०९ सप्तपञ्चाशोऽध्यायः

आनर्ताधिपतिः श्रीमान् रेवतो रेवतीं सुताम्

॥ अथ सप्तपञ्चाशोऽध्यायः ॥

श्रीशुक उवाच—

आनर्ताधिपतिः श्रीमान् रेवतो रेवतीं सुताम् ।

ब्रह्मणा चोदितः प्रादाद् बलायेति पुरोदितम् ॥ १ ॥

पदरत्नावली

अनित्यत्वात् संसारो हेयस्तदर्थं कामक्रोधादिनिलयाद् देहात् संविदेवा-हर्तव्येति दर्शनायोत्तराध्यायत्रयस्य प्रारम्भः । आनर्तविषयाधिपतिः ॥ १ ॥

सत्यधर्मीया

आनर्तादेशाः पुरा नवमे मयोदितमिति विशेषविवक्षावान्बीजावापं चकार कारुणिको बादरायणिरिति सूचयति ॥ १ ॥

सुमनोरञ्जिनी

भगवद्भक्तानामाशासितादधिकमपि भगवत्प्रसादाल्लभ्यते । तद्द्वेषिणा-माशा त्वैहिकविषयाऽपि सारमेयस्य कूपजलरसास्वादनाशातुल्येति दर्शयति त्रिभिरध्यायैः । तत्र तावद्रैवतमहाराजस्य स्वजामातृतया मानुषेष्वधिकगुणं वृणीतुमिच्छोर्ब्रह्मसदनं गतस्य सकलदेवतासार्वभौमो भगवदंशाविष्टो बलराम एव जामाता लब्ध इति दर्शयति । तत्र परीक्षिन्महाराजा शुकं पृच्छतीत्याह ॥ राजेति ॥ यदि एतच्छ्लोकोत्तरं राजोवाचेति लेखस्तदा इदं पद्यं राज्ञः प्रष्टव्यार्थस्मरणबीजसंस्कारोद्बोधकं शुकाचार्याणां वचनस्यानुवादरूपं ज्ञेयम् । आनर्ताधिपतिस् तन्नामकदेशाधिपः । रैवतो नामतः ॥ १,२ ॥

राजोवाच—

रेवतो नाम राजाऽसौ ब्रह्मणा चोदितः कथम् ।

तदहं श्रोतुमिच्छामि विस्तरेण महामुने ॥ २ ॥

सत्यधर्मीया

ब्रह्मण एतस्य क्व दर्शनं कथं चाज्ञा राज्ञस्तस्य दानं कथमिति राजा पृच्छतीत्याह ॥ राजेति ॥ अर्थादुक्तप्रायं शब्दतो वदेति विस्तरेणेत्यनेन द्योतयति

॥ २ ॥

श्रीशुक उवाच—

रेवतो नाम राजाऽऽसीत् पुरा धर्मार्थतत्त्ववित् ।

रेवती नाम तस्यैका जज्ञे कन्या यशस्विनी ॥ ३ ॥

पदरत्नावली

धर्मार्थो धर्मविषयो विष्णुस्तस्य तत्वं वेत्तीति । धर्मस्य अर्थस्य च तत्वं वेत्तीति, धर्मस्यार्थस्य तत्वं हरिविषयत्वलक्षणं वेत्तीति वा ॥ ३ ॥

सत्यधर्मीया

यशस्विनी तथा भाविनी । धर्मश्चार्थश्च धर्मार्थौ ताभ्यां सह काममोक्षौ तौ वेत्तीति धर्मार्थतत्त्ववित् । चतुर्विधपुरुषार्थज्ञानीत्यर्थः ॥ ३ ॥

सुमनोरञ्जिनी

धर्मार्थयोस् तत्वं रहस्यं वेत्तीति तथोक्तः ॥ ३ ॥

स ब्रह्माणं ययौ प्रष्टुं कस्मै दास्यामि तामिति ।

अदत्वा याच्यमानोऽपि नानाजनपदेश्वरैः ॥ ४ ॥

पदरत्नावली

येयं मम कन्या ताम् । याचकाभावात् किम् ? अत्राह– अदत्वेति । ब्रह्मणः सर्वस्य गुरुत्वाद् गुर्वनुज्ञानपूर्वकं क्रियमाणं सर्वं फलवदित्यभिसन्धाय याचकेभ्यो न दत्तेति भावः ॥ ४ ॥

सत्यधर्मीया

नानाजनपदेश्वरैर्याच्यमानोऽप्यदत्वा तां कस्मै दास्यामीति प्रष्टुं ब्रह्माणं ययावित्यन्वयः ॥ ४ ॥

सुमनोरञ्जिनी

या मम कन्या, तस्या गुणाधिकवरज्ञाता सर्वज्ञत्वाद्ब्रह्मैवेति मन्यमानः नानाजनपदेश्वरैर्याच्यमानोऽपि तेभ्यस्तामदत्वा ब्रह्माणं प्रष्टुं ययावित्यन्वयः ॥ ४ ॥

सभायां ब्रह्मणस्तत्र गन्धर्वौ द्वौ हहाहुहू ।

तस्मिन्नगायतां काले ग्राममूर्च्छाविचक्षणौ ॥ ५ ॥

पदरत्नावली

तत्र तस्मिन्नवसरे । ग्राममूर्छाविचक्षणौ सप्तस्वरगानविशेषविदग्धौ । स्वराणां मण्डलं ग्रामः, आरोहावरोहः मूर्च्छा । ‘सप्तस्वरास्त्रयो ग्रामा एकविंशति मूर्च्छनाः’ इति भरतः ॥ ५ ॥

सत्यधर्मीया

हाहाहूहू द्वौ गन्धर्वौ तत्र सभायां तस्मिन्काले स्वराणां मण्डलं ग्रामो मूर्छना मूर्छा आरोहावरोहरूपा ‘सप्तस्वरास्त्रयो ग्रामा एकविंशतिमूर्छना’ इति भरतः ॥ ५ ॥

सुमनोरञ्जिनी

ग्राममूर्च्छाविचक्षणौ । सप्तस्वरास्त्रयो ग्रामा एकविंशतिमूर्च्छना इति भरतशास्त्रोक्तप्रकारेण तत्र विचक्षणौ कुशलौ ॥ ५ ॥

राजाऽतिष्ठद् बहिः किञ्चित् तद्विरामप्रतीक्षया ।

गीतावासने पप्रच्छ प्रणिपत्य पितामहम् ॥ ६ ॥

पदरत्नावली

अल्पार्थे किञ्चिदित्यव्ययम् । अल्पकालमित्यर्थः ॥ ६–८ ॥

सत्यधर्मीया

किञ्चिदल्पकालं तस्य गीतस्य विरामोऽवसानं तत्प्रतीक्षया बहिरतिष्ठत् ॥

सुमनोरञ्जिनी

राजा तस्य गानस्य विरामप्रतीक्षया अवसानप्रतीक्षया । किञ्चित् कालम् अल्पकालम् । बहिर् अतिष्ठत् ॥ ६ ॥

एषा मे भगवन् कन्या कस्मै दास्य इमामिति ।

तं प्राह पद्मभूः कस्ते राजपुत्रो विरोचते ॥ ७ ॥

तं चान्यांश्च महीपालानाचक्ष्वेति कुरूद्वह ।

ततस्तान् रेवतः प्राह भूपालान् विषयेश्वरान् ॥ ८ ॥

सत्यधर्मीया

ते तुभ्यं मां प्रत्येव कुतः प्रश्न इत्यत आह ॥ दास्य इति । तव दास्ये स्थितोऽहं दास्ये दासीत्वे कस्मै दास्यामीति वा । यो विरोचते तमेकं तथा दृष्टान् श्रुतांश्चावनीशान्वदेति तं पद्मभूः प्राह । तान्विषयेश्वरान्देशाधीशान् ॥ ८ ॥

सुमनोरञ्जिनी

ते, को राजपुत्रो विरोचते तं, तथा अन्यांश्च महीपालानाचक्ष्वेति ॥

स तानाकर्ण्य नृपतीन् प्रहस्योवाच रेवतम् ।

युगानि सुबहून्यत्र गतानि तव भूपते ॥ ९ ॥

पदरत्नावली

त्वदभीष्टवरो नास्ति तदानीन्तनकालीयानामतीतत्वादिति ब्रह्मा वक्ति– तं प्राहेति । तव ते तुभ्यं मनुष्यस्य सुबहूनि युगानि क्षणमात्रमिव गतानीति ॥ ९ ॥

सत्यधर्मीया

स धाता तान् रैवतोक्तानाकर्ण्य प्रहस्य । हासस्तु तेषां कुलस्य कालव्याकुलतया । भूपतेरिति भूपत इति च युक्तौ पाठौ । सुबहूनि युगानि गतानि ॥ ९ ॥

सुमनोरञ्जिनी

सः ब्रह्मा ॥ ९ ॥

क्षणमात्रमिवाश्राव्यं शृण्वतो गीतमेतयोः ।

क्वेदानीं तव ते भूपाः सुतायाः सदृशा वराः ॥ १० ॥

पदरत्नावली

तत्र निमित्तमाह– आश्राव्यमिति ॥ १० ॥

सत्यधर्मीया

अश्राव्यं मानुषैरेतयोर्गीतं शृृण्वतः क्षणमात्रमिव गतानि । सुतायाः सदृशा वरास्ते भूपा इदानीं क्व न सन्ति त इत्यर्थः ॥ १० ॥

सुमनोरञ्जिनी

त्वादृशैर् मनुजैरिति शेषो ऽश्राव्यम् । एतयोर्गीतं क्षणमात्रं शृृण्वतस्तव मनुष्यस्य । सुतायाः सदृशा वराः, ते त्वयोच्यमानाः क्व क्व सन्ति ॥ १० ॥

इदानीं राजशार्दूल यदुवंशविवर्द्धनौ ।

वसुदेवगृहे जातौ रामकृष्णाह्वयौ प्रभू ॥ ११ ॥

पदरत्नावली

तर्हि किं कर्तव्यमिति तत्राह– इदानीमिति ॥ ११–१२ ॥

सत्यधर्मीया

तर्हि गुणार्हितायाः कन्यायाः का गतिः कमलोद्भवेत्यत आह ॥ इदानीमिति ॥ यदुवंशाभिवृद्धिकरौ । गृहं महिषी ॥ ११ ॥

सुमनोरञ्जिनी

तर्हि कथं कर्तव्यमिति दुरन्तां चिन्तां मा गा इत्याह ॥ इदानीमिति । रामकृष्णाह्वयौ आसाते ॥ ११ ॥

तत्र सङ्कर्षणायेमां कन्यां यच्छस्व भूपते ।

इत्युक्तस्तेन भूपालस्तं प्रणम्य पुरं गतः ।

रामाय प्रददौ कन्यां रूपिणीं बाहुशालिने ॥ १२ ॥

सत्यधर्मीया

तत्र तयोर्मध्ये सङ्कर्षणायेमां कन्यां यच्छस्व । तेन धात्रा । तं प्रणम्य । यत्र तत्स्थानम् । बहुशालिन इत्युत्तरकार्योपयोगिशक्ततां व्यक्तीकर्तुम् ॥ १२ ॥

सुमनोरञ्जिनी

तत्र तयोर्मध्ये । यच्छस्व देहि ॥ १२ ॥

तामादियुगसम्भूतां दीर्घदेहां महाभुजः ।

आकृष्य लाङ्गलेनांसे समां चक्रे हलायुधः ॥ १३ ॥

पदरत्नावली

आदियुगं कृतयुगम् ॥ १३–१६ ॥

सत्यधर्मीया

आदियुगसम्भूतामिति देहोन्नाहहेतुकथनम् । कृतयुगजां समां स्वाकारस्य यावत्तावत्तावत्तरुण्याकारेण भाव्यं तथा चक्र इत्यर्थः । लाङ्गलेन हलेन । नियत-पतिपत्नीव्यतिरिक्तस्थल एव कन्या कनीयस्त्वसमयप्रचार इति ज्ञेयम् ॥ १३ ॥

सुमनोरञ्जिनी

आदियुगे कृतयुगे । अत एव दीर्घदेहां तद्युगानुसारिदेहवतीम् ॥१३॥

भगवानपि गोविन्द उपयेमे कुरूद्वह ।

वैदर्भीं भीष्मकसुतामिन्दिरांशां स्वयंवरे ॥ १४ ॥

सत्यधर्मीया

अपिना न परवित्तता भगवत इत्यवगमयति । पत्नी नियता रेवतीति हरिवंशशंसितान्नीलाविवादपि न सेति ज्ञेयम् । इत्युक्त इत्यनेन ब्रह्मानुकूल्ये तु काऽन्या घटना भवतीत्याभाणकं तदारभ्य प्रवर्तितेति ध्वन्यते । इन्दिरांशां रमाम् ॥ १४ ॥

सुमनोरञ्जिनी

इदानीं श्रीरुग्मिणीस्वयंवरकथां प्रपञ्चयितुं तत्र विवित्साजननाय सामान्यत आह शुकाचार्यः ॥ भगवानपीति । भगवानपि श्रीकृष्णोऽपि वैदर्भीं विदर्भ-देशोद्भवाम् ॥ १४ ॥

प्रमथ्य तरसा राज्ञः साल्वादींश्चैद्यपक्षगान् ।

पश्यतां सर्वभूतानां तार्क्ष्यपुत्रः सुधामिव ॥ १५ ॥

सत्यधर्मीया

सर्वभूतानां पश्यतामनादृत्य तानीत्यर्थः ॥ १५ ॥

सुमनोरञ्जिनी

साल्वादीन् राज्ञः प्रमथ्य बलान्निरस्य । तार्क्ष्यः कश्यपस् तस्य पुत्रो गरुडः । देवान् प्रमथ्य यथा सुधाम् अगृह्णात् तथा स्वयंवरे गृहीत्वा उपयेम इत्यन्वयः

॥ १५ ॥

राजोवाच—

भगवान् भीष्मकसुतां रुग्मिणीं रुचिराननाम् ।

राक्षसेन विवाहेन उपयेम इति श्रुतम् ॥ १६ ॥

भगवन् श्रोतुमिच्छामि कृष्णस्यामिततेजसः ।

यथा मागधसाल्वादीन् जित्वा तत्पारमागमत् ॥ १७ ॥

पदरत्नावली

तेषां पारं यथा अगमत् तथा तस्य हरेर्विवाहलक्षणं चरितं श्रोतुमिच्छामि ॥ १७ ॥

दुर्घटभावदीपिका

हे भगवन् । अमिततेजसः कृष्णस्य माहात्म्यं श्रोतुमिच्छामि । किं तन्माहात्म्यमित्यत आह– यथेति । कृष्णो मागधसाल्वादीन् जित्वा यथा तत्पारं मागधसाल्वादीनां पारमागमत् तथा कृष्णस्य माहात्म्यं श्रोतुमिच्छामीति । एतेन कृष्णस्येति षष्ठ्यन्तमनन्वितमिति दूषणं परास्तम् । अध्याहृतेन माहात्म्यमित्यनेनान्वयस्योक्तत्वात्

॥ १७ ॥

सत्यधर्मीया

भगवान्ज्ञानादिमान् राक्षसेन विवाहेन । ननु तृतीये गान्धर्ववृत्त्या मिषतां स्वभागमित्युक्ते राक्षसेनेत्यत्रोक्तिः कथमति चेन्न ।

आदिपर्वणि शाकुन्तलीये–

‘अष्टावेव समासेन विवाहा धर्मतः स्मृताः ।

ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।

गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ।

तेषां धर्मान्यथापूर्वं मनुःस्वायम्भुवोऽब्रवीत् ।

प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय ।

षडानुपूर्व्याः क्षत्रस्य विद्धि धर्म्याननिन्दिते ।

राज्ञां तु राक्षसो युक्तो विट्शूद्रेष्वासुरः स्मृतः ।

पञ्चानां तु त्रयो धर्म्याद्द्वावधर्म्यौ स्मृताविह ।

पैशाचश्चासुरश्चैव न कर्तव्यौ कदाचन ।

अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ।

गन्धर्वराक्षसौ क्षत्रधर्मौ तौ मा विशङ्किथाः ।

पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ।

सा त्वं मम सकामस्य सकामा वरवर्णिनी ।

गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ।

कण्वः । क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते ।

सकामायाः सकामेन निर्मन्त्रा रहसि स्मृत’ इत्युक्तेः ।

समसम्मतिर्गान्धर्वे राक्षसे च राक्षसो युद्धहरणादित्युक्तेः । पृथग्वा यदि वा मिश्रा-वित्युक्तेः क्वचिद् राक्षसेत्युक्तिः क्वचिच्च गान्धर्वेत्युक्तिश्च सम्भवत इति मन्तव्यम् । विवाह्यतेऽनेनेति विवाहो विधिस्तेनोपयेमे परिणीतवान् विवाहेनोपयेमे स्वीचकारेत्येर्थः । इति श्रुतं त्वन्मुखतः । तत्पारं तत्कृतान्ततुलसेनाप्रान्तमागमदाप । तत्पा ते मागधाद्याः पालका यस्याः सा रमाऽगमद्बहिरित्यप्यान्तरङ्गिको भावो ज्ञेयो राज्ञः ॥ १७ ॥

सुमनोरञ्जिनी

युद्धे बलादाहृत्य यो विवाहः स राक्षसविवाहः राक्षसो युद्धहरणादिति स्मृतेः । कृष्णस्य विवाहकथामिति शेषः । यथा मागधादीन् जित्वा तत्पारं तस्य कार्यस्य पारमन्तम् । सिद्धिमिति यावत् । आगमत् तथा श्रोतुमिच्छामीत्यन्वयः । ते साल्वादयः पाः पालका यस्याः सा तथा । रमा रुग्मिणीरूपा । मागधादीन् जित्वा । स्थितं तं यथा आगमत् तत् श्रोतुमिच्छामीत्यन्वय इत्यप्युपदिशन्ति ॥ १६,१७ ॥

ब्रह्मन् विष्णुकथाः पुण्या माध्वीर्लोकमलापहाः ।

को नु तृप्येत शृण्वानः श्रुतज्ञो नित्यनूतनाः ॥ १८ ॥

पदरत्नावली

माध्वीर् मधुराः ॥ १८ ॥

सत्यधर्मीया

श्रुतमिति त्वयैवोक्तमलमित्यतो वक्ति ॥ ब्रह्मन्निति । माध्वीर्मधुरा लोकमलापहाः पुण्यास्तत्प्रापिका विष्णुकथाः श्रुतज्ञः शृृण्वानः । ताच्छील्ये चानश् । कस् तृप्येत तृप्तो भूयात् । नित्यनूतना नित्यं नवीना विशेषफलप्रदत्वात् । नव एव । नवस्य नूआदेशस् तनप्प्रत्ययः वक्तव्य इति वार्तिकेन तनप् । नवीनो नूतनो नव इत्यमरः ॥१८॥

सुमनोरञ्जिनी

पुण्या माध्वीः श्रोत्रस्य मनसश्चानन्दकराः । लोकानां वक्तृश्रोतृणां मलापहाः । नित्यं नूतनाः प्रतिक्षणम् आश्चर्यतया प्रतीयमानाः । विष्णुकथाः । शृृण्वन् । श्रुतज्ञः श्रवणरसाभिज्ञश्चेत् को नु तृप्येत अलंबुद्धिमान् भवेन् न कोऽपि । अतो मह्यं ब्रूहीति भावः ॥ १८ ॥

श्रीशुक उवाच—

राजाऽऽसीद् भीष्मको नाम विदर्भाधिपतिर्महान् ।

तस्य पञ्चाभवन् पुत्राः कन्यैका च वरानना ॥ १९ ॥

पदरत्नावली

वरं मनोहरम् आननं यस्याः सा तथा ॥ १९–२० ॥

सत्यधर्मीया

नाम प्रसिद्धः ॥ १९ ॥

सुमनोरञ्जिनी

वरानना वरं मनोहरमाननं यस्याः सा तथोक्ता ॥ १९ ॥

रुग्म्यग्रजो रुग्मरथो रुग्मबाहुरनन्तरः ।

रुग्मकेशो रुग्ममाली रुग्मिण्येषां स्वसा सती ॥ २० ॥

सत्यधर्मीया

रुग्मी अग्रजः प्राथमिको येषां पञ्चानां स्वसा भगिनी ॥ २० ॥

सुमनोरञ्जिनी

तत्र अग्रजो रुग्मी । एषां पञ्चानां स्वसा । सती निर्दुष्टा ॥२०॥

सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः ।

गृहागतैर्गीयमानास्तं मेने सदृशं पतिम् ॥ २१ ॥

पदरत्नावली

गृहागतैर्जनैः ॥ २१ ॥

दुर्घटभावदीपिका

सा गृहागतैर्गीयमानं तं कृष्णं सदृशं पतिं मेन इति । एतेन गृहागतैर्गीयमाना मुकुन्दस्य रूपवीर्यगुणश्रिय उपश्रुत्य तं सदृशं पतिं मेन इति वक्तव्यम् । गीयमानमिति कथनमनुपपन्नमिति चोद्यं परिहृतम् । आदौ गृहागतैर्गीयमानं तं सदृशं पतिं मेन इत्युक्त्वा कथं कृष्णस्य गीयमानत्वमित्याशङ्कापरिहारार्थं गृहागतैरित्यादिपदानामावृत्ति-मङ्गीकृत्य गीयमानमित्यस्यार्थवशाद्गीयमाना इति विपरिणाममङ्गीकृत्य गृहागतैर्गीयमाना मुकुन्दस्य रूपवीर्यगुणश्रिय उपश्रुत्य तं सदृशं पतिं मेन इति विवरणं क्रियत इत्यभ्युपगमात्

॥ २१ ॥

सत्यधर्मीया

गृहागतैर्नारदादिभिर्गीयमाना रूपवीर्यगुणश्रियो रूपवीर्ययोरितरेषां गुणानां च श्रियः सम्पदः । उपसृत्य तं सदृशपतिं मेने ॥ २१ ॥

सुमनोरञ्जिनी

सा रुग्मिणी । गृहागतैर् जनैर् गीयमानं मुकुन्दमेव ॥ २१ ॥

तां बुद्धिलक्षणौदार्यरूपशीलगुणाश्रयाम् ।

कृष्णश्च सदृशीं भार्यां समुद्वोढुं मनो दधे ॥ २२ ॥

सत्यधर्मीया

गृहागतैर्वर्णितां लोकदृष्ट्या । बुद्धिश्च लक्षणानि चौदार्यं च रूपं च शीलं सदाचारश्चान्ये गुणाश्च तेषामाश्रयो यस्यां तां तादृशीं भार्यां प्रकाशघनामुद्वोढुं परिणेतुं कृष्णश्च मनो दधे । सकामायाः सकामेनेत्युक्तलक्षणसम्पत्ती राक्षसस्य गान्धर्वस्य विवाहस्य स्फोरिता भवत्यनेनेति ज्ञेयम् ॥ २२ ॥

सुमनोरञ्जिनी

तामपि कृष्णः सदृशीं भार्यां मेने । ततश्च समुद्वोढुं मनो दध इत्यन्वयः ॥ २२ ॥

बन्धूनामिच्छतां दातुं कृष्णाय भगिनीं नृप ।

रुग्मी निवार्य कृष्णद्विट् चैद्याय समकल्पयत् ॥ २३ ॥

तदवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् ।

विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद् द्रुतम् ॥ २४ ॥

पदरत्नावली

असितापाङ्गी नीलकटाक्षस्थला । आप्तं विश्वस्तम् ॥ २४–२६ ॥

सत्यधर्मीया

बन्धूनां पित्रादीनां रुग्मी निवार्य । अनेन तत्सर्वापेक्षया बलिष्ठता रुग्मिणो द्योत्यते । निवारणे कारणमीरयति । कृष्णं द्वेष्टीति कृष्णद्विडिति । तां भगिनीं बन्धूनामिति द्वितीयान्तं सद् भगिनीपदेनाप्यावृत्तमन्वेति । बन्धुभिः पित्रादिभिः । ऊनां तत्कार्याननुमतिमत्तत्कामिति बन्धुभिरूनेति तां चैद्याय शिशुपालाय समकल्पयत् तां दातुं मनश्चकारेति यावत् । अनेन स किं चकारेत्येतदप्युत्तरयति । चैद्यायसं चैद्यस्यायसमायासं गुढोत्मा मरुतो मारुतत्वत इत्यादिवद् यकारोत्तरदीर्घलोपः । अकल्पयत्कल्पयामासेति । तथोक्तं प्राक् । यद्वा । चैद्यस्यायसम् अयःसम्बन्धि शकलं चणकादिकम् । अत एवाभाणकं लोहचणका नोपादतुं नापहातुं योग्या इति । तदजीर्यत्कल्पयामास । तद्भ्रातृनिर्धारणमवेत्य ज्ञात्वाऽसितापाङ्गी असितः कालोपाङ्गश्च कटाक्षश्च स यस्याः सा । अन्तरङ्गिको भावश्चासिते कृष्णेऽपाङ्गो यस्याः सेति । ततोऽप्यसितात्कृष्णादेवापाङ्गोऽनङ्गो यस्याः सेति ज्ञेयः । अङ्गगात्रकण्ठेभ्यो वक्तव्यमिति वृत्तिकृन्मतेन ङीष् । अथवा नासिकोदरेति चशब्दादनुक्तसमुच्चायकासंयोगोपधादपि क्वचिद्भवतीत्युक्तेर् ङीष् । आप्तमिति स्वालोचित-प्रमेयाबहिः प्रकाशतां विप्रस्य प्रकटयितुम् । प्रायेण तदारभ्य वैदिकैरेव कन्याघटना कार्यत इति मन्तव्यम् ॥ २४ ॥

सुमनोरञ्जिनी

कृष्णाय दातुं बन्धूनाम् इच्छतां सताम् । रुग्मी निवार्य । चैद्याय शिशुपालाय । समकल्पयद् दातुं सङ्कल्पितवान् । तत्र निमित्तमाह ॥ कृष्णद्विडिति ॥ तद् रुग्मिणो अभिप्रेतम् । अवेत्य (आलोच्य) आप्तं विश्वसनीयम् । प्राहिणोत् प्रेषयामास

॥ २३,२४ ॥

द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः ।

अपश्यदाद्यं पुरुषमासीनं काञ्चनासने ॥ २५ ॥

सत्यधर्मीया

प्रतीहारैर्दौवारिकैः । गतम् ॥ २५ ॥

सुमनोरञ्जिनी

प्रतिहारैर् द्वारपालैः । अन्तः प्रवेशितः ॥ २५ ॥

दृष्ट्वा ब्रह्मण्यदेवस्तमवरुह्य निजासने ।

उपवेश्यार्हयाञ्चक्रे यथाऽऽत्मानं दिवौकसः ॥ २६ ॥

सत्यधर्मीया

दिवौकसो देवा आत्मानं स्वं यथा तथाऽर्हयाञ्चक्रेऽपूजयत् ॥२६॥

सुमनोरञ्जिनी

अर्हयाञ्चक्रे पूजयामास ॥ २६ ॥

तं भुक्तवन्तं विश्रान्तमुपगम्य सतां गतिः ।

पाणिनाऽभिमृशन् पाणावव्यग्रस्तमपृच्छत ॥ २७ ॥

पदरत्नावली

अव्यग्रो ऽसम्भ्रान्तः ॥ २७–२८ ॥

सत्यधर्मीया

यद्यपि कन्यानिश्चयनायायातैर्वरगृहे न भोक्तव्यमिति किंवदन्ती । तथाऽपि नित्यावियोगिनो रुग्मिणीकृष्णयोरयं विहार इति ध्वनयितुं भुक्तवन्तमित्युक्तिरिति ज्ञेयम् । विश्रान्तं विध्वस्ताध्वश्रमं पादौ पाणिनाऽभिमृशन् अव्यग्रोऽव्याकुलचेतास्तं विप्रम-पृच्छतापृच्छत् ॥ २७ ॥

सुमनोरञ्जिनी

विश्रान्तं शय्यायां शयानम् । अभिमृशन् शनैः संमर्दयन् । अव्यग्रः स्थिरमनाः ॥ २७ ॥

कच्चिद् द्विजकुलश्रेष्ठ धर्मस्ते वृद्धसम्मतः ।

वर्तते नातिकृच्छ्रेण सन्तुष्ठमनसः सदा ॥ २८ ॥

सत्यधर्मीया

हे द्विजवरश्रेष्ठ । वृद्धसम्मतस्ते धर्मो नातिकृच्छ्रेणानायासेन वर्तते क्वचित् ॥ २८ ॥

सुमनोरञ्जिनी

नातिकृच्छ्रेण अनायासेन । वर्तते प्रवर्तते ॥ २८ ॥

सन्तुष्टो यदि वर्तेत ब्राह्मणो येन केनचित् ।

अहीयमानः स्वाद् धर्मात् स ह्यस्याखिलकामधुक् ॥ २९ ॥

पदरत्नावली

यः स्वाद् धर्मादहीयमानः स्वधर्मत्यागी न स्यात् ॥ २९ ॥

सत्यधर्मीया

स हि तादृशो द्विजः स्वाद्धर्मादहीयमानो यद्देशे वर्तते राज्ञः सर्वान्कामान्दोग्धीति स तथा ॥ २९ ॥

सुमनोरञ्जिनी

यर्हि ब्राह्मणः । येन केनचित् । यदृच्छालब्धेनेति यावत् । सन्तुष्टो ऽलम्बुद्धिमान् वर्तेत तर्हि स्वाद् धर्माद् अहीयमानो भवति । स्वधर्मत्यागी न भवतीति यावत् । स हि स्वधर्म एव । अस्य अखिलकामधुक् भवति ॥ २९ ॥

असन्तुष्टः सुखं विप्र नाप्नोत्यपि सुरेश्वरः ।

अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्गविज्वरः ॥ ३० ॥

पदरत्नावली

सुरेश्वरोऽपि असन्तुष्टः सुखं नाप्नोति । अकिञ्चनो दरिद्रोऽपि । सन्तुष्टो ऽलम्बुद्धिः ॥ ३० ॥

सत्यधर्मीया

सुरेश्वरोऽप्यसन्तुष्टश्चेत्सुखं नाप्नोति । अकिञ्चनो दरिद्रः कियन्ताव-दैव (?) लब्धेन सन्तुष्टः सर्वाङ्गविज्वरः सर्वाङ्गीणोपतापरहितः शेते ॥ ३० ॥

सुमनोरञ्जिनी

सुरेश्वरोऽपि असन्तुष्टश्चेत्सुखं नाप्नोति । अकिञ्चनोऽपि सन्तुष्ट-श्चेत्सर्वांगेषु । विज्वरः विगतसन्तापः सुखं शेते सुखमास्ते ॥ ३० ॥

विप्रान् स्वलाभसन्तुष्टान् साधून् भूतसुहृत्तमान् ।

निरहङ्कारिणः शान्तान् नमस्ये शिरसाऽसकृत् ॥ ३१ ॥

पदरत्नावली

स्वतो लाभो यस्य धनस्य तत्तथा तेन ॥ ३१ ॥

सत्यधर्मीया

उक्तं यदर्थमियत्तत्पर्यवसाययति ॥ विप्रानिति ॥ भूतसुत्तमांच्छ्रेष्ठान् भूतं विष्णुः सुहृत्तमो येषामिति वा । यथोक्तमेकादशतात्पर्ये ।

‘सृष्टिस्थित्यादिहेतुत्वाद्भूतानि हरिरुच्यते ।

न तु वस्तुस्वरूपत्वात्स हि सर्वेश्वरेश्वर’ इति ॥

वस्तुतत्वत इति । शान्तानक्रोधान् असकृद्भूयो भूयः शिरसा नमस्ये ॥ ३१ ॥

सुमनोरञ्जिनी

स्वतः स्वतन्त्रात् परमात्मनः सकाशात् । यदृच्छयेति यावत् । यो लाभस् तेन सन्तुष्टान् अन्यत्रालम्बुद्धिमतः ॥ ३१ ॥

कच्चिद् वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः ।

सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ॥ ३२ ॥

पदरत्नावली

यस्य विषये राष्ट्रे । स राजा मे प्रियः ॥ ३२ ॥

सत्यधर्मीया

हे ब्रह्मन् । वो राजतः कुशलं क्वचिदिति प्रश्नमात्रं यत्र यत्र कुशलाद्यन्यतमं पदं वर्तते तत्र तत्रेति मन्तव्यम् । तथा नास्ति तत्पदम् । तत्र कुशलप्रश्न इति । यस्य विषये देशे स राजा मे प्रिय इष्टः ॥ ३२ ॥

सुमनोरञ्जिनी

यस्य राज्ञो विषये । पाल्यमानाः प्रजाः सुखं तिष्ठन्ति । स राजा मे प्रिय इति सम्बन्धः ॥ ३२ ॥

यतस्त्वमागतो दुर्गं निस्तीर्येह यदृच्छया ।

सर्वं नो ब्रूह्यगुह्यं चेत् किं कार्यं करवाम ते ॥ ३३ ॥

पदरत्नावली

आगमनकारणं पृच्छति– यत इति । यतः कारणात् । तत् सर्वं कारणम् ॥ ३३ ॥

सत्यधर्मीया

कुत आगतिस्तदवगमयतामिति पृच्छति ॥ यत इति ॥ यतश्चोदेति सूर्य इत्यादेर्यत इति कुत इत्यर्थे । दुर्गं निस्तीर्योल्लङ्ध्य यदृच्छया हरीच्छया यतः कुत आगतस् तत्सर्वमगुह्यं गोप्यं न चेत्तत्ते किं करवाम ब्रूहि । करवाणीत्याद्यनुक्त्वोक्त्वा चैवं करे स्वहस्ते न्यस्ता वामा स्त्री यस्य तत्सम्बुद्धिः । वधूसन्धानार्थमायात इति स्वज्ञानं ध्वनयामासेति ज्ञेयम् । पयोधरे हरे कामे विद्याद्वामामपि स्त्रियमिति विश्वः ॥ ३३ ॥

सुमनोरञ्जिनी

यतः यन्निमित्तम् इहागतस्तत्सर्वम्, अगुह्यम् अगोप्यं चेद् ब्रूहि ॥३३॥

एवं सम्पृष्टसम्प्रश्नो ब्राह्मणः परमेष्ठिना ।

विधाय लिखितं पत्रं पादयोः प्रणनाम तम् ॥ ३४ ॥

पदरत्नावली

परमेष्ठिना सर्वोत्तमेन ॥ ३४ ॥

सत्यधर्मीया

लिखितं पत्रं पादयोर्निधाय प्रणनाम स्वयमेव परिनिधाय रुग्मिणी-स्थाने पादयोः प्रणतस्यापि नमनमिति सन्तोष्टव्यम् । लिखितमिति लेखितमित्यर्थकम् । तस्या राजप्रजात्वाच्छिक्षाऽक्षरेष्वपि सम्भावितेति लिखितमित्युक्तमिति वा ॥ ३४ ॥

सुमनोरञ्जिनी

श्रीकृष्णेन सम्पृष्टः सम्पश्नः प्रष्टव्यार्थः यं प्रति । स तथाविधो ब्राह्मणः । परमेष्ठिना पूर्णानन्देन ॥ ३४ ॥

तदादाय जगन्नाथः स्मितसुन्दरलोचनः ।

वाचयामास धर्मात्मा सादरं स्पृहयन्निव ॥ ३५ ॥

पदरत्नावली

धर्म आत्मा स्वरूपं यस्य स तथा । सुकृतविषयो वा । स्पृहयन्निव कामयमान इव ॥ ३५ ॥

सत्यधर्मीया

धर्मात्मा धारकत्वाद्धरिर्धर्मस्तदात्मा तत्स्वरूपभूतः सादरमादरप्रदर्शक-शब्दसहितमिति विशेषणम् । स्वयमपि स्पृहयन्निव वाचयामास वाचकहस्तेन राजधर्मत्वात् । सादरं यथा भवति सनिर्भयं यथा तथेति वा ॥ ३५ ॥

सुमनोरञ्जिनी

वाचयामास वाचयांबभूव । अन्येन निकटस्थेन वाचयामासेति वा ॥

रुग्मिण्युवाच—

श्रुत्वा गुणान् भुवनसुन्दर सङ्गतांस्ते निर्विश्य कर्णविवरं हरतोऽङ्ग तापम् ।

रूपं परं भुवनमङ्गल मङ्गलं३ ते त्वय्यच्युताविशति चित्तमपत्रपं मे ॥ ३६ ॥

पदरत्नावली

हे भुवनसुन्दर श्रोतॄणां कर्णविवरं निर्विश्य अङ्गतापं शरीरसन्तापं हरतः, सम्यग्गमो व्याप्तिर्येषां ते तथा तान्, स्वरूपाभिन्नान् वा, ते तव गुणान् श्रुत्वा ते तव भुवनसुमङ्गलमङ्गलं परम् उत्कृष्टं रूपं च श्रुत्वा मे चित्तं त्वय्यपत्रपमाविशति ॥ ३६ ॥

सत्यधर्मीया

अङ्ग हे भुवनसुन्दर । शृृण्वतां त इति सङ्गतांस्त इति च सङ्गतौ पाठौ । शृृण्वतां जनानां सङ्गतांस्त्वयि सदा विद्यमानान्कर्णविवरं प्रविश्य तापं हरतस्ते गुणान् श्रुत्वा भुवनमङ्गल ते मङ्गलं रूपं च श्रुत्वा स्थितायां मे चित्तमपत्रपं निर्लज्जं त्वयि विशति । न प्रत्यावर्तयितुं शक्यमित्याह ॥ परं यथा तथा विशतीति । भुवन-मङ्गलानां मङ्गलं तन्मङ्गलत्वप्रदमिति पदमेकं वा । परं तापमितराशक्यपरिहारं तापमिति वा । अङ्गतापमिति पदं वा शरीरतापमित्यर्थः ।

भुवनमं गल मङ्गलमिति छेदः । भुवनस्य मं यज्ज्ञानं वा यस्मात्तद्गलस्य मे मङ्गलसूत्रं वा येन तदित्यान्तरङ्गिको भावो रुग्मिण्याः । अवरोपो हरतो रुद्रादङ्गतापं य आविशत्या-विशत् । क्रियासम्बन्धे लट् । तेन मन्मथेनापत्रपं विशतीति वा ॥ ३६ ॥

सुमनोरञ्जिनी

हे भुवनसुन्दर ते त्वया । सङ्गतान् सम्बद्धान् । त्वयि विद्यमानानिति यावत् । यद्वा ते त्वयैव सङ्गतान् साकल्येन ज्ञातान् । अन्यैः साकल्येन ज्ञातुमशक्यानिति यावत् । सङ्गतिः सङ्गमे ज्ञान इति विश्वः । कर्णविवरं प्रविश्य । ओ विद्यमानं तापं हरतः श्रोतृणां श्रवणमात्रेण सन्तापं परिहरत इति यावत् । एतादृशान् ते गुणान् । तथा भुवनमङ्गलमङ्गलम् । परम् उत्कृष्टं ते रूपं च श्रुत्वा । मे चित्तं त्वयि । अपत्रपम्, अपगता त्रपा लज्जा यस्मात्तत् । तथाविधं सद् आविशति आसज्जते ॥३६॥

का त्वा मुकुन्द महती गुणशीलरूपविद्यावयोद्रविणधामभिरात्मतुल्यम् ।

व्रीडावती कुलवती न वृणीत कन्या काले नृसिंह नरलोकमनोभिरामम्

॥ ३७ ॥

पदरत्नावली

महती विशाला, मनोगुणेनेति शेषः । धाम तेजः । कुलवती शुद्धवंशा । नरलोको मुक्तामुक्तप्रपञ्चस्तस्य मनोभिरामं मनांस्यभिरमयतीति ॥ ३७ ॥

सत्यधर्मीया

अहो रहोगतानां कन्यानामेवमपत्रपा प्रवृत्तिः कथमिति न कथय मधुनाथ तव गुणा एवैवं त्रपापनोदं कुर्वन्ति कामगामिति विज्ञापयति ॥ केति ॥ हे नृसिंह मुकुन्द । नृसिंहेत्यनेन मिलितानां जरासुतादीनां गोमायुतामभिप्रेत्य न तेभ्यस्तव भयमिति ध्वनयति । कुलवती सत्कुलप्रसूता व्रीडावती साऽपि महती गुणतः कन्या का । गुणाश्च शीलं च रूपं च विद्या च वयश्च द्रविणं द्रव्यं च धाम तेजश्च तैरात्मतुल्यं स्वसमानं नान्य एतद्वानस्तीति भावः । नरलोकमनोभिरामं नरा अविनाशित्वान्मुक्ता लोका अमुक्ताश्च तेषां मनोऽभिरामयतीति तं त्वा त्वां न वृणीत न काङ्क्षेत् । किन्त्वेतन्मात्रमपेक्षितमित्याह ॥ काल इति । अनूढायाः प्रौढायाः काले विवाहकाले । आत्मतुल्यत्वं तव प्रामाणिक-मित्यप्याह । महतीगुणशीलो नारदो महत्या वीणाया गुणो ध्वनिर्येन स नारदः । महती नारदस्येत्यादेः । शीलं सदाचारस्तद्वन्तः सनकाद्या रूपवान् मारो विद्या सरस्वती आवया ब्रह्मा । एष ब्रह्माऽतिवृद्ध इत्यादेः । द्रविणधामा कुबेरो द्रविणवान्कुबेरो धामभिः प्रकाशात्मकैश् चन्द्रसूर्याग्न्यादिभिरात्मतुली आत्मनैव तुलाऽस्यास्तीति स तथा शिखादिः । इति यः कथित इति शेषः । तं भगवन्तं त्वमिति वा । इन्दिरायाः पतिमित्यनेन स्वस्या-स्तदात्मकतां ध्वनयन्ती गुणादिधामान्तरैरात्मनः स्वस्यातस्तुल्यमित्यर्थमपि सूचयामासेत्यवसेयम्

॥ ३७ ॥

सुमनोरञ्जिनी

इदं न चित्रमित्याह ॥ का त्वेति ॥ धाम तेजः । गुणरूपादिभिर् आत्मतुल्यं स्वयोग्यम् । यद्वा गुणादिभिर् आत्मनैव तुल्यम् । निरुपममित्यर्थः । नरलोक-मनोभिरामं पतिं, महती कुलवती शुद्धवंशोत्पन्ना कन्या का । व्रीडावती सती । काले यौवनकाले । न वृणीत । किन्तु व्रीडां परित्यज्य वृणीतैवेति ॥ ३७ ॥

स त्वं मयाऽप्यभिवृतः पतिरिन्दिराया भक्तप्रियः कृपणलोकशरण्य ईशः ।

मत्वैतदङ्ग तव पादसरोजदास्याः कामं कुरु प्रियतम प्रणताऽस्मि तेऽङ्घ्रिम्

॥ ३८ ॥

पदरत्नावली

अभिवृत आभिमुख्येन वृतः । एतद् भक्तप्रियत्वादिकम् । पादसरोजदास्या मम । यतोऽङ्घ्रिं प्रणतास्मि ॥ ३८ ॥

सत्यधर्मीया

स तादृशस्त्वं मयाऽप्यभिवृतः । वरणे कारणमीरयति । इन्दिरायाः पतिर्भक्तप्रियः कृपणलोकशरण्य ईश इत्येतन्मत्वेति । अङ्ग कृष्ण प्रियतम । तव पाद-सरोजदास्या मम कामं कुरु । किञ्चिद्विनैतत्प्रत्यर्पणेन तव तर्पणं कर्तुं क्षमाऽहमित्याह ॥ तेऽङ्घ्रिं प्रणताऽस्मीति । अस्मीत्युत्तमपुरुषप्रयोगादहमिति लभ्यते । यद्वाऽस्मीत्येकदा तिङन्तमेकदावर्तितमहमित्यर्थेऽव्ययम् । तथा हि भारवौ । आसंसृतेरस्मि जगत्सुजातस्त्वया गते यद्बहुमानपात्रमिति । न च तत्रापि जातोऽस्मीत्यन्वयसम्भवेन निर्धारणमिति तु ।

दासे कृतागसि भवत्युचितप्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये ।

उद्यत्कठोरपुलकाङ्कुरकंटकाग््रयैर्यत्खिद्यते तव पदं ननु सा व्यथा मे ॥

इति गणव्याख्याने दूय इत्यस्य सत्त्वादस्मीत्यस्य निराबाधमहमित्यर्थकता स्वीकार्याऽ-न्यथा वैय्यर्थ्यादित्यभिधानादपास्तम् ॥ ३८ ॥

सुमनोरञ्जिनी

सः गुणादिभिर् आत्मतुल्यः । इन्दिरायाः पतिस् त्वं मया । अभिवृतः पतित्वे प्रार्थितः । यस्मात् । त्वं भक्तप्रियः कृपणलोकशरण्य ईशश्च । तस्माद् एतन् मम मनोगतं मत्वा । तव पादसरोजदास्याः कामम् अभिलषितं कुरु ॥ ३८ ॥

तन्मे भवान् खलु वृतः पतिरङ्ग जायामात्माऽर्पितश्च भवतोऽत्र विभो विधेहि ।

मा वीरभागमभिमर्शतु चैद्य आराद् गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष ॥ ३९ ॥

पदरत्नावली

तत् तस्मात्, हे अङ्ग हे अम्बुजाक्ष, मां जायां विधेहि । चशब्द एवार्थे । अस्या मे ममात्मा देहः भवतोऽर्पित एव । वीरस्य तव भागमात्मानम् । आराद् दूरात् स्थातुयोग्यश्चैद्यो माऽभिमर्शतु मा स्पृशतु । तत्र दृष्टान्तमाह– गोमायुवदिति ॥ गोमावयः शृृगालाः । मृगपतेः सिंहस्य बलिमुपहारम् ॥ ३९–४० ॥

दुर्घटभावदीपिका

आरादित्यस्याराच्छ्रीघ्रं मां जायां विधेहीत्यन्वयो द्रष्टव्यः । एतेन शीघ्रं माऽभिमर्शत्वित्युक्तेर्विलम्बेनाभिमर्शत्विति प्राप्नोत्यतो माऽभिमर्शत्वित्येव वक्तव्य-मारान्माऽभिमर्शत्विति कथनमयुक्तामिति दूषणं निरस्तम् । आरादित्यस्य माऽभिमर्शत्वित्य-नेनान्वय इत्यनङ्गीकारात् ॥ ३९ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके

उत्तरार्धे सप्तपञ्चाशोऽध्यायः ॥ १०–५७ ॥

सत्यधर्मीया– खल्वितरान् प्रतिषिद्ध्य भवान् पतिर्वृतस्तत्त्वेन वृतोऽङ्ग विभो जायां धेहि । कुर्वित्यनुक्त्वा विधेहीत्युदीरयन्ती हे विधे त्वमपि साहितीं विधेहीति कटाक्षितो धातेति सूचयति । न मे धातेति वक्ष्यमाणानुकूल्यात् । अयमात्मा देहो भवतोऽर्पितश्च । लग्नदिना समीपलग्नानीति न विलम्बमवलम्ब स्वान्तराया अन्तरा यास्यन्तीत्याह ॥ मेति । चैद्य आरात्समीपे वीरभागं माऽभिमर्शतु माऽयम् । तत्र निदर्शनमाह ॥ मृगपतेर्बलिं गोमायुरिवेति । वीरो गरुडप्रेरकस्तत्तुरगो हरिस्तस्य भागः । मा चासौ वीरभागश्च तमिति वा रमारूपं त्वद्भागं न मृशत्वित्यन्वयः ॥ ३९ ॥

सुमनोरञ्जिनी

हे अङ्ग मे मया । आत्मा देहः । भवतोऽर्पितश्च अर्पित एव । तत् तस्मात् । मां जायाम् । विधेहि । कुतः । वीरस्य तव । भागं योग्यां मां, अत एव मृगपतेर्बलिमिव स्थिताम् । गोमायुवद् गोमायुतुल्यश् चैद्यः माभिमर्शतु मा स्पृशतु । आरात् कालतः शीघ्रमिति यावत् ॥ ३९ ॥

पूर्तेष्टदत्तनियमव्रतदेवविप्रगुर्वर्चनादिभिरलं भगवान् परेशः ।

**आराधितो यदि गदाग्रज एत्य पाणिं गृह्णातु मे न दमघोषसुतादयोऽन्ये **

॥ ४० ॥

सत्यधर्मीया

परोक्षप्रिया इव हि देवा इत्यादेः पारोक्ष्येण विज्ञापयति ॥ पूर्तेति । पूर्तं कूपारामादि इष्टं यजनं दत्तं दानं नियमो वाङ्नियमनं व्रतं कृच्छ्रचान्द्रायणादि देवार्चनं विप्रार्चनं गुर्वर्चनमादिर्येषां तैः । भगवान्परेशो यर्ह्यलमाराधितो मया तर्हि गदाग्रज एत्य पाणिं गृह्णातु । दमघोषसुतादयोऽन्ये न गृह्णन्तु ॥ ४० ॥

सुमनोरञ्जिनी

पूर्तम् अन्नदानादि । इष्टं यजनं, दत्तं हिरण्यादि । नियमस् तीर्थाटनादि । व्रतं चान्द्रायणादि । गदाग्रजः श्रीकृष्णः ॥ ४० ॥

श्वोभाविनि त्वमजितोद्वहने विदर्भान् गुप्तान् समेत्य पृतनापतिभिः समेतैः ।

निर्मथ्य चैद्यमगधेन्द्रबलं प्रसह्य मां राक्षसेन विधिनोद्वह वीर्यशुल्काम्

॥ ४१ ॥

पदरत्नावली

उद्वहने विवाहे श्वोभाविनि श्वःप्रभाते भविष्यति सति समेतैः पृतना-पतिभिर् गुप्ताम् । विदर्भान् समेत्य राक्षसेन विधिना बलात् कन्याहरणलक्षणेन । वीर्यं शुल्कं मौल्यं यस्याः सा तथा तां माम् ॥ ४१ ॥

सत्यधर्मीया

लोकरीत्या परोक्षत उक्त्वा नित्यापरोक्षीकृततत्केत्यपरोक्षतोऽपि वदति । श्व इत्यव्ययम् । ततः सप्तम्या लोपः । उषसि भाविन्यजितत्वं विदर्भान् देशान् पृतानापतिभिः समेतैर्गुप्तान् समेत्य चैद्यमगधेन्द्रबलं निर्मथ्य प्रसह्य बलात्कृत्य राक्षसेन विधिना वीर्यमेव शुल्कं यस्याः सा तामुद्वह । ब्राह्मे विवाहे बन्धुशीलश्रुतारोग्यानि बुद्ध्वा प्रजा सहकर्मभ्यः प्रतिपादयेत् । शक्तिविषयेणालङ्कृत्वा । आर्षे दुहितृमते मिथुनौ गावौ देयौ । दैवे यज्ञतन्त्रऋृत्विजे प्रतिपादयेत् । सहधर्मं चरत इति । प्राजापत्यो मिथः कामान्संवर्तते स गान्धर्वः। शक्तिविषयेण द्रव्याणि दत्वा वहेरन्नासुरः । दुहितृमतः पोथयित्वा वहेत्स राक्षसः । सुप्तानां प्रमत्तानां वाऽपहरेत्स पैशाचः । तेषां त्रय आद्याः प्रशस्ताः । पूर्वः पूर्वः श्रेयानित्यापस्तम्बसूत्रेषूक्ते राक्षसं समं सम्मतिरिति च गान्धर्वपरिणयनमिदमिति ज्ञेयम् । सूत्रे त्रय आद्यः प्रशस्ता इत्युक्तिश्चतुर्थोपलक्षणपरेति ज्ञेयम् । प्रशस्तांश्चतुरः पूर्वानिति मनूक्तेः । मां रमारूपिणीं शुल्कं चाबलामौल्यम् ॥ ४१ ॥

सुमनोरञ्जिनी

अधुनापि समयो नातीतः । अतः शीघ्रमागन्तव्यमित्यभिप्रायेणाह ॥ श्व इति । हे अजित उद्वहने विवाहे । श्वो भाविनि भविष्यति सति । तत्पूर्वं त्वं विदर्भान् देशान् समेत्य चैद्यमगधेन्द्रबलं निर्मथ्य । समेतैः पृतनाधिपतिभिः सेनापतिभिर् गुप्तां रक्षिताम् । वीर्यं पराक्रम एव शुल्कं मौल्यं यस्याः सा ताम् । मां प्रसह्य बलाद् राक्षसेन विधिना । उद्वहेत्यन्वयः ॥ ४१ ॥

अन्तःपुरान्तरचरान्नविहत्य बन्धूंस्त्वामुद्वहे कथमिति प्रवदाम्युपायम् ।

पूर्वेद्युरस्ति महती कुलदेवियात्रा यस्यां बहिर्नववधूर्गिरिजामुपेयात् ॥ ४२ ॥

**सत्यधर्मीया **

ननु सेना साऽपि सेना महती त्वं त्वन्तश्चरी कथं घटनेति न वद अवद वद न तव दुश्शकं किञ्चित्तथाऽप्ययमुपायो न प्रायश्चिन्तितः कान्त तमवधारयेति वक्ति ॥ अन्तरिति । अन्तःपुरे तत्राप्यन्तरे चरतीति साऽन्तःपुरान्तरचरी । बन्धूंस्तवा-विहत्य अहत्वा । एतेन वादोऽनु पादनुकूलो मामुद्वहेत्यत्र बन्धुवधमविधायेति प्रपूर्य प्राग्व्याख्येय इति सूचितं भवति । त्वां कथं केन प्रकारेणोद्वह इति शङ्कसे चेदिति शेषः । उपायमनायासेन मन्नयनसाधनं प्रवदामि । यद्दिने लग्नं तत्पूर्वेद्युः पूर्वदिने परम्परागतैका कुलदेवियात्रा कुलदेवतालयगमनमस्ति । चेत् किमित्यत आह । यस्यां यात्रायां नववधूर् नूतनकन्या । गिरिजां द्रष्टुं बहिरुपेयादागच्छेदिति । नादः कार्यं हातुं शक्यमित्याह ॥ महतीति ॥ ४२ ॥

सुमनोरञ्जिनी

ननु अन्तःपुरे स्थिताया बन्धुभिः परिरक्षितायाः प्रसह्य हरणं बन्धुहननमन्तरा कथं स्यादित्यत आह ॥ अन्तरिति । अन्तःपुरान्तरचरान् बन्धून् । अविहत्य । असंहृत्य त्वां कथमुद्वहे इति चेत् । उपायं प्रवदामि । पूर्वेद्युर् विवाहात् पूर्वेद्युः । यस्यां यात्रायाम् । नववधूः । गिरिजाम् अम्बिकां दर्शनार्थमुपेयात् ॥ ४२ ॥

तत्रैत्य मां रथपदातिगजाश्वयुक्तः सम्मथ्य साल्वमगधान् सहचेदिभूपान् ।

आदाय मां सहचरीभिरथो रमेशो गृह्णातु पाणिमुपनीय पुरीं स्वकीयाम्

**॥ ४३ ॥ **

सत्यधर्मीया

तत्र तत्समये पदातिगजाश्वयुक्तैः सह चेदिभूपान्साल्वमागधान्सम्मथ्य रमेशः सहचरीभिः परिवृतां मामादाय सहभावमात्रं सहचरीणां नानयने स्वसुतैः सार्धं भारं वहति गर्दभीत्यादिवदिति ज्ञेयम् । स्वपुरीमुपनीय च मम पाणिं गृह्णातु । आदाय समुदायो यौतकादिधनं तद्रूपिणी चासावहं च तां मामिति पदमेकं वा । तद्रूपिणी चासौ मा रमा चेति वा । यौतकादि तु यद्देयं सुदायो हरणं च तत् । दायो दाने यौतकादिधने सोल्लुण्ठ-भाषितेति विभक्ते वश्यादिद्रव्ये दायमाहुर्मनीषिण इत्यमरविश्वौ । वश्यं स्वोपभोगयोग्य-मित्यर्थः । अत आदायोपनीययोर्मध्ये नान्यतरवैय्यर्थ्यशङ्केति ध्येयम् । स्वकीयामिति मामित्यस्य पुरीमित्यस्य च प्राचीनपक्षे विशेषणमिति मन्तव्यम् ॥ ४३ ॥

सुमनोरञ्जिनी

सहचरीभिः सखीभिः सह स्थिताम् ॥ ४३ ॥

यस्याङ्घ्रिपङ्कजरजःस्तवनं महान्तो वाञ्छन्त्युमापतिरिवात्मतमोपहत्यै ।

यद्यम्बुजाक्ष न लभेय भवत्प्रसादं जह्यामसून् व्रतकृशा शतजन्मभिः स्याम्

॥ ४४ ॥

पदरत्नावली

यथोमापतिः श्रीहरिचरणसरसि स्तुतिं करोति तस्य तव । यदि भवत्प्रसादं पूज्यानुग्रहं न लभेयं तर्हि असून् प्राणान् जह्यां त्यक्ष्यामि । किञ्च शतजन्मभिर् व्रतकृशा तव भार्यैव स्यामित्यर्थः ॥ ४४–४६ ॥

॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे सप्तपञ्चाशत्तमोऽध्यायः ॥

सत्यधर्मीया

स्वादरकारणमनागमने करणीयं च स्वेन विज्ञापयति ॥ यस्येति । यस्य तवाङ्घ्रिपङ्कजयोर्ज्ञानानन्दयोः स्तवनं स्तुतिमुमापती रुद्र इव यथाऽऽत्मतमोपहत्यै स्वाज्ञानहानाय स्तवनं करोति । निदर्शनं धातारमविधाय विधाय हरं न मम त्र्यम्बकाम्बिका- यात्रा शर्वादिसर्वनियन्तुस्तव भार्याया आवश्यकीति बहिरुपयानं किन्तु कान्त तव सङ्गत्या इति ध्वनयामासेति ज्ञेयम् । महान्तो वाञ्छन्ति तस्य तव भवत्प्रसादं भवन्मद्विषय इदानीं सत्तां लभमानश्चासौ प्रसादोऽनुग्रहश्च तम् । मन्नयनरूपमहं न लभेय नाप्नुयां तर्ह्यम्बुजाक्षासून् जह्याम् । अनेन वधूवधदोषस्तवायास्यतीति द्योतयति । यमुद्देश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्म-घातकमित्यादेः । मम दोषो वाऽदोषो वा रमणि मरणे तव को लाभ इत्यत आह ॥ व्रतकृशा शतजन्मभिर्वा स्याम् ॥ तव भार्येति शेषः । भार्येत्याद्यनुक्त्वा कण्ठतो वैकुण्ठ तवोरःस्थिता स्यामिति स्वोत्कण्ठां ध्वनयतीति ध्येयम् । व्रतकृशाऽसूञ्जह्याम् । व्रतकृशा शतजन्मभिरित्यन्वयः । यस्य भवत इत्येकदेशान्वय इत्यन्ये ॥ ४४ ॥

सुमनोरञ्जिनी

हे अम्बुजाक्ष आत्मतमोनिहत्यै स्वीयाज्ञानपरिहाराय । यस्य तव । अङ्घ्रिपङ्कजरजस्तवनम् । उमापतिरिव महान्तो वाञ्छन्ति । तस्य भवतः । प्रसादं यद्यहं न लभेय न प्राप्नुयाम् । तर्हि व्रतैर् अनशनादिभिः । कृशान् असून् प्राणान् जह्यां त्यक्ष्यामि । ततः किमित्यत आह । शतजन्मभिरपि त्वद्भार्यैव स्यामिति ॥ ४४ ॥

श्रीशुक उवाच—

इति पत्रगतं विश्वं विमृश्य मधुसूदनः ।

सन्देशं राजकन्यायास्तं ब्राह्मणमवैक्षत ॥ ४५ ॥

सत्यधर्मीया

विश्वं समस्तं सन्देशं विमृश्य तमागतम् ॥ ४५ ॥

सुमनोरञ्जिनी

इति पत्रगतं विश्वं समस्तं राजकन्याया रुग्मिण्याः सन्देशं विज्ञापनम्

॥ ४५ ॥

ब्राह्मण उवाच—

इत्येते गुह्यसन्देशा यदुदेव मयाऽऽहृताः ।

विमृश्य युक्तं यच्चात्र क्रियतां तदनन्तरम् ॥ ४६ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे सप्तपञ्चाशोऽध्यायः ॥

सत्यधर्मीया

गुह्या अन्यस्यानाख्येयाः । अत्रैतत्समय एतन्मध्ये वा । यदुक्त-मनन्तरं क्रियताम् ॥ ४५ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे

सप्तपञ्चाशोऽध्यायः ॥ १०–५७ ॥

सुमनोरञ्जिनी

अत्र यद् युक्तं योग्यं तद्विमृश्य क्रियताम् । तदपि अनन्तरमेव अव्यवधानेनैव क्रियताम् ॥ ४५ ॥

॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां

सुमनोरञ्जिन्यां सप्तपञ्चाशोऽध्यायः ॥