कदाचिद् देवकीपुत्रो रामशैनेयसंयुतः
॥ अथ षट्पञ्चाशोऽध्यायः ॥
श्रीशुक उवाच–
कदाचिद् देवकीपुत्रो रामशैनेयसंयुतः ।
सेव्यमानः सभायां वै नानादेशेश्वरैर्नृपैः ॥ १ ॥
पदरत्नावली
‘परा पूर्वेषां सङ्ख्या वृणक्ति वितर्तुराणो अपरेभिरेति’ इत्यादिश्रुत्यर्थं दीपकन्यायेन दर्शयत्यस्मिन्नध्याये । तत्र श्रीकृष्णो युद्धे कुन्तीसुतैर्बद्धं पाञ्चालभूपतिं श्रुत्वा हृष्टस्तद्वृत्तान्तविवित्सया तत्समीपे कृतवर्माणं प्रेषयामासेति कथयति– कदाचिदिति ॥ १ ॥
सत्यधर्मीया
भक्तवत्सलः श्रीदेव इति वेदयितुं पाण्डवकृतं विजयताण्डवं द्रुपदनृपविषये श्रुत्वा तन्मर्म ज्ञापयितुमाज्ञापयामास कृतवर्माणमत्रस्थस्तत्र गन्तुमित्यर्थो निरूप्यतेऽस्मिन्नध्याये । नानादेशानामीश्वरास्तैर्नानाप्रकारा आदेशा आज्ञाविशेषास्तेषा-मीश्वरैस्तदधिकृतैरिति वा ॥ १ ॥
सुमनोरञ्जिनी
शैनेयः सात्यकिः ॥ १ ॥
पाञ्चालराजं द्रुपदं बालैः कुन्तीसुतैर्मृधे ।
बद्धं शुश्राव कौरव्य ब्राह्मणैः सत्रयाजिभिः ॥ २ ॥
पदरत्नावली
ब्राह्मणैरुक्तम् ॥ २ ॥
सत्यधर्मीया
सत्रयाजिभिः सत्रे याजयितुं शीलं येषां तैर्ब्राह्मणैस्तन्मुखतः ॥ २ ॥
सुमनोरञ्जिनी
कुन्तीसुतैर् बालैरेव । मृधे युद्धे । बद्धं द्रुपदम् । सत्रयाजिभिर् ब्राह्मणैरुक्तं शुश्राव ॥ २ ॥
तच्छ्रुत्वा हृष्टहृदयः कृतवर्माणमच्युतः ।
नगरं हस्तिनपुरं प्रेषयामास वेदितुम् ॥ ३ ॥
दुर्घटभावदीपिका
नगरं हस्तिनपुरमित्यस्य हस्तिननामकं च तत्पुरं च हस्तिनपुरं नगरमित्यर्थः । एतेन हस्तिनपुरमिति पुरशब्देनैव पुरत्वस्योक्तत्वान् नगरमित्येतव्द्यर्थमिति दूषणं प्रत्युक्तम् । पुरशब्दस्य पृ पालनपूरणयोरित्येतद्रूपत्वात्पुरशब्देन पूर्णत्वमिहोच्यते न तु पुरत्वमित्यङ्गीकारात् ॥ ३ ॥
सत्यधर्मीया
हृष्टं हृदयमन्तःकरणं यस्य स नगरमनामयं यथा वेदितुं च प्रेषयामास । गरो व्याधाविति विश्वः ॥ ३ ॥
सुमनोरञ्जिनी
तद् वृत्तान्तम् । वेदितुं निश्चेतुम् ॥ ३ ॥
स गत्वा हस्तिनपुरं वृद्धं कुरुपितामहम् ।
ददर्श द्रोणविदुरधृतराष्ट्रकृपैर्युतम् ॥ ४ ॥
सत्यधर्मीया
कुरुपितामहं भीष्मम् ॥ ४ ॥
सुमनोरञ्जिनी
कुरुपितामहं भीष्मम् ॥ ४ ॥
युधिष्ठिरं च राजानं चतुर्भिर्भ्रातृभिर्वृतम् ।
सभाजयमास भृशं कुन्तीं च हृदिकात्मजः ॥ ५ ॥
सत्यधर्मीया
राजानं भाविनं तथा ॥ ५ ॥
सुमनोरञ्जिनी
हृदिकात्मजः कृतवर्मा ॥ ५ ॥
युधिष्ठिरोऽपि पप्रच्छ सानुगं कंसमर्दनम् ।
हतं च कालयवनं जरासन्धं च निर्जितम् ॥ ६ ॥
सत्यधर्मीया
सानुगं गोमन्तसानुगं सभृत्यं वा हतं घातितम् ॥ ६ ॥
**वासुदेवं च निहतं करवीरपुरेश्वरम् । **
द्वारवत्याश्च करणं नगर्या वरुणालये ॥ ७ ॥
पदरत्नावली
वासुदेवं शृृगालनामानम् । वरुणालये समुद्रे ॥ ७–१५ ॥
सत्यधर्मीया
वासुदेवं शृृगालम् । वरुणालये समुद्रे ॥ ७ ॥
सुमनोरञ्जिनी
करवीरपुरेश्वरं वासुदेवं सृगालवासुदेवम् । वरुणालये समुद्रे ॥ ७ ॥
हतौ च हंसडिभिकौ ब्रह्मदत्तं च दुर्जयम् ।
श्रुत्वा हार्दिक्यवचनाद् याथार्थ्येन युधिष्ठिरः ॥ ८ ॥
दुर्घटभावदीपिका
युधिष्ठिरो यथार्थेन यथार्थात् हार्दिक्यवचनाद्दुर्जयं ब्रह्मदत्तं हतं ज्ञात्वा च हंसडिभिकौ हत इति यथार्थेन यथार्थं हार्दिक्यवचनात् हार्दिक्यवचनं श्रुत्वा चेत्यर्थः । एतेन हार्दिक्यवचनादित्यस्य पञ्चम्यन्तत्वाद् यथार्थादिति वक्तव्यम् । यथार्थेनेति वचनमयुक्तमिति दूषणं निरस्तम् । यथार्थादिति पञ्चम्येकवचनस्य यथार्थेनेति तृतीयैकवचना-देश इत्यङ्गीकारात् । एतेनैव ब्रह्मदत्तं दुर्जयं तं हार्दिक्यवचनात्ज्ञात्वेति वक्तव्यम् । हार्दिक्यवचनाच्छ्रुत्वेति कथनमनुपपन्नमिति चोद्यं निरस्तम् । हार्दिक्यवचनादिति पञ्चम्यन्त-स्याध्याहृतेन ज्ञात्वेत्यनेनान्वयस्योक्तत्वात् । दुर्जयो ब्रह्मदत्तो हत इति हार्दिक्यवचनं श्रुत्वेति वक्तव्ये हार्दिक्यवचनात्ज्ञात्वेत्युक्तिस्तु हंसडिभिकहननश्रवणजन्यसुखापेक्षया ब्रह्मदत्त- हननश्रवणजन्यसुखेऽतिशयोऽस्तीति ज्ञापानार्था । अत एव दुर्जयमिति ब्रह्मदत्तस्य विशेषण-मुक्तम् । एतेनैव हंसडिभिकौ हताविति यथार्थं हार्दिक्यवचनं श्रुत्वेति वक्तव्यं यथार्थात् हार्दिक्यवचनाच्छ्रुत्वेति कथनमनुपपन्नामिति दूषणं परास्तम् । ज्ञात्वा श्रुत्वेति क्रियाद्वयस्य परस्परसमुच्चये चशब्द इत्यभ्युपगमात् ॥ ८ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके षट्पञ्चाशोऽध्यायः ॥ १०–५६ ॥
सुमनोरञ्जिनी
हार्दिक्यस्य कृतवर्मणः । हंसडिभिकौ हतौ तथा ब्रह्मदत्तं च हतम् । याथार्थ्येन यथार्थतया हतौ हतमित्यनुवादेन वादः–
‘कथं देवेन विप्रर्षे तौ हंसडिभिकौ हतौ’ इत्यारभ्य ‘गदेन चापि सहितो वासुदेवः पुरीं ययौ’ इत्यन्तेन बहुना ग्रन्थेन हरिवंशे । तथा ‘जनार्दनः स नामतो रमेशपाद-संश्रयः’ इत्यारभ्यासप्तदशाध्यायावसानं महाभारततात्पर्यनिर्णये च शंसितरीत्या ज्ञेयः ॥८॥
मेने त्रैलोक्यसाम्राज्यं स्वहस्तगतमक्षयम् ।
सभाजितश्च हार्दिक्यः सुखसम्भाषणादिभिः ॥ ९ ॥
सत्यधर्मीया
त्रैलोक्यसाम्राज्यमक्षयं स्वहस्तगतं मेने । तत्र निमित्तमप्यनेनैवाह । मेने लक्ष्मीनाथे त्रैलोक्यसाम्राज्यम् अक्षय्यं स्वहस्तगतं कुर्वति सतीति । तदायत्तं चेन्मदायत्तमेवेति भाव इति । सुखसम्भाषणादिभिः कुशलालापादिभिः ॥ ९ ॥
पाण्डुपुत्रैस्तथा कुन्त्या सौहार्दस्रुतबाष्पया ।
हार्दिक्यस्ताननुज्ञाप्य बान्धवान् पृथया सह ॥ १० ॥
सत्यधर्मीया
सौहार्दस्रुतबाष्पया कुन्त्या सभाजित इत्यन्वयः ॥ १० ॥
सुमनोरञ्जिनी
स्नेहेन स्रुतं बाष्पम् आनन्दजलबिन्दुर् यस्याः सा तया ॥ १० ॥
मातृष्वसेयान् धर्मज्ञानभिवन्द्य यथावयः ।
गाङ्गेयेनाभ्यनुज्ञातो धृतराष्ट्रेण चानघ ॥ ११ ॥
सत्यधर्मीया
मातृष्वसुः पुत्रास्तान् गतम् । गाङ्गेयेन भीष्मेण गतम् ॥ ११ ॥
सुमनोरञ्जिनी
मातृष्वसेयान् पाण्डवान् ॥ ११ ॥
विदुरेणाङ्गराजेन द्रोणेन च कृपेण च ।
प्राज्ञेनाचार्यपुत्रेण तथा दुर्योधनेन च ॥ १२ ॥
सत्यधर्मीया
अङ्गराजः कर्ण आचार्यपुत्रोऽश्वत्थामा ॥ १२ ॥
सुमनोरञ्जिनी
आचार्यपुत्रेण अश्वत्थाम्ना ॥ १२ ॥
कृतवर्माऽभ्यनुज्ञातो निर्गत्य गजसाह्वयात् ।
द्वारकां वृष्णिनिलयामाजगाम दिनात्यये ॥ १३ ॥
सत्यधर्मीया
दिनात्यये सायंसमये ॥ १३ ॥
सुमनोरञ्जिनी
गजसाह्वयात् हस्तिनपुरात् । दिनात्यये सायङ्काले ॥ १३ ॥
स प्रविश्य सभां दिव्यामनेकनृपसेविताम् ।
दृष्ट्वा गोविन्दमासीनं काञ्चने परमासने ॥ १४ ॥
सत्यधर्मीया
सभां सुधर्माम् ॥ १४ ॥
सुमनोरञ्जिनी
काञ्चने काञ्चनमये ॥ १४ ॥
वीजच्चामरसङ्घातसहितं वनमालिनम् ।
आचचष्टेऽखिलं तस्य यथादृष्टं यथाश्रुतम् ।
वृत्तान्तं कौरवेयाणां नगरे गजसाह्वये ॥ १५ ॥
सत्यधर्मीया
वीजच्चामराणां सङ्घातः सङ्घस्तेन सहितम् । गजसाह्वये गतम्
॥ १५ ॥
सुमनोरञ्जिनी
वीजतां चामराणां सङ्घातः समूहः ॥ १५ ॥
तदाकर्ण्य हरिः सर्वं वृत्तान्तं जगदीश्वरः ।
पौरुषं पाण्डुपुत्राणां बभूवानन्दनिर्भरः ॥ १६ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धे षट्पञ्चाशोऽध्यायः ॥
पदरत्नावली
आनन्दनिर्भर आनन्दपूर्णो बभूवेत्यनेन पूर्णानन्दत्वं सदातनं, न कादाचित्कमिति सूचयति । ‘भूसत्तायाम्’ इति धातोः । सत्तायाः सदातनत्वादिति ॥ १६ ॥
॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे षट्पञ्चात्तमोऽध्यायः ॥
सत्यधर्मीया
आनन्दनिर्भरो बभूव बभूवेवालोकनतस्तथा दर्शयामासेति यावत्
॥ १६ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे
षट्पञ्चाशोऽध्यायः ॥ १०–५६ ॥
सुमनोरञ्जिनी
आनन्दनिर्भर आनन्दपूर्णः बभूव व्यक्तानन्द आसीत् ॥ १६ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्यां षट्पञ्चाशोऽध्यायः ॥ ५६ ॥