञ्जरी । सारङ्गा वनगजा हरिणाः कृष्णसारा अतो न पुनरुक्तिः ॥ २० ॥
तान् निन्युः किङ्करा राज्ञे मेध्यान् पर्वण्युपागते ।
तृट्परीतः परिश्रान्तो बीभत्सुर्यमुनामगात् ॥ २१ ॥
पदरत्नावली
राज्ञे युधिष्ठिराय । पर्वणि श्राद्धोचिते यजनकाले वा ॥ २१ ॥
सत्यधर्मीया
मेध्यान्पवित्रान् पर्वणि श्राद्धादिकर्मोचिते कालविशेष उपागते सति । तृषा परीत इति श्रान्तो बीभत्सुरर्जुनो यमुनामगात् ॥ २१ ॥
सुमनोरञ्जिनी
राज्ञे युधिष्ठिराय । पर्वणि कर्मकाले । मेध्यान् कर्मार्हान् बीभत्सुर् अर्जुनः ॥ २१ ॥
तत्रोपस्पृश्य विशदं पीत्वा वारि महारथौ ।
कृष्णौ ददर्शतुः कन्यां चरन्तीं चारुदर्शनाम् ॥ २२ ॥
पदरत्नावली
कृष्णौ यादवेन्द्रार्जुनौ ॥ २२ ॥
सत्यधर्मीया
उपस्पृश्यादावाचम्य मृष्टस्य मणेरिन्द्रनीलस्य प्रभेव प्रभा यस्य तज्जलमिति शेषः । विशदं यथेच्छं बहुलं पीत्वा विशदं क्षीरमधुरसमरसमिति तद्वद्विद्यमानं वा । विशदं क्षीरमाधुर्यमिति सुधाभिधानात् । यथेच्छादिपदं विहायैतत्स्थापनं न स्वतन्त्रे-च्छस्येति न्यायतः किन्त्वमुमप्यर्थं सूचयितुमिति मन्तव्यम् । कृष्णौ वासुदेवार्जुनौ चारु-दर्शनां तत्तीरे चरन्तीं कन्यां ददृशतुः ॥ २२ ॥
सुमनोरञ्जिनी
तत्र नद्याम् । उपस्पृश्य आचम्य । कृष्णौ गोविन्दार्जुनौ ॥२२॥
तामासाद्य वरारोहां सुदतीं रुचिराननाम् ।
पप्रच्छ प्रेषितः सख्या फल्गुनः प्रमदोत्तमाम् ॥ २३ ॥
पदरत्नावली
सख्या कृष्णेन ॥ २३ ॥
सत्यधर्मीया
वरारोहामुत्तङ्गोत्सङ्गां सुदतीं शोभनरदनाम् । सख्या कृष्णेन फल्गुनोऽर्जुनः । फल्गु यथा तथा विचार्य नः कथयेति सख्या प्रेषित इत्यप्यन्वयः ॥२३॥
सुमनोरञ्जिनी — सख्या कृष्णेन ॥ २३ ॥
**का त्वं कस्यासि सुश्रोणि कुतो वा किं चिकीर्षसि । **
मन्ये त्वां पतिमिच्छन्तीं कन्यां कथय शोभने ॥ २४ ॥
पदरत्नावली
कन्यां दीप्तामुत्पन्नरजसम् अत एव पतिं कामयमानाम् । कन दीप्ताविति धातु । ‘अनवाप्तपतिः कन्या जातवीर्या वरार्थिनी’ इत्युत्पलमाला ॥ २४ ॥
सत्यधर्मीया
कस्यासि सुता कुतः कारणादसि किं कर्तुमिच्छसि त्वां पतिमिच्छन्तीं कन्यां मन्ये । अनवाप्तपतिः कन्या जातवीर्या वरार्थिनीत्युत्पलमाला ॥ २४ ॥
सुमनोरञ्जिनी
कन्यां कन दीप्तावित्यतो दीप्यमानाम् । जातरजस्काम् । अत एव पतिं कामयमानाम् । अनवाप्तपतिः कन्या जातवीर्या वरार्थिनीत्युत्पलमालेति पदरत्नवल्याम्
॥ २४ ॥
कालिन्द्युवाच—
अहं देवस्य सवितुर्दुहिता पतिमिच्छती ।
विष्णुं वरेण्यं वरदं तपः परममास्थिता ॥ २५ ॥
पदरत्नावली
वरेण्यं प्रार्थनीयम् ॥ २५ ॥
सत्यधर्मीया
आदावन्ववायो बोधनीय इति द्वितीयस्योत्तरमीरयति ॥ अहमिति ॥ सवितुर्देवस्य । सूर्यादिपदमनिबन्धानो निबन्धानश्च सवितृपदं तस्याः पालकपितृत्वनिवारण-मुखेन साक्षात्पितृत्वं बोधयामासेति ज्ञेयम् । अहं दुहिता पुत्री । कुलसमीचीनतां भाविकार्योपयुक्तामुक्त्वा मन्ये त्वामित्यर्जुन त्वन्मननं मम मनोनुकूलमित्यनुमत्या वक्ति ॥ पतिमिच्छन्तीति ॥ वरेण्यं वरणीयं विष्णुं पतिमिच्छन्ती परमं तप आस्थिता ॥ २५ ॥
सुमनोरञ्जिनी
वरेण्यं भजनीयम् । विष्णुं पतिमिच्छन्तीम् ॥ २५ ॥
नान्यं पतिं वृणे वीर तमृते श्रीनिकेतनम् ।
तुष्यतां मे स भगवान् मुकुन्दोऽनाथवत्सलः ॥ २६ ॥
पदरत्नावली
अनाथवत्सलः ॥ २६–२७ ॥
सत्यधर्मीया
तं श्रीनिकेतनमृते हे वीर अन्यं पतिं न वृणे न कामये । अनाथ-वत्सलो भगवान् स मुकुन्दस्तुष्यताम् ॥ २६ ॥
कालिन्दीति समाख्याता वसामि यमुनाजले ।
निर्मिते भवने पित्रा यावदच्युतदर्शनम् ॥ २७ ॥
सत्यधर्मीया
का त्वमित्यस्य किन्नाम्नीत्यर्थ इति मत्वा तत्स्वनामाह ॥ कालिन्दीतीति ॥ पित्रा निर्मिते भवने यावद्यदाऽच्युतदर्शनं भवेदिति वसामि ॥ २७ ॥
सुमनोरञ्जिनी
कालिन्दीति नाम्ना समाख्याता । इयं सूर्यपुत्रीत्वात् कालिन्दीशब्द-वाच्यत्वाच्च यमुनेति न भ्रमितव्यम् । किं तु यमुनास्वसा इयमन्या कालिन्दी । तदुक्तं भारततात्पर्ये ‘सोऽन्यां कालिन्दीं ददृशे तत्स्वसारं सा सूर्यपुत्री यमुनानुजाता’ इति । पित्रा सूर्येण ॥ २७ ॥
तथाऽवदद् गुडाकेशो वासुदेवाय सोऽपि ताम् ।
रथमारोप्य तद्विद्वान् धर्मराजमुपागमत् ॥ २८ ॥
पदरत्नावली
गुडाकेशः घनकेशः, जितनिद्रो वा । यथा कालिन्दी ऊचे तथा सोऽपि वासुदेवाय ॥ २८–३४ ॥
सत्यधर्मीया
यथा साऽवदत्तथैव गुडाकेशो विद्रावितनिद्रो गुडवत्सम्यक् स्निग्धकेश इति वाऽर्जुनो वासुदेवायावदत् । सोऽपि तां कालिन्दीं तद्विद्वान्स्वाप्तिहेतुतपश्चरणं जानन् रथमारोप्य धर्मराजमुपागमत् । पुरं कुन्तीमित्याद्यवदन् धर्मराजमिति वदन् शुकः कालिन्द्या यमात्मकधर्मराजस्य चानुबन्धं स्मारयामासेति तात्पर्यमवसेयम् ॥ तद्भगिनी ह्येषेति ॥२८॥
सुमनोरञ्जिनी
कालिन्दी यथाऽवदत् तथा गुडाकेशोऽर्जुनः वासुदेवायावदत् । सोऽपि वासुदेवोऽपि । पूर्वमेव तद्विद्वान् तस्या अभिप्रायं विद्वान् ॥ २८ ॥
वसंस्तत्र हृषीकेशः शक्रप्रस्थे यथासुखम् ।
विश्वकर्माणमाहूय शिल्पविद्याविशारदम् ॥ २९ ॥
**सत्यधर्मीया **
तत्र शक्रप्रस्थे ॥ २९ ॥
अद्भुतं कारयामास नगरं धर्मसूनवे ।
सप्रासादपुरद्वारगोपुराट्टालतोरणम् ॥ ३० ॥
सत्यधर्मीया
धर्मसूनवे तदर्थम् ॥ ३० ॥
पुरन्दरपुरप्रख्यं स्वानां प्रियचिकीर्षया ।
अथ पार्थैरनुज्ञातः सुहृद्भिः स्वजनान्वितः ॥ ३१ ॥
आययौ द्वारकां भूयः सात्यकिप्रमुखैर्वृतः ।
अथोपयेमे कालिन्दीं पुण्ये नक्षत्र ऊर्जिते ॥ ३२ ॥
सत्यधर्मीया
पुरन्दरपुरस्यामरावत्याः प्रख्या शोभा यस्य तत् । स्वानां द्वारका-गाराणाम् । सुहृद्भिः पार्थैरित्येकाधिकरण्यम् । स्वजनाश्च कालिन्द्याद्याः सात्यकिप्रमुखैरिति तत्पृथग्वचनात् । पुण्ये ऊर्जिते उच्चस्थाने स्थितगुर्वादिग्रहे ऊर्जिते शुभनक्षत्रे उपयेमे परिणिनाय ॥ ३१,३२ ॥
रूपयौवनसम्पन्नां मनोनयननन्दिनीम् ।
वितन्वन् परमानन्दं स्वानां परममङ्गलम् ॥ ३३ ॥
सत्यधर्मीया
मनोनयननन्दिनीमित्यनेन स्वपितृस्थानत्वान्नयननन्दनं युक्ततरमिति ध्वन्यते । ध्वन्यते च स्वभर्तृमूलपुरुषस्थानत्वान्मनोनन्दनमिति । उभयकुलनन्दनीति परमार्थः । शशिसूर्यनेत्रम् । चन्द्रमा मनसो जात इत्यादेर्मनः सोम उदाहृत इत्यादेश्च । स्वानां परममङ्गलं तथा परमानन्दं च वितन्वन् विस्तारयन्नुपयेम इत्यन्वयः ॥ ३३ ॥
विन्दानुविन्दावावन्त्यौ दुर्योधनवशानुगौ ।
स्वयंवरे स्वभगिनीं कृष्णकामां न्यषेधताम् ॥ ३४ ॥
सत्यधर्मीया
आवन्त्याववन्तिभवौ न्यषेधतां निषिषिधतुः ॥ ३४ ॥
सुमनोरञ्जिनी
अथ मित्रविन्दाविवाहकथामाह ॥ विन्देति ॥ आवन्त्यौ अवन्तीपुर्या राजानौ ॥ ३४ ॥
राजाधिदेव्यास्तनयां मित्रविन्दां पितृष्वसुः ।
प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम् ॥ ३५ ॥
पदरत्नावली
राजाधिदेव्या राजाधिदेवीतिनामधेयायाः ॥ ३५ ॥
सत्यधर्मीया
राजाधिदेव्या वसुदेवभगिन्यास्तन्नाम्य्ना राज्ञां प्रपश्यतां ताननादृत्य प्रसह्य हृतवान् । पञ्चमी मित्रविन्दा चेयम् ॥ ३५ ॥
सुमनोरञ्जिनी
कृष्णः पितृष्वसुः राजाधिदेव्यास् तन्नाम््नयास् तनयां नामतो मित्र
विन्दाम् ॥ ३५ ॥
नग्नजिन्नाम कौसल्य आसीद् राजाऽतिधार्मिकः ।
तस्य सत्याऽभवत् कन्या राजन् नीलेति चाह्वया ॥ ३६ ॥
पदरत्नावली
नीलेति आह्वयो नाम यस्याः सा नीलेत्याह्वया ‘आ प्रगृह्यः स्मृतौ वाक्येप्यास्तु सन्तापकोपयोः’ इति यादवः ॥ ३६ ॥
सत्यधर्मीया
नाम प्रसिद्धः । सत्या तस्या नीलेत्याह्वया नीलेत्याह्वयो यस्याः सा । विवक्षाभावान्न सन्धिः । नीलेति विश्रुतेति पाठो ललितः ॥ ३६ ॥
सुमनोरञ्जिनी
षष्टं नीलाविवाहमाह ॥ नग्नजिदिति ॥ कौसल्यः कोसलदेशाधिप-स्तस्य सत्या नाम कन्या अभवन् नीलेति । आहूयत इति आह्वया । सन्ध्यभावश्छान्दसः
॥ ३६ ॥
तां न शेकुर्नृपा वोढुमजित्वा सप्तगोवृषान् ।
तीक्ष्णशृङ्गान् सुदुर्द्धर्षान् वीरगन्धान् महाघनान् ॥ ३७ ॥
पदरत्नावली
वीरान् शूरान् गन्धयन्तीति वीरगन्धास्तान् । ‘गन्धो लेशे च हिंसायां घ्राणग्राहे प्रकीर्तितः’ इति । वीरस्य राहोर्गन्ध इव गन्धो येषां ते तथा तान्, ‘वीरो राहौ हरौ शक्रे’ इति वा । महान्तो धना मेघा यथा नीलास्ते तथा तान् । यद्वा महाकठिनान् महामुद्गरानिव स्थितान् वा । ‘घनाः खलीनसम्पातमेघकाठिन्यमुद्गराः’ इति ॥ ३७ ॥
सत्यधर्मीया
वीरगन्धान् वीरान् गन्धयन्ति हिंसयन्ति ते तथा तान् । गन्धो लेशे च हिंसायां घ्राणग्राहे प्रकीर्तित इति यादवः । महाघनानतिदृढान् । नैल्येन मेघसमान् वा
॥ ३७ ॥
सुमनोरञ्जिनी
वोढुं परिणेतुम् । वीरगन्धान् वीरा इति गन्धो गर्वो येषाम् । वीरान् गन्धयन्ति हिंसयन्तीति वा । गन्धो गन्धक आमोदे सम्बन्धे लेशगन्धयोरिति विश्वः । गन्धो लेशे च हिंसायां घ्राणग्राहे प्रकीर्तित इति यादवः । महाघनान् अतीव स्थूलान् । दृढान् दीर्घानिति वा । घनः सान्द्रे दृढे दीर्घ इति विश्वः ॥ ३७ ॥
तां श्रुत्वा वृषजिल्लभ्यां भगवान् सात्वतां पतिः ।
जगाम कौसल्यपुरं सैन्येन महता वृतः ॥ ३८ ॥
पदरत्नावली
वृषजिल्लभ्यां लब्धुं योग्याम् । सैन्येन सेनासमूहेन ॥ ३८ ॥
सत्यधर्मीया
वृषाञ्जयतीति वृषजित्तेन लभ्याम् ॥ ३८ ॥
सुमनोरञ्जिनी
वृषजिल्लभ्याम् । यः सप्त वृषान् जयति तेन लभ्यां श्रुत्वा ॥३८॥
स कौसलपतिः प्रीतः प्रत्युत्थानासनादिभिः ।
अर्हणेनापि गुरुणा पूजयन् प्रत्यनन्दत ॥ ३९ ॥
पदरत्नावली
गुरूणा बहुमानेन महिष्ठेन ॥ ३९ ॥
सत्यधर्मीया
गुरुणा महताऽर्हणेन पूजासाधनेन गुुरुणा पुरोधसा सहेति वा
॥ ३९ ॥
सुमनोरञ्जिनी
गुरुणा महता । अर्हणेन पूजासाधनेन ॥ ३९ ॥
वरं विलोक्याभिमतं समागतं नरेन्द्रकन्या चकमे रमापतिम् ।
**भूयादयं मे पतिराशिषां पतिः करोतु सत्यो यदि मे धृतव्रतः ॥ ४० **
पदरत्नावली
अभिमतमभीष्टं वरं वरणयोग्यरूपम् । ‘वरो ना रूपजामात्रोर्देवादे-रीप्सितवृतौ’ इति । आशिषां भार्याभिलाषाणां पतिः साधकः । ‘आशीरुरगदंष्ट्रायां शुभ-वाक्याभिलाषयोः’ । यदि मे मया व्रतः व्रतसमूहो धृतो ऽनुपयुक्तत्वेन विधिवद् भवत्कृत-स्तर्हि स सत्यः सच्चिदानन्दात्मा श्रीकृष्णः करोतु मम पाणिग्रहणं करोत्विति शेषः । व्रतानां समूह इत्यस्मिन्नर्थे अच् प्रत्ययः । यदि सत्यो धृतो व्रतोऽस्ति तर्हि स व्रतः स्वफलत्वेन कृष्णं नः पतिं करोत्विति वा ॥ ४० ॥
दुर्घटभावदीपिका
नरेन्द्रकन्या वरं वरणीयं त्रिलोक्याभिमतं त्रिलोक्या लोकत्रयस्य आ सम्यगभिमतं रमापतिं रमारमणहेतुसमागतं कृष्णं चकमे । कथं चकमे इत्यत आह– भूयादिति ॥ आशिषां पतिरयं कृष्णो मे पतिर्भूयात् । एतदेव विवृणोति– करोत्विति ॥ सत्यो निर्दुष्टसर्वज्ञानः कृष्णो यदि धृतव्रतो धृतं स्वीकृतं व्रतं मत्कर्तृकव्रतं येन स धृतव्रतः स्यात्तर्हि मे पाणिग्रहणं करोत्विति ॥ ४० ॥
सत्यधर्मीया
त्रिलोक्याभिमतं समागतं रमापतिं नरेंद्रकन्या चकमे । यदि मे मया धृतव्रतः सत्यस्तर्हि स व्रत एव तथा करोतु । यथाऽऽशिषां पतिर्मे पतिर्भूयात् ॥ ४० ॥
सुमनोरञ्जिनी
अभिमतं स्वाभिमतम् । वरं वरणीयं विलोक्य । आशिषाम् अभीष्टानां पतिः पातुं समर्थः मे मया । धृतो व्रतः सत्यः यथार्थस् तर्हि सः मे अभिमतं करोत्विति सम्बन्धः ॥ ४० ॥
अर्चितं पुनरित्याह नारायण जगत्पते ।
आत्मना देवपूर्णस्य करवाणि किमल्पकः ॥ ४१ ॥
पदरत्नावली
आत्मना स्वलाभेन ॥ ४१ ॥
दुर्घटभावदीपिका
अर्चितं पुनरित्याहेत्यात्रार्चितं कृष्णं प्रतीति वक्ष्यमाणप्रकारेण पुनराहेत्युक्तत्वादर्चनात्पूर्वमपि किञ्चिदुक्तमिति ज्ञातव्यम् । एतेन पुनःशब्दो व्यर्थ इति चोद्यस्यानवकाशः । अर्चनात्पूर्वमपि किञ्चिदुक्तमिति सूचनार्थं पुनरुक्तमित्यङ्गीकारात् ॥४१॥
सत्यधर्मीया
हे देव । आत्मना पूर्णस्याल्पकोऽहं किं करवाणि । अल्पकोऽति-नीचस्त्वयि मयीतिदयां कलयति सति अहमल्पकः किम् । न । पूर्णस्याप्यात्मना देहेन करवाणि नमनं वेति शेषः । अर्चितमिति वाऽन्वेति । आत्मानन्देन पूर्णस्येति पाठ आनन्ददः ॥ ४१ ॥
सुमनोरञ्जिनी
अर्चितं कृष्णं प्रति नग्नजित् । इति वक्ष्यमाणप्रकारेणाह । आत्मना स्वलाभेनैव पूर्णस्य ॥ ४१ ॥
यत्पादपङ्कजरजः शिरसा बिभर्ति श्रीरब्जजश्च गिरिशः सहलोकपालैः ।
लीलातनुः स्वकृतसेतुपरीप्सया यः काले दधत् स भगवान् स्वकृतेन तुष्येत् ॥
पदरत्नावली
स्वकृतसेतुपरीप्सया स्वकल्पितवर्णाश्रमलक्षणसेतुपालनेच्छया मयि स्थितः स्वेनैव कृतेन कर्मणा ॥ ४२–४३ ॥
दुर्घटभावदीपिका
भगवतः पूज्यत्वे लक्ष्म्यादीनामाचारोऽस्तीत्यत्रोच्यते । श्रीरब्जजो लोकपालैः सह गिरिशश्च यत्पादपङ्कजरजः शिरसा बिभर्ति यश्च भगवान्काले धर्मसेतुविघातकाले स्वकृतसेतुपरीप्सया स्वकृतपूजारूपधर्मसेतुपरिपालनेच्छया लीलातनू रामकृष्णादिलीलातनुरदधद्दधार । उपलक्षणमेतत् । लक्ष्मीब्रह्मादिभिः कृतां रामकृष्णादिरूपाणां पूजां च स्वीकृतवानित्यपि द्रष्टव्यम् । स भगवान्स्वकृतेन श्रीब्रह्मविष्णुस्थितेन स्वेन कृतेन पूजारूपकर्मणा तुष्येत्तुष्टो भवतीति । लीलातनु-रित्यनेन न केवलं भगवान्मूलरूपेण लक्ष्म्यादिभिः पूज्यः किन्तु पूजार्थमेव रामकृष्णादिरूपाणि गृहीत्वा तैरपि लक्ष्म्यादिभिः पूज्य इत्युक्तं भवति । एतेन पूज्यताप्रसङ्गे भगवदवतारकथनमसङ्गतमिति दूषणं परिहृतम् । स्वकृतेनेत्यनेन पूजारूपकर्मण्यपि भगवानेव स्वतन्त्र इत्युक्तं भवति ॥४२॥
सत्यधर्मीया
इति वैभववतो भवतोऽत्रागमनमनुग्रहत एव न तु वनिताकामनयेति नग्नजिदानन्दमग्नः प्राह ॥ यदिति ॥ यस्य पादपङ्कजे तयो रजः परागं श्रीः शिरसा बिभर्ति । अब्जजो ब्रह्मा च गिरिशो लोकपालैः सह बिभर्ति । स्वकृतः सेतुर्मयादा तस्यो-च्छेदे दैतेयैः कृते तत्परीप्सया तद्रिरक्षया लीलातनुरिदमाद्याः काले तत्तत्समयेऽदधाद्धृतवान् स भगवान् भवान्स्वकृतेन । नर्ते त्वत्क्रियते किञ्चनार इत्यादेः स्वस्यैव कृतेन कर्मणा स्वेनैव कारितेन वा तुष्येत्तुष्टः स्यात् ॥ ४२ ॥
सुमनोरञ्जिनी
स्वकृतौ यः सेतुर्मर्यादा तस्य परीप्सया पालनेच्छया । लीलातनुः काले तत्तत्काले दधद् भगवान्मयि स्थित्वा । स्वेनैव कृतेनैव स्वपूजनेन तुष्येत् । तथा हि श्रुतिः ‘महामर्कं मघवन् चित्रमर्चेति’ । अहं तु अल्पकः कर्तृत्वशून्यः किं करवाणीति सम्बन्धः ॥ ४२ ॥
श्रीशुक उवाच—
तमाह भगवान् कृष्णः कृतासनपरिग्रहः ।
मेघगम्भीरया वाचा सस्मितं कुरुनन्दन ॥ ४३ ॥
सत्यधर्मीया
कृत आसनपरिग्रहो येन सः ॥ ४३ ॥
श्री भगवानुवाच—
अन्यत्र काले विदुषः स्वयंवराद्ध्ययाचितारं वरमाहुरुत्तमम् ।
स हि प्रभूणां पुरुषार्थभागिनां वेलां विनाऽह्वाययति क्षितीश्वर ॥ ४४ ॥
पदरत्नावली
विदुषो विद्वांसः स्वयंवरादन्यत्र काले अयाचितारं वरमुत्तममाहुः । पुरुषार्थभागिनां प्रयोजनांशभाजां प्रभूणां मध्ये स अर्थार्थी तां वेलां कालं विनाऽह्वाययति आत्मानमिति शेषः । आह्वानमिति पाठे सोऽयाचिता स्वयंवरकालं विनापि स्वहूतिं प्रभूणामाह्वानमर्हतीति शेषः । वेलेति पाठे प्रभूरामाह्वानं विनापि स एव वेला कालः स्वयंवराख्य इत्याहुरित्यर्थः ॥ ४४ ॥
दुर्घटभावदीपिका
हे क्षितीश्वर । विद्वांस इति शेेषः । विद्वांसः स्वयंवरादन्यत्र काले विदुषोऽपि कन्याया अयाचितारं वरमुत्तममाहुः । पुरुषार्थभागिनां कन्यालक्षणपुरूषार्थ-भागिनां प्रभूणां मध्ये वेलां विना स्वयंवरकालं विना य आत्मन आह्वानं कारयति सोऽपि स एवोत्तमो वरो हि प्रसिद्धम् । हे नरेन्द्र कविभिर्न राजन्यबन्धोर्निजधर्मवर्तिन कन्यायाश्च विगर्हिता दूषिता । तथापि तव सौहृदेच्छया त्वदीयां कन्यां याचे । शुल्कं दास्यतीति भ्रमं वारयति ॥ नहीति ॥ वयं शुल्कदा न इत्येतद्धि प्रसिद्धमिति । एतेन विदुष इत्येतदनन्वितं व्यर्थं चेति दूषणं परिहृतम् । अपि कन्याया इति शेषेण विदुषोऽपि कन्याया अयाचितारं वरमुत्तममाहुरित्येतदत्रोच्यत इत्यङ्गीकारात् । एतेनैवाह्वानमित्येतदनन्वितमिति दूषणं परिहृतम् । आत्मन इत्यादि शेषेणान्वयस्योक्तत्वात् ॥ ४४,४५ ॥
सत्यधर्मीया
रमयैवमाराधितस्य न मया कारणं कारितं किमागमनकारणमिति क्षितिप न वद मर्यादेयमार्यदर्शितेत्याहेत्याह ॥ श्री भगवानिति ॥ हे क्षितीश्वर विदुषो ज्ञानिनो राज्ञः सम्बन्धिनः स्वयंवरादन्यत्र तद्भिन्ने विवाहे वरमयाचितारमुत्तममाहुर्विद्वांस इति शेेषः । जसः शसादेशो वा । विदुषो विद्वांसः । बहुवचनेन तथा विद्वद्वचनेन चैकस्य प्रतिभातं तु कृतकान्न विशिष्यत इत्युक्तकृतकता व्यावर्तिता । एकोऽपि विद्व•श्चेन्न कृतकता यदा तदा किं वक्तव्यं ते च बहवो यत्र तत्र न सेति भावः । स हि तादृशो विसदृशो वरो हि । पुरुषरूपो योऽयमर्थस्तद्भागिनां वराभिलाषवतां प्रभूणां तत्सकाशात् । आह्वानमर्हतीति शेषः । अहं राजा राजान्तरं प्रति कथं तव सुताय मम सुतां दास्याम्यागच्छेति मया मर्यादा त्याज्येत्यत आह ॥ वेलां मर्यादां विनेति ॥ वेलेति पाठे स्वयंवरे तु विनाऽऽव्हानमायामेव (आगमनमेव) वेला मर्यादेत्यर्थः ॥ ४४ ॥
सुमनोरञ्जिनी
श्रीकृष्णः कन्यां याचन् क्षत्रियाणां याचना गर्हिता । आह्वानमन्तरा आगमनमपि निन्दितमिति नग्नजितो मानसीं शङ्कां परिहरन्नाह ॥ अन्यत्रेति ॥ विदुषो विद्वांसः । स्वयंवरादन्यत्र काले अयाचितारमेव वरं पुरुषार्थभागिनां प्रभूणां राज्ञां मध्ये उत्तममाहुः । सोऽपि वरोऽपि वेलां स्वयंवरवेलां विना अन्यदैव । आह्वानमर्हतीति शेषः । हि शास्त्रप्रसिद्धमेतत् । इदानीं स्वयंवरकालत्वादुभयमपि न गर्हितमिति भावः ॥ ४४ ॥
नरेन्द्र याञ्चा कविभिर्विगर्हिता राजन्यबन्धोर्निजधर्मवर्तिनः ।
तथापि याचे तव सौहृदेच्छया कन्यां त्वदीयां न हि शुल्कदा वयम् ॥४५॥
पदरत्नावली
सामान्यमुक्त्वा विशिनष्टि– नरेन्द्रेति । राजन्यबन्धोः राज्ञां वंशे जातस्य निजधर्मवर्तिनः क्षात्रधर्ममनुवर्तमानस्य । शुक्लदा वेतनप्रदाः ॥ ४५–४६ ॥
सत्यधर्मीया
त्वयाऽऽरब्धस्तु स्वयंवर इति स्वयं वरेणागन्तव्यमित्यहमायात इतःपरं तव स्नेहलाभलाभेन स्वयंवरे ज्ञानिवरैः प्रतिषिद्धमर्यादं पार्थिव त्वामर्थय इत्याह ॥ नरेन्द्रेति ॥ हे नरेन्द्र । राजन्यबन्धो । नायं बन्धुशब्दो ब्रह्मबन्धुः क्षत्रबन्धुरित्यत्रेवात्र राजन्याभास इति स्वयं व्याकरोति ॥ निजधर्मवर्तिन इति ॥ याञ्चा कविभिर्ज्ञानिभि-र्विगर्हिता निन्दिता । तथाऽपि तव सौहृदेच्छया त्वदीयां कन्यां याचे । तर्हि किं दिशति मूल्यमिति न वद इति वदति ॥ न हि वयं शुल्कदा इति ॥ यद्यप्यहं न शुल्कद इति वक्तव्यं तथाऽपि न भेतव्यं सहागता मदीयाः शुल्कदानविषय इति द्योतयितुमियमुक्तिरिति मन्तव्यम् ॥ ४५ ॥
सुमनोरञ्जिनी
अभ्युपेत्याप्याह । राजन्यबन्धोः क्षत्रियस्य । यद्यप्येवं तथापि । शुल्कदा द्रव्यादिप्रदाः ॥ ४५ ॥
राजोवाच—
कोऽन्यस्तेऽभ्यधिको नाथ कन्यावर इहेप्सितः ।
गुणैकधाम्नो यस्याङ्गे श्रीर्वसत्यनपयिनी ॥ ४६ ॥
दुर्घटभावदीपिका
हे नाथ । अभ्यधिको गुणैरभ्यधिक ईप्सितोऽपेक्षितः । कन्यावर इहास्मत्समीपेऽस्ति तस्य सकाशादन्यः कोऽस्ति न कोऽपीति । एतेन सकाशादभ्यधिकः कोऽस्तीत्यनेनैव पूर्णत्वाद् अन्य इत्येतव्द्यर्थमिति दूषणं परिहृतम् । य इत्यस्येह इत्य-नेनान्वयमनङ्गीकृत्यान्य इत्यनेनैवान्वय इत्यभ्युपगमात् । एतेनैव ते सकाशादन्यो वरः क्वापि नास्तीति वक्तव्ये इह नास्तीति कथनं बाधितमिति चोद्यं निराकृतम् । स्थितस्येति शेषेण कन्यादाने समीपस्थत्वरूपनिमित्तांन्तरमिहेत्यनेनोच्यत इत्यभ्युपगमात् ॥ ४६ ॥(?)
सत्यधर्मीया
नन्दनन्दनो वर इत्यानन्दोदधौ मग्नो नग्नजित्प्रतिश्रवो मे प्रससार सारसाक्षीवितरणे प्रकारान्तरेण तन्निवर्त्य कन्या ग्राह्येत्थमनुग्राह्य इति वदति ॥ क इति ॥ हे नाथ । ते सकाशादभ्यधिकः कन्यावरोऽन्यः कः न कोऽपीप्सितः । सम्प्रतिपन्नोऽधिक-स्तन्मात्रेण ऊना इत्यधिकोना कन्येति अधिको वर ईप्सित इति वा । तद्धेतुमाह । यस्य तव गुणैकधाम्नोऽङ्गेऽनपायिनी श्रीर्वसतीति ॥ ४६ ॥
सुमनोरञ्जिनी
गुणा आनन्दादय एकं धाम स्वरूपं यस्य । गुणानाम् एकं मुख्यं धाम स्थानं यस्य तवाङ्गे ॥ ४६ ॥
किन्त्वस्माभिः कृतः पूर्वं समयः सात्वतर्षभ ।
पुंसां वीर्यपरीक्षार्थं कन्यावरपरीप्सया ॥ ४७ ॥
पदरत्नावली
कन्याया वरपरीप्सया वरेच्छया ॥ ४७ ॥
सत्यधर्मीया
किन्तु तथाऽप्यस्माभिः पूर्वं त्वदागमनतः समयः कृतः पुंसां राज्ञां वीर्यपरीक्षार्थं कः कस्माद्बलिष्ठ इति तत्तरतमभावज्ञानार्थम् । योऽधिको भवेत् स एव कन्यावर इति तदीप्सया ॥ ४७ ॥
सुमनोरञ्जिनी
समयः निर्बन्धः प्रतिज्ञा । कन्याया योग्यवरस्य परीप्सया इच्छया ॥
सप्तैते गोवृषा वीर दुर्दान्ता दुरवग्रहाः ।
एतैर्भग्नाः सुबहुशो भिन्नगात्रा नृपात्मजाः ॥ ४८ ॥
पदरत्नावली
दुर्दान्ता अशक्यशिक्षाः । दुरवग्रहा ग्रहीतुमशक्याः ॥ ४८–४९ ॥
सत्यधर्मीया
तं समयप्रकारमाह ॥ सप्तेति ॥ हे वीर दुर्दान्ता अदम्या दुरवग्रहा गृहीतुमशक्या एतैर्वृषैर्भग्नाः स्विन्नगात्रा नृपात्मजा गता इति शेषः ॥ ४८ ॥
सुमनोरञ्जिनी
दुर्दान्ता अशक्यशिक्षाः । दुरवग्रहा गृहीतुमशक्याः । भग्ना भङ्गं पराजयं प्राप्ताः । भिन्नगात्रा विदारितदेहाः ॥ ४८ ॥
यदीमे निगृहीताः स्युस्त्वयैव यदुनन्दन ।
वरो भवानभिमतो दुहितुर्मे श्रियः पते ॥ ४९ ॥
सत्यधर्मीया
हे यदुनन्दन त्वयेमे यदि निगृहीताः स्युस्तर्हि श्रियःपते दुहितुर्भवा-नभिमतो वरः ॥ ४९ ॥
सुमनोरञ्जिनी
यदि इमे गोवृषाः ॥ ४९ ॥
श्रीशुक उवाच—
एवं समयमाकर्ण्य बद्ध्वा परिकरं प्रभुः ।
आत्मानं सप्तधा कृत्वा न्यगृह्णाल्लीलयैव तान् ॥ ५० ॥
पदरत्नावली
परिकरं चैलोष्णीषादिलक्षणम् ॥ ५०–५३ ॥
सत्यधर्मीया
परिकरं बद्ध्वा दुकूलादिकमेतदनुकूलं यथा स्यात्तथा बद्ध्वा आत्मानं सप्तधा सप्ताकारं कृत्वा तान् लीलयैव न्यगृह्णात् । नन्वेक एव सप्तवृषान् बध्नीयादिति प्रतिज्ञां कृतवता राज्ञा सप्तधाऽऽत्मानं विधाय बद्धुं धावतो माधवस्य कथं न निषेधः कृत इति चेत् । न शक्तिमात्रव्यक्त्यर्थे प्रतिश्रवो मम योगमहिमाऽपि महान् प्रदर्शितोऽयमेको महालाभ इति तूष्णीकोऽतितुष्टश्चात्मजामार्पयदित्युपपत्तेः । तत्क्षण एकस्यैवानेकीभवने तदेकतानयाच्च । अत्र लोकानां सप्तधाऽदर्शयदिति सप्तधेत्युक्तिर्हरिवंशे परमतत्वापेक्षया तदनुक्तिरेक एवेत्युक्तिरिति न विरोधः । तथा हि हरिवंशे । ततः कृष्णो रुषा मुष्टिं सन्निवर्त्य जघान च । क्रमेण मुष्ट्या तान्सर्वान्हत्वैको दैत्यगोपतीनिति । ते च कालनेमिसुताः । तदुक्तं तत्रैव बलं प्रति कृष्णवाक्ये । कालनेमिसुता आर्य मां हन्तुमिह सङ्गता इति । भागवते न कथाक्रमनियम इति नीलादिविवाहादेः कंसहिंसादिप्राक्तनतावेदकेन हरिवंशेन च न विरोध इति मन्तव्यम् । इयं नीला सुदक्षिणात्मजा चैकीभूते इति नाष्टकातिरेकः । उक्तं चाचार्यैः –
‘ततो नीलां तस्य सुतां च लेभे पूर्वं नीला गोपकन्याऽपि याऽऽसीत् ।
सा देहेऽस्याः प्राविशत्पूर्वमेषा यस्मादेका द्विविधा सम्प्रजाते’ति ॥ ५० ॥
सुमनोरञ्जिनी
परिकरं कक्ष्याम् । आत्मानं सप्तधा कृत्वा स्वयं सप्तरूपो भूत्वेत्यर्थः ॥ ५० ॥
बद्ध्वा तान् दामभिः शौरिर्भग्नवीर्यान् हतौजसः ।
व्यकर्षल्लीलया बद्धान् बालो दारुमयान् यथा ॥ ५१ ॥
सत्यधर्मीया
कैरप्यबद्धान्बद्ध्वा बालो दारुमयान् काष्ठमयान्यथा तथा लीलया व्यचकर्षच्चकर्ष ॥ ५१ ॥
ततः प्रीतः सुतां राजन् ददौ कृष्णाय विस्मितः ।
तां प्रत्यगृह्णाद् भगवान् विधिवत् सदृशीं प्रभुः ॥ ५२ ॥
सत्यधर्मीया
सदृशीं स्वपत्नीत्वयोग्याम् ॥ ५२ ॥
सुमनोरञ्जिनी
सदृशीं योग्यवयस्काम् ॥ ५२ ॥
राजपत्न्नयः स्वदुहितुः कृष्णं लब्ध्वा प्रियं पतिम् ।
लेभिरे परमानन्दं जातश्च परमोत्सवः ॥ ५३ ॥
दुर्घटभावदीपिका
राजपत्न्यः कृष्णं स्वदुहितुः प्रियं पतिं लब्ध्वा ज्ञात्वा परमानन्दं लेभिरे परमोत्सवश्च जात इति । एतेन कृष्णं स्वदुहितुः पतिं ज्ञात्वेति वक्तव्यं लब्ध्वेति कथनमयुक्तमिति दूषणं प्रत्युक्तम् । लब्ध्वेत्यस्य ज्ञात्वेति तात्पर्यार्थ इत्यङ्गीकारात् ॥५३॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे द्विषष्ठितमोऽध्यायः ॥ १०–६२ ॥
सत्यधर्मीया
प्रियमिष्टं परमानन्दं लेभिरे । उलूखले परमोत्सवो गोधूमकणिका-मुहूर्तोत्सवो जातः । लेभिरं स्यादुलूखलमित्यभिधानम् । तत्कुट्टनस्य स्त्रीमात्रकार्यत्वाद्राज-पत्न्य इति तन्मात्रग्रहो युक्तः ॥ ५३ ॥
सुमनोरञ्जिनी
स्वदुहितुः पतिं कृष्णं लब्ध्वा उपलभ्य अवलोक्येति यावत् ॥ ५३ ॥
शङ्खभेर्यानका नेदुर्गीतवाद्यद्विजाशिषः ।
नरा नार्यः प्रमुदिताः सुवासः स्रगलङ्कृताः ॥ ५४ ॥
पदरत्नावली
गीतवाद्यानि द्विजाशिषश्च तथा । प्रमुदिताः, अभवन्निति शेषः
॥ ५४ ॥
सत्यधर्मीया
शङ्खभेर्यानका नेदुः । आशिषो नरा नार्यश्च सुवाससः स्रगलङ्कृता बभूवुरिति शेषः ॥ ५४ ॥
दशधेनुसहस्राणि पारिबर्हमदाद् विभुः ।
युवतीनां त्रिसाहस्रं निष्कग्रीवसुवाससाम् ॥ ५५ ॥
पदरत्नावली
पारिबर्हं स्त्रीधननिकायम् ॥ ५५–६० ॥
सत्यधर्मीया
धेनुसहस्राणि दश । निष्कग्रीवाश्च ताः सुवाससश्च तासां युवतीनां त्रिसाहस्रम् ॥ ५५ ॥
सुमनोरञ्जिनी
निष्कग्रीवा हारयुक्तग्रीवाश्च ताः सुवाससश्च तासां युवतीनां त्रिसाहस्रम् । उरोविभूषणे निष्कमिति शाश्वतः ॥ ५५ ॥
नवनागसहस्राणि नागाच्छतगुणान् रथान् ।
रथाच्छतगुणानश्वानश्वाच्छतगुणान् नरान् ॥ ५६ ॥
सत्यधर्मीया
नागानां गजानां सहस्राणि नव । नागान्नागसमूहात् । तस्य समूह इत्यण् । शताधिकगुणोपेतान् नवलक्षसङ्ख्यानिति यावत् । रथात् सङ्घाच्छतगुणा-न्नवकोटिसंख्यान् । अश्वाच्छतगुणान् नवपद्मसङ्ख्यान् नरान् पत्तिमिति यावत् । विभुरिति तद्वितरणसमर्थतां बोधयति । पारिबर्हमदाद्दत्तवान् ॥ ५६ ॥
दम्पती रथमारोप्य महत्या सेनया वृतौ ।
स्नेहप्रक्लिन्नहृदयो यापयामास कौसलः ॥ ५७ ॥
सत्यधर्मीया
महत्या स्वसेनामेलनात् ॥ ५७ ॥
सुमनोरञ्जिनी
यापयामास प्रेषयामास । अयं नीलाविवाहः मित्रविन्दाविवाहात्पूर्वं जातो ज्ञेयः । निर्णये तथैवोक्तत्वात् ॥ ५७ ॥
पारिबर्हं च सङ्गृह्य द्वारकामेत्य सत्यया ।
रेमे यदूनामृषभो भगवान् देवकीसुतः ॥ ५८ ॥
सत्यधर्मीया
सत्यया नग्नजित्या नीलया ॥ ५८ ॥
श्रुतकीर्तेः सुतां भद्रामुपयेमे पितृष्वसुः ।
कैकेयीं भ्रातृभिर्दत्तां कृष्णः सन्तर्दनादिभिः ॥ ५९ ॥
सत्यधर्मीया
सप्तमं विवाहमाह ॥ श्रुतिकीर्तेरिति ॥ पितृष्वसुः श्रुतिकीर्तेरित्ये-काधिकरण्यम् । सुतां नाम्ना भद्रां कैकेयीं देशनाम तज्जां सन्तर्दनादिभ्रातृभिर्दत्तामुपयेमे परिणिनाय । भ्रातृभिर्दत्तामित्यनेन सन्नपि पिताऽजागलस्तनायित इति वा प्रकारान्तरं वा ध्वनयति ॥ ५९ ॥
सुमनोरञ्जिनी
भद्रां नामतः । तस्याः शैब्येत्यपरं नाम ॥ ५९ ॥
सुतां च मद्राधिपतेर्लक्षणां लक्षणैर्युताम् ।
स्वयंवरे जहारैकः ससुपर्णः सुधामिव ॥ ६० ॥
सत्यधर्मीया
अष्टमं विवाहमाह– सुतां चेति ॥ मद्राधिपतेः । अन्वर्थं च नामेत्याह– लक्षणैर्युतामिति ॥ ततश्चार्शाद्यजन्तत्वानन्तरं टाप्प्रत्यय इति सूचितं भवति । सुधामिवैक एव स्वयंवरे जहार । ससुपर्ण इत्यविश्लेषभाषणेन सुपर्णमात्रेण सहितः ससुपर्णो वाहनमात्रसहित इति ध्वनयति । एक इत्युक्तिस्तु सेनाद्यभावपरेति ज्ञेयम् ॥ ६० ॥
सुमनोरञ्जिनी — एक एव असहाय एव । सः श्रीकृष्णः ॥ ६० ॥
अन्याश्चैवंविधा भार्याः कृष्णस्यासन् सहस्रशः ।
भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः ॥ ६१ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे द्विषष्ठितमोऽध्यायः ॥
पदरत्नावली
भौमं हत्वा, तस्य भौमस्य निरोधात् तत्कारागृहादाहृता आनीताः
॥ ६१ ॥
॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे द्विषष्टितमोऽध्यायः ॥
सत्यधर्मीया
सहस्रशो वक्ष्यमाणषोडशसङ्ख्याः । निरोधशब्दोऽवरोधपर्याय इति । राजाऽन्तःपुरादिति केचित् । तन्निरोधात् । निरुध्यन्ते जना अत्रेति निरोधः काराधाम तस्मान्निरोधात् । तन्निरोधं परिहृत्याहृता भार्या आसन् ॥ ६१ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे
द्विषष्ठितमोऽध्यायः ॥ १०–६२ ॥
सुमनोरञ्जिनी
भौमं नरकासुरं तन्निरोधात् तन्निरोधं परिहृत्येति ल्यब्लोपनिमित्ता पञ्चमी । निरोधात्कारागृहादिति वा आहृता भार्या आसन्नित्यन्वयः ॥ ६१ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां
सुमनोरञ्जिन्यां द्विषष्टितमोऽध्यायः ॥