इत्थं सोऽनुगृहीतोऽङ्ग कृष्णेनेक्ष्वाकुनन्दनः
॥ अथ पञ्चपञ्चाशोऽध्यायः ॥
इत्थं सोऽनुगृहीतोऽङ्ग कृष्णेनेक्ष्वाकुनन्दनः ।
तं परिक्रम्य सन्नम्य निश्चक्राम गुहामुखात् ॥ १ ॥
सत्यधर्मीया
इक्ष्वाकून्नन्दयतीति स तथा येन कृष्णेनेत्थमनुगृहीतो अङ्ग परीक्षित् । तं कृष्णं परिक्रम्य तथा सन्नम्य प्रणम्य गुहामुखात्तद्द्वारान्निश्चक्राम ॥ १ ॥
सुमनोरञ्जिनी
ओति परीक्षितं प्रति सम्बोधनम् । इक्ष्वाकुं तद्वंशं नन्दयतीति तथोक्तः । सः मुचकुन्दः । कृष्णेनानुगृहीतः । कृष्णं परिक्रम्य प्रदक्षिणीकृत्य ॥ १ ॥
स वीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुद्वनस्पतीन् ।
मत्वा कलियुगं प्राप्तं जगाम दिशमुत्तराम् ॥ २ ॥
सत्यधर्मीया
क्षुल्लकान्परिमाणादितो ह्रस्वान्मर्त्यांस्तथा पशून् वीरुद्वनस्पतीन् इत्येवमादीन् क्षुल्लकांश्च वीक्ष्य कलियुगं प्राप्तं मत्वोत्तरां दिशं जगाम । कदा सुप्तः कदोत्थित इति तु–
त्रेतायुगे प्रसुप्तोऽसि विदितो मेऽसि नारदात् ।
इदं कलियुगं विद्धि किमन्यत्करवाणि ते ।
मम शत्रुस्त्वया दग्धो देवदत्तवरो नृप ।
अवध्यो यो मया सङ्ख्ये भवेद्वर्षशतैरपि ।
इत्युक्तः स तु कृष्णेन निर्जगाम गुहामुखात् ।
अन्वीयमानः कृष्णेन कृतकार्येण धीमता ।
ततो ददर्श पृथिवीमावृतां ह्रस्वकैर्नरैः ।
अल्पोत्साहैरल्पबलैरल्पवीर्यपराक्रमैः ।
परेणाधिष्ठितं राज्यं दृष्ट्वा केवलमात्मना ।
ततो विसृज्य गोविन्दं प्रविवेश महावनम् ।
इत्यादि हरिवंशशंसनेन ज्ञातव्यम् ॥ २ ॥
सुमनोरञ्जिनी
सः मुचकुन्दः । क्षुल्लकान् अल्पपरिमाणान् । वीरुधः गुल्मान्, वनस्पतीन् स्थूलवृक्षान् ॥ २ ॥
तपःश्रद्धायुतो वीरो निःसङ्गो मुक्तसंशयः ।
समाधाय मनः कृष्णे प्राविशद् गन्धमादनम् ॥ ३ ॥
सत्यधर्मीया
तपश्च श्रद्धा च ताभ्याम् । तपसि श्रद्धा तया वा युक्तो वीर ईरयतीतीरो विरीरो यस्य स भगवत्प्रेरित इति यावत् । निःसङ्गो मुक्तसंशयो भगवदुपदिष्टे मार्गे यथार्थत्वायथार्थत्वमतिरहितो यथार्थज्ञानवानेवेत्यर्थः । कृष्णे मनस्समाधाय गन्धमादनं प्राविशत् ॥ ३ ॥
सुमनोरञ्जिनी
तपःश्रद्धाभ्यां युतस् तपसि श्रद्धायुतो वा । मुक्तसंशयस् तत्त्वविषये संदेहरहितः ॥ ३ ॥
बदर्याश्रममासाद्य नरनारायणालयम् ।
सर्वद्वन्द्वसहः शान्तस्तपसाऽऽराधयद्धरिम् ॥ ४ ॥
सत्यधर्मीया
बदर्याश्रममासाद्य प्राप्य तत्रापि नरनारायणाश्रमं चासाद्य नरनारायणा-श्रमं तद्रूपं बदर्याश्रममासाद्येति वा । नरनारायणाभ्यामेवाश्रमः संसारश्रमाभावो यत्र तं बदर्याश्रममिति वा । सर्वद्वन्द्वसहः शान्तस्त्यक्तकोपस्तपसा हरिमाराधयत् ॥ ४ ॥
सुमनोरञ्जिनी
नरनारायणयोर् आश्रमम् आवासस्थानं बदर्याख्यमाश्रमम् । शीतोष्णादिसर्वद्वन्द्वसहः । शान्तः भगवन्निष्ठबुद्धिः, वैष्णवसिद्धान्तादचलितो वा । वैष्णव-सिद्धान्तादचलनं शम इति तत्त्वप्रदीपोक्तेः ॥ ४ ॥
भगवान् पुनराव्रज्य मधुरां यवनाहृतम् ।
हत्वा म्लेञ्छबलं निन्ये तदीयं द्वारकां धनम् ॥ ५ ॥
सत्यधर्मीया
यवनाहृतं तेनानीतं म्लेञ्छबलं सर्वं हत्वा तदीयं धनं द्वारकां निन्ये ॥ ५ ॥
सुमनोरञ्जिनी
भगवान् श्रीकृष्णः । यवनाहृतं कालयवनेनानीतम् । तदीयमेव धनम् । द्वारकां प्रति निन्ये प्रेषितवान् ॥ ५ ॥
नीयमाने धने गोभिर्नृभिश्चाच्युतचोदितैः ।
आजगाम जरासन्धस्त्रयोविंशत्यनीकपः ॥ ६ ॥
सत्यधर्मीया
बलस्य जाते निधने च नृभिरच्युतचोदितैर्गोभिर्वृषभैर्नीयमाने सति त्रयोविंशत्यनीकं त्रयोविंशत्यक्षौहिणीसेनां पातीति स तथा । जरासन्ध आजगाम ॥ ६ ॥
सुमनोरञ्जिनी
गोभिर् अनडुद्भिः । त्रयोविंशत्यनीकपस् त्रयोविंशत्यक्षौहिणी-सङ्ख्याकसेनापतिः ॥ ६ ॥
ततो राजा जरासन्धः कल्पान्तानलसन्निभः ।
निधाय मकरव्यूहं रथनागाश्वपत्तिमत् ।
अन्तश्चकार गोविन्दं व्यूहस्य निमिषान्तरे ॥ ७ ॥
सत्यधर्मीया
कालान्तागि्नः प्रलयानलो रथनागाश्वपत्तिमद् बलमित्यनुषज्यते । मकरव्यूहवद्व्यूहो यस्य तद्विधाय गोविन्दं व्यूहस्यान्तर्निमिषान्तरे चकार ॥ ७ ॥
सुमनोरञ्जिनी
मकरव्यूहं मकराकारसेनारचनम् । गोविन्दं, व्यूहस्यान्तः मध्ये ॥७॥
ततो विलोक्य गोविन्दो वृक्षमुत्पाट्य रंहसा ।
गजान् रथान् हयान् युद्धे पोथयामास दुर्मदः ॥ ८ ॥
सत्यधर्मीया
रंहसा वेगेन दुर्मदो युद्धे ॥ ८ ॥
सुमनोरञ्जिनी
पोथयामास पेषयामास ॥ ८ ॥
कृष्णेन हन्यमानास्ते वृक्षेण रिपुकुञ्जराः ।
पेतुर्गतासवो भूमौ वज्रनुन्ना इवाद्रयः ॥ ९ ॥
सत्यधर्मीया
वज्रनुन्ना अद्रयः पर्वता इव ॥ ९ ॥
सुमनोरञ्जिनी
रिपूणां कुञ्जरा गजाः, वज्रेण नुन्नास् ताडिताः ॥ ९ ॥
रथाश्च रथिभिर्युक्ताः सतुरङ्गाः सचोदकाः ।
निष्पिष्टा इव न क्वापि दृश्यन्ते कुरुसत्तम ॥ १० ॥
दुर्घटभावदीपिका
हे कुरुसत्तम । रथा निष्पिष्टाः सन्तः क्वापि नेव दृश्यन्त इति । एतेनेवेत्येतव्द्यर्थमिति दूषणं परास्तम् । इवेत्यस्य निष्पिष्टा इत्यनेनान्वयमनङ्गीकृत्यैवार्थं चाङ्गीकृत्य नेत्यनेनान्वयस्योक्तत्वात् ॥ १० ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां दुर्घटभावदीपिके पञ्चपञ्चाशोऽध्यायः ॥ १०–५५ ॥
सत्यधर्मीया
तुरङ्गसहिताः सचोदकाः सूत सहिताः ॥ १० ॥
सुमनोरञ्जिनी
सतुरङ्गाः । चोदकैः सारथिभिः सहिताः । रथिभिश्च युक्ता रथा निष्पिष्टा इव पेषितधान्यकणा इव । न क्वापि दृश्यन्ते स्म । चूर्णिता इति यावत् ॥ १० ॥
रामस्तु मुष्टिनैवाजौ कुञ्जरान् मदशालिनः ।
जघान कुपितः शैलान् वज्रेणेव सुरेश्वरः ॥ ११ ॥
सत्यधर्मीया
मदेन शालन्त इति मदशालिनः ॥ ११ ॥
राममुष्टिप्रहारेण विशीर्णाः स्यन्दना नृप ।
न व्यदृश्यन्त भूपृष्ठे चूर्णिताः शीर्णपर्णवत् ॥ १२ ॥
सत्यधर्मीया
शीर्णपर्णवद्विचूर्णिता भूपृष्टे विकीर्णाः सन्तो न व्यदृश्यन्त ॥१२॥
सुमनोरञ्जिनी
शीर्णपर्णवद् अतिशिथिलपर्णवत् । दग्धपर्णवदिति यावत् ॥१२॥
यवनस्य धनं विश्वं गच्छन्तं द्वारकामनु ।
निहत्य यादवान् विश्वांस्तद् गृहीत्वा जरासुतः ॥ १३ ॥
सत्यधर्मीया
द्वारकामनुगच्छन्तं गच्छत् ॥ १३ ॥
सुमनोरञ्जिनी
द्वारकामनु द्वारकाभिमुख्येन । निहत्य निर्जित्य ॥ १३ ॥
अभ्यवर्तत सङ्ग्रामे रामकृष्णौ कुरूद्वह ।
विलोक्य वेगरभसं रिपुसैन्यस्य माधवौ ॥ १४ ॥
सत्यधर्मीया
अभि साम्मुख्येनावर्तत रिपुसैन्यस्य वेगरभसं वेगाटोपम् ॥ १४ ॥
सुमनोरञ्जिनी
रामकृष्णौ प्रति । इदं चोभयोपकारकम् । रामकृष्णौ, वेगेन सहितं संरंभं धनलाभजनितं संभ्रमम् ॥ १४ ॥
तं चापतन्तमालोक्य सहितं सबलैर्नृपैः ।
कीर्यमाणौ शरौघेण वृष्ट्येव करिपोतकौ ॥ १५ ॥
सत्यधर्मीया
सबलैः ससेनैः करिपोतकौ गजशिशू ॥ १५ ॥
सुमनोरञ्जिनी
तं जरासन्धम् ॥ १५ ॥
विरथौ विप्रहरणौ विवर्माणौ विसैनिकौ ।
मनुष्यचेष्टामापन्नौ राजन् दुद्रुवतुर्द्रुतम् ॥ १६ ॥
सत्यधर्मीया
राजन् दुदुवतुः । एतत्तात्पर्यं स्वयं मलूकृदाह मनुष्याणां चेष्टामापन्नौ प्राप्ताविति । नावापत् प्राप्तेति द्रुतं दुद्रुवतुरित्यावृत्त्याऽन्वयः ॥ १६ ॥
सुमनोरञ्जिनी
मनुष्यचेष्टामापन्नौ मनुष्यचेष्टानुसारेण चेष्टमानौ । यतोऽतः दुद्रुवतुः ॥ १६ ॥
विहाय वित्तं प्रचुरमभीतौ भीरुभीतवत् ।
पद्भ्यां पद्मपलाशाभ्यां चेरतुर्बहुयोजनम् ॥ १७ ॥
सत्यधर्मीया
प्रचुरं वित्तं विहाय यादवान्हत्वा नीतं तद्विहाय तदाशां त्यक्त्वेति यावत् । स्वभावतोऽभीतौ भीरुभीताविव भयवद्भ्योऽपि भयवन्ताविवातिशयेन भीता वित्यर्थः ॥ १७ ॥
सुमनोरञ्जिनी
पद्मपलाशाभ्यां पद्मस्य पलाशाविव पद्मपलाशौ । ताभ्याम् । अतिकोमलाभ्यामिति यावत् । बहुयोजनं मार्गम् ॥ १७ ॥
पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली ।
अन्वधावद् रथानीकैरीशयोरप्रमाणवित् ॥ १८ ॥
सत्यधर्मीया
प्रहसन्नुपहसन्सन् रथानीकैः सहान्वधावत् । तन्मौर्ख्यं मुखयति । ईशयोः प्रमाणं बलादीयत्तां वेत्तीति सः । स न भवतीति तथा ॥ १८ ॥
सुमनोरञ्जिनी
अप्रमाणवित् प्रमाणं ज्ञानबलादेरियत्तां न वेत्तीति तथोक्तः ॥ १८ ॥
प्रहृत्य दूरं विश्रान्तौ करवीरपुरे निशि ।
तावरुरुहतुर्वीरौ गोमन्तमुदिते रवौ ॥ १९ ॥
सत्यधर्मीया
वीरौ दूरमित्यपि पाठौ । निशि करवीरपुरे विश्रान्तौ विश्रामं प्राप्तौ रवावुदिते सति ॥ १९ ॥
सुमनोरञ्जिनी
प्रहृत्य करवीरपुरं बलादपहृत्य । गोमन्तं तन्नामकं पर्वतम्
॥ १९ ॥
सिद्धचारणगन्धर्वविद्याधरनिषेवितम् ।
आरुह्य शैलं गोमन्तं कृष्णरामौ त्वरान्वितौ ॥ २० ॥
सत्यधर्मीया
त्वरान्वितौ गोमन्तं शैलमारुह्य ॥ २० ॥
प्रवर्षणाख्यं तच्छृङ्गं यत्राब्दा नित्यवर्षिणः ।
तत्र तावासतू राजन् फलमूलाशनौ सुखम् ॥ २१ ॥
सत्यधर्मीया
तस्य शृृङ्गं तत्र सुखमासतुः ॥ २१ ॥
सुमनोरञ्जिनी
प्रवर्षणाख्यं तस्य गोमन्तस्य शृृङ्गं तत्र । आसतुरित्यन्वयः । फलानि मूलान्येवाशनं ययोस्तौ तौ रामकृष्णौ ॥ २१ ॥
जरासन्धस्तु तुष्टात्मा तावनुद्रुत्य माधवौ ।
रुरोध शैलं गोमन्तं महत्या सेनया वृतः ॥ २२ ॥
सत्यधर्मीया
तौ माधवावनुद्रुत्य स्वयं महत्या सेनया वृतः स रुरोध ॥ २२ ॥
सुमनोरञ्जिनी
अनुद्रुत्य पृष्ठत आगत्य रुरोध ॥ २२ ॥
स भूपालान् समाहूय स्वानुगान् युद्धदुर्मदान् ।
कलिङ्गं कुञ्जरपतिं सुराष्ट्राधिपतिं तथा ॥ २३ ॥
सत्यधर्मीया
स्वमनुगच्छन्तीति स्वानुगास्तान् । कुञ्जरपतिं नरकम् ॥ २३ ॥
सुमनोरञ्जिनी
तत्प्रकारमाह ॥ स इति ॥ कुञ्चराणां पतिं कलिङ्गम् ॥ २३ ॥
जयद्रथं सिन्धुपतिं सोमदत्तं च कौरवम् ।
गान्धारराजं शकुनिं वैदर्भं रुग्मिमेव च ॥ २४ ॥
सत्यधर्मीया
सिन्धुपतिं जयद्रथमित्येकाधिकरण्यम् । तथैव कौरवं सोमदत्त मिति । एवमुत्तरत्रापि योग्यस्थले ॥ २४ ॥
सुमनोरञ्जिनी
सिन्धुदेशाधिपतिं जयद्रथं, कौरवं कुरुकुलोद्भवं सोमदत्तम् । गान्धारदेशपतिं शकुनिं, वैदर्भं विदर्भदेशाधिपम् ॥ २४ ॥
सुदक्षिणं च काम्बोजं विराटं मत्स्यभूपतिम् ।
एतानाज्ञापयामास पूर्वस्यां दिशि भूपतीन् ॥ २५ ॥
सत्यधर्मीया
एतान्भूपतीन्पूर्वस्यां दिशि आज्ञापयामास ॥ २५ ॥
सुमनोरञ्जिनी
काभोजदेशपतिं नामतः सुदक्षिणम् । एतान् भूपतीन् । पूर्वस्यां दिशि । गोमन्तमारोढुमित्याकृष्यते । आज्ञापयामास ॥ २५ ॥
पाञ्चालराजं द्रुपदं दमघोषं च चेदिपम् ।
ब्रह्मदत्तं च साल्वेशमेकलव्यं निषादपम् ॥ २६ ॥
सत्यधर्मीया
निषादस्वामिनम् ॥ २६ ॥
सुमनोरञ्जिनी
चेदिपं तद्देशाधिपं नामतः दमघोषं, साल्वेशं नामतो ब्रह्मदत्तं, निषादानां पतिम् एकलव्यम् ॥ २६ ॥
बाह्लीकं च कुरुश्रेष्ठं युधामन्युं च दुर्जयान् ।
विन्दानुविन्दावावन्त्यौ काशिराजं च पौण्ड्रकम् ॥ २७ ॥
सत्यधर्मीया
दुर्जयानिति यथायोग्यान्वयि ॥ २७ ॥
सुमनोरञ्जिनी
आवन्त्यौ अवन्तीपुराधीश्वरौ । काश्या राजानं नामतः पौण्ड्रकम् ॥
आज्ञापयामास नृपानेतान् वीरान् जरासुतः ।
गिरिं गोमन्तमारोढुं दक्षिणस्यां दिशि प्रभो ॥ २८ ॥
सत्यधर्मीया
आरोढुमित्येतदत्रेव पूर्वत्राप्यन्वेति ॥ २८ ॥
द्रुमं किम्पुरुषाधीशं दन्तवक्रं सहानुजम् ।
वीरं विदेहराजानं भूरिश्रवसमेव च ॥ २९ ॥
सत्यधर्मीया
सहानुजं सविदूथम् । विदेहराजानम् । समासान्तो विधिरनित्य इति न टच् ॥ २९ ॥
सुमनोरञ्जिनी
किंपुरुषाधीशं नामतो द्रुमं, विदेहराजं वीरम् ॥ २९ ॥
करुशेषं बृहच्चापं दशार्णं च शतध्वजम् ।
शैब्यं सुवीरराजानं दरदं च महारथम् ॥ ३० ॥
सत्यधर्मीया
दरदं नाम्ना ॥ ३० ॥
सुमनोरञ्जिनी
करूषदेशाधिपं बृहच्चापं, दशार्णेशं शतध्वजनामानं, सौवीरराजानं शैब्यम् ॥ ३० ॥
एतान् महीपतीन् राजा जरासन्धोऽमितद्युतिः ।
प्राह गोमन्तमारोढुं पश्चिमस्यां दिशि द्रुतम् ॥ ३१ ॥
सत्यधर्मीया
अमितद्युतिः पराक्रमभ्रमसमय इति ॥ ३१ ॥
त्रिगर्तं च सुशर्माणं बलिनं वेणुदारिणम् ।
कुलिन्दं च महासत्वं केकयानपि भूपतीन् ॥ ३२ ॥
सत्यधर्मीया
वेणुदारिणं राजानम् ॥ ३२ ॥
शिशुपालं च भूपालं भीष्मकं चापि दुर्जयम् ।
पुरस्कृत्यारुरोहाशु कौबेर्यां मागधो दिशि ॥ ३३ ॥
सत्यधर्मीया
मागधः स्वयम् ॥ ३३ ॥
एवं गोमन्तमारुह्य सर्वर्तुफलपादपम् ।
विचिंत्य तत्र सर्वत्राप्यधः शृृङ्गात् प्रवर्षणात् ॥ ३४ ॥
सत्यधर्मीया
सर्वर्तुफलपादपम् । एकस्मिनृतावपि । विचिन्त्य मृगयित्वा ॥ ३४ ॥
सुमनोरञ्जिनी
सर्वेषु ऋतुषु फलन्तीति वा फलं येषामिति वा सर्वर्तुफलास् तथाविधाः पादपा यस्मिन् तम् । विचिन्त्य मार्गयित्वा । प्रवर्षणात् शृृङ्गादधः सर्वत्रेत्यन्वयः ॥ ३४ ॥
चिच्छिदुः सकलान् वृक्षान् नापश्यद् राममाधवौ ।
गिरौ विलीनावाज्ञाय नाधिगम्य पदं नृप ॥ ३५ ॥
सत्यधर्मीया
नापश्यत् । गिरावेव यत्र कुत्रचिद्विलीनौ । आज्ञाय ज्ञात्वा पदं तत्स्थलं नाधिगम्याज्ञात्वा ॥ ३५ ॥
सुमनोरञ्जिनी
पदं तयोर् आवासस्थानम् । गिरौ विलीनौ तिष्ठत इति आज्ञाय ज्ञात्वा ॥ ३५ ॥
ददाह गिरिमेधोभिः समन्तादगि्नमुत्सृजन् ।
तत उत्पत्य तरसा दह्यमानात्तु तावुभौ ॥ ३६ ॥
सत्यधर्मीया
एधोभिः काष्ठैः । मुख्यकर्तृविवक्षयोत्सृजन् ददाहेत्येकवचनम् ॥ ३६ ॥
सुमनोरञ्जिनी
एधोभिः काष्ठैर् दह्यमानात् ततः पर्वतात् ॥ ३६ ॥
दशैकयोजनोत्तुङ्गान्निपेततुरधो भुवि ।
अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ ॥ ३७ ॥
सत्यधर्मीया
दशैकयोजनोत्तुङ्गादेकदशयोजनोच्छ्रिताच्छृङ्गात्सानुगेन भृत्येन सानु-स्थेनेति वा । अलक्ष्यमाणावधो भुवि निपेततुः ॥ ३७ ॥
सुमनोरञ्जिनी
निपेततुर् उड्डीय अध आगतौ ॥ ३७ ॥
स्वपुरं पुनरायातौ समुद्रपरिखां नृप ।
सोऽपि दग्धाविति मृषा मन्वानो बलकेशवौ ॥ ३८ ॥
सत्यधर्मीया
समुद्र एव परिखा यस्याः सा ताम् । स्वेषां पूस्तां स्वपुरम् । समुद्रपरिखमिति पाठे पुरशब्द इति ज्ञेयम् । मृषा मन्वानो जानन् ॥ ३८ ॥
बलमाकृष्य सुमहन्मगधान् मागधो ययौ ।
अष्टादशे तु सङ्ग्रामे जित्वा यादवसत्तमौ ॥ ३९ ॥
सत्यधर्मीया
जित्वेव भ्रमितो ॥ ३९ ॥
सुमनोरञ्जिनी
मगधान् तन्नामकदेशान्प्रति ययौ । जित्वा जिताविति मत्वेति व्याख्येेयम् । हरिवंशे गोमन्तादधः पुनर्युद्धकथनात् । निर्णये जरासन्धपराजयस्यैव कथनाच्च । अत्र करवीरगमनानन्तरं गोमन्तारोहणमुच्यते । भारते तु गोमन्तादवरोहणोत्तरं करवीरगमनं सृगालवध इत्यादिकमुच्यते । तत्र भारतोक्तप्रकारेणैव कथा ज्ञेया । अत्र कथाव्यत्यासस्त्व-सुरमोहनार्थः । तदुक्तमत्रैव सप्तत्यध्यायतात्पर्ये ‘पूर्वाः कथाः परं ब्रूयुः’ इत्यादि । भारततात्पर्यनिर्णयेऽपि तथोक्तत्वाच्च तथैव ज्ञेयम् ॥ ३९ ॥
दृप्तः स्वराष्ट्रे न्यवसज्जितदिङ्मण्डलो नृप ।
माधवौ तु महात्मानौ प्रविश्य द्वारकां पुरीम् ॥ ४० ॥
सत्यधर्मीया
दृप्तोऽहङ्कृतः ॥ ४० ॥
स्तूयमानौ दिवारात्रं सूतमागधबन्दिभिः ।
वृतावानन्दबहुलैर्बन्धुभिः सुखमूषतुः ॥ ४१ ॥
॥ इति श्रीमद्भागवते दशमस्कन्ध उत्तराधे पञ्चपञ्चाशोऽध्यायः ॥
सत्यधर्मीया
आनन्दो बहुलो येषां ते तैर्वृतौ सुखं यथा तथोषतुः । अत्रा-लक्ष्यमाणावित्युक्तिश्च दग्धा इति मृषा मन्वान इति च करवीरराजहननस्य पूर्वमुक्तिर्हरिवंशे तौ नगादाप्लुतौ दृष्ट्वेत्यारभ्य करवीरपुरं वीर गच्छामः सबलानुगा इति गर्भीकृत्य नगरीं मधुरापुरीं प्राप्तावित्यन्तेनोक्तिश्च कल्पभेदतः प्रवृत्ता इति न विरोधः । आचार्या भारत-तात्पर्यनिर्णये भारतमनुसृत्योचुः ॥ ४१ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे
पञ्चपञ्चाशोऽध्यायः ॥ १०–५५ ॥
सुमनोरञ्जिनी
आनन्दबहुलैर् आनन्दपूर्णैः ॥ ४१ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्यां पञ्चपञ्चाशोऽध्यायः ॥