१२ षष्टितमोऽध्यायः

सत्राजित्तनयां तन्वीं कृष्णाय कृतकिल्बिषः

॥ अथ षष्टितमोऽध्यायः ॥

श्रीशुक उवाच—

सत्राजित्तनयां तन्वीं कृष्णाय कृतकिल्बिषः ।

स्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान् ॥ १ ॥

पदरत्नावली

त्रिविक्रमावतारस्य निरपेक्षभक्तानुकम्पिनो यदुनन्दनस्य एतज्जन्मा-नुष्ठितकर्मनिमित्तदुर्यशः शमनहेतुविक्रममनुक्रामत्यस्मिन्नध्याये । तत्र परीक्षितः प्रश्नबीज-मुत्थापयति– सत्राजिदिति । सत्रेण हिरण्यादिदानलक्षणतपसा सूर्यस्थितं हरिं जितवान् वशीकृतवानित्यतः सत्राजिदिति नाम लब्धवान् । ‘यज्ञभेदे सदा दाने सत्रमाच्छादने वने’ इति । कृतकिल्बिषः कृतापराधः । मणिना सह । स्वयमुद्यम्य याचनादिपरप्रेरणामन्तरेण मत्कन्यां तुभ्यं दास्यामीति वचनादिप्रयत्नं विधाय । सत्राजितोऽन्तरात्मा सत्रविषये अजित इति वा ॥ १–२ ॥

सत्यधर्मीया

लोके लोकानामपयशश्च्युतिं श्रवणादितः कुर्वदच्युतापयशश्शामकं चरितं विवक्षुः परीक्षित्प्रश्नबीजमेकेन श्लोकेन समस्य समग्रं वदन्ननुवदति ॥ सत्राजिदिति । कृतं किल्बिषं येन सः कृतापराध इति यावत् । स्यमन्तकेन मणिना द्युरत्नसम्पादित-तन्नामकरत्नेन । सत्रेति विश्लिष्टं शब्दानुशासनपदसमस्तशब्दशब्दवदनुवर्तते । सत्रा सह गतम् । उद्यम्योद्धृत्य दत्तवान् ॥ १ ॥

सुमनोरञ्जिनी

भक्तानुकम्पी भगवान् स्वभक्तस्य द्वेषफलमनिरूप्य भक्तिफलमेव ददातीतीममर्थं सूचयन् प्राणिनाम् एतज्जन्मानुष्ठितकर्मनिमित्तदुर्यशःशमनहेतुं श्रीकृष्णस्य विक्रमं निरूपयत्यध्यायद्वयेन । तत्र राज्ञो विशेषविवित्साजननाय सामान्यतस्तदाह ॥ सत्रा जिदिति । कृतकिल्बिषः कृतापराधः । सत्राजित् । श्रीकृष्णाय । स्यमन्तकेन तदाख्येन मणिना सह । स्वतनयां, स्वयमेवोद्यम्य परप्रेरणामन्तरेण स्वयमुद्योगं कृत्वा दत्तवान् ॥ १ ॥

राजोवाच—

सत्राजितः किमकरोद् ब्रह्मन् कृष्णस्य किल्बिषम् ।

स्यमन्तकः कुतस्तस्य कस्माद् दत्ता सुता हरेः ॥ २ ॥

सत्यधर्मीया

अकारान्तस्तकारान्तश्चेति पर्यायशब्दौ तद्वाचकौ । किं किल्बिषमकरोत् स्यमन्तको मणिश्च कुतः कस्मादायातः कस्मात्किं कारणं हरेः सुता दत्तेति । मम किल्बिषं सन्देहहेतुभूतं मनोबलं ब्रह्मंस्त्वं हरेरपहरेः पूर्णत्वाद्योग्यतामनुसृत्येति वाऽन्वयः ॥ २ ॥

सुमनोरञ्जिनी

एवं विदितसंक्षेपो राजा विशेषविवित्सया पृच्छति ॥ सत्राजित इति । सत्राजिदिति तान्तः । सत्राजित इत्यकारान्तश्चेति द्वावपि शब्दौ तस्य वाचकौ बोध्यौ । किल्बिषमपराधम् । तस्य स्यमन्तकः (?) कुतः कस्य सकाशात्, लब्धः । हरेर् हरये ॥२॥

श्रीशुक उवाच—

आसीत् सत्राजितः सूर्यभक्तस्य परमः सखा ।

प्रीतस्तस्मै मणिं प्रादात् सूर्यस्तुष्टः स्यमन्तकम् ॥ ३ ॥

पदरत्नावली

भक्तस्य सत्राजितः सखा ॥ ३ ॥

दुर्घटभावदीपिका

सूर्यो भक्तस्य सत्राजितः सत्राजिद्राजस्य परमः सखाऽऽसीत् । कथं परमः सखाऽऽसीदित्युक्तं विवृणोति – प्रीत इति । सूर्यः सत्राजितो भक्त्या सेवया च प्रीतस्तुष्टोऽतिशयेन तुष्टः सन् । सत्राजिद्राजाय स्यमन्तकमणिं प्रादादिति । एतेन प्रीत इत्यनेनैव पूर्णत्वात्तुष्ट इत्येतत्पुनरुक्तमिति चोद्यस्यानवकाशः । प्रीतस्तुष्ट इति द्विर्वचन-मतिशयार्थ इत्यभ्युपगम्य प्रीतस्तुष्ट इत्यस्यातिशयेन तुष्ट इत्यर्थस्योक्तत्वात् ॥ ३ ॥

सत्यधर्मीया

सूर्यभक्तस्य सूर्यो ह्योषधिविशेषः स एव भक्तमन्नं यस्य स तस्य । सूर्यः स्यादोषधावपीति विश्वः । भक्तं गतम् । एतेन स्वभक्तस्येति वक्तव्यं सूर्यभक्तस्येत्युक्तं कथमिति किञ्चिच्छङ्कनं परिहृतं तदशनं चोक्तमिति मन्तव्यम् । सत्राजितः परमः सखा सूर्यः प्रीतः स्यमन्तकमणिं तस्मै प्रादात् । तुष्टः स सत्राजिदित्युत्तरेणान्वयः । अतो न प्रीतातिरेकः ॥ ३ ॥

सुमनोरञ्जिनी

सूर्यभक्तस्य सत्राजितः । सूर्यः सखा आसीत् । प्रीतः स्निग्धः । तुष्टः सूर्यस् तस्मै मणिं स्यमन्तकाख्यम् । प्रादात् ॥ ३ ॥

विरोधोद्धारः— अत्र प्रीतस्तुष्ट इति द्वाभ्यामर्थतः सूर्य इति द्वाभ्यां शब्दतश्च पुनरुक्तिद्वयमत उच्यते । भक्तस्य परमः सखा सूर्यः सत्राजितः प्रीत आसीदिति पूर्वान्वयः । तुष्टः सूर्यस्तस्मै सत्राजिते स्यमन्तकं तदाख्यं मणिं प्रादादित्युत्तरान्वयः । पूर्वत्र प्रीतिविधानमुत्तरत्र तुष्टे सूर्ये मणिदातृत्वविधानम् । अत्रोत्तरत्र प्रीतेर्विधानाभावेनोद्देश्यस्य तुष्ट इति विशेषणत्वेन योजिते आसीत्प्रादादिति क्रियाद्वयेन कर्तृद्वयावश्यकत्वेन च न पुनरुक्तिद्वयापातः । किञ्च सत्राजित्तनयां तन्वीमित्यत्र सत्राजिच्छब्दस्याजन्तत्वाभावे-नात्रान्यत्र तु सत्राजितः किमकरोद्ब्रह्मन् कृष्णस्य किल्बिषमित्यत्राजन्तत्वस्य दर्शनेनो-भयथाऽपि सम्भवस्याङ्गीकारान्न विरोधः ॥ ३ ॥

स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रविः ।

प्रविष्टो द्वारकां राजंस्तेजसा नोपलक्षितः ॥ ४ ॥

पदरत्नावली

तेजसाऽर्चिषा नोपलक्षितो न दृष्टः ॥ ४ ॥

दुर्घटभावदीपिका

अज इत्यनेन सूर्य उच्यते । एतेन सूर्योऽजायतेति कथनमयुक्त-मिति शङ्का परास्ता । अ इति ब्रह्मेति श्रुत्याऽकारस्य विष्णुवाचित्वस्य, चक्षोः सूर्योऽ-जायतेत्यादिश्रुत्या सूर्यस्य विष्णोर्जातत्वस्य च सिद्धत्वादज इत्यनेन सूर्य उच्यत इत्यूरीकरणात् ॥ ८ ॥

सत्यधर्मीया

तेजसा सत्राजिदिति नोपलक्षितोऽपरिचितैरप्यज्ञात इत्यर्थः ॥ ४ ॥

सुमनोरञ्जिनी

तेजसा मणितेजसा निमित्तेन जनैर् नोपलक्षितो ऽयं सत्राजिदिति न ज्ञातः ॥ ४ ॥

तं विलोक्य जना दूरात् तेजसा मुष्टदृष्टयः ।

दीव्यतेऽक्षैर्भगवते शशंसुः सूर्यमागतम् ॥ ५ ॥

पदरत्नावली

अक्षैर्देवनाङ्गैर्दीव्यते द्यूतक्रीडां कुर्वते ॥ ५–६ ॥

सत्यधर्मीया

मुष्टाऽपहृता दृष्टिर्येषां ते तथा जनाः सूर्य आयातः किमिति संशयग्रस्ता अक्षैर्दुरोदरैर्दीव्यते क्रीडते ॥ ५ ॥

सुमनोरञ्जिनी

तेजसा । मुष्टा प्रतिहता दृष्टिर्येषां ते । अक्षैर् द्यूतसाधनैः । दीव्यते क्रीडते भगवते । प्रायेण सूर्य एवायमिति शङ्किताः सम्भावनायुक्ताः ॥ ५ ॥

नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर ।

दामोदरारविन्दाक्ष गोविन्द यदुनन्दन ॥ ६ ॥

सत्यधर्मीया

अरविन्दाक्ष कमलनयन । अरविन्दौ विधुरवी अक्षिणी यस्य स इत्यागमानुबन्धसूचनं वा ॥ ६ ॥

सुमनोरञ्जिनी

किमिति शशंसुरित्यत आह ॥ नारायणेति ॥ ६ ॥

एष आयाति सविता त्वां दिदृक्षुर्जगत्पते ।

मुष्णन् गभस्तिचक्रेण नृणां चक्षूंषि तिग्मरुक् ॥ ७ ॥

पदरत्नावली

गभस्तिचक्रेण रश्मिमण्डलेन । तिग्मरुक् सूर्यः ॥ ७ ॥

सत्यधर्मीया

गभस्तिचक्रेण करनिकुरुम्बेन तिग्मरुक् तीक्ष्णप्रकाशः ॥ ७ ॥

सुमनोरञ्जिनी

गभस्तिचक्रेण रश्मिमण्डलेन । तिग्मा तीक्ष्णा रुक् यस्य सः ॥७॥

नन्वन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्षभाः ।

ज्ञात्वाऽद्य गूढं यदुषु द्रष्टुं त्वां यात्यजः प्रभुः ॥ ८ ॥

पदरत्नावली

विबुधर्षभा देवश्रेष्ठास् त्रिलोक्यां ते मार्गमन्विच्छन्ति मृगयन्ते ननु । तेष्वजः सूर्यो ऽद्य यदुषु गूढं ज्ञात्वा द्रष्टुं यात्यायाति ‘अजाय लोकत्रयभावनाय’ इति वचनात् ॥ ८–९ ॥

सत्यधर्मीया

स कुत आगच्छेदित्यतस्तव माहात्म्यमीदृगित्याहुः ॥ नन्विति । विबुधर्षभा अपि ते मार्गं त्रिलोक्यामिच्छन्ति ननु निश्चयो यदुषु गूढं त्वामज्ञात्वा दिदृक्षुरजः सूर्योऽजाय लोकत्रयभावनायेति वचनात् । योऽजस्तं त्वां द्रष्टुमिति वाऽन्वयः ॥ ८ ॥

सुमनोरञ्जिनी

विबुधर्षभा देवश्रेष्ठास् ते मार्गम् अन्विच्छन्ति मृगयन्ते । तेषु अजः सूर्यः यदुषु गूढं ज्ञात्वा । त्वा त्वां द्रष्टुम् आयाति ननु ॥ ८ ॥

निशम्य बालवचनं प्रहस्याम्बुजलोचनः ।

प्राह नासौ रविर्देवः सत्राजिन्मणिना ज्वलन् ॥ ९ ॥

सत्यधर्मीया

असूर्यं सूर्यत्वेन वदन्तीति बाला मूर्खास्तेषाम् । न चेद्रविरय-मरविन्दाक्षेयती द्युतिः कथमन्यस्येत्यतः कथयति ॥ मणिना ज्वलन्निति ॥ ९ ॥

सुमनोरञ्जिनी

बालानाम् अज्ञानाम् । ज्वलन् द्योतमानः ॥ ९ ॥

सत्राजित् स्वगृहं श्रीमत् कृतकौतुकमङ्गलम् ।

प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत् ॥ १० ॥

पदरत्नावली

गृहदेवसदने देवस्थाने । न्यवेशयत् प्रतिष्ठितवान् ॥ १० ॥

सत्यधर्मीया

कृतं कौतुकं मङ्गलं येन तद्गृहं विप्रैः ॥ १० ॥

सुमनोरञ्जिनी

कृतानि कौतुकेन मङ्गलानि यस्मिन् तत् । गृहं प्रविश्य । देवसदने । विप्रैर् मणिं न्यवेशयत् प्रतिष्ठापयामास ॥ १० ॥

दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो ।

दुर्भिक्षमार्यरिष्टानि सर्वेऽपि व्याधयोऽशुभाः ॥ ११ ॥

पदरत्नावली

पञ्चविंशतितुलात्मको भारः । तानष्टौ भारान् सृजति ददाति । मारी अकालमृत्युः । अरिष्टं मृत्युचिह्नम् ॥ ११ ॥

सत्यधर्मीया

दिने दिने प्रतिदिनं पञ्चविंशतितुलात्मक एको भारस्तदष्टकमष्टौ भारान् सृजति । यद्वा विंशतितुलात्मक एको भारश्चतुर्भिर्व्रीहिभिर्गुञ्जा गुञ्जान्पञ्च पणं पणान् । अष्टौ धरणमष्टौ च कर्षतश्च चतुरं पलम् । तुलापञ्चशते प्राहुर्भारः स्याद्विंशतिस्तुला इत्युक्तेः । भारस्तु विविधे स्वर्णपलानामयुतद्वय इति विश्वः । दुःसाध्या भिक्षा येषां ते दुर्भिक्षा विशेषणाभावा-द्विशिष्टाभावः । मारीकिण्याद्यरिष्टानि भाव्यशुभसूचकानि सर्वेऽपि व्याधयो रोगाः ॥ ११ ॥

सुमनोरञ्जिनी

भारः स्याद्विंशतिस्तुलेति वचनाद् विंशतितुलात्मक एको भारः । दिने दिने । अष्टौ स्वर्णभारान् । सृजति ददाति । मारी अकालमृत्युः । अरिष्टं दुश्चिह्नम् । अशुभा दुःखहेतवः ॥ ११ ॥

न सन्ति मायिनस्तत्र यद्राष्ट्रेऽभ्यर्चितो मणिः ।

स याचितो मणिं क्वापि यदुराजाय शौरिणा ॥ १२ ॥

पदरत्नावली

क्वापि कदाचित् ॥ १२ ॥

सत्यधर्मीया

मायिनः कपटिनो यद्राष्ट्रे यस्मिन्देशे मणिरभ्यर्चितस्तस्मिन्देशे एते न सन्ति न प्रादुष्येयुः क्वापि कदाचित् शौरिणा कृष्णेन यदुराजायोग्रसेनार्थं याचितः ॥१२॥

सुमनोरञ्जिनी

मायिनः कपटवृत्तयः । सः मणिः । शौरिणा प्रार्थितः ॥ १२ ॥

नैवार्थकामुकः प्रादाद् याञ्चाभङ्गमतर्कयन् ।

तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम् ॥ १३ ॥

पदरत्नावली

अतर्कयन् न्यरूपयत् । प्रतिमुच्य बद्ध्वा ॥ १३ ॥

दुर्घटभावदीपिका

याञ्चाभङ्गमतर्कयदित्यस्यायं भावः । मया कृष्णकृतयाञ्चाभङ्गः कृतः । तेन मम किमनिष्टं भवतीति शङ्काऽऽविष्टो जात इति ॥ १३ ॥

सत्यधर्मीया

अर्थकामुको निरन्तरं तदतिसृज्य सुवर्णकामुकः प्राग्या कर्तव्यत्वेना-तर्कयदिदमेव कर्तव्यमित्यूहितवाननन्तरं नैव प्रदात्प्रतिमुच्याबाध्य ॥ १३ ॥

सुमनोरञ्जिनी

अथापि अर्थकामुकः सत्राजित् । यदुराजाय । न प्रादात् । परं तु याञ्चाभङ्गम् । अतर्कयद् याञ्चाभङ्गो मया कृतः । तेन प्रायशो ममानिष्टं भवेदिति ऊहयामास । प्रतिमुच्य बध्वा ॥ १३ ॥

प्रसेनो हयमारुह्य मृगयां व्यचरद् वने ।

प्रसेनं सहयं हत्वा मणिमाच्छिद्य केसरी ॥ १४ ॥

पदरत्नावली

आच्छिद्य स्वीकृत्य ॥ १४ ॥

सत्यधर्मीया

प्रसेनो नाम्ना तद्भ्राता व्यचरच्चचार मृगयां गतमाच्छिद्यापहृत्य केसरी सिंहः ॥ १४ ॥

सुमनोरञ्जिनी

प्रसेनस् तन्नामा । सत्राजिदनुजः । आच्छिद्य बलाद्गृहीत्वा ॥१४॥

विरोधोद्धारः— प्रसेन इति । पूर्वं दुर्भिक्षमार्यरिष्टानि सर्वेऽपि व्याधयोऽशुभाः । न सन्ति मायिनस्तत्र यद्राष्ट्रेऽभ्यर्चितो मणिरिति वाक्येन मणिसाहचर्ये सति मायाद्यभावोक्त्याऽत्र प्रसेनादिवधकथनस्य विरोधोऽत उच्यते । यद्रेष्ट्रऽभ्यर्चितो मणिरित्युक्तेर्मण्यर्चनस्य प्रसेनादिभिरकृतत्वाद्वधप्राप्तिः । अतो न पूर्ववाक्यविरोधः ॥ यद्वा ॥ कृष्णस्य याञ्चा-भङ्गनिमित्तेन मणेरुक्तसामर्थ्यपराहतेः प्रसेनादिवधप्राप्तौ न विरोधः । प्रातिकूले हरावर्थाः सर्वेऽनर्था भवन्ति हीत्युक्तेः ॥ १४ ॥

बिलं विशन् जाम्बवता निहतो मणिमिच्छता ।

सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले ॥ १५ ॥

पदरत्नावली

क्रीडनकं लीलासाधनम् ॥ १५ ॥

सत्यधर्मीया

बिलं स्वावासं सोऽपि जाम्बवानपि क्रीडनं क्रीडासाधनम् ॥ १५ ॥

सुमनोरञ्जिनी

क्रीडनकं क्रीडासाधनम् ॥ १५ ॥

अपश्यन् भ्रातरं भ्राता सत्राजित् पर्यतप्यत ।

प्रायः कृष्णेन निहतो मणिग्रीवो वनं गतः ॥ १६ ॥

पदरत्नावली

शौरेर्याञ्चाभङ्गदोषादिदमनर्थजातमभूद् अन्यथा मणिमाहात्म्यस्तवनं व्यर्थमिति तात्पर्यमवगन्तव्यम् । मणिर् ग्रीवायां यस्य स तथा ॥ १६ ॥

दुर्घटभावदीपिका

भ्राता भ्रातृवत्सलः सत्राजिद्भ्रातरमपश्यन्पर्यतप्यतेति । एतेन सत्राजिद्भ्रातरमपश्यन्नित्यनेनैवार्थात्सत्राजिद्भ्रातृत्वस्य प्राप्तत्वाद् भ्रातेत्येतव्द्यर्थमिति दूषणं प्रत्युक्तम् । भ्रातेत्यनेन भ्रातृत्वमुच्यत इत्यनङ्गीकृत्य परितापोपपादनार्थं भ्रातृवात्सल्यमुच्यत इत्यङ्गीकारात् ॥ १६ ॥

सत्यधर्मीया

पर्यतप्यत सन्तप्तोऽभूत् । ततश्चैवमूहितवानित्याह ॥ प्राय इति

॥ १६ ॥

भ्राता ममेति तच्छ्रुत्वा कर्णे कर्णेऽजपन् जनाः ।

भगवान् तदुपश्रुत्य दुर्यशो लिप्तमात्मनि ॥ १७ ॥

मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरैः ।

हतं प्रसेनमश्वं च वीक्ष्य केसरिणा वने ॥ १८ ॥

सत्यधर्मीया

कृष्णेन मणितृष्णेन वनं गतो मम भ्राता हत इत्युक्तवानिति शेषः । तच्छ्रुत्वा जनाः कर्णे कर्णे प्रतिकर्णमजपन् । ननु दुर्भिक्षमारीत्यादिमहामहिमवति रत्ने सति कण्ठे कथं सिंहो हिंसितवांस्तमिति चेत् । सत्यम् । हरिद्रोहाभावे तथैव । याञ्चाभङ्गो भगवतोऽनेनाचरित इति विशेषशक्त्यशक्त्युपपत्तेः । शुचिष्मता सदा धार्यं रत्नमेतन्महोत्तमम् । सत्राजित्तत्क्षणेनैतदशुचिं हन्ति मानवम् । अश्वारूढोऽशुचिश्चासौ हतः सिंहेन तत्क्षणादिति व्रतार्कोक्तेरशुचित्वादुपपन्नं तद्धननं सति तस्मिन्नपीति वा ज्ञेयम् । आत्मनि लिप्तं दुर्यशो माष्टुं नागरैः सहानीय रत्नं स्थापितवानित्यपवादान्तरप्रच्यावनार्थं नागरैः सह गमनमिति मन्तव्यम् ॥ १७,१८ ॥

सुमनोरञ्जिनी

अजपन् उपांशु अकथयन् । उपांशूच्चारणं जप इत्यभिधानात् ॥१७॥

तं चाद्रिपृष्ठे निहतमृक्षेण ददृशुर्जनाः ।

ऋक्षराजबिलं भीममन्धेन तमसा वृतम् ।

एको विवेश भगवानवस्थाप्य बहिः प्रजाः ॥ १९ ॥

पदरत्नावली

ऋक्षेण जाम्बवता ॥ १९–२३ ॥

सत्यधर्मीया

तं सिंहम् । अन्धयति स्वप्रविष्टमित्यन्धस्तमसाऽन्धकारेणावृतम् । प्रजा बहिरवस्थाप्यैक एव विवेश ॥ १९ ॥

सुमनोरञ्जिनी

तं च केसरिणं च । ऋक्षेण जाम्बवता ॥ १९,२० ॥

तत्र दृष्ट्वा मणिश्रेष्ठं बालक्रीडनकं कृतम् ।

हर्तुं कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके ॥ २० ॥

**सत्यधर्मीया **

अर्भकान्तिके जाम्बवतोऽन्तिकेऽवतस्थे गतम् ॥ २० ॥

तमपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीतवत् ।

तच्छ्रुत्वाऽभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनां वरः ॥ २१ ॥

दुर्घटभावदीपिका

भीतवदित्यस्य भीतमित्यर्थः । एतेनार्भकान्तिकस्थिता पूर्वनर-दर्शनाद्धात्र्या भीतेरवर्जनीयत्वाद् भीतमतीति वक्तव्यं भीतवदिति भीतसादृश्याभिधानमयुक्त-मिति चोद्यं परास्तम् । भावार्थकक्तप्रत्ययान्तभीतशब्दान्मतुपि छान्दसे ङीपो लोपे भीत-वदिति रूपं निष्पन्नमित्यभ्युपेत्य भीतवदित्यस्य भीतमित्यर्थ इत्युक्तत्वात् ॥ २१ ॥

सत्यधर्मीया

धात्री उपमाता भीतवद्भीता गतम् । मदनज्वरदाहार्ता दृष्ट्वा तं कमलेक्षणम् । उवाच ललिता बाला गम्यतां गम्यतामिति । रत्नं गृहीत्वा वेगेन यावच्छेते तु जाम्बवान् । इत्याकर्ण्य हसञ्छौरिः शङ्खं दध्मौ प्रतापवान् । आकर्ण्य सहसोत्थायेति व्रतार्कोक्तिः कृष्णकृष्णतोपायपरोपायान्तरपरमिदमिति न विरोधः । धात्र्या कुमारमित्यादि-र्हरिवंशोऽपि समीकृतोऽनेनेति ज्ञेयम् ॥ २१ ॥

सुमनोरञ्जिनी

धात्री दासी ॥ २१,२२ ॥

स वै भगवता तेन युयुधे स्वामिनाऽऽत्मनः ।

पुरुषं प्राकृतं मत्वा कुपितो नानुभाववित् ॥ २२ ॥

सत्यधर्मीया

कुपित इति नानुभाववित् प्राकृतं कञ्चन पुरुषं मत्वा तेन कृष्णेन सह युयुधे ॥ २२ ॥

द्वन्द्वयुद्धं सुतुमुलमुभयोर्विजिगीषतोः ।

आयुधाश्मद्रुमैर्दोर्भिः क्रव्यार्थे श्येनयोरिव ॥ २३ ॥

सत्यधर्मीया

अयुधाश्मद्रुमैः शिलाभिर्द्रुमैः । आयुधस्थानेऽश्मद्रुमैरिति वा । क्रव्यार्थे मांसार्थे ॥ २३ ॥

**सुमनोरञ्जिनी **

क्रव्यार्थे आमिषार्थे ॥ २३ ॥

आसीत् तदष्टविंशाहमितरेतरमुष्टिभिः ।

वज्रनिष्पेषपरुषैरविश्रममहर्निशम् ॥ २४ ॥

पदरत्नावली

अविश्रमं निरन्तरम् ॥ २४–२५ ॥

दुर्घटभावदीपिका

वज्रनिष्पेषपरुषैर्वज्रप्रहारवत्परुषैरितरेतरमुष्टिभिरितरेतरमुष्टिप्रहारै-रष्टविंशाहमष्टविंशतिदिनपर्यन्तमहर्निशं तद्युद्धमविश्रमं निरन्तरं यथा भवति तथाऽऽसीदिति । एतेन मुष्टीनां वज्रसाम्येन परुषत्वं वक्तव्यं वज्रनिष्पेषपरुषैरिति वज्र्रप्रहारसाम्येन परुष-त्वाभिधानमयुक्तमिति दूषणं प्रत्युक्तम् । इतरेतरमुष्टिभिरिति मुष्टिशब्देन मुष्टीनां ग्रहणमित्य-नङ्गीकृत्य मुष्टिप्रहाराणां ग्रहणमित्यङ्गीकारात् ॥ २४ ॥

सत्यधर्मीया

अविश्रमं विश्रामरहितं यथा निरन्तरमिति यावत् ॥ २४ ॥

सुमनोरञ्जिनी

अष्ट च विंशतिश्च अहानि यस्मिन्कर्मणि तदष्टविंशाहम् । इतरेतर-मुष्टिभिः परस्परमुष्टिभिः । कीदृशैः । वज्रस्य निष्पेष आघातस् तद्वत् परुषैर् निष्ठुरैः । अविश्रमं विश्रमेण विश्रान्त्या रहितं यथा भवति तथा ॥ २४ ॥

कृष्णमुष्टिविनिष्पातनिष्पिष्टाङ्गोरुबन्धनः ।

क्षीणसत्वः स्विन्नगात्रस्तमाहातीवविस्मितः ॥ २५ ॥

सत्यधर्मीया

ननु व्रतार्के एकविंशद्दिनं यावद्बाहुप्रहरणो विभुरित्येकविंशद्दिनोक्तिरत्र त्वष्टाविंशाहमित्युक्तिः कथमिति चेन्न । नागरगमनं सप्तमे दिने तेनैकविंशाहोक्तिस्तत्रात्र तु सह तत्सप्तकेनाष्टाविंशाहोक्तिरिति सङ्ख्यासाम्यसम्भवात् । द्वारकावासिनः सर्वे गतास्ते सप्तमे दिन इति तत्रैवोक्तेः । बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिमित्यादिर्हरिवंशोऽपि व्याख्यातोऽनेनेति ज्ञेयम् । निष्पिष्टान्यङ्गस्योरूणि बन्धनानि शिरस्थानानि यस्य सः क्षीणं सत्त्वं बलं यस्य सः स्विन्नं गात्रं वपुर्यस्य सोऽतिविस्मितो मामेवं क्लिष्टं कुर्वन्न विष्ण्वन्यः स्यादिति ॥ २५ ॥

सुमनोरञ्जिनी

कृष्णस्य मुष्टीनां विनिष्पात आघातः । तेन निष्पिष्टानि अङ्गा-नामवयवानाम् उरूणि बन्धनानि सन्धिस्थानानि यस्य सः । क्षीणसत्वः क्षीणबलः । तं श्रीकृष्णम् ॥ २५ ॥

जाने त्वां सर्वभूतानां प्राणओजः सहोबलम् ।

विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम् ॥ २६ ॥

पदरत्नावली

सर्वभूतानां प्राणादिप्रदम् । प्राणः प्राणनं चेष्टाशक्तिः, ओजो ऽवष्टम्भशक्तिः, सह शरीरसामर्थ्यम्, बलं स्थौल्यम् ॥ २६ ॥

सत्यधर्मीया

ज्ञातं प्रमेयं विज्ञापयति ॥ जाने त्वामिति ॥ सर्वभूतानां प्राण ओजोऽवष्टम्भः सहः सहनं बलं तत्प्रापकं पुराणपुुरुषं प्रभविष्णुं जगदुत्पादशीलमधीश्वरं विष्णुं जाने ॥ २६ ॥

सुमनोरञ्जिनी

सर्वभूतानां प्राणः प्राणनं चेष्टाशक्तिः । ओजो ऽवष्टंभशक्तिः । इन्द्रियाणां शक्तिर्वा । सहः सहनशक्तिः । बलं शरीरसामर्थ्यम् । प्राणनादिप्रद इत्यर्थः । प्रभविष्णुं प्रकृष्टतया भवनशीलम् । सर्वोत्तमतया स्थितमिति यावत् ॥ २६ ॥

त्वं हि विश्वसृजां स्रष्टा सृष्टानामधिपो वसन् ।

कालः कलयतामीश पर आत्मा तथाऽऽत्मनाम् ॥ २७ ॥

पदरत्नावली

सृष्टानामधिपः । सृष्टेषु वसन् । कालः संहर्ता । आत्मनां चेतनानां पर आत्मा परमचेतनः । ‘नित्यो नित्यानाम्’ इति श्रुतिः ॥ २७ ॥

सत्यधर्मीया

विश्वसृजां ब्रह्मादीनां सृष्टानामेषामधिपः पालयिता कलयतां संहर्तृत्वेन त्वया स्थापितानां कालः संहारक आत्मनां जीवानामात्मा पर उत्तमात्मा ॥ २७ ॥

सुमनोरञ्जिनी

विश्वसृजां ब्रह्मादीनामपि स्रष्टा । सृष्टानामपि वस्तूनामधिपः सन्, वसन् नियामकतया तेषु स्थित इत्यर्थः । कलयतां संहर्तॄॄणां रुद्रादीनामपि । कालः संहर्ता । आत्मनां चेतनानां मध्ये पर आत्मा परमचेतनः । अत एवेशः सर्वस्वामी ॥ २७ ॥

यस्येषदुत्कलितरोषकटाक्षमोक्षैर्वर्त्मादिशत् क्षुभितनक्रतिमिङ्गिलोऽब्धिः ।

सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का रक्षःशिरांसि भुवि पेतुरिषुक्षतानि

॥ २८ ॥

पदरत्नावली

उत्कलितेन उन्नतेन रोषेण जातैः कटाक्षमोक्षैर्नेत्रान्तपातैः क्षुभिताः क्षोभिता नक्रास्तिमिङ्गिलाश्च यस्मिन् स तथा । स्वयशोरूप उज्ज्वलिता दग्धा । इषुक्षतानि शरच्छिन्नानि ॥ २८–२९ ॥

सत्यधर्मीया

स्वोपास्यदशस्यन्दननन्दनात्मतया नन्दनन्दनमभिनन्दयन्नाह ॥ यस्येति । यस्य रामस्येषदुत्कलितोऽल्पमङ्कुरितो रोषः प्रदर्शनमात्रमभिप्रेतं तेनाविर्भूता ये कटाक्षमोक्षास्तैः क्षुभिताश्चलिता नक्रास्तिमिङ्गिलाश्च यस्मिन्सोऽब्धिरकूपारो वर्त्म मार्गमदिश-द्ददौ । स्वयशस्तद्रूपः सेतुः कृतः । सकारान्तानामकारान्ततेति पक्षे स्वयशसे तदर्थमिति वा । लङ्का चोत्कलिता हनुमद्द्वारा रात्रिसङ््ग्रामे कपिभिश्च रक्षश्शिरांसीषुक्षतानि भुवि पेतुः

॥ २८ ॥

सुमनोरञ्जिनी

यस्मादेवंभूतस् तस्मान्मम स्वामी रामचन्द्रो भवानित्याह ॥ यस्येति । ईषदुत्कलितः किञ्चिदुद्दीपितो यो रोेषस् तेन जाता ये कटाक्षमोक्षा नेत्रान्त-पाताः । तैः क्षुभिता नक्रा ग्रहास् तिमिङ्गिला महामत्स्याश्च यस्मिन् सोऽब्धिर् यस्य । मार्गम् । आदिशद् ददौ । तथापि स्वयशः स्वयशोरूपः सेतुश्च कृतः बद्धः । लङ्का च उज्वलिता दग्धा । यस्य इषुभिः क्षतानि छिन्नानि रक्षःशिरांसि रक्षसो दशाननस्य शिरांसि भुवि पेतुः स राम एव त्वमिति जान इति पूर्वेणान्वयः ॥ २८ ॥

इति विज्ञातविज्ञानमृक्षराजानमच्युतः ।

व्याजहार महाराज भगवान् देवकीसुतः ॥ २९ ॥

सत्यधर्मीया

इति विज्ञातं विज्ञानं विज्ञानात्मकं ब्रह्म येन स तमृक्षराजानम् । समासान्तविधेरनित्यत्वान्न टच् । तं प्रति अच्युतो व्याजहार ॥ २९ ॥

सुमनोरञ्जिनी

इति विज्ञातविज्ञानं ज्ञाततत्वम् । ऋक्षराजानम् ऋक्षराजम् । समासान्तविधेरनित्यत्वात् ॥ २९ ॥

अभिमृष्यारविन्दाक्षः पाणिना शङ्करेण तम् ।

कृपया परया भक्तं मेघगम्भीरया गिरा ॥ ३० ॥

पदरत्नावली

शङ्करेण सुखकरेण ॥ ३०–३४ ॥

सत्यधर्मीया

शङ्करेण करेण तमभिमृश्य मेघगम्भीरया गिरा व्याजहार ॥ ३० ॥

सुमनोरञ्जिनी

शङ्करेण सुखकरेण । पाणिना । अभिमृश्य । मेघगम्भीरया गिरा व्याजहारेति सम्बन्धः ॥ ३० ॥

मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम् ।

मिथ्याभिशापं प्रमृजन्नात्मनो मणिनाऽमुना ॥ ३१ ॥

सत्यधर्मीया

वयं हे ऋक्षपते ऋक्षपत इति वा आत्मनो मिथ्याभिशापं प्रमृजन् । किं प्रयुक्तस्त्वमभिशापयुक्त इत्यत आह ॥ अमुना मणिनेति ॥ वयमिति बहुवचनं रामादिरूपाणां सङ्ग्रहार्थम् । मृजन्नित्येकवचनं च तेषामैक्यसूचनार्थमिति बोध्यम् । यद्वा नागरैः सहागमनाद्वयमित्युक्तिस्तथाऽन्ते चैक एव विवेशापयशश्चैकमात्रस्येत्येकवचनेन च सम्भवति ॥ ३१ ॥

सुमनोरञ्जिनी

मणिहेतोर्मिथ्याभिशापं प्राप्ता वयम् । इह अरण्ये प्राप्ताः । तत्राहम् अमुना मणिना नीतेन । मिथ्याभिशापं मिथ्यापवादम् । प्रमृजन् प्रमार्ष्टुमिच्छन् बिलम् अन्तर्बिलं प्राप्त इति योजना ॥ ३१ ॥

विरोधोद्धारः— मणिहेतोरिति । अत्र प्राप्ता वयमिति बहुवचनाभ्यां प्रमृजन्नित्येक-वचनेन च विरोधोऽत उच्यते । हे ऋक्षप जांबवन् वयं ते द्वारकौकसश्चाहं च वयमिह बिलप्रदेशे मणिहेतोर् मणिशोधार्थमित्यर्थः । प्राप्ताः । न केवलमहमेक एवागतोऽस्मीति जानीहीति भावः ॥ तत्रामुना बालक्रीडनार्थमुपरि बद्धेन मणिना आत्मनः स्वस्य मिथ्याऽभिशापं प्रसेनवधमण्याहरणयोरकरणेऽपि तत्कर्तृत्वशब्दप्राप्तिं प्रमृजन् पराकुर्वन् अहमेक एव ते बिलं प्राप्त इति वचनविपरिणामेनान्वयः ॥ यद्वा ॥ इह भूमौ अस्मिन्नवतारे वा अमुना मणिना आत्मनः स्वस्य मिथ्याऽभिशापम् । षट्सु द्वितीयेति सूत्रात् । इयं द्वितीयार्थे । मिथ्याऽभिशापस्येत्यर्थः । प्राप्तौ सत्याम् । तमिति शेषः ।

प्रमृजन्मिथ्याऽभिशापमपाकुर्वन्मणिहेतोः स्यमन्तककृते बिलमयमगमम् । या प्रापण इति धातोः । लङुत्तमपुरुषः । अतो न वचनविरोधः ॥ यद्वा ॥ हे ऋक्षप ते तवायं शुभावहविधिम् । अनसृत्येति शेषः । अयः शुभावहो विधिरित्यमरः । बिलमगम-मित्यध्याहारः ॥ अथवा ॥ अयमिति बिलविशेषणम् ॥ किंवा ॥ हे ऋक्षप योऽयं मणिस् ते तव बिलं प्रमृजन् उज्ज्वलीकुर्वन्नास्ते अमुना मणिना आत्मनो मिथ्याऽभिशापं प्रमृजन्नहं मणिहेतोर् मणिरेव हेतुर्मिथ्याऽभिशापापाकृतिकारणं तस्य प्राप्तौ इह बिले आगतोऽस्मीति

॥ ३१ ॥

॥ इति पाङ्घरी श्रीनिवासाचार्यकृतविरोधोद्धारे षष्ठितमोऽध्यायः ॥ १०–६० ॥

इत्युक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा ।

अर्हणार्थं सहमणिं कृष्णायोपजहार सः ॥ ३२ ॥

सत्यधर्मीया

स्वां दुहितरं जाम्बवतीं नाम्ना कन्यां दीप्तिमतीं कन्यामविवाहितां सहमणिमिति कन्याविशेषणं स जाम्बवान्कृष्णायोपजहार ॥ ३२ ॥

सुमनोरञ्जिनी

सहमणिं मणिनासहिताम् । स्वां कन्यां नामतो जाम्बवतीम् । उपजहार समर्पयामास ॥ ३२ ॥

अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः ।

प्रतीक्ष्य द्वादशाहानि दुःखितास्ते पुरं ययुः ॥ ३३ ॥

सत्यधर्मीया

जना द्वारकाप्रजाः शौरेर्निर्गमनमदृष्ट्वा द्वादशाहानि प्रतीक्ष्य साप्तदिन्या एव द्वादशाहतया भानं शोकतो मासशब्देनाहान्युच्यन्ते । तथा हि भारत इत्यादि प्रथम-स्कन्धोक्तरीत्या ज्ञेयम् । अत एवाचार्यैर्बहून्यहानीत्युदीरणं कृतम् । दुःखितास्ते जनाः पुरं द्वारकां विभुदुःखिताः सन्तो द्वादशाहानि तेपुः कृष्णदृष्टिमुद्दिश्य तपश्चक्रुरिति वा अं भगवन्तं शरणं ययुरिति वा ॥ ३३ ॥

सुमनोरञ्जिनी

बिलद्वारे स्थापितानां यदूनां वृत्तान्तमाह ॥ अदृष्ट्वेत्यादिना

॥ ३३,३४ ॥

निशम्य देवकी देवी रुग्मिण्यानकदुन्दुभिः ।

सुहृदो ज्ञातयोऽशोचन् बिलात् कृष्णमनिर्गतम् ॥ ३४ ॥

सत्यधर्मीया

निशम्यागतनागरजनैः श्रुत्वा बिलादनिर्गतं कृष्णमुद्दिश्याशोचन् शुशुचुः

॥ ३४ ॥

सत्राजितं शपन्तस्ते दुःखिता द्वारकौकसः ।

उपतस्थुर्महामायां दुर्गां कृष्णोपलब्धये ॥ ३५ ॥

पदरत्नावली

उपतस्थु अभजन् ॥ ३५ ॥

सत्यधर्मीया

उपतस्थुः सकर्मकत्वेऽपि देवदेवविषये देव्या न देवीत्वमिति उपाद्देव-पूजेति न तङ् । वा लिप्सायामित्युक्तेः परस्मैपदं वा । अर्चयाञ्चक्रुः ॥ ३५ ॥

सुमनोरञ्जिनी

उपतस्थुः स्तोत्रपाठादिना अभजन् ॥ ३५ ॥

तेषां तु देव्युपस्थानात् प्रत्यादिष्टाशिषोऽभवन् ।

प्रादुर्बभूव सिद्धार्थः सदारो हर्षयन् हरिः ॥ ३६ ॥

पदरत्नावली

ततः किमभूदत्राह– तेषामिति ॥ हरिस्तेषां प्रादुर्बभूवेत्यन्वयः । देव्या उपस्थानान्निषेवणात् प्रत्यादिष्टाशिषाम् अभ्यागताभ्युदयानां भवन् पूज्यः सिद्धार्थः नित्यलब्धप्रयोजनः । ‘प्रत्यादिष्टाशिषः’ इति पाठे ये प्रथमं नष्टकृष्णाख्याशिषोऽभवन् तेषाम् । तुशब्दो हेत्वर्थः । देव्युपस्थानाद्धेतोरित्यर्तः । अनेनापदि प्राप्तायां देवताशरणं कर्तव्यमित्युक्तं भवति ॥ ३६–३७ ॥

दुर्घटभावदीपिका

सिद्धार्थः सर्वदा प्राप्तप्रयोजनो हरिः सदारः सन् देव्युपस्थानात् । प्रत्यादिष्टाशिषां प्राप्तिः स्वोपलब्धिहेतुः स्वप्रसादानाम् । तुशब्दोऽवधारणे । तेषां तु द्वारकौकसामेवाभिमुखो भवन्हर्षयन् प्रादुर्बभूवेति । एतेन तुशब्दो व्यर्थ इति दूषणं पराकृतम् । यैर्देव्युपस्थानं कृतं तेषामेव प्रथमदर्शनं नान्येषामिति वक्तुं तुशब्दः प्रयुक्त इत्यभ्युपगमात् । एतेनैव भवन्नित्येव्द्यर्थमिति दूषणं परिहृतम् । अभिमुख इति शेषपूरणेन द्वारकौकभिर्देवीपूजां कृत्वा स्वस्य गृहं प्रति यदा प्रयाणं कृतं तदैवाभिमुखः सन् प्रत्यक्षो बभूवेति वक्तुं भवन्नित्युक्तमित्यङ्गीकारात् ॥ ३६ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे षष्ठितमोऽध्यायः ॥ १०–६० ॥

सत्यधर्मीया

तेषां द्वारकागाराणां देव्या उपस्थानं सेवा तस्मात्प्रत्यादिष्टा देवी-दत्ताश्च ता आशिषोऽभवन् । तत्फलं लपति ॥ प्रादुर्बभूवेति ॥ सिद्धार्थोऽपयशश्यामकस्य- मन्तकाप्तिरूपसम्पन्नप्रयोजनः सदारो दारैः सहितश्च हर्षयन्द्वारकौकसः प्रादुर्बभूव ॥ ३६ ॥

सुमनोरञ्जिनी

देव्या उपस्थानात् । प्रत्यादिष्टाशिषाम् । देव्या प्रत्यादिष्टा या आशीः ‘अचिरात्कृष्ण आयास्यतीति वचनरूपा’ येषां तेषाम् । पुरतः । भवान् पूज्यः । सिद्धार्थो भवन् सिद्धार्थः सन्निति वा । सदारः दारैर्जाम्बवत्या सहितः ॥ ३६ ॥

उपलभ्य हृषीकेशं मृतं पुनरिवागतम् ।

सह पत्न््नया मणिग्रीवं सर्वे जातमहोत्सवाः ॥ ३७ ॥

सत्यधर्मीया

मृतं तमिव पत्न््नया सह मणिग्रीवं मणिर्ग्रीवायां यस्य तं चक्रपाणिं मणिना युक्ता ग्रीवा यस्य तं वा ॥ ३७ ॥

सुमनोरञ्जिनी

मृतं पुनरागतं बन्धुमिव । हृषीकेशम् । उपलभ्य । जातमहोत्सवा आसन् ॥ ३७ ॥

सत्राजितं समाहूय सभायां राजसन्निधौ ।

प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् ॥ ३८ ॥

पदरत्नावली

आख्यायोक्त्वा ॥ ३८ ॥

सत्यधर्मीया

राजा उग्रसेन आख्यायोक्त्वा तस्मै सत्राजिते ॥ ३८ ॥

सचातिव्रीडितो रत्नं गृहीत्वाऽवाङ्मुखस्ततः ।

अनुतप्यन् स्वभवनमगमत् स्वेन पाप्मना ॥ ३९ ॥

पदरत्नावली

स्वेन पाप्मनाऽनुतप्यन् पश्चात्तापं कुर्वन् ॥ ३९–४० ॥

सत्यधर्मीया

स्वेन पाप्मना हर्युपर्यपवादस्थापनजेनानुतप्यन् पश्चात्तापं भजन्स्व-भवनमगमत् ॥ ३९ ॥

सुमनोरञ्जिनी

स्वेन पाप्मना स्वापराधेन । अनुतप्यन् पश्चात्तप्यमानः ॥ ३९ ॥

सोऽनुध्यायंस्तदेवाघं बलवद्विग्रहाकुलः ।

कथं मृजाम्यात्मरजः प्रसीदेद् वाऽच्युतः कथम् ॥ ४० ॥

सत्यधर्मीया

तदेव देवविषयेऽनुष्ठितं स्वाघमनुध्यायन् बलवता कृष्णेन सह विग्रहेणाकुल आत्मरजः स्वदोषं कथं मृजामि । अच्युतः कथं वा प्रसीदेत् ॥ ४० ॥

सुमनोरञ्जिनी

तदेवाघं स्वकृतं तमेव दोषम् । अनुध्यायन् सन्ततं स्मरन् । बलवता श्रीकृष्णेन विग्रहो विरोधस् तेन आकुलो भीतः । आत्मनो रजो ऽपराधलक्षणमलम्

॥ ४० ॥

किं कृत्वा साधु मह्यं स्यान्न शपेद् वा जनो यथा ।

अदीर्घदर्शनं धिङ्मां मूढं द्रविणलोलुपम् ॥ ४१ ॥

पदरत्नावली

मह्यं मम अदीर्घदर्शनं भविष्यज्ज्ञानहीनम् ॥ ४१ ॥

सत्यधर्मीया

मह्यं मम साधु मङ्गलम् । जनो मां न शपेत् । अदीर्घदर्शनं जाल्मं द्रविणलोलुपं रत्नदेयस्वापतेयलोलुपम् ॥ ४१ ॥

सुमनोरञ्जिनी

किं कृत्वा स्थितस्य । मह्यं मम । साधु मङ्गलम् । अदीर्घदर्शनं भविष्यदूहनहीनं च मां धिगिति च । अनुध्यायन्निति संबन्धः ॥ ४१ ॥

दास्ये दुहितरं तस्मै स्त्रीरत्नं रत्नमेव च ।

उपायोऽयं समीचीनस्तस्य शान्तेर्न चान्यथा ॥ ४२ ॥

पदरत्नावली

तस्य पापस्य ॥ ४२–४४ ॥

सत्यधर्मीया

दुहितरं तस्मै दास्ये । इयमपि तद्योग्येत्याह ॥ स्त्रीरत्नमिति ॥ यदर्थमियाननर्थस्तदपि दास्य इत्याह ॥ रत्नमेव चेति ॥ अयमुपायः समीचीनोऽन्यथैत द्विना ॥ ४२ ॥

सुमनोरञ्जिनी

तत्रोपायं स्वयमेव कल्पयति ॥ दास्य इति ॥ रत्नं स्यमन्तकं च

॥ ४२ ॥

एवं व्यवसितो बुद्ध्या सत्राजित् स्वसुतां शुभाम् ।

मणिं च स्वयमुद्यम्य कृष्णायोपजहार ताम् ॥ ४३ ॥

सत्यधर्मीया

एवं बुद्ध्या व्यवसितो व्यवसायं निश्चयं प्राप्तः सत्राजित्स्वसुतां स्वपुत्रीम् । आन्तरङ्गिको भावस्तु सु असुताऽयोनिजेति । तां मणिं च स्वयमनितरबोधितः स्वयमतिशुभंदैवं निमित्तीकृत्येति वा । कृष्णाय तामुपाजहारार्पयत् ॥ ४३ ॥

सुमनोरञ्जिनी

बुध्या व्यवसितः निश्चयवान् । उपजहार दत्तवान् ॥ ४३ ॥

स सत्यभामां भगवानुपयेमे यथाविधि ।

बहुभिर्याचितां शीलरुपौदार्यगुणान्विताम् ॥ ४४ ॥

सत्यधर्मीया

शीलरूपौदार्यगुणान्वितामिति बहुबाहुजयाचनाहेतूक्तिः ॥ ४४ ॥

सुमनोरञ्जिनी

बहुभिः कृतवर्मप्रमुखैः ॥ ४४ ॥

भगवानाह न मणिं प्रतीच्छामो वयं नृप ।

तवास्तु देवभक्तस्य वयं हि फलभागिनः ॥ ४५ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे षष्ठितमोऽध्यायः ॥

पदरत्नावली

फलभागिनः प्रयोजनांशमेव स्वीकुर्मः ॥ ४५ ॥

॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे षष्टितमोऽध्यायः ॥

सत्यधर्मीया

मणिं न साक्षान्न प्रतीच्छामो वयं हि वयं तु फलभागिनो भाराष्ट-काष्टापदमात्रयोग्याः ॥ ४५ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध

उत्तरार्धे षष्टितमोऽध्यायः ॥ १०–६० ॥

सुमनोरञ्जिनी

न प्रतीच्छामः न स्वीकुर्मः । देवः सूर्यः । फलभागिनः मणिना लभ्यं यत्फलमष्टभारसुवर्णादि तद्भागिन एव । वयं जामातृत्वादिति भावः ॥ ४५ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां (गूढकर्तृकायां) **

सुमनोरञ्जिन्यां षष्टितमोऽध्यायः ॥