०५ त्रिपञ्चाशोऽध्यायः

गोमन्तं पर्वतश्रेष्ठं तुङ्गद्रुमलतान्वितम्

॥ अथ त्रिपञ्चाशोऽध्यायः ॥

श्री शुक उवाच—

गोमन्तं पर्वतश्रेष्ठं तुङ्गद्रुमलतान्वितम् ।

सालतालतमालाढ्यं प्रियालाशोकशोभितम् ॥ १ ॥

पदरत्नावली

सालः सर्जः, तालस्तृणराजः, तमालः कालस्कन्धः प्रियालो राजादनः । अशोको वञ्जुलः । ‘सालं सर्जं च सूरयः । तृणराजस्तालः कथ्यते । कालस्कन्धस् तमालः स्यात् । राजादनः प्रियालः स्याद् वञ्जुलोऽशोक उच्यते’ ॥ १ ॥

सत्यधर्मीया

सालः सर्जस्तालस्तृणराजो तमालः कालस्कन्धस्तैराढ्यं सम्पन्नं प्रियालो राजादनोऽशोको वञ्चुलः । सालं सर्जं सूरयस्तृणराजस्तालः कथ्यते । काल-स्कन्धस्तमालः स्याद् राजादनः प्रियालः स्याद् वञ्चुलोऽशोक उच्यत इत्यभिधानात् ॥१॥

सुमनोरञ्जिनी

सालः सर्जः । तालस् तृणराजः । तमालस् तापिञ्छः । काल-स्कन्धस्तमालः स्यात्तापिञ्छ इत्यमरः । प्रियालः राजादनः । मधुराम्र इत्यर्थः । अशोकः प्रसिद्धः ॥ १ ॥

कदम्बनीपहिन्तालपूगपुन्नागशोभितम् ।

आरुह्य कदलीषण्डमण्डितं मत्तकोकिलम् ॥ २ ॥

पदरत्नावली

कदम्बो हरिप्रियः । निम्बः पिचुमन्दः । ‘पिचुमन्दस्तु निम्बः स्यात्’ । हिन्तालो वनक्रमुकः । नागः नागकेसरः । पूगोतिसारो ग्रामक्रमुकः । पुन्नागः सुरवर्णिका ॥ २–३ ॥

सत्यधर्मीया

कदम्बो हरिप्रियो निम्बः पिचुमन्दः । पिचुमन्दस्तु निम्बः स्यात् । हिन्तालो वनक्रमुको नागो नागकेशरः पूगः क्रमुकः पुन्नागः सुरवर्णिकः ॥ २ ॥

सुमनोरञ्जिनी

कदम्बः प्रसिद्धः । निम्बः पिचुमन्दः पारिभद्रः । हिन्तालो वन-क्रमुकः । पूग उद्यानक्रमुकः । पुन्नागस् तुङ्गः । पुन्नागे पुरुषस्तुङ्ग इत्यमरः । एतैः शोभितं गोमन्तम् । आरुह्य तत्र प्रदेशं ददृशतुरिति वक्ष्यमाणेनान्वयः । तं प्रदेशं विशिनष्टि ॥ कदलीति । कदलीषण्डः कदलीसमूहः ॥ २ ॥

भ्रमद्भ्रमरसङ्घातं प्लवगाकम्पितद्रुमम् ।

फलभारनतैः स्कन्धैर्नारिकेलैर्विराजितम् ॥ ३ ॥

दुर्घटभावदीपिका

फलभारेण नतैः स्कन्धैः स्थूलस्कन्धविशिष्टैर्नारिकेलैर्विराजित-मित्यर्थः । एतेन फलभारनतस्कन्धविशिष्टैरिति वक्तव्यं फलभारनतैः स्कन्धैरिति कथन-मनुपपन्नमिति चोद्यं पराकृतम् । नारिकेलानां फलभारनतत्वोक्त्याऽर्थात्स्कन्धानां फलभार-नतत्वं लभ्यत इति स्वीकृत्य स्कन्धशब्दस्यार्श आद्यजन्तत्वमङ्गीकृत्य स्कन्धैरिति स्कन्ध-शब्देनासाधारण्येन व्यपदेशा भवन्तीति न्यायात्स्कन्धानां स्थूलत्वं चोच्यत इत्यभ्युपगमात्

॥ ३ ॥

सत्यधर्मीया

प्लवगैराकम्पिता द्रुमा यस्मिन्स तम् । फलभारेण नताः स्कन्धा येषां ते तैर्भारैर्नारिकेलैर्लाङ्गलिभिः । नारिकेलस्तु लाङ्गलीत्यमरः । विराजितं विभिः पक्षिभिश्च राजितमित्यपि । नारिकेलैः सहितमिति तदाऽर्थः ॥ ३ ॥

सुमनोरञ्जिनी

भ्रमन् भ्रमरसङ्घातः भृङ्गसमुदायो यस्मिन् । फलभारेण नतैर् नम्रैः स्कन्धैश् चूतादिस्कन्धैर् नारिकेलैश्च विराजितम् ॥ ३ ॥

बहुप्रस्रवणोपेतं सुच्छायं निर्मलोदकम् ।

रम्यं ददृशतुर्वीरौ प्रदेशं रामकेशवौ ॥ ४ ॥

पदरत्नावली

बहुभिः प्रस्रवणैर्निर्झरैरुपेतम् ॥ ४–७ ॥

सत्यधर्मीया

प्रस्रवणैर्निर्झरैरुपेतं युक्तम् ॥ ४ ॥

सुमनोरञ्जिनी

बहुभिः प्रस्रवणैर् झर्झरैरुपेतम् ॥ ४ ॥

तत्र प्रवर्षणं नाम शृृङ्गं पर्वतमूर्धनि ।

अवापतुर्यत्र मेघा नित्यं वर्षन्त्यविक्लवाः ॥ ५ ॥

सत्यधर्मीया

यत्र प्रवर्षणनामके शृृङ्गेऽत एव प्रवर्षणेति नाम ॥ ५ ॥

सुमनोरञ्जिनी

अविक्लवा अव्यग्राः ॥ ५ ॥

तत्रारुह्य यदुश्रेष्ठौ पश्यन्तौ हि दिशो दश ।

रममाणौ यथाकाममूषतुः पर्वतोत्तमे ॥ ६ ॥

सत्यधर्मीया– दिशो दश पश्यन्तौ । अत्युच्चत्वात्तदवलोकनं सम्भवतीति मन्तव्यम् ॥

सुमनोरञ्जिनी

रममाणौ क्रीडां कुर्वन्तौ ॥ ६ ॥

एतस्मिन्नेव काले तु क्षीरोदे सागरोत्तमे ।

**निवासे देवदेवस्य शङ्खचक्रगदाभृतः ॥ ७ ॥ **

तात्पर्यम्

बहूनि स्थानजातानि कृष्णस्य क्षीरसागरे । कानिचिन्मुक्तगम्यानि नामुक्तैस्त्रिदशैरपि । गन्तुं शक्यान्यथान्यानि गम्यान्यन्यैरपि क्वचित् ॥ तत्र देवाश्च योगिन्द्रा भक्ताश्चान्ये जनार्दनम् । गत्वाऽचर्यन्ति देवेशं बलिस्तत्रागमत्क्वचित् । तस्य तत्रासुरावेशात् पापबुद्धिरजायत । तद्व्यक्त्यर्थं जगन्नाथः शिश्ये सुप्तवदव्ययः । तदा स पापया बुद्ध्या किरीटमहरत्प्रभोः ॥ तं जित्वा गरुडस्तत् हृत्वा गोमन्तमाव्रजत् । तत्र कृष्णस्य शिरसि किरीटममुचत्प्रभोः ॥ इति माहात्मे ॥ ७–१० ॥

सत्यधर्मीया

एतस्मिन्नेव काले तु क्षीरेदे सागरोत्तम इत्यारभ्य हृतं दानव-वीरेणेत्यन्तपद्येषु क्षीरसमुद्रस्थभगवत्समीपवर्तिता बलेरुच्यते । न च मुक्तैकगम्यस्य बलि-सङ्गिता सम्भावनार्हा कथञ्चिदपि । कथन्तरां कर्मजदेवो देवोत्तमस्य यः पदमदीधरत्तस्य स्तेयकर्म कथन्तमाम् । विद्रावितदोषस्याजमनिद्रमिति श्रुतेर्निद्रेत्यतो माहात्म्यवचनेन तात्पर्यं विवक्षुर्बलिर्यत्स्थले वर्तत न तन्मुक्तस्थानमिति वक्तुं स्थानस्थितिमादावाह ॥ बहूनीति । कृष्णस्य हरेः क्षीरसागरे स्थानजातानि स्थानसमूहा बहूनि बहवः स्थानत्वेन जातानि प्राप्तानि कृतानीति यावत् । बहूनि तत्र मुक्तगम्यानि कानिचित् । देवाश्चेद्गच्छेयुः किमित्यत आह ॥ नेति ॥ अमुक्तैस्त्रिदशैरपि न गन्तुं शक्यानि । अथान्यानि कानिचिदन्यैरमुक्तै-र्गम्यानि क्वचिद्भागान्तरे कानिचित्सन्ति । तत्रामुक्तस्थाने देवा योगीन्द्रा अन्ये भक्ताश्च । जनार्दन इति पाठे विष्णौ भक्ता इत्यन्वयः । द्वितीयान्तपाठेऽर्चयन्तीत्यनेनान्वयः । गत्वा देवेशं जनार्दनमर्चयन्ति । तत्क्वचिद्बलिर् आगमत् । द्वितीयमपाकरोति ॥ तस्येति । तत्र तदानीमसुरावेशात् पापबुद्धिरजायत । एतेनौपाधिकोऽयं भावो देवस्यापि बलेरित्युक्तं भवति । तृतीयमपाकरोति ॥ तव्द्यक्तर्थमिति ॥ तदसुरावेशव्यक्त्यर्थमव्ययो जगन्नाथः सुप्तवच्छिश्ये । वनितानटनमाटीकत हरिरेवमिति सूचयति । सुप्तिरेव किन्न स्यादित्यत आह ॥ अव्यय इति । अविः सूर्योऽयतेयं चक्षुर्द्वारेत्यव्ययः । नित्यजागर इत्यर्थः । पापया । अर्श आद्यच् । पापमस्य अस्तीति तया बुद्ध्या प्रभोः किरीटमहरत् । स्वशिर-श्चरणकरणरुषा मुकुटापहारोऽन्याय्यः । भगवानपि येन प्रागबन्धयत्तेनैव तत्पराभवः कार्य इति विनतातनयं प्रायङ्क्तैतज्जय इत्याह– तमिति ॥ गरुडो तं बलिं जित्वा तत्तदपि हृत्वाऽऽव्रजद् गोमन्तं ददृशे । तत्र च दृष्ट्वा कृष्णं तस्य शिरसि किरीटममुचत् । प्रभुरिय-त्कार्यपर्याप्तशक्तिः ॥ ततश्चायं पद्यानामर्थः ॥ सारगश्रेष्ठे क्षीरोदे देवदेवस्य निवासेऽ-मुक्तगम्ये ॥ ७ ॥

सुमनोरञ्जिनी

क्षीरोदे तत्सञ्ज्ञके । क्षीरम् उदकस्थानीयं यत्रास्ति तत्र । देव-देवस्य हरेर् निवासे श्वेतद्वीप इत्यर्थः ॥ ७ ॥

**उपासीनो महाबाहुः श्रीमान् वैरोचनो बलिः । **

जहार देवदेवस्य किरीटं रत्नचित्रितम् ॥ ८ ॥

पदरत्नावली

‘सुरैरुपासीनो महाबाहुः’ इत्यादिना मुक्तगम्ये क्षीरसागरे बलिना दानवेन्द्रेण हरेः किरीटहरणं गरुडेन तं जित्वा किरीटमादायागच्छता मार्गे गोमन्ते वसन्तं श्रीकृष्णं दृष्ट्वा किरीटहीने तच्छिरसि तन्निधानमुच्यते । तत्र संशयः । अमुक्तस्य बले-र्गमनम्, ‘अजमनिद्रमस्वप्नम्’ इति श्रुतेर् नित्यनिरस्तनिद्रस्य हरेः किरीटनयनमित्यादिकं कथं सङ्गच्छत इति । इयमाशङ्का ‘बहूनि स्थानजातानि कृष्णस्य क्षीरसागरे’ इत्यादि-माहात्म्यवचनेन परिहृतेति ज्ञातव्यम् ॥ ८–१३ ॥

सत्यधर्मीया

वैरोचन इति पितुर्गुणा इति स्मारयति । रत्नचित्रितम् ॥ ८ ॥

सुमनोरञ्जिनी

शङ्खचक्रागदाभृतः हरेः । उप समीपे । आसीनः वैरोचनः विरोचनस्यापत्यं बलिः । हरेः किरीटं जहारेत्यन्वयः ॥ ८ ॥

इन्द्रनीलसहस्राढ्यं गोमेदकशताचितम् ।

पद्मरागमहानीलमुक्ताफलविराजितम् ॥ ९ ॥

सत्यधर्मीया

रत्नानि तद्गणानि च भणति ॥ इन्द्रनीलेति । पद्मरागाश्च महेन कान्त्या अनीलानि सितानि मुक्ताफलानि च तैर्विराजितम् । अतो नेन्द्रनीलपुनरुक्तता ॥ ९ ॥

पुष्यरागप्रवालाढ्यं दिव्यकाञ्चननिर्मितम् ।

हृतं दानववीरेण विदित्वा पुरपालकः ।

तमन्वधावत् त्वरितं वैनतेयो विहङ्गराट् ॥ १० ॥

सत्यधर्मीया

पुष्परागप्रवालैराढ्यं दिव्यकाञ्चनं निष्टप्ताष्टापदं तेन निर्मितं पुरपालकस्तत्पालनविनियुक्तः ॥ १० ॥

सुमनोरञ्जिनी

दानववीरेण बलिना । हृतं विदित्वा ज्ञात्वा । पुरपालकः वैनतेयो विनतापुत्रो विहङ्गराट् गरुडः ॥ १० ॥

तमन्तरे समासाद्य दानवेन्द्रं दुरासदम् ।

कृत्वा युद्धं महाघोरं जित्वा दानवपुङ्गवम् ॥ ११ ॥

सत्यधर्मीया

अन्तरे भूरन्ध्रे पाताल इति यावत् । अन्तरं तु पराधीन भेदे रन्ध्र इति विश्वः ॥ ११ ॥

सुमनोरञ्जिनी

अन्तरे मध्ये । तथोक्तं भारततात्पर्ये । मत्वा पातालं युधि जित्वा । पातालबलिं चेति षोडशीये सप्तमश्लोके ॥ ११ ॥

गृहीत्वा रत्ननिचयं किरीटं भास्करोपमम् ।

आगच्छन् ददृशे देवं देवकीनन्दनं हरिम् ॥ १२ ॥

सत्यधर्मीया

रत्ननिचयं बहुव्रीहिः ॥ १२ ॥

सुमनोरञ्जिनी

रत्नानां निचयो यस्मिन् तम् ॥ १२ ॥

वसन्तं साग्रजं रम्ये गोमन्ते पर्वतोत्तमे ।

तस्य मूर्धि्न निधायाशु किरीटं दिव्यभूषणम् ।

प्रणम्य पादयोर्मूर्ध्ना स्तोतुं तमुपचक्रमे ॥ १३ ॥

सत्यधर्मीया

तस्य मूधि्न्र शिरसि तं कृष्णम् ।‘तदा दुग्धाब्धौ संसृतिस्थैः सुराद्यैः पूजां प्राप्तुुं स्थानमेषां च योग्यम् । मुक्तस्थानादाप नारायणोऽजो बलिश्चागात्तत्र सन्द्रष्टु-मीशम् । तत्रासुरावेशममुष्य विष्णुः सन्दर्शयन्सुप्तिहीनोऽपि नित्यम् । संसुप्तवच्छिश्य उदारकर्मा सञ्ज्ञायै देवानां मुखमीक्ष्याप्रमेयः । देवाश्च तद्भावविदोऽखिलाश्च निमीलिताक्षाः शयनेषु शिश्यिरे । तदा बलिस्तस्य विष्णोः किरीटमादायागाज्जहसुः सर्वदेवाः । ब्रह्मादिभिः सर्वदेवैः समेतैर्ब्रह्मादिभिर्हासमाने सुपर्णः । गत्वा पातालं युधि जित्वा बलिं च किरीट-मादायाभ्ययाद्यत्र कृष्णः । तत्तस्य शीर्ष्णि प्रतिमुच्य नत्वा खगः स्तुत्वा देवदेवं रमेशम् । स्मृत आगच्छेत्येव विसर्जितोऽमुना ययौ दुग्धाब्धिं यत्र नारायणोऽसौ । किरीटं तत्कृष्णमूधर्ि्न्र प्रविष्टं तत्तुल्यमासीत्तस्य रूपेष्वभेदात् । यदिच्छया चैव नारायणस्य शीर्ष्णेऽप्यासीत्तस्य रूपेष्वभेदात् ॥’ इत्यादिश्रीमदुक्तेर्विशेषो ज्ञेयः । मेलकोट्यामिदानीं तदेव देवमुकुटं वर्वर्तीति किंवदन्ती ॥ १३ ॥

नमो नमः कारणपूरुषाय नारायणायाखिलवल्लभाय ।

सुरारिसंहारणकारणाय नारायणायाखिलकर्मसाक्षिणे ॥ १४ ॥

पदरत्नावली

नमोनम इति पुनरुक्तिरादरार्था । पुरुषायेत्युक्ते जीवायेति शङ्का स्यात् । अतस्तन्निरासार्थं कारणेति । ‘कारणं बन्धमोक्षयोः’ इति श्रुतेर् जीवस्यापि कारणत्वप्रतीतेर्निस्तुषत्वेन शङ्कानिवृत्तये नारायणायेति ॥ अयं शब्दो देवदत्तादिशब्दवत् साङ्केतिको न भवति किन्तु गुणनिबद्ध इति भावेनाह– अखिलेति ॥ न तर्हि शौर्यादि-गुणयोगोऽस्येत्यत्राह सुरारीति ॥ राक्षसवत् संहारी चेन्न कोप्येनमाश्रयतीत्यथाह– नारायणेति । नारो नरसमुदायस्तदाश्रयो नारायणस्तस्मै । ननु सर्वाश्रयत्वं राजवद् बहिस्थत्वेनोतान्तः स्थत्वेनाहोस्विद् वायुवदुभयरूपेण ? नाद्यः । ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतिव्याकोपात् । न द्वितीयः । कर्मभोगप्राप्तेः । न तृतीयः । अखण्डात्मनो द्वित्वानुपपत्तेरिति तत्राह– अखिलेति ॥ १४ ॥

सत्यधर्मीया

वेदशिरोवेदितगुणकत्वेन हरिं नमति ॥ नमो नम इति ॥ मद्वदन्य-नमस्या त्वयाऽनुष्ठिता चेत्किं वैशिष्ट्यं ममेत्यत आह ॥ अनम इति ॥ नाराय त्वद्भिन्न-सङ्घाय । अनमः स्वतन्त्रतया नमनाभावोऽस्त्वित्यर्थः । णाय सुखात्मकाय । णश्च निर्वृत्ति-वाचक इत्यादेः । तुभ्यं नमः । नमो नम इत्यादरेणोक्तिर्वा । कारणेनैव पुरुषस्तस्मै नारायणायाखिलात्पुत्रादेः प्रियाय । प्रस्तुतकार्यकारित्वेन स्तौति ॥ सुरारीति ॥ न बहिरेव रक्षकः किन्त्वखिलकर्मणां साक्षीत्यन्तःस्थित्वा द्रष्टा । तस्मै नारायणाय नाम्ना । नारायणाय गुणाश्रयायेति वा ॥ १४ ॥

सुमनोरञ्जिनी

ननु कथमिदमुपपद्यते । मुक्तगम्ये क्षीरसागरेऽमुक्तस्य बलेर्गमना-योगात् । कथंचिद्गमनेऽपि बलेः कथं पापबुद्धिः । किरीटाहरणमपि हरौ जागरूके सति कथमुपपद्यते । भगवानपि कथं तूष्णीमासेत्याशङ्काः परिहर्तुं प्रवृत्तं तात्पर्यम्—

‘बहुस्थानानि जातानि कृष्णस्य क्षीरसागरे ।

कानिचिन्मुक्तगम्यानि नामुक्तैस्त्रिदशैरपि ।

गन्तुं शक्यान्यथान्यानि गम्यान्यन्यैरपि क्वचित् ।

तत्र देवाश्च योगीन्द्रा भक्ताश्चान्ये जनार्दने ।

गत्वाऽर्चयन्ति देवेशं बलिस्तत्रागमत्क्वचित् ।

तस्य तत्रासुरावेशात्पापबुद्धिरजायत ।

तद्व्यक्त्यर्थं जगन्नाथः शिष्ये सुप्तवदव्ययः ।

तदा स पापया बुद्ध्या किरीटमहरत्प्रभोः ।

तं जित्वा गरुडस्तं तु हित्वा गोमन्तमाव्रजत् ।

तत्र कृष्णस्य शिरसि किरीटममुचत्प्रभोः ॥’ इति माहात्म्य इति ॥

कृष्णस्येत्यावर्तते । क्षीरसागरे । कृष्णस्य बहुस्थानानि । कृष्णस्य सकाशाज्जातानि । कृष्णनिर्मितानि सन्तीत्यर्थः । तत्र कानिचित्स्थानानि मुक्तगम्यानि । अमुक्तैस्त्रिदशैरपि देवैरपि गम्यानि न किम्वन्यैः । अथ प्रकृतस्थानापेक्षया अन्यानि कानिचिद् अमुक्तैस् त्रिदशैर् गन्तुं शक्यानि । अन्यानि ततोऽप्यन्यानि । अन्यैरपि ऋषिगन्धर्वादिभिर् असुरादिभिर्वा । क्वचित् कदाचित् । गम्यानि । अत्र क्षीरसागरेऽप्यमुक्तगम्यस्थानसद्भावाद्बलेर्गमनं युक्त-मित्याद्या शङ्का परिहृता । असुरावेशादित्यनेन द्वितीया । तद्व्यक्त्यर्थं तदिति तन्त्रम् । तस्य बलेस् तस्य असुरावेशस्य व्यक्त्यर्थम् । जागरूकोऽपि सुप्तवत् शिष्ये निमीलिताक्षोऽभवत्, इत्यनेन चतुर्थी च परिहृता ज्ञेया । अत्र भगवत्समीपे । स्थिता देवाः कथं तूष्णीमासन्निति पञ्चमी शङ्कापि महाभारततात्पर्यनिर्णयेन परिहृता ।

तदुक्तम्–

‘सञ्ज्ञायै देवानां मुखमीक्ष्याप्रमेयः ।

देवाश्च तद्भावविदोऽखिलाश्च निमीलिताक्षाः शयनेषु शिष्यिरे ॥

स्तुतिप्रकारमेवाह ॥ नमो नम इति । नारायणाय नमो नम इत्यन्वयः । कारणेन भूभारहरणनिमित्तेन । पूरुषाय पुरुषदेहधारिणे । कारणाय जन्मादिकारणाय । पुरुषाय पूर्णड्गुणायेति वा । न विद्यन्ते अरा दोषा यस्याः सा नारा महालक्ष्मीः । तस्या अयनमाश्रयः । स चासौ, आयेन लाभेन आनन्देनेति यावत् । अखिलाः पूर्णा मुक्तास्तेषां वल्लभश्च तस्मै । नारायणाय । अखिलेभ्यो मम वल्लभायेति वा । न त्वखिलानां वल्लभः । अयोग्यानां वल्लभत्वाभावात् । सुराणामरयो दैत्यादयस्तेषां संहारणे कारणाय । तर्हि निर्निमित्तमसुरसंहरणे वैषम्यनैर्घृण्ये स्यातामित्यत आह ॥ अखिलेति । अखिलानां सुरासुरादीनां कर्मसाक्षिणे कर्मणां साक्षाद् द्रष्ट्रे । सुरासुरकृतकर्माणि साक्षाद् दृष्ट्वा तदनुसारेण फलदानान्न वैषम्यमिति भावः ॥ १४ ॥

हिरण्यगर्भत्वमुपेत्य मूले सृजस्यशेषं भुवनं स एव ।

नारायणात्मन् परिपासि भूयो जहार चान्ते भगवन् शिवात्मन् ॥ १५ ॥

तात्पर्यम्

ब्रह्मस्थो ब्रह्मनामाऽसौ रुद्रस्थो रुद्रनामकः । तयोरपि नियन्तैकः स्वयमेव जनार्दनः ॥ इति स्कान्दे ॥

पदरत्नावली

सृष्टिसंहारयोश्चतुर्मुखपञ्चमुखहेतुत्वोक्तेरस्याखिलहेतुत्वं कथमिति तत्राह– हिरण्यगर्भत्वमिति । मूले आदिकाले हिरण्यगर्भं सृष्ट्वा तदन्तर्यामित्वेन तन्नामवाच्यत्वमुपेत्य । भूयः पञ्चान्नारायणात्मन् नारायणनामपरमात्मन् । पुनः शिवात्मानं सृष्ट्वा तदन्तर्यामित्वेन तन्नामवाच्यस्त्वम् । तदुक्तम्– ‘ब्रह्मस्थो ब्रह्मनामासौ रुद्रस्थौ रुद्रनामकः’ इत्यादि ॥ १५ ॥

सत्यधर्मीया

हिरण्यगर्भत्वमुपेत्य मूल इति मूले कमलभवतादात्म्यमुच्यत इति प्रतीयते । तां मानानुतो विवक्षितमर्थं प्रदर्श्य शमयति ॥ ब्रह्मस्थ इति ॥ स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणमितीरणाद् ब्रह्मणि तिष्ठतीति ब्रह्मस्थः । ब्रह्मेति नाम यस्यासौ तथा । ब्रह्मादिस्थ इत्युक्तौ सर्वसङ्ग्रहे लघुनैव भविष्यति रुद्रस्थ इत्युक्तिः स्वतन्त्रकार्यद्वयापप्रथानुगुण्येन । तत्रापि यावती कण्डूतिस्तावत्कण्डूयनमिति रुद्रग्रहणमिति मन्तव्यम् । तत्स्थतावत्स्वातन्त्र्यमप्याह ॥ तयोरपीति ॥ स्वमेवेति तथैक इति स्वस्यान्यानियम्यताया इव जगतो नियामकान्तरसाहित्या अपि परासो ज्ञेयः । स्कान्दोक्तेन तादात्म्यमर्थ इत्यर्थः ॥

ततश्चायं मूलार्थः ॥ मूले जगदादौ हिरण्यगर्भत्वं तन्नियामकत्वात्तात्स्थ्यात्तच्छब्द-वाच्यत्वमुपेत्याशेषं भुवनं सृजसि । नारायणात्मन् स एव त्वं परिपासि अन्ते शिवात्मन् भगवन्भवान् भूयो जहार च । तस्मै नम इत्यतीतेन वोत्तरेण वाऽन्वयः ॥ १५ ॥

सुमनोरञ्जिनी

ननु कारणपूरुषायेति यज्जन्मादिकारणत्वमुक्तंतत्कथं सम्भवति । हिरण्यगर्भस्य स्रष्टृत्वेन शिवस्य संहर्तृत्वेन प्रसिद्धत्वादित्यत आह ॥ हिरण्येति । मूले आदिकाले । हिरण्यगर्भत्वं तच्छब्दवाच्यत्वम् । शिवात्मन् शिवान्तर्यामिन् । शिवात्मनेति वा । शिवस्थितेन शिवनामकरूपेणेति भावः । एतदेवाभिप्रेत्यापाततः प्राप्तां ब्रह्माद्यभेदशङ्कां परिहरति भगवानाचार्यसूर्यः ॥ ब्रह्मेति ।

‘ब्रह्मस्थो ब्रह्मनामाऽसौ रुद्रस्थो रुद्रनामकः ।

तयोरपि नियन्तैकः स्वयमेव जनार्दनः ॥’ इति स्कान्द इति ।

ब्रह्मणश् चतुर्मुखस्य नामानि हिरण्यगर्भ इत्यादीनि यस्यासौ ब्रह्मनामा । एतेन मूले ब्रह्मपदाभावाद्ब्रह्मनामेति कथमुपयुज्यत इति शङ्का निरस्ता । नारायणात्मन् नारायणा त्मना । सम्बुद्धिर्वा ॥ १५ ॥

तं त्वा यदोर्वंशकरं सुरेशं जानेऽवतीर्णं भुवने वृषाकपिम् ।

अहं हि भृत्यस्तव वैनतेयो ब्रूहि क्रियां किं करवाणि देव ॥ १६ ॥

पदरत्नावली

एवंविधो विष्णुस्त्वमित्याह– तं त्वेति ॥ भुवने प्रसिद्धं वृषाकपिं विष्णुमवतीर्णं तत्सृष्ट्यादिहेतुं च जान इत्यन्वयः । ‘विष्णौ रुद्रे वृषाकपिः’ इत्यतो यदोर्वंशकरमित्यादि क्रियाविशेषणं कर्तव्यम् । धर्मप्रेरकत्वेन फलवर्षणाद् वृषो ऽकस्या-सुखस्य पातृत्वादकपिः । यद्वा अकाद् दुःखात् शरणागतं जगत् पातीति वृषाकपिरिति

॥ १६–१७ ॥

सत्यधर्मीया

उपसंहरति ॥ तमिति ॥ यदोर्वंशकरं तद्वंशविस्तारकारकं भुवनेऽ-वतीर्णं वृषाकपिम् । हरविष्णू वृषाकपीत्यमरः । अहं जाने । अहं हि यतस्तव भृत्यो वैनतेयः । एतेन यन्माता विनता तत्पुत्रत्वान्नाहमप्रवण इति ध्वन्यते । किमित्यव्ययं, कां क्रियां करवाणि हे देव तां ब्रूहि । सेवायां कस्याञ्चिद्विनियोजयेति भावः । हे भृत्यस्तव भृत्यानां स्तवः स्तोत्रं यस्येति वा । वृषाकपिरिति षष्ठे स्पष्टम् । वृषाकपिः पुमान् कृष्णे शङ्करे जातवेदसीति भानुः ॥ १६ ॥

सुमनोरञ्जिनी

त्वा, तं पूर्वोक्तगुणयुक्तम् । वृषाकपिं विष्णुं जान इत्यन्वयः । भक्तानामभीष्टवर्षणाद् वृषा । आ पूर्णं कम् आनन्दं पिबतीति वृषाकपिः । अहं वैनतेयस्तव

भृत्यः । क्रियां सेवारूपाम् ॥ १६ ॥

श्रीशुक उवाच–

इत्युक्त्वा देवदेवेशं प्रणिपत्य विहङ्गराट् ।

जानुनी(ना) धरणीं कृ(ग)त्वा तस्थौ प्राञ्जलिरग्रतः ॥ १७ ॥

दुर्घटभावदीपिका

जानुनी धरणीं कृत्वेत्यस्य धरणीं जानुनी जानुद्वयविशिष्टां कृत्वेत्यर्थः । एतेन धरण्यां जानुनी स्थापयित्वेति वक्तव्यं धरणीं जानुनी कृत्वेत्यनुपपन्न-मिति दूषणं निरस्तम् । जानुनी शब्दस्य जानुविशिष्टपरत्वात् । जानुनी धरणीं कृत्वेत्यस्य धरण्यां जानुनी स्थापयित्वेति तात्पर्यार्थ इत्यूरीकरणात् ॥ १७ ॥

सत्यधर्मीया

इत्युक्त्वा जानुनी गतम् । धरणीं तत्र कृत्वाऽग्रतो हरिधुरि प्राञ्चलिः सन् तस्थौ ॥ १७ ॥

सुमनोरञ्जिनी

एकेन जानुना धरिणीं, गत्वा स्पृष्ट्वा ॥ १७ ॥

तं दृष्ट्वा यादवश्रेष्ठो गरुडं पक्षिपुङ्गवम् ।

प्रीत्युत्फुल्लमुखो दोर्भ्यां पस्पर्शाङ्गं तदुत्तमम् ॥ १८ ॥

पदरत्नावली

तस्य उत्तमम् अङ्गं शिर इत्यर्थः ॥ १८–२५ ॥

दुर्घटभावदीपिका

पस्पर्शाङ्गं तदुत्तममित्यस्य तत्तस्य गरुडस्योत्तममङ्गं पस्पर्शेत्यर्थः । एतेन तच्छब्दस्योत्तममित्यनेन समस्तत्वाद् अङ्गमित्यनेनान्वयो न संभवतीति दूषणं परिहृतम् । तदुत्तममित्यत्र तदिति भिन्नं पदमित्यभ्युपगमात् ॥ १८ ॥

सत्यधर्मीया

तद्येनोरसा शिरसा दृष्ट्येत्युक्तेर्यन्नतं तत उत्तममङ्गं शिरो दोर्भ्यां पस्पर्श । तदित्यव्ययं षष्ठ्यर्थे । तस्योत्तममङ्गमिति वा ॥ १८ ॥

सुमनोरञ्जिनी

उत्तमम् अङ्गं शिर इत्यर्थः ॥ १८ ॥

गच्छ भद्र यथाकाममेहि काले मया स्मृतः ।

इत्युक्त्वा तं विसृज्योभावीश्वरौ रामकेशवौ ॥ १९ ॥

सत्यधर्मीया

भद्र मङ्गलात्मन् । इदानीं गच्छ मया यथाकामं स्मृत एहि यथाकामं गच्छेति वाऽन्वयः ॥ १९ ॥

सुमनोरञ्जिनी

मया स्मृतः सन् एहि ॥ १९ ॥

फलमूलकृताहारौ पीतकौशेयवाससौ ।

अवरुह्य गिरेः शृङ्गात् करवीरपुरं गतौ ॥ २० ॥

सत्यधर्मीया

पीतकौशेयं वासो नीलं च ययोस्तौ नीलाम्बरत्वाद् औपाधिकं कादाचित्कं पीताम्बरं वा तस्येति । पीतनिर्झरवारिणाविति पाठः सरलः ॥ २० ॥

तत्र तौ चतुरो मासानुषित्वा भरतर्षभ ।

महत्या सेनया सार्धं जग्मतुर्मधुरां पुरीम् ॥ २१ ॥

सत्यधर्मीया

तत्र करवीरपुर्याम् महत्या सेनया तत्र सङ्गृहीतया ॥ २१ ॥

सुमनोरञ्जिनी

तत्र करवीरे ॥ २१ ॥

शृगालं निहतं श्रुत्वा मागधः क्रोधविह्वलः ।

आजगाम कुरुश्रेष्ठ महत्या सेनया वृतः ॥ २२ ॥

सत्यधर्मीया

शृृगालं दुरात्मतानुबन्धेन क्रोधविह्वलः ॥ २२ ॥

तेन सार्धमभूद् युद्धं सप्ताहं रामकृष्णयोः ।

तदा पराजितो युद्धे मागधो बहुसैनिकः ॥ २३ ॥

सत्यधर्मीया

सप्ताहं दिनसप्तकं गतम् ॥ २३ ॥

जगाम मागधानेव बहुभिः क्षत्रियैः सह ।

रामकृष्णौ च धर्मज्ञौ सूतमागधवन्दिभिः ॥ २४ ॥

सत्यधर्मीया

बहुभिर्हतावशिष्टैः । धर्मज्ञावित्यनेन पश्चाद्गत्वा पलायनविलयनकर्तारो वध्या इति धर्ममर्मज्ञावित्याह ॥ २४ ॥

सुमनोरञ्जिनी

मागधान् मगधदेशान् ॥ २४ ॥

स्तूयमानौ विविशतुः सानुगौ मधुरां पुरीम् ।

एवं सप्तदशकृत्वस्तावदक्षौहिणीबलः ॥ २५ ॥

दुर्घटभावदीपिका

धर्मज्ञौ पलायमानैः सह युद्धं न कर्तव्यमित्यादिधर्मज्ञौ रामकृष्णौ सूतमागधबन्दिभिः स्तूयमानौ । चशब्द एवार्थे । मधुरां पुरीं च मधुरां पुरीमेव विविशतुः । न तु पलायमानमागधादिभिर्युद्धं चक्रुरिति । एतेन धर्मज्ञावित्येतव्द्यर्थमिति दूषणं परास्तम् । पलायमानमागधादीननुगम्य युद्धं कुतो न कृतमित्याशङ्कापरिहारार्थं धर्मज्ञावित्यनेन पलाय-मानैः सह युद्धं न कर्तव्यमित्यादिधर्मज्ञावित्युच्यत इत्यूरीकरणात् ॥ २४,२५ ॥

सत्यधर्मीया

सप्तदशकृत्व इति पदमेकम् । मुमागमो वा । बिन्दुर्वा । तत्र किञ्चिन्न न्यूनतेति सूचयति । एवं सप्तदशवारं कृत्वःसुजन्तः शब्दः । तावती त्रयोविंश-त्यात्माक्षौहिणीबलं यस्य सः ॥ २५ ॥

सुमनोरञ्जिनी

सप्तदशकृत्वः सप्तदशवारम् । तावदक्षोहिणीबलः पूर्वोक्तत्रयो-विंशत्यक्षोहिणीसैन्ययुक्तः ॥ २५ ॥

युयुधे मागधो राजा यदुभिः कृष्णपालितैः ।

अक्षिण्वत बलं सर्वं वृष्णिभिः कृष्णतेजसा ॥ २६ ॥

पदरत्नावली

अक्षिण्वत अक्षीयत ॥ २६–२९ ॥

सत्यधर्मीया

कृष्णपालितैर्यदुभिर्मागधो राजा युयुधे । कृष्णतेजसा मुख्येन वृष्णिभिस्तद्बलमक्षिण्वताहीयत ॥ २६ ॥

सुमनोरञ्जिनी

अक्षिण्वत क्षीणमभूत् ॥ २६ ॥

हतेषु तेष्वनीकेषु त्यक्तोऽयादरिभिर्नृप ।

अष्टादशमसङ्ग्रामे आगामिनि तदन्तरा ॥ २७ ॥

सत्यधर्मीया

त्यक्तो जीवेति मुक्तः । अष्टादशमेऽष्टादशे । मट् स्वार्थे । आगामिनि सङ्ग्रामे एष्यति तदन्तरा तन्मध्ये ॥ २७ ॥

सुमनोरञ्जिनी– त्यक्तः विसृष्टः । अयाद् अगच्छत् । आगामिनि उत्तरत्र भाविनि सति । तदन्तरा तन्मध्ये ॥ २७ ॥

नारदप्रेषितो वीरो यवनः प्रत्यदृश्यत ।

रुरोध मधुरामेत्य तिसृभिर्म्लेच्छकोटिभिः ॥ २८ ॥

सत्यधर्मीया

नारदेन देवताकार्यविदा विदा च तदायुषः प्रेषितः । अत्र हरिवंश-शंसिता कथाऽप्यनुसन्धेया । तथा हि–

तप्त्वा सुदारुणं घोरं तपः परमदुश्चरम् ।

गर्गः – एवमस्त्विति रुद्रो प्रददौ मुनये सुतम् ।

एवं गर्गस्य तनयः ………………..।

यथा वदति राजेन्द्र मगधाधिपतिर्नृपः ।

तथाऽहं सम्प्रवक्षयामि श्रूयतां यवनाधिपेति ।

साल्वः –इत्येवं नरपतिभास्करप्रगीतं वाक्यं ते कथितं मया हितं नृपाणाम् ।

तत्सर्वं सह सचिवैर्विमृश्य बुद्ध्या प्रयुक्तं (यद्युक्तं) कुरु मनुजेन्द्र

आत्मनेष्टम् ।

यवनः – धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे ।

हुत्वाऽगि्नं विधिवद्राजा कृतकौतुकमङ्गलः ।

प्रस्थानं कृतवान्सम्यग्जेतुकामो जनार्दनमित्यादिना ।

नन्दकुमारमारकः कुमारो गर्गेन वृतो हरवरतो जातश्च । तमाज्ञापयामास ससाल्वत्वतः सहनृपो जरासुतः । तथाऽत्रापि नारदप्रेषितो वीर इतीरणाच्चाकस्मादिति कस्मादीरणं श्रीधरीय इति न जानीमः । कृष्णेन दूततो घटघटितसर्पप्रेषणं तेन च पिपीलिकापूरणेन मारणं च तस्येति चानुसन्धेया । तथा हि तत्रैव–

अपयाने मतिं कृत्वा दूतं तस्मै ससर्ज ह ।

ततः कुम्भे महासर्पं भिन्नाञ्जनचयोपमम् ॥

घोरमाशीविषं कृष्णं कृष्णः प्राक्षेपयत्तदा ।

ततस्तं मुद्रयित्वा तु स्वेन दूतेन हारयत् ॥

निदर्शनार्थं गोविन्दः । कृष्णसर्पोपमः कृष्ण इति ।

तत्काले यवनो बुद्ध्या त्रासनं यादवैः कृतम् ।

पिपीलिकाभिश्चण्डाभिः पूरयामास तं घटम् ।

स सर्पो बहुलैस्तीक्ष्णः सर्वतस्तैः पिपीलकैः ।

भक्ष्यमाणः किलाङ्गेषु भस्मीभूतोऽभवत्तदा ।

तं मुद्रयित्वा तु घटं तथैव यवनाधिपः ।

प्रेषयामास कृष्णाय बाहुल्यमुपदर्शयन् ।

वासुदेवस्तु तं दृष्ट्वा स्वयोगं विहितं प्रभुरिति ।

आचार्यवर्या अपि –

स कृष्णः पन्नगं घटे निधाय केशवोऽर्पयत् ।

निरायुधोऽप्यहं क्षमो निहन्तुमप्रियानिति ।

घटं पिपीलिकागणैः प्रपूर्य यावनोऽर्पयत् ।

बहुत्वतो विजेष्य इत्यहिं मृतं व्यदर्शयत् ।

किमत्र सत्यमित्यहं प्रदर्शयिष्य इत्यजः ।

उदीर्य दूतमभ्ययात् । इति जगदुः । काञ्चन शङ्कां तन्वते । हरेरवन्ध्यसन्धत्वे कथमिदं दन्दशूकहिंसनं तेन तदन्यथात्वमिति । तत्रेदमुत्तरं मन्वते च । कृष्णवर्णतश्चूर्णयाम्यहमेक एवानेकान् बहिः । अन्तश्चान्तरङ्गिकभावं वायसाद्यनासज्जनेनाहेर्बलो बहिः कालयवनकालने तव बलस्य शक्त इति सूचयामास । कृष्णेऽहिर्वाऽहिशयो वेत्यविवेकेन हरवरयथार्थतां पौत्र इत्यादि यदुदेव इति प्रसङ्गसङ्गतमिदमुक्तमिति ज्ञेयम् । तिसृभिर्म्लेञ्छकोटिभिः सह मधुरां रुरोध ॥ २८ ॥

सुमनोरञ्जिनी

यवनः कालयवनः ॥ २८ ॥

नृलोके चाप्रतिद्वन्द्वो वृष्णीन् श्रुत्वाऽऽत्मसम्मितान् ।

तं दृष्ट्वाऽचिन्तयत् कृष्णः सङ्कर्षणसहायवान् ॥ २९ ॥

सत्यधर्मीया

तद्वृत्तान्तमाह— नृलोके स्वयमप्रतिद्वन्द्व इति ॥ आत्म-सम्मितान्वृष्णीन् श्रुत्वा तमागतं यवनं दृष्ट्वा सङ्कर्षणसहायवान्कृष्णोऽचिन्तयत् ॥ २९ ॥

सुमनोरञ्जिनी

आत्मसंमितान् आत्मनः समान् ॥ २९ ॥

अहो यदूनां वृजिनं प्राप्तं ह्युभयतो महत् ।

यवनोऽयं रुणद्ध्यस्मानद्य श्वो वा महाबलः ॥ ३० ॥

पदरत्नावली

उभयतो मागधाद् यवनाच्च प्राप्तं वृजिनं दुःखम् ॥ ३० ॥

सत्यधर्मीया

वृजिनं दुःखम् । व्रजिनं वृजिनं दुःखमिति बृहद्भाष्योक्तेः । उभयतो भयं प्रकाशयति । यवनोरुद्ध्यस्मान्नद्य श्वो वा परश्वो वा मागधो महाबलोऽभ्येति । लोकानुकृतिरत्रोत्तरत्र चेति ज्ञेयम् ॥ ३० ॥

सुमनोरञ्जिनी

उभयतः यावनान्मागधाच्च । वृजिनं दुःखं तदेवाह ॥ यवन इति । अद्य श्वो मागधोऽभ्येतीति । परश्वस्तु नैव संशयः । यद्वा अद्य श्वो वा यवनो ऽस्मान्निरुन्धे । मागधस्तु परश्वो ऽभ्येतीति योजना । रुरोध मथुरामित्येतद्वर्तमानसामीप्यविवक्षयेति

ज्ञेयम् ॥ ३० ॥

मागधोऽभ्येति दुष्टात्मा परश्वो नैव संशयः ।

आवयोर्युद्ध्यतोरस्य यद्यागच्छेज्जरासुतः ॥ ३१ ॥

पदरत्नावली

अस्येति षष्टी तृतीयार्थे । अनेन सह चावयोर्युद्ध्यतोः ॥ ३१ ॥

सत्यधर्मीया

अस्यानेन यवनेन युद्ध्यतोः सतोर्यदि जरासुत आगच्छेत् ॥ ३१ ॥

सुमनोरञ्जिनी

अनेन यवनेन सार्धम् । आवयोर् युध्यतोः सतोः ॥ ३१ ॥

बन्धून् वधिष्यत्यथवा नेष्यते स्वपुरीं बली ।

तस्मादद्य विधास्यामो दुर्गं द्विपददुर्गमम् ॥ ३२ ॥

पदरत्नावली

दुःखं गच्छत्यस्मिन्निति दुर्गम् । ‘सुदुरोरधिकरणे’ इति गमेर्डप्रत्ययः ॥ विशिनष्टि– द्विपदेति । द्वे पदे येषां ते तथा द्विपदः । पदेति निपातो विवक्षितः । मनुष्यैरगम्यमित्यर्थः ॥ ३२–३३ ॥

सत्यधर्मीया

बन्धून्वधिष्यति बहुवारं पराभूतिरुषा । अथवा स्वपुरं नेष्यते खेदयितुम् । बल्यस्मत्परोक्षं बलवान् । द्विपदं दुर्गमं पदशब्दोऽयम् । द्वे पदे येषां तद्दुर्गमं दुर्गं विधास्यामः । आलस्यादमृतं विषमित्युक्तेर् ओत्युक्तिः ॥ ३२ ॥

सुमनोरञ्जिनी

द्विपदैर् मनुष्यैः । दुर्गं गन्तुमशक्यम् ॥ ३२ ॥

तत्र ज्ञातीन्समाधाय यवनं घातयामहे ।

इति सम्मन्त्र्य भगवान् दुर्गं द्वादशयोजनम् ॥ ३३ ॥

सत्यधर्मीया

तत्र दुर्गे ज्ञातीन्वसुदेवादीन्समाधाय निधाय भीतानां समाधानमपि कृत्वेत्यर्थः । यवनं घातयामहे । अनेन हन्ताऽन्योऽस्ति । अतो हतिमेतस्य कारयाम इति ध्वनयति ॥ ३३ ॥

सुमनोरञ्जिनी

तत्र दुर्गे । समाधाय स्थापयित्वा ॥ ३३ ॥

अन्तः समुद्रे नगरं कृष्णोऽद्भुतमचीकरत् ।

दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्पनैपुणम् ॥ ३४ ॥

पदरत्नावली

त्वष्टुर्विश्वकर्मणो विद्यमानं त्वाष्ट्रम् । किं तद्विज्ञानम् ? अत्राह– शिल्पनैपुणमिति । शिल्पविद्यापटुत्वम् ॥ ३४ ॥

सत्यधर्मीया

अन्तःसमुद्रगतं यत्र त्वष्टुर्विश्वकर्मणः सम्बन्धि शिल्पनैपुणं करव्यापारकौशलं दृश्यते । विज्ञानं च महदिति दृश्यत ऊह्यत इति वा । अचीक्लृपत् कारयामास ॥ ३४ ॥

सुमनोरञ्जिनी

अन्तः समुद्रे समुद्रस्यान्तः । दुर्गं तन्मध्ये नगरम् । यत्र यस्मिन्नगरे । त्वाष्ट्रं त्वष्टा विश्वकर्मा तदीयं विज्ञानम् । शिल्पनैपुण्यं शीघ्रकारितालक्षणम् । शिल्पचातुर्यञ्च ॥ ३४ ॥

रथ्याचत्वरवीथीभिर्यथाव(बा)स्तु विनिर्मितम् ।

सुरद्रुमलतोद्यानविचित्रोपवनान्वितम् ॥ ३५ ॥

पदरत्नावली

रथ्या राजमार्गः । वीथी वणिजां मार्गः । यथावास्तु वास्तुलक्षण-मनतिक्रम्य ॥ ३५ ॥

सत्यधर्मीया

रथ्या रथादिमार्गा वीथ्य उपमार्गा यथावस्तु तत्तत्पदार्थलक्षणानुसारेण यथावस्तु स्वशक्त्यनुसारेणेति वा । शक्तं वस्त्विति भण्यत इत्युक्तेः । सुरेति द्रुमलता न्वयि । तद्युतान्युद्यानानि विचित्राण्युपवनानि तैरन्वितम् । उद्याने महति विचित्रोपवनैर् अवान्तरैरन्वितमिति वा ॥ ३५ ॥

सुमनोरञ्जिनी

तदेवाह ॥ रथ्येति ॥ रथ्या राजमार्गाः । वीथ्य उपमार्गाः । यथावास्तु गृहनिर्माणशास्त्रमनतिक्रम्य । गृहनिर्माणस्थानमनतिक्रम्येति वा । सुराणां ये द्रुमा लताश्च येषु तैरुद्यानैर् विचित्रैर् उपवनैश्चान्वितम् ॥ ३५ ॥

हेमशृङ्गैर्दिवस्पृग्भिः स्फाटिकाट्टालगोपुरैः ।

राजतारपुटैः कोष्ठैर्जुष्टं हेमस्वलङ्कृतैः ॥ ३६ ॥

पदरत्नावली

दिविस्पृग्भिः, ‘हृद्द्युभ्यामुपसङ्ख्यानम्’ इत्यलुक्समासः । राजतैः रजतमयैररपुटैर्लोहविशेषैः क्लृप्तैः कोष्ठैरन्तर्गुहैः ॥ ३६ ॥

सत्यधर्मीया

दिवस्पृग्भिस्तावदुच्चैर्धनुः सहस्रोर्ध्वभागदिवस्पृग्भिर्वा । मा तूक्ता । स्फाटिकानि स्फटिकविकृतानि च तानि चाट्टालगोपुराणि च तैः । राजतारपुटैर्लोहविशेषैः कोष्ठैरन्तर्गृहैर्हेमैः कलशैरिति शेषः ॥ ३६ ॥

सुमनोरञ्जिनी

हेममयानि शृृङ्गाणि येषु तैः । दिवस्पृग्भिर् अत्युन्नतैरित्यर्थः । स्फाटिकाः स्फटिकमयाः । अट्टाला उपरिभूमयः गोपुराणि पुरद्वाराणि च तैः । राजतारपुटैः रजतं, आरपुटं पीतलोहविशेषस् ताभ्यां निर्मितैः । कोष्टैर् अन्तर्गृहैः ॥ ३६ ॥

रत्नकूटैर्गृहैर्हेमैर्महामरतकस्थलैः ।

वास्तोष्पतीनां च गृहैर्वलभीभिश्च निर्मितम् ॥ ३७ ॥

पदरत्नावली

रत्नकूटैः रत्नशृृङ्गैर् वास्तोष्पतीनां वास्तुदेवतानाम् ॥ ३७–३८ ॥

सत्यधर्मीया

रत्नकूटैस्तच्छृङ्गैर्महामरकतस्थलैर्वास्तोष्पतीनां वास्तोगृर्ृृहक्षेत्रस्य पतयोऽधिष्ठातारः । वास्तोष्पतिगृहमेधाच्छेति निपातनादलुक्त्वं चेत्येके । वस्तुतस्त्विणः परत्वात्कस्कादिषु चेति षत्वं ज्ञेयम् । वलभीभिश्चन्द्रशालाभिः ॥ ३७ ॥

सुमनोरञ्जिनी

रत्नकूटैः रत्नशिखरैः । हेममयानि महामरकतमयानि स्थलानि येषु तैर् गृहैः । वास्तोष्पतीनां वास्तुदेवानाम् । ग्रामदेवानामिति यावत् । वलभीभिश्चन्द्रशालाभिर् निर्मितम् ॥ ३७ ॥

चातुर्वर्ण्यजनाकीर्णं यदूनां च गृहैर्लसत् ।

सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद्धरेः ॥ ३८ ॥

सत्यधर्मीया

चातुर्वर्ण्येति स्वार्थे ष्यञ् । सुधर्मां शर्मतः सभाम् । पारिजातं शक्त-शक्तिमंशम् । अन्यथा सत्यभामाप्रार्थनं तदुत्पाट्यानयनादिकं सङ्गतेतरः स्यात् । प्राहिणोत् प्रेषयामास ॥ ३८ ॥

सुमनोरञ्जिनी– चत्वारो वर्णा एव चातुर्वर्ण्यम् । ते च ते जनाश्च तैर् आकीर्णं व्याप्तम् । लसत् शोभमानं सुधर्मां तन्नामकसभां पारिजातं च प्राहिणोत् प्रस्थापयामास ॥ ३८ ॥

यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर्वियुज्यते ।

यत् प्रियं देवदेवस्य विष्णोः क्षीरोदवासिनः ॥ ३९ ॥

पदरत्नावली

मर्त्यधर्मैर्जरादिलक्षणैः । क्षीरोदशायिनो विष्णोर्यत् प्रियं हृद्यं तदपि ददौ ॥ ३९–४० ॥

सत्यधर्मीया

यत्र सुधर्मायां मर्त्यधर्मैर्जरादिभिर्वियुज्यते वियुक्तो भवति । क्षीरोदवासिनो देवदेवस्य विष्णोर्यत्प्रियं तत्सर्वं प्राहिणोत् ॥ ३९ ॥

सुमनोरञ्जिनी

यत्र यस्यां सभायाम् । मर्त्यधर्मैर् जरावलीपलितादिभिः क्षुत्पिपा-सादिभिर्वा ॥ ३९ ॥

श्यामैककर्णान् वरुणो हयान् शुक्लान् मनोजवान् ।

ददौ सहस्रसङ्ख्यातान् देवदेवाय तोयराट् ॥ ४० ॥

सत्यधर्मीया

तोयराट् नीरनायकः ॥ ४० ॥

सुमनोरञ्जिनी

तोयराट् जलाभिमानी ॥ ४० ॥

अष्टौ निधिपतिः कोशान् रत्नपूर्णानविक्षयान् ।

तथाऽन्ये लोकपालाश्च ददुः स्वाधिकृतं धनम् ॥ ४१ ॥

पदरत्नावली

निधिपतिः कुबेरः । अष्टौ कोषान् निधीन् । अविक्षयानव्ययान् । स्वाधिकृतं स्वकीयत्वेनाभिमतम् ॥ ४१ ॥

दुर्घटभावदीपिका

अविक्षयानित्यस्य विविधव्ययकृतक्षयो, न विद्यते विक्षयो येषां तेऽविक्षयास्तानित्यर्थः । एतेनाविक्षयानिति विशब्दः किं नञर्थः किंवा विशेषार्थः । नाद्यः । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायेनातिशयितक्षयोऽस्तीत्यर्थस्य प्राप्तेः । न द्वितीयः । विशेषतः क्षयो नास्तीत्युक्ते किञ्चित्क्षयोऽस्तीत्यर्थस्य प्राप्तेरिति दूषणं परास्तम् । उपसर्गाः क्रियावचनाभावे ससाधानं क्रियामाहुरिति वचनात् । अत्र विक्षयक्रियाभावात् । वीत्युपसर्गस्य विविधव्ययकृत इत्यर्थकत्वमङ्गीकृत्याविक्षयानित्यस्य विविधव्यये कृतेऽपि क्षयरहितानिति तात्पर्यार्थ इति स्वीकरणात् ॥ ४१ ॥

॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्याम्

उत्तरार्धे त्रिपञ्चाशोऽध्यायः ॥ १०५३ ॥

सत्यधर्मीया

निधिपतिर्धनदोऽष्टौ निधीन् ।

‘पद्मश्चैव महापद्मो मत्स्यकूर्मौ तथौदकः ।

नीलो मुकुन्दः शङ्खश्च निधयोऽष्टौ प्रकीर्तिताः’ इति कीर्तनात् ।

महापद्मपद्मयोरेकीकरणेन महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नवेति वाऽमरोक्तानष्टौ निधीन् । श्रीमुकुन्दे निधिनिधौ सति किं मुकुन्दनिधिनेति तदप्रेषणेऽष्टकसम्पत्तेरिति केचित् । केचिच्चैकस्मिन्नप्रहितेऽपि तत्कार्यं यथा भविष्यति तथेतरेषामप्रेषणेऽपि हरिशक्तितः सर्वकार्यं भविष्यत्येव । तथाऽपि सेवार्थमेव तत्प्रेषणमिति द्योतयितुमेकत्यागेनाष्टेति स्पष्टोक्तिरिति भावं भावयन्ति । अपरे तु नाम्ना शिखण्डि-व्रजमित्यादिवत् खर्वेति ह्रस्वम् । स्वल्पमित्यर्थकं भवन्न महत्त्वोपयोगि भवेदिति तत्त्याग इति वर्णयन्ति । अविक्षयान्विक्षयरहितान् । व्यये कियति सति कृतेऽप्यव्ययान् स्वाधिकृतं स्वाभिगतिमत्तया भगवत्कृतम् । अभिमतिमदलाभे स्वेषामाधिकृन्मानसपीडाकारि । स्वमनःपूर्वकं कृतम् । सम्पादितमिति वा । आधिर्मनो वरूथं चेति तृतीयतात्पर्यात् ॥ ४१ ॥

सुमनोरञ्जिनी

निधीनां पतिः कुबेरः । अष्टौ कोशान् ।

‘पद्मश्चैव महापद्मो मत्स्यकूर्मौ तथौदकः ।

नीलो मुकुन्दः शङ्खश्च निधयोऽष्टौ प्रकीर्तिताः ॥’ इति प्रसिद्धानष्टनिधीन् ।

कीदृशान् ? अविक्षयान् अक्षय्यान् । स्वाधिकृतं स्वस्वामिकम् ॥ ४१ ॥

यद् यद् भगवता दत्तमाधिपत्यं स्वसिद्धये ।

सर्वं प्रत्यर्पयामासुर्हरौ भूमिगते नृप ॥ ४२ ॥

पदरत्नावली

क्षीरोदधिमथने हरिणा दत्तम् ॥ ४२ ॥

सत्यधर्मीया– यद्यद्यस्याधिपत्यं भगवता दत्तं तत्सर्वं हरौ भूमिगतेऽर्पयामासुः । तदर्पणफलं लपति । स्वसिद्धये स्वस्वरूपलाभाय । स्वं ज्ञातावात्मधनयोः सिद्धिनिष्पत्ति-लाभयोरिति विश्वौ ॥ ४२ ॥

सुमनोरञ्जिनी

अन्येऽपि लोकपाला स्वेभ्यो भगवता यद्यद् यस्य यस्याधिपत्यं दत्तं तत्सर्वं हरौ हर्यर्थं प्रत्यर्पयामासुः । कुत इत्यत उक्तं स्वसिद्धय इति । स्वेषां सिद्धये मोक्षे आनन्दवैशेष्यसिद्धये इत्यर्थः । ज्ञानोत्तरकृतभगवत्सेवाया तद्धेतुत्वाद् देवानां च ज्ञानित्वादिति भावः ॥ ४२ ॥

तत्र योगप्रभावेण नीत्वा स्वान् भगवान् हरिः ।

मधुरायाश्च रामेण कृष्णः समनुमन्त्रितः ।

निर्जगाम पुरद्वारात् पद्ममाली निरायुधः ॥ ४३ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे त्रिपञ्चाशोऽध्यायः ॥

पदरत्नावली

योगप्रभावेण मधुरास्थितपदार्थराशिर्यथा द्वारकास्थितो भवति तथा करणसामर्थ्येन । रामेण समनुमन्त्रितः सहितः ॥ ४३ ॥

॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे त्रिपञ्चाशोऽध्यायः ॥

सत्यधर्मीया

रामेण सम्यनगुमन्त्रितं येन स मधुरायाः सकाशात्तत्र योगप्रभावेन नीत्वा प्रस्थाप्य रामं च मधुरापालने (द्वारकापालने इति स्याद्वेति भाति) नियुज्य स्वयं पद्ममाली निरायुधः पुरद्वारान्निर्जगम ॥ ४३ ॥

॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां

दशमस्कन्ध उत्तरार्धे त्रिपञ्चाशोऽध्यायः ॥ १०–५३ ॥

सुमनोरञ्जिनी

योगप्रभावेन अचिन्त्यशक्त्या । स्वान् । मथुरायाः सकाशात् । तत्र रामेण समनुमन्त्रितः ‘त्वमत्रैव तिष्ठ । अहं तु यवनहननार्थं गमिष्यामि’ इति ॥

॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां

सुमनोरञ्जिन्यां त्रिपञ्चाशोऽध्यायः ॥