विज्ञातार्थोऽपि गोविन्दो दग्धानाकर्ण्य पाण्डवान्
॥ अथ एकषष्टिरध्यायः ॥
श्रीशुक उवाच–
विज्ञातार्थोऽपि गोविन्दो दग्धानाकर्ण्य पाण्डवान् ।
कुन्तीं च कुल्यकरणे सहरामो ययौ कुरून् ॥ १ ॥
पदरत्नावली
अज्ञानिनां तमःप्राप्तिसाधनं ज्ञानिनां भगवद्भक्त्युद्रेककारणं लोक-विडम्बनार्थं भगवच्चरितविशेषं पूर्वाध्यायार्थबीजं निरूपयत्यस्मिन्नध्याये । अपिना सन्देहं निवारयति । कुल्यं शवदहनानन्तरं तद्दुःखजिहासया तद्गृहगमनम् । तस्य करणे तन्निमित्ती-कृत्येत्यर्थः ॥ १ ॥
सत्यधर्मीया
अधिकारभेदेन तमोमुक्तिहेतुभूतं किञ्चिल्लोकमनुकुर्वतो लोके यस्य चरितं विविर्क्षुमन्दसन्देहसंदलनाय तस्यावसरमवितरन्नादावेव वक्ष्यमाणतात्पर्यं सूचयन् वक्तीति वक्ति ॥ श्रीशुक इति ॥ विज्ञातार्थो विज्ञातोऽर्थो येन स तथा सर्वज्ञः पाण्डवान्दग्धानाकर्ण्य श्रुत्वा कुन्तीं च दग्धामिति विपरिणतमन्वेति । कुल्यकरणे शव-दाहानन्तरमुर्वारितहितार्थं तद्गेहं गत्वा दुःखहापनवचनं कुल्यः । कुलोद्भवे कुलस्यातिहितेऽपि चेति विश्वः । सहरामः कुरून् ययौ । अग्रजत्वेन वा तव विनेय एतादृश इति दर्शयितुं वा हलिना सह नयनमिति ज्ञेयम् ॥ १ ॥
सुमनोरञ्जिनी
पाण्डवा न दग्धा अपि तु विदुरकारितबिलद्वारेण जतुगृहान्निर्गताः । कुन्ती च निर्गतेत्येवं विज्ञातार्थोऽपि । कुल्यकरणे कुलोचितसंव्यवहारकरणार्थम् ॥१,२॥
भीष्मं नृपं सविदुरं गान्धारीं द्रोणमेव च ।
तुल्यदुःखौ समागम्य हा कष्टमिति होचतुः ॥ २ ॥
सत्यधर्मीया
सविदुरं भीष्मं नृपं धार्तराष्ट्रं वा समदुःखो समं दुःखं ययोस्तौ । इदं नटनमिति सम्यगदुःखावित्यप्यन्तरार्थः । हा हा कष्टमित्यूचतुः ॥ २ ॥
लब्ध्वैतदन्तरं राजन् शतधन्वानमूचतुः ।
अक्रूरकृतवर्माणौ मणिः कस्मान्न गृह्यते ॥ ३ ॥
पदरत्नावली
अन्तरमवकाशम् ॥ ३ ॥
सत्यधर्मीया
एतदन्तरमेतदवकाशं लब्ध्वा रामकृष्णौ ग्रामान्तरगताविति लब्धाव-काशौ अक्रूरकृतवर्माणौ सासुरावेशौ शतधन्वानं तन्नामानं कञ्चिद्यादवं मणिः श्यमंतकः कस्मान्न गृह्यते गृहाण ॥ ३ ॥
सुमनोरञ्जिनी
एतदन्तरम् एतावदवकाशम् ॥ ३ ॥
योऽस्मभ्यं सम्प्रतिश्रुत्य कन्यारत्नं विगर्ह्य नः ।
कृष्णायादात् स सत्राजित् तस्माद् भ्रातरमन्वियात् ॥ ४ ॥
पदरत्नावली
भ्रातरं प्रसेनमन्वियाद् अनुगतः स्यान् मृतोऽस्तु । तं हन्मीत्यर्थः
॥ ४–५ ॥
सत्यधर्मीया
कोऽपराधस्तदनुष्ठित इत्युपरोधोऽनुष्ठेय इत्यत आहतुः ॥ य इति । अस्मभ्यं प्रातिस्विकतया त्रिभ्यः कन्यारत्नं दास्य इति प्रतिज्ञाय नः, त्रीन्, विगर्ह्य निन्दयित्वाऽनादृत्येति यावत् । यस्मात्कृष्णायादाद्ददौ तस्माद् भ्रातरं प्रसेनमन्वियान्मृतः स्यात् । घातनं कर्तव्यमित्यूचतुरित्यन्वयः ॥ ४ ॥
सुमनोरञ्जिनी
नः विगर्ह्य अवज्ञाय । यस्मात्कृष्णायादात् तस्माद् भ्रातरं प्रसेनम् । अन्वियाद् अनुगच्छतु । मृतोऽस्तु तं संहरति भावः ॥ ४,५ ॥
एवं भिन्नमतिस्ताभ्यां सत्राजितमसत्तमः ।
शयानमवधील्लोभात् स पापः क्षीणजीवितः ॥ ५ ॥
सत्यधर्मीया
ताभ्यामक्रूरकृतवर्माभ्यां भिन्ना मतिर्बुद्धिर्यस्य स स्वभावत एतादृश-त्वात् कार्यमेतद्रुच इत्याह ॥ असत्तम इति ॥ कुतोऽसत्तमः स इत्यत आह ॥ स पाप इति ॥ शयानं सत्राजितं सति मणौ रात्रौ सत्राजिन्मारणं कथमिति चेत्सत्यम् । प्रतिज्ञाहानेः शक्तिसम्भवात्स्वस्वत्वाभावाद्वा । योऽस्मभ्यं सम्प्रतिश्रुत्य कृष्णायोपजहार सः । वयं तु फलभागिन इत्युक्तेः । पूर्वं लोभाद्रत्नगार्ध्यादत्युत्कटैर्न्यायेन च सन्निहितं फलमिति लपति ॥ क्षीणजीवित इति । क्षीणप्राण एषन्नजात् ॥ ५ ॥
स्त्रीणां विक्रोशमानानां क्रन्दतीनामनाथवत् ।
हत्वा पशुं सौनिकवन्मणिमादाय जग्मिवान् ॥ ६ ॥
पदरत्नावली
क्रन्दन्तीनां वैक्लव्यस्वरं कुर्वतीनाम् । सौनिकवन्मारकवद् राक्षसव-दित्यर्थः ॥ ६–७ ॥
सत्यधर्मीया
विक्रोशमानानां शयानान्पुरुषानाकारयन्तीनां तथाऽऽक्रन्दतीनां रुदती-नामनाथवदिति कृष्णव्यधिकरणतया पशून् हत्वा सौनिकवत्सूनाकार इव पशूनां मांसादिकं गृह्णाति तथा मणिमादाय जग्मिवान् गतः ॥ ६ ॥
सुमनोरञ्जिनी
पशून् सौनिकवत् हिंसकवत् ॥ ६ ॥
सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता ।
व्यलपत् तात तातेति हा हताऽस्मीति मुह्यती ॥ ७ ॥
सत्यधर्मीया
शुचा शोकेन । शुचेति टाबन्ततापक्ष ऐकपद्यं वा । मुह्यतीव ॥७॥
सुमनोरञ्जिनी
शुचा शोकेन ॥ ७ ॥
तैलद्रोण्यां मृतं प्रास्य जगाम गजसाह्वयम् ।
कृष्णाय विदितार्थाय तप्ताऽऽचख्यौ पितुर्वधम् ॥ ८ ॥
पदरत्नावली
प्रास्य निक्षिप्य ॥ ८ ॥
सत्यधर्मीया
तैलयुक्तद्रौण्यां पात्रे काष्ठमये गतम् । गजसाह्वयं गतम् । तप्ता सती विदितार्थाय । एवं सुधन्वना श्वशुरासुहरणं कृतमिति विज्ञातवतेऽपि पितुर्वधमाचख्यौ
॥ ८ ॥
सुमनोरञ्जिनी
तैलद्रोण्यां तिलपूरितद्रोण्याम् । प्रास्य निक्षिप्य । तप्ता सती आचख्यौ ॥ ८ ॥
तदाकर्ण्येश्वरौ राजन्ननुसृत्य नृलोकताम् ।
अहो नः परमं कष्टमित्यास्राक्षौ विलेपतुः ॥ ९ ॥
पदरत्नावली
अस्राक्षौ अश्रुजलकलिलेक्षणौ ॥ ९ ॥
सत्यधर्मीया
नृलोकतां नृलोकम् । स्वार्थे तल् । नृलोकतानुकरणता स्थेम्ने । अस्राक्षता नटनज्ञाने चेश्वराविति हेतूक्तिः । आ ईषदस्रैर्युक्तान्यक्षीणि ययोस्तौ सन्तौ विलेपतुः । इत्यस्राक्षाविति च पठन्ति ॥ ९ ॥
सुमनोरञ्जिनी
ईश्वरौ रामकृष्णौ आस्राक्षौ अश्रुसहिताक्षौ ॥ ९ ॥
आगम्य भगवांस्तस्माद् सभार्यः साग्रजः पुरम् ।
शतधन्वानमारेभे हन्तुं हर्तुं च तं मणिम् ॥ १० ॥
सत्यधर्मीया
भार्यया सह साग्रजः सबलः शतधन्वानं हन्तुं मणिं हर्तंु चारेभे ॥
सुमनोरञ्जिनी
आरेभे उद्योगं कृतवान् ॥ १० ॥
ततः पाञ्चालनगराद् याज्ञसेन्याः स्वयंवरम् ।
घुष्यता यज्ञसेनेन प्रेषितो दूत आगतः ॥ ११ ॥
पदरत्नावली
याज्ञसेन्या द्रौपद्याः ॥ ११–१२ ॥
सत्यधर्मीया
यज्ञसेनेति द्रुपदनामान्तरम् । तत्पुत्र्या द्रौपद्याः स्वयंवरं घुष्यता यज्ञसेनेन प्रेषितो दूत आगतः ॥ ११ ॥
सुमनोरञ्जिनी
याज्ञसेन्या द्रौपद्याः । घुष्यता घोषणं कारयित्रा । यज्ञसेनेन द्रुपदेन ॥ ११ ॥
आहूतस्तेन गोविन्दो गत्वा पाञ्चालके पुरे ।
ददर्श साग्रजस्तत्र किशोरान् पाण्डुनन्दनान् ॥ १२ ॥
सत्यधर्मीया
किशोरांस्तद्वयसः ॥ १२ ॥
अदृष्टपूर्वान् सुव्यक्तं ब्रह्मरूपधरान् नृपान् ।
तैर्विद्धलक्ष्यैः पौरुष्यप्रतिलब्धमनोरथैः ॥ १३ ॥
पदरत्नावली
ब्रह्मरूपधरान् ब्राह्मणवेषं बिभ्राणान् । पौरुषेण पराक्रमेण प्रतिलब्धो मनोरथो येषां ते तथा तैः ॥ १३ ॥
सत्यधर्मीया
ब्रह्मरूपधरान् अदृष्टरूपधरान् । यद्यपीत्यूचिवान् सह मरुत्त-नयार्जुनाभ्यां प्रायात्पुरीं च सहदेवयुतः स्वकीयामित्यादिना त्रयाणां दृष्टत्वं कृष्णतो ज्ञाना-वाप्तिश्चाचार्यैरुक्ता । तथाऽप्युर्वरिताभ्यां द्वाभ्यामदृष्टाभ्यां सह, नृभाव इत्यादिशक्तिरिति वा ब्रह्मरूपधरत्वे न दृष्टपूर्वत्वं वेत्यदृष्टरूपानित्युक्तिः सम्भवतीति मन्तव्यम् । यद्वाऽदृष्टौ पूर्वौ येषु पञ्चसुतान् । पूर्वत्वं च व्यूहद्विकस्य धर्मनकुलयोरिति ज्ञेयम् । यद्वा निमान इति भाष्योत्तराममितत्वेनेति व्याख्यानवन्नञः पूर्वेत्यनेनान्वयः । ततश्च दृष्टश्चापूर्वौ चादृष्टपूर्वाः । अपूर्वावदृष्टाविति यावत् । नन्वेवं तर्हि मणिमञ्जर्यामित्युक्त्वा भीमपार्थाभ्याम् । पूजयन्तौ हरिं पार्थाविति द्वयोरेव ग्रहणं कथमिति चेत् । सत्यम् । तथा भगवदुपदेशविधत्वाद् द्वयोर्ग्रहणम् । सहदेवस्यातथात्वात्तदनुक्तिः । सुव्यक्तम् । नृपाद्विद्धं लक्ष्यं यैस्तैः । पौरुष्येण प्रतिलब्धो मनोरथो यैस्तैः ॥ १३ ॥
सुमनोरञ्जिनी
ब्रह्मरूपधरान् ब्राह्मणवेषधरान् । विद्धं लक्ष्यं यैस्तैः । अत एव प्रतिलब्धः मनोरथः पाञ्चालीप्राप्तिलक्षणो यैस्तैः पाण्डवैः ॥ १३ ॥
कुम्भकारस्य शालायां समागम्याभिवन्द्य च ।
पितृष्वसामनुज्ञाप्य राजानं च युधिष्ठिरम् ॥ १४ ॥
पदरत्नावली
पितृष्वसां पितृस्वसारं कुन्तीम् ॥
सत्यधर्मीया
कुम्भं करोतीति कुम्भकारस्तस्य शाला तस्यां समागम्य मिलित्वाऽभि-वन्द्य च पितृष्वसाम् । आर्षष्टाबन्तशब्दः । राजानं युधिष्ठिरं चानुज्ञाप्य ॥ १४ ॥
सुमनोरञ्जिनी
समागम्य । पितृष्वसां कुन्तीम् । अभिवन्द्य ॥ १४ ॥
निहन्तुं शतधन्वानं तूर्णं द्वारावतीमियात् ।
सोऽपि कृष्णोद्यमं ज्ञात्वा भीतः प्राणपरीप्सया ॥ १५ ॥
सत्यधर्मीया
प्राणपरीप्सया जीवनेच्छया ॥ १५ ॥
साहाय्ये कृतवर्माणमयाचत स चाब्रवीत् ।
नाहमीश्वरयोः कुर्यां हेलनं रामकृष्णयोः ॥ १६ ॥
सत्यधर्मीया
साहाय्ये तदर्थमीश्वरयो रामकृष्णयोः । हेलनमनादरम् ॥ १६ ॥
सुमनोरञ्जिनी
हेलनं प्रतिकूलम् ॥ १६ ॥
को नु क्षेमाय कल्पेत तयोर्वृजिनमाचरन् ।
कंसः सहानुगो वीरो यद्द्वेषात्त्याजितः श्रिया ॥ १७ ॥
पदरत्नावली
वृजिनमपराधम् । अपराधाकार्यत्वे निमित्तानि कथयति– कंस इति
॥ १७ ॥
सत्यधर्मीया
तयोर्वृजिनं तोदनम् । आचरन् कुर्वन् को नु पुमान् क्षेमाय कल्पेत । न कोऽपीति । कोपिनि तस्मिन्न क्षेमो स्यादिति भावः । मृतपराजितनिदर्शनप्रदर्शनेन साहाय्यानाचरणमुपोद्बलयति ॥ कंस इति ॥ द्वेषाद्यस्मिन्द्वेषाद् यस्य द्वेषाद्वा श्रिया त्याजितः श्रीरत्र यथासम्भवं प्राणसम्पच्च ॥ १७ ॥
सुमनोरञ्जिनी– वृजिनम् अपराधम् । तत्प्रतिकूलानाचरणे निमित्तमाह ॥ कंस इति
॥ १७ ॥
जरासन्धः सप्तदशसंयुगाद् विरथो गतः ।
प्रत्याख्यातः स चाक्रूरं पार्ष्णिग्राहमयाचत ॥ १८ ॥
पदरत्नावली
प्रत्याख्यातो निराकृतः कृतवर्मणेति शेषः । पार्ष्णिग्राहं पृष्टबलम्
॥ १८–२१ ॥
दुर्घटभावदीपिका
अक्रूरं पार्ष्णिग्राहमयाचतेत्यस्याक्रूरपार्ष्णिग्राहं पार्ष्णिग्रहणमयाचत पृष्टं रक्षणार्थमक्रूरमयाचतेति भावः ॥ १८ ॥
सत्यधर्मीया
सप्तदशसङ्ख्यसङ्ख्यतः । तद्विधाय विरथः सन् गतः । एवं कृतवर्मणा प्रत्याख्यातो नाहं तव साहाय्यं कुर्यामिति निराकृतः । अक्रूरं पार्ष्णिग्राहं सहकारिणमयाचत
॥ १८ ॥
सुमनोरञ्जिनी
पार्ष्णिग्राहं पश्चाद्बलम् ॥ १८ ॥
सोऽप्याह को विरुध्येत विद्वानीश्वरयोर्बलम् ।
यं कैलासाश्रयः शम्भुर्ननाम शिरसा हरिम् ॥ १९ ॥
सत्यधर्मीया
ईश्वरयोर्बलं विद्वान् कः पुमांस्ताभ्यां सह विरुद्ध्येत विरोधं कुर्यात् । ईश्वरयोरिति वचनेन प्रतीतं साम्यं पराकर्र्तंु विविच्याच्युतस्य स्वोपास्यशेषात्मक-बलस्य च माहात्म्यमाह ॥ यमिति ॥ ननु सति सत्यलोकाधिके एतदधिके विधौ हरपरिग्रहः किमर्थमिति चेत्सत्यम् । दुरुद्धरा तव शङ्का चेदपि गुरुकरुणायाः किमसु-साधम् । कैलासं प्रति सतीसहितो गत्वा तपश्च कृत्वा हरवरतः प्रद्युम्नमापेति वृत्तं लोकनटनं घटिते न वास्तविकमिति बोधयितुं यद्विषये प्रथा तन्नमस्यताऽस्योक्ता चेत्सा शाम्यतीति त्रिनेत्रग्रहः । कैलासाश्रयः शम्भुर्हरो यं हरिं शिरसा ननाम । यं बलं कैलासाश्रयः शम्भुरिति नाम्ना सहितं शिरश्च तेन तन्मात्रेण तद्विनेति यावत् । अहरिं हरिभिन्नं वदन्तीति शेषः । स ओत्यनुवृत्तिर्वा । स तद्योजन इत्यतो रुद्र एव भाविशेषो रुद्रतादशायां तन्नाम शिरश्च तावन्नेति शेषः ॥ १९ ॥
यो हंसडिभिकौ युद्धे जितवान् वरदुर्मदौ ।
आशीविषो महानागो येन निर्वासितो ह्रदात् ॥ २० ॥
सत्यधर्मीया
वरदुर्मदौ हरवरदुर्मदौ । य आगः कृतवान् यश्च महानाशीविषः कालियो यश्चामहान् इति । बलपक्षे ह्रदान्निर्वासितः । अन्यथाऽन्यतरवैय्यर्थ्यं स्फुटप्रति-भासम् । यथाकथञ्चित् समाधिस्त्वगतिकागतिः ॥ २० ॥
य इदं लीलया विश्वं सृजत्यवति हन्ति च ।
चेष्टां विश्वसृजो यस्य न विदुर्मोहिता ययाः ॥ २१ ॥
दुर्घटभावदीपिका
विश्वसृजो ब्रह्मादयो मायया विष्णुरूपया मायया मोहिता यस्य चेष्टां न विदुरिति । एतेन विष्णुमायया मोहिता इति वक्तव्यं मायया मोहिता इति कथनमनुपपन्नमिति चोद्यं पराकृतम् । माययेत्यस्य शेषं यशब्दस्य विष्णुवाचित्वेन विष्णु-स्वरूपार्थकत्वं चाङ्गीकृत्य विष्णुस्वरूपमायया मोहिता इत्यर्थस्योक्तत्वात् ॥ २१ ॥
सत्यधर्मीया
यः कृष्णो लीलया विश्वं सृजत्यवति हन्ति च यस्य चेष्टया मोहिता विश्वसृजः प्रजापतयोऽपि तां चेष्टां न विदुरिति । य इदं विश्वं समग्रं जगल्लीलया धरतीति शेषः ॥ २१ ॥
सुमनोरञ्जिनी
यया प्रकृत्या । मोहिताः ॥ २१ ॥
यः सप्तहायनः शैलमुत्पाट्यैकेन पाणिना ।
दधार लीलया बाल उच्छिलीन्द्रमिवार्भकः ॥ २२ ॥
पदरत्नावली
उच्छिलीन्द्रं छत्राकारम् ॥ २२–२३ ॥
दुर्घटभावदीपिका
आदिभूतायेत्यस्य सर्वकारणाय सर्वदा विद्यमानाय चेत्यर्थः । एतेनादिशब्देनैव कारणत्वस्योक्तत्वाद्भूतशब्दो व्यर्थ इति चोद्यं प्रत्युक्तम् । आदि शब्दोक्त-सर्वकारणत्वोपपादनार्थं भूतशब्देन सर्वदा विद्यमानत्वमुच्यत इत्यूरीकरणात् ॥ २३ ॥
सत्यधर्मीया
यः सप्तहायनः शैलं गोवर्धनमुत्पाट्यार्भक उच्छिलीन्ध्रं गतम् । एकेन पाणिना दधार एकेन शीर्ष्णाऽर्भक उच्छिलीन्ध्रमिव दधारेत्यपरत्र । ‘सहस्रमूर्ध्नोऽस्य बतैकमूर्धनि’ इत्याचार्योक्तेः ॥ २२ ॥
सुमनोरञ्जिनी
उच्छिलीन्ध्रं छत्राकम् ॥ २२ ॥
नमस्तस्मै भगवते कृष्णायाद्भुतकर्मणे ।
अनन्तायादिभूताय कूटस्थायात्मने नमः ॥ २३ ॥
सत्यधर्मीया
तस्मा अद्भुतकर्मणे कृष्णाय नमः । अनन्तायानिर्मुक्तायादिभूताय कारणभूताय कूटस्थाय निर्विकारायात्मने सर्वान्तर्यामिणे नमो नमः । अनन्ताय शेषाय च नमः । अत एव विशकलय्य नमोद्विर्वचनं सम्भवदिति मन्तव्यम् ॥ २३ ॥
सुमनोरञ्जिनी
आत्मने सर्वस्यादानादिकर्त्रे ॥ २३ ॥
प्रत्याख्यातः स तेनापि शतधन्वा महामणिम् ।
तस्मिन् न्यस्याश्वमारुह्य शतयोजनगं ययौ ॥ २४ ॥
पदरत्नावली
शतयोजनगं शतयोजनगमनसमर्थम् ॥ २४ ॥
सत्यधर्मीया
शतधन्वा तेनाप्यक्रूरेणापि । महामणिं तस्मिन्नक्रूरे न्यस्य शतयोजन-मेकस्मिन्नह्नि । अश्वमारुह्य ययौ । व्रतार्के आरुह्य वडवां वेगान्ममार वडवा तदेति । तथा महाभारततात्पर्यनिर्णये आरुह्य चाश्वामित्युक्तेश्च । अत्राश्वमित्युक्तिः पुंवच्छक्तियुक्त्येति मन्तव्यम् । ‘पुल्लिङ्गेनोच्यते स्त्री च पुंवच्छक्तिमती यत’ इत्यादेः ॥ २४ ॥
सुमनोरञ्जिनी
तस्मिन् अक्रूरे । न्यस्य स्थाप्य ॥ २४ ॥
गरुडध्वजमारुह्य रथं रामजनार्दनौ ।
अन्वयातां महावेगैरश्वै राजन् गुरुद्रुहम् ॥ २५ ॥
पदरत्नावली
गरुडो ध्वजो यस्य स तथा तं रथम् ॥ २५ ॥
सत्यधर्मीया
गरुडो ध्वजे यस्य तम् । गुरुः श्वशुरः पञ्चमो गुरुरित्युक्तेः । श्वशुरद्रोहवन्तम् ॥ २५ ॥
सुमनोरञ्जिनी
गुरुः श्वश्रुरः । तद्द्रुहं तद्धन्तारम् ॥ २५ ॥
मिथिलाया उपवने विसृज्य पतितं हयम् ।
पद्भ्यामधावत् सन्त्रस्तः कृष्णोऽन्वभ्यद्रवद् रुषा ॥ २६ ॥
पदरत्नावली
मिथिलानगर्याः ॥ २६ ॥
सत्यधर्मीया
पतितं मत्वा । व्रतार्कमहाभारतनिर्णययोः शतयोजनमात्रेण ममार वडवा तदा शतयोजनानां दिनेन गत्वा मृतायां वडवायां तदैवेत्यादि । सन्त्रस्तो भीतः पदातिधर्मज्ञत्वात् ॥ २६ ॥
सुमनोरञ्जिनी
मिथिलाया मिथिलानगर्याः ॥ २६ ॥
पदातेर्धावतस्तस्य पदातिस्तिग्मनेमिना ।
चक्रेण शिर उत्कृत्य वाससोर्व्यचिनोन्मणिम् ॥ २७ ॥
पदरत्नावली
पद्भ्यामातिः, सततं गमनं यस्य स तथा तस्य । तिग्मनेमिना चण्डधाराग्रेण । व्यचिनोद् अन्वेषणं कृतवान् ॥ २७–२८ ॥
सत्यधर्मीया
तिग्मनेमिना तीक्ष्णधारेण वाससोः परीधानोत्तरीययोर्मणिं स्यमन्तकं व्यचिनोन्मार्गयामास । ज्ञाताक्रूरस्थापिततत्कोऽपि बलप्रयुक्तापयशोऽपि स्वस्य मार्जयितु-मार्जयामासेमां रीतिमिति ज्ञेयम् ॥ २७ ॥
सुमनोरञ्जिनी
स्वयमपि पदातिः पद्भ्यामेव गच्छन् । तिग्मनेमिना तीक्ष्णधारेण । व्यचिनोन् मृगयामास ॥ २७ ॥
अलब्धमणिरागत्य कृष्ण आहाग्रजान्तिकम् ।
वृथा हतः शतधनुर्मणिस्तत्र न विद्यते ॥ २८ ॥
सत्यधर्मीया
अग्रजस्यान्तिमं समीपं वृथा हतोऽस्मिन् हते न हतः सत्राजि-द्भवत्युज्जीवित इति रत्नालाभाच्च वृथेत्युक्तिः । शतधनुशतधन्वाशब्दौ पर्यायावित्येवमुक्तम्
॥ २८ ॥
तत आह बलो नूनं स मणिः शतधन्वना ।
कस्मिंश्चित् पुरुषे न्यस्तस्तमन्वेषं पुरं व्रज ॥ २९ ॥
पदरत्नावली
अन्वेषन् मार्गणं कुर्वन् ॥ २९–३० ॥
सत्यधर्मीया
ततो नात्र रत्नमिति कृष्णवचनानन्तरम् । बल आह । अन्तर्वचनं कृतं कृष्णेनेत्यङ्कुरितरोषो बहिः किञ्चिद्विधाय सारथिं बोधयन् पथ्यन्तरं वक्ति ॥ नूनमिति । स मणिः शतधन्वना कस्मिंश्चित्पुरुषे न्यस्तो नूनं निश्चयः । तं पुरुषमन्वेषं कुर्वन्पुरं व्रज । तदाकर्ण्य महारोषादुवाच वचनं बलः । कपटी त्वं सदा कृष्ण लोभी पापी सुनिश्चितम् । अर्थाय स्वजनं हंसि कस्त्वां बन्धुः समाश्रयेत् । अनेकशपथैः कृष्णो बलदेवं प्रसादयन् । सोऽपि धिक्कष्टमित्युक्त्वा ययौ वैदर्भमण्डलमित्यादि व्रतार्के । स्यमन्तकार्थे रामोऽपि कृष्णस्य विमनाऽभवदिति च्छिन्नभक्तगणनाप्रस्तावे श्रीमतामुक्तेश्च ॥ २९ ॥
सुमनोरञ्जिनी
यस्मिन्पुरुषे न्यस्तस् तं पुुरुषम् । अन्वेषन् अन्वेषितुम् ॥ २९ ॥
अहं वैदेहमिच्छामि द्रष्टुं प्रियतरं मम ।
इत्युक्त्वा स ययौ राजन् मिथिलां यदुनन्दनः ॥ ३० ॥
सत्यधर्मीया
इच्छानिमित्तमाह ॥ मम प्रियतरमिति ॥ ३० ॥
सुमनोरञ्जिनी
वैदेहं विदेहराजम् ॥ ३० ॥
तं दृष्ट्वा सहसोत्थाय मैथिलः प्रीतमानसः ।
अर्हयामास विधिवदर्हणीयं१ समर्हणैः ॥ ३१ ॥
पदरत्नावली
अर्हण्यं पूज्यम् ॥ ३१ ॥
सत्यधर्मीया
सहसा दृष्ट्वा । एकाकिनस्तत्रापि पदा गमनात्पुरावाप्तेरवार्तावतिर-भूद्भूपतेरिति सहसेत्यनेन ध्वन्यते । अर्हणीयं समर्हणैः पूजासाधनैः ॥ ३१ ॥
सुमनोरञ्जिनी
अर्हण्यं पूज्यम् ॥ ३१ ॥
उवास तस्यां कतिचिन्मिथिलायां समा विभुः ।
ततोऽशिक्षद् गदां काले धार्तराष्ट्रः सुयोधनः ।
मानितः प्रीतियुक्तेन जनकेन महात्मना ॥ ३२ ॥
पदरत्नावली
काले कृष्णवियोगसमये ॥ ३२–३३ ॥
सत्यधर्मीया
तस्यां मिथिलायां समाः संवत्सरान्पञ्च । अविश्वासात्स तु सक्रोध एव ययौ विदेहानवसत्पञ्च चाब्दानिति श्रीमदुक्तेः । काले हरिविरसताविरहसमये ततो बलाद्गदां तद्विद्यां धार्तराष्ट्रः सुयोधनोऽशिक्षदशिक्षतोपादत्त ॥ ३२ ॥
सुमनोरञ्जिनी
कतिचित्समाः पञ्चवर्षाणि । ययौ विदेहानवसत्पञ्च चाब्दानिति निर्णयोक्तेः । ततः रामात् ॥ ३२,३३ ॥
केशवो द्वारकामेत्य निधनं शतधन्वनः ।
अप्राप्तिं च मणेः प्राह प्रियायाः प्रियकृद् विभुः ॥ ३३ ॥
सत्यधर्मीया
प्रियायाः प्रियकृत् ॥ ३३ ॥
ततः स कारयामास क्रिया बन्धोर्हतस्य वै ।
साकं सुहृद्भिर्भगवान् या याः स्युः साम्परायिकाः ॥ ३४ ॥
पदरत्नावली
बन्धोः सत्राजितः । साम्परायिकाः प्रेतविषयाः ॥ ३४ ॥
दुर्घटभावदीपिका
ततस्तदनन्तरं भगवान् श्रीकृष्णः सुहृद्भिः साकं मृतस्य बन्धोः सत्राजितः क्रियां साम्परायिकक्रियां कारयामासेत्येतद्वै प्रसिद्धम् । एतदेव विवृणोति– या या इति ॥ साम्परायिका या याः क्रियाः श्रुतिस्मृत्युक्ताः स्युस्ताः सर्वा अपि क्रियाः कारया-मासेति । एतेन या याः साम्परायिकाः स्युरिति शब्दानां बहुवचनान्तत्वात्क्रिया इति बहुवचनान्तशब्दः प्रयोक्तव्यः । क्रियामित्येकवचनान्तशब्दप्रयोगोऽनुपपन्न इति दूषणं परास्तम् । क्रियां कारयामासेत्युक्ते काचन साम्परायिकक्रिया कारितेति भ्रान्तिः स्यात्तां वारयितुं क्रियां कारयामासेत्यस्यावृत्तिमर्थवशात्क्रिया इति विपरिणामं श्रुतिस्मृत्युक्तास्ताः सर्वा अपि इति शब्दानामध्याहारं च स्वीकृत्य क्रियां कारयामासेत्यस्य विवरणं या याः स्युः साम्परायिका इत्यनेन क्रियत इत्यभ्युपगमात् ॥ ३४ ॥
सत्यधर्मीया
शतधन्वमारणेन मृतस्य बन्धोर्बन्धुभिः साकं सार्धं साकं सदुःखं यथा तथा । याया इति पदमेकम् । साम्परायिकाः साम्परायिक्यो मोक्षहेतवः क्रियास्तास्ताः कारयामास ॥ ३४ ॥
सुमनोरञ्जिनी
बन्धोः सत्राजितः । साम्परायिकाः प्रेतविषयाः ॥ ३४ ॥
अक्रूरकृतवर्माणौ श्रुत्वा शतधनोर्वधम् ।
व्यूषतुर्वधवित्रस्तौ द्वारकायाः प्रयोजकौ ॥ ३५ ॥
पदरत्नावली
व्यूषतुः प्रवासं चक्रतुः ॥ ३५–३७ ॥
सत्यधर्मीया
शतधन्वनो माधवतो वधं श्रुत्वा प्रयोजकौ मणिः कस्मान्न गृह्यत इति मणिहरणाविति प्रयोजकौ । भयाच्छतधन्वभूतात्स्वयं वित्रस्तौ द्वारकाया व्यूषतुः प्रवासं चक्रतुः ॥ ३५ ॥
सुमनोरञ्जिनी
भयेन वित्रस्तौ कम्पितौ । द्वारकायाः सकाशात् । व्यूषतुः प्रवासं चक्रतुः । कुतो भयमनयोरित्यत उक्तम् ॥ प्रयोजकाविति ॥ सत्राजिद्धनने मणिहरणे च । शतधन्वनः प्रवर्तकौ । द्वारकायाः प्रयोजकौ रक्षकावित्यापि वदन्ति ॥ ३५ ॥
अक्रूरे प्रेषितेऽरिष्टान्यासन् वै द्वारकौकसाम् ।
शारीरा मानसास्तापा मुहुर्दैविकभौतिकाः ॥ ३६ ॥
सत्यधर्मीया
अक्रूरे प्रेषिते सति द्वारकौकसाम् । शारीराः शरीरसम्बन्धिन्यस्तापा ज्वराद्युपद्रवा मनस्तापा दैविका अशन्युल्कापाता भौतिका भूभ्रान्त्यादय इत्यरिष्टान्यासन् वै प्रसिद्धौ । न यादृच्छिकानि तानीत्याह ॥ मुहुरिति ॥ ३६ ॥
सुमनोरञ्जिनी
प्रोषिते देशान्तरं गते । शारीरा मानसाश्च तापा मुहुः पुनः पुन आसन् ॥ ३६ ॥
ततोऽपृच्छद्धरिर्वृद्धानुग्रसेनपुरोगमान् ।
कस्मादिहारिष्टान्यासन् महतां सुचिरेण वः ॥ ३७ ॥
दुर्घटभावदीपिका
महता महति सुचिरेणातिबहुकालेनेह द्वारकायां स्थितैर्नोऽ-स्माभिरननुभूतान्यरिष्ठानीहेदानीं नोऽस्माकं कस्मादासन्निति । एतेन महता सुचिरेणेत्ये-तदनन्वितमिति दूषणं प्रत्युक्तम् । महतेति तृतीया सप्तम्यादेशः स्थितैरननुभूतानीति पदद्वयस्य शेष इति चाभ्युपेत्यान्वयस्योक्तत्वात् ॥ ३७ ॥
सत्यधर्मीया
तत एवमनिष्टदर्शनानन्तरमुग्रसेनपुरोगमान् वृद्धान् । कृष्णः कस्माद्धेतोरिह द्वारकायां सुचिरेण कालेन महतां व आसन्नित्यपृच्छत् ॥ ३७ ॥
सुमनोरञ्जिनी
श्रीकृष्णे जाग्रति सति अक्रूरगमनमात्रेण कथं द्वारकौकसाम् अरिष्टा-न्यासन् इति न शङ्क्यम् । भगवतैव स्वभक्तमहिमाप्रकटनाय तथा कृतत्वात् । परमुखेना-क्रूरमहिमानं वाचयितुं श्रीकृष्णः स्वयमजानान इव । अरिष्टदर्शने निमित्तं वृद्धानपृच्छ-त्तदाह ॥ तत इति ॥ ३७ ॥
इत्यङ्गोपदिशन्त्येके विस्मिता वै गदाभृतः ।
निवासनिकटे किं वा घटेतारिष्टदर्शनम् ॥ ३८ ॥
पदरत्नावली
इतिशब्दः प्रकारवचनः । ओति सम्बोधनम् । एके केचित् पूर्व-पुरुषैरुक्तं पुराणवचनमुपदिशन्ति प्रवदन्ति । कथमिति तत्राह– गदाभृत इति ॥ श्रीकृष्णस्य निवासनिकटे अरिष्टदर्शनमशुभदर्शनं घटेत किं वा ? न घटेत ॥ ३८ ॥
दुर्घटभावदीपिका
अरिष्टानि कस्मादासन्निति कृष्णेन पृष्टे वृद्धैः किमुत्तरं दत्तमिति परीक्षिद्राजस्य हार्दां शङ्कां शुकाचार्यः परिहरति – इतीति ॥ हे अङ्ग । परीक्षिद्राज । वृद्धानां मध्ये एके वृद्धा विस्मिताः सर्वज्ञोऽपि भगवानस्मान्पृच्छतीति विस्मिताः सन्तो गदा-भृतस्तव निवासनिकटे निवाससमीपस्थानेऽपि निमित्तान्तरेणानिष्टदर्शनं कथं घटेत । किमु निवासस्थाने । तस्मात्तवेच्छयैवारिष्टदर्शने कारणमित्युत्तरमुपदिशन्ति ॥ अवदन्निति ॥ एतेन द्वारकाया निवासस्थानत्वान् निवास इति वक्तव्ये निवासनिकट इति कथनमयुक्तमिति चोद्यं निरस्तम् । अपीति शेषपूरणेन निवाससमीपस्थानेऽप्यरिष्टदर्शनं न भवति । किमु निवासस्थान इति कैमुुत्यन्यायं वक्तुं निवासनिकट इत्युक्तमित्यभ्युपगमात् ॥ ३८ ॥
सत्यधर्मीया
कृष्णपृष्टानां मध्ये केचन विपश्चितः । पुराणवचनमेवमुपदिशन्ती-त्याहुः ॥ इतीति ॥ अङ्ग हे कृष्ण । एके विस्मिताः कथमिति तत्राह । गदाभृतस्तव निवासनिकटे निवाससमीपे किंवाऽरिष्टं घटेत न किमपीत्युपदिशन्ति । एके अङ्ग हे परीक्षित् । गदाभृतो निवासनिकटेऽरिष्टदर्शनं घटेत वा किं न घटेतेति विस्मिता उपदिशन्तीति योजना वा ॥ ३८ ॥
सुमनोरञ्जिनी
एवं श्रीकृष्णेन पृष्टा वृद्धा ऊचुः । हे अङ्ग गदाभृतस् तव । निवासनिकटे । अरिष्टदर्शनम् । घटेत किं त्वदिच्छां विना न घटेतैव । अथापि । इति वक्ष्यमाणप्रकारेण । एके वृद्धाः । उपदिशन्ति तद्वक्ष्याम इति ॥ ३८ ॥
देवेऽवर्षति काशीशः श्वफल्कायागताय गाम् ।
स्वसुतां गान्दिनीं प्रादात् ततोऽवर्षत् स काशिषु ॥ ३९ ॥
पदरत्नावली
स्वराष्ट्रे देवे पर्जन्येऽवर्षति काशीशः काशिराजः स्वराष्ट्रं प्रत्यागताय श्वफल्काय अकू्ररपित्रे गां स्वविषयभूमिं नाम्ना गान्दिनी स्वसुतां च प्रादात् ॥ ३९ ॥
दुर्घटभावदीपिका
श्लोकद्वयानन्तरं तस्मादक्रूरगमनमरिष्टदर्शनकारणमिति शेषं पूरयित्वेत्युत्तरं वृद्धानां मध्ये एके वृद्धा उपदिशन्ति अवदन्निति पूर्वेणान्वयो वक्तव्यः । एतेन देवे वर्षति काशीश इति श्लोकद्वयमनन्वितमिति दूषणं परिहृतम् ॥ ३९,४० ॥
सत्यधर्मीया — तथाऽपि श्रुतं किञ्चित्पुरावृत्तं वक्ष्याम इति वदन्ति ॥ देव इति ॥ इन्द्रेऽवर्षति सति काशीशः काशीराजो गां यदृच्छया स्वभूमिमागताय श्वफल्कायाक्रूरपित्रे स्वसुतां गान्दिनीनाम्नीं प्रादात् । ततः कन्याप्रदानानन्तरं काशीषु देशेष्ववर्षत् स्म स्मृति-सिद्धमिदम् ॥ ३९ ॥
सुमनोरञ्जिनी
किं तदित्यत आह ॥ देव इति ॥ पूर्वं स्वराष्ट्रे । देवे पर्जन्ये अवर्षति सति । काशीं प्रत्यागताय श्वफल्काय । गां भूमिं स्वसुतां गान्दिनीं च प्रादात् । गां स्वदेशभूमिं प्रत्यागतायेति वा । भूमिदानं तु तत्रैव तन्निवासार्थं ज्ञेयम् । ततस् तद-नन्तरम् । काशिषु तद्देशेषु । अवर्षद् वर्षयामास ॥ ३९ ॥
तत्सुतस्तत्प्रभावोऽसावक्रूरो यत्र तत्र सः ।
देवोऽभिवर्षते तत्र नोपतापा न मारिकाः ॥ ४० ॥
पदरत्नावली
किमनेनेति तत्राह– तत्सुत इति ॥ तत्प्रभावः श्वफल्कप्रभावः । अतोऽक्रूरो यत्र देशे तत्र देवोऽभिवर्षति तस्मिन् देशे उपतापादयो न भवन्ति ॥ ४० ॥
सत्यधर्मीया
ननु महिष्याः सर्पिर्विपुलं चेन्महिषस्य किमायातमिति न हि पितुः पाण्डित्येनेति नीत्या तत्तनयस्य किमायातमित्यत आहुः ॥ तत्सुत इति ॥ तस्य श्वफल्कस्य सुतोऽक्रूरस्तत्प्रभावस्तस्य प्रभाव इव प्रभावो यस्य सः । यत्राक्रूरस्तत्र स देवोऽभिवर्षते । तत्र नोपतापो न मारिका डाकिन्याद्या न भवन्ति ॥ ४० ॥
सुमनोरञ्जिनी
तस्य श्वफल्कस्य प्रभाव इव प्रभावो महिमा यस्य सः । कः प्रभाव इत्यत आह ॥ यत्रेति ॥ सो ऽक्रूरः यत्र देशे वसति तत्र देवोऽभिवर्षते । उपतापादयो न भवन्ति ॥ ४० ॥
इति वृद्धवचः श्रुत्वा नैतावदिह कारणम् ।
इति दूतैः समानीय रामाक्रूरौ जनार्दनः ॥ ४१ ॥
पदरत्नावली
अवर्षणादिसम्भवेऽन्यच्च निमित्तमस्तीति भावेनोच्यते नैतावदिति । इह अवर्षणादावेतावदक्रूरप्रवासनमेव कारणं न भवति । किन्तु स्यमन्तकररामगमनं च कारण-मिति च वृद्धवचः श्रुत्वा अक्रूरं च रामं च समानीयानयित्वा ॥ ४१–४३ ॥
दुर्घटभावदीपिका
एतावदिह कारणमितीत्यस्यारिष्टदर्शने मदिच्छैव मुख्यकारण-मक्रूरगमनममुख्यकारणम् । परन्त्वक्रूरगमनमेवेमुख्यकारणं न भवतीति । किन्तु रामगमनं मणिगमनं चेति द्वयमप्यमुख्यकारणमिति मत्वेत्यर्थः । एतेनैतावदिह कारणमित्येतद-नन्वितमिति दूषणं परिहृतम् । मत्वेत्यध्याहारेणान्वयस्योक्तत्वात् ॥ ४१ ॥
सत्यधर्मीया
इति वृद्धानां वचः श्रुत्वा नैतावदेवारिष्टावाप्तौ कारणं किन्तु मणिगमनं तथा मय्यवञ्चके वञ्चकतामतिरग्रजस्येत्यादिकं चेति । दूतै रामाक्रूरौ समानीय आकारयित्वा पूर्वमक्रूराकारणं चेत्पुनः कृष्णो रहस्येवं बोधयामासेति बलः सन्दिह्येतेति रामाक्रूरावित्युक्त्या प्राग्राम आजगाम ग्राममनन्तरमक्रूर इति चागतितरतमता ध्वन्यते ॥ ४१ ॥
सुमनोरञ्जिनी
इति वृद्धवचः श्रुत्वा । एतावद् अक्रूरप्रवास एव । इह अरिष्ट-दर्शनादौ । न कारणम् । किं तु मणेः रामस्य गमनं च कारणमिति मत्वा ॥ ४१ ॥
अक्रूरं मानयन् कृष्णः कथयित्वा प्रियाः कथाः ।
विदिताखिलतत्वज्ञो स्मयमान उवाच ह ॥ ४२ ॥
दुर्घटभावदीपिका
विज्ञाताखिलतत्त्वज्ञ इत्यस्य विज्ञातमखिलं जगद्येन स विज्ञाता-खिलः । तत्त्वं परतत्त्वं स्वात्मानं जानातीति तत्त्वज्ञो विज्ञाताखिलश्चासौ तत्त्वज्ञश्च विज्ञाताखिलतत्त्वज्ञ इत्यर्थः । एतेन विज्ञाताखिलतत्त्व इत्यनेनैव पूर्णत्वाज् ज्ञ इत्ये-तव्द्यर्थमिति शङ्का परास्ता । अखिलशब्देनाखिलजगत एव ग्रहणेन स्वात्मन इत्यभ्युपेत्य विज्ञाताखिलशब्देनाखिलजगज्ज्ञानमुच्यते । तत्त्वशब्देन मुख्यामुख्यन्यायेन परतत्त्वाख्य-स्वात्मन एव ग्रहणम् । नत्वपरतत्त्वस्येत्यङ्गीकृत्य तत्त्वज्ञशब्देन स्वात्मज्ञानमुच्यत इत्यूरीकरणात् ॥ ४२ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे एकषष्ठितमोऽध्यायः ॥ १०–६१ ॥
सत्यधर्मीया
कृष्णोऽक्रूरं मानयन् प्रियाः कथाः कथयित्वा विज्ञाताखिलतत्त्वज्ञोऽ-खिलं तत्त्वं सुधन्वरहस्यं जानातीति सोऽखिलतत्त्वज्ञोऽक्रूरो विज्ञातो येन सः । अखिलास्त्र-यश्च ते तत्त्वज्ञाः कृतवर्माक्रूरशतधन्वानस्ते विज्ञाता येन स इति वा । अत एव स्मयमान उवाच ॥ ४२ ॥
सुमनोरञ्जिनी
विज्ञातः प्रसिद्धश्चासावखिलतत्वज्ञश्च । यद्वा विज्ञातम् अखिलं यैस्ते विज्ञाताखिलाः सर्वज्ञा ब्रह्मादयस् तेषां तेषु वा तत्वज्ञः सर्वज्ञतम इत्यर्थः । स्यमन्तक-वृत्तान्तं सर्वं जानन्निति भावः ॥ ४२ ॥
ननु दानपते न्यस्तस्त्वय्यसौ शतधन्वना ।
स्यमन्तकमणिः श्रीमान् विदितः पूर्वमेव नः ॥ ४३ ॥
सत्यधर्मीया
हे दानपते । त्वयि शतधन्वनाऽसौ स्यमन्तको मणिः श्रीमान्न्यस्त इति पूर्वमेव नो विदितो ननु निश्चयः ॥ ४३ ॥
सुमनोरञ्जिनी
हे दानपते अक्रूर शतधन्वना स्यमन्तको मणिस् त्वयि न्यस्तः । अयं वृत्तान्तः पूर्वमेव विदितो ननु ॥ ४३ ॥
सत्राजितोऽनपत्यत्वाद् गृह्णीयुर्दुहितुः सुताः ।
दायं निनीयापः पिण्डान् विमुच्यर्णमशेषतः ।
तथापि दुर्धरो ह्यन्यैस्त्वय्यास्तां प्रापितो मणिः ॥ ४४ ॥
पदरत्नावली
किं कृत्वा स्वीकुर्युरिति तत्राह– निनीयेति ॥ अपः पिण्डांश्च निनीय दत्वा अशेषतः पित्रादिविषयमृणं च विमुच्य गृह्णीयुरिति पूर्वेणान्वयः ॥ ४४ ॥
सत्यधर्मीया
रामाशां त्याजयन् योजयंश्च रामाशां तामपि पर्यायतो विपर्यासयन्नाह ॥ सत्राजित इति ॥ अनपत्यत्वादिति । न विद्यतेऽत्रापत्यं पुमपत्येव ग्राह्यम् । स्त्र्यपत्य- भूतसत्यभामाया अध्यक्षसिद्धत्वात्; यस्य तस्य भावस् तत् तस्मात् । दुहितुः पुत्र्याः सुता गृह्णीयुः । ग्रहणेतिकर्तव्यतामाह ॥ निनीयेति ॥ अपस् तिलजलपिण्डांश्च निनीय दत्वा तदृणं विमुच्याशेषतो यावन्तो वर्तन्ते तावन्त इत्यशेषा अशेषतोऽशेषं देयं तद्वित्तम् । तथा ह्युक्तम् ।
‘पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा ।
तत्सुता गोत्रजा बन्धुः शिष्याः सब्रह्मचारिण’ इति ।
सत्यभामायास्तत्पुत्राणां चैत इत्यत्र त इति मन्तव्यम् । तथाऽपि धर्मशास्त्राचारे च सत्यपि । अन्यैस्त्वदितरैर्दुर्धर इति प्रापितः । इदानीं सभां प्रत्यानीतोऽसौ मणिः । मया त्वामेव प्रापितः प्रत्यर्पितस्त्वय्येवास्ताम् । ननु हरिवंशे–
सत्राजितो दश त्वासन् भार्यास्तासां शतं सुताः ।
ख्यातिमन्तस्त्रयस्तेषां भङ्गकारास्तु पूर्वजाः ।
वीरो वामपतिश्चैव उवास्वावाश्च सप्रियः ।
कुमार्यश्चापि तिस्त्रो वै दिक्षु ख्याता नरर्षभ ।
सत्यभामा तमस्त्रीणां व्रतीनां च दृढवृता ।
तथा पद्मवती चैव भार्या कृष्णस्य ता ददौ ।
सभाक्षो भङ्गकारात्तु नादेयश्चे’त्यादिना ।
सुतशतस्य तथा । तथा तत्पौत्रादीन्कन्याद्वयस्य सत्यभामेतरस्य कृष्णपत्नीत्वस्य चोक्तेः कथं सत्राजिदनपत्यता कथन्तरां षोडशसहस्राष्टोत्तरशततोदीरणादत्रान्यत्र मानासम्भव इति चेत् । अत्र केचित्कल्पभेदेन सापत्यत्वानपत्यत्वादिकं ग्रन्थद्वन्द्वानुरूप्येणेति न्यरूरुपन् । अपरे तु ते च पुत्रा जघन्यजा इति नैतद्दायमादाय जीवनार्हा न पिण्डावाप-योग्या इति भागवतेऽनपत्यत्वाद्युक्तिरिति जगदुः । अन्ये मन्यन्ते भागवते भगवता युक्तिरप्युपन्यस्तेति प्रक्षिप्ताः श्लोका भारत इति । वस्तुतस्तु सन्तु सुताः सुते च द्वे । तथाऽपि यदा माधवोपर्यारोपितवान्स्वभ्रातृहतां तत्क्षण एव पुंसामिव उद्वाहानन्तरं स्त्री-द्वयस्याकार्यकारितया मरणस्य स्वस्य च (?) सत्यभामावितरणपुण्यवत्ततया मरणस्य च सम्भवादनपत्यता (?) सम्भाविनीत्यशेषाविरोध इति दिक् ॥ ४४ ॥
सुमनोरञ्जिनी
दुहितुः सत्यभामायाः सुताः, आपः पिण्डांश्च निनीय । अशेषतो ऋणं च विमुच्य । सत्राजितो दायं गृण्हीयुः । तथा शास्त्रात् । तथाप्ययं मणिस् त्वय्येवा-स्ताम् ॥ ४४ ॥
किन्तु मामग्रजः सम्यङ् न प्रत्येति मणिं प्रति ।
दर्शयस्व महाभाग बन्धूनां शान्तिमावह ॥ ४५ ॥
पदरत्नावली
तर्हि तथास्त्विति नेत्याह– किन्त्विति ॥ प्रत्येति विश्वासं करोति । ‘प्रत्ययस्तु ख्यातिरन्ध्रविश्वासाधीनहेतुषु’ इति । शान्तिं मङ्गलम् । ‘शान्तिः प्रशममङ्गले’ इति ॥ ४५ ॥
सत्यधर्मीया
आनयनं पुनर्नयनं च कुत इत्यतो वक्ति ॥ किन्त्विति ॥ मामग्रजो मणिं प्रति तमुद्दिश्य सम्यङ् न प्रत्येति न विश्वसिति । प्रत्ययस्तु ख्यातिरन्ध्रविश्वासा-धीनहेतुष्विति यादवः । हे महाभाग तं दर्शयस्व । तेन च बन्धूनां बलाबलपक्षपातीनां शान्तिं प्रशमं मङ्गलं वां वह प्रापय ॥ ४५ ॥
सुमनोरञ्जिनी
तर्हि किमर्थं ममाह्वानमित्यत आह ॥ किं त्विति ॥ अग्रजो रामः । मणिं प्रति मण्युद्देशेन । न प्रत्येति न विश्वसिति । शान्तिं सुखम् ॥ ४५ ॥
अव्युच्छिन्ना मखास्तेऽद्य वर्तन्ते रुग्मवेदयः ।
एवं सामभिरारब्धः श्वफल्कतनयो मणिम् ॥ ४६ ॥
पदरत्नावली
वर्तन्ते तथेति शेषः । रुग्मवेदयः सुवर्णमेखलाः । आरब्ध उक्तः
॥ ४६ ॥
आदाय वाससा च्छन्नं ददौ सूर्यसमप्रभम् ।
स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः ॥ ४७ ॥
पदरत्नावली
रजो मिथ्यावादलक्षणां धूलिम् ॥ ४७ ॥
सत्यधर्मीया
मयि सर्वज्ञातरि यज्ञपतावाज्ञापयति नेति न वक्तुं क्षमः स्याः । किञ्च त्वं तु सदाध्वरो ऽध्वरतस्ततो नानृतं त्वया वक्तव्यम् । प्रथमपञ्चकषष्ठखण्डे ऋतं वाव दीक्षा सत्यं दीक्षा तस्माद्दीक्षितेन सत्यमेव वदितव्यमित्यारभ्य सत्योत्तरा हैवास्य वागुदिता भवतीत्यन्तेन दीक्षितेन सत्यमेव वदितव्यमित्युक्तेस्त्वया यथार्थमेव वक्तव्यमनृतवचने प्रत्यवेया इति शपथं स्थापयन्निव वक्ति ॥ अव्युच्छिन्ना इति । रुक्मवेदयः सुवर्णवेदिकोपे-तास्ते मखा अद्यापि अव्युच्छिन्ना वर्तन्ते । एवं सामभिः समाधानवचनैरारब्ध उद्यमितः । आरम्भस्तु त्वरायां स्यादुद्यमे वधदर्पयोरिति विश्वः । सूर्यसमा प्रभा यस्य स तं ज्ञातिभ्यो दर्शयित्वा । आत्मनो रजोऽपवादात्मकं मलम् ॥ ४६,४७ ॥
सुमनोरञ्जिनी
अव्युच्छिन्नाः सन्तताः । रुग्मवेदयः सुवर्णवेदयः मखा वर्तन्ते । यतोऽतो मणिस् त्वय्येवास्तामित्यन्वयः । आरब्ध उक्तः । आत्मनो रजः रामेणारोपितं वञ्चकत्वलक्षणम् ॥ ४६,४७ ॥
मार्जयामास लोकेश अभिभाष्य हलायुधम् ।
दृष्ट्वा मणिं हलधरस्तदर्थं प्रोष्य आगतः ॥ ४८ ॥
पदरत्नावली
तदर्थं मणिनिमित्तम् ॥ ४८ ॥
सत्यधर्मीया
मार्जयामासाशोधयत् । तदर्थं मणिनिमित्तं प्रोष्य प्रवासं कृत्वाऽऽगत इति । विवक्षाभावात्सन्ध्यभावः ॥ ४८ ॥
सुमनोरञ्जिनी
तदर्थं मण्यर्थम् । आगतः ॥ ४८ ॥
योग्योऽहमिति मन्वानश्चकमे कुरुपुङ्गव ।
सत्यभामा पितृधनं मन्वाना स्वात्मनोचितम् ॥ ४९ ॥
पदरत्नावली
स्वात्मना इति तृतीया षष्ट्यर्थे ॥ ४९ ॥
सत्यधर्मीया
अहं योग्य इति मन्वानस्तं चकमे कामयामास । स्वात्मना स्वमनसा पितृधनमुचितमिति मन्वाना ॥ ४९ ॥
सुमनोरञ्जिनी
सत्यभामापि । यतः पितृधनम् । अतः स्वात्मना स्वमनसा उचितं, स्वस्या उचितं मन्वाना । यद्वा स्वात्मना स्वेन उचितमभ्यस्तम् । पितृगृहे वारं वारं गृहीतम् । अभ्यस्तमुचितं विदुरिति शाश्वतः ॥ ४९ ॥
गृहीतुमैच्छद् विस्रब्धं हरेश्चित्तमजानती ।
जाम्बवत्यपि शुल्कार्थं पित्रा दत्तो ममेति ह ॥ ५० ॥
पदरत्नावली
स्नेहाद् विस्रब्धं विश्वस्तम् ॥ ५०–५१ ॥
सत्यधर्मीया
हरेश्चित्तमजानती अजानतीव तं गृहीतुमैच्छत् । जाम्बवत्यपि तस्मि-न्मणौ स्पृहाञ्चक्र इत्यन्वयः । ननु न सत्या कृष्णावाञ्छितं किञ्चिदिच्छेत् तथाऽपि तस्या-योग्य इत्याह कृष्ण इति श्रीमदाचार्योक्तिस्तर्हि विरुद्धाऽऽसीदिति चेन्न । वस्तुस्थिति-कथनपरा सा इयं तु विडम्बनालम्बिनीति किञ्चित्समाधिसम्भवात् । यद्वा सत्यभामेत्यारभ्य स्पृहाञ्चक्रे मणाविति पर्यन्तं जाम्बवतीचर्योक्तिः । तथाहि तदन्वयार्थौ । सत्याभामायाः पिता तस्य धनं परमार्थतः स्वात्मना स्वमनसा सा सत्यभामा गृहीतुमैच्छच्चेदुचितमिति विस्रब्ध-मन्तर्मन्वाना जाम्बवती हरेश्चित्तमजानती मम पिता शुल्कार्थं दत्तमिति तद्धनरूपे मणौ स्पृहाञ्चक्र इति विवक्षित्वाऽऽचार्यास्तथोचुरिति मनस्यानेयम् ॥ ५० ॥
सुमनोरञ्जिनी
हरेश् चित्तम् । स्वस्यां विस्रब्धं च मन्वाना । वस्तुतोऽजानती । यद्वा हरेश् चित्तं मनोऽभिप्रायं विस्रब्धं स्पष्टमजानतीत्यर्थः । विस्रब्धशब्दमिच्छन्ति विस्पष्टा-नुद्भटार्थकमिति शाश्वतः । इयमुक्तिरयोग्यव्यामोहनायेति ज्ञेयम् । सत्यभामाया रमावतार-त्वात् कृष्णावाञ्छिते इच्छाया असम्भवात् । तदुक्तम् भारततात्पर्ये । न सत्या कृष्णा-वाञ्छितं किञ्चिदिच्छेत्तथापि तस्यायोग्य इत्याह कृष्ण इति । केचित्तु हरेश्चित्तं न जानतीति प्रकल्प्य हरेश्चित्तं जानती गृहीतंु नैच्छदिति योजयन्ति । शुल्कार्थं वरदक्षिणार्थम् ॥ ५० ॥
स्पृहां चक्रे मणौ तस्मिन् सर्वं विज्ञाय माधवः ।
अक्रूरस्य करे भूयो मणिं प्रत्यर्पयद् विभुः ॥ ५१ ॥
सत्यधर्मीया
सर्वं रामादिहृदि स्थितं विज्ञाय कुलकलहाकुलो भूपः पुनरक्रूरस्य करे प्रत्यर्पयत् प्रत्यार्पयत् ॥ ५१ ॥
यस्त्वेतद् भगवत ईश्वरस्य विष्णोर्वीर्याख्यं व्रजिनहरं सुमङ्गलं च ।
आख्यानं पठति शृृणोत्यनुस्मरेद् वा दुष्कीर्तिं चरितमपोह्य याति शान्तिम्
॥ ५२ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे एकषष्टिरध्यायः ॥
पदरत्नावली
फलमाह– य इति । शान्तिं मुक्तिम् ॥ ५२ ॥
॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे एकषष्टितमोऽध्यायः ॥
सत्यधर्मीया
श्रवणादितः स्यात्फलमिति लपति । योऽधिकारीश्वरस्येशेभ्योऽपि वरस्य भगवतो विष्णोर्वृजिनहरं सुमङ्गलं वीर्याख्यं पराक्रमख्यापकमाख्यानं शृृणोति पठत्यनुस्मरेद्वा स दुष्कीर्तिं दुरितं चापोह्य शान्तिं शान्तिर्मोक्षोऽथ निर्वाणमित्याभिधानान् मोक्षं याति । अत्र भक्तितरतमभावेन शान्तौ तरतमभाव इति तत्त्रये समानाऽपि श्रवण-पाठानुस्मरसम्मता चेति ध्येयम् ॥ ५२ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध
उत्तरार्धे एकषष्टिरध्यायः ॥ १०–६१ ॥
सुमनोरञ्जिनी
वीर्यमाख्यायतेऽनेनेति वीर्याख्यमेतदाख्यानम् । दुष्कीर्तिं तत्कारणञ्च अपोह्य । शान्तिम् ऐहिकं मौक्तं च सुखम् ॥ ५२ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां (गूढकर्तृकायां) **
सुमनोरञ्जिन्याम् एकषष्टिरध्यायः ॥