वेदर्भ्याः स तु सन्देशं निशम्य यदुनन्द
॥ अथ अष्टपञ्चाशोऽध्यायः ॥
श्रीशुक उवाच—
वेदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः ।
प्रगृह्य पाणिना पाणिं प्रहसन् द्विजमब्रवीत् ॥ १ ॥
पदरत्नावली
मम द्वेषाद् रुग्मिणा विवाहो निवाति इतीममर्थमहं वेद्मि ।
सत्यधर्मीया
स तु कृष्णोऽपि । तं त्विति पठन्ति । पाणिना स्वस्य पाणिं द्विजस्य । तं तत्त्वेन विभाव्य पाणिं गृहीत्वैवं तत्पाणिं गृह्णामीत्यसूचयच्चतुरतर इति ज्ञेयम् ॥ १ ॥
तथाऽहमपि तच्चित्तो निद्रां नाध्यगमं निशि ।
वेदाहं रुग्मिणा द्वेषान्ममोद्वाहो निवारितः ॥ २ ॥
दुर्घटभावदीपिका
यथा रुग्मिणी मच्चित्ता तथाऽहमपि तच्चित्तो रुग्मिणीचित्तो रुग्मिणा द्वेषान्ममोद्वाहो निवारित इति लोकमुखादहं वेद चातो निश्यपि निद्रां नाध्यगमं किमु वेति । एतेन निशि निद्रां नाध्यगममिति विशिष्योक्त्या दिवा निद्रां नाध्यगममिति प्रतीयतेऽतो निश्यपि निद्रां नाध्यगममिति वक्तव्यमिति दूषणस्यानवकाशः । अहमपीत्यपि-शब्दस्यावृत्त्या निश्यपि निद्रां नाध्यगममित्यर्थस्योक्तत्वात् ॥ २ ॥
सत्यधर्मीया
अहमपि तच्चित्तस्तन्मनस्को निशि निद्रां नाध्यगमम् । रुग्मिणा द्वेषान्ममोद्वाहो निवारित इत्यहं वेद ॥ २ ॥
सुमनोरञ्जिनी
यथा सा मच्चित्ता सती निद्रां न लभते तथाऽहमपि तच्चितस् तस्यामेव चित्तं यस्य सः । अन्यच्च निद्राया अलाभे निमित्तमाह ॥ वेदेति ॥ मयि द्वेषात् । मम विवाहो निवारित इति यत् तदहं वेदेति ॥ २ ॥
तामानयिष्य उन्मथ्य राजन्यापसदान् मृधे ।
मत्परामनवद्याङ्गीमेधसोऽग्नेः शिखामिव ॥ ३ ॥
पदरत्नावली
एधसः काष्ठादग्नेः शिखां ज्वालाम् ॥ ३ ॥
दुर्घटभावदीपिका
एधसोऽग्नेः शिखामिवेत्यस्यैधसः काष्ठमुन्मथ्याग्नेः शिखामिवेत्यर्थः । अग्निसादृश्यं भीष्मकस्य रुक्मिण्या अभूतोपमेयमग्निं विना केवलशिखाया आनयनाभावादिति द्रष्टव्यम् । एतेन दार्ष्टान्तिके राजन्यापसदानुन्मथ्येत्युक्तत्वाद् दृष्टान्ते एध उन्मथ्येति वक्तव्यम् । एधस इति कथनमयुक्तमिति चोद्यस्यानवकाशः ॥ ३ ॥
सत्यधर्मीया
राजन्यापसदांस्तन्नीचान् । उन्मथ्येत्युक्त्यनुरूपं निदर्शनमाह । एधसः काष्ठान्मथितादग्नेः शिखां यथा याज्ञिका निष्कासयन्ति तथाऽनयिष्ये ॥ ३ ॥
सुमनोरञ्जिनी
आनयिष्ये आनेष्यामि । राजन्यापसदान् राजन्येषु राजसु अपसदान् नीचान् । एधसः काष्टाद् अरण्यादिरूपात् । अग्निज्वालाम् ॥ ३ ॥
उद्वाहर्क्षं च विज्ञाय रुग्मिण्या मधुसूदनः ।
रथः संयुज्यतामाशु दारुकेत्याह सारथिम् ॥ ४ ॥
पदरत्नावली
उद्वाहर्क्षं विवाहनक्षत्रम् ॥ ४ ॥
सत्यधर्मीया
उद्वाहर्क्षं विवाहनक्षत्रम् ॥ ४ ॥
सुमनोरञ्जिनी
रुग्मिण्याः पत्रद्वारा उद्वाहर्क्षम् । … रात्रौ विवाहनक्षत्रमिति विज्ञाय । रुग्मिण्या उद्वाहर्क्षमिति वा ॥ ४ ॥
**स चाश्वैः शैब्यसुग्रीवमेघपुष्पबलाहकैः । **
युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रतः ॥ ५ ॥
आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगैः ।
आनर्तादेकरात्रेण विदर्भानगमद्धयैः ॥ ६ ॥
पदरत्नावली
हयैर्युक्तम् ॥ ५–६ ॥
सत्यधर्मीया
प्राञ्जलिः स दारुकोऽग्रतस्तस्थौ । आरोप्य च द्विजवरमनन्तरं स्वयमारुह्य हयैर्युक्तं स्यन्दनम् ॥ ५,६ ॥
सुमनोरञ्जिनी
शैब्य इत्यादिचत्वार्यश्वनामानि । तन्नामकैर् अश्वैर् युक्तम् । हयैर् युक्तम् । स्यन्दनमित्यन्वयः ॥ ५,६ ॥
राजा स कुण्डिनपतिः पुत्रस्नेहवशंगतः ।
शिशुपालाय स्वां कन्यां दास्यन् कार्याण्यकारयत् ॥ ७ ॥
पदरत्नावली
कार्याणि विवाहयोग्यकार्याणि अकारयत् ॥ ७ ॥
सत्यधर्मीया
स्वां कन्यामिति पाठे न स्वलाघवम् । शिशुपालाय स्वामिति पठञ्छिशुपाललाघवं यल्लघुपठनीयतयाऽसूचयदिति मन्तव्यम् । कार्याणि स्वस्तिवाचन-हरिद्रालेपनादीनि ॥ ७ ॥
सुमनोरञ्जिनी
राजा भीष्मकः । पुत्रस्नेहवशं गतः । अनेन राज्ञः शिशुपालाय कन्यादानविषयेऽरुचिः सूचिता । कार्याणि विवाहकालोचितानि ॥ ७ ॥
पुरं सम्मृष्टसंसिक्तमार्गरथ्याचतुष्पथम् ।
चित्रध्वजपताकाभिस्तोरणैः समलङ्कृतम् ॥ ८ ॥
पदरत्नावली
उक्तमेव स्पष्टयति– पुरमिति ॥ प्राक् सम्मृष्टास्त्यक्तावस्कराः पश्चात् संसिक्ता गोमयोदकादिप्रोक्षिता मार्गादयो यस्मिंस्तत्तथा ॥ ८–१० ॥
सत्यधर्मीया
तान्येव विशदयति– पुरमिति ॥ सम्मृष्टा अवकरादिना मार्जिता अनन्तरं संसिक्ता मलयजजलसिक्ता रथ्या महावीथ्याश्चतुष्पथा मार्गचतुष्टयसङ्गमस्थानानि । चतुष्पथश्चतुर्मार्गसङ्गम इति विश्वः । यस्मिंस्तच्चित्रध्वजपताकाभिरेकजिव्हाद्विजिह्वाभिः ॥८॥
सुमनोरञ्जिनी
तान्येवाह । संमृष्टाः समूहिताः । संसिक्ताः सुगन्ध्युदकादिभिर् उक्षिता मार्गादयो यस्मिन् तत् । चित्रैर् ध्वजैः पताकादिभिश्च समलङ्कृतम् । अकार-यदित्यनुवर्तते ॥ ८ ॥
स्रग्गन्धमाल्याभरणैर्विरजाम्बरभूषणैः ।
जुष्टं स्त्रीपुरुषैः श्रीमद् गृहैरगरुधूपितैः ॥ ९ ॥
सत्यधर्मीया
माल्यानीह पुष्पाण्येव स्त्रगिति पृथगुक्तेः । अथवा स्रजो मुक्ता-मण्यादिमालाः । विरजेति गतम् । अगरुधूपितैः श्रीमद्गृहैर्जुष्टमित्यन्वयः ॥ ९ ॥
सुमनोरञ्जिनी
स्रग्गन्धमाल्याभरणैर् मत्वर्थीयोऽच् । तद्विशिष्टैरित्यर्थः । तथा विरजाम्बरैर् निर्मलवस्त्रैर् भूषितैश्च स्त्रीपुरुषैर् जुष्टम् । अगरुधूपितैः श्रीमद्भिर् गृहैश्च जुष्टम्
॥ ९ ॥
पितृन् देवान् समभ्यर्च्य विप्रांश्च विधिवन्नृपः ।
भोजयित्वा यथान्यायं वाचयामास मङ्गलम् ॥ १० ॥
सत्यधर्मीया
विप्रान्समभ्यर्च्य भोजयित्वा चेत्यन्वयः । मङ्गलं स्वस्तिवाचनम् ॥
सुमनोरञ्जिनी
कन्यां प्रति मङ्गलम् । ब्राह्मणैर् वाचयामास ॥ १० ॥
सुस्नाता सुदती कन्या कृतकौतुकमङ्गला ।
अहतांशुकयुग्मेन भूषिता भूषणोत्तमैः ॥ ११ ॥
पदरत्नावली
सुस्नाताऽऽभूदिति शेषः । कृतं कौतुके कुतूहले महोत्सवे मङ्गलं हस्तसूत्रलक्षणं मङ्गलं यस्याः सा तथा । ‘आबध्नन्ति करे सूत्रं माङ्गल्यार्थं नवस्त्रियः’ इति । ‘कौतुकं विषयाभोगे हस्तसूत्रे कुतूहले । कामे ख्याते मङ्गले च’ इति यादवः । अहतांशुकयुग्मेन नूतनवस्त्रयुगलेन । ‘अंशुकं केवले वस्त्रे सूक्ष्मवस्त्रोत्तरीययोः’ इति च
॥ ११ ॥
सत्यधर्मीया
कृतं कौतुकबन्धनोपयुक्तं मङ्गलं यस्याः सा । कौतुकं विवाहसूत्रं कङ्कणदोरमिति याज्ञिकाः । अथवाऽऽबध्नन्ति करे सूत्रं माङ्गल्यार्थं नवं स्त्रियः । कौतुकं विषयाभोगे हस्तसूत्रे कुतूहले । कामे ख्याते मङ्गले चेति विश्वयादवौ । अहतांशुकेति नूतनताऽभिधायिनौ शब्दौ ॥ ११ ॥
सुमनोरञ्जिनी
कृतकौतुकमङ्गला । कृतं कौतुकेन हर्षेण मङ्गलं यस्याः सा । कृतं कौतुके उत्सवे मङ्गलं यस्या इति वा । कृते कौतुकमङ्गले यस्याः । कौतुकं गीतनर्तनादि-भोगः । यद्वा कृतं कौतुकं विवाहसूत्रलक्षणं मङ्गलं यस्याः सा तथा । कौतुकं चाभिलाषे स्यादुत्सवे नर्महर्षयोः । विवाहसूत्रगीतादिभोगे कालेषु च स्मृतमिति विश्वः । अहतं नूतनम् अंशुकयुग्मं सूक्ष्मवस्त्रयुगलं तेन । अंशुकं सूक्ष्मवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोरिति च । भूषणोत्तमैश्च भूषिता । अभूदिति शेषः ॥ ११ ॥
चक्रुः सामर्ग्यजुर्मन्त्रैर्वध्वा रक्षां द्विजोत्तमाः ।
पुरोहितोऽथर्वमन्त्रैर्जुहाव ग्रहशान्तये ॥ १२ ॥
पदरत्नावली
‘गृहानेतान् रक्षया विवृणोमि’ इत्याद्यथर्ववेदोक्तवित् ॥ १२ ॥
सत्यधर्मीया
सामर्ग्यजुमन्त्रैर्द्विजोत्तमा वध्वा रक्षाञ्चक्रुः । ग्रहशान्तये पुरोहितोऽथर्व-विद् ग्रहमारकमन्त्राणां तत्रैव सत्त्वात् ॥ १२ ॥
सुमनोरञ्जिनी
अथर्वविद् आथर्वणमन्त्रवित् । ग्रहाणां सूर्यादिनवग्रहाणां शान्तये सन्तोषाय ॥ १२,१३ ॥
हिरण्यरूप्यवासांसि तिलांश्च गुडमिश्रितान् ।
प्रादाद् धेनूश्च विप्रेभ्यो राजा विधिविदां वरः ॥ १३ ॥
पदरत्नावली
रूप्यं रजतम् ॥ १३ ॥
सत्यधर्मीया
गुडमिश्रितांस्तिलान् विधिविदां वरः स्वयम् ॥ १३ ॥
एवं चेदिपती राजा दमघोषः सुताय वै ।
कारयामास मन्त्रज्ञैः सर्वमभ्युदयोचितम् ॥ १४ ॥
पदरत्नावली
सुताय शिशुपालाय ॥ १४ ॥
सत्यधर्मीया
चेदिपातिर्दमघोषो राजा । अभ्युदयोचितं बहिरन्तरर्थस्तु । अभ्यव-ज्ञात उदयोऽभ्युदयस्तदुचितमिति । मन्तृष्वज्ञा मन्त्रज्ञास्तैरिति च ॥ १४ ॥
सुमनोरञ्जिनी
चेदिपतिस् तद्देशाधिपतिर् नामतो दमघोषः । सुताय शिशुपालाय अभ्युदये उचितम् ……बन्धनादिकम् ॥ १४ ॥
मदच्युद्भिर्गजानीकैः स्यन्दनैर्हेममालिभिः ।
पत्त्यश्वसङ्कुलैः सैन्यैः परीतः कुण्डिनं ययौ ॥ १५ ॥
पदरत्नावली
पूर्वोक्तयात्राशेषं कथयति– मदच्युद्भिरिति । मदच्युद्भिर् मदजलस्रा-विभिः ॥ १५ ॥
सत्यधर्मीया
स्वग्रामे कारयित्वा कुण्डिनं ययौ ॥ १५ ॥
सुमनोरञ्जिनी
मदं च्यवन्त इति मदच्युतः । तैर् गजानीकैः । स्यन्दनैः रथैः । हेममालिभिर् हेममय्यो माला विद्यन्ते येषु तैः । परीतः परिवृतः । कुण्डिनं पुरम् ॥१५॥
तं वै विदर्भाधिपतिः समेत्याभिप्रपूज्य च ।
निवेशयामास मुदा कल्पितान्यनिवेशने ॥ १६ ॥
पदरत्नावली
तदर्थं कल्पितेऽन्यस्मिन् निवेशने गृहे ॥ १६ ॥
सत्यधर्मीया
समेत्य सम्मुखं गत्वा प्रपूज्य च कल्पितं तदर्थमन्यन्निवेशनं तस्मिन् ॥ १६ ॥
सुमनोरञ्जिनी
समेत्य अभिमुखं गत्वा । तदर्थं कल्पिते निर्मिते अन्यस्मिन् निवेशने गृहे ॥ १६ ॥
तत्र साल्वो जरासन्धो दन्तवक्रो विदूरथः ।
आजग्मुश्चैद्यपक्षीयाः पौण्ड्रकाद्याः सहस्रशः ॥ १७ ॥
पदरत्नावली
तत्र कुण्डिनपुरे ॥ १७–२१ ॥
सत्यधर्मीया
तत्र मण्डिते कुण्डिने ॥ १७ ॥
कृष्णरामद्विषो यत्ताः कन्यां चैद्याय साधितुम् ।
यद्यागत्य हरेत् कृष्णो रामाद्यैर्यदुभिर्वृतः ॥ १८ ॥
सत्यधर्मीया
यदि रामाद्यैर्यदुभिर्वृत आगत्य कृष्णो हरेदुद्योगं कुर्यात् तर्हि चैद्याय तां साधितुं साधयितुं स्वभावतः कृष्णरामद्विषो यत्ताः ॥ १८ ॥
सुमनोरञ्जिनी
यत्ताः सन्नद्धाः ॥ १८,१९ ॥
योत्स्यामः सहिताः सर्वे इति निश्चितमानसाः ।
आजग्मुर्भूभुजः सर्वे समग्रबलवाहनाः ॥ १९ ॥
सत्यधर्मीया
सर्वे सहिता मिलिता योत्स्याम इति निश्चितं मानसं येषां ते समग्रेति बलवाहनद्वयविशेषणम् ॥ १९ ॥
श्रुत्वैतद् भगवान् रामो विपक्षीयनृपोद्यमम् ।
कृष्णं चैकं गतं हर्तंु कन्यां कलहशङ्कितः ॥ २० ॥
सत्यधर्मीया
एतेन सन्निहितेनैव भगवानैश्वर्यादिमान् । यथेदानीं तथा नित्यं तस्मादेष भविष्यति । अत एतदिति प्रोक्त इति सर्वसन्निहितत्वादेतदिति बृहच्छान्दोग्य-भाष्योक्तेः । विपक्षीयनृपोद्यमं श्रुत्वा विपक्षीयाश्च ते नृपाश्च तेषामुद्यमो यस्मिंस्तदेतद्वृत्तमिति वा कलहो भवेदिति शङ्कावान् ॥ २० ॥
सुमनोरञ्जिनी
एतच्छ्रुत्वा । किं तत् । विपक्षीयनृपाणां साल्वादीनाम् । उद्यमं कन्यां हर्तुं गतम् । कृष्णमेकं चेत्येतत् ॥ २० ॥
बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः ।
त्वरितः कुण्डिनं प्रायाद् गजाश्वरथपत्तिभिः ॥ २१ ॥
दुर्घटभावदीपिका
भ्रातृस्नेहपरिप्लुतो भ्रातृकृष्णस्नेहपरिप्लुतो महता बलेन महता सामर्थ्येन युक्तो रामो गजाश्वरथपत्तिभिः सार्धं त्वरितः सन् कुण्डिनं कुण्डिनपुरं प्रागादिति । एतेन गजाश्वरथपत्तिभिः सार्धमित्यनेनैव पूर्णत्वान्महता बलेनेत्येतव्द्यर्थमिति दूषणं निरस्तम् । गजाश्वरथपत्तिभिर्युक्तेन महता बलेन सार्धमित्यर्थमनङ्गीकृत्य महता बलेन युक्तो रामो गजाश्वरथपत्तिभिः सार्धमित्यर्थस्योक्तत्वात् ॥ २१ ॥
सत्यधर्मीया
स्वयं महता बलेन युतो गजाश्वरथपत्तिभिश्च सार्धमित्यन्वयः ॥२१॥
सुमनोरञ्जिनी
परिप्लुतः क्लिन्नः ॥ २१ ॥
भीष्मकन्या वरारोहा काङ्क्षन्त्यागमनं हरेः ।
प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत् तदा ॥ २२ ॥
पदरत्नावली
वरो वरणीय आरोहो जघनप्रदेशो यस्याः सा तथा । प्रत्यापत्तिं पुनरागमनम् ॥ २२ ॥
सत्यधर्मीया
प्रत्यापत्तिं प्रत्यागमनम् ॥ २२ ॥
सुमनोरञ्जिनी
द्विजस्य प्रत्यापत्तिं प्रत्यागमनम् ॥ २२ ॥
अहो त्रियामान्तरित उद्वाहो मेऽल्पराधसः ।
नागच्छत्यरविन्दाक्षो नाहं वेद्म्यत्र कारणम् ॥ २३ ॥
पदरत्नावली
त्रियामान्तरितः रात्रिमात्रव्यवहितः । अल्पराधसः मन्दीभूतकार्यसिद्धेः
॥ २३–२५ ॥
सत्यधर्मीया
अल्पराधसोऽल्पसिद्धिमत्याः पुण्यहीनाया इति तात्पर्यम् । उद्वाह-स्त्रियामा रात्रिस्तन्मात्रव्यवहितः । त्रियामान्तरिता यस्य सः । त्रियामा क्षणदा क्षपेत्यमरः । अरविन्दाक्षो नागच्छति । अत्र तदनागमनकारणं न वेद्मि ॥ २३ ॥
सुमनोरञ्जिनी
मे उद्वाहः । त्रियामा रात्रिः । तावन्मात्रेण व्यवहितः । अल्पराधसः मन्दभाग्यायाः । अरविन्दाक्षः श्रीकृष्णः । अत्र अनागमने ॥ २३ ॥
विरोधोद्धारः— अहो इति ॥ यामत्रयेण विवाहव्यवधानमुक्तम् । तस्य श्वो भाविनि त्वमजितोद्वहने विदर्भान् आनर्तादेकरात्रेण विदर्भानगमद्धयैरित्येताभ्यां विरोधः । किञ्च श्रीमन्महाभारततात्पर्यनिर्णये– देवीति श्रीरुदीरितेत्युक्त्या, देवी भाग्यात्कि नृणामित्युक्त्या न च स्पर्धादयो दोषाः संविद्रूपां स्पृशन्ति तामिति तात्पर्योक्त्या च अल्पराधस इति स्वविशेषणे दत्ते विरोधान्तरं च । अतोऽर्थान्तरम् । अत्र त्रियामाशब्देन न यामत्रयकालो ग्राह्यः । किन्तु रात्रिर्ग्राह्या । त्रियामा क्षणदा क्षपा इत्यभिधानात् । अतो न पूर्वविरोधः मे मया सह अल्पराधसः । अल्पं राधो भाग्यं यस्य तस्य शिशुपालस्य उद्वाहस् त्रिया-मान्तरित एकरात्र्या व्यवहित इत्यहं न वेद्मि । किन्तु इदमहो आश्चर्यं वेद्मि । अत्र शिशुपालविवाहस्य त्रियामान्तरितत्वकथने इदं कारणम् । यद् अरविन्दाक्षः । कृष्णो नागच्छति । तस्यागमने तु शिशुपालोद्वाहस्य वार्ताऽपि न स्यादिति भावः । अतो विरोधान्तरमपि नास्तीत्यर्थः ॥ २३ ॥
सोऽपि नावर्ततेऽद्यापि मत्सन्देशहरो द्विजः ।
अपि मय्यनवद्यात्मा दृष्ट्वा किञ्चिज्जुगुप्सितम् ॥ २४ ॥
मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यमः ।
सत्यधर्मीया
सन्देशं गृहीत्वा तं देशं गतो विप्रोऽप्यद्यापि नावर्ततेऽत्र किं कारणं न वेद्मीत्यन्वयः । आदरातिशयादालस्याच्चाहो वध्वां धाष्ट्यं देशान्तरपुुरुषान्तरमपरिचितचरं प्रति पत्रप्रेषणं कृतवतीति जुगुुप्सितं दृष्ट्वा नागात्किमगधर इत्युत्प्रेक्ष्य वक्ति ॥ अपीति । मय्यनवद्यात्मा स्वयमिति किञ्चिज्जुगुप्सितं दृष्ट्वा मत्पाणिग्रहणे कृतोद्यमः सन्नायाति ह शोके ॥ २४ ॥
सुमनोरञ्जिनी
जुगुप्सितं निन्दितम् । धार्ष्ट्यादि, दृष्ट्वा पत्रलेखनतोऽनुमीय । कृतोद्यमोऽपि नायाति । अपीति संभावनायाम् ॥ २४ ॥
दुर्भगाया न मे भ्राता नानुकूलो महेश्वरः ॥ २५ ॥
विरोधोद्धारः— दुर्भगाया इति ॥ अत्र दुर्भगाया इति स्वविशेषणे कृते भाग्यात्मि-काया रमारूपाया रुग्मिण्यास्तदयोगात् । ज्ञानरूपायाश्च भ्रमाभावादपि विरोधोऽतोऽर्थानु-स्मृच्यते । लुप्तोपममिदं वाक्यम् । तथा च धाता ब्रह्मा । धाताऽब्जयोनिर्द्रुहिण इत्यमरः । अमहा न मा ज्ञानं येषां ते अमा दैत्याः । मा ज्ञान इति धातोः । तान् हन्तीति अमहा विष्णुः । दैत्यारिः पुण्डरीकाक्ष इत्युक्तेः । ब्रह्मेशयोः प्रसिद्धनामनी गृहीत्वा विष्णोरेव यौगिकनामग्रहणेन गुरोर्नाम न गृह्णीयाच्छिष्यो भार्या पतेरिति वचनात् । स्त्रीणां स्वभर्तृप्रसिद्धनामग्रहणे निषेधः सूचितः । ईश्वरो रुद्रः । ईश्वरः शर्व ईशान इत्युक्तेः । दुर्भगाया अलक्ष्म्या भाग्यहीनस्त्रियो वा नानुकूल इव मे मह्यम् । नानुकूलो न किन्त्वनकूल एवेत्यर्थः । धात्रादित्रयाणां कर्तॄणां पृथगन्वयोपगमान् नानुकूलैकवचनविरोधः ॥ यद्वा । उत्तरार्धस्थवाशब्द उपमार्थो ज्ञेयः । उपमायां विकल्पे वेत्यमरोक्तेः । एवं सत्यपि भगवान् किं नागच्छतीति भावः । नन्वस्तु त्रिपुरुषानुकूल्यं तद्वारानुकूल्यं न स्याच्चेत्कथमिष्टसिद्धिः स्यादित्याशङ्क्य विमर्शयति ॥ देवीति । देवी लक्ष्मीः । देवीति श्रीरुदीरितेति वचनात् । गौरीः सरस्वतीत्यर्थः । गौरीर्मिमाय सलिलानि तक्षतीति सरस्वतीश्रुतेः । दीर्घत्वान्न रेफ-लोपः । रुद्राणी रुद्रपत्नी । शिवा भवानी रुद्राणीत्यमरः । अत्र रुद्राणीशब्देन किं दाक्षायणी गृह्यतेऽथवा हैमवतीत्याशङ्क्य समाधत्ते । गिरिजेति । गिरिजा हैमवती सती दाक्षायणी चोभयरूपिण्यपीत्यर्थः । अविमुखा सम्मुखाऽस्ति । अथवा । देवी वेत्यत्र इवेति प्रश्लेषः
॥ २५ ॥
॥ इति पाङ्घरी श्रीनिवासाचार्यकृतविरोधोद्धारे
उत्तराधे अष्टपञ्चाशत्तमोऽध्यायः ॥ १०–५८ ॥
देवी वा विमुखा गौरी रुद्राणी गिरिजा सती ।
एवं चिन्तयती बाला गोविन्दहृतमानसा ।
न्यमीलयत कालज्ञा नेत्रे अश्रुकलाकुले ॥ २६ ॥
पदरत्नावली
‘गौरोऽरुणेसिते पीते’ इति गौरीशब्दस्यानेकार्थवाचित्वेनानिश्चय इत्यतो रुद्राणीति । सामान्यविवक्षायां गङ्गाया अपि तत्पत्नीत्वेन संशयनिस्तार इत्यतो गिरिजेति । ‘गिरिजा मेनकात्मजा’ इत्यभिधानम् । नन्वभिधानस्य योगबलानुसारित्वेन प्रवृत्तेर्नद्या अपि गिरिजातत्वादित्यतः सतीति । ‘सती सती यागविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे’’ इति । ध्यानकालज्ञा ॥ २६ ॥
सत्यधर्मीया
दुर्भागाया दुर्दैवाया धाता नानुकूलस्तथा महेश्वरोऽपि नानुकूलो देवी देवता रुद्राणी रुद्रभार्या । इन्द्रेत्याद्यानुक् । गिरिजा पार्वती दत्तोत्पत्तिमती यस्यास्मा-दित्यनुबन्धद्वयबोधनार्थं विशेषणद्वयम् । विमुखा एवं चिन्तयती गौरी रुक्मवर्णेति चम्पकदामगौरीतिवच्चम्पकवर्णा गौरी स्यादप्रसूता स्त्री गौरी शुद्धोभयान्वयेत्यनेकार्थध्वनिपद-मञ्जर्यामुक्तोऽर्थो ज्ञेयः । बाला गोविन्दहृतमानसा सती अश्रुकलाकुले नेत्रे कालज्ञा उत्सवलवे कस्मात् किन्नयनयोर्नीरानयनमिति लोकाः शङ्केरन्निति कालज्ञा न्यमीलयत । गिरिजा स्वयं रुद्राणी सती मा स्ववत्पत्या योजयतीत्याक्रोशमपि विमुखेत्यनेनोङ्खयामासेति वा ॥ २५,२६ ॥
सुमनोरञ्जिनी
यद्वा श्रीकृष्णो मद्विषये कृतोद्यमः स्यात् । तथापि मद्दैवप्रातिकूल्येन प्रतिबद्धः स्यादिति चिन्तयति ॥ दुर्भगाया इति ॥ गौरी स्यादप्रसूता स्त्रीति वचनाद्दश-वार्षिकी काचनेति शङ्कां वारयितुं रुद्राणीत्युक्तम् । अन्या काचन तत्पत्नी स्यादिति संशयपरिहाराय गिरिजेति । सती निर्दुष्टा । पूर्वजन्मनि सतीशब्दवाच्या वा । कालज्ञा कालवशात्सर्वं भाव्यं भविष्यतीति मन्वाना । अधुनापि गोविन्दागमनकालो नातीत इति कालज्ञा वा । नायं चिन्ताप्रदर्शनकाल इति कालज्ञा वा । ध्यानकालज्ञेति पदरत्नावली । अश्रुकलाभिर् अश्रुबिन्दुभिर् आकुले पूर्णे नेत्रे । न्यमीलयत निमीलितवती ॥ २६ ॥
एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप ।
वाम ऊरुर्भुजो नेत्रमस्फुरन् प्रियभाषिणः ॥ २७ ॥
पदरत्नावली
वाम ऊरुरस्फुरत् । नेत्रभुजावस्फुरताम् । प्रियभाषिणो ऽभीष्टकार्य-शंसिनः ॥ २७–२८ ॥
सत्यधर्मीया
वाम इति सद्विपरिणतं नेत्रपदेनान्वेति । वामं नेत्रं वाम ऊरुर्वामो भुजश्चास्फुरन् अचलन् प्रियभाषिण इव तत्सूचका इत्यर्थः । प्रतीक्षन्त्याः प्रतीक्षमाणायाः ॥
सुमनोरञ्जिनी
वामनेत्रं वाम ऊरुः । वामो भुजः । इत्येते । अस्फुरन् । प्रियभाषिणो ऽभीष्टसूचकाः ॥ २७ ॥
अथ कृष्णविनिर्दिष्टः स एव द्विजसत्तमः ।
अन्तःपुरचरां देवीं राजपुत्रीं ददर्श ह ॥ २८ ॥
सत्यधर्मीया
अथैवं शकुनानन्तरं स एव स्वप्रेषित एव कृष्णविनिर्दिष्टश्च द्विजसत्तमोऽन्तःपुरचरीं देवीं ददर्श । राजपुत्री शार्ङ्गरवादिना ङीनन्तो राज्ञो दुहिता राजपुत्री पुत्रवन्तो वा ॥ २८ ॥
सुमनोरञ्जिनी
पुरसमीपं प्राप्तेन । श्रीकृष्णेन विनिर्दिष्टः प्राप्तं मां कथयेत्यादिष्टः ॥
सा तं प्रहृष्टवदनमव्यग्रात्मगतिं सती ।
आलक्ष्य लक्षणाभिज्ञा तमपृच्छच्छुचिस्मिता ॥ २९ ॥
पदरत्नावली
अव्यग्रात्मगतिमसम्भ्रान्तनिजगमनम् ॥ २९–३४ ॥
सत्यधर्मीया
विप्रमुखमुखनिरीक्षण एव स्वसुखमाप्तमिति मन्वाना तन्वाङ्गी तमप्राक्षीद्विप्रमिति प्राह ॥ सेति ॥ प्रहृष्टवदनमव्यग्रं यथा तथाऽऽत्मगतिरात्मानं प्रति गतिर्यस्य तमालक्ष्य लक्षणानि जानातीति शुचिस्मिता तमपृच्छत् ॥ २९ ॥
सुमनोरञ्जिनी
अव्यग्रा आत्मानं प्रति गतिर् गमनं यस्य तम् । आलक्ष्य स्वयं तु लक्षणाभिज्ञा । कृतकार्यस्य दूतस्य लक्षणान्यभिजानातीति तथा । कृतकार्यं जानमाना शुचिस्मिता । भूत्वेति भावः ॥ २९ ॥
आवेदयामास तस्यै सम्प्राप्तं यदुनन्दनम् ।
उक्तं च सत्यवचनमात्मोपनयनं प्रति ॥ ३० ॥
सत्यधर्मीया
का वार्तेति पृष्टः स तस्यै सम्प्राप्तं यदुनन्दनमावेदयामास । न ह्यागमनमात्रेण प्रयोजनं जातमित्यत आह । आत्मोपनयनं प्रत्यात्मनस्तवोपनयनं प्रति सत्यवचनं शपथः सत्यं तत्पूर्वकं वचनम् । उक्तं चावेदयामास । सत्यं च शपथे तथ्य इति विश्वः ॥ ३० ॥
सुमनोरञ्जिनी
तस्यै । प्राप्तं यदुनन्दनम् । आवेदयामास शशंस । आत्मनः स्वस्या उपनयनं द्वारकां प्रतिनयनं (प्रति) । श्रीकृष्णेन यत् सत्यवचनमुक्तं तामानयिष्य उन्मथ्य राजन्यापसदान्मृध इत्यादि तच्च आवेदयामास ॥ ३० ॥
तमागतं समाज्ञाय वैदर्भी हृष्टमानसा ।
न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा ॥ ३१ ॥
सत्यधर्मीया
तं कृष्णं समाज्ञाय ज्ञात्वा प्रियं ब्राह्मणायान्यद्दातुमेतदुपकृतिप्रत्युप-कृतिरूपमपश्यन्ती सा ननाम ॥ ३१ ॥
सुमनोरञ्जिनी
तं श्रीकृष्णं ब्राह्मणाय दातुं प्रियं वस्तु । पर्याप्तं न पश्यन्ती तत्प्रत्युपकाराय । सर्वस्वमप्यपर्याप्तं जानमानेत्यर्थः । मां प्रणतानां सर्वसम्पदः सुलभा भवन्ति । किं पुनः मयि प्रणतायामिति भावेन केवलं ननामेति भावः ॥ ३१ ॥
प्राप्तौ श्रुत्वा स्वदुहितुरुद्वाहप्रेक्षणोत्सुकौ ।
अभ्ययात् तूर्यघोषेण रामकृष्णौ समर्हणैः ॥ ३२ ॥
सत्यधर्मीया
स्वदुहितुर्लोकदृष्ट्या । वस्तुतस्तु सु अदुहितुरिति तदर्थः । उद्वाह-प्रेक्षणौत्सुकौ तत्रैकः कन्योद्वहनोत्सुको रथोपर्यारोप्य नेतुं समयसमालोकनोत्सुक एकस्तद्दर्शनो- त्सुक इति विवेकः । समर्हणैरर्ह्यते एभिरिति तत्साधनैस्तूर्यघोषेण सहाभ्ययात् ॥ ३२ ॥
सुमनोरञ्जिनी
स्वदुहितुः रग्मिण्याः । उद्वाहस्य प्रेक्षणे उत्सुकौ रामकृष्णौ प्राप्तौ । श्रुत्वा ॥ ३२ ॥
मधुपर्कमुपानीय वासांसि रुचिराणि सः ।
उपायनान्यभीष्टानि विधिवत् समपूजयत् ॥ ३३ ॥
सत्यधर्मीया
मधुपर्कमुपानीय गतम् । रुचिराणि वासांसि चोपनीयेत्यन्वयः । अभीष्टान्युपनयनानि विधिवत्समपूजयत् । विधिर्वत्सो यस्य तं विरिञ्चतातमित्यप्यान्तरङ्गिको भावः ॥ ३३ ॥
सुमनोरञ्जिनी
सः भीष्मकः ॥ ३३ ॥
तयोर्निवेशनं श्रीमदुपकल्प्य महामतिः ।
बाह्योद्याने कुण्डिनस्य यथायोगं सुविस्तृतम् ॥ ३४ ॥
सत्यधर्मीया
श्रीमन्निवेशनं गृहं कुण्डिनस्य बाह्योद्यान उपकल्प्य यथायोगं सुविस्तृतं विशालम् ॥ ३४ ॥
सुमनोरञ्जिनी
तयोः रामकृष्णयोः । निवेशनम् । उपकल्प्य । यथा यथायोग्यम् आतिथ्यं विदध इत्यन्वयः ॥ ३४ ॥
आवेद्य पूर्णं नगरं जरासन्धादिभिर्नृपैः ।
ससैन्ययोः सानुगयोरातिथ्यं विदधे यथा ॥ ३५ ॥
पदरत्नावली
किमिति नगरप्रवेशाप्रदानं कृष्णरामयोरिति तत्राह– आवेद्येति । जरासन्धादिराजभिर्नगरं पूर्णं निबिडमनवकाशमित्यावेद्य विज्ञाप्य ॥ ३५–४२ ॥
सत्यधर्मीया
किमन्तर्निवेशोऽनन्तस्येत्यत आह ॥ आवेद्येति ॥ जरासन्धादिभि-र्नृपैर्नगरं पूर्णमावेद्य निरूपयित्वा यथा सम्यक् गतम् ॥ ३५ ॥
सुमनोरञ्जिनी
पुरं विहाय । बाह्योेद्याने निवेशनकरणे निमित्तमाह ॥आवेद्येति
॥ ३५ ॥
एवं राज्ञां समेतानां यथावीर्यं यथावयः ।
यथाबलं यथावित्तं सर्वैः कामैः समर्हयत् ॥ ३६ ॥
सत्यधर्मीया
समर्हयत्समार्हयत् ॥ ३६ ॥
सुमनोरञ्जिनी
यथाबलं बलं सैन्यम् । समेतानां राज्ञां मध्ये । तेषां वीर्याद्यनतिक्रमेण समर्हयत् पूजयामासेत्यर्थः ॥ ३६,३७ ॥
कृष्णमागतमाकर्ण्य विदर्भपुरवासिनः ।
आगत्य नेत्राञ्जलिभिः पपुस्तन्मुखपङ्कजम् ॥ ३७ ॥
सत्यधर्मीया
विदर्भपुरवासिन्यश्च वासिनश्च ते ॥ ३७ ॥
अस्यैव भार्या भवितुं रुग्मिण्यर्हति नापरा ।
असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः ॥ ३८ ॥
सत्यधर्मीया
भैष्म्याः पतित्वं न परीक्षणीयं कृष्णस्य राज्ञो लवयापनेनेति स्वयं कर्णेष्वजपन्नित्याह ॥ अस्यैवेति । अस्यैव कृष्णस्यैव रुग्मिणी भार्या भवितुमर्हति । अपरैतदितरा रमेतरेति यावत् । असावप्यनवद्य आत्मा देहो यस्य सः । भैष्म्याः समुचितः पतिस्तत्प्रभृति जनवाक्ये जनार्दन इत्याभाणकं प्रसस•र लोक इति ज्ञेयम् ॥ ३८ ॥
सुमनोरञ्जिनी
रुग्मिणी अस्य श्रीकृष्णस्य भार्या भवितुमर्हति । भैष्म्यास्तु समुचितः पतिर् असावेवेत्यन्वयः । अपिः पूर्वोक्तावधारणस्याकर्षणार्थः ॥ ३८ ॥
किञ्चित् सुचरितं यन्नस्तेन तुष्टस्त्रिलोककृत् ।
अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिमच्युतः ॥ ३९ ॥
दुर्घटभावदीपिका
किञ्चित्सुचरितम् । तेन तुष्टो भगवाननुगृण्हात्विति कथनमयुक्त-मिति दूषणं परिहृतम् । महच्चेत्यस्य शेषमङ्गीकृत्य सर्वपुण्यसङ्ग्रहोऽनेन कृत इत्यभ्युपगमात्
॥ ३९ ॥
सत्यधर्मीया
यत्किञ्चित्सुचरितं ज्ञानपूर्वकमाचरितं सत्कर्म नः किमप्यस्ति चेत्तेन त्रिलोककृत्पाणिमच्च्युत एतत्पाणिग्रहणार्थं सिद्धपाणिः पाणिमान् शिशुपालश्च्युतो येन स इति त्रिलोककृदित्यनेनान्वयः । तृष्टोऽनुगृह्णात्वनुग्रहं करोतु । किं तदनुग्रहणमिति प्रश्न उत्तरं वैदर्भ्याः पाणिं हस्तमच्युतो गृह्णातु । अपारसुकृतलभ्यं दर्शनमिति किञ्चिदिति न सरस-मस्मदुत्तमापेक्षया किञ्चिदिति वचनं वा ॥ ३९ ॥
सुमनोरञ्जिनी
नो ऽस्माकं यत्सुचरितम् । इह जन्मनि जन्मान्तरे वाऽर्जितमस्ति तेन तुष्टः । त्रिलोककृत् सर्वस्रष्टा श्रीहरिः । अस्माननुगृह्णातु । कोऽयमनुग्रह इत्यतो ऽयमेवेति निर्दिशन्ति । गृह्णात्विति ॥ ३९ ॥
एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकसः ।
कन्या चान्तःपुरात् प्रागाद् भटैर्गुप्ताऽम्बिकालयम् ॥ ४० ॥
सत्यधर्मीया
वदन्ति स्म स्मातीते । इत्यवदन् गुप्ता रक्षिता ॥ ४० ॥
सुमनोरञ्जिनी
प्रेम्णः कलाभिर् अंशैर् आबद्धाः । एवं वदन्ति स्म । अस्मिन्नेव काले । कन्या च कन्यापि । भटैर् गुप्ता रक्षिता ॥ ४० ॥
पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पादपङ्कजम् ।
परिवारैः कतिपयैर्युक्तो यादवनन्दनः ।
सा चानुध्यायती सम्यङ् मुकुन्दचरणाम्बुजम् ॥ ४१ ॥
सत्यधर्मीया
भवानींं हरतरुणीं द्रष्टुमित्युक्त्या बहिरेवं नटनमिति सूचयति । मुकुन्दचरणाम्बुजं ध्यायती ॥ ४१ ॥
सुमनोरञ्जिनी
यादवनन्दनोऽपि विनिर्ययावित्यन्वयः ॥ ४१ ॥
यतवाङ् मातृभिः सार्धं सखिभिः परिवारिता ।
गुप्ता राजभटैः शूरैः सन्नद्धैरुद्यतायुधैः ॥ ४२ ॥
सत्यधर्मीया
यतवाक् वाङि्नयमवती मातृभिः सार्धं मातृभिरिति बहुवचनेन प्रसवित्र्यपि पामरदृष्ट्या न सवित्रीति ध्वन्यत इति मन्तव्यम् । सखीभिश्च परिवारिता परिपूर्णवाः कलशादौ यासां तास्ताभिरिता युक्तेति वा । यद्वक्ष्यति धौतपाणिकराम्बुजेति । तदुपयुक्तमिति युक्तमेवं व्याकरणम् ॥ ४२ ॥
वेत्रझर्झरहस्तैश्च वृद्धैः कञ्चुकिभिस्तथा ।
मृदङ्गशङ्खपणवांस्तूर्यभेरीश्च जघि्नरे ॥ ४३ ॥
पदरत्नावली
वेत्राणि झर्झराश्च राजाज्ञासूचकयष्टयश्च हस्तेषु येषां ते तथा तैः कञ्चुकिभिर् दौवारिकैश् छन्नलिङ्गैः ॥ ४३–४५ ॥
सत्यधर्मीया
वेत्राणि वेतसविशेषा झर्झराश्च वाद्यभाण्डानि च पाणिषु येषां ते तैः । स झर्झरो वाद्यभाण्डे नदान्तर इति विश्वः । कञ्चुकिभिः सोविदल्लैर्मृदङ्गशङ्खपणवा येषां ते तांस्तांश्च जघि्नरेऽताडयन् । मृदङ्गाद्या भेर्यश्च जघि्नरेऽवाद्यन्तेति केचित् ॥ ४३ ॥
सुमनोरञ्जिनी
वेत्राणि सुवर्णादिना वेष्टितानि, झर्झरा राजाज्ञासूचकयष्टयश्च हस्तेषु येषां ते तैः कञ्चुकिभिर् आनखाग्रं कञ्चुकवद्भिः । दौवारिकैश् छिन्नलिङ्गैरिति पदरत्नावल्याम् । मृदङ्गादयो जघि्नरे वादिता इत्यर्थः ॥ ४३ ॥
नानोपहारबलिभिर्वारमुख्याः सहस्रशः ।
स्रग्गन्धवस्त्राभरणैर्द्विजपत्न्नयः स्वलङ्कृताः ॥ ४४ ॥
सत्यधर्मीया
वारमुख्या वेश्याश्रेष्ठाः ॥ ४४ ॥
सुमनोरञ्जिनी
वारमुख्या गणिकोत्तमाः । उपहारबलिभिर् उपहर्र्तंु योग्यैर् बलिभिः । उपहारा उपायनानि । बलयः दैव्यै निवेदनीयभक्ष्यवस्तूनीति वा ॥ ४४ ॥
गायन्तश्च स्तुवन्तश्च गायका वाद्यवादकाः ।
परिवार्य वधूं जग्मुः सूतमागधवन्दिभिः ॥ ४५ ॥
सत्यधर्मीया
गायका गतम् । गायन्तः स्तुवन्तश्च वाद्यवादकाश्च ॥ ४५ ॥
सुमनोरञ्जिनी
द्विजपत्न्यश्च वधूं परिवार्य जग्मुरित्यन्वयः ॥ ४५ ॥
आसाद्य देवसदनं धौतपादकराम्बुजा ।
उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् ॥ ४६ ॥
पदरत्नावली
धौतपादकराम्बुजा प्रक्षालितपादहस्तपद्मा ॥ ४६ ॥
सत्यधर्मीया
देवसदनं देवालयमासाद्य प्राप्य धौतपादकराम्बुजा प्रक्षालितचरणकर-सरसिजोपस्पृश्याचम्य । उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपीति विश्वः । अम्बिकान्तिकं सतीसमीपम् ॥ ४६ ॥
सुमनोरञ्जिनी
धौतौ प्रक्षालितौ पादकराम्बुजौ यस्याः सा । उपस्पृश्य आचम्य । उपस्पर्शस्त्वाचमनमित्यमरः ॥ ४६ ॥
तां वै प्रवयसो बालां विधिज्ञा विप्रयोषितः ।
भवानीं वन्दयाञ्चक्रुर्भवपत्नीं भवान्विताम् ॥ ४७ ॥
पदरत्नावली
प्रवयसो वृद्धा विधिज्ञा स्त्रीशास्त्रकुशलाः ॥ ४७–४९ ॥
सत्यधर्मीया
प्रवयसो वृद्धा विधिज्ञाः स्त्रीमर्यादाज्ञास्तां बालां भवानीं गतम् । वन्दयाञ्चक्रुः कृतनतिञ्चक्रुर्नमस्कारयामासुः । नमस्कारकारणमीरयति ॥ भवेति ॥ भवा-न्वितां मङ्गलान्वितामेतां पत्नीं शिशुपालस्य वा पशुपालस्य वेति विविच्यावचनाद्येन केन वाऽनुष्ठितेनेष्टफलभोक्त्रीं भव भावयेति । एतेन भवानीमित्युक्त्यैव भवभामिनीत्वबोधाद्भव-पत्नीत्यतिरिक्तं तथा विरुद्धमतिकृतत्वादप्रयोज्यत्वादालङ्कारिकमर्यादाविपर्यासश्चेति परास्तं वेदितव्यम् ॥ ४७ ॥
सुमनोरञ्जिनी
प्रवयसः वृद्धाः । विधिज्ञाः स्त्रीकर्तृकपूजाविधिज्ञाः । भवान्वितां भवेन अन्विताम् । वन्दयाञ्चक्रुर् वन्दनं कारयामासुः ॥ ४७ ॥
नमस्ये त्वाऽम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम् ।
भूयात्पतिर्मे भगवान् कृष्णस्तदनुमोदताम् ॥ ४८ ॥
सत्यधर्मीया
आन्तरङ्गिकं रुग्मिणीभावं ग्रन्थकृद् ग्रथयति ॥ नमस्य इति ॥ शिवां मङ्गलरूपिणीं स्वसन्तानयुतां गणेशगुहादियुताम् ॥ ४८ ॥
सुमनोरञ्जिनी
स्वसन्तानयुतां गणेशादिभिर्युताम् । भगवान् कृष्णः । मे पतिर् भूयात् । तद् भवती अनुमोदताम् इति मन्त्रेण । प्रार्थयित्वेति शेषः ॥ ४८ ॥
अद्भिर्गन्धाक्षतैर्धूपैर्वस्त्रमाल्यविभूषणैः ।
नानोपहारबलिभिः प्रदीपावलिभिः पृथक् ॥ ४९ ॥
सत्यधर्मीया
गन्धाश्चाक्षताश्च तैर्माल्यानि मालाः पुष्पाणि च तैः । पृथक् पङ्क्तिशः
॥ ४९ ॥
सुमनोरञ्जिनी
अबादिभिर् अम्बिकां समपूजयत् । तथा पतिमतीर् विप्रस्त्रियः ब्राह्मणपत्नीश्च । तैर् गन्धादिभिर् लवणापूपादिभिश्च समपूजयदित्यन्वयः ॥ ४९ ॥
विप्रस्त्रियः पतिमतीस्तथा तैः समपूजयत् ।
लवणापूपताम्बूलकण्ठसूत्रफलेक्षुभिः ॥ ५० ॥
पदरत्नावली
पतिमतीर् भर्तृमत्यः ॥ ५० ॥
दुर्घटभावदीपिका
स्त्रियः पतिमत्यो विप्रस्त्रियस्तस्यै रुग्मिण्यै ताः पूजाः प्रददुः । शेषा अवशिष्टाः क्षत्रियादिस्त्रिय आशिषो युयुजुः । वधूः रुग्मिणी ताभ्यो विप्रस्त्रीभ्यो देव्यै भवान्यै च नमश्चक्रे । शेषा अवशिष्टाः क्षत्रियादिस्त्रियो जगृहे हस्तग्रहणादिना क्षत्रियादि-स्त्रीणां बहुमानः कृत इति यावदिति । एतेन तस्यै स्त्रियस्ताः प्रददुरित्यत्र कर्मानुक्तिरिति शङ्काऽनवकाशः । ता इत्यनेन विप्रस्त्रीकर्तृकभवानीपूजा गृहीता पूजानामेव कर्मत्वमिति स्वीकृत्य स्त्रियस्ताः पूजाः प्रददुरित्यस्यास्मत्कृतपूजाफलं तवैवेति विप्रस्त्रीभी रुग्मिणीं प्रत्युक्तमित्यत्र तात्पर्यमित्यभ्युपगमात् ॥ ५० ॥
सत्यधर्मीया
पतिमतीः सुवासिनीस्तैरक्षतगन्धादिभिः समपूजयत् ॥ ५० ॥
तस्यै स्त्रियस्ताः प्रददुः शेषा युयुजुराशिषः ।
ताभ्यो देव्यै नमश्चक्रे शेषाश्च जगृहे वधूः ॥ ५१ ॥
पदरत्नावली
शेषा अक्षता अवशिष्टा राजस्त्रियो वाम् ॥ ५१ ॥
सत्यधर्मीया
शेषा अवशिष्टा योषित आशिषो युयुजुस्ताभ्यो देव्यै च नमश्चक्रे । शेषा नमनायोग्या जगृहे आलिलिङ्ग इति यावत् । वधूः शेषामिति पाठे निर्माल्यमालां जगृह इत्यर्थः । अशिष इत्यत्राक्षता इति पाठश्चालिङ्गनानुकूलः । अक्षता अरजोदर्शना इत्यर्थः ॥ ५१ ॥
सुमनोरञ्जिनी
ताः पूजिता विप्रस्त्रियः । शेषाः स्वदत्तावशिष्टा अक्षताः प्रददुः । पुनस्तदुत्तराञ्चले पूरयामासुरिति यावत् । आशिषश्च युयुजुः । ताभ्यः विप्रस्त्रीभ्यः । ननाम । शेषाः स्वस्य नमस्कारायोग्या सवयस्का इत्यर्थः । ताः स्त्रियः जगृहे हस्तादिग्रहणेन संभावयाञ्चक्रे । शेषानिति पाठे निर्माल्यगन्धादीन् स्वयं जगृह इत्यर्थः ॥ ५१ ॥
मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात् ।
उपकण्ठे सुरेशस्य पौलोम्याश्च निकेतनम् ॥ ५२ ॥
पदरत्नावली
मुनिव्रतं मौनव्रतम् । उपकण्ठे समीपे । पौलोभ्याः शच्याः
॥ ५२–५४ ॥
सत्यधर्मीया
मुनिव्रतं मौनमुपकण्ठे समीपे । उपकण्ठान्तिकाभ्यर्र्णाभ्यग्रा इत्यमरः । उपगतः कण्ठमत्यादय इत्यतिसमासः । सुरेशस्येन्द्रस्य तथा पौलोम्याः शच्याश्च निकेतनमालयः ॥ ५२ ॥
सुमनोरञ्जिनी
मुनिव्रतं मौनम् । उपकण्ठे तत्समीपे । पौलोम्याः शचीदेव्याः । अस्तीति शेषः ॥ ५२ ॥
तौ विदर्भप्रसूतानां नृपाणां कुलदेवते ।
तदन्तिकमुपागम्य शचीं सुरपतिप्रियाम् ॥ ५३ ॥
सत्यधर्मीया
तौ सा च स च ते विदर्भप्रसूतानां नृपाणां कुलदेवते तयोरन्तिकं समीपम् ॥ ५३ ॥
सुमनोरञ्जिनी
ते शच्यम्बिके । तन्निकेतनान्तिकम् ॥ ५३ ॥
चिराराधितापादाब्जां सा प्रणम्य विनिर्ययौ ।
प्रगृह्य पाणिना धात्रीं रत्नमुद्रोपशोभिना ।
धृतानेकातपत्राढ्या वीजच्चामरसङ्कुला ॥ ५४ ॥
सत्यधर्मीया
चिरमाराधिते पादाब्जे यस्याः सा ताम् । प्रणम्य निर्ययौ । रत्नमुद्रोपशोभिनेति विशेष्ये वैय्यर्थ्यं भजत्पाणिनाऽन्वेति । रत्नमुद्रोपशोभितपाणिना धात्रीं प्रगृह्य गृहीत्वेत्यर्थः । दीप्तानलर्काद्युतिमप्रमेयमिति प्रमेयदीपिकाद्युदाहरणपूर्वकं प्रकाशित-मस्माभिरनुसन्धेयम् । विभक्तिविपरिणामेनान्वयो वा । शोभितामिति द्वितीयान्तपाठे धात्र्या विशेषणम् । अनेन तस्या एतत्स्पृश्यत्वयोग्यसौभाग्यं ध्वन्यते । धृतान्यनेकानि च तान्यातपत्राणि च तैराढ्या धृतानेकान्यातपत्राणि यस्याः साऽऽढ्या श्रीमतीति वा वीजद्भिश्चामरैः सङ्कुला व्याप्ता । सङ्कुलं वाच्यवद्व्याप्त इति विश्वः ॥ ५४ ॥
सुमनोरञ्जिनी
चिरं बहुकालम् । धात्रीं सखीम् ॥ ५४ ॥
तां देवमायामिव वीरमोहिनीं सुमध्यमां कुण्डलमण्डिताननाम् ।
श्यामां नितम्बार्पितरत्नमेखलां व्यञ्जत्स्तनां कुन्तलशङ्कितेक्षणाम् ॥ ५५ ॥
पदरत्नावली
देवमायां लक्ष्मीम् । श्यामां द्व्यष्टवर्षाम् । कुन्तलैरावरकैः शङ्कित-मिव ईक्षणं यस्याः सा तथा ताम् ॥ ५५–५९ ॥
सत्यधर्मीया
देवमायां भगवज्जगद्बन्धकशक्तिमिव वीरमोहिनीं सुमध्यमां शोभन-कटिप्रदेशां रुग्मिणीमिति च गतम् । कुण्डलाभ्यां मण्डितमाननं यस्याः सा श्यामां षोडशवार्षिकीं व्यञ्जन्तौ स्तनौ यस्याः सास् तां कुन्तलैः शङ्किते ईक्षणे यस्याः सा ताम् । चूर्णकुन्तलानां प्रसरणे नेत्रयोः शङ्कितता कुन्तान् लान्तीति कुन्तला भटास्तैः शङ्कितमीक्षणं कृष्णस्य दर्शनं यस्याः सा ॥ ५५ ॥
सुमनोरञ्जिनी
तां विलोक्य यशस्विनः वीराः । तत्कृतः यो हृच्छयः मन्मथस् तेन अर्दिताः पीडिताः सन्तो मुमुहुरित्युत्तरेणान्वयः । कीदृशीं ताम् । धृतैर् अनेकैर् आतपत्रैः श्वेतच्छत्रैः । देवमायां लक्ष्मीमिव स्थिताम् । श्यामां षोडशवार्षिकीम् । कुन्तलैः शङ्किते इव चञ्चले ईक्षणे यस्याः सा ताम् ॥ ५५ ॥
शुचिस्मितां बिम्बफलाधरद्युतिशोणायमानद्विजकुन्दकुड्मलाम् ।
पदा चलन्तीं कलहंसगामिनीं सिञ्जत्क्वणन्नूपुरपादशोभिताम् ॥ ५६ ॥
सत्यधर्मीया
द्विजा दन्ता एव कुन्दलकुड्मलानि बिम्बफलवद्विद्यमानो योऽधरस्तस्य द्युतिस्तया शोणायमानानि तानि यस्याः सा ताम् । पादान्तवर्णत्वात्तेर् गुरुत्वं भवतीति न लाघवलाघवमुक्तेरिति ज्ञेयम् । पदा चलन्तीम् । यद्यपि कुलदेवयात्रा निवृत्तेति यानमारुह्य गन्तुं शक्यं तथापि मानसिकरसिकयात्रामुद्दिश्य नेतुः कमितुः सौलभ्यार्थं पदा गमनमिति ज्ञेयम् । कलहंसगामिनीं सिञ्जत्क्वणन्नूपुरपादशोभितां सिञ्जन्तौ ध्वनन्तौ कनन्तौ काशमानौ नूपुरौ गतम् । तद्युक्ताभ्यां पदाभ्यां शोभिताम् । पादयोः शोभिता, नूपुराभ्यां पादशोभितेति केचित् ॥ ५६ ॥
सुमनोरञ्जिनी
द्विजा दन्ताः । कुन्दकुड्लानीव द्विजकुन्दकुड्लानि यस्याः सा ताम् । द्युतिमिति पाठे पृथग्विशेषणम् । कला शोभा तया युक्ते च ते नूपुरे च । सिञ्जती (च ते) कालनूपुरे ययोस् तथाविधाभ्यां पादाभ्यां शोभिताम् ॥ ५६ ॥
विलोक्य वीरा मुमुहुः समागता यशस्विनस्तत्कृतहृच्छयार्दिताः ।
यां वीक्ष्य ते नृपतयस्तदुदारहासव्रीावलोकहृतचेतस उज्झितास्त्राः ॥ ५७ ॥
दुर्घटभावदीपिका
सिञ्जत्क्वणन्नूपुरपादशोभितामित्यस्यातिशयितध्वनिं कुर्वद् यन्नूपुरं तद्युक्तपदाभ्यां शोभितामित्यर्थः । एतेन सिञ्जत्क्वणदित्येतत्पुनरुक्तमिति चोद्यं पराकृतम् । ध्वनेरतिशयलाभार्थं ध्वनिकर्तृत्वं द्विवारमुक्तमित्यभ्युपगमात् ॥ ५७ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके उत्तरार्धे अष्टपञ्चांशोऽध्यायः ॥ १०–५८ ॥
सत्यधर्मीया
वीरा अपि समागता यशस्विनो जितेन्द्रिया इति तत्कृते तन्निमित्त-मुत्थितो यो हृच्छयो मदनस्तेनार्दिताः सन्तो मुमुहुः । प्राक्च ये विमूढाः कथञ्चन मौढ्यरहिताः । सोऽपि सुप्रसिद्धश्चासावुदारहासश्च व्रीडावलोकश्च ताभ्यां हृतं चेतो येषां ते । उञ्ज्ञिातानि त्यक्तान्यस्त्राणि येषां ते तथा ॥ ५७ ॥
सुमनोरञ्जिनी
अत्र यामित्यस्य सेत्युत्तरश्लोकस्थेनान्वयः । यात्रायाश् छलेन व्याजेन । हरये श्रीकृष्णाय । स्वशोभां लावण्यादिकमर्पयन्ती । यां रुग्मिणीम् । वीक्ष्य तस्या उदारहासव्रीडावलोकाभ्यां हृतचेतसः विमूढाः सन्तः पेतुः ॥ ५७ ॥
पेतुः क्षितौ गजरथाश्वगता विमूढा यात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम् ।
सैवं शनैश्चलयती पदपद्मकोशैः प्राप्तिं तदा भगवतः प्रसमीक्षमाणा ॥ ५८ ॥
सत्यधर्मीया
गजरथाश्वगतास्तदारूढाः क्षितौ पेतुः । यात्राछलेन यात्रापदेशेन हरये कृष्णाय स्वशोभामपर्यन्ती । सैवं पदपद्मकोशौ शनैश्चलयती चलनयुक्तौ करोति । अतो न कम्पने चलिरिति मित्वह्रस्व इति छान्दसो ह्रस्वः । चालयती । कुत इत्यत आह ॥ प्राप्तिमिति ॥ भगवतः प्राप्तिं प्रसमीक्षमाणा ॥ ५८ ॥
सुमनोरञ्जिनी
सा भगवतः श्रीकृष्णस्य । प्राप्तिं स्वसमीपागमनम् । प्रसमीक्षमाणा
सती । शनैः । पदपद्मकोशौ पद्मकोशसदृशौ चरणौ । चलयती चालयन्ती ॥ ५८ ॥
उत्सार्य वामकरजैरलकानपाङ्गैः प्राप्तह्रियैक्षत नृपान् ददृशेऽच्युतं सा ।
तां राजकन्यां रथमारुरुक्षतीं जहार कृष्णो द्विषतां समीक्षताम् ॥ ५९ ॥
सत्यधर्मीया
वामकरजैः । करजस्तु करञ्जे स्यान्नख इति विश्वः । वामनखैर्दक्षिण-करस्य सखीकरस्थापनाद्वामेत्युक्तिः । सुन्दरनखैरिति वा । अपाङ्गैः कटाक्षैर्ह्रिया नृपान् ददृशे ऐक्षत साऽच्युतमैक्षत ददृशे । समीक्षतां द्विषतां ताननादृत्य रथमारुरुक्षतीं राजकन्यां कृष्णो जहार ॥ ५९ ॥
सुमनोरञ्जिनी
तदा वामकरजैर् वामहस्ताङ्गुलिभिः । अलकान् । उत्सार्य अपसार्य । प्राप्तान् ऐक्षत तदा ह्रिया अच्युतं च ददृश इत्यन्वयः । रथम् आरुरुक्षतीम् आरोहणसम्भावनाविषयां न तु आरोढुम् इच्छावतीम् । स्वीयरथारोहणेच्छायास् तस्या अभावात् । कूलं पिपतिषतीतिवत् ॥ ५९ ॥
रथं समारोप्य सुपर्णलक्षणं राजन्यचक्रं परिभूय माधवः ।
ततो ययौ रामपुरोगमैः शनैः सृगालमध्यादिव नागहृद्धरिः ॥ ६० ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे अष्टपञ्चाशोऽध्यायः ॥
पदरत्नावली
नागहृद् गजहरो हरिः सिंहः ॥ ६० ॥
॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे अष्टपञ्चशत्तमोऽध्यायः ॥
**सत्यधर्मीया **
सुपर्णो लक्षणं ध्वजरूपं चिन्हं यस्य स तम् । राजन्यचकं तत्सङ्घं परिभूय तिरस्कृत्य ततो हरणानन्तरं रामपुरोगमैः सह शनैः शृृगालमध्यान्नागहृद्धस्तिहर्ता हरिः सिंह इव ययौ । त्वरातो गमने पलायित इत्यपयशः स्यात् । किं चरणरणरणिकातश्च मन्दं नन्दनन्दनोऽगादिति भावः ॥ ५९ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध
उत्तरार्धेऽष्टपञ्चाशोऽध्यायः ॥ १०–५८ ॥
सुमनोरञ्जिनी
सुपर्णलक्षणं गरुडचिह्नितम् । राजन्यचक्रं राजसमूहम् । परिभूय तिरस्कृत्य रामपुरोगमैः सहितः । नागो गजः । तं हरतीति नागहृत् । हरिः सिंहश्च ॥५९॥
॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां
सुमनोरञ्जिन्याम् अष्टपञ्चाशोऽध्यायः ॥