११ एकोनषष्ठिरध्यायः

तं मानिनः स्वाभिभवं यशःक्षयं परे जरासन्धवशा न सेहिरे

॥ अथ एकोनषष्ठिरध्यायः ॥

तं मानिनः स्वाभिभवं यशःक्षयं परे जरासन्धवशा न सेहिरे ।

अहो धिगस्मद्यश आत्तधन्विनां गोपैर्हृतं केसरिणां मृगैरिव ॥ १ ॥

पदरत्नावली

यो ऽरिभिः कृतः, तम् । के के परे इति तत्राह– जरासन्ध इति

॥ १–२ ॥

सत्यधर्मीया

मानिनो निन्दिताहन्तावतो जरासन्धवशाः परे वैरिणो न स्वाभिभवं तथा यशःक्षयं च न सेहिरे । अहोऽस्मान्धिक् निन्द्यतामस्माकमित्यर्थः । केसरिणां सिंहानां मृगैरिवात्तधन्विनां नो यशो गौपैर्हृतमतो धिगिति ॥ १ ॥

सुमनोरञ्जिनी

मानिनो ऽहङ्कारिणः । परैर् अरिभिः । कृतं यशसः क्षयकरम् । स्वाभिभवं स्वपराभवम् । स्वाभिभवं यशक्षयं यशसो नाशं चेति वा । अहो धिगित्यादि वदन्तः ॥ १ ॥

इति सर्वे सुसंरब्धा वाहानारुह्य दंशिताः ।

स्वैः स्वैर्बलैः परिक्रान्ता अन्वीयुर्धृतकार्मुकाः ॥ २ ॥

सत्यधर्मीया

दंशिताः कवचोपेताः परिक्रान्ताः परिवृताः ॥ २ ॥

सुमनोरञ्जिनी

सुसंरब्धा अत्यन्तक्रोधविशिष्टाः । दंशिताः सन्नद्धाः । बलैः सैन्यैः । परिक्रान्ताः परिवृताः । अन्वीयुः पृष्टतोऽधावन् ॥ २ ॥

तानापतत आलोक्य यादवानीकयूथपाः ।

तस्थुर्वै सम्मुखा राजन् विस्फूर्य स्वधनूंषि ते ॥ ३ ॥

पदरत्नावली

यादवानामनीकानां यूथानि समूहास्तान् पान्ति रक्षन्तीति यादवानीक-यूथपाः ॥ ३ ॥

दुर्घटभावदीपिका

स्वधनूंषीति धनुषां स्वकीयत्वोक्त्याऽभ्यासवशाद्धनुष्टङ्कारकरणेन महाशब्द उत्पन्न इति सूचितं भवति । एतेन धनूंषीत्युक्ते योग्यतया स्वधनुषामेव लाभेन परधनुःप्राप्तेरभावात्स्वेत्येतव्द्यर्थमिति चोद्यं पराकृतम् । परधनुर्व्यावृत्यर्थं स्वेत्युक्तमित्यङ्गी-कारात् ॥ ३ ॥

सत्यधर्मीया

यादवानीकयूथनाथाः स्वधनूंषि विस्फूर्य सटङ्काराणि कृत्वा ॥ ३ ॥

सुमनोरञ्जिनी

यादवानीकानां यूथानि समूहाः । तान् पान्ति रक्षन्तीति तथा । सेनानायका इत्यर्थः । स्वधनंूषि । विस्फूर्य टङ्कारयित्वा ॥ ३ ॥

अश्वपृष्ठे गजस्कन्धे रथोपस्थे च कोविदाः ।

मुमुचुः शरवर्षाणि मेघा अद्रिष्वपो यथा ॥ ४ ॥

पदरत्नावली

अश्वपृष्ठादिषु स्थित्वा ॥ ४ ॥

सत्यधर्मीया

कोविदास्तदुपदेशकुशलाः ॥ ४ ॥

सुमनोरञ्जिनी

अश्वपृष्ठादिषु स्थित्वा । यादवान् प्रति । शरवर्षाणि । मुमुचुः । तथापि यादवानाम् । न विकार इत्यत्र दृष्टान्तः ॥ मेघ इति ॥ ४ ॥

पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा ।

सव्रीलमैक्षत् तद्वक्त्रं भयविह्वललोचना ॥ ५ ॥

पदरत्नावली

‘आसारो वेगवान् वर्षः’ इति । सुमध्यमा रुग्मिणी । ऐक्षद् ऐक्षत दृष्टवती ॥ ५–८ ॥

दुर्घटभावदीपिका

भावविह्वललोचनेत्यस्य भयविह्वललोचनेत्यर्थः । एतेन भयविह्वल- लोचनेति वक्तव्यम् । अत एव भयविह्वलेति वक्ष्यति । भावविह्वललोचनेति वचनमयुक्तमिति दूषणं पराकृतम् । भयशब्दस्य छान्दसे दीर्घे यकारस्य वकारे भावेति रूपं निष्पन्नमित्यभ्युपेत्य भावविह्वललोचनेत्यस्य भयविह्वललोचनेत्यर्थस्योक्तत्वात् ॥ ५ ॥

सत्यधर्मीया

सव्रीडं सलज्जं तद्वक्त्रमैक्षदैक्षत । शरासारैः शरधारासम्पातैर्भयविह्वले लोचने यस्याः सा ॥ ५ ॥

सुमनोरञ्जिनी

सुमध्यमा रुग्मिणी । शरासारैः शरवर्षैः । तस्य पत्युर् वक्त्रम् । भयेन विह्वललोचना ८७चलनेत्रा सती । ऐक्षद् ऐक्षत ॥ ५ ॥

प्रहस्य भगवानाह मा भैस्त्वं वामलोचने ।

विनङ्क्ष्यत्यधुनैवैतत् तावकैः शात्रवं बलम् ॥ ६ ॥

सत्यधर्मीया

मा भैर्भीता न भव । तावकैः शात्रवं बलमधुनैव विनङ्क्ष्यति ॥६॥

सुमनोरञ्जिनी

मा भैर् मा भयं कुरु । तावकैस् त्वदीयैर् यादवैः ॥ ६ ॥

तेषां तद्विक्रमं वीरा गदसङ्कर्षणादयः ।

अमृष्यमाणा नाराचैर्जघ्नुर्हयगजान् रथान् ॥ ७ ॥

सत्यधर्मीया

स चासौ विक्रमश्च तममृष्यमाणा असहिष्णवः ॥ ७ ॥

सुमनोरञ्जिनी

गदः श्रीकृष्णानुजः ॥ ७ ॥

पेतुः शिरांसि रथिनामश्विनां गजिनां भुवि ।

सकुण्डलकिरीटानि सोष्णीषाणि च कोटिशः ॥ ८ ॥

सत्यधर्मीया

किरीटानि रत्नखचितानि स्वर्णात्मकानि कानि चित् सोष्णीषाणि वासः शिरोवेष्टनानि । उष्णीषं तु शिरोवेष्ट इति विश्वः ॥ ८ ॥

सुमनोरञ्जिनी

सोष्णीषाणि शिरोभूषणवस्त्रैः सहितानि ॥ ८ ॥

हस्ताः सासिगदेष्वासाः करभा ऊरवोऽङ्घ्रयः ।

अश्वाश्वतरनागोष्ट्रखरमर्त्यशिरांसि च ॥ ९ ॥

पदरत्नावली

करभाः कनिष्ठिकाया मूलप्रदेशाः । गर्दभादश्वायां जातो ऽश्वतरः

॥ ९ ॥

सत्यधर्मीया

करभाः कनिष्ठिकामूलभागोऽश्वा अश्वतरा गर्दभेन बडवायां जाताः

॥ ९ ॥

सुमनोरञ्जिनी

सासिगदेष्वासाः । असिभिः खड्गैः । गदाभिः । इष्वासैर् धनुर्भिश्च सहिता हस्ताः । करभाः कनिष्ठिकामूलप्रदेशाः ॥ ९ ॥

हन्यमानबलानीका वृष्णिभिर्जयकाङ्क्षिभिः ।

राजानो विमुखा जग्मुर्जरासन्धपुरःसराः ॥ १० ॥

पदरत्नावली

आत्मनो जयकाङ्क्षिभिर् जयप्रकाशकैः, जयेच्छुभिर्वा ॥ १० ॥

सत्यधर्मीया

हन्यमानबलानीका बलवन्त्यनीकानि सेना हन्यमानानि बलानीकानि येषां ते जयकाङ्क्षिभिस्तदिच्छुभिः ॥ १० ॥

सुमनोरञ्जिनी

बलानीकाः सेनासमुदायाः । यद्वा हन्यमानं क्षीयमाणं बलं सामर्थ्यं येषां तानि, तथाविधान्यनीकानि येषां ते तथाविधाः ॥ १० ॥

शिशुपालं समेत्याथ हृतदारमिवातुरम् ।

नष्टत्विषं हतोत्साहं शुष्यद्वदनमब्रुवन् ॥ ११ ॥

पदरत्नावली

हृतदारं बलादपहृतभार्यं पुरुषम् ॥ ११ ॥

सत्यधर्मीया

हृता दारा यस्य स तमिवातुरं नष्टत्विषं गतोत्साहं शुष्यद्वदनं शिशुपालं समेत्याब्रुवन् ॥ ११ ॥

सुमनोरञ्जिनी

वस्तुतोऽप्राप्तदारं हृतदारम् अपहृतदारं पुरुषमिवातुरम् ॥ ११ ॥

राजान ऊचुः—

भोभो पुरुषशार्दूल दौर्मनस्यमिदं त्यज ।

न प्रियाप्रिययो राजन् निष्ठा देहिषु दृश्यते ॥ १२ ॥

पदरत्नावली

प्रियाप्रिययोः सुखदुःखयोर्निष्ठा व्यवस्थानियतत्वम् । ‘निष्ठोत्कर्षे व्यवस्थायाम्’ इति ॥ १२ ॥

सत्यधर्मीया

भो भो पुरुषशार्दूल । इदं दौर्मनस्यं पूर्वोक्तैर्हेतुभिरीहितं त्यज तां तुभ्यं दापयाम इति समाधिनाऽऽधिं शमयन्ति किमित्यतो न किन्तु तत्त्वमुपदिश्येत्याह ॥ नेति । हे राजन् प्रियाप्रिययोर्देहिषु निष्ठा व्यवस्था नियतिर्न दृश्यते ॥ १२ ॥

सुमनोरञ्जिनी

प्रियाप्रिययोः सुखदुःखयोः । निष्ठा व्यवस्था स्थैर्यं वा । निष्ठोत्कर्षे व्यवस्थायामिति यादवः ॥ १२ ॥

यथा दारुमयी योषिन्नृत्यते कुहकेच्छया ।

एवमीश्वरतन्त्रोऽयमीहते सुखदुःखयोः ॥ १३ ॥

पदरत्नावली

कुहकेच्छया मायिकेच्छया ॥ १३ ॥

सत्यधर्मीया

यथा दारुमयी योषा कुहकेच्छया नटयितुः कपटिन इच्छया नृत्यते एवमीश्वरतन्त्र ईश्वराधीनः पुमान्सुखदुःखयोस्तत्साधनयोर्विषय ईहते चेष्टते । यद्यपि यथा पुमान्दारुमय इति शक्यं वक्तुं तथाऽपि न स्त्री स्वातन्त्र्यमर्हतीत्यादेः सर्वावस्थास्वप्यन्या-धीनता वनिताया नियतेति बोधनार्थं योषिदित्युक्तिरिति ज्ञेयम् ॥ १३ ॥

सुमनोरञ्जिनी

दारुमयी योषिद् योषिदाकारपुत्तलिका । कुहकस्य नर्तकस्य इच्छया । एवमीश्वरतन्त्रः सन् । सुखदुःखयोरर्थे । ईहते चेष्टते । पुरुषस्य पराधीनतया कदाचिद्दुखसाधनमप्यस्य चेष्टा भवतीति भावः ॥ १३ ॥

शौरेः सप्तदशाहं वै संयुगानि पराजितः ।

त्रयोविंशतिभिः सैन्यैर्जिग्य एकमहं परम् ॥ १४ ॥

पदरत्नावली

योऽहं त्रयोविंशतिभिः सैन्यैरक्षोहिणीभिः शौरेः सप्तदशसंयुगेषु पराजितः । परं पश्चात् सोऽहं तावतीभिः सम्भूयैकं सेनादिविकलं कृष्णं जिग्ये एकमष्टादशमं सङ्ग्रामं वा ॥ १४ ॥

सत्यधर्मीया

अहं सप्तदशसंयुगानि शौरेः सकाशात्पराजितस्त्रयोविंशतिभिस्त-त्सङ्ख्याकाक्षौहिणीभिरेकमेकवारमेकलं वा परं तत उत्तरे जिग्ये ॥ १४ ॥

सुमनोरञ्जिनी

तत्र स्वमेव दृष्टान्तयति ॥ शौरेरिति ॥ योऽहम् । त्रयोविंशतिभिः सैन्यैर् अक्षौहिणीभिः । सप्तदशसंयुगानि सप्तदशेषु संयुगे पराजितः सोऽहं परं केवलम् । पश्चादिति वा । अष्टादशममित्यर्थः । एकं संयुगम् । जिग्ये जितवान् ॥ १४ ॥

तथाऽप्यहं न शोचामि न हृष्यामि च कर्हिचित् ।

कालेन दैवयोगेन जानन् विद्रावितं जगत् ॥ १५ ॥

पदरत्नावली

तथाप्युभयथापि ॥ १५ ॥

सत्यधर्मीया

विचित्रा दैवीगतिरिति न शोकेन कृत्यं सहस्व मां निदर्शनीकृत्येति शंसति ॥ तथाऽपीति ॥ दैवयुक्तेन कालेन हरिणा जगद्द्रावितं जानन्न शोचामि कर्हिचिदपि न प्रहृष्यामि यो दैवयुक् सुदैवस्तं तेन कालेन कालयवनेन जगज्जगत्यां भूमौ विद्रावितं जानन्नपि न प्रहृष्यामीत्यप्यर्थ आन्तरङ्गिको ज्ञेयः ॥ १५ ॥

सुमनोरञ्जिनी

दैवेन अदृष्टनियामकेश्वरेण । युक्तेन प्रेरितेन । कालेन विद्रावितं चेष्टितम् ॥ १५ ॥

अधुनाऽपि वयं सर्वे वीरयूथपयूथपाः ।

पराजिताः फल्गुतन्त्रैर्यदुभिः कृष्णपालितैः ॥ १६ ॥

पदरत्नावली

फल्गुतन्त्रैर् अल्पसेनापरिच्छदैः ॥ १६ ॥

सत्यधर्मीया

फल्गुतन्त्रैः फल्गु तन्त्रं परिच्छदः सेनादिः । तन्त्रं परिच्छद इति विश्वः । येषां ते तैर्यदुभिः पराजिताः ॥ १६ ॥

सुमनोरञ्जिनी

फल्गुतन्त्रैर् अल्पसैन्यादिसन्नाहैः ॥ १६ ॥

रिपवो जिग्युरधुना काल आत्मानुसारिणि ।

तदा वयं तु जेष्यामो यदा कालः प्रदक्षिणः ॥ १७ ॥

पदरत्नावली

प्रदक्षिणो ऽनुकूलः ॥ १७–१८ ॥

सत्यधर्मीया

अधुनाऽऽत्मानुसारिणि काले सति रिपवो यदवोऽस्मान् जिग्युः । यदा तु कालः प्रदक्षिणोऽस्मदनुकूलस्तदा वयं जेष्यामः ॥ १७ ॥

सुमनोरञ्जिनी

अधुना । आत्मानुसारिणि आत्मनः स्वस्य अनुसारिणि अनुकूले । काले रिपवः जिग्युरेव । अस्माकमपि कालो यदा प्रदक्षिणो ऽनुकूलः । तदा वयं तु वयमपि जेष्यामः ॥ १७ ॥

श्रीशुक उवाच—

एवं प्रबोधितो मित्रैश्चैद्योऽगात् सानुगः पुरम् ।

हतशेषा पुनस्तेऽपि ययुः स्वं स्वं पुरं नृपाः ॥ १८ ॥

सत्यधर्मीया

मित्रैराप्तैः ॥ १८ ॥

सुमनोरञ्जिनी

सम्बोधितः सम्यक् बोधितः ॥ १८ ॥

रुग्मी तु राक्षसोद्वाहं कृष्णद्विडसहन् स्वसुः ।

पृष्ठतोऽन्वगमत् कृष्णमक्षौहिण्या वृतो बली ॥ १९ ॥

पदरत्नावली

असहन्नसहमानः ॥ १९–२० ॥

सत्यधर्मीया

स्वसुर्भगिन्या राक्षसोद्वाहमसहन् गतम् । अक्षौहिण्या सेनया वृतः

॥ १९ ॥

सुमनोरञ्जिनी — असहन् असहमानः । तत्र हेतुमाह ॥ कृष्णद्विडिति ॥ १९ ॥

रुग्म्यमर्षी सुसंरब्धः शृण्वतां सर्वभूभुजाम् ।

प्रतिजज्ञे महाबाहुर्दंशितः सशरासनः ॥ २० ॥

सत्यधर्मीया

सर्वभूभुजां गतोर्वरितानां श्रुण्वतां सताम् । सशराशन इति शपथपूर्वकतामावेदयति ॥ २० ॥

सुमनोरञ्जिनी

दंशितः सन्नद्धः ॥ २० ॥

अहत्वा समरे कृष्णमप्रत्यूह्य च रुग्मिणीम् ।

कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद् ब्रवीमि वः ॥ २१ ॥

पदरत्नावली

अप्रत्यूह्य अनावृत्य अन्यस्तादत्वेति वा ॥ २१–२५ ॥

सत्यधर्मीया

राज्ञां पुरतः कृतप्रतिज्ञैवंरूपेति निरूपयति ॥ अहत्वेति ॥ रुग्मिणीमप्रत्यूह्याप्रत्यावर्त्याविवाह्येति वा कुण्डिनं न प्रवेक्ष्यामि वः प्रति सत्यं ब्रवीमि । इति प्रतिजज्ञ इत्यन्वयः ॥ २१ ॥

सुमनोरञ्जिनी

अप्रत्यूह्य अप्रत्यावर्तयित्वा ॥ २१ ॥

इत्युक्त्वा रथमारुह्य सारथिं प्राह सत्वरः ।

चोदयाश्वान् यतः कृष्णस्तस्य मे संयुगं भवेत् ॥ २२ ॥

सत्यधर्मीया

सत्वरो रुग्मी सत्वरस्त्वं यतो यत्र कृष्णस्तत्राश्वांश्चोदयेति प्राह तस्य मे च संयुगं भवेत् ॥ २२ ॥

सुमनोरञ्जिनी

यतः यत्र ॥ २२ ॥

अद्याहं निशितैर्बाणैर्गोपालस्य सुदुर्मतेः ।

नेष्ये वीर्यमदं येन स्वसा मे प्रसभं हृता ॥ २३ ॥

सत्यधर्मीया

गोपालस्य पशुपालस्य वेदपालकस्येत्यन्तरर्थः । येन वीर्यमदेन तं मदं मे स्वसा प्रसभं बलाद्धृता येन कृष्णेन प्रसभं हृता तस्य मदमिति वा ॥ २३ ॥

सुमनोरञ्जिनी

वीर्यमदं नेष्ये अपनेष्ये । प्रसभं बलात्कारेण ॥ २३ ॥

विकत्थमानः कुमतिरीश्वरस्याप्रमाणवित् ।

रथैनैकेन गोविन्दमन्वधावत रंहसा ॥ २४ ॥

दुर्घटभावदीपिका

ईश्वरस्याप्रमाणविदित्यस्य कृष्णस्य सम्यक् परिच्छेदोऽस्तीति ज्ञानवानित्यर्थः । एतेन परिच्छेदज्ञानस्य प्रवर्तकत्वाद् ईश्वरस्य प्रमाणविदिति वक्तव्यम-प्रमाणविदिति अपरिच्छेदज्ञानकथनमयुक्तमिति शङ्काऽनवकाशः । ईश्वरस्याप्रमाणविदित्यत्र नञः प्रश्लेषो न किन्तु आङ् इत्यङ्गीकृत्य सम्यगपरिच्छिन्ने कृष्णे सम्यक् परिच्छेदोऽस्तीति भ्रमो रुग्मिणो जात इत्युच्यत इत्यूरीकरणात् ॥ २४ ॥

सत्यधर्मीया

अप्रमाणविदनियत्ताज्ञः ॥ २४ ॥

सुमनोरञ्जिनी

अप्रमाणवित् । प्रमाणं वीर्ये इयत्तां, न वेत्तीति तथा ॥ २४ ॥

स गत्वा नर्मदां देवीं तरन्तं मधुसूदनम् ।

आसाद्य युद्धसन्नद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ २५ ॥

पदरत्नावली

ओ (इति) नीचसम्बोधनम् । तदेव व्यनक्ति– यदूनामिति

॥ २६–२७ ॥

सत्यधर्मीया

स रुग्मी तरन्तं मधुसूदनमासाद्य प्राप्य तिष्ठ तिष्ठेति चाब्रवीत्

॥ २५ ॥

धनुर्विकृष्य सुदृढं जघ्ने कृष्णं त्रिभिः शरैः ।

आह चारे क्षणं तिष्ठ यदूनां कुलपांसन ॥ २६ ॥

सत्यधर्मीया

ओ नीच यदूनां कुलपांसन कुलधुलीकर । अस्मन्नगरीं यदूनां यया रुग्मिण्या नोज्झिता तां विकृष्याकृष्य कुलं चास्मत्कुलं तत्पांसनेत्यप्यन्वयः । क्षणं तिष्ठ

॥ २६ ॥

सुमनोरञ्जिनी

ओ इति नीचसम्बोधनम् । अरिशब्दस्य सम्बुद्धिर्वा । कुलपांसन कुलदूषक ॥ २६ ॥

कुत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्षवद्धविः ।

हरिष्येऽस्य मदं मन्द मायिनः कूटयोधिनः ॥ २७ ॥

सत्यधर्मीया

मे स्वसारं भगिनीं ध्वाङ्क्षः काको हविरिव मुषित्वा चोरयित्वा कुत्र यासि । तद्धविर्मुषित्वा स्वसारमत्यसारमनुपयुक्तं कृत्वा याति तथा स्वसारं मुषित्वा सबलचौरं कृत्वा । एतेनाशक्तदुर्जनता जनार्दनस्य ध्वनयतीति वा । मायिन इव कूटयोधिनः कपटयुद्धस्य ॥ २७ ॥

सुमनोरञ्जिनी

मुषित्वा अपहृत्य । कूटयोधिनः कपटयोधिनः ॥२७॥

यावन्न मे हतो बाणैः शयीथा मुञ्च दारिकाम् ।

धनुर्विकृष्य सुदृढं जघ्ने कृष्णं त्रिभिः शरैः ॥ २८ ॥

पदरत्नावली

ततः पूर्वमेव मुञ्च ॥ २८–३० ॥

सत्यधर्मीया

यावद्यन्मध्ये मे बाणैर्हतो न शयीथा न शेषे तावद्दारिकां कन्यां मुञ्चेत्युक्त्वा धनुर्विकृष्य ॥ २८ ॥

सुमनोरञ्जिनी

मे बाणैर् हतो न शयीथाः । ततःपूर्वमेव । दारिकां कन्यकां मुञ्चेत्यब्रवीदिति पूर्वेणान्वयः ॥ २८३० ॥

स्मयन् कृष्णो धनुश्छित्वा षड्भिर्विव्याध रुग्मिणम् ।

अष्टाभिश्चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभिः ॥ २९ ॥

सत्यधर्मीया

अष्टाभिः । अष्टन इत्यात्वम् । चतुरः कुशल इत्यप्यर्थः ॥२९॥

स चान्यद् धनुरादाय कृष्णं विव्याध पञ्चभिः ।

तैस्ताडितः शरौघैस्तु चिच्छेद धनुरच्युतः ॥ ३० ॥

सत्यधर्मीया

पञ्चभिः शरैस्तैः शरोघैरिव विद्यमानैः । अन्यथा पञ्चभिरिति कृतमिदं मुद्रणं बाधितं स्यादिति भावः । पञ्चभिस्तैरेवास्त्रशक्तितः शरौघत्वेन जातैः । यथोक्तं हरिवंशे–

‘अथान्यद्धनुराधाय रुग्मी कृष्णजिघांसया ।

प्रादुश्चकार शतशो दिव्यान्यस्त्राणि वीर्यवान् इत्यादि ॥ ३० ॥

पुनरन्यदुपादत्त तदप्यच्छिनदच्युतः ।

परिघं पट्टिशं शूलं चर्मासी शक्तितोमरैः ॥ ३१ ॥

पदरत्नावली

परिघं परिघातनम् । पट्टिशं लोहदणडम् । शक्तितोमरैः सह चिच्छेद । द्विमुखस्तोमरः ॥ ३१–३६ ॥

सत्यधर्मीया

शक्तितोमरैः शक्तिश्च तोमराश्च गतम् । शक्तितोमरैः सह यद्यदादत्ते-त्यन्वयः । शक्तितोऽमरैः सह यः समसमरमुपादत्त स इति वा तदर्थः ॥ ३१ ॥

सुमनोरञ्जिनी

चर्म च असिश्च चर्मासी । शक्तितोमरौ चेति यद्यदायुधमादत्त तत्सर्वमिति सम्बन्धः । शक्तितोमरैरिति पाठे तोमरैः सह चिच्छेदेत्यन्वयः । पट्टिशं लोहदण्डः । तोमरः द्विमुख आयुधविशेषो योगेन स्वसामर्थ्येन ॥ ३१ ॥

यद्यदायुधमादत्त तत्सर्वं सोऽच्छिनद् विभुः ।

ततो रथादवप्लुत्य गृहीत्वा खड्गचर्मणी ॥ ३२ ॥

सत्यधर्मीया

खड्गचर्मणी गृहीत्वा ॥ ३२ ॥

कृष्णमभ्यद्रवत् क्रुद्धः पतङ्ग इव पावकम् ।

तस्य चापततः खड्गं तिलशश्चर्म चेषुभिः ॥ ३३ ॥

सत्यधर्मीया

पतङ्गः शलभः पावकमग्निमिव । अनेन कदाचित्किञ्चिद्दग्धपक्षोऽजीव-न्पतङ्गो दार्ष्टान्तिकानुरोधेन दृष्टान्त इति ज्ञेयम् । पतङ्गः शलभे शालिप्रभेद इति विश्वः । खड्गं चर्म च शरैस्तिलशः ॥ ३३ ॥

छित्त्वाऽसिमाददे तिग्मं रुग्मिणं हन्तुमुद्यतः ।

दृष्ट्वा भ्रातृवधोद्योगं रुग्मिणी भयविह्वला ।

पतित्वा पादयोः पत्युरुवाच करुणं सती ॥ ३४ ॥

सत्यधर्मीया

छित्वाऽसिं नन्दकं रुग्मिणं हन्तुमुद्यतः पत्युः पादयोः पतित्वा करुणं यथा स्यात् तथोवाच ॥ ३४ ॥

रुग्मिण्युवाच—

योगेश्वराप्रमेयात्मन् देवदेव जगत्पते ।

हन्तुं नार्हसि कल्याण भ्रातरं मे महाभुज ॥ ३५ ॥

सत्यधर्मीया

कल्याण मङ्गलमूर्ते ॥ ३५ ॥

सुमनोरञ्जिनी

योगेश्वर, योगानाम् ईश्वर योगस्य अचिन्त्याद्भुतशक्तेर् ईश्वर इति वा । अप्रमेय आत्मा स्वरूपं यस्य इति पदरत्नावली ॥ ३५ ॥

श्रीशुक उवाच—

इत्युक्त्वा जगृहे पादौ कृपणा दीनभाषिणी ।

भ्रातरं त्रातुकामा सा कृष्णस्य जगतीपतेः ॥ ३६ ॥

सत्यधर्मीया

इत्युक्त्वा कृपणा कृपाणपाणेः पादौ जगृहे । अनेन पूर्वं पतित्वा वचनकाले त्यक्त्वा पुनरपि जगृह इति द्योत्यते । भ्रातरं त्रातुकामा । तुंकामेति मलोपः

॥ ३६ ॥

तया परित्रासविकम्पिताङ्गया शुचाऽवशुष्यन्मुखरुद्धकण्ठया ।

कातर्यविस्रंसितहेममालया गृहीतपादः करुणो न्यवर्तत ॥ ३७ ॥

पदरत्नावली

परित्रासेन परितो भयेन कम्पितमङ्गं यस्याः सा तथा तया । शुष्यन्मुखा च रुद्धकण्ठा च तया । करुणः करुणाकरः ॥ ३७ ॥

सत्यधर्मीया

परित्रासविकम्पिताङ्गया परित्रासया विकम्पितान्यङ्गानि यस्यास्तया शुचा शुष्यन्मुखं यस्याः सा च सा रुद्धो कण्ठो यस्याः सा तया कातर्येण विस्त्रंसिता हेममाला यस्याः सा तया । गृहीतपादः करुणाऽस्यास्तीति करुणयतीति करुण इति वा । न्यवर्तत हननतो निवृत्तोऽभूत् । अनेन हन्तुं गत इव दर्शयामास न मनःपूर्वकं गत इति द्योत्यते । अन्यथा वन्ध्यसङ्कल्पतापत्प्राप्तिः स्यात् ॥ ३७ ॥

सुमनोरञ्जिनी

परित्रासेन भयेन विकम्पितानि अङ्गानि यस्यास् तया । शुचा शोकेन । शुष्यन् मुखं यस्या रुद्धः कण्ठो यस्याः सा च सा तया । कातर्येण वैक्लव्येन । विस्रंसिता हेममयी माला यस्यास् तया । गृहीतौ पादौ यस्य सः । न्यवर्तत । हननोद्योगा-दिति शेषः ॥ ३७ ॥

चैलेन बध्द्वा तमसाधुकारिणं सश्मश्रुकेशान् प्रवपन् व्यरूपयत् ।

तावत् समीयुर्जितशत्रुसैन्या यदुप्रवीरा नलिनीं यथा गजाः ॥ ३८ ॥

पदरत्नावली

प्रवपन् वपनं मुण्डनं कुर्वन् व्यरूपयत् सौन्दर्यहीनमकरोत्

॥ ३८–४० ॥

सत्यधर्मीया

चैलेनांशुकेनासाधुकारिणं तं बद्ध्वा सश्मश्रुकेशं यथा तथा प्रवपन्पञ्चशिखं कृत्वेति यावत् । कृत्वा पञ्चशिखं तथेति हरिवंशे शंसनात् । मुण्डनं कुर्वन् व्यरूपयद्विरूपमकरोत् । एतदारभ्य प्रससाराभाणकं कार्यमसाधु कृतं चेच्छिरः श्मश्रूणि मुण्डयेति यावत् । नलिनीं गजा यथा तथा जितशत्रुसैन्या यदुप्रवीराः समीयुः ॥ ३८ ॥

सुमनोरञ्जिनी

चैलेन वस्त्रेण । श्मनि मुखे श्रयन्त इति श्मश्रूणि । केशाः शिरोजास् तत्सहितं यथा भवति तथा । प्रवपन् मुण्डयन् । व्यरूपयद् विकृतरूपमकरोत् । तावत् तस्मिन्नेव समये । नलिनीं सरसीम् ॥ ३८ ॥

कृष्णान्तिकमुपव्रज्य ददृशुस्तत्र रुग्मिणम् ।

तथाभूतं हतप्रायं दृष्ट्वा सङ्कर्षणो विभुः ॥ ३९ ॥

सत्यधर्मीया

कृष्णान्तिकमुपाव्रज्य तत्र तत्समीपे रुग्मिणं ददृशुः । विभुः सङ्कर्षण-स्तथाभूतमिति हतप्रायं दृष्ट्वा ॥ ३९ ॥

सुमनोरञ्जिनी

तथाभूतं विरूपीकृतम् ॥ ३९,४० ॥

विमुच्य बद्धं करुणो भगवान् कृष्णमब्रीवत् ॥ ४० ॥

सत्यधर्मीया

विमुच्य स्वयं विमोच्य नान्यैस् तन्मोचनरोचनमत इत्याह ॥ करुण इति । कृष्णमब्रवीत् ॥ ४० ॥

बलभद्र उवाच—

असाध्विदं त्वया कृष्ण कृतमस्मिन् जुगुप्सितम् ।

वपनं श्मश्रुकेशानां वैरूप्यं सुहृदो वधम् ॥ ४१ ॥

पदरत्नावली

श्मश्रुकेशानां वपनलक्षणं वैरूप्यं सुहृदो बन्धोर्वधं कृतवान् ॥ ४१ ॥

दुर्घटभावदीपिका

हे कृष्ण । त्वयाऽस्मिन् शालके रुग्मिणि यदिदं वपनं कृत-मिदमसाधु । यतो जुगुप्सितं ज्ञानिभिर्निषिद्धम् । सुहृदो वधस्य ज्ञानिभिर्निषिद्धत्वात्कथमिदं जुगुप्सितमित्यत आह– वपनमिति ॥ सुहृदः श्मश्रुकेशानां वपनं वपननिमित्तकं यद्वैरूप्यं तत्सुहृदो वधमाहुर्ज्ञानिनोऽत इदमपि जुगुप्सितमेवेति ॥ ४१ ॥

सत्यधर्मीया

हे कृष्ण । त्वयेदं कृतमसाधु । तत्किमित्यत आह । श्मश्रुकेशानां वपनमितीदमस्मज्जुगुप्सितमस्माकं निन्दितमिदं वैरूप्यम् । सुहृद इत्यावृत्तषष्ठ्यन्तं प्रथमा-बहुवचनं च । सुहृदः स्वकीयस्य वधं सुहृदो वदन्तीति शेषः । कृष्णस्तु लोके लोका इदं मया नानुष्ठितं चेन्नेमानि श्मश्रूणि किन्तु त्वत्प्रदर्शनीयस्थानान्तरसन्निवेशकेशास्तथा मदुक्तं न सम्पन्नं चेच्छिरो मुण्डयेति वदन्तीत्ययमपि सम्प्रति प्रतिश्रवेणायातो नोपयातस्तत्पारमिति तल्लोमतुलतां दर्शयंस्तेषां स्वयं मुण्डयन्नर्म कर्म च प्राहुणिके विहितं विश्वकर्तुर्नेदं दूषणमिति ततानानया धाट्येति नाचतुर इति । बलोऽप्यग्रज इत्येवमन्वशासदिति च ज्ञेयम् । सुहृदो वध इति पाठः स्वरसः ॥ ४१ ॥

सुमनोरञ्जिनी

सुहृद्वैरूप्यं वधं वधतुल्यम् ॥ ४१ ॥

मैवास्मान् साध्व्यसूयेथा भ्रातुर्वैरुप्यचिन्तया ।

सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक् पुमान् ॥ ४२ ॥

पदरत्नावली

इदानी रुग्मिणी सान्त्वयति– मैवेति ॥ हे साध्वि रुग्मिणी । अस्मान् प्रति । स्वस्मादन्यः । अत्र हेतुर्यत इति ॥ ४२ ॥

दुर्घटभावदीपिका

बलरामः कृष्णं प्रत्युक्त्वा रुग्मिणीं प्रत्याह– मैवेति ॥ हे साध्वि । भ्रातुर्वैरूप्यचिन्तया । अस्मान्मैवासूयेथाः । तत्र हेतुमाह– सुखेति ॥ यतः स्वस्मादन्यः सुखदुःखदो न भवति । अत्रापि हेतुमाह– स्वकृतेति ॥ पुमान् यतः स्वकृत-भुक् स्वकृतकर्मानुसारेण सुखदुःखभुगिति ॥ ४२ ॥

सत्यधर्मीया

हे साध्वि । भ्रातुर्वैरूप्यचिन्तयाऽस्मानेवं कृतवतो इति नासूयेथाः । यतः पुमान्स्वकृतं भुङ्क्त इति स तथा । ततः सुखदुःखदोऽन्यो न चास्ति । सु अकृतं नित्यमानन्दादिकं स्वकृतं स्वनिर्मितमेव भुङ्क्त इति स तथा । पुमान्पूर्णपुरुषः यस्मात्सुख-दुःखदोऽन्यो न चास्ति स्वतन्त्रस्तस्य न कश्चित्प्रतिभट इति भावः ॥ ४२ ॥

सुमनोरञ्जिनी

रुग्मिणीं सान्त्वयति ॥ मैवेति ॥ हे साध्वि अस्मान् प्रति माऽसूयेथा असूयां मा कृथाः । कुतः । यतः पुमान् । स्वेन कृतं कर्मैव भुनक्तीति स्वकृतभुक् । अतः स्वस्मादन्यः सुदुःखदो नास्तीति । सुशब्दः सुखपर्यायः ॥ ४२ ॥

बन्धुर्वधार्हदोषोऽपि न बन्धुर्वधमर्हति ।

त्याज्यस्तेनैव दोषेण हतः किं हन्यते पुनः ॥ ४३ ॥

पदरत्नावली

नन्वस्तु सुखादेः स्वयं हेतुरथापि बन्धोर्देहवियोगकरणलक्षणो वधो लोकाचारो न भवति जुगुप्सितत्वादिति तत् सत्यमित्याह– बन्धुरिति ॥ वधार्हो दोषो यस्य स तथा । द्वितीयबन्धुशब्दो हेत्वर्थः । तत्र किं कर्तव्यमित्याह– त्याज्य इति ॥ त्यागो देशनिर्यातनादिलक्षणः । किं त्याज्य इति ? मृतमारणदोषापत्तेरिति भावेनाह– हत इति ॥ ४३ ॥

दुर्घटभावदीपिका

रुग्मिणो गौणवधवन्मुख्यवधोऽपि भविष्यतीति शङ्कां परिहरति– बन्धुरिति । वधार्हदोषोऽपि बन्धुः स्वेन दोषेणैव स्वापराधेनैव हतो मानभङ्गलक्षणहननं प्राप्तश्चेद्बन्धुर्वधं मुख्यवधं नार्हति किन्तु त्याज्यः । एतदेवोपपादयति– हत इतीति ॥४३॥

सत्यधर्मीया

अय्यनार्य न कार्यः किल बन्धुवध इत्यतः सामान्यन्यायोऽयं नायं क्षत्रियाणामिति विशिष्य वक्ति कैश्चिच्छ्लोकैः । वधार्हो वधयोग्यो दोषो यस्य स तादृशोऽपि बन्धुर्वधं नार्हति । तर्हि किं कार्यं तद्विषय इत्यत आह ॥ त्याज्यः ॥ कुतो घातो न कर्तव्य इत्यत आह ॥ स्वेनैवेति ॥ स्वदोषेणैव स हतश्चेदपि । किमित्यत हत इत्याह । हतः किं पुनर्हन्यते मृतमारणप्रसक्तेरिति भाव इति । न बन्धुर्बन्धुरेव न भवति । हे स्वे । नैव वधमर्हति । दोषेण हत इत्यन्वयसूचनार्थं पुनर्बन्धुरित्युक्तिः । अत एव बन्धुर्मम भ्राता कृष्णो हतः किं पुनर्हन्यत इति त्याज्यत्वमेव निरीक्ष्य तव भ्रातरमातुरं त्यक्तवानिति सूचानार्थं वा । बन्धुर्बन्धूकपुष्पे स्याद्बन्धुभ्रातरि बान्धव इति विश्वः ॥ ४३ ॥

सुमनोरञ्जिनी

बन्धुर्वधार्हदोषोऽपि यतो बन्धुस् ततो वधं नार्हति किन्तु त्याज्यः । यद्वा अपि यद्यपि बन्धुर् वधार्हदोषो भवति कदाचित् तथापि स्वयं बन्धुर् वधं कर्तुं नार्हती

त्यर्थः ॥ ४३ ॥

क्षत्रियाणामयं धर्मः प्रजापतिविनिर्मितः ।

भ्राताऽपि भ्रातरं हन्याद् येन घोरतरस्ततः ॥ ४४ ॥

पदरत्नावली

तर्ह्येतदीदृशं कर्म किमिति क्रियत इत्यतोऽयमन्यायः क्षत्रियेभ्योऽन्यत्र न क्षत्रियाणामित्याह– क्षत्रियाणामिति । कोऽसौ धर्म इत्यत्राह– भ्राताऽपीति । ततस्तस्माद् राजा येन कर्मणा घोरतर इत्युच्यते, धर्मविषयो वा घोरतरो धर्म इति ॥ ४४ ॥

दुर्घटभावदीपिका

महादोषी बन्धुर्वधमर्हतीत्येतदुपपादयति – क्षत्रियाणामिति । क्षत्रियाणामयं प्रजापतिविनिर्मितो धर्मः । अयं क इत्यत आह– भ्रातेति । भ्राता भ्रातर-मपि । अन्यत्किमु शालादिकं निमित्तं विना हन्यादिति शङ्कां निवारयति– येनेति । येन भ्रात्रादिना घोरतरोऽतिशयेन घोरः क्लेशो भवेत् । ततस्तं भ्रात्रादिकं हन्यादिति ॥ ४४ ॥

सत्यधर्मीया

प्रजापतिना ब्रह्मणा विनिर्मितः क्षत्रियाणां धर्मो व्यंसक इत्यत आह ॥ भ्राताऽपीति ॥ भ्रातरं स्वं हन्याद्येनैतादृशकर्मणा घोरतरः क्षत्रियस्तत इति येन धर्मेण स धर्मस्ततो घोरतर इति वा । ततो ये घोरतरतमास्ते न सन्तीत्यन्वयो वा । घोरं यत्तरो बलं तेन ततः स इत्यैकपद्यं वा । तरो बले च वेगे चेति विश्वः ॥ ४४ ॥

सुमनोरञ्जिनी

तथापि अयं धर्मः क्षत्रियातिरिक्तानामेव । न क्षत्रियाणामित्याह ॥ क्षत्रियाणामिति ॥ येन धर्मेण भ्राताऽपि भ्रातरम् अपकारिणं हन्यात् ततः घोरतरो ऽतीव

दारुणः ॥ ४४ ॥

राज्यस्य भूमेर्वित्तस्य श्रियो मानस्य तेजसः ।

मानिनोऽन्यस्य वा हेतोः श्रीमदान्धाः क्षिपन्ति हि ॥ ४५ ॥

पदरत्नावली

ननु तर्हि सर्वः सर्वं हन्यादित्यतिप्रसङ्ग इत्यत्राह– राजस्येति । मानिनः देहाभिमानवन्तः । अन्यस्य स्त्रीजनस्य वा । क्षिपन्ति घ्नन्ति । राज्यादेः सर्वस्य हेतोरिति सम्बन्धः ॥ ४५ ॥

दुर्घटभावदीपिका

भ्राताऽपि भ्रातरं हन्यादित्ययं प्रवृत्तधर्म एव न तु निवृत्तधर्म इत्याह– राज्यस्येति ॥ ये मानिनो देहाभिमानेन विशिष्टाः सन्तो राज्यादेर्हेतो राज्यादि-विरोधिनं भ्रात्रादिकं क्षिपन्ति ते श्रीमदान्धा इत्येतद्धि निवृत्तधर्मशास्त्रप्रसिद्धमिति ॥ ४५ ॥

सत्यधर्मीया

इयत्सु कार्येष्वापतितेष्वेवं कुर्वन्तीति नातिप्रसक्तिरिति वक्ति ॥ राज्यस्येति ॥ समुदितमेतदिति न निर्बन्धः । एकैकेनापि कारणेन मारणमभिप्रैति । हेतोरिति सर्वान्वयि । राज्यस्यापरो राज्ययोग्यो भ्राता भूमेरभूयस्या वित्तस्य काचाद्यात्मकस्य श्रियो महासम्पदो मानस्य सम्माननहानिप्रसक्तौ तस्य तेजसः सामर्थ्यप्रदर्शनस्यान्यस्य वा सुन्दोपसुन्दवत्सुन्दरीजनस्य वा हेतोर्मानिनः श्रीमदान्धा दुरभिमानवन्तो मानिनस्तान्क्षिपन्ति नाशयन्ति हि सर्वानुभवसिद्धमिदमित्यर्थः ॥ ४५ ॥

सुमनोरञ्जिनी

राज्यादेर्हेतोर् मानिनः देहाभिमानवन्तः । क्षिपन्ति घ्नन्ति । धिक्कुर्वन्ति अतो भ्रात्रादयोऽपि क्षत्रियस्य वध्या एवेति भावः ॥ ४५ ॥

आत्ममोहो नृणामेष कल्प्यते देवमायया ।

सुहृच्छत्रुरुदासीन इति देहात्ममानिनाम् ॥ ४६ ॥

पदरत्नावली

किमत इत्यतः स्वस्य श्रीहर्यधीनत्वकल्पनामन्तरेण स्वकपोलकल्पना बुद्धिभ्रम एवेत्याह आत्मेति । देह एवात्मेति मानं ज्ञानं येषां तेषां नृणाम् । निरपेक्षत्वे-नोपकर्ता सुहृत् स्वसुखनाशकर्ता शत्रुस्तदुभयकर्तृत्वशून्य उदासीन इत्येष आत्ममोहो मनोभ्रमः देवस्य हरेर्मायया बन्धकशक्त्या कल्प्यते । ततः सुहृच्छत्रू उभयोरितर उदासीन इति स्वकपोलकल्पना इत्याद्येति भावः ॥ ४६ ॥

दुर्घटभावदीपिका

शत्रोर्हन्तव्यत्वाच्छत्रुहननं न कार्यमिति कथमुच्यत इत्याशङ्का-परिहारार्थं शत्रुत्वादिकं भ्रान्तिसिद्धमित्याह– आत्मेति ॥ देहात्ममानिनां देह एवात्मेति भ्रान्तिविशिष्टानां नृणामयं सुहृदयं शत्रुरयमुदासीन इत्येष आत्ममोहो मनोधर्मो भ्रमो देवमायया कल्प्यते उत्पद्यत इति ॥ ४६ ॥

सत्यधर्मीया — सर्वं सर्वेश्वरतन्त्रं स चैतत्कर्म निमित्तीकृत्य कारयतीति मतिमतां न मोहमहिमाहतिरन्येषां तदवस्कन्दनमिति ज्ञातरहस्यामपि स्वयं लोकरीतिमनुसरन्तीमाह ॥ आत्ममोह इति ॥ देहात्ममानिनां देहाभिमानवतां नृणामधिकारिणामित्यर्थः । एषो ऽयं सुहृदयं च शत्रुरयमुदासीनोऽनुभयरूप इत्यात्ममोहो मानसभ्रमो देवमायया देवस्यैवं क्रीडतो माययेच्छया कल्पते । एतत्कर्मानुसारेणाभिमतिं दत्वा सुहृदादित्वं भासयति देव इति भावः

॥ ४६ ॥

सुमनोरञ्जिनी

रुग्मिणः सुहृत्वात्तद्वधादिकमभद्रमित्यतः सुहृत्त्वादिकं स्वबुद्धि-कल्प्यतम् । न वास्तवमत्रास्तीत्याह ॥ आत्ममोह इति ॥ देहात्ममानिनां देहात्मनोः स्फुटतरविवेकशून्यानां जनानाम् । अयं मम सुहृद् अनपेक्ष्योपकारकृत् । अयं मम शत्रुर् वधादिकर्ता । अयम् उदासीनः कर्तव्ये उपकारे अपकारे च य उदास्ते स इत्येष आत्मनि जीवविषये मोहः भ्रमः । देवस्य हरेर् मायया इच्छया बन्धकशक्त्या वा । कल्प्यते प्राप्नोति । देहोपकारकेषु आत्मोपकारकत्वावगाहनात् स्वातन्त्र्येण उपकारकत्वादेर् जीवेऽभावादिति भावः ॥ ४६ ॥

एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् ।

नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ॥ ४७ ॥

पदरत्नावली

देवः कीदृश इति तत्स्वरूपमाह– एक एवेति ॥ आत्मा परः परमात्मा, नियामक इति शेषः । नन्वेकत्वे ‘सच्च त्यच्चाभवत्’ इति नानाभावः कथमिति तत्राह– नानेति ॥ ४७ ॥

दुर्घटभावदीपिका

देवमाययेत्युक्तदेवोऽनेक इति भ्रमं वारयति– एक इति ॥ सर्वेषामपि देहिनामात्माऽन्तर्बहिश्च नियामकः परो देव एक एव । अनेकत्वप्रतीतेः का गतिरित्यतोऽनेकत्वज्ञानं भ्रम एवेत्याह– नानेति ॥ यथैक एव ज्योतिरङ्गुल्यवष्ठम्भादिना नाना भिन्नमिति गृह्यते ज्ञायते । यथा वैकमेव नभो घटपटाद्युपाधिवशाद्भिन्नमिति ज्ञायते । तथा मूढैः । इवशब्द एवार्र्थे । एक एव देवस्य स्थानभेदान्नानेव भिन्न एवेति ज्ञायत इति

॥ ४७ ॥

सत्यधर्मीया

नानेके देवि देवाः किन्तु वासुदेव एक एवेत्याह ॥ एक एवेति । सर्वेषामपि देहिनां पर आत्माऽन्तर्नियामक एव । न स्थानतोऽपीत्यादेः । तर्हि बहु स्यां प्रजायेय सच्च त्यच्चाभवदित्यादिबहुभाववादः कथमित्यतः पातनिकः श्रुत्यभिप्रायः । व्याप्तः स किन्तु भिन्नजगद्बहुविधतैकता चान्तर्गतस्य तस्येति सनिदर्शनमाह । यथा ज्योतिः सूर्यादिः प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोह इत्यादेः । ऊह्यात्तर्क्यात्परः परो ह्यः स चासावात्मा चेति वा । अतर्क्य इत्यर्थः । एक एव सविता यथा द्रष्टृभेदभिन्न इव तथा । यथा नभश्च घटाद्युपाधिनिबन्धनभेदवदिति तथा नानेनात्मा गृह्यते । ते च न बुधा इत्याह ॥ मूढैरिति ॥ यथा ज्योतिश्चन्द्रादिः क्वचिद्यथा सम्यक् क्वचिन्नभः । न विद्यते भा यस्य तत् । एकस्यैव क्वचित्प्रकाशता विप्रकाशता च क्वचिदिति भेदः प्रतीयते तथा नानेव गृह्यत इति वा ॥ ४७ ॥

सुमनोरञ्जिनी

तर्हि स्वतन्त्रः सन्नुपकारासि क इत्यत आह ॥ एक एवेति ॥ पर उत्कृष्टः देहिनां सकाशात्परो विलक्षणो वा । सर्वेषामपि देहिनाम् आत्मा अन्तर्यामि-तया नियामकः । तत्र तत्र स्थित्वा स्वातन्त्र्येण उपकारादिकर्ता । एक एव हरिरिति भावः । ननु शरीरान्तर्नियामकस्य कथमेकत्वम् । दक्षिणाक्षिकण्ठहृदयादिस्थानेषु नियामकानां विश्वादीनां भेददर्शनादित्यतो अधिष्ठानभेदेऽपि नान्तर्यामिणः भेदः शङ्कनीय इति भावेन दृष्टान्तमाह ॥ यथेति ॥ ज्योतिः सूर्यादिः । नभो ऽव्याकृताकाशं यथा सर्वत्रावस्थित-मेकमेव । तथा मूढैर् अज्ञानिभिस्तु नानेव गृह्यते । ज्ञायते । तथान्तर्यामिणः मूढैर् नानेव गृह्यते । तथा चान्तर्यामिणि न भेददर्शनमिति इति भावः । तदेतदुक्तं न स्थानतोऽपि परस्योभयलिङङ्गं सर्वत्र हीति ॥ ४७ ॥

देह आद्यन्तवानेष द्रव्यप्राणगुणात्मकः ।

आत्मन्यविद्यया क्षिप्तः संसारयति देहिनम् ॥ ४८ ॥

पदरत्नावली

देहात्मत्वं भ्रमनिमित्तमित्यत्र हेतुमाह– देह इति ॥ द्रव्याणि पञ्चभूतानि पञ्चप्राणास्त्रयो गुणाः । देह आत्मा न भौतिकत्वाद्, घटवदिति । आत्मनि जीवे अविद्यया हरीच्छया अज्ञानेन वा । देहिनं देहात्मदर्शिनम् । संसारयति संसारिणं करोति । ‘तत्करोतीत्युपसङ्ख्यानम्’ इति णिच् ॥ ४८ ॥

दुर्घटभावदीपिका

देहात्ममानिनामित्यनेन देह एवात्मेति ज्ञानं भ्रम इत्युक्तम् । देह एवात्मेति ज्ञानस्य भ्रमत्वं कुत इत्याशङ्कापरिहारार्थं देहात्मनोर्विरुद्धधर्माधिकरणत्वेन भेदोऽत्र साध्यते । एष देह आद्यन्तवान् द्रव्यप्राणगुणात्मकः द्रव्याणि पृथिव्यादिपञ्चभूतात्मकानि, प्राणाः पञ्चप्राणाः, गुणाः सत्त्वरजस्तमोगुणा एतदात्मको भवति । आत्मा त्वाद्यन्तवान् द्रव्यप्राणगुणात्मको न भवति । एवं विरुद्धधर्माधिकरणत्वाद् देहात्मनोर्भेद इति शेषः । प्रकारान्तरेण देहात्मनोर्विरुद्धधर्माधिकरणत्वमाह – आत्मनीति ॥ एष देह आत्मन्यविद्यया जीवनिष्ठपरमेश्वरविषयकाज्ञानेन क्षिप्तः । प्राप्त इति यावत् । देहिनं देहाभिमानविशिष्टं जीवं संसारयति दुःखप्रचुरसुखापादकस्त्रीपुत्रादिविशिष्टं करोति । आत्मा तु नैवमिति ॥ ४८ ॥

सत्यधर्मीया

नात्मतदात्मा देह इत्यत्र युक्तिं वक्ति ॥ देह इति ॥ द्रव्यप्राण-गुणान्वितो द्रव्याणि मूलद्रव्यं प्रकृतिरवान्तराणि च भूतानि प्राणाः प्राणादयः पञ्च गुणाश्च सत्त्वाद्यास्तदन्वितो देह आद्यन्तवानुत्पत्तिमृतिसहित आत्मनि जीवेऽविद्यया भागव-त्त्येच्छयाऽज्ञानेन वाऽऽक्षिप्तः संयोजितो देहिनमभिमानितया तद्वन्तं संसारयति संसारयुक्तं करोति । विमतो देहो न देही तदात्मा भौतिकत्वाद्धटादिवत् । न देही वा देहात्माऽ-भौतिकत्वात् । न देहो ह्यात्माऽद्यन्तवत्त्वात् । न वा देही तदात्मा नित्यत्वात् । जीवो नित्यो धातुरस्य त्वनित्य इत्यादेः । यन्नैवं तन्नैवमित्यादियुक्तयो ज्ञेयाः ॥ ४८ ॥

सुमनोरञ्जिनी

मूढैर्नानेव गृह्यत इत्युक्तम् । मोह एव किं निमित्तम् इत्यत आह ॥ देह इति ॥ द्रव्याणि पञ्चभूतानि । प्राणाः पञ्च प्राणा इन्द्रियाणि च । गुणाः सत्वा-दयस्त्रयः । एतदात्मको देहः । आत्मनि जीवे । यद्वा आत्मनि परमात्मनि विषये या अविद्या अज्ञानम् । तया क्षिप्तः प्रापितः । देहिनं देहाभिमानिनम् । संसारयति । पुनः पुनः जननमरणनिमित्तदुःखपात्रं करोति । कुत इत्यत उक्तम् ॥ आद्यन्तवानिति ॥ स्वस्य देहादेर् आद्यन्तवत्वादित्यर्थः । तथा चाऽविद्यैव मोहमूलमित्युक्तं भवति ॥ ४८ ॥

यथा शयान आत्मानं विषयान् फलमेव च ।

अनुभुङ्क्तेऽप्यसत्यर्थे तथाऽऽत्माऽपि ध्रुवोऽध्रुवान् ॥ ४९ ॥

पदरत्नावली

देहः स्वेतरवृत्तिनित्यनिष्ठाधिकरणं प्रमेयत्वाद् घटवत्’ इति तत्राह– यथेति ॥ शयानः स्वप्नं पश्यन्नात्मानं विषयान् फलं दुःखादिलक्षणं यथाऽनुभुङ्क्ते वासनानु-गुणमनुभवति । अर्थे विषये तदानीमसत्यप्यविद्यामानेऽपि तथाऽऽत्मा जीवो ध्रुवोऽधु्रवान-नित्यान् देहादीन् अनुभुङ्क्त इत्यन्वयः । देहः स्वस्वेतरवृत्त्यनित्यनिष्ठाधिकरणमिति प्रत्यनुमान पराहतं तदनुमानमिति सन्तोष्टव्यम् ॥ ४९ ॥

दुर्घटभावदीपिका

प्रकारान्तरेण जीवदेहयोर्विरुद्धधर्माधिकरणत्वमत्रोच्यते । आत्मा जीवः शयानः स्वप्नावस्थायुक्तः सन् । स्वप्नावस्थायामिति यावत् । यथाशब्दोऽनुक्त-समुच्चये । जाग्रदवस्थायां चाध्रुवाननित्यान् । फलमेवेत्येवशब्दस्य यथेत्यनेन सम्बन्धः । यथैव यथाऽवस्थितानेव विषयान् शब्दादिविषयान् आत्मानं देहं फलं कदल्यादिफलम् । चशब्दोऽनुक्तसमुच्चये । अन्नादिकं चानुभङ्क्ते । अर्थे सुखलक्षणप्रयोजनेऽसत्यविद्यमानेऽप्यनु-भुङ्क्ते । देहस्तु नैवम् । अतोऽपि जीव देहयोर्विरुद्धधर्माधिकरणत्वम् । सुखस्याल्पत्वेना-विवक्षामाश्रित्य सुखलक्षणप्रयोजनेऽविद्यमानेऽपीत्युक्तमिति ॥ ४९ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे

एकोनषष्ठितमोऽध्यायः ॥ १०–५९ ॥

सत्यधर्मीया

जाग्रद्दशापन्नो जीवः कर्तोपलभ्यते भोक्ता चेति कथं कथय स्वातन्त्र्यं न जीवस्येति । यदि तस्य स्वातन्त्र्यं कथमेक एव परो ह्यात्मेत्युक्तिरित्यतोऽनुगुणनिदर्शनं दर्शयित्वा तद्विषयास्थिरतां व्युत्पाद्येैक एवेत्युक्तं निर्धारयितुमाह ॥ यथेति ॥ शयानः सुप्त आत्मानमनुभुङ्क्ते जानाति विषयाञ्छब्दादीननुभुङ्क्ते फलं सुखदुःखादिकं चानुभुङ्क्ते वास-नात्मकं सर्वमनुभुङ्क्ते । तदा जाग्रत्कालिकेऽर्थेऽसत्यविद्यमानेऽपि । न तत्र रथा इत्यादेः । तथा जाग्रदात्माऽप्यध्रुवानर्थात्स्वयं ध्रुवः सन्ननुभुङ्क्ते । तत्र यथा तथाऽत्रापि भोगयितैको विषयाश्च यथा प्रागग्रे नोपलभ्यन्ते तथैतेऽप्यस्थिरा इति भावः । तदविद्याक्षेपस्त्रैवर्णिकानां कथञ्चिद्वैदिकमार्गप्रवर्तनाद्भगवदनुग्रहेण भवेच्छूद्रादीनां कथं तत्क्षेप उपायाभावादित्यतोऽप्याह ॥ यथेति ॥ यो ध्रुवो नित्यो वेदादिस्तद्रूपेऽर्थे सत्यपि तत्राधिकाराभावेऽपीति यावत् । आत्मा । भगवत्यात्मा मनो यस्य सोऽधिकारी त्रैवर्णिको यथाऽऽत्मानं स्वामिनं ध्रुवान्विषयान्फलं मोक्षरूपमनुभुङ्क्ते तथा शयानः शूद्रोऽप्यात्मा भगवन्मानसः । उपलक्षण-मेतत् । त्रिवर्णपरिचर्यावान्ध्रुवान्विषयादीननुभुङ्क्त इति । त्रैवर्णिकाः सञ्चरन्तो वेदमार्ग-प्रवर्तनात् । शयानः शूद्र उद्दिष्टो वेदकर्माप्रवर्तनादित्येकादशतात्पर्योक्तेः । ध्रुवो विष्णुर्ध्रुवा-ननुभुङ्क्ते भोजयतीति योजयन्ति ॥ ४९ ॥

सुमनोरञ्जिनी

सुखदुःखयोरप्यध्रुवत्वान्न विषादः कर्तव्य इति स्वप्नदृष्टान्तेनाह ॥

यथेति ॥ शयानः स्वप्नं पश्यन् । आत्मानं राजादिदेहम् । विषयान् फलं सुखं दुःखं वा । वासनामूलकमध्रुवमेव अनुभुंक्ते । तथा आत्मा जीवोऽपि स्वयं ध्रुवोऽपि नित्योऽपि । असत्यर्थे दुष्टे अर्थे । अनित्यफलार्थं वा । अध्रुवान् विषयान् अनुभुङ्क्त इत्यन्वयः । अत्र पूर्वश्लोके देहस्य आद्यन्तत्वमभिहितम् । तन्न सम्भवति । कुतः ? देहः स्वस्वेतर-वृत्तित्वानाक्रान्तनित्यनिष्ठाधिकरणम् । मेयत्वात् । घटवदित्यनुमानेन नित्यत्वसाधनादिति तत्राह ॥ यथेतीत्यवतारितं पदरत्नावल्याम् । अत्रानुमाने साध्यगतस्वशब्दद्वयं देहपरमेव । तथा च दृष्टान्ते देहान्यत्वमादाय पक्षे च देहत्वमादायैव साध्यपर्यवसानं बोध्यम् । एवं षष्टस्कन्धगतानुमानेऽपि बोध्यम् । तेन दृष्टान्ते साध्यपर्यवसानं दुर्घटमित्यन्येषां कण्ठ-कोलाहलः परास्तः । ननु स्वशब्दस्य सर्वत्र स्वोपादानेत्याद्यनुमानेषु समभिव्याहृतपरताया दर्शनेन अत्र समभिव्याहृतपरता त्यक्ता स्यादिति चेत् । सत्यम् । यत्र स्वशब्दस्य पक्षमात्रपरता न सम्भवति तत्र पक्षदृष्टान्तयोः साध्याननुगमदोषः परिहरणीयो भवति । स्वत्वस्याननुगमात् । शब्दस्य समभिव्याहृतपरत्वेऽपि साध्यानुगमस्याभावात् । अत एव स्वोपादानेत्यादिप्राचीनानुमानेषु साध्यानुगमः कथञ्चिन्नवीनैः क्रियते । अत्र तु पक्षदृष्टान्तयोः साध्यस्य एकस्वत्वघटितत्वेन नाननुगम इति समभिव्याहृतपरतात्यागो गुण एव । अत एव सुधायां युक्तिपादे । न तु दृष्टन्तभावादिति सूत्रव्याख्याप्रसङ्गे प्रयुक्ते इयं क्रिया स्वान्यावय-विकालीनत्वानधिकरणकिञ्चित् कालीनक्रियान्या । क्रियात्वात् क्रियान्तरवदिति प्रलय-साधकानुमाने साध्यगतस्वशब्दस्य पक्षमात्रपरत्वं गुरुराजैर्वर्णितम् । तथा हि । अत्र वर्तमानक्रियायाः पक्षत्वम् । साध्ये च स्वपदं वर्तमानक्रियामात्रपरमिति । बलभद्रः रुग्मिणीसांत्वनमुपसंहरति ॥ तस्मादिति ॥ विमोहनम् अभिभावकम् ॥ ४९,५० ॥

तस्मादज्ञानजं शोकमात्मबोधविमोहनम् ।

तत्त्वज्ञानेन निर्हृत्य स्वस्था भव शुचिस्मिते ॥ ५० ॥

पदरत्नावली

उपसंहरति तस्मादिति ॥ ५० ॥

सत्यधर्मीया

उपसंहरति ॥ तस्मादिति ॥ जीवस्य स्वातन्त्र्याभावादभावाच्च विषयस्थैर्यस्याज्ञानाज्जायत इत्यज्ञानजं शोकम् । तत्कार्यमप्याह ॥ आत्मेति ॥ आत्मनो बोधो ज्ञानं तद्विमोहयति तस्य विमोहनं यस्मादिति वा । स्वार्थमविषयीकुर्वन्तमिति यावत् । तत्त्वज्ञानेन मदुपदेशोपज्जृम्भितेन निर्हृत्य परिहृत्य शुचिस्मिते स्वस्था भ्रातृवैरूप्यचिन्तादि-रहिता भव ॥ ५० ॥

एवं भगवता तन्वी रामेण प्रतिबोधिता ।

वैमनस्यं परित्यज्य मनो बुद्ध्या समाददे ॥ ५१ ॥

पदरत्नावली

बुद्ध्या कदाप्यतिरोहितज्ञानेन ॥ ५१ ॥

सत्यधर्मीया

भगवता रामेणैवं प्रतिबोधिता तन्वी बुद्ध्या वैमनस्यं दुर्मनस्कतां परित्यज्य मनः स्वोचितकार्योचितं स्यात्तथा समाददे गृहीतवती स्वाधीनं चक्र इति यावत् । समादध इति पाठे समाहितमतनोदित्यर्थः ॥ ५१ ॥

सुमनोरञ्जिनी

बुध्या कदाप्यतिरोहितज्ञानेन । इदं वैमनस्यप्रदर्शनं देव्या विडम्बनमेव । साक्षात् श्रियः वैमनस्यादेः कदापि सम्भावयितुमशक्यत्वाद् बलभद्रस्य सान्त्वनमपि लोकशिक्षार्थमेवेति मन्तव्यम् ॥ ५१ ॥

प्राणावशेष उत्सृष्टो द्विड्भिर्हतबलप्रभः ।

स्मरन् विरूपकरणं वितथात्ममनोरथः ।

चक्रे भोजकटं नाम निवासाय महत्पुरम् ॥ ५२ ॥

पदरत्नावली

रुग्मी तत्र किं चकारेति तत्राह– प्राणेति ॥ ५२ ॥

सत्यधर्मीया

रुग्मिण्या सह रुग्मवर्णे गते रुग्मी किमकरोदित्यत आह ॥ प्राणाव-शेष इति ॥ अवशिष्यन्त इत्यवशेषाः प्राणा एवावशेषा यस्य स सन् द्विड्भिर्ये भैष्म्याः परिरम्भणं चकमिरे तेषां भुजांश्चिच्छेदुर्ये वा तन्मुखचन्द्रचुम्बनरुचिं तेषां शिरांसि द्विषाम् । ये तल्पे शयनं तया सह खला लोकाम्बया सङ्गरे प्रेतैः सार्धमशीशयन्हरिभटा इति कर्म-कृद्भिर्जीवेत्युत्सृष्टस्त्यक्तः । हते गते बलप्रभे यस्य स विरूपकरणं स्मरन्वितथो व्यर्थीभूत आत्मा मनोरथो यस्य स तथा भोजकटं नाम महत्पुरम् । द्वे पदे । निवासाय चक्रे ॥५२॥

सुमनोरञ्जिनी

द्विड्भिः श्रीकृष्णादिभिः । वितथः व्यर्थ आत्मा मनोरथो यस्य

॥ ५२ ॥

अहत्वा दुर्मतिं कृष्णमप्रत्यूह्य यवीयसीम् ।

कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्रावसद् रुषा ॥ ५३ ॥

पदरत्नावली

अप्रत्यूह्य अनिवर्तयित्वा । यवीयसीमनुजाम् ॥ ५३–५४ ॥

सत्यधर्मीया

कुत इत्यत इत इत्याह ॥ अहत्वेति ॥ तत्र रुषाऽवसत् ॥५३॥

सुमनोरञ्जिनी

यवीयसीं स्वसारम् ॥ ५३ ॥

भगवान् भीष्मकसुतामेवं निर्जित्य भूमिपान् ।

पुरमानीय विधिवदुपयेमे कुरूद्वह ॥ ५४ ॥

सत्यधर्मीया

एवं भूमिपतीन्निर्जित्य रुग्मिणीं पुरीं द्वारकामानीय विधिवदुपयेमे

॥ ५४ ॥

सुमनोरञ्जिनी

भीष्मकसुतां पुरमानीय उपयेम इत्यन्वयः ॥ ५४ ॥

तदा महोत्सवो नृृणां यदुपुर्यां गृहे गृहे ।

अभूदनन्यभावानां कृष्णे यदुपतौ नृप ॥ ५५ ॥

पदरत्नावली

यदुपतौ कृष्णे अनन्यभावानाम् अन्यः शत्रुरिति भावरहितानाम् । निरतिशयभक्तियुक्तानामित्यर्थः ॥ ५५–५६ ॥

सत्यधर्मीया

गृहे गृहे प्रतिग्रहं यादृशी मयि भक्तिः स्यात्तादृश्यन्यत्र नैव चेत् । अनन्यभक्तिर्विज्ञेयेत्युक्तेर्यदुपतावन्यसदृशो भावो भक्तिः स नास्ति येषां तेऽनन्यभावास्तेषां महानुत्सवो यदुपुर्यामभूत् ॥ ५५ ॥

सुमनोरञ्जिनी

यदुपतौ कृष्णे । अनन्यभावानाम् । न विद्यते अन्यः विषयः यस्य सो ऽनन्यस् तदेकनिष्ठः भावो भक्तिर्येषां तेषाम् ॥ ५५ ॥

नरा नार्यश्च मुदिताः प्रमृष्टमणिकुण्डलाः ।

पारिबर्हमुपाजह्रुर्वरयोश्चित्रवाससोः ॥ ५६ ॥

सत्यधर्मीया

वरा च वरश्चैवमेव सुवाससी च सुवासाश्च तयोः पारिबर्हं विवाहा-नेहसि प्राहुणिकैर्देयं तत्रैव प्राक्तनप्राहुणिका रुग्मिणीसम्बन्धिन इति तद्दत्तस्य पारिबर्हता । सामान्यतो राज्ञो देयवस्तुनोऽपि नाम । पारिबर्हं तु राजार्हवस्तुन्यपि परिच्छद इति विश्वः

॥ ५६ ॥

सुमनोरञ्जिनी

प्रमृष्टाः शाणोल्लीढाः । मणयस् तन्मयानि कुण्डलानि येषां यासां ते च ताश्च । वरयोर् वधूवरयोः । पारिबर्हं विवाहकाले देयं वस्त्रादि ॥ ५६ ॥

सा वृष्णिपुर्युत्तभितेन्द्रकेतुभिर्विचित्रमाल्याम्बररत्नतोरणैः ।

बभौ प्रतिद्वार्युपक्लृप्तमङ्गलैरापूर्णकुम्भैरगरुधूपदीपकैः ॥ ५७ ॥

पदरत्नावली

उत्तभितेन्द्रकेतुभिर् उत्क्षिप्तेन्द्रध्वजैः ॥ ५७ ॥

सत्यधर्मीया

उत्तभिता उपरि स्थापिताश्च ते ध्वजाः केतवश्च तैः । उत्तभितेति गतम् । अम्बरतोरणै रत्नतोरणैश्च प्रतिद्वारि सर्वद्वारेषूपयुक्तानि मङ्गलान्यङ्कुरलाजादीनि तैरापूर्णकुम्भैरगुरुधूपैर्दीपैश्च सा पुरी बभौ शुशुभे ॥ ५७ ॥

सुमनोरञ्जिनी

सा वृष्णिपुरी द्वारका । उक्तम्भितैर् उच्छ्रितैः । इन्द्रकेतुभिर् ध्वज-विशेषैः । विचित्रमाल्यादिरचितैस् तोरणैः । प्रतिद्वारि । उपयुक्तानि । तत्कालोचितैः । मङ्गलैर् लाजाङ्कुरादिमङ्गलद्रव्यैः । आपूर्णकुम्भादिभिश्च बभावित्यन्वयः ॥ ५७ ॥

सिक्तमार्गा मदच्युद्भिराहूतप्रेष्ठभूभुजाम् ।

गजैर्वास्तुपरामृष्टा रम्भापूगोपशोभिता ॥ ५८ ॥

पदरत्नावली

आहूतप्रेष्ठभूभुजां गजैर् जुष्टेति शेषः । वास्तुपरामृष्टा गृहदेवतासंयुक्ता । यद्वा वास्तुपरामृष्टा त्यक्तरजोगृहा ॥ ५८ ॥

सत्यधर्मीया

आहूतप्रेष्ठभूभुजां मदच्युद्भिर्दानोदकस्राविभिर्गजैः सिक्तो मार्गो यस्याः सा दानोदसिक्तमार्गेति यावत् । मदच्युत्पदस्वारस्यात् । वास्तूनि परामृष्टानि पराभिः कर्म-कर्त्रीभिरामृष्टान्यलं शोभितानि यस्यां सा रम्भापूगस्तत्सङ्घास्तैरुपशोभिता रम्भापूगाः क्रमुकास्तैरुपशोभितेति वा ॥ ५८ ॥

सुमनोरञ्जिनी

आहूता ये प्रेष्ठभूभुजः । तेषाम् । गजैः । कीदृशैः । मदं मदोदकं च्यवन्तीति मदच्युतस् तैः । संसिक्तमार्गा । अर्थान् मदोदकबिन्दुभिरिति लभ्यते । यद्वा गजैर् उपशोभितेति बुध्याऽकृष्य योजनीयम् । बभावित्यन्वयो वा ॥ वास्तुषु गृहेषु । परामृष्टाः संस्पृष्टाः । सम्यक् बद्धा इति यावत् । रम्भाश्च पूगाश्च । तैर् उपशोभिता । रम्भापूगैः रम्भासमूहैरिति वा ॥ ५८ ॥

कुरुसृञ्जयकैकेयविदर्भयदुकुन्तयः ।

मिथो मुमुदिरे तस्मिन् सम्भ्रमात् परिधावतः ॥ ५९ ॥

पदरत्नावली

तस्मिन् नगरे परिधावत इतस्ततो धावन्तः ॥ ५९ ॥

॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे एकोनषष्ठिरध्यायः ॥

सत्यधर्मीया

परिधावतोऽन्तर्गृवं भ्रमतः सम्भ्रमादादरात् । अन्तर्णीतण्यर्थो वा धावच्छब्दः । धावयतः सम्भ्रमात्परस्परं मुमुदिरे । तस्मिन्समये वा पुर इति वा ॥ ५९ ॥

सुमनोरञ्जिनी

सम्भ्रमात्परिधावतः । स्वस्वबन्धून् दृष्ट्वेति शेषः । परिधावन्त इति वा

॥ ५९ ॥

रुग्मिण्याहरणं श्रुत्वा गीयमानं ततस्ततः ।

राजानो राजकन्याश्च बभूवुर्भृशविस्मिताः ॥ ६० ॥

**सत्यधर्मीया **

राजानः सामर्थ्यमसमं कृष्णस्येति तत्कन्याश्च वयं धन्याः स पतिश्चेदिति विस्मिताः ॥ ६० ॥

सुमनोरञ्जिनी

गीयमानं प्रोच्यमानम् ॥ ६० ॥

द्वारकायामभूद् राजन् महान् मोदः पुरौकसाम् ।

रुग्मिणीं रमणोपेतां दृष्ट्वा कृष्णं श्रियः पतिम् ॥ ६१ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे एकोनषष्ठिरध्यायः ॥

सत्यधर्मीया

श्रियः पतिमित्युक्त्या रुग्मिण्याः श्रीत्वं निरणायि ॥६१॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे

एकोनषष्ठिरध्यायः ॥ १०–५९ ॥

सुमनोरञ्जिनी

महान् मोदः सन्तोषः ॥ ६१ ॥

॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां

सुमनोरञ्जिन्याम् एकोनषष्ठिरध्यायः ॥