०६ चतुःपञ्चाशोऽध्यायः

तं विलोक्य विनिष्क्रान्तमुज्जिहानमिवोडुपम्

॥ अथ चतुःपञ्चाशोऽध्यायः ॥

श्रीशुक उवाच–

तं विलोक्य विनिष्क्रान्तमुज्जिहानमिवोडुपम् ।

दर्शनीयतमं श्यामं पीतकौशेयवाससम् ॥ १ ॥

पदरत्नावली

उज्जिहानमुद्यन्तम् ॥ १–५ ॥

सत्यधर्मीया

उज्जिहानमुद्यन्तमुडुपं नक्षत्रत्रातारं श्यामं वर्णतो वयतश्च ॥ १ ॥

सुमनोरञ्जिनी

पुराद् विनिष्क्रान्तम् । उज्जिहानम् उद्यन्तम् । उडुपमिव चन्द्रमिव । दर्शनीयतमम् अवश्यं दर्शनीयं तं विलोक्य ॥ १ ॥

श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ।

पृथुदीर्घचतुर्बाहुं नवकञ्जारुणेक्षणम् ॥ २ ॥

सत्यधर्मीया

कौस्तुभाख्यरत्नसम्य्क्सम्बद्धग्रीवम् । नवकञ्जारुणेक्षणमिति कृष्णस्य वा मुखारविन्दस्य वा विशेषणम् ॥ २ ॥

सुमनोरञ्जिनी

भ्राजता कौस्तुभेन अमुक्तं सदायुक्तं कन्धरं यस्य तम् ॥ २ ॥

नित्यप्रमुदितं श्रीमत्सुकपोलं शुचिस्मितम् ।

मुखारविन्दं बिभ्राणं स्फुरन्मकरकुण्डलम् ॥ ३ ॥

सत्यधर्मीया

नित्यप्रमुदितं सदा सन्तुष्टं श्रीमन्तौ सुशोभनौ कपोलौ यस्य तच्छुचिस्मितं मुखारविन्दं बिभ्राणं दधतं स्फुरन्मकरकुण्डलमिदमपि तथा ॥ ३ ॥

सुमनोरञ्जिनी

नित्यप्रमुदितमित्यादीनि मुखारविन्दविशेषणानि । नित्यं प्रमुदितं प्रमोदसूचकविकासोपेतम् । श्रीमत् कान्तिमत्, शुचि शुभ्रम्, स्मितं यस्मिन् ॥ ३ ॥

वासुदेवो ह्ययमिति पुमान् श्रीवत्सलाञ्छनः ।

चतुर्भुजोऽरविन्दाक्षो वनमाल्यतिसुन्दरः ॥ ४ ॥

दुर्घटभावदीपिका

अत्रेयं योजना । श्रीवत्सलाञ्छनश्चतुर्भुजोऽरविन्दाक्षो वनमाल्यति- सुन्दरः सोऽयं पुमान्वासुदेव इत्येतद्धि प्रमाणप्रसिद्धम् इति नारदप्रोक्तैर्लक्षणैः श्रीवत्स-लाञ्छनत्वादिलक्षणैरयं वासुदेवादन्यो न भवितुमर्हतीति निश्चित्येति वक्ष्यमाणेन सम्बन्ध इति । एतेन वासुदेवो ह्ययमित्यादिपदानामसमन्वय इति शङ्काऽनवकाशः । यत्तच्छब्दा-ध्याहारेणान्वयस्योक्तत्वात् ॥ ४ ॥

सत्यधर्मीया

श्रीवत्सलाञ्छनः पुमानयं वासुदेव एव ॥ ४ ॥

सुमनोरञ्जिनी

‘श्रीवत्सलाञ्छनादिर् वासुदेवः’ इति नारदप्रोक्तलक्षणैरयं पुमान् वासुदेवो हि वासुदेव एव ॥ ४ ॥

लक्षणैर्नारदप्रोक्तैर्नान्यो भवितुमर्हति ।

निरायुधश्चलन् पद्भ्यां योत्स्येऽनेन निरायुधः ॥ ५ ॥

सत्यधर्मीया

नारदप्रोक्तैर्लक्षणैरित्यनुवादेन नारदप्रेषित इत्यत्र लक्षणान्युक्त्वा प्रेषया- मासेति वाद ऊह्यः । धर्मज्ञतां स्फोरयति ॥ निरायुध इत्यादिना ॥ ५ ॥

सुमनोरञ्जिनी

नान्यो भवितुमर्हति । किञ्च अयं पद्भ्यां चरन् निरायुधश्च । अहमपि पद्भ्यां चरन् निरायुधः सन् अनेन योत्स्य इति निश्चित्येति सम्बन्धः ॥ ५ ॥

इति निश्चित्य यवनः प्राद्रवन्तं पराङ्मुखम् ।

अन्वधावज्जिघृक्षुस्तं दुरापमपि योगिनाम् ॥ ६ ॥

पदरत्नावली

जिघृक्षुर्ग्रहणेच्छुः ॥ ६ ॥

सत्यधर्मीया

पराङ्मुखं न तु पराजयाद् अनारब्धत्वाद्युद्धस्य । योगिनां दुराप-मित्यनेनाविज्ञत्वं यवनस्य प्रकटयामास ॥ ६ ॥

सुमनोरञ्जिनी

जिघृक्षुर् गृहीतुमिच्छावान् ॥ ६ ॥

हस्तप्राप्तमिवात्मानं हरिणा स पदे पदे ।

नीतो दर्शयता दूरं यवनेशोऽद्रिकन्दरम् ॥ ७ ॥

पदरत्नावली

दूरमद्रिकन्दरं प्रति नीतः । पदेपदे हस्तप्राप्तमिवात्मानं, दर्शयित्वेति शेषः । दर्शयता आत्मानमिति शेषः ॥ ७ ॥

सत्यधर्मीया

आत्मानं स्वं पदे पदे हस्तप्राप्तमिव दर्शयता हरिणा दूरमद्रिकन्दरं नीतः । इदानीं गृहिष्यामीत्याशामुत्पाद्य दूरं तं चकर्षेत्यर्थः ॥ ७ ॥

सुमनोरञ्जिनी

पदे पदे । आत्मानं स्वं हस्तप्राप्तमिव दर्शयता हरिणा । यवनेशो दूरम् । अद्रिकन्दरं प्रति नीत इत्यन्वयः ॥ ७ ॥

पलायनं यदुकुले जातस्य तव नोचितम् ।

इति क्षिपन्ननुगतो नैनं प्रापाहताशुभः ॥ ८ ॥

पदरत्नावली

अहताशुभो ऽनष्टपापः ॥ ८ ॥

सत्यधर्मीया

यदुकुले जातस्य तव पलायनं नोचितमिति वाचा क्षिपंस्तिरस्कुर्वन् । अहतमनष्टमशुभं यस्य स एनं न प्राप ॥ ८ ॥

सुमनोरञ्जिनी

क्षिपन् निन्दन् । अहताशुभो ऽक्षीणपापः ॥ ८ ॥

एवं क्षिप्तोऽपि भगवान् प्राविशद् गिरिकन्दरम् ।

सोऽपि प्रविष्टस्तत्रान्यं शयानं ददृशे नरम् ॥ ९ ॥

सत्यधर्मीया

एवं वाचा क्षिप्तो भगवान् अद्रिकन्दरमेव प्राविशत् । सोऽपि यवनोऽपि तत्र गिरिकन्दरे शयानमन्यं नरं ददृशे । वस्तुस्थितिकथनमिदम् ॥ ९ ॥

सुमनोरञ्जिनी

क्षिप्तोऽपि दुर्भाषितोऽपि ॥ ९ ॥

नन्वसौ दूरमानीय शेते मामिह साधुवत् ।

इति मत्वाऽच्युतं मूढस्तं पदा समताडयत् ॥ १० ॥

सत्यधर्मीया

अस्मिन्नुत्पन्नकृष्णभ्रमो मनस्येवमालोच्य स्वमरणानुगुणं कार्यमकरो-दित्याह ॥ नन्विति ॥ असौ कृष्णो मां दूरमानीय साधुरिव शेत इत्यच्युतं मत्वा तं शयानं पदा समताडयत् । ताडनादिकमेतत्कारणकमित्याह ॥ मूढ इति ॥ १० ॥

सुमनोरञ्जिनी

तं शयानं नरम् ॥ १० ॥

स उत्थाय चिरं सुप्तः शनैरुन्मील्य लोचने ।

दिशो विलोकयन् पार्श्वे तमद्राक्षीदवस्थितम् ॥ ११ ॥

सत्यधर्मीया

चिरं सुप्त इति शनैर्लोचने उन्मील्य दिशो विलोकयन्पार्श्वेऽवस्थित-मद्राक्षीत् ॥ ११ ॥

सुमनोरञ्जिनी

चिरं बहुकालं सुप्तः । पार्श्वे अवस्थितमिति शेषः ॥ ११ ॥

स तावत् तस्य रुष्टस्य दृष्टिपातेन भारत ।

देहजेनागि्नना दग्धो भस्मसादभवत् क्षणात् ॥ १२ ॥

सत्यधर्मीया

सः कालयवनो यावत्तस्य रुष्टस्य को वा मामनागसमताडयत्पदेति कुपितस्य दृष्टिपातेन हेतुना देहजेन स्वदेहादेव जातेन जातवेदसाऽगि्नना दग्धस्तावदेव क्षणाद्भस्मसादभवत् ॥ १२ ॥

सुमनोरञ्जिनी

तावत् तदा रुष्टस्य क्रुद्धस्य तस्य दृष्टिपातेन यः संदीपितोऽग्निस् तेन । देहजेन स्वदेहजेन । अग्निना ॥ १२ ॥

दुर्घटभावदीपः— स तावदिति ॥ अत्र दृष्टिपातेनेति पदं व्यर्थम् । असङ्गतत्वात् । न च दग्ध इत्यनेन युज्यते । अग्निनेत्यस्य पदस्य सत्त्वात् । न च तयोर्विशेषणविशेष्य-भावः । तत्पुरुषेण बहुव्रीहिणा वा समासेन तद्योगाभावात् । नापि दृष्टिपातोऽग्निकारणम् । देहजेनेत्युक्तत्वात् । देहदृष्टिपातयोरुभयोरग्निकारणत्वमपि दुर्वचम् । अन्यतमस्यान्यथा सिद्धत्वात् । तस्मादयुक्तमुक्तम् । अतोऽर्थान्तरम् । स यवनस्तावत्प्रथमं तावता पत्ताडनेन वा रुष्टस्य मुचकुन्दस्य दृष्टिपातेन । उद्बोधितेनेति शेषः । देहजेन कालयवनदेहोद्भूतेनाग्निना दग्धः सन् क्षणात्तत्क्षणे भस्मसाद् भस्माधीनः । भस्मरूप इति यावत् । अभवत् । अतो नासङ्गतं दृष्टिपातेनेति पदम् ॥ १२ ॥

राजोवाच–

को नाम स पुमान् ब्रह्मन् कस्य किं वीर्य एव वा ।

कस्माद् गुहाङ्गतः शिश्ये किंतेजा यवनार्दनः ॥ १३ ॥

पदरत्नावली

कस्य, पुत्र इति शेषः । यवनमर्दितवान् हिंसितवान् ॥ १३–१४ ॥

दुर्घटभावदीपिका

हे ब्रह्मन् । यः पुमान्गुहां गतः सन् शिश्ये स कः । एतदेव विवृणोति ॥ नामेति ॥ यो गुहां गतः सन् शिश्ये तस्य नाम किम् । यो गुहां गतः सन् शिश्ये सः कस्य वंशे उत्पन्नः । किंवीर्यः कस्य वीर्यं यस्य सः किंवीर्यः । कस्य पुत्र इति यावत् । कस्मान्निमित्ताद्गुहां गतः सन् शिश्ये । यवनार्दनं तेजः किं किन्निमित्तकम् । इति प्रश्नानामुत्तरं वक्तव्यमेव । वाशब्दः प्रश्नसमुच्चय इति । एतेन यो गुहां गतः शिश्ये तस्य नाम किमिति वक्तव्यं तस्य नाम क इति कथनमयुक्तमिति चोद्यं प्रत्युक्तम् । क इति सामान्याकारेण प्रश्नं कृत्वा तस्यैव विवरणं नाम किमित्यादिना क्रियत इत्यभ्युपगमात् । एतेनैव नामेत्यत्र किंशब्दो नास्तीति चोद्यानवकाशः । किं तेजो यवनार्दनमित्यत्र विद्यमानस्य किंशब्दस्याकर्षणेनान्वय इत्यभ्युपगमात् । नामेत्यत्र किंशब्दो नास्तीति चोद्यस्यानवकाशः । एवमेवैवशब्दोऽनन्वित इति दूषणं परिहृतम् । अध्याहृतेनेति प्रश्नानामुत्तरं वक्तव्यमित्यनेनान्वय इत्यभ्युपगमात् ॥ १३ ॥

सत्यधर्मीया

राजा श्रुततदेतव्द्यापारस्तत्स्वरूपादिकं पृच्छति मुनिमित्याह ॥ राजेति । स पुमान् लोचनानलनिर्मूलितकालयवनो नामैव प्रसिद्धः कः किन्नामा जातिर्वा । कस्य पुत्रः किंवीर्यः किं कीदृग्वीर्यं यस्य सः । गुहां गतः कस्माच्छिश्ये । किं तेजो यवनार्दन इति पाठे यवनमर्दयतीति तत्तेजः किं किं रूपमित्यर्थः । किं तेजा यवनार्दन इति पाठे यवानार्दनो यो दृष्टिर्वा तज्जो जातवेदाः किं तेजो इत्युद्देश्यविधेयभावेनान्वयः । यद्वा पदमेकम् । यवनमर्दयतीति यवनार्दनं यस्य स पुमान् क इत्यन्वयः ॥ १३ ॥

सुमनोरञ्जिनी– स पुमान् कः ? किन्नामकः ? कस्य कुले जातः ? किं वीर्यः? कस्य पुत्रः ? अस्य किं तेजः ? येन तेजसा । यवनार्दनो ऽभवत् । शिष्ये शयनं कृतवान् ।

श्रीशुक उवाच–

स इक्ष्वाकुकुले जातो मान्धातृतनयो महान् ।

मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्यसङ्गरः ॥ १४ ॥

सत्यधर्मीया

शुकः परीक्षित्प्रश्नान्परिहरति ॥ स इति ॥ इक्ष्वाकुकुले जातः क्षत्रियजातीयः । कस्येत्युत्तरयति– मान्धातृतनय इति ॥ किन्नामेति परिहरति ॥ मुचुकुन्द इति ख्यात इति ॥ ब्रह्मण्यो ब्रह्मणि हरौ ब्राह्मणजातौ वा साधुर्ब्रह्मण्यस्त-त्पूजापरः । उत्तरकथोपयोगिमाहात्म्यमङ्कुरयति ॥ सत्यसङ्गर इति ॥ प्रामाणिकयुद्धः सत्यप्रतिज्ञो वा । अथ प्रतिज्ञाजिसंविदेत्यमरः ॥ १४ ॥

सुमनोरञ्जिनी

सत्यः सङ्गरो युद्धं यस्य सः ॥ १४ ॥

स याचितः सुरगणैरिन्द्राद्यैरात्मरक्षणे ।

असुरेभ्यः परिभ्रष्टैस्तद्रक्षां सोऽकरोच्चिरम् ॥ १५ ॥

पदरत्नावली

तेषां सुराणां रक्षाम् ॥ १५ ॥

सत्यधर्मीया

कस्माच्छिश्ये किन्तेज इत्यादिकं वक्तुं तदुपोद्धातं रचयति ॥ स इति ॥ इन्द्राद्यैः सुरगणैरात्मरक्षणेऽसुरेभ्यः परित्रस्तैर्याचितः । एतादृशं किमिति मतिमन्तो देवाः समुद्रे प्लवन् गतो निर्भाग्यकरमदीधरदिति नीत्याऽदीधरन्नित्यतो न तथाऽय-मित्यप्याह ॥ येति ॥ या इदं कार्यपर्यवासायकसम्पदाऽऽचितः सम्यक्सम्बद्ध इति हेतोरिति । चिरं तद्रक्षामकरोत् ॥ १५ ॥

सुमनोरञ्जिनी

तेषां सुराणां रक्षाम् ॥ १५ ॥

लब्ध्वा गृहांस्ते स्वःपालं मुचकुन्दमथाब्रुवन् ।

राजन् विरमतां कृच्छ्राद् भवान् नः परिपालनात् ॥ १६ ॥

पदरत्नावली

स्वःपालं स्वर्गरक्षाकरम् । परिपालनाज्जातात् कृच्छ्रात् ॥ १६ ॥

सत्यधर्मीया

ते देवाः स्वस्वगृहान्प्रति व्यूहगृहीन् लब्ध्वा । गुहं स्वःपालं लब्ध्वेति पाठे गुहं षण्मुखं स्वःपालं स्वर्गरक्षकं लब्ध्वा प्राप्येत्यर्थः । एवञ्च स्वःपालं मुचुकुन्दं चाथाब्रुवन् । हे राजन्नः परिपालनादेतज्जातात्कृच्छ्राद्भवानितः परं विरमतात् । व्याङ्परिभ्यो रम इति परस्मैपदता । विरमतामिति पाठे विपूर्वकत्वे परस्मैपदताभाव आर्षः । विश्रमं यातु

॥ १६ ॥

सुमनोरञ्जिनी

ते देवाः स्वःपालं स्वर्गरक्षकम् । अब्रुवन् । किमिति । नः परिपालनाद् यत् कृच्छ्रं तस्मान्निमित्तात् । विरमतां विश्राम्यताम् ॥ १६ ॥

नरलोकं परित्यज्य राज्यं निहतकण्टकम् ।

अस्मान् पालयतो वीर कामास्ते सर्व उज्झिताः ॥ १७ ॥

पदरत्नावली

उज्झितास् त्यक्ताः ॥ १७ ॥

सत्यधर्मीया

निहतकण्टकं राज्यं परित्यज्य नरलोकं च परित्यज्यास्मान्पालयत-स्तव सर्वे कामा उज्झितास्त्यक्ताः ॥ १७ ॥

सुमनोरञ्जिनी

उज्झितास् त्यक्ता इत्यर्थः ॥ १७ ॥

सुता महिष्यो भवतो ज्ञातयोऽमात्यमन्त्रिणः ।

प्रजाश्च तुल्यकालीना नाधुना सन्ति कालिताः ॥ १८ ॥

पदरत्नावली

तुल्यकालीनास्तत्कालसमानजाताः । कालिताः कालेन विनाशिताः

॥ १८ ॥

सत्यधर्मीया

कामांस्तानेव विशदयन्ति ॥ सुता इति । महिष्यो भार्या ज्ञातयो बान्धवा अमात्याश्च ते मन्त्रिण आलोचनपराश्च । सामान्यविशेषभाव इत्यन्ये । तुल्य-कालीनाः समसमयवर्तिन्यः प्रजाश्चाधुना न सन्ति कालिताः संहृताः ॥ १८ ॥

सुमनोरञ्जिनी

मन्त्रिणो ऽमात्यातिरिक्ता आलोचकाः । यद्वा, अमा सहैव समीपे वा तिष्ठन्तीत्यमात्याः । अमा सह समीपे चेत्यमरः । वस्तुतस्तु प्रथमतात्पर्योक्तरीत्या तुल्यकालीनास् त्वत्समानकालीनाः कालिताश् चालिता नष्टा इत्यर्थः ॥ १८ ॥

कालो बलीयान् बलिनां भगवानीश्वरोऽव्ययः ।

प्रजाः कालयते क्रीडन् पशुपालो यथा पशून् ॥ १९ ॥

पदरत्नावली

कालयते उभयपदी । कालः क इति तत्राह– भगवानिति ॥ स्वरूपतोऽवयतोऽपि नाशरहितः ॥ १९–२० ॥

सत्यधर्मीया

बलिनां मध्ये कालो बलीयान् । ईयसुन्निर्धारणषष्ठीलब्धाऽतिबलतो-पपादकः । पुरुतमं पुरूणामित्यृग्भाष्यटीकोक्तप्रकारेण स्वार्थे वेयसुन् । बलिनामित्यस्येश्वर इत्यनेनान्वयो वा । क्रीडन् स्वयमव्यय इति क्रीडेयमिति । प्रजाः कालयते । णिच-श्चेत्यात्मनेपदम् । यथा पशुपालः स्वावसरे तान्भक्षयति तथेति । अनेन कालः कालनकर्तैव न पालयितेति निरस्तम् । पलानां मांसानामयं तत्कामुकः । योग्यतया पश्वित्यस्य सम्बन्धे पशुमांसापेक्षावान्पशून्यथेति वा । पलमेव पालं वा । पलं च माषमांसयोरिति विश्वः । पशूनां पालं यस्यापेक्षणीयमिति सः । पशवश्चाजाद्याः । पशुपालो यथा पशून्न कालयते न तथाऽयमिति व्यतिरेक इति केऽपि । कालयत इत्यनेन तस्मै नम इत्यपि सूचयति ॥१९॥

सुमनोरञ्जिनी

कश्चालयितेति तत्राह ॥ काल इति ॥ कालः क इत्यत उक्तम् ॥ भगवानिति ॥ अव्ययः स्वरूपतो देहतो गुणतश्च नाशरहितः । पशुपालो यथा पशून् कालयते इतस्ततश्चालयति तथेति ॥ १९ ॥

वरं वृणीष्व भद्रं ते ऋते कैवल्यमात्मनः ।

एक एवेश्वरस्तस्य भगवान् विष्णुरव्ययः ॥ २० ॥

दुर्घटभावदीपिका

हे मुचकुन्द । कैवल्यमृते आत्मन आत्मभ्यो वरं वृणीष्व । ते भद्रमस्त्विति । एतेनात्मन इत्येतव्द्यर्थमिति शङ्का परास्ता । आत्मन इति पञ्चम्येकवचनं जातावित्यभ्युपेत्यात्मन इत्यस्यास्मदिति तात्पर्यार्थ इत्यभ्युपगमात् ॥ २० ॥

सत्यधर्मीया

हे राजन् वरं वृणीष्व वरय । ते भद्रमस्तु । यर्हि देयो दयातो वरो हन्त तर्हि दिशतु मुक्तिमिति न वदेति मुखं बध्नन्ति – ऋत इति ॥ आत्मन इति षष्ठ्यन्तं सत् स्वस्येत्यर्थकं द्वितीयाबहुवचनं सदस्मान्वरयेत्यर्थकं चेति ज्ञेयम् । कैवल्य-मपवर्गमृते । ज्ञानसूर्यमृते नान्यस्य स्वातन्त्र्यं तद्वितरण इतीरयन्ति । तस्य कैवल्यस्यैक एव विष्णुर्भगवानव्यय ईश्वरः समर्थः । न समर्थास्तद्दाने वयमिति भावः ॥ २० ॥

सुमनोरञ्जिनी

कैवल्यं मोक्षम् । ऋते विना । ईश्वरः दातुं समर्थः ॥ २० ॥

एवमुक्तः स वै देवानभिवाद्य महायशाः ।

अयाचत गुहाविष्टो निद्रां तु बहुकालिकीम् ॥ २१ ॥

पदरत्नावली

आत्मनस्तु बहुकालिकीम् बहुकालभोग्याम् ॥ २१–२५ ॥

सत्यधर्मीया

एवं देवैरुक्तः सर्वदेवानभिवाद्य नमस्कृत्य गुहाविष्टः सन् बहुकालजां बहुकालभवां निद्रां कुर्यामित्ययाचिष्ट ययाचे ॥ २१ ॥

सुमनोरञ्जिनी

बहुकालिकीं बहुकालभोग्याम् । गुहायाम् आविष्टः । अयाचष्ट अयाचत् ॥

यः कश्चिन्मम निद्राया भङ्गं कुर्यात्सुरोत्तमाः ।

स तु भस्मीभवेदाशु तथोक्तश्च सुरैः सह ॥

स्वापं यन्तं यस्तु मध्ये बोधयेत्त्वात्मचेतनः ।

स त्वया दृष्टमात्रस्तु भस्मी भवतु तत्क्षणात् ॥ २१ ॥

तथेत्युक्तस्तु तैर्देवैर्मुचुकुन्दो महामनाः ।

अशयिष्ट गुहाविष्टो निद्रया देवदत्तया ॥ २२ ॥

सत्यधर्मीया

स्वापयन्तं स्वापं प्राप्तम् । अचेतनं बाह्यस्मरणरहितम् ॥ २२ ॥

यवने भस्मसान्नीते भगवान् सात्वतर्षभः ।

आत्मानं दर्शयामास मुचुकुन्दाय धीमते ॥ २३ ॥

सत्यधर्मीया

तथेति तैर्देवैरुक्तो महामना मुचकुन्दो गुहाविष्टोऽशयिष्ट । अत्रैकश्लोक उत्सन्नः ।

श्लोकस्यैतद्याचनश्लोकपूर्वकत्वावश्यम्भावात् । तत्त्यागे सर्वत्यागोऽस्तु । हरिवंश-शंसितरीत्या कथाया ज्ञातुं शक्यत्वात् । तथा हि हरिवंशे ।

‘पुरा देवासुरे युद्धे कृतकर्मा महाबलः ।

वरेण छन्दितो देवैर्निद्रामेव गृहीतवान् ।

श्रान्तस्य तस्य वागेवं तदा प्रादुरभूत् किल ।

प्रसुप्तं बोधयेद्यो मां तद्दहेयमहं सुराः ।

चक्षुषा क्रोधदीप्तेनेत्येवमाह पुनः पुनः ।

एवमस्त्विति तं शक्र उवाच त्रिदशैः सह ।

स सुरैरभ्यनुज्ञातो मानुषं लोकमागतः ।

स पर्वतगुहां काञ्चित्प्रविश्य श्रमकर्शितः ।

सुष्वाप कालमेतं वै यावत्कृष्णस्य दर्शनम् ।

तत्सर्वं वासुदेवस्य नारदेन निवेदितम् ।

वरदानं च देवेभ्यस्तेजस्तस्य च भूपतेः ।

अनुगम्यमानः कृष्णस्तु तेन म्लेञ्छेन शत्रुणा ।

तां गुहां मुचुकुन्दस्य प्रविवेश विनीतवत् ।

शिरस्थाने तु राजर्षेर्मुचुकुन्दस्य केशवः ।

सन्दर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वर’ इति ।

निद्रया देवदत्तया वरसम्पदा यवने भस्मसान्नीते भस्माधीने तद्रूप इति यावत् । सात्व-तर्षभो भगवान् हे मुचकुन्देत्यात्मानं तं दर्शयामासेत्यन्वयः । गतिबुद्धीत्यादेः । अयधीरिति गतबुद्धिरिति मतोऽयधीमतस्तस्मिन् यवन इत्यन्वयः । विवक्षाभावे मुचकुन्दाय धीमते आत्मानं दर्शयामासेत्यन्वय इति वा ॥ २२,२३ ॥

सुमनोरञ्जिनी

अशयिष्ट शेते स्म ॥ २३ ॥

तमालोक्य घनश्यामं पीतकौशेयवाससम् ।

श्रीवत्सवक्षसं भ्राजत्कौस्तुभेन विराजितम् ॥ २४ ॥

सत्यधर्मीया– महाबुद्धिस्तं पर्यपृच्छदित्यनेनान्वय इति विशेषकम् । घनवच्छ्यामः

॥ २४ ॥

चतुर्भुजं रोचमानं वैजयन्त्या च मालया ।

चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ २५ ॥

सत्यधर्मीया

यावद्वनमाल्या ॥ २५ ॥

सुमनोरञ्जिनी

रोचमानं शोभमानम् । वैजयन्त्या वनमालया च ॥ २५ ॥

प्रेक्षणीयं त्रिलोकस्य सानुरागस्मितेक्षणम् ।

आपीच्यवयसं मत्तमृगेन्द्रोदारविक्रमम् ॥ २६ ॥

पदरत्नावली

त्रिलोकस्य मध्ये दर्शनीयगुणम् ॥ २६ ॥

सत्यधर्मीया

त्रिलोकस्य प्रेक्षणीयं दृश्यम् । कृत्यानां कर्तरि वेति षष्ठी । त्रिलोकस्य मध्ये दर्शनीयमिति वा । आपीच्यवयसं गतम् ॥ २६ ॥

सुमनोरञ्जिनी

त्रिलोकस्य कर्तरि षष्टी । त्रिलो(क्ये)केत्यर्थः । त्रिलोकस्य मध्ये प्रेक्षणीयमिति वा । आपीच्यवयसं षोडशवार्षिकम् ॥ २६ ॥

पर्यपृच्छन्महाबुद्धिस्तेजसा तस्य विस्मितः ।

शङ्कितः शनकै राजा दुर्धर्षमतितेजसा ॥ २७ ॥

पदरत्नावली

अतितेजसा अधिकतेजसा ॥ २७ ॥

सत्यधर्मीया

तस्यातितेजसा तेजांस्यतिक्रम्य विद्यमानं तेन तेजसाऽपूर्वेण शङ्कितः झडिति प्रष्टं संशयः शनकैर्दुर्धर्षं पर्यपृच्छत् ॥ २७ ॥

सुमनोरञ्जिनी

राजा मुचकुन्दः । तेजसा अतिदुर्धर्षं भगवन्तं प्रति पर्यपृच्छदिति सम्बन्धः ॥ २७ ॥

मुचुकुन्द उवाच–

को भवानिह सम्प्राप्तो विपिने गिरिगह्वरे ।

पद्भ्यां पद्मपलाशाभ्यां विचरस्युरुकण्टके ॥ २८ ॥

पदरत्नावली

गिरिगह्वरे प्रवेष्टुमशक्ये ॥ २८ ॥

सत्यधर्मीया

उरुकण्टके गिरिगह्वरे पद्मपलाशाभ्यां पद्भ्यां विचरसि भवान् कान्तिमानिह सम्प्राप्तस्त्वं कः । इहसम् ऐः मन्मथस्य हसोपहासो यथा प्राप्त इति वा । मन्मथव्यथाजनकसौन्दर्यवानिति तात्पर्यम् । दीप्तिर्भाभश्चेत्यनेकार्थध्वनिपदमञ्जरी ॥ २८ ॥

सुमनोरञ्जिनी

पद्मस्य पलाशाविव पद्मपलाशौ । ताभ्याम् ॥ २८ ॥

किंस्वित्तेजस्विनां तेजो भगवांस्त्वं विभावसुः ।

सूर्यः सोमो महेन्द्रो वा लोकपालोऽपरोऽपि वा ॥ २९ ॥

पदरत्नावली

तेजस्विनां ज्योतिष्मतां पुञ्जीभूतमेकं तेजः किंस्वित् ? सामान्योक्तं विशिनष्टि– भगवानिति ॥ २९ ॥

सत्यधर्मीया

तेजस्विनां तेजः समुदितं किंस्वित् । भगवान्विभावसुरगि्नः किंस्वित् सूर्यः सोमश्चन्द्रश्चन्द्रशेखरो वा । उमया सहितः सोम इति विग्रहः । अपरो लोकपालो नाकपालादिर्वा ॥ २९ ॥

सुमनोरञ्जिनी

तेजस्विनां ज्योतिष्मतां तेजस् तेजःप्रदो भगवान् विष्णुः किंस्वित् । ज्योतिषां ज्योतिरिति श्रुतेः । उत विभावसुर् अग्निः ॥ २९ ॥

**मन्ये त्वां देवदेवानां त्रयाणां पुरुषर्षभम् । **

यद् भाससे गुहाध्वान्तं प्रदीपः प्रभया यथा ॥ ३० ॥

पदरत्नावली

त्रयाणां ब्रह्मविष्णुशिवानां मध्ये पुरुषर्षभं पुरुषश्रेष्ठं विष्णुं मन्ये । यद्वा त्रयाणां ब्रह्मरुद्रेन्द्राणां त्रेताग्नीनां वा । तत्र हेतुमाह– यदिति ॥ गुहाध्वान्तमित्युप-लक्षणम् । ब्रह्माण्डगुहाव्यापितिमिरमपि । प्रदीपो न गृहान्तवर्तिज्योतीरूपं परं न गृह्यते किन्तु सूर्योऽपि ॥ ३० ॥

सत्यधर्मीया

सहसैवं वितर्क्य सर्वत्रारुचिमान्निष्कृष्य वक्ति ॥ मन्य इति ॥ हे देव देवानां त्रयाणां हरिहरहिरण्यगर्भाणां मध्ये पुुरुषर्षभं पुरुषं श्रेष्ठं विष्णुं मन्ये । स्वमननमन्यथानुपपत्त्योपोद्बलयति ॥ यदिति ॥ प्रदीपः प्रभया यथा ध्वान्तं परिहरति तथा यद्यतो गुहाध्वान्तं गुहायां ध्वान्ताभावो यथा तथा भाससे । न विष्णोरन्यस्यैवंविधं भानं सम्भवत्यतस्त्वं स एवेति भावः । गुहाया आध्वान्तं मार्गान्तप्रदेशपर्यन्तं भासस इति वा । हृदयगुहाध्वान्तमज्ञानं यथा न तथा भाससे । त्वद्दर्शनमात्रेणेयान्विमर्शो मम जात इति भावः । यद्बाधस इति पाठः सरलो विरलार्थश्च ॥ ३० ॥

सुमनोरञ्जिनी

इति संशय्य सम्भावयति ॥ मन्य इति ॥ देवदेवानां ब्रह्मविष्णु-शिवानां मध्ये । पुरुषर्षभं क्षराक्षरपुरुषश्रेष्ठम् । विष्णुं मन्ये सम्भावये । तत्र हेतुमाह ॥ यदिति ॥ गुहाध्वान्तं गुहायां विद्यमानमन्धकारम् । ब्रह्माण्डाख्यगुहाव्यापिध्वान्तं वा । हृदयगुहाव्यापि अज्ञानलक्षणं तिमिरं वा । बाधसे परिहरसि । प्रदीपः दीपः सूर्यो वा । त्वद्दर्शनेन ममाज्ञानं नष्टमिवाभाति । अतस्त्वं विष्णुरेवेति भावः ॥ ३० ॥

शुश्रूषतामव्यलीकमस्माकं नरपुङ्गव ।

स्वजन्मकर्मगोत्रं वा कथ्यतां यदि रोचते ॥ ३१ ॥

पदरत्नावली

अव्यलीकं सत्यम् । शुश्रूषतां श्रोतुकामानाम् ॥ ३१ ॥

सत्यधर्मीया

शुश्रूषतां श्रोतुमिच्छूनामव्यलीकमनृतं सत्यमिति यावत् । स्वजन्म तत्कर्म गोत्रं वा यदि रोचते तुभ्यं मां प्रति वक्तव्यमिति तर्हि कथ्यताम् ॥ ३१ ॥

सुमनोरञ्जिनी

एवं सम्भावयित्वा निश्चयार्थं पृच्छति । शुश्रूषतां श्रोतुमिच्छताम् । अव्यलीकं यथार्थम् । कथ्यतामित्यन्वयः ॥ ३१ ॥

वयं तु पुरुषव्याघ्र ऐक्ष्वाकाः क्षत्रबन्धवः ।

मुचुकुन्द इति ख्यातो यौवनाश्वात्मजः प्रभो ॥ ३२ ॥

पदरत्नावली

ऐक्ष्वाका इक्ष्वाकुकुले जाताः ॥ ३२–३४ ॥

दुर्घटभावदीपिका

हे पुरुषव्याघ्र प्रभो । वयं त्वैक्ष्वाका इक्ष्वाकुकुलोत्पन्ना अत्र क्षत्रबन्धवः क्षतात्त्राणं कुर्वतां बन्धवो यौवानाश्वात्मजो मुचकुन्द इति प्रोक्तः प्रोक्ता इति । एतेन वयमित्युक्तत्वान् मुचुकुन्द इति प्रोक्ता इति वक्तव्यं प्रोक्त इत्येकवचनप्रयोगोऽनुपपन्न इति चोद्यं परिहृतम् । प्रोक्त इत्येकवचनं बहुवचनादेश इत्यङ्गीकारात् ॥ ३२ ॥

सत्यधर्मीया

अहं तु मम सर्वं वच्मि त्वं कः प्रवद इति प्रश्नतः प्राक् स्वस्वरूपा-दिकं स्वयमेवाह– वयं त्विति ॥ पुरुषव्याघ्र ऐक्ष्वाका इत्यत्र विवक्षाभावान्न वृद्धिः । पुरुषव्याघ्रे त्वयि विज्ञापयाम इति विशेषणान्वयो वा । ऐक्ष्वाका इक्ष्वाकुकुलजा बहुत्वे तद्राजलुगभाव आर्षः । दाण्डिनायननिपातितश्चैक्ष्वाकशब्दः । क्षत्रबन्धवः क्षत्रियास्तत्रापि युवनाश्वापत्यं मान्धाता तदपत्यमहमिति यौवनाश्वात्मजो मुचुकुन्द इति प्रोक्तः । यद्यप्यनुशासनसिद्धं वयन्त्विति बहुवचनम् । तथाऽपि प्रतीयेताहंता तेन नाहं तादृश इति पुनरेकवचनतो वक्ति । मुचुकुन्द इति प्रोक्त इत्यादिना ॥ ३२ ॥

सुमनोरञ्जिनी

ऐक्ष्वाका इक्ष्वाकुकुले जाताः । वयमिति स्ववंश्यविवक्षया बहुवचनम् । तत्र अहं यौवनाश्वात्मजः । यौवनाश्वो मान्धाता । तस्य पुत्रः ॥ ३२ ॥

चिरप्रजागरश्रान्तो निद्रयोपहतेन्द्रियः ।

शयेऽस्मिन् विपिने कामं केनाप्युत्थापितोऽधुना ॥ ३३ ॥

सत्यधर्मीया

चिरं प्रजागरेण रणकरणक्षणे । कामं यथेच्छं शये । अधुना केनापि पुरुषेणोत्थापितः ॥ ३३ ॥

सुमनोरञ्जिनी

श्रान्त इति हेतुगर्भविशेषणम् । उपहतेन्द्रियः । शये सुप्तोऽभूवम्

॥ ३३ ॥

सोऽपि भस्मीकृतो नूनमात्मीयेनैव पाप्मना ।

अनन्तरं भवान् श्रीमान् लक्षितोऽमित्रशासनः ॥ ३४ ॥

सत्यधर्मीया

आत्मीयेन पाप्मनैव सोऽपि मदुत्थापको भस्मीकृतोऽनन्तरममित्र-शासनः श्रीमान्भवांल्लक्षितः ॥ ३४ ॥

सुमनोरञ्जिनी

सोऽपि मन्निद्राभङ्गकार्यपि स्वपापेनैव भस्मीकृतः ॥ ३४ ॥

तेजसा तेऽविषह्येण भूरि द्रष्टुं न शक्नुमः ।

हतौजसो महाभागा माननीयोऽसि देहिनाम् ॥ ३५ ॥

पदरत्नावली

हतौजसः नष्टतेजसः ॥ ३५ ॥

दुर्घटभावदीपिका

अविषह्यानिर्दुष्टेनैव तेजसा त्वां भूरि द्रष्टुमशक्नुमः । न शक्नुम इति । एतेन न शक्नुम इति कथनमयुक्तमिति दूषणं निरस्तम् । अ शक्नुम इति पदद्वयमङ्गीकृत्य अ शब्दस्य सम्बुद्ध्यन्तत्वं निर्दुष्टार्थकत्वं शक्नुम इत्यस्य काकुस्वर-विशिष्टत्वेन न शक्नुम इत्यर्थकत्वमित्यङ्गीकारात् ॥ ३५ ॥

सत्यधर्मीया

अविषह्येण ते तेजसा त्वा भूरि द्रष्टुं हतौजसो हतं मुष्टं तेजो नायनं येषां ते तथा सन्तो विस्पष्टं द्रष्टुं न शक्नुमः । बहुवचनेन मादृशा बहवोऽसमर्था इति ध्वनयति । अतो देहिनां प्रशस्तशरीरवतां सतां माननीयस्त्वमसि । लोकचेष्टक त्वं देहिनामननीयश्चेष्टकोऽसीति वा ॥ ३५ ॥

सुमनोरञ्जिनी

अविषह्येण अप्रतिहतेन । हतौजसः प्रतिहतान्तःसामर्थ्याः ॥ ३५ ॥

एवं सुभा (सम्भा)षितो राज्ञा भगवान् भूतभावनः ।

प्रत्याह प्रहसन् वाण्या मेघह्रादगभीरया ॥ ३६ ॥

पदरत्नावली

ह्रादो निःस्वनः ॥ ३६ ॥

सत्यधर्मीया

एवं राज्ञा सुभाषितो भूतभावनः भगवान् । तं प्रति प्रहसन्मेघानां ह्रादो निर्ह्रादस्तद्वद्गभीरया वाण्याऽऽह प्रति सम्यगाहेति वा । तृतीयस्कन्धे प्रत्यङ्कमुख्याङ्कितमन्दिराणीति श्लोकतात्पर्यटीकाभ्यां ब्रह्मा प्रत्यङ्कवान्विष्णुः सम्यग्लक्षणवत्तम इति तन्त्रमालायां प्रतिशब्दः सम्यगर्थ इत्युक्तेः प्रतिशब्दः सम्यगर्थकः । प्रति तदाभिमुख्येन स्थितः । यथोक्तं तु प्रतिनरमित्यृग्भाष्यटीकयोः प्रतिः प्रतिस्थश्च प्रतिरयमुपसर्गः । उपसर्गाश्च सति क्रियावचने तत्सम्बन्धिनो भवन्ति । असति ससाधनं क्रियामाहुः । तुविर्महांश्चासौ प्रतिः प्रतिस्थश्चेतीति । प्रत्याहेत्यखण्डतायां झडिति निराहेत्येव भायान्न भातव्यं तथेति व्याकृतिरेवमिति ज्ञेयम् ॥ ३६ ॥

सुमनोरञ्जिनी

ह्रादो ध्वनिः ॥ ३६ ॥

श्रीकृष्ण उवाच–

जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः ।

न शक्यन्तेऽनुसङ्ख्यातुमनन्तत्वान्ममापि हि ॥ ३७ ॥

पदरत्नावली

ममापि सङ्ख्यातुं न शक्यन्ते । कुतः? अनन्तत्वात् । अतोऽनन्तानामनन्ता इत्येव परिसङ्ख्यानम् । अन्यथानन्तत्वहानिः ॥ ३७ ॥

सत्यधर्मीया

स्वजन्म कर्मगोत्रं वा कथ्यतां यदि रोचत इत्युत्तरयति ॥ जन्मेति । जन्मानि कर्माण्यभिधानानि च । अङ्ग मुचुकुन्द । सहस्रशोऽपराणि सन्ति । तव जन्मादीयताज्ञा वर्तेतेति नेत्याह ॥ नेति ॥ न शक्यन्तेऽनुमातुं, शक्यन्तेऽनु-सङ्ख्यातुमिति च पाठौ । सङ्ख्यं भजतो मातुं सङ्ख्यातुमित्यर्थः । कुतोऽनन्तत्वान् ममापि हि । न ह्यनन्तमन्यान्प्रति यत्तन्नानन्तमनन्तप्रतीतिः (?) सम्भवति ।

उक्तं चैकादशतात्पर्ये –

‘अनन्तमिति वेत्तीशस्त्वनन्तमन्तवत्तया ।

अनन्तस्य तु सङ्ख्याने न तु सर्वज्ञता भवेत्’ इत्यादि ॥

मेङ्गेत्यत्र मा इङ्गेति छेदः । सङ््ख्यातुं मा इङ्ग न गच्छ प्रयत्नं न कुर्विति यावदिति वा । अतो म इत्यस्य ममेत्यस्य वाऽऽवृत्त्या च सम्भवे एकस्यातिरेक इति निरस्तम् ॥ ३७ ॥

सुमनोरञ्जिनी

जन्मानि अवताररूपाणि । कर्माणि । अभिधानानि नामानि च । सहस्रशो ऽनेकशः सन्ति । तानि ममापि सङ्ख्यातुं न शक्यन्ते । किम्वन्येषामिति कैमुत्ये अपिशब्दः । तव सर्वज्ञत्वात् कुतो न सङ्ख्यातुं शक्यन्त इत्यत उक्तम् ॥ अनन्त-त्वादिति । सङ्ख्याशून्यत्वादिति यावत् । सङ्ख्यारहितेषु सङ्ख्याज्ञाने भ्रान्तिप्रसङ्गात् । नैतावता सर्वज्ञत्वहानिः । विद्यमानसर्वपदार्थज्ञत्वस्यैव तद्रूपत्वादिति भावः ॥ ३७ ॥

कश्चिद्रजांसि विममे पार्थिवान्युरुजन्मभिः ।

गुणकर्माभिधानानि न मे जन्मानि कर्हिचित् ॥ ३८ ॥

पदरत्नावली

अनन्तत्वमाह– कश्चिदिति । कश्चित् क व ब्रह्मैव । सोऽपि मे जन्मानि गुणकर्माभिधानानि न विममे ॥ ३८ ॥

सत्यधर्मीया

विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसीति श्रुति-फक्किकामर्थतः सङ्गृह्य कथयति ॥ कश्चिदिति ॥ कश्चित्पुमानुरुजन्मभिः पार्थिवानि रजांसि धूलीर्विममे गणयाञ्चकार । सोऽपि मे मम गुणकर्माभिधानानि जन्मानि च कर्हिचिदपि न विमिमीते । यदाकदाचिद्येनकेनापि रजःकणगणनं कर्तुं शक्यम् । न मम गुणकर्मादि-गणनमिति भावः । स्वजन्मकर्मगोत्रं वेति मुचुकुन्दप्रार्थनायां जन्मकर्माभिधानानि सन्ति मे । जन्मकर्माणि मे नृपेति पूर्वेत्तरस्ववाक्ययोश्च जन्मनां कर्मादित्वेनोक्तावपि मध्ये गुणकर्माभि-धानानि न जन्मानीति तेषां कर्माद्यनन्तरोदाहरणेन न जननानीति भगवद्भाव इत्यवसेयम्

॥ ३८ ॥

सुमनोरञ्जिनी

कश्चिद् ब्रह्मैवेति पदरत्नावली । अनेन विष्णोर्नुकं वीर्याणीति श्रुत्यर्थ उक्तो भवति । कश्चिद् ब्रह्मा पार्थिवानि रजांसि । विममे गणयामास सोऽपि उरुजन्मभिरपि अनेकजन्मभिरपि मे जन्मानि गुणकर्माभिधानानि च । कर्हिचित् कदाचिदपि न विममे न गणयति ॥ ३८ ॥

कालत्रयोपपन्नानि जन्मकर्माणि मे नृप ।

अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ॥ ३९ ॥

पदरत्नावली

अनुक्रमन्तो निरन्तरं पठन्तः ॥ ३९–४० ॥

सत्यधर्मीया

कालत्रयोपपन्नानि युगत्रयसम्बद्धानि मे मम जन्मानि कर्माणि परमर्षयो महाज्ञाना अनुक्रमन्तो निरन्तरं वक्तुमुद्यता अपि नान्तं गच्छन्ति न पारयन्ति ॥ ३९ ॥

सुमनोरञ्जिनी

कालत्रये उपपन्नानि तत्तत्कालानुगुणानि । अनक्रमन्तः निरन्तरं पठन्तो गणयन्तो वा ॥ ३९ ॥

तथाप्यद्यतनान्यङ्ग शृणुष्व गदतो मम ।

प्रार्थितस्तु विरिञ्चेन पुराऽहं धर्मगुप्तये ॥ ४० ॥

सत्यधर्मीया

तर्हि प्रष्टुर्ममैवाविवेक इति न वद किञ्चिद्वच्मीति वक्ति ॥ तथाऽ-पीति ॥ अद्यतनान्येतत्कालभवानि गदतो मम सकाशाच्छृणुष्व । धर्मगुप्तये तद्रक्षायै ॥४०॥

भूमेर्भारायमाणानामसुराणां क्षयाय च ।

अवतीर्णो यदुकुले गृह आनकदुन्दुभेः ॥ ४१ ॥

पदरत्नावली

भारायमाणानां भारवदाचरताम् । ‘‘कर्तुः क्यङ् सलोपश्च’’ इति पाणिनिः । गृहे भार्यालक्षणे ॥ ४१ ॥

सत्यधर्मीया

सैवं सिद्ध्यतीत्याह ॥ भूमेरिति ॥ आनकदुन्दुभेर्गृहे भार्यायाम् । आनकदुन्दुभेर्गृहे गदतो गदनामकात्पुरा पूर्वमेवावतीर्ण इत्यन्वयः । गदाग्रज इत्यर्थः ॥४१॥

सुमनोरञ्जिनी

गृहे भार्यायाम् ॥ ४१ ॥

वदन्ति वासुदेवेति वसुदेवसुतेति माम् ।

कालनेमिर्हतः कंसः प्रलम्बाद्याश्च सद्द्विषः ॥ ४२ ॥

पदरत्नावली

निमित्तं कथयति– वसुदेवेति ॥ ४२ ॥

सत्यधर्मीया

नामापि सनिरुक्तिकं वक्ति ॥ वदन्तीति ॥ वासुदेवेति ॥ वसुदेव-सुतं तत्त्वाद्वदन्ति । हीति पुराणान्तरनिर्वचनसूचकम् । कालनेमिः प्राक् कंस इदानीं प्रलम्बाद्या सद्द्विषः सद्वैरिणः । अनेन बलोऽपि मद्बलत एवावधीत्प्रलम्बमिति ध्वन्यते ॥ ४२ ॥

सुमनोरञ्जिनी

वासुदेवेति वदन्ति सम्बोधयन्ति । वासुदेवेति नाम्ना वदन्तीति वा । तत्र निमित्तमाह ॥ वसुदेवेति ॥ सद्द्विषः सद्भ्यो द्विषन्तीति तथोक्ताः ॥ ४२ ॥

अयं च यवनो दग्धो राजंस्ते तिग्मचक्षुषा ।

सोऽहं तवानुग्रहार्थं गुहामेतामुपागतः ॥ ४३ ॥

पदरत्नावली

तिग्मचक्षुषा चण्डानाग्निना ॥ ४३–४६ ॥

सत्यधर्मीया

तिग्मचक्षुषा तदगि्नना सोऽहं तव त्वदुपरि ॥ ४३ ॥

सुमनोरञ्जिनी

तिग्मचक्षुषा तिग्मेन तीक्ष्णेन अग्न्युद्गारिणेति यावत् । चक्षुषा नेत्रेण । नेत्राग्निनेति फलितोऽर्थः ॥ ४३ ॥

प्रार्थितः प्रचुरं पूर्वं त्वयाऽहं भक्तवत्सलः ।

वरान् वृणीष्व राजर्षे सर्वान् कामान् ददामि ते ॥ ४४ ॥

मां प्रपन्नो जनः कश्चिन्न भूयोऽर्हति शोचितुम् ॥ ४५ ॥

सत्यधर्मीया

मम तव चानुबन्धः प्राचीनो वर्तत इत्याह ॥ प्रार्थित इति । भक्तवत्सलोऽहं त्वया पूर्वं प्रचुरं यथा तथा प्रार्थितः । वरानुत्तमान्कामान्वृणीष्व तान्सर्वांस्ते ददामि । मां प्रपन्नो जनो भूयः शोचितुं नार्हति सः । मां सम्पदं प्रपन्न एवेत्यावृत्त्याऽन्वयः

॥ ४४,४५ ॥

सुमनोरञ्जिनी

सोऽहं यो वसुदेवगृहेऽवतीर्णः स इत्यर्थः । यस्मात्पूर्वं त्वया प्रार्थितस् तस्मादेतां गुहामुपागतः । प्रार्थनेऽपि कुत आगन्तव्यमित्यत उक्तम् ॥ भक्तेति । यतोऽहं भक्तवत्सलो ऽतो भक्तेन त्वया प्रार्थित एतां गुहामुपागत इति सम्बन्धः । कामान् काम्यान् । गर्गवाक्यम् ॥ ४५ ॥

श्रीशुक उवाच–

इत्युक्तस्तं प्रणम्याह मुचुकुन्दो मुदान्वितः ।

ज्ञात्वा नारायणं देवं गर्गवाक्यमनुस्मरन् ॥ ४६ ॥

सत्यधर्मीया

गर्गवाक्यं स्वं प्रति प्रागुक्तम् ॥ ४६ ॥

सुमनोरञ्जिनी–– मुमुक्षुणा विषयवैराग्यमेव सम्पादनीयं न तु कामवरः प्रार्थनीय इति दर्शयितुं मुचुकुन्दमहाराजस्य विरक्तिप्रकारं प्रदर्शयन्नाह ॥ मुचकुन्द इति ॥ ४६ ॥

मुचुकुन्द उवाच–

विमोहितोऽयं जन ईश मायया त्वदीयया त्वां न भजत्यनर्थदृक् ।

सुखाय दुःखप्रभवेषु सज्जते गृहेषु योषित् पुरुषश्च वञ्चितः ॥ ४७ ॥

पदरत्नावली

अनर्थदृक् स्वपुरुषार्थदर्शी न भवतीत्यर्थः । यद्वा अनर्थं संसारमर्थं पश्यतीति । दुःखप्रभवेषु दुःखहेतुषु । पुरुषेण वञ्चिता योषित् तया पुनः पुरुषश्च वञ्चितः

॥ ४७ ॥

सत्यधर्मीया

मुकुन्दमुचकुन्दसंवादो हरिभक्त्यङ्कुरप्ररोहकः श्रोतॄॄणामिति मतिमान्स एवं वासुदेवमुवाचेत्याह ॥ मुचुकुन्द उवाचेति ॥ हे ईश अयं जनस्त्वदीयया त्वदधीन-प्रकृतिरूपिण्या तवेच्छारूपिण्या च विमोहितः सन् त्वां न भजति । अर्थमर्यत इत्यर्थः । स्वप्राप्यस्तं पश्यति सोऽर्थदृक् स नेत्यनर्र्थदृक् । नित्यपुमर्थभूतत्वदनवलोकक इत्यर्थः । अनर्थमर्थान्यं संसारादिकं पश्यतीति वा । सुखाय तत्प्राप्त्यर्थं दुःखप्रभवेषु दुःखस्य प्रभव उत्पत्तिर्येभ्यस्तेषु गृहेषु । जन इत्युक्तविभजनं करोति ॥ योषित्पुरुषश्चेति ॥ पुरुषेण वञ्चित इत्युचितविपरिणामेनान्वेति । वञ्चिता योषिद्वंचितः पुरुष इति । योषित्पुरुषः पुरुषापदेशो योषिदधीरत्वात् । दुःखसाधनेषु सुखसाधनताभ्रमजनककर्मणा वञ्चितः सज्जते न धीरः पुमानित्ययं भामिनीसम इति वा ॥ ४७ ॥

सुमनोरञ्जिनी–– किमुवाचेत्यतस्तदाह ॥ विमोहित इति । हे ईश । योषित्पुरुष-श्चेत्ययं जनः । अनर्थदृक् अनर्थं दुःखं पश्यतीति तथोक्तः । सर्वतो दुःखदर्शनवानपि । त्वदीयया मायया । विमोहितः सन् । दुःखहरं त्वाम् । सुखाय न भजति । किन्तु त्वदीयया मायया वञ्चितः सुखाय सुखमुद्दिश्य । दुःखप्रभवेषु दुःखहेतुषु गृहेषु । तदादिषु सज्जते सक्तो भवति । अनर्थदृक् स्वपुरुषार्थदर्शी न भवतीति वा ॥ ४७ ॥

लब्ध्वा जनो दुर्लभमत्र मानुषं कथञ्चिदप्यङ्गमयत्नतोऽनघ ।

**पादाम्बुजं ते न भजत्यसन्मतिर्गृहान्धकूपे पतितो यथा पशुः ॥ ४८ ॥ **

पदरत्नावली

मायया मोहितत्वमुपपादयति– लब्ध्वेति ॥ अत्र कर्मभूमौ । मानुष-मङ्गं देहम् । असत्सु विषयेषु मतिर्यस्य स तथा । अन्धकूपे पतितः पशुर्यथा स्वरूपं न भजति तथा गृहलक्षणान्धकूपे ॥ ४८ ॥

सत्यधर्मीया

मुख्यया त्वदिच्छयाऽमुख्यया प्रकृत्या निमित्तेन स्वकर्मणा च विमोहित इत्युक्तं मोहितत्वं विशदयति ॥ लब्ध्वेति ॥ हे अनघ । जनोऽयत्नतः प्रयत्नं विना कथञ्चित् केनाप्येकेन सुकर्मणा । अत्र संसारेऽसारे दुर्लभं दुष्प्रापं मानुषं मङ्गलं लब्ध्वाऽप्यसन्मतिर् असत् सद्भिन्नत्वादसद्विषयजातं तत्र मतिर्यस्य गृहरूपान्धकूपे पतितः पशुः स्वोत्तारकर्मचक्षाणोऽपि तत्र तृणादिचरणतो भवति तथा पादारविन्दं त्यजति ॥ ४८ ॥

सुमनोरञ्जिनी

तदेव विशदयति ॥ लब्ध्वेति ॥ अत्र कर्मभूमौ । कथञ्चिज् जन्मान्तराराधितभगवत्प्रसादेन । अयत्नतः स्वप्रयत्नमन्तरा । भगवदनुग्रहेणैवेति यावत् । दुर्लभं मानुषम् । अङ्गं देहम् । लब्ध्वापि । असन्मतिर् दुर्बुद्धिर् अयं जनः, असत्सु विषयेष्वेव मतिर्यस्येति वा । बुद्धिशून्य इति वा । सन् ते पादारविन्दं न भजति किन्तु विषयाशया गृहांधकूपे एव पतितो भवति । तत्र दृष्टान्तः ॥ यथा पशुरिति ॥ ४८ ॥

ममैष कालोऽजित निष्फलो गतो राज्यश्रियोन्नद्धमदस्य भूपतेः ।

मर्त्यात्मबुद्धेः सुतदारकोशेष्वासज्जमानस्य दुरन्तचिन्तया ॥ ४९ ॥

पदरत्नावली

मर्त्यात्मबुद्धेर्देहात्मबुद्धेः ॥ ४९ ॥

सत्यधर्मीया

स्वानुभूतं भूतनाथं प्रति विज्ञापयति ॥ ममेति ॥ हेऽजित । एष एतावान्कालो राज्यश्रियोन्नद्धो मदोऽहन्ता यस्य स तस्य । भूपतेर्मर्त्ये शरीरे आत्मन इति ममेति बुद्धिर्यस्य तस्य । सुतदारकोशेष्वासज्जमानस्य मम दुरन्ता चैतत्पोषादिविषयिणी च सा चिन्ता च तया निष्फलो गतः । न नित्यं फलं सम्पादितमित्यर्थः ॥ ४९ ॥

सुमनोरञ्जिनी

मम । एषो ऽतीतः कालः निष्फल एव गतः । कुत इत्यतः राज्यश्रियेत्यादि । राज्यश्रिया । उन्नद्धो ऽभिवृद्धः मदो यस्य । मर्त्यात्मबुद्धेः । मर्त्ये देहे आत्मेति अहमिति बुद्धेः स्फुटतरविवेकरहितस्येति यावत् ॥ ४९ ॥

कलेवरेऽस्मिन् घटकुड्यसन्निभे निरूढमानो नरदेव इत्यहम् ।

वृतो रथेभाश्वपदात्यनीकपैर्गां पर्यटंस्त्वामगणय्य दुर्मदः ॥ ५० ॥

पदरत्नावली

देहात्मबुद्धित्वं दर्शयति– कलेवर इति ॥ दुरन्तविषयचिन्तया दुष्टो मदो विद्याभिजनलक्षणो यस्य स तथा ॥ ५० ॥

दुर्घटभावदीपिका

अहं रथेभाश्वपदात्यनीकपैर्वृतः सन् तत्तत्क्षेत्रस्थितं त्वामगणय्य । तत्तत्क्षेत्रस्थितत्वद्भजनादिकमकुर्वन्निति यावत् । गां भूमिं पर्यटन् अभूवमिति । एतेन त्वामगणय्य दुर्मद इत्यनेनैव पूर्णत्वाद् गां पर्यटन्नित्येतव्द्यर्थमिति दूषणं निरस्तम् । पर्यटनकाले तत्तत्क्षेत्रस्थितभगवद्भजनादिकं कर्तव्यम् । तन्न कृतमित्यत्र तात्पर्यात् ॥५०॥

सत्यधर्मीया

घटसन्निभे कुड्यसन्निभे घटैरेव विना मृदमेकस्योपर्येकस्थापनेन निर्मिते कुड्य इति वा । अनेन तीव्रव्रजनं ध्वनयति । कलेवरे शरीरेऽहं नृदेवो नृप इति निरूढो दृढो मानो मनःसमुन्नतिरहन्ता वा तद्वानहम् । रथेभाश्वपदात्यनीकपैर्वृतस्त्वामगणय्याविगणय्य । ल्यप्छान्दसः । दुर्मदो गां भूमिं पर्यटन् । त्वामगणयन्सुदुर्मद इति च पठन्ति । स च निशठः पाठः । य एवंविधस्तस्य मम कालो निष्फलो गत इत्यतीतेनान्वयः ॥ ५० ॥

सुमनोरञ्जिनी

अस्मिन् कलेवरे । घटकुड्यादिसन्निभे, अनित्ये, अचेतन इति यावत् । नरदेव इति निरूढमानः दृढाभिमानवान् । रथादिभिर् वृतः । त्वाम् अगणय्य । त्वत्पूजामकृत्वा गां पर्यटन् । अस्मीति शेषः ॥ ५० ॥

प्रमत्तमुच्चैरितिकृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् ।

त्वमप्रमत्तः सहसाऽभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकृत् ॥ ५१ ॥

पदरत्नावली

धनादिनिमित्तमदस्य दुष्टत्वं कथमत्राह– प्रमत्तमिति ॥ क्षुधा जिह्वया सृक्किणी लेलिहानः ॥ ५१ ॥

सत्यधर्मीया

इतिकृत्यचिन्तया । एवमनुष्ठाने स्वकीयहितं विहितं स्यादित्यादि-चिन्तया । उच्चैः प्रवृद्धलोभं विषयेषु लालसं तृष्णावन्तं विषयेषु प्राप्तेषु सत्सु प्रमत्त उच्चैः स्वस्वरूपातिरेकेण लब्धैर्विषयैः प्रमत्त इति वा । सहसा मदतर्कणेन । हे सहस अप्रमत्तस् त्वं प्रतिपद्यसे । अप्रमत्तस्य तवाभिपत्तिर्मां प्रमत्तं प्रति भवति भगवन्नेवमिति निदर्शनं दर्शयति। क्षुधा लेलिहानो द्वे सृक्किण्यौ । अन्तको नाशकोऽहिराखुमिव मूषकमिवेति । स यथाऽऽखुं ग्रसति तथा त्वमप्रमत्तः प्रमत्तं मामभिपद्यसे । अत्र विशेषणीभूतमदादिनाशो ज्ञेयः

॥ ५१ ॥

सुमनोरञ्जिनी

विषयभोगानन्तरं वैराग्यं सम्पादनीयमित्यत आह ॥ प्रमत्तमिति ॥ इति एवं प्रकारेण कृत्यचिन्तया ‘इदं मया सम्पादितं, इदं तु सम्पादनीयमिति चिन्तया । प्रवृद्धलोभम् । अत एव उच्चैः प्रमत्तम् । एतादृशं माम्, अन्तकः मृत्युरूपी त्वम् । अप्रमत्तः सन् सहसा अभिपद्यसे । क्षुधा लेलिहानो ऽहिर् आखुमिवेति ॥ ५१ ॥

पुरा रथैर्हेमपरिष्कृतैश्चरन् मतङ्गजैर्वा नरदेवशंसितः ।

स एव कालेन दुरत्ययेन कलेवरो विट्कृमिभस्मसञ्ज्ञितः ॥ ५२ ॥

पदरत्नावली

किमत्र प्रमाणमित्यतः प्रत्यक्षमेवेत्याह– पुरेति ॥ यो देहः पुरा नरदेवसंज्ञितः स एव दुरत्ययेन कालेन विट्कृमिभस्मसंज्ञितः, भवतीति शेषः । श्वादि-भक्षितो विष्ठासंज्ञितो भवति । अदग्धः कृमिसंज्ञितः । दग्धः भस्मसंज्ञित इति विशेषः

॥ ५२ ॥

सत्यधर्मीया

हेमपरिष्कृतै रथैर्मतङ्गजैर्गजैश्चरन् मत्तवशश्चरन्निति वा । नरदेवेति शंसितो यो देहः स एव कालेन दुरत्ययेनात्येतुमशक्येन कलेवरः कलेवरम् । अथ कलेवरं गात्रमित्यमरात् कलेवरम् । हलदन्तादिति सप्तम्या अलुक् । सारमेयादिभुक्तश्चेद्द्विट् संज्ञितः । अदग्धोऽभक्षितश्च कृमिसंज्ञितो भवति दग्धश्च भस्मसंज्ञितो भवति । कालमूलत इयतीं दशां यातीति ॥ ५२ ॥

सुमनोरञ्जिनी

पुरा यः कलेवरः नरदेवसञ्ज्ञितः सन् । हेम्ना परिष्कृतैर् अलङ्कृतैः रयैर् मतङ्गजैश्चरद् अचरत् । स एव दुरत्ययेन कालेन । विडिति क्रिमिरिति । भस्मेति च सञ्ज्ञितो भवति । अतो देहस्यातितुच्छत्वात् तत्र तदनुबन्धिष्वपि विरक्तेन भाव्यमिति भावः ॥ ५२ ॥

निर्जित्य दिक्चक्रमभूतविग्रहो परासनस्थः समराजवन्दितः ।

गृहेषु मैथुन्यपरेषु योषितां क्रीडामुगः पूरुष ईश गीयते ॥ ५३ ॥

पदरत्नावली

इदं च लज्जाकरमित्याह– निर्जित्येति ॥ दिक्चक्रं दिङ्मण्डलम् । अभूतविग्रहो ऽजातयुद्धः । वयसा कुलेन दानेन विद्यया च समै राजभिर्वन्दितः । बहिरेवंविधः पुरुषो मैथुन्यपरेषु ग्राम्यसुखमात्ररतेषु गृहेषु योषितां क्रीडामृगो लीलामृगो गीयत इत्यन्वयः ॥ ५३ ॥

सत्यधर्मीया

सहस्राश्वनायको गृहगृहिणीकार्पाससिचयप्रचयकृदितिवदेतादृशः प्रागे-तादृशो पुरत इतीरयति ॥ निर्जित्येति ॥ अभूतविग्रहोऽजाताजिर्दिक्चक्रं निर्जित्य परासनस्थः समराजैर्वन्दितश्चेदपि कदाचिदेवमपि भवतीत्याह । समरेऽजवं यथा भवति तथाऽन्दितः परैः खण्डित इति वा । पूरुषो मैथुन्यपरेषु मैथुन्यं ग्राम्यधर्मस्तदेव परं येषां ते तेषु गृहेषु योषितां क्रीडामृगो लीलामृगः कपिरिति यावत् । गीयते तस्यैतस्य च न तिल-तुल्यव्यत्यास इति भावः । यो मैथुनी तन्निरत इति तद्वान् । अपरेषु पुुरुषो गीयते । योषितां गृहेषु क्रीडामृगो गीयत इति वा ॥ ५३ ॥

सुमनोरञ्जिनी

किञ्च वनितादिविषयभोगस्त्यक्तुमशक्यः । स्वापेक्षया वनितादेरेव बलिष्ठत्वादित्याह ॥ निर्जित्येति । दिक्चक्रं दिङ्मण्डलम् । अभूतविग्रहो ऽजातविरोधः सन्नेव । निर्जित्य । वरासने सिंहासने । तिष्ठन् । समाः स्वसमा ये राजानस् तैर् वन्दितः । एतादृशोऽपि पूरुषः राजादिर् मैथुन्यपरेषु ग्राम्यसुखार्थं रचितेषु गृहेषु सौधादिषु । प्रवेश-मात्रेण योषितां क्रीडामृगः लीलामृग इव गीयते ॥ ५३ ॥

करोति कर्माणि तपः सुनिष्ठितो निवृत्तभोगस्तदपेक्षया ददत् ।

पुनश्च भूयाय महीश राधसे प्रवृद्धतर्षो न सुखाय कल्पते ॥ ५४ ॥

पदरत्नावली

त्वद्भक्तिरहितस्य पुंसः कर्मकरणं गजस्नानतुल्यमिति भावेनाह– करोतीति ॥ स पुनश्च धनादि ददद् भूयाय भूयसे महते राधसे सम्पदे प्रवृद्धतर्षो ऽत्युद्रिक्ततृष्णः सुखाय न कल्पत इत्यन्वयः । सुखं नाम मुक्तिलक्षणम् ॥ ५४ ॥

सत्यधर्मीया

त्वदितरसुराभक्तकृतं कर्म निष्फलमिति लपति ॥ करोतीति ॥ हे महीश धरावर । कश्चिदधिकारी निवृत्तभोगो निवृत्ताः सहसा गता अप्राप्ता इति यावत् । भोगा यस्य सः । यदा तदा तदपेक्षया तद्भोगकामनया तपः प्रागालोचनं करोत्यनन्तरं कर्माणि तत्फलोपलम्भककाम्यकर्माणि करोति ॥ नानादरेणेतीरयति ॥ सुनिष्ठितस्तत्रैव स्थिरान्तर इति । धनादिकं तत्साहितीकृद्भ्यो ददत् सन् । पुनश्व भूयःशब्दपर्यायो भूयः-शब्दः । भूयसे राधसे सिद्ध्यै तदर्थं प्रवृद्धतर्ष एधमानधनाद्यभिलाषस्तच्चिन्तया तान्तः सुखाय न कल्पते । महीशानां राधसे तत्सम्पदर्थमिति वा । पुनश्च भूयेयमहं स्वराडिति पठन्ति स च स्फुटार्थः । हे कल्प समर्थ श्रीहरे । ते सुखाय त्वद्देयमौक्तसुखाय स न कर्माणि करोतीत्याद्यन्वयो वा । न कल्पत इत्यावृत्त्याऽन्वयो वा । अनिवृत्तभोगोऽनिवृत्ततदिच्छ-स्तदपेक्षया पुनर्द्विगुणधनापेक्षया धनं दददिति वा ॥ ५४ ॥

सुमनोरञ्जिनी

ननु वनितादिविषये विरक्ताः सन्तो धनादिकमन्येभ्यः प्रयच्छमाना

दृश्यन्ते । तेषां मुक्तिः स्यादित्यतो न विषयपरित्यागमात्रं वैराग्यम् । किन्तु तृष्णापरित्याग

एव । स चाशक्य इत्याह ॥ करोतीति ॥ हे महीश यद्यपि निवृत्तभोगः । वने वसन् वा । अश्रामान्तरं स्वीकुर्वन् वा । वनितादिभोगरहितः । सुनिष्ठितः नितरां स्थिरमनाः । धनादिकं ददत् । तदपेक्षया भोगान्तरप्राप्त्यपेक्षया । कर्माणि तपश्च करोति । तेन च फलप्राप्तौ सत्यां पुनश्च भूयाय महते । राधसे सम्पदे । प्रवृद्धतर्षो ऽभिवृद्धतृष्णो भवति । ततश्च सुखाय परमसुखाय । मुक्तय इति यावत् । न कल्पत इत्यन्वयः ॥ ५४ ॥

भवापवर्गो भ्रमतो यदा भवेज्जनस्य तर्ह्यच्युत सत्समागमः ।

सत्सङ्गमो यर्हि तदैव त(स)द्गतौ परावरेशे त्वयि जायते मतिः ॥ ५५ ॥

पदरत्नावली

तर्हि कदा मोक्षः स्यात् ? अत्राह– भवेति । हे अच्युत नाना-योनिषु भ्रमतो जनस्य यदा सत्सङ्गमस् तर्हि तदा भवापवर्गः स्यात् । भगवज्ज्ञानफलं मोक्षः कथमन्यतः स्यादिति तत्राह– सत्सङ्गम इति । यर्हि यदा सत्सङ्गमः स्यात् तदैव त्वयि श्रवणादिलक्षणः सङ्गमः स्यात् । तस्मात् परावरेशे मुक्तामुक्तस्वामिनि त्वयि मतिस्त्व-त्प्रसादजनकं ज्ञानं स्यात् ॥ ५५ ॥

दुर्घटभावदीपिका

ईश । यदृच्छयेश्वरेच्छया । तवेच्छयेति यावत् । कृतो राज्यानु-बन्धापगमस्ते तव ममानुग्रहो मद्विषयकानुग्रहः कार्य इति मन्य इति । एतेन राज्यानु-बन्धापगमो यदृच्छया कृत इत्यनेनैव ते त्वया कृत इत्यर्थस्य प्राप्तत्वात्ते कृत इत्येतद्व्यर्थ-मिति चोद्यं परिहृतम् । त इत्यस्य कृत इत्यनेनान्वय इत्यनङ्गीकृत्वाऽनुग्रह इत्यनेनैवा-न्वयस्योक्तत्वात् ॥ ५५ ॥

सत्यधर्मीया

तर्हि कथङ्कारमेतत्संसारकारागारापहारो राजन्नित्यतो वक्ति ॥ भवापवर्ग इति ॥ यो भ्रमतो यर्हि हे अच्युत सत्समागम उपदेशकदैशिकसहवासो भवेदच्युते भगवति सन्तस्त्वद्रता वा तेषां समागम इति वा । व्याप्तिं दर्शयितुमनूद्य वक्ति ॥ सत्सङ्गमो यर्हीति । त(स)दैव त(स)द्गतौ तद्गतिरूपे परावरेशे मुक्तामुक्तप्रेरके स्वामिनि वा त्वयि मतिर्जायते सा यर्हि जायते तदा भवापवर्गः । अत्रापवर्गशब्दस्त्यागमात्रार्थकः । भवत्यागो मोक्षः स्यात् । ग्रहकल्लोलेऽपवर्गस्त्यागमोक्षयोरिति विश्वः । अन्यथा भवपदमभवं भजत इति ज्ञेयम् । नान्यः पन्था इत्यादेः ॥ ५५ ॥

सुमनोरञ्जिनी

तर्हि केन साधनेन कदा मोक्षो भवतीत्यत आह ॥ भवापवर्ग इति ॥ भ्रमतः संसारे भ्रमतो जनस्य यदा भवापवर्गः भवात् संसारादपवर्गो मोक्षकालः भवेत् सन्निहिता भवेत्तर्हि तदैव । सत्समागमो भवति यर्हि यदा सत्सङ्गमस् तदैव परावरेशे मुक्तामुक्तस्वामिनि त्वयि रतिर् भक्तिः स्यात् । मतिरिति पाठे ज्ञानं स्यात् । तेन च भवापवर्गो मोक्षः स्यादिति ॥ ५५ ॥

मन्ये ममानुग्रह ईश ते कृतो राज्यानुबन्धापगमो यदृच्छया ।

यः प्रार्थ्यते साधुभिरेकचर्यया वनं विविक्षुद्भिरखण्डभूमिपैः ॥ ५६ ॥

पदरत्नावली

अतो ज्ञानद्वारा सत्सङ्गमो मुक्तिसाधनमसत्सङ्गमोऽनर्थहेतुरिति गृहादि-सङ्गत्यागः सत्सङ्गहेतुरित्याशयेन– मन्य इति ॥ ते त्वया राज्यानुबन्धापगमः राज्यस्य तदनुबन्धकस्य कोशादेश्चापगमस्त्यागः । एकचर्यया ‘एक एव चरेद् भिक्षुः’ इति वचनाद् एकाकित्वेन चरणम् । अखण्डभूमिपैः सार्वभौमैर् विविक्षुद्भिः प्रवेष्टुमिच्छद्भिः ॥ ५६ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

पदरत्नावल्यां दशमस्कन्धे उत्तरार्र्धे चतुःपञ्चाशोऽध्यायः ॥ १०–५४ ॥

सत्यधर्मीया

एतावत्स्तुत्वा प्रस्तुतं स्वाशयं विशदयन्वृणीष्वेत्युत्तरयति कैश्चित् श्लोकैः ॥ मन्य इति ॥ अखण्डभूमिपैरखण्डभूमण्डलेशैरेकचर्यया । एक एव चरेद्भिक्षु रित्यादेः । सन्न्यासधर्मेणैकनिष्ठया वा विविक्षुद्भिर्भवनं प्रवेष्टुमिच्छुद्भिः । इच्छा क्वचिद-करणमिति विविक्षुद्भिरित्युक्तिरिति ध्येयम् । विविक्षुशब्दपर्यायोऽयं विविक्षुच्छब्दः । अखण्ड-प्रकृतिः । विविक्षुद्भिरिति पाठे विविक्षेति धातुस्ततः कर्तरि शप् इति ज्ञेयम् । विशिष्टा क्षुद्विगता येभ्यस्तैरित्यर्थान्तरं द्योतयितुं चैवं पाठः । साधुभिर्यः प्रार्थ्यते स यदृच्छया राज्यानुबन्धापगमो राज्यस्यानुबन्धस्य तदनुबन्धस्य कोशादेश्चापगमो राज्यात् पङ्क्तिशः क्रमादनुबन्धस्य कलत्रपुत्रमित्राद्यनुबन्धस्यापगमोऽपहारः । ईश ते त्वया मम ममोपर्यनुग्रहः कृत इति मन्य इत्यन्वयः । हे अम अपरिच्छिन्न । एवमनुगृहीतारो नान्य इति मन्य इत्यप्याह । अनुग्रहे एतादृशे कृतः कर्तृत्वेन सम्प्रतिपन्ना अपि मा ईशते न समर्था भवन्तीति ॥ ५६ ॥

सुमनोरञ्जिनी

एवं परम्परया मोक्षसाधनवैराग्यसम्पादकराज्याद्यपगमस्यानायासेन प्राप्तत्वात्पुनर्वरं वृणीष्वेति न मत्प्रलोभनं कार्यमित्याह ॥ मन्य इति ॥ हे ईश यदृच्छया । राज्यानुबन्धस्य राज्याधिपत्यस्य अपगमः सस् ते त्वया कृतो मयि अनुग्रह इति मन्ये । कुतः । एकचर्यया एकाकितया । त्वत्पूजां कर्तुं वनं विवक्षुद्भिः प्रवेष्टुमिच्छद्भिः साधुभिः । अखण्डभूमिपैर् अखण्डभूमण्डलाधिपैरपि यः राज्यानुबन्धापगमः प्रार्थ्यते यतोऽत इति ॥ ५६ ॥

न कामयेऽन्यं तव पादसेवनादकिञ्चनप्रार्थ्यतमाद् वरं विभो ।

आराध्य कस्त्वां ह्यपवर्गदं हरे वृणीत आर्यो वरमात्मबन्धनम् ॥५७॥

दुर्घटभावदीपिका

हे विभो । त्वामाराध्याकिञ्चनप्रार्थ्यतमादकिञ्चनैरतिशयेन प्रार्थ्यतमात्तव पादसेवनादन्यं वरं न कामये । अत्र हेतुमाह ॥ कस्त्वामिति ॥ हे हरे । अपवर्गं दत्वा प्राप्यात्मबन्धनंं वरं क आर्यो वृणीत न कोऽपीत्येतद्धि प्रसिद्धमिति । एतेन मुचुकुन्देन निद्राया एव कृतत्वेनाराधनस्याकृतत्वात् त्वामाराध्यात्मबन्धनं वरं को वृणीते-त्यनुपपन्नमिति दूषणं पराकृतम् । आराध्येत्यस्याकिञ्चनप्रार्थ्यतमादित्यनेनान्वयमभ्युपेत्य त्वामित्यस्याध्याहृतेन प्राप्येत्यनेनान्वय इत्यभ्युपगमात् ॥ ५७ ॥

सत्यधर्मीया

हरे विभो । तव पादसेवनादन्यं वरं न कामये नेच्छामि । तदर्थनं न मयैकलेन क्रियते किन्तु सन्ति ते सन्त इत्याह । अकिञ्चनप्रार्थ्यतमान्न विद्यते किञ्चन त्वव्द्यतिरिक्तं येषां तैः प्रार्थ्यतमादत्यर्थनीयादिति । क आर्यो बुद्ध्याऽपवर्गदं त्वामार-ध्यात्मबन्धनं वरं दुर्विषयं वृणीते हीत्येकान्तानां न कस्यचिदित्यादिमानप्रसिद्धिद्योतकम्

॥ ५७ ॥

सुमनोरञ्जिनी

तर्हि वरं वृणीष्वेति व्यर्थं स्यादित्यतो नेत्याह ॥ नेति ॥ हे विभो अकिञ्चनैर् एकान्तभक्तैः प्रार्थ्यतमाद् अत्यन्तं प्रार्थनीयान् मोक्षमपि हित्वा प्रार्थनीयादिति यावत् । तव पादसेवनात् । अन्यं वरं न कामये । कुतः । अपवर्गदं त्वाम् आराध्य क आर्यो ज्ञानी । आत्मनः बन्धनं बन्धकं वरं राज्यादिलक्षणम् । वृणीत प्रार्थयेत् । न कोऽपि ॥ ५७ ॥

तस्माद् विसृज्याशिष ईश सर्वशो रजस्तमःसत्वगुणानुबन्धनाः ।

निरञ्जनं निर्गुणमद्वयं परं त्वां ज्ञप्तिमात्रं पुरुषं व्र्रजाम्यहम् ॥ ५८ ॥

सत्यधर्मीया

तस्माद्रजस्तमःसत्त्वगुणानुबन्धनाः । मानुष्यो राजस्यस्तामस्यो राक्षसाद्याः सात्विक्यो दैव्यो यास्तास्तद्गुणानुबन्धनास्तदनुबन्धवतीराशिषः सर्वशः सर्वा विसृज्य निरञ्जनं निर्दुष्टं निर्गुणं सत्त्वादिगुणरहितं भिन्नगुणरहितं वा । अव्ययं परं ज्ञप्तिमात्रं ज्ञानघनं पुरुषं व्रजामि शरणम् ॥ ५८ ॥

सुमनोरञ्जिनी

तर्हि किं वृणीष इत्यत आह ॥ तस्मादिति । हे ईश तस्मात् । आशिषामात्मबन्धकत्वात् । रजस्तमःसत्वगुणानुबन्धना रजआदिगुणनिमित्ता राजसतामस-सात्विकरूपाः सर्वशोऽप्याशिषः सम्पदः विसृज्य । निरञ्जनं निर्दोषम् । निर्गुणं गुणबन्ध-रहितम् । ज्ञाप्तिमात्रं ज्ञानैकस्वरूपम् । त्वां व्रजामि । शरणमिति शेषः । त्वच्छरणागतिरेव प्रार्थ्यते नान्यदिति भावः ॥ ५८ ॥

चिरमिह वृजिनार्तस्तप्यमानोऽनुतापैः

अवितृष उरुकृच्छ्रेऽलब्धशान्तिः कथञ्चित् ।

शरणद समुपेतस्त्वत्पदाब्जं परात्मन्

अभयमृतमशोकं पाहि मापन्नमीश ॥ ५९ ॥

सत्यधर्मीया

चिरमिह नानायोनौ वृजिनमार्तः सम्यक् प्राप्त इत्यनुतापैः सांसारिक-तापसाधनैस्तप्यमानोऽहं कथञ्चित्केनचित्सुकृतेनावितृषो न विद्यते विविधा तृषा यस्य स उरुकृच्छ्रे भविष्यद्बहुकष्टे संसारे लब्धा शान्तिरितःपरं न मम संसारः स्यादित्युपरतिर्येन सः । हे ईश शरणद परमात्मन् । अभयमृतं शाश्वतमशोकं स्वयं शोकराहित्येनेतरशोक-परिहारकत्वेन चाशोकं त्वत्पादाब्जं समुपेतः संसारे पन्नं पतितं मां पाहि ॥ ५९ ॥

सुमनोरञ्जिनी

अधुना स्वाभीष्टं प्रार्थयन्नुपसंहरति ॥ चिरमिति ॥ हे शरणद उरुकृच्छे संसारे । वृजिनार्तः दुःखार्तः । वृजिनं दुःखमकं तोद इतीर्यत इत्यभिधानात् । अनुतापैः परितस्तापकरैस् तप्यमानः सन्तप्यमानः । तथाप्यवितृषो ऽनपगततृष्णः । एतादृशः । कथञ्चित्त्वच्चरणसन्दर्शनेन लब्धशान्तिः प्राप्तसुखः । ऋतं ज्ञानरूपम् । शश्वदेक-प्रकारं वा । अभयप्रदम् । अशोकं शोकहरम् । त्वत्पादाब्जम् । समुपेतोऽस्मि । अत आपन्नं मा मां पाहि । उरुकृच्छ्रे संसारे पन्नं पतितमिति वा ॥ ५९ ॥

श्री भगवानुवाच–

सार्वभौम महाराज मतिस्ते विमलोर्जिता ।

वरैः प्रलोभितस्यापि न कामैर्विहता यतः ॥ ६० ॥

सत्यधर्मीया

वरैः कामैरुत्तमैः काम्यैः प्रलोभितस्यापि यतो न विहता ततो हे सार्वभौम गतम् । सर्वेश महाराज । विमलोर्जितोद्रिक्ता च ते मतिः ॥ ६० ॥

सुमनोरञ्जिनी

कामैर् वरैः प्रलोभितस्यापि ते । मतिः प्रलोभनेन न विहता न भिन्ना ॥ ६० ॥

विरोधोद्धारः— सार्वभौमेति ॥ अत्र भगवता मुचकुन्दं प्रति सार्वभौमेति सम्बोधितम् । तदयुक्तम् । मुचकुन्दस्येक्ष्वाकुवंश्यमांधातृतनयत्वेनोत्तरकौसलदेशाधि-पतित्वात् । वैवस्वस्तस्य हि मनोर्ज्येष्ठपुत्रसुद्युम्नेन रुद्रशापप्राप्ते स्वेलारूपे बुधजाताय पुरूरवसे सार्वभौमत्वं दत्वा स्वपुरुषरूपजातानामिक्ष्वाकुप्रभृतीनां च माण्डलिकत्वं च दत्तम् । अतो विरोधः । तस्मादर्थान्तरमुच्यते । सार्वभौममहाराजेत्येकं पदम् । सार्वभौम-स्तात्कालिको धृतराष्ट्रस् तस्मादपि महाराज पूज्यराजन् । तत्र हेतुमाह ॥ मातरिति ॥ ते तव मतिर् विमला निर्दोषा ऊर्जिता प्रगल्भा । धृतराष्ट्रस्य कुपुत्रसम्बन्धेन मतेर्निर्दोषत्वा-भावात् । तदपेक्षया मुचुकुन्दस्यैव महाराजत्वं युक्तमिति भावः । अथवा । विमलोर्जितेत्येकं पदम् । विशेषेण विष्णोर्वा मा ज्ञानं यस्य तं प्राणदेवं लान्ति स्वामित्वेन स्वीकुर्वन्ति ते विमला देवाः । विः पक्षिपरमात्मनोरित्यभिधानम् । मा ज्ञान इति धातुः, ला आधान इति धातुश्च । निष्पापत्वाद्विमला देवास्तेषूर्जिता मतिरस्तीति । धृतराष्ट्रस्य तु विशिष्टो मलो येषां तेषां स्वपुत्रेषु ऊर्जिता ॥ यद्वा ॥ धृतराष्ट्रस्य मतिर् विमला वौ विष्णौ मला पापरूपिणी । अकयप्रविसम्भूमसखहा विष्णुवाचका इत्यभिधानम् । ते युद्धविषये । तकारः कीर्तितश्चोरे मोहे युद्धे च कीर्तित इत्येकाक्षरात् । ऊर्जिता चिकीर्षा दृढाऽस्ति । अतो मुचुकुन्दस्य धृतराष्ट्रापेक्षया राजत्वं युक्तमिति भावः । विमलोर्जितत्वे हेतुः । वरैरित्यादि । अतो न विरोधगन्धोऽपि ॥ ६० ॥

॥ इति पाङ्घरी श्रीनिवासाचार्यकृतविरोधोद्धारे चतुःपञ्चाशोऽध्यायः ॥ १०–५४ ॥

प्रलोभितो वरैर्यत् त्वमप्रमादाय विद्धि तत् ।

न धीर्मय्येकभक्तानामाशीर्भिर्भिद्यते क्वचित् ॥ ६१ ॥

दुर्घटभावदीपिका

त्वं वरैः प्रलोभित इति तत्प्रलोभनमप्रमादाय त्वन्निष्ठाप्रमाद-ज्ञापनाय कृतमिति विद्धि । प्रमादप्रसादः कथमागत इत्यत आह नेति । मय्येकभक्तानां धीराशीर्भिः क्वचित्कदाचिदपि न भिद्यते त्वमपि मय्येकभक्तोऽतस्तव प्रमादो नास्तीति । एतेन भगवद्भक्तेरेवाप्रमादहेतुत्वात् प्रलोभनस्याप्रमादहेतुत्वाभावाद् वरैः प्रलोभित इति यत्तत्प्रलोभनमप्रमादायेत्यप्रमादं प्रति प्रलोभनस्य हेतुत्वाभिधानमयुक्तमिति चोद्यं पराकृतम् । अप्रमादवाचकेनाप्रमादशब्देन तज्ज्ञापनस्य गृहीतत्वात् ॥ ६१ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्याम्

उत्तरार्धे चतुःपञ्चाशोऽध्यायः ॥ १०–५४ ॥

सत्यधर्मीया

यद्यतो मय्येकभक्तानां मुख्यदासानामाशीर्भिर्धीः क्वचिदपि न भिद्यते तस्माद्वरैः प्रलोभितोऽपि तद्वरोपदेशनमप्रमादायैवेति विद्धि जानीहीति केचित् । वस्तुतस्तु वित् हीति छेदः । पूर्वोत्तरग्रन्थस्वारस्यात् ॥ ६१ ॥

सुमनोरञ्जिनी

त्वं वरैः प्रलोभित इति यत् तत् तेऽप्रमादायैव विद्धि । बुद्धि-भेदनार्थमेव प्रलोभनं किं न स्यादित्यत आह ॥ न धीरिति ॥ अहं मद्भक्तानां बुद्धिभेदको नेति भावः ॥ ६१ ॥

ज्ञानिनामेकभक्तानां प्राणायामादिभिर्मनः ।

न क्षीणवासनं राजन् दृश्यते क्वचिदुत्थितम् ॥ ६२ ॥

सत्यधर्मीया

एकभक्तानां ज्ञानिनामेके मुख्याश्च ते भक्ताश्च तेषां ज्ञानवतां प्राणायामादिभिर्मनःक्षीणवासनं क्षीणा वासना यस्य तत् सत् । हे राजन् क्वचिद्विषये उत्थितं तदभिमुखमिति यावत् ॥ ६२ ॥

सुमनोरञ्जिनी

न केवलमहं तथा न करोमि ज्ञानिमनोऽपि तथैवेति भावेनाह ॥ ज्ञानिनामिति । प्राणायामादिभिः क्षीणा वासना यस्मिन् तत् । तथाविधं ज्ञानिनां मनः, क्वचित् । उत्थितं विषयोन्मुखम् । न भवति ॥ ६२,६३ ॥

विचरस्व यथाकामं मय्यावेशितमानसः ।

अस्त्वेव नित्यदा तुभ्यं भक्तिर्मय्यनपायिनी ॥ ६३ ॥

सत्यधर्मीया

हे स्व महीं काममिच्छानुसारं मय्यावेशितमानसो विचर नित्यदाऽन-पायिनी भक्तिस्तुभ्यं तव मय्येवास्तु । मय्यावेशितमानसो मय गतौ मय्यो गम्य इति आवेशितं मानसं यस्य स इति वा । मयीति पुनर्वचनं दार्ढ्यार्थं वा ॥ ६३ ॥

क्षत्रजन्मस्थितो जन्तूनवधीर्मृगयादिभिः ।

समाहितस्तत् तपसा जह्यघं मामुपाश्रितः ॥ ६४ ॥

सत्यधर्मीया

क्षत्रधर्मस्थितो नित्यं जन्तून्प्राणिनो मृगयादिभिर्भवानवधीत् । तत्तद्वधजमघं तपसा समाहितो मामुपाश्रितो जहि गमय ॥ ६४ ॥

सुमनोरञ्जिनी

अघं प्रारब्धं जहि भोगेन क्षपय ॥ ६४,६५ ॥

॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां

सुमनोरञ्जिन्यां चतुःपञ्चाशोऽध्यायः ॥

जन्मन्यनन्तरे राजन् सर्वभूतसुहृत्तमः ।

भूत्वा द्विजवरस्त्वं वै मामुपेष्यसि केवलम् ॥ ६५ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे चतुःपञ्चाशोऽध्यायः ॥

सत्यधर्मीया

मधुनाथाधुनाऽपि भ्रामणमेव किमित्यतो वक्ति । अनन्तरे जन्मनि सर्वभूतसमो द्विजवरो विप्रो भूत्वा केवलमनन्यसदृशत्वाच्च केवलोऽसौ हरिः स्मृत इति चतुर्थतात्पर्योक्तेरसदृशं मामुपेष्यसीति । द्विजवरस्त्वं सर्वभूतसमो भूत्वेति वा ॥ ६५ ॥

**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे **

चतुःपञ्चाशोऽध्यायः ॥ १०–५४ ॥