०४ द्विपञ्चाशोऽध्यायः

बाणसेनां गतां दृष्ट्वा शस्त्रौघेण भृशार्दिताः

॥ अथ द्विपञ्चाशोऽध्यायः ॥

श्रीशुक उवाच–

बाणसेनां गतां दृष्ट्वा शस्त्रौघेण भृशार्दिताः ।

राजपुत्रा विमनसो बभूवुर्नृपसत्तम ॥ १ ॥

पदरत्नावली

विमनसो युद्धविरतमनसः ॥ १ ॥

सत्यधर्मीया

राजपुत्रा नृपसत्तमेत्याभ्यां परम्परया राजपुत्रा इति न भाव्यं भीतै-स्तथाऽपि भीता इति प्रतिपक्षिबलिष्ठतामिव तवैतादृशी दशा कदाऽपि नायाता ‘विद्वानेव विजानाति विद्वज्जनपरिश्रमम्’ इति त्वमेतन्न जानीष इति च ध्वनयति ॥ १ ॥

सुमनोरञ्जिनी

विमनसः व्यग्रमनसः ॥ १ ॥

गतां च दानवीं सेनां श्रान्तांश्च धरणीपतीन् ।

दृष्ट्वा कृष्णं च युद्ध्यन्तं रामस्य ववृधे बलम् ॥ २ ॥

पदरत्नावली

दानवस्य बाणस्य विद्यमानाम् ॥ २ ॥

सत्यधर्मीया

दानवीं बाणसम्बन्धिनीम् । धरणीपतीन् राज्ञः श्रान्तान् कृष्णं युद्ध्यन्तं च दृष्ट्वा रामस्य बलस्य बलं ववृधे ॥ २ ॥

सुमनोरञ्जिनी

दानवीं दानवस्य बाणस्य सम्बन्धिनीम् ॥ २ ॥

स मागधं गृहीत्वाऽऽजौ मौलौ वामेन पाणिना ।

प्रहर्तुमैच्छच्छिरसि मुसलेन हलायुधः ॥ ३ ॥

पदरत्नावली

मौलौ संयतकेशे । ‘मौलिः संयतकेशेषु चूडायां मुकुटोप्ययम्’ इति

॥ ३ ॥

सत्यधर्मीया

स हलायुध ऐच्छत् । मौलौ चूडायाम् । मौलिः किरीटे धम्मिल्ले कङ्कोलद्रुमचूडयोरिति विश्वः ॥ ३ ॥

सुमनोरञ्जिनी

आजौ युद्धौ मौलौ संयतकेशपाशे । मौलिः संयतकेशेषु चूडायां मुकुटे इत्यभिधानमिति पदरत्नावली ॥ ३ ॥

ततोऽन्तरिक्षे घनघोषघर्घरां शुश्राव वाणीं विशदाशरीरिणीम् ।

न राम वध्यो भवता जरासुतः सुखी निवर्तस्व रणादिति स्फुटम् ॥ ४ ॥

पदरत्नावली

घर्घरां गम्भीराम् । ‘गाम्भीयर्ेे नूपरारावे घर्घरः समुदाहृतः’ इति । अशरीरिणी शरीरहीनां दैवीमित्यर्थः ॥ ४–७ ॥

सत्यधर्मीया

ततः । हे राम । भवता जरासुतो न वध्यो रणात्सुखी निवर्तस्वेति स्फुटमन्तरिक्षे घनघोषघर्घरां तद्वद्गम्भीराम् । गाम्भीर्ये नूपुरारावे घर्घरः समुदाहृत इति घर्घरस्तु चलद्वारि वारिदध्वान इति विश्वः । घनघोषाज्जायमानो घर्घरो गलज्जलारावस्तद्व-द्विद्यमानामिति वा । विशदा च सा अशरीरिणी च तां वायुसम्बन्धिनीम् । वैशद्यं चार्थ-प्रतिभासो यथा भवेच्छ्रुतवतां तथेति मन्तव्यम् । विशदवत् क्षीरमाधुर्यवन्मधुरा च साऽशरीरिणी च तामिति । विशदं क्षीरमाधुर्यमित्युक्तेः । वाणीं शुश्रावाशृृणोत् ॥ ४ ॥

सुमनोरञ्जिनी

घनघोष इव मेघध्वनिरिव घर्घरां गम्भीराम् । गाम्भीर्ये नूपुरारावे घर्घरः समुदाहृत इति च । अशरीरिणीम् । वाणीं शुश्राव ॥ ४ ॥

वचस्तदाकर्ण्य हलायुधो बली विसृज्य चास्थाय रथं रणाङ्गणात् ।

न्यवर्तत ब्रह्मर्षिसिद्धसङ्घैरभिष्टुतो मागधसूतबन्दिभिः ॥ ५ ॥

सत्यधर्मीया

बली हलायुधस्तद्वच आकर्ण्य श्रुत्वा विसृज्य जरासन्धं रथमास्थाय रणाङ्गणाद् ब्रह्मर्षिसिद्धसंङ्घैर्मागधसूतबन्दिभिरभिष्टुतो न्यवर्तत निववृते ॥ ५ ॥

सुमनोरञ्जिनी

विसृज्य मागधमिति शेषः । रथमास्थाय रथे उपविश्य ॥ ५ ॥

जरासुतः सम्प्रति नम्रकन्धरो नृपैश्च युद्धाभिजितैः समन्वितः ।

हतावशिष्टाल्पबलेन संवृतो निवृत्तयुद्धः प्रययौ स्वकं पुरम् ॥ ६ ॥

सत्यधर्मीया

नम्रः पराजयजातलज्जया कन्धरो यस्य स युद्धाभिजितैर्नृपैस्समन्वितो युक्तः समनुभिर्मनुभिर्मन्त्रैर्गुप्तालोचनैः सहिता इति समनवस्तैरिति वा । सामर्थ्यात्समनु-पदार्थस्य नृपपदार्थे तादात्म्यसम्बन्धेनान्वयः । समनुभी राजभिरित इति । आगमार्थः परस्य चेति कथालक्षणटीकायां परस्येत्येतत्सामर्थ्यादागमशब्देन सम्बध्यत इत्युक्तेः । हतावशिष्टे-नेत्युक्तौ अन्नशेषैः किं क्रियतामित्यादिवदवशिष्टस्य बहुलताभायान्न तथेति बोधयितुमल्पेत्य-जल्पदिति ज्ञेयम् ॥ ६ ॥

सुमनोरञ्जिनी

नम्रकन्धरो ऽधोमुख इत्यर्थः ॥ ६ ॥

गोविन्दस्तु महातेजाः सपत्नांञ्छरसञ्चयैः ।

आच्छाद्य भूपान् विद्राव्य हत्वा च सुबहून् रणे ॥ ७ ॥

सत्यधर्मीया

सपत्नान् रिपून् भूपान् कांश्चिद्विद्राव्य सुबहून् हत्वा ॥ ७ ॥

सुमनोरञ्जिनी

सपत्नान् भूपानित्यन्वयः । आच्छाद्य विद्राव्य हत्वा च ॥ ७ ॥

संस्तूयमानः सन्तुष्टैः सूतमागधवन्दिभिः ।

ब्राह्मणैश्च महाविद्यैः स्तोत्रं कुर्वद्भिरुच्चकैः ॥ ८ ॥

पदरत्नावली

सम्यक् प्रीतपुरुषैः । महती विद्या शास्त्रविषया येषां ते तथा तैः ॥

सत्यधर्मीया

महाविद्यैर्बहुज्ञैर् यैरसन्तुष्टैः सेनागमनसमयेऽन्वीयमानस्तैरेव सन्तुष्टै-र्महावित् सर्वज्ञोऽन्वीयमान इति वा ॥ ८ ॥

सुमनोरञ्जिनी

महत्यो विद्या वेदशास्त्रादिरूपा येषां तैः ॥ ८ ॥

अन्वीयमानो भगवान् प्राविशन्मधुरां पुरीम् ।

हृष्टपुष्टजनाकीर्णां तुङ्गप्राकारतोरणाम् ॥ ९ ॥

सत्यधर्मीया

अत एव मधुरां मनोज्ञां मधुरां तन्नाम्नीम् ॥ ९ ॥

सुमनोरञ्जिनी

तुङ्गाः प्राकारास् तोरणा वाहा द्वारश्च यस्याम् ॥ ९ ॥

चलत्कदलिकोपेतां दीपाङ्कुरविराजिताम् ।

प्रविशन् राजमार्जेण स्त्रीभिः प्रासादसंस्थितैः ॥ १० ॥

सत्यधर्मीया

दीपैरङ्कुरैश्च दीपाङ्कुरैर्दीपकलिकाभिरिति वा स्त्रीभिस्तथा प्रासाद-संस्थितैर्बालैर्बलिष्ठैर्वृद्धैः पुरषैश्च ॥ १० ॥

सुमनोरञ्जिनी

दीपाङ्कुरैर् दीपैर् अङ्कुरैश्च । स्त्रीभिः, प्रासादसंस्थितैः पुरुषैश्च ॥ १० ॥

पुष्पैश्च लाजाञ्जलिभिः कीर्यमाणो व्यराजत ।

उपायनानि दिव्यानि पुष्पस्रगनुलेपनान् ॥ ११ ॥

दुर्घटभावदीपिका

लाजाञ्जलिभिरित्यस्याञ्जलिमुक्तलाजैरित्यर्थः । एतेनाञ्जलिमुक्त-लाजैरिति वक्तव्यं लाजाञ्जलिभिरित्यनुपपन्नमिति दूषणं निरस्तम् । अञ्जलिशब्दस्याञ्जलि-मुक्ततापरत्वं विशेषणस्य परनिपातत्वं चाङ्गीकृत्य लाजाञ्जलिभिरित्यस्याञ्जलिमुक्तलाजैरित्यर्थ इत्युक्तत्वात् ॥ ११ ॥

सत्यधर्मीया

पुष्पैर्लाजाञ्जलिभिर्भ्रष्टव्रीह्यञ्जलिभिः कीर्यमाणो व्यराजत । अनुलेपन-शब्दः करणे ल्युडन्त इति पुल्लिङ्गः । उपलिप्यतेऽनेनेति गन्धादिस्तम् ॥ ११ ॥

प्रियङ्करा माधवाभ्यामुपाजह्रुः पुरौकसः ।

एवं स राजमार्गेण गत्वा यादवसत्तमः ॥ १२ ॥

सत्यधर्मीया

प्रियङ्करा गतम् । माधवाभ्यां रामकृष्णाभ्याम् ॥ १२ ॥

सुमनोरञ्जिनी

पुरौकसः पुरस्थाः । पुष्पस्रजः पुष्पमालाः । उपाजह्रुर् उपानिन्युः ॥

सभां प्रविश्य विपुलामुपविश्य वरासने ।

रामेण सहितो वीरः शैनेयेन च धीमता ॥ १३ ॥

सत्यधर्मीया

धीमतेत्युभयविशेषणम् ॥ १३ ॥

सुमनोरञ्जिनी

शैनेयेन सात्यकिना ॥ १३ ॥

पूजितो यदुभिर्विप्रैर्दिवि शक्र इवामरैः ।

तत्रासीनैर्बृद्धिमद्भिर्यदुवृद्धैर्महात्मभिः ॥ १४ ॥

सत्यधर्मीया

शक्र इवेत्येकवचनेन यदि द्वौ स्यातां शक्रौ तदा समौ स्यातामिति स्वोक्तितात्पर्यं ध्वनयामासेति वा । बलान्तर्गतस्य शुक्लकेशस्य श्रीकृष्णस्य च तादात्म्यमेव चेति ज्ञेयम् ॥ १४ ॥

उग्रसेनोद्धवमुखैरक्रूरप्रमुखैर्हरिः ।

समाभाष्याभ्यनुज्ञातः सङ्कर्षणसहायवान् ॥ १५ ॥

सत्यधर्मीया

अक्रूरः प्रमुखे सम्मुखे येषां तैरुग्रसेनोद्धवमुखैरुग्रसेनादिभिः । उग्रायां क्रूरायां सेनायां सत्यामागतायां ये उद्धवोपेतमुखास्तैरक्रूरप्रमुखैरक्रूरादिभिरिति वा । इदं-द्वारत्वादक्रूरपुरस्कृतिः । नानेनातिरेकतो मुखभङ्ग इति ध्येयम् । समाभाष्यालोच्येति यावत्

॥ १५ ॥

सुमनोरञ्जिनी

उग्रसेनादिभिर् अनुज्ञात इति सम्बन्धः । तान् समाभाष्य ॥ १५ ॥

द्रष्टुकामो महादुर्गं गोमन्तं पर्वतोत्तमम् ।

निर्गम्य मधुरां प्रातर्दक्षिणाभिमुखो ययौ ॥ १६ ॥

पदरत्नावली

मधुरां रक्षितुं निर्गम्य निर्धार्य । पञ्चम्यर्थे वा द्वितीया ॥ १६ ॥

सत्यधर्मीया

मधुरां मधुरायाः । षट्सु द्वितीयेति स्मरणात्पञ्चम्यर्थे द्वितीया ॥१६॥

सुमनोरञ्जिनी

महादुर्गम् । महान्तं परिमाणतः । दुर्गं च गन्तुमशक्यम् । नामतो गोमन्तम् । मथुरां मथुरायाः । षट्सु द्वितीयेति सूत्रात् । निर्गम्य ॥ १६ ॥

स रामानुगतः श्रीमानुत्तीर्य यमुनां हरिः ।

देशान् बहूनतिक्रम्य पर्वतान् सरितो गिरौ ॥ १७ ॥

सत्यधर्मीया

रामानुगतः स श्रीमान् । गिरौ महेन्द्रे ॥ १७ ॥

सुमनोरञ्जिनी

गिरौ ॥ १७ ॥

गच्छन् क्वचिद् वनोद्देशे वृक्षमूलनिवासिनम् ।

ददर्श कञ्चन मुनिं जटामण्डलमण्डितम् ॥ १८ ॥

पदरत्नावली

गिरौ वनोद्देशे वने उन्नतप्रदेशे वृक्षमूले निवासिनं कृतावासम् । कञ्चन लोकविलक्षणम् ॥ १८–१९ ॥

दुर्घटभावदीपिका

कञ्चनेत्यस्य सुखरूपं चेत्यर्थः । एतेन नमस्ते भार्गव श्रीमन्निति वक्ष्यमाणत्वेन मुनिमित्यस्य भार्गवमुनिमित्यर्थस्य सिद्धत्वात् कञ्चनेत्ययुक्तमिति चोद्यं प्रत्युक्तम् । कशब्दः सुखवाची । चशब्दार्थश्चनशब्दो वृक्षमूलनिवासिनमित्यादिविशेषण-समुच्चयार्थ इत्यभ्युपेत्य कञ्चनेत्यस्य सुखरूपं चेत्यर्थ इत्यभ्युपगमात् ॥ १८ ॥

सत्यधर्मीया

तत्रापि वनोद्देशे वृक्षमूलनिवासिनं जटामण्डलमण्डितं कञ्चन मुनिं ददर्श ॥ १८ ॥

सुमनोरञ्जिनी

वनोद्देशे वनप्रदेशे । कञ्चन मुनिं भार्गवरामाख्यम् । ददर्शेति सम्बन्धः । तं विशिनष्टि ॥ जटेति । जटाया मण्डलेन वलयेन मण्डितम् अलङ्कृतम् ॥ १८ ॥

चीरकृष्णाजिनधरं कमण्डलुविराजितम् ।

समाधौ समुपाविष्टं तेजसा भास्करोपमम् ॥ १९ ॥

सत्यधर्मीया

प्रावृणमेकमेकं परिधानीयमिति चीरकृष्णाजिनयोर्धरतीति तम् ॥१९॥

सुमनोरञ्जिनी

चीरस्य जीर्णवस्त्रस्य कृष्णाजिनस्य च धरं धारकम् । समाधौ समाध्यर्थे । समाध्यवस्थायाम् । समुपाविष्टं प्रविष्टमिति वा । समाधिगतमित्यर्थः ॥ १९ ॥

फलमूलकृताहारं वृतं शिष्यशतैर्मुनिम् ।

दृष्ट्वा परमसन्तुष्टौ रामकृष्णौ जगत्पती ॥ २० ॥

पदरत्नावली

फलं लाभ आनन्दश् चेतनस्य मूलं ज्ञानं ते एव कृते पूर्णे आहारो यस्य स तथा तम् ॥ २० ॥

सत्यधर्मीया

फलमूलकृत आहारो यस्य तम् । लोकदृष्ट्या फलमूलकृत आहारोऽस्मिन्कर्मणि तद्यथा भवति तथा शिष्यशतैर्वृतमिति वाऽन्वयः । फलमूलाहारवत् शिष्यकर्तृकवरणं तेन युत इत्यर्थः ॥ २० ॥

प्रणामं चक्रतुर्वीरौ यथान्यायमतन्द्रितौ ।

इदं चोवाच भगवान् कृष्णस्तं मुनिपुङ्गवम् ॥ २१ ॥

तात्पर्यम्

‘सर्वावताराभिन्नोऽपि समशक्तिरपि स्वयम् । पूज्यपूजकनीचोच्चं मोहनाय दुरात्मनाम् । अखण्डैकरसो विष्णुर्दर्शयेत्तत्र तत्र हि ॥’ इति षाड्गुण्ये ॥२१॥

पदरत्नावली

प्रणामं चक्रतुरित्यादिना प्रतीयमानः कृष्णभार्गवरामयोर् नम्यनन्तृभावो भेदाविनाभावं गमयति । तत् कथमुभयोर्विष्णुत्वे सङ्गच्छत इत्याशङ्का– ‘‘सर्वावतारा-भिन्नोऽपि सर्वशक्तिरपि स्वयम् । पूज्यपूजकनीचोच्चं मोहनाय दुरात्मनाम् । अखण्डैकरसो विष्णुर्दर्शयेत् तत्र तत्र हि’ इति षाड्गुण्यवचनेन परिहरणीयेति ॥ २१ ॥

सत्यधर्मीया

प्रमाणं चक्रतुर्वीरौ यथान्यायमिति श्लोके नम्यत्वं भार्गवस्य नन्तृता च कृष्णस्य तेनोच्चत्वं भृगुजातस्य शौरेर्नीचता साऽपि न चेतसा चिन्तयितुं योग्या । उत्तरत्र नमस्ते पुण्डरीकाक्षेति कृष्णस्य नम्यता नन्तृता च जामदग्न्यस्येत्युक्तेरनिर्णयः । तयोर्भेद एवादौ वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो नरसिंहो वामनो रामो रामः कृष्णो बुद्धः कल्किरहं शतधेत्यादिबाधितः । न च तादात्म्ये नम्यत्वादिः सम्भवतीत्यतः प्रमाणेन तात्पर्यमाह ॥ सर्वेति ॥ सर्वावतारैरभिन्नः समा शक्तिर्यस्य स तथा स्वयं हरिः पूज्यपूजकनीचोच्चम् । द्वन्द्वैकवद्भावः । भावप्रधानश्च । पूज्यत्वं पूजकत्वमेतत्प्रयोजक-मुच्चत्वं नीचत्वं च तानि । अत्र यथाक्रममुच्चनीचमिति यद्यपि वक्तव्यम् । कथमुक्तावप्यभेदे किमित्येवं व्यत्यस्योक्तिः । पाठक्रमादर्थक्रमो गरीयानित्युक्तेरुक्तप्रकारेणान्वयार्थौ ज्ञेयौ । अखण्डैकरसोऽपि ज्ञानघनोऽपि विष्णुर्दुरात्मनां मोहाय तत्र तत्रावतारेषु दर्शयेत् । हीति विद्धवन् मुग्धवच्चैव केशवो वेदनार्तवदित्येकस्मिन्नपि दुरात्मनां मोहाय दर्शयेदित्याद्यर्थविशेषं सूचयति । इति षाड्गुण्योक्तेर्न नम्यनन्तृभावोऽभेदं बाधितुमलमिति भावः ।

वीरौ वीरः प्रेरकरहित एकश्च वीरो विवद्गरुडवदीर ईर्यश्चैको वीरोऽपरश्चेति वीरौ यथान्यायमतन्द्रितौ निरालस्यौ प्रणामं चक्रतुः । अनन्तरं कृष्णो भगवान् तं मुनिपुङ्गव-मिदमुवाच ॥ २१ ॥

सुमनोरञ्जिनी

एतादृशं मुनिं दृष्ट्वा । अतन्द्रितौ अनलसौ भूत्वा शीघ्रमिति यावत् । प्रणामं चक्रतुरित्यन्वयः । अत्र कृष्णभार्गवरामयोर्नन्तृनम्यभावोक्त्या भेदः प्रतीयते । तां निवारयितुं प्रवृत्तं तात्पर्यम् ।

‘सर्वावताराभिन्नोऽपि समशक्तिरपि स्वयम्

पूज्यपूजकनीचोच्चं मोहनाय दुरात्मनाम् ।

अखण्डैकरसो विष्णुर्दर्शयेत् तत्र तत्र च’ ॥ इति षाङ्गुण्य इति ।

यद्यपि विष्णुः सर्वावतारैरभिन्नः स्वरूपतो भेदरहितः समशक्तिश्च । अपिना अन्ये ज्ञानादयो गुणा गृह्यन्ते । शक्तिज्ञानादयो गुणा अपि समाना इत्यर्थः । सर्वशक्तिरिति पाठे पूर्णशक्तिरित्यर्थः । अपि तथापि दुरात्मनां मोहनाय । पूज्यपूजकतया नीचोच्चतां दर्शयेत् । नन्वस्तु सर्वावताराभिन्नः । उच्चस्यापि कदाचित्स्वगतगुणनाशे नीचतादर्शनात्तथास्त्वित्यत उक्तम् । अखण्डैकरस इति । भेदाभेदे हि खण्डितत्वं स्यात् । अयं तु गुणादिभि-रखण्डैकरसो ऽत्यन्ताभिन्नः । अतो न कदाचिदपि नीचोच्चता । किन्तु मोहार्थं प्रदर्शन-मात्रमिति तात्पर्यवचनार्थो द्रष्टव्यः ॥ २१ ॥

नमस्ते भार्गव श्रीमन् जामदग्न्य तपोधन ।

रामकृष्णौ स्मृतावावां क्वचित् ते श्रवणं गतौ ॥ २२ ॥

सत्यधर्मीया

हे भार्गव श्रीमंस्ते नमः । वक्तारोे नानुयोक्तारं प्रति लोका नायं नायको यदूनामप्राक्षीन्नोत्तरमूचे कश्चित्किञ्च पूर्वं कञ्चन मुनिपुङ्गवमित्यरूपनामवित्त्वं चोक्तं प्रतीयते अतः कथं जामदग्न्य भार्गवेत्युक्तिरित्यतोऽत एव कञ्चनेत्यादिकं कञ्चन विलासं जानीहीति भाव उपसंहार एवमीरणेन ज्ञेयः । स्मृतौ आवां ते श्रवणं श्रोत्रं क्वचिद्गतौ किम्

॥ २२ ॥

सुमनोरञ्जिनी

भार्गव भृगुकुलोत्पन्न जामदग्न्य जमदग्नेरपत्य आवां रामकृष्णाविति स्मृतौ क्वचित्काले श्रवणं गतौ । किमिति काकुः ॥ २२ ॥

इत्युक्तस्तेन धर्मात्मा वासुदेवेन भार्गवः ।

निरीक्ष्य माधवौ प्राह प्रीत्युत्फुल्लमुखेक्षणः ॥ २३ ॥

सत्यधर्मीया

मुखं चेक्षणे चोत्फुल्लानि यस्य सः ॥ २३ ॥

सुमनोरञ्जिनी

प्रीत्या उत्फुल्ले विकसिते मुखेक्षणे यस्य ॥ २३ ॥

स्वागतं ते यदुश्रेष्ठ साग्रजाय महात्मने ।

जाने त्वां यदुषूत्पन्नं भगवन्तमधोक्षजम् ॥ २४ ॥

दुर्घटभावदीपिका

साग्रजाय महात्मन इत्यस्य साग्रजाय महात्मने नम इत्यर्थः । एतेन साग्रजाय महात्मन इत्येतदनन्वितमिति शङ्का निरस्ता । अध्याहृतेन नम इत्यनेना-न्वय इत्यभ्युपगमात् ॥ २४ ॥

सत्यधर्मीया

हे यदुश्रेष्ठ । ते आगतं स्वागतं समीचीनमागमनम् । भगवन्त-मधोक्षजं यदुषूत्पन्नं त्वामहं जाने ॥ २४ ॥

सुमनोरञ्जिनी

साग्रजाय महात्मने इति चतुर्थी षष्ट्यर्थे ते, आगतमागमनं तत्समीचीनमिति ॥ २४ ॥

कार्याणां कारणं पूर्वं जगतामादिपूरुषम् ।

नमस्ते पुण्डरीकाक्ष विश्वलोकैककारण ॥ २५ ॥

सत्यधर्मीया

कार्याणां कारणं कर्तारं पूर्वं जगतामदिपूरुषमित्यनन्यथासिद्धनियत-पूर्वभावस्य तत्प्रयोजकस्योक्तिः । तस्मै साग्रजाय महात्मने ते नमः । विश्वे च लोकाश्च तेषामेकं स्वरूपभूतं कं सुखं मौक्तम् । तस्यारण मुख्यावास तद्दातरिति यावत् । विश्वस्य योग्यजगतो लोको रोचमानः को वा वैकुण्ठे लोकस्तस्यैककारणतत्सुखव्यक्तिहेताविति वा । प्राग्बृहद्भाष्यमुदाहृतमनुसन्धेयम् ॥ २५ ॥

सुमनोरञ्जिनी

कार्याणां महदादीनामचेतनानां जगतां जङ्गमानां च । पूर्वं कारणम् आदिकारणम् । प्रधाननिवृत्यर्थमादिपूरुषमिति । पुराणपुरुषमित्यर्थः । विश्वलोकस्य समस्त-लोकस्य । एककारण स्वतन्त्रकारण । अत्र पूर्वोक्तमनूद्य स्वातन्त्र्यं विधीयत इति न पुनरुक्तिः ॥ २५ ॥

श्री भागवते पाङ्घरी श्रीनिवासाचार्यकृतविरोधोद्धारे दशमस्कन्धे उत्तरार्धः

कार्याणामिति ॥ अत्र भार्गवरामेण कृष्णाय नमनं कृतमिति दृश्यते । तस्यायुक्तता-माशङ्क्य टीकाकारैः ‘‘सर्वावताराभिन्नोऽपि सर्वशक्तिरपि स्वयम् । पूज्यपूजकनीचोच्चं मोहनाय दुरात्मनाम् । अखण्डैकरसो विष्णुर्दर्शयेत्तत्र तत्र हि’’ इति तात्पर्यस्थषाड्गुण्य-वचनेन परिहृता यद्यपि । तथाऽपि प्रणामं चक्रतुर्वीरावित्यत्र तद्विरोधपरिहारेऽपि नमस्ते पुण्डरीकाक्षेति भार्गवोक्तौ नायं परिहारो युज्यते । मोहस्यैव सम्भवात् । दुरात्मनां हि ह्यवताररूपाणां पृथग्दर्शनेन मोहसम्भवेऽपि ब्रह्मक्षत्रिययोः पूवापरवयसोश्च क्रमान्नम्यनन्तृ-भावस्य स्फुटत्वेनाज्ञानानुपपत्तिः । तस्मात्कृष्णाय भार्गवनमनोक्त्या विरोधः । तदर्थ-मर्थान्तरम् ।

पूर्वमेतदवतारात्प्राक् हे पुण्डरीकाक्ष पुण्डरीकस्य नाभ्यकमलस्याक्ष आधार । अक्षो रथाङ्ग आधारे इति यादवः । चतुर्दशभुवनानां तत्कमलकार्यत्वात्तन्मुख्यकर्तृत्वेनापि सम्बोधयति । हे विश्वलोकैककारण विश्वे ये सर्वा ये लोकाः सत्यलोकादिपातालपर्यन्ता-श्चतुर्दशास्तेषां सर्वेषाम् एककारण मुख्यनिर्मातः । अत्रैकेति पदस्य मुख्यार्थत्वानङ्गीकारे

पद्मकोशं तदाविश्य भगवत्कर्मचोदितः ।

एकं व्यभांक्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा ॥

इति वचनेन ब्रह्मण्यतिव्याप्तं लक्षणं स्यादतो मुख्यार्थकमेकेति पदं गृहीतम् । ब्रह्मणो लोककारणत्वेऽपि भगवत्कृतपद्मकोशस्योपादानीकरणात्, भगवत्कर्मचोदित इत्युक्त्या तत्प्रेरणाच्चामुख्यत्वात् । भगवतस्तु यस्येहावयवैर्लोकान्कल्पयन्ति मनीषिणः । ऊर्ध्वादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिरित्युक्त्याऽन्यकृतस्योपादानकारणाभावादन्यप्रेरणाभावाच्च लोकमुख्य-स्रष्ट्टत्वं ते त्वदीयं नमः नमस्कारः मा मां प्रति मामुद्दिश्येत्यर्थः । उद्देशस्य चतुर्थ्यर्थकत्वेन तन्त्रसारादौ गृहीतत्वात् । नमः स्वाहेत्यादिना प्राप्ताया अपि चतुर्थ्यभावप्रयुक्तदोषाभावः । अस्त्विति शेषः । नन्वावयोर्भेदाभावान्मदीयनमनं तुभ्यं कथं युज्यत इत्यतो हेतुगर्भरूप-विशेषणेन स्वात्मानं विशिनष्टि ॥ आदिपुरुषमिति । आ अतिक्रम्य आदिपुरुषं पूर्वावतारं समं स्थितस्तं राघवव्यवधानेन पूर्वावतारमित्यर्थः । अतो नम्यत्वयोग्योऽहमिति भावः ॥

यद्वा ॥ मादिपुरुषं मां रमामादत्ते दारत्वेन स मादी स चासौ पुरुषश्च तं रमाकारण-पुुरुषं वा । मम योनिरप्स्वन्तः समुद्र इति श्रुतेः । मः शिवश्चन्द्रमविधा इत्यभिधानान्मस्य ब्रह्मण आदिः कारणं स पुुरुषस्तं यो ब्रह्माणं विदधाति पूर्वमिति श्रुतेः । पूर्वमित्यावर्त्यम् । तन्मूलरूपं प्रतीत्यर्थः । त इत्युपलक्षणम् । ते मे च त्वदीयं मदीयं च नमोस्त्विति ।

आदिपुरुषत्वे च हेतुगर्भं विशेषणमाह ॥ कार्याणामिति । जगता सर्वप्राणिजातेन कार्याणां कर्तव्यानां कर्मणां पूर्वं कारणं मूलप्रवर्तकमित्यर्थः ॥ अथवा ॥ जगता अमा सह सहितस्येत्यर्थः । अमा सह समीपे स्यादित्यमरः । ते त्वदीयं नमः । मा षट्सु द्वितीयेति सूत्रेण द्वितीया चतुर्थ्यर्थे मह्यमस्त्वित्यर्थः । मदीयं नमः । कार्याणां काद् ब्रह्मणः सकाशाद् आर्याणां श्रेष्ठानां सृज्यानां वाऽवताराणां पूर्वं मूलभूतं कारणम् आदिपुरुषं प्रति अस्त्वित्यर्थे कृते नोक्तविरोधः ॥ २५ ॥

**किमर्थमिह सम्प्राप्तौ भवन्तौ विश्ववन्दितौ । **

इत्युक्तौ जामदग्न्येन प्राहतू रामकेशवौ ॥ २६ ॥

सत्यधर्मीया

प्राज्ञोऽप्यज्ञवत्पृच्छति– किमर्थमिति ॥ तावपि तथैवाहतुरित्याह ॥ इत्युक्ताविति ॥ २६ ॥

सुमनोरञ्जिनी

विश्वेन वायुना वन्दितौ ॥ २६ ॥

गोमन्तं द्रष्टुमिच्छावो दुर्गहेतोरिति प्रभो ।

तदाकर्ण्याब्रवीद् रामो जामदग्न्योे जनार्दनम् ॥ २७ ॥

सत्यधर्मीया

दुर्गहेतोरितराशक्यस्थाननिमित्तम् । इच्छाव इति पाङ्क्तः पाठः । इच्छाम इति पाठेऽस्मदो द्वयोश्चेति वयमिच्छाम इति बहुवचनं ज्ञेयम् ॥ २७ ॥

सुमनोरञ्जिनी

दुर्गहेतोर् दुर्गनिर्माणनिमित्तम् ॥ २७ ॥

एवमस्तु महाबाहो गोमन्तं गच्छ साग्रजः ।

करवीरपुरं नाम तन्मूले परिपालितम् ॥ २८ ॥

सृगालवासुदेवेन स युवां न सहिष्यति ।

तं हत्वा समरे शैलं गोमन्तं साध्ववाप्स्यथ ॥ २९ ॥

सत्यधर्मीया

तद्वचनसंवलितलपितस्य तात्पर्यमेकस्मिन्पर्यवसाययन् दर्शयति ॥ एवमस्तु महाबाहो इति ॥ तन्मूले गोमन्तादधःप्रदेशे सृगालवासुदेवेन त्वज्ज्येष्ठेन । स युवां न सहिष्यति गतम् ॥ २९ ॥

सुमनोरञ्जिनी

तन्मूले तस्य गोमन्तस्य मूले । युवामिति चतुर्थी । युवां दृष्ट्वेति वा । न सहिष्यति न सहनं करिष्यतीत्यर्थः ॥ २८,२९ ॥

इत्युक्तौ तेन रामेण जामदग्न्येन माधवौ ।

तमनुज्ञाप्य सर्वज्ञं जग्मतुर्दक्षिणामुखे ॥ ३० ॥

सत्यधर्मीया

तं सृगालवासुदेवं सर्वज्ञं तमनुज्ञाप्य दक्षिणामुखे जग्मतुः ॥ ३० ॥

तौ तथा यदुशार्दूलौ गच्छन्तौ दक्षिणापथम् ।

ददर्शतुश्च गोमन्तमभ्रङ्कषमहाद्रुमम् ॥ ३१ ॥

पदरत्नावली

अभ्रङ्कषा महान्तो द्रुमा यस्मिन् स तथा तम् । अभ्राणि मेघान् कषन्त्युल्लिखन्तीत्यभ्रङ्कषाः । कषतेर्धातोरभ्रादिषूपपदेषु खश् प्रत्ययो भवति ॥ ३१–३५ ॥

सत्यधर्मीया

अभ्रङ्कषा महाद्रुमाः । अभ्राणि मेघान् अभ्रमम्बरं वा कषन्तीति ते द्रुमा यस्मिंस्तम् । सर्वकूलाभ्रकरीषेषु कष इति खच् । खित्यनव्ययस्येति ह्रस्वे मुम् । ददर्शतुर्ददृशतुः ॥ ३१ ॥

सुमनोरञ्जिनी

दक्षिणापथं दक्षिणदिङ्मार्गम् । अभ्रं मेघं कषन्त्युल्लिखन्तीत्य भ्रङ्कषाः । अत्युन्नता इत्यर्थः । तादृशद्रुमा यस्मिन् तत् ॥ ३१ ॥

करवीरपुरं चैव तन्मूले तुङ्गतोरणम् ।

दृष्ट्वा विचित्रप्राकारं हर्म्यप्रासादगोपुरम् ॥ ३२ ॥

सत्यधर्मीया

तुङ्गतोरणं तुङ्गानि तोरणानि यस्मिंस्तत् । तुङ्गतस्तुङ्गत्वतो ऽरणं युद्धानास्पदमिति वा । विचित्रप्राकारहर्म्यप्रासादगोपुरम् ॥ ३२ ॥

शङ्खमाध्मापयामास शङ्खचक्रगदाधरः ।

तस्य शङ्खध्वनिं श्रुत्वा भूपालः क्रोधविह्वलः ॥ ३३ ॥

सत्यधर्मीया

शङ्खचक्रगदाधरः शङ्खमाध्मापयामास दध्मौ ॥ ३३ ॥

सृगालो वासुदेवाख्यः प्रत्यगाद् यदुनन्दनौ ।

सोऽभ्येत्य बहुपादातितुरङ्गरथकुञ्चरः ॥ ३४ ॥

दुर्घटभावदीपिका

सृगालो वासुदेवाख्य इत्यस्य सृगालसदृशत्वात्सृगालवासुदेव-नामक इत्यर्थः । एतेन सृगालवासुदेवाख्य इति वक्तव्यं सृगालो वासुदेवाख्य इति कथन-मयुक्तमिति दूषणं परिहृतम् । सृगालवासुदेव इति नामि्न सृगालेत्येकदेशः सृगालसदृशत्व-ज्ञापनार्थं प्रवृत्त इति सूचनार्थं सृगाल इति सृगालसदृशत्वमुक्त्वा वासुदेवाख्य इति नामैक-देशग्रहणं कृतमित्यूरीकरणात् ॥ ३४ ॥

॥ इति श्रीभागवतटिप्पण्यां द्विपञ्चाशोऽध्यायः ॥ १०–५२ ॥

सत्यधर्मीया

सृगालो वासुदेवेत्याख्या यस्य सः । व्यासो व्यासेन निर्दिशन् गोमायुसमतां तस्य स्पष्टयामासेति ज्ञेयम् । प्रत्ययादभ्युद्ययौ । पादातिर् गतम् ॥ ३४ ॥

सुमनोरञ्जिनी

सृगालवासुदेव इत्याख्या यस्य सः । पादाभ्याम् अतन्ति गच्छन्तीति पादातयः ॥ ३४ ॥

अभ्यवर्षच्छरौघेण छादयन्निव माधवौ ।

तदनीकमनाधृष्यं दृष्ट्वा यादवसत्तमौ ॥ ३५ ॥

सत्यधर्मीया

तदनीकं तदीयं सैन्यम् ॥ ३५ ॥

सुमनोरञ्जिनी

छादयन्निव आच्छादयन्निव ॥ ३५ ॥

योधयामासतुर्वीरौ द्वावेवाजौ पदातिनौ ।

सैन्यं च बाणपूगेन व्यथितं भृशविह्वलम् ॥ ३६ ॥

पदरत्नावली

पदातिनौ पादैः सञ्चरमाणौ रथादिरहितावित्यर्थः ॥ ३६–३७ ॥

सत्यधर्मीया– पदातिनौ पदाभ्यामन्योन्यमतः सञ्चारोऽनयोरस्तीति तौ नीरथत्वात्

॥ ३६ ॥

सुमनोरञ्जिनी

पदातिनौ पादचारिणौ । रथरहितावित्यर्थः । विह्वलं विवशम्

॥ ३६ ॥

दृष्ट्वा सृगालभूपालस्तावधावदमर्षणः ।

तमायान्तमभिप्रेक्ष्य रथिनं धृतकार्मुकः ।

न्यवारयद् वासुदेवो वेलेव वरुणालयम् ॥ ३७ ॥

सत्यधर्मीया

वेला तीरं वरुणालयं समुद्रम् । रथिनमित्यनेन सद्योद्धृसम्प्रदाया-नभिज्ञतां ध्वनयति ॥ ३७ ॥

सुमनोरञ्जिनी

अमर्षणो ऽसहमानः । तौ रामकृष्णौ प्रति । वरुणालयं समुद्रम् । वेलेव तीरमिव ॥ ३७ ॥

तावुभौ परमक्रुद्धौ वासुदेवौ महाबलौ ।

युयुधाते तथाऽन्योन्यमन्योन्यवधकाङ्क्षिणौ ॥ ३८ ॥

पदरत्नावली

वासुदेवौ वसुदेवपुत्रौ कृष्णशृगालौ ॥ ३८ ॥

सत्यधर्मीया

वासुदेवसुतावन्योन्यं वधस्य काङ्क्षाऽनयोरस्तीति । काङ्क्षत इति णिनिर्वा ॥ ३८ ॥

सुमनोरञ्जिनी

वासुदेवौ कृष्णसृगालौ ॥ ३८ ॥

स तथा विद्यमानस्य वासुदेवस्य सङ्गरे ।

शिरो जहार गोविन्दः क्षणेन मुकुटोज्ज्वलम् ॥ ३९ ॥

पदरत्नावली

वासुदेवस्य शृृगालनाम्नः ॥ ३९–४० ॥

सत्यधर्मीया

मुकुटेन किरीटेनोज्ज्वलं प्रकाशमानम् ॥ ३९ ॥

सुमनोरञ्जिनी

वासुदेवस्य सृगालस्य ॥ ३९,४० ॥

ततस्तत्सैनिकाः सर्वे हतशेषाः कुरूद्वह ।

कृष्णेन स्वामिनि हते दुद्रुवुः सर्वतो दिशम् ॥ ४० ॥

सत्यधर्मीया

सर्वतो दिशं दुद्रुवुः ॥ ४० ॥

ततस्तौ रामगोविन्दौ करवीरपुरं महत् ।

प्रविश्य पूजितौ विप्रैर्वणिग्भिश्च यथा प्रियः ॥ ४१ ॥

पदरत्नावली

प्रियः सुहृद् यथा तथा पूजितौ ॥ ४१ ॥

सत्यधर्मीया

प्रियो जामात्रादिर्यथा तथा पूजितौ ॥ ४१ ॥

सुमनोरञ्जिनी—प्रियः सुहृत् पूज्यते तथा ॥ ४१ ॥

॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां (गूढकर्तृकायां)

सुमनोरञ्जिन्यां द्विपञ्चाशोऽध्यायः ॥

तद्गजाश्वरथानीककोशादिधनसञ्चयम् ।

मधुरां प्रेषयामास तदीयैर्भृत्यपूरुषैः ॥ ४२ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धे उधरार्धे द्विपञ्चाशोऽध्यायः ॥

पदरत्नावली

तदीयैस्तस्य विद्यमानैः ॥ ४२ ॥

॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थकृतायां पदरत्नावल्यां

दशमस्कन्धे उत्तरार्धे द्विपञ्चाशोऽध्यायः ॥

सत्यधर्मीया

तद्गजाश्वरथानीकं च कोशादिधनसञ्चयं कोशादौ विद्यमानो यो धनसञ्चयस्तम् । तदीयैः सृगालवासुदेवसम्बन्धिभिर्भृत्याश्च ते पुरुषा नराश्च तैर्भृत्यै उदरम्भरणार्थमपूरुषाः परम्परागता इति यावत् ॥ ४२ ॥

**॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां **

दशमस्कन्ध उत्तरार्धे द्विपञ्चाशोऽध्यायः ॥ १०–५२ ॥