मागधस्तु रणश्लाघी माधवेन पराजितः
॥ अथ एकपञ्चाशोऽध्यायः ॥
श्रीशुक उवाच–
मागधस्तु रणश्लाघी माधवेन पराजितः ।
जगाम शोणितपुरं बाणं द्रष्टुं बलेः सुतम् ॥ १ ॥
पदरत्नावली
रणश्लाघी अत्युत्कटरणमाकाङ्क्षमाणः ॥ १–२ ॥
सत्यधर्मीया
यो रणश्लाघी तेन माधवेन परैरपराजितोऽपि पराजित इत्यावृत्त्याऽ-न्वयः । तुरणेन पलायनत्वरणेन श्लाघीति वा ॥ १ ॥
सुमनोरञ्जिनी
रणं श्लाघते आकाङ्क्षत इति तथाविधः ॥ १ ॥
तं तथाऽऽयान्तमाकर्ण्य वृतराजन्यमण्डलम् ।
मित्रं पराजितं युद्धे विष्णुना दानवेश्वरः ॥ २ ॥
पदरत्नावली
वारकान्ताकदम्बैर् गणिकास्त्रीनिकरैः ॥ ३ ॥
सत्यधर्मीया
विशेषकेणाह तमिति । मृतोर्वरितक्षितिपतिततिवृतं दानवेश्वरो बाणः
॥ २ ॥
सुमनोरञ्जिनी
वृतं युक्तं राजन्यमण्डलं राज्ञां समूहो येन तम् । स्वस्य मित्रमायान्तम् । आकर्ण्य श्रुत्वा ॥ २ ॥
अलङ्कृतैर्गजैरश्वैर्विचित्रस्यन्दनैर्भटैः ।
वारकान्ताकदम्बैश्च सूतमागधवन्दिभिः ॥ ३ ॥
सत्यधर्मीया
वारकान्ताकदम्बैर्वेश्यासमूहैः ॥ ३ ॥
सुमनोरञ्जिनी
विचित्रस्यंदनैर् नानाविधरथैः । वारकान्तानां वारस्त्रीणां कदम्बैः समुदायैः ॥ ३ ॥
ध्वजैः पताकैश्छत्रैश्च माङ्गल्यैः पटहस्वनैः ।
सुवर्णतोरणैश्चित्रैर्दीपैः कलशदर्पणैः ॥ ४ ॥
पदरत्नावली
माङ्गल्यैर् मङ्गलद्योतकैः ॥ ४–८ ॥
सत्यधर्मीया
पताका येषां सन्तीति पताका इति यथायथं ध्वजछत्रादिविशेषणम् । तेन न ‘पताका वैजयन्त्यां च सौभाग्यां वा ध्वजेऽपि च । पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्’ इति विश्वामरादिशंसितलिङ्गभङ्ग इति ज्ञेयम् । माङ्गल्यैर्मङ्गल्यस्य श्वेतागुरो-रिमे माङ्गल्यास्तत्परिमलैर्मल्लिकादिपरिमलैरिति वा ।
‘मङ्गल्यं मल्लिगन्धि यत्, मङ्गल्यं दधिमङ्गल्योः,
मङ्गली रोचनायां च प्रियङ्गुशतपुष्पयोः ।
अधः पुष्पेत्याद्यमरयुक्तोपयुक्तविश्वौ ।
मङ्गलातोद्यादिभिर्मङ्गलद्योतकैरिति वा ॥ ४ ॥
सुमनोरञ्जिनी
माङ्गल्यैर् मङ्गलसूचकैः । पटहस्वनैर् आनकध्वनिभिः । आनकः पटहो स्त्री स्यादित्यमरः । कलशैः पूर्णकलशैः । दर्पणैश्च ॥ ४ ॥
उपतस्थे जरासन्धं बाणो बाहुसहस्रवान् ।
तौ दृष्ट्वा परमसि्नग्धौ परस्परमनोनुगौ ॥ ५ ॥
सत्यधर्मीया
तथाऽयातं मित्रं जरासन्धमाकर्ण्य बाहुसहस्रवान्बाण उपतस्थे । एव-मन्वयने उपाच्चेत्युक्ताकर्मकात्तिष्ठतेरात्मनेपदता सङ्गच्छत इति ज्ञेयम् । परस्परं दृष्ट्वा ॥ ५ ॥
सुमनोरञ्जिनी
तौ अन्योन्यं दृष्ट्वा ॥ ५ ॥
पूजां चक्रतुरन्योन्यमन्योन्यप्रियकारिणौ ।
ततोऽब्रवीज्जरासन्धो बाणमाभाष्य संसदि ॥ ६ ॥
सत्यधर्मीया
ततः परस्परं सत्करानन्तरम् ॥ ६ ॥
सुमनोरञ्जिनी
अन्योन्यपूजां चक्रतुः । आभाष्य सम्बोध्य ॥ ६ ॥
**दानवेन्द्र निबोधेदं गोपेनाधर्मचारिणा । **
रात्रौ चौर्यप्रतापेन वञ्चितोऽस्मि दुरात्मना ॥ ७ ॥
सत्यधर्मीया
गोपेन तमधर्मत्वमेव व्यक्तं वक्ति ॥ रात्राविति ॥ चौर्यमेव प्रतापः प्रभावस्तेन ॥ ७ ॥
सुमनोरञ्जिनी
चौर्ये प्रतापः सामर्थ्यं यस्य तेन ॥ ७ ॥
गृहीता बहवस्तुङ्गा मातङ्गा मदशालिनः ।
तुरङ्गमाश्च बहवो रथाश्च सपरिच्छदाः ॥ ८ ॥
सत्यधर्मीया
तुरङ्गमा गतम् ॥ ८ ॥
सुमनोरञ्जिनी
तुङ्गा उन्नताः सपरिच्छदाः सपरिकरा रथाश्च गृहीता इत्यन्वयः ॥८॥
द्वन्द्वेन सज्जमानं मामिमे भूपा न सेहिरे ।
निरुद्धस्तैरहं भूपैरेतैः समसुखासुखैः ॥ ९ ॥
पदरत्नावली
द्वन्द्वेन युद्धेन ॥ ९–१० ॥
सत्यधर्मीया
द्वन्द्वेन नियुद्धेन समे असुखं दुःखं चेति मया येषां ते तैः ॥ ९ ॥
सुमनोरञ्जिनी
द्वन्द्वेन द्वन्द्वयुद्धेन । सज्जमानं सम्बध्यमानम् । समसुखासुखैः सुखदुःखाभ्यां मत्समैरित्यर्थः । मम सुखे तेषामपि सुखम् । मम दुःखे तेषामपि दुःखमिति यावत् ॥ ९ ॥
त्वत्सन्निधिमिहायातः साहाय्यं कुरु मे प्रभो ।
इत्युक्तस्तं निजपुरं प्रवेश्य बलिनन्दनः ॥ १० ॥
सत्यधर्मीया
प्रवेशयित्वा प्रवेश्य ॥ १० ॥
सुमनोरञ्जिनी
बलिनन्दनो बाणासुरः । तं मागधम् ॥ १० ॥
स राजमण्डलायाशु कारयामास सत्क्रियाम् ।
भोजनस्नानशयनगन्धताम्बूलपूर्वकैः ॥ ११ ॥
पदरत्नावली
सत्क्रियां सत्कारम् ॥ ११ ॥
सत्यधर्मीया
सत्क्रियां सम्माननम् । तत्साधनमभिधत्ते ॥ भोजनेति । भोजन मामकन् सत्कुर्वीतैतानित्युक्त्वा कारयामासेत्यन्वयः ॥ ११ ॥
सुमनोरञ्जिनी
भोजनादिभिः सत्क्रियां सत्कारम् ॥ ११ ॥
अर्हणैरर्हयामास सराजन्यं जरासुतम् ।
तं भुक्तवन्तं विश्रान्तं दृष्टदर्शनकौतुकम् ॥ १२ ॥
पदरत्नावली
(सराजन्यम्) राजसैन्यसहितम् । दृष्टं दर्शनकौतुकं स्वप्नकौतुकं येन स तथा । स्वप्ने कौतुकं दृष्ट्वा कौतूहलबुद्धिर्भवति तथा बाणसम्पदं दृष्टवानित्यर्थः । ‘दर्शनं चक्षुषि स्वप्ने बुद्धिशास्त्रोपलब्धिषु’ इति ॥ १२–१४ ॥
दुर्घटभावदीपिका
दृष्टदर्शनकौतुकमित्यस्य दृष्टानि द्रष्टव्यकौतुकानि येन तमित्यर्थः । एतेन दृष्टकौतुकमित्यनेन पूर्णत्वाद् दर्शनेत्येतव्द्यर्थमिति चोद्यं परास्तम् । दर्शनेति ल्युट् कर्मणीति स्वीकृत्य दर्शनशब्देन दृष्टकौतुकानां द्रष्टव्यत्वमुच्यत इत्यभ्युपगमात् ॥ १२ ॥
सत्यधर्मीया
दर्शनेन कौतुकं येन पदार्थेन स दृष्टो येन स तम् । कदाऽप्यदृष्टं दृष्टवन्तमिति यावत् । जाग्रद्दशायां कदाप्यदृष्टं दृष्टं दर्शनस्य स्वप्नस्य तत्सम्बन्धि कौतुक-मिवाद्भुतं येनेति वा । दर्शनं नयनस्वप्नबुद्धिधर्मोपलब्धिष्विति विश्वः ॥ १२ ॥
सुमनोरञ्जिनी
सराजन्यं राजभिः सहितम् । अर्हणैर् वस्त्रालङ्कारादिभिः । अर्हयामास पूजयामास । दृष्टानि दर्शनकौतुकानि नयनानन्दकराणि मृगपक्षिमल्लादियुद्धानि वारस्त्रीनर्तना-दीनि च येन तम् ॥ १२ ॥
अलङ्कृतं सह नृपैरासीनं काञ्चनासने ।
उवाच दानवपतिर्नृपानाभाष्य सादरम् ॥ १३ ॥
सत्यधर्मीया
सह नृपैरासीनमाभाष्य । सादरमित्यनुपचारतां वचनस्य ध्वनयति
॥ १३ ॥
सुमनोरञ्जिनी– नृपानाभाष्य हे नृपाः शृृणुतेत्युक्त्वा । तं जरासन्धम् । उवाचेति सम्बन्धः ॥ १३ ॥
बाण उवाच–
**जरासन्ध निबोधेदं न मृषा कथ्यते मया । **
एते गजा इमे चाश्वा इदं राज्यमिमाः प्रजाः ।
त्वदधीनमिदं विश्वं यच्चान्यद् वस्तु विद्यते ॥ १४ ॥
सत्यधर्मीया
हे जरासन्ध महामते । इदं वक्ष्यमाणं निबोध जानीहि । मया मृषा न कथ्यते । एते गजा इमे चाश्वा इदं राज्यम् इमाः प्रजाश्चेतीदं प्रात्यक्षिकं विश्वं त्वदधीनम् । अन्यदन्तर्वस्तु धनादिकं विद्यते तदपि त्वदधीनम् ॥ १४ ॥
सुमनोरञ्जिनी
इदं विश्वं सर्वं त्वदधीनमिति । निबोध जानीहि ॥ १४ ॥
श्रीशुक उवाच–
इत्युक्त्वा प्रददौ तस्मै मागधाय बलेः सुतः ।
गजानां षष्टिसाहस्रं रथानां नियुतं तथा ॥ १५ ॥
पदरत्नावली
रथानां नियुतं लक्षम् ॥ १५–१८ ॥
सत्यधर्मीया
इत्युक्त्वा गजानां षष्टिसाहस्रम् । स्वार्थिकोऽणिति केचित् । शतमानेत्यादिवत् । रथानां नियुतो लक्षम् ॥ १५ ॥
सुमनोरञ्जिनी
नियुतं लक्षम् ॥ १५ ॥
प्रयुतं चतुरङ्गाणां मनोमारुतरंहसाम् ।
दानवानां प्रसिद्धानां मायासङ्ग्रामवेदिनाम् ॥ १६ ॥
सत्यधर्मीया
मनोमारुतरंहसां मनोवन्मारुतवच्च रंहो येषां ते तथा तेषाम् । केषाञ्चि-न्नावनिस्पर्शः केषाञ्चित्तत्स्पर्शश्चेति विशेषद्योतनाय निदर्शनद्वयमिति केचित् । मारुतं निःशब्दं मनसो रंह इव रंहो येषां तेषामिति वा । शब्देऽरिसमुद्बोधः स्यादिति तथाऽभ्यासवतां तुरगाणां प्रयुतं दशलक्षम् । मायासङ्ग्रामः कपटयुद्धानि ॥ १६ ॥
सुमनोरञ्जिनी
प्रयुतं दशलक्षणम् । मनोवन् मारुतवच्च रंहः वेगो येषां ते ॥ १६ ॥
त्रिशतं स्वात्मसाम्यानां ददौ बाणो बलेः सुतः ।
विचित्रशिबिकाच्छत्रव्यजनाकल्पवाससाम् ॥ १७ ॥
दुर्घटभावदीपिका
हे राजन् । बाणो विचित्रशिबिकादीनामसङ्ख्यातं सङ्ख्याभावं जरासन्धाय ददौ । सङ्ख्याभावविशिष्टविचित्रशिबिकादिकं ददाविति यावत् । असङ्ख्यातं भाण्डशय्यासनादिकं च ददाविति । एतेन किमसङ्ख्यातशब्दः सङ्ख्याभावविशिष्टवाचक इत्युच्यते किंवा क्तप्रत्ययो भाव इत्यङ्गीकृत्य सङ्ख्याभाववाचक इत्यङ्गीक्रियते । नाद्यः । विचित्रशिबिकाच्छत्रव्यजनाकल्पवाससा-मित्यस्यानन्वयप्रसङ्गात् । न द्वितीयः भाण्डशय्यासनादिकमित्यस्यानन्वितत्वापत्तेरिति दूषणं परास्तम् । असङ्ख्यातमित्यस्य यदा विचित्रेत्यनेनान्वयस्तदा सङ्ख्याभाववाचकत्वं यदा भाण्डेत्य-नेनान्वयस्तदा सङ्ख्याभाववद्वाचकत्वमित्यूरीकरणात् ॥ १७ ॥
सत्यधर्मीया
आत्मना धृत्या साम्यं येषां ते आत्मसाम्याः स्वस्यात्मसाम्यास्तेषां त्रिशतम् ॥ १७ ॥
सुमनोरञ्जिनी
स्वात्मनः स्वस्य साम्यं येषां ते तथा ॥ १७ ॥
असङ्ख्यातं ददौ राजन् भाण्डशय्यासनादिकम् ।
कुम्भाण्डं कूपकर्णं च मन्त्रिणौ दैत्यसत्तमौ ॥ १८ ॥
सत्यधर्मीया
असङ्ख्यातं भाण्डानि पात्राणि राज्याभरणानि वा तेषां राशिम् ॥
‘भाण्डं भूषणमात्रेऽपि भाण्डं मूलवणिग्धने ।
नदीपात्रे तुरङ्गाणां भूषणे भाजनेऽपि च’
इति विश्वः । मन्त्रिणौ स्वामात्यौ ॥ १८ ॥
सुमनोरञ्जिनी
असङ्ख्यातं बहुसङ्ख्योपेतं समूहम् । आकल्पान्याभरणानि । कुम्भाण्डं कूपकर्णं चेति एतौ मन्त्रिणौ ॥ १८ ॥
आज्ञापयामास बाणः साहाय्यार्थं कुरूद्वह ।
क्व सुरासुरसङ्घातसंहारणपटुर्हरिः ॥ १९ ॥
सत्यधर्मीया
साहाय्यार्थमित्युक्त्या नन्दनन्दनविषये कथं जेष्यत्येताविति मन्दसन्देह- मङ्कुरितं श्रीशुकः पारवश्येन पराकुर्वन् स्वरसनां व्यापारयते ॥ क्वेति ॥ सुरासुरसङ्घात-संहरणपटुर्लयलवे ॥ १९ ॥
सुमनोरञ्जिनी
तर्हि तौ अतिबलिष्ठौ कृष्णः जेष्यते इति शङ्का मनागपि मनसि मा भूदित्याशयेन शुकः परीक्षितं प्रत्याह ॥ क्वेति । सुरासुराणां सङ्घातः सन्दोहस् तस्य संहारं तत्र पटुः ॥ १९ ॥
कुम्भाण्डकूपकर्णौ क्व वराकौ बाणमन्त्रिणौ ।
अजानन्तो विष्णुशक्तिं भूपाला विनशिष्णवः ॥ २० ॥
पदरत्नावली
अथ जरासन्धेन सह योद्धुं श्रीकृष्णस्याशक्यमिति मन्दाशङ्कां परिहरति क्वेति ॥ वराकौ षण्ढतिलनिस्सारौ ॥ २० ॥
सत्यधर्मीया
वराकौ विधवासुतौ । वराको विधवासुत इति वचनात् । विष्णुशक्तिमजानन्तो भूपाला विनिशिष्णव इति च पाठः ॥ २० ॥
सुमनोरञ्जिनी
वराकौ शोच्यौ । राण्डेयौ वा । तुच्छाविति यावत् । वराकः सङ्गरे शोच्ये इति विश्वः । वराको विधवासुत इत्यमरः । विनशिष्णवः ॥ २० ॥
चक्रुर्भूयो रणोद्योगं मागधेन प्रचोदिताः ।
बाणेन समनुज्ञातो मागधः शोणितात् पुरात् ॥ २१ ॥
सत्यधर्मीया
मागधेन प्रचोदिताः परं रणोद्योगं भूयश्चक्रुरिति योजना ॥ २१ ॥
निर्गत्यानेकभूपालचतुरङ्गबलान्वितः ।
दिनैः कतिपयैर्भूयो मधुरामन्वपद्यत ॥ २२ ॥
सत्यधर्मीया
अनेकभूपालाश्चतुरङ्गबलं च तैरन्वितः कतिपयैर्दिनैरल्पवासरैः ॥२२॥
सुमनोरञ्जिनी
अनेकभूपालैश् चतुरङ्गबलेन चान्वितः । भूयः पुनः । अन्वपद्यत प्राप्तवान् ॥ २२ ॥
सन्निरुध्य पुरद्वारं गोपुराट्टालतोरणैः ।
दीर्घिकोपवनोद्यानैरुपेतं सालभूषितम् ॥ २३ ॥
पदरत्नावली
सालैः प्राकारैर् भूषितम् ॥ २२ ॥
सत्यधर्मीया
दीर्घिका वाप्य उपसमीपे वनं जलं येषां तान्युद्यानानि च तैः सालै-र्वृक्षैस्तालैर्वा । सालःपादपमात्रे स्यात्प्राकारे शङ्कुकद्रुमे । ताले वेति विश्वः ॥ २३ ॥
सुमनोरञ्जिनी
स जरासुतः । गोपुरैः पुरद्वारैः । गोपुरं तु पुरद्वारि द्वारमात्रे च मस्तक इति विश्वः । अट्टालैर् उपरितनगृहैः । तोरणैर् बहिर्द्वारैश्च उपेतम् । दीर्घिकाभिर् वापीभिः । सालः प्राकारः । तेन भूषितं पुरं कुन्तादिभिर् बभञ्जेत्यन्वयः ॥ २३ ॥
कुन्तैः कुठारैः कुद्दालैर्दण्डभारैश्च भूरिभिः ।
कर्षणस्थैश्च पाषाणैर्बभञ्ज परितः पुरम् ॥ २४ ॥
पदरत्नावली
दण्डभारैर्दीर्घीकृतनिशितप्राग्रखर्वमयदण्डैः । कर्षणस्थैः पाषाणयन्त्र-निहितैः ॥ २३–२५ ॥
सत्यधर्मीया
कुन्ताद्यास्तु गताः कर्षणानि क्षेपिण्यः ॥ २४ ॥
सुमनोरञ्जिनी
दण्डभारैर् निशिताग्रैर् अयोमयैर् दण्डैः । कर्षणस्थैर् यन्त्रनिहितैः पाषाणैरिति पदरत्नावली ॥ २४ ॥
**भज्यमाने वने तस्मिन् श्रुत्वा मागधमागतम् । **
सन्नाहभेरीः सन्नाद्य रामकृष्णावमर्षिणौ ॥ २५ ॥
सत्यधर्मीया
सन्नाहभेरीराहवदुन्दुभीन् सन्नाद्य वादयित्वा ॥ २५ ॥
सुमनोरञ्जिनी
सन्नाहभेरीः सन्नाहसूचकभेरीः । अमर्षणौ क्रुद्धौ ॥ २५ ॥
रथाश्वकुञ्जरानीकैः सायुधैः सपरिच्छदैः ।
सात्यकिं कृतवर्माणमुग्रसेनं तथा गदम् ॥ २६ ॥
आहुकं वसुदेवं च पुरस्कृत्य महाबलौ ।
निर्जग्मतुरसम्भ्रान्तौ दीप्तौ केसरिणौ यथा ॥ २७ ॥
पदरत्नावली
दीप्तौ क्रोधेन ज्वलितौ ॥ २६–२७ ॥
सत्यधर्मीया
अनीकं (?) पतिर् निर्जग्मतुः ॥ २६,२७ ॥
सुमनोरञ्जिनी
असंभ्रान्तौ भयरहितौ । दीप्तौ प्रकाशमानौ । केसरिणौ सिंहौ
॥ २७ ॥
मधुराया विनिर्गत्य कृष्णः कमललोचनः ।
पाञ्चजन्यं महाशङ्खं प्रदध्मौ रिपुभूषणम् ॥ २८ ॥
सत्यधर्मीया
मधुराया विनिर्गत्य बहिरागत्य च ॥ २८ ॥
सुमनोरञ्जिनी
मथुरायाः सकाशात् ॥ २८ ॥
ततः प्रववृते युद्धं यदूनां क्षत्रियैः सह ।
कुम्भाण्डकूपकर्णौ च दानवौ बाणमन्त्रिणौ ॥ २९ ॥
सत्यधर्मीया
क्षत्रियैः शत्रुसम्बन्धिभिः ॥ २९ ॥
दैन्यसैन्येन महता वृतौ मायाविशारदौ ।
युयुधाते महावीर्यौ मायया वृष्णिभिः सह ॥ ३० ॥
सत्यधर्मीया
मायायां तत्सृष्टौ कुशलौ । तदेव व्यनक्ति ॥ मायया वृष्णिभिः सहेति । बहुवचनमाद्यर्थे । वृष्ण्यादिभिर् वृष्णिभिरिति पाठः सुन्दरः ॥ ३० ॥
स्वसैन्यं मायया क्लिष्टं दृष्ट्वा यादवसत्तमः ।
विज्ञानास्त्रेण तन्मायामपास्य निमिषान्तरे ।
सात्यकिं कृतवर्माणं चोवाचाहवलालसौ ॥ ३१ ॥
पदरत्नावली
आहवलालसौ युद्धोत्सुकौ ॥ ३०–३१ ॥
दुर्घटभावदीपिका
यादवसत्तमः कृष्ण आहवलालसौ प्रोवाच । एतदेव विवृणोति ॥ सात्यकिमिति । सात्यकिं कृतवर्माणं प्रोवाचेति । एतेनाहवलालसाविति द्विवचनान्त-शब्दस्य सात्यकिं कृतवर्माणमित्येकवचनान्तशब्दाभ्यामनन्वय इति चोद्यं प्रत्युक्तम् । आहवलालसौ कावित्याशङ्कापरिहारार्थमाहवलालसौ प्रोवाचेत्युक्तस्यैव विवरणं सात्यकिं कृतवर्माणं प्रोवाचेत्यनेन क्रियत इत्यभ्युपगमात् ॥ ३१ ॥
सत्यधर्मीया
विज्ञानास्त्रेण निमिषान्तरेऽपास्य निराकृत्य । आहवलालसौ समर-तृष्णायुक्तौ ॥ ३१ ॥
सुमनोरञ्जिनी
मायया क्लिष्टं क्लेशयुक्तम् । स्वसैन्यम् । तन्मायां तयोर् बाण-मन्त्रिणोर् मायाम् । निमिषान्तरे निमेषकालमध्ये । आहवलालसौ युद्धोत्सुकौ ॥ ३१ ॥
आभ्यां भवन्तौ रणदुर्मदाभ्यां रणं सुघोरं कुरुतं रणप्रियौ ।
तावेवमुक्तौ कदनं भयानकं महाबलौ सम्प्रति चक्रतुर्नृप ॥ ३२ ॥
सत्यधर्मीया
आभ्यां कुम्भाण्डकूपकर्णाभ्यां सुघोरं रणं कुरुतम् । कुरुतामिति पाठे भवन्तौ वर्तमानकाले युवां कुरुतामित्यर्थः । सम्प्रतीदानीम् ॥ ३२ ॥
सुमनोरञ्जिनी
भयानकं भयङ्करम् ॥ ३२ ॥
चापेनैकेन गोविन्दः क्षत्रियैः शतसम्मितैः ।
युयुधे न हि तच्चित्रं राजन् विश्वात्मनो हरेः ॥ ३३ ॥
पदरत्नावली
शतसम्मितैः शतसङ्ख्यापरिमितैः ॥ ३२ ॥
सत्यधर्मीया
शतसम्मितैर्बहुत्वेन गणितैर्विश्वात्मनस्तदन्तर्यामिणस्तत्स्वामिनो वा
॥ ३३ ॥
सुमनोरञ्जिनी
शतसम्मितैः शतसङ्ख्यापरिमितैः । विश्वात्मनः जगत्संहर्तुः । तदुक्तम् आदानादनकर्तृत्वादात्मेति ॥ ३३ ॥
केचिद् हताः समापेतुः कुञ्जराश्छिन्नपुष्कराः ।
निपेतुर्बहवो राजंस्तुरङ्गाः कृत्तकन्धराः ॥ ३४ ॥
पदरत्नावली
छिन्नपुष्करा द्विधाकृतहस्ताः ॥ ३३–३५ ॥
सत्यधर्मीया
च्छिन्नपुष्कराश्छिन्नानि पुष्कराणि शुण्डानि येषां ते । कृन्ताश्छिन्नाः कन्धरा ग्रीवा येषां ते तथा ॥ ३४ ॥
सुमनोरञ्जिनी
छिन्नपुष्कराश् छिन्नशुण्डाः । समापेतुः पतिताः । कृन्तकन्धराश् छिन्नग्रीवाः ॥ ३४ ॥
विशीर्णैरास्तृता पृथ्वी स्यन्दनैश्छिन्नबन्धनैः ।
भटाश्च रुधिराक्ताङ्गाश्छिन्नपादोरुबाहवः ॥ ३५ ॥
सत्यधर्मीया
छिन्नबन्धना इति विशीर्णास्तैः ॥ ३५ ॥
सुमनोरञ्जिनी
विशीर्णैर्विस्रंसितैः । रुधिरेण आक्ताङ्गा लिप्ताङ्गाः ॥ ३५ ॥
पेतुः कृत्तमहामूलाः किंशुका इव पुष्पिताः ।
शार्ङ्गमुक्ताः शरगणाः कङ्कबर्हिणवाससः ॥ ३६ ॥
पदरत्नावली
कङ्कानां लोहपृष्ठानां बर्हिणां मयूराणां पक्षा एव वासांसि येषां ते
॥ ३६–३७ ॥
सत्यधर्मीया
पुष्पिताः । तारकादीतच् । किंशुकाः पालाशवृक्षाः । कङ्कश्छद्मद्विजे ख्यातो लोहपृष्टकृतान्तयोरिति विश्वः । बर्हिणो मयूरास्तत्पक्षा वासांसि येषां ते शरगणाः
॥ ३६ ॥
सुमनोरञ्जिनी
कङ्कानां बर्हिणानां च वासांसि पक्षाः खचिता येषु ते ॥ ३६ ॥
तैलाक्ता नतपर्वाणः स्वर्णपुङ्खा अयोमुखाः ।
एकैकस्मिन् दशदश भटे चाश्वे शतंशतम् ॥ ३७ ॥
सत्यधर्मीया
स्वर्णस्य पुङ्खा येषां तथाऽयोमुखेऽग्रभागे येषां ते । एकैकस्मिन् भटे दशदश तथैकैकस्मिन्नश्वे शतंशतम् ॥ ३७ ॥
सुमनोरञ्जिनी
नतानि समीपवर्तीनि पर्वाणि येषां ते । स्वर्णमयानि हस्तग्राह्यानि तलभागानि येषां ते । अयोमयं मुखं येषां ते । एकैकस्मिन् भटे दश दश । प्रत्यश्वं शतं शतम् ॥ ३७ ॥
रथे रथे च साहस्रमयुतं च गजे गजे ।
अदृश्यन्त परानीके तदद्भुतमिवाभवत् ॥ ३८ ॥
सत्यधर्मीया
रथे रथे च साहस्रं गतम् । यद्वा सहस्रपरिमाणमस्येति साहस्रं तत्सङ्घस्तदस्य परिमाणमित्यर्थे । शतमानविंशतिकसहस्रवसनादित्यण् । गजे गजे प्रतिगजम् । अयुतं दशसहस्रम् । एवं परानीके परसेनायां शरगणा अदृश्यन्त ॥ ३८ ॥
सुमनोरञ्जिनी
प्रतिरथं साहस्रं, गजे गजे अयुतम् । एवं कृष्णमुक्ताः शरगणा परानीके अदृश्यन्तेत्यन्वयः ॥ ३८ ॥
तथा तैरर्द्यमानेषु चतुरङ्गेषु मागधः ।
रथेन क्रोडचिह्नेन बलभद्रमुपाद्रवत् ॥ ३९ ॥
पदरत्नावली
क्रोडचिह्नेन वराहलक्षणेन ध्वजेन ॥ ३८ ॥
सत्यधर्मीया
क्रोडचिह्नेन वराहध्वजेन ॥ ३९ ॥
सुमनोरञ्जिनी
ध्वजे वराहचिन्हयुक्तेन रथेन ॥ ३९ ॥
स पूर्ववैरं नृपतिः स्मरन् रुषा रथं महाकाञ्चनतालकूबरम् ।
आलक्ष्य दूरादधिगम्य रंहसा जरासुतः प्राह हलायुधं गदी ॥ ४० ॥
पदरत्नावली
काञ्चनतालश्च कूबरः युगन्धरश्च यस्मिन् स तथा ॥ ३९–४० ॥
सत्यधर्मीया
महाकाञ्चनमयस्तालः कूबरो युगन्धरश्च यस्मिंस्तं दूरादालक्ष्य रंहसा सङ्गम्य गदी हलायुधं प्राह ॥ ४० ॥
सुमनोरञ्जिनी
काञ्चनमये तालकूबरे यस्य तम् । कूबरस्तु युगन्धर इत्यमरः । आलक्ष्य दृष्ट्वा ॥ ४० ॥
आदत्स्व ते मुसलं राम तूर्णं येनाहितानिच्छसि जेतुमाहवे ।
बलं च बाह्वोस्तव दर्शयाशु मे यावद् गदां न प्रहराम्यहं त्वयि ॥ ४१ ॥
सत्यधर्मीया
येन मुसलेनाहितानाहवे जेतुमिच्छसि तन्मुसलं राम आदत्स्व गृहाण त्वयि यावद्गदां न प्रहरामि तन्मध्ये तव बाह्वोर्बलं मे आशु दर्शय ॥ ४१ ॥
सुमनोरञ्जिनी
आदत्स्व हस्ते गृहाण ॥ ४१ ॥
इत्येवमुक्तो मगधेश्वरेण सङ्कर्षणोऽमर्षणविह्वलेक्षणः ।
आदाय घोरं मुसलं तटित्प्रभं दण्डं यथा सूर्यसुतो युगक्षये ॥ ४२ ॥
पदरत्नावली
सूर्यसुतो यमः ॥ ४१ ॥
सत्यधर्मीया
युगक्षये प्रलयकाले सूर्यसुतो यमो दण्डमिवादाय ॥ ४२ ॥
सुमनोरञ्जिनी
तडित्प्रभेव प्रभा यस्य तम् । युगक्षये युगावसाने । सूर्यसुतो यमः ॥
आवर्तयित्वा मुसलं हलायुधः सहस्रकृत्वो रिपुदर्पहारिणम् ।
धूमाङ्कुरोद्गारिणमाशु तस्मै चिक्षेप राजन् व्यनदद्धरिर्यथा ॥ ४३ ॥
पदरत्नावली
हरिः सिंहः ॥ ४२ ॥
सत्यधर्मीया
हलायुधः सहस्रकृत्वो रिपुदर्पहारिणं मुसलं मुसलः किसलायत इत्यादेः पुल्लिङ्गोऽपि मुसलशब्दः । तूलोपलशालकमलमुसलेति लिङ्गानुशासने पुंसि चेत्युक्तेः । धूमस्याङ्कुरस्योद्गारो वमनमस्येति णिनिर्वा तम् । चिक्षेप व्यनदच्च । हरिः सिंहो यथा तथा
॥ ४३ ॥
सुमनोरञ्जिनी
आवर्तयित्वा भ्रामयित्वा । धूमाङ्कुरोद्गारिणं निःसरद्धूमाङ्कुरम् । हरिः सिंहः ॥ ४३ ॥
रामबाहुविमुक्तेन मुसलेन जरासुतः ।
साश्वसूते रथे क्षुण्णे क्षणेन व्यंसितः स्वयम् ॥ ४४ ॥
पदरत्नावली
स्वयं मागधो व्यंसितो वञ्चितः ॥ ४३ ॥
सत्यधर्मीया
क्षुब्धे क्षुण्णे क्षणेन स्वयं जरासुतो व्यंसितो वञ्चितः ॥ ४४ ॥
सुमनोरञ्जिनी
साश्वसूते अश्वैः सूतेन च सहिते । रथे क्षुण्णे चूर्णिते सति । स्वयं व्यंसितो वञ्चितः वञ्चयित्वेति यावत् ॥ ४४ ॥
ततः कालायसीं गुर्वीं गिरिकूटोपमां गदाम् ।
बिभ्रद् गुर्वीं पदा पृथ्वीं चालयन्नभ्यगाद् बलम् ॥ ४५ ॥
पदरत्नावली
कालायसी कृष्णायोमयीम् ॥ ४४–४६ ॥
सत्यधर्मीया
कालायसीं कृष्णायोविकृतां गिरिकूटेन शिखरेणोपमा यस्याः सा तां गुर्वीं बिभ्रद् गुर्वीमुर्वीं पदा चालयन् बलमभ्यगात् ॥ ४५ ॥
सुमनोरञ्जिनी
कालायसीं कृष्णायोमयीम् । गिरिकूटोपमां गिरिशृृङ्गोपमाम् ॥४५॥
तमापतन्तमालोक्य विरथं रोहिणीसुतः ।
तमेवाभ्यद्रवत् पद्भ्यां विसृज्य स्यन्दनं रणे ॥ ४६ ॥
सत्यधर्मीया
पद्भ्यांं नीतिवित्त्वमेव ध्वन्यते ॥ ४६ ॥
सुमनोरञ्जिनी
रणे स्वाधिष्ठितरणस्थाने ॥ ४६ ॥
पश्यतां सर्वभूतानां मागधः क्रोधविह्वलः ।
आवर्तयन् गदां गुर्वीमयःसारमयीं दृढाम् ।
अभ्येत्य गदया रामं प्रजहार ननाद च ॥ ४७ ॥
सत्यधर्मीया
गुर्वीमयःसारमयीमिति पर्यायतोऽनुवादः । गदां गद्यते व्यक्तं स्तुत्यत इति गदा तां गदाम् । अतो न गदातिरेको गदनीयः ॥ ४७ ॥
सुमनोरञ्जिनी
दृढां स्थूलाम् ॥ ४७ ॥
तां गदां पतितां वक्षस्यश्मकुट्टनिभां दृढाम् ।
वामेन जगृहे रामः स्वहस्तेन कुरूद्वह ॥ ४८ ॥
पदरत्नावली
अश्मकुट्टनिभाम् अश्मसारसमाम् ॥ ४७–५४ ॥
दुर्घटभावदीपिका
स्वहस्तेनेत्यस्य स्वातन्त्र्यात्स्वशब्दवाच्यस्य शुक्लकेशस्य स्वहस्तप्रविष्टेन हस्तेनेत्यर्थः । एतेन हस्तेनेत्येवोक्ते योग्यतया स्वहस्तस्यैव लाभात् स्वेत्येतद्व्यर्थमिति चोद्यस्यानवकाशः ॥ ४८ ॥
सत्यधर्मीया
अश्मकुट्टनिभान्यप्यङ्गानि द्यति खण्डयतीत्यङ्गदेति वा । अश्मानं कुट्टयन्तीत्यश्मकुट्टोऽयः सारस्तत्सन्निभां रामो वामेन स्वहस्तेन जगृहे । अनेनास्मत्सुन्दर्या धर्तुं शक्या त्वद्गदेत्युपजहास राम इति ध्वन्यते ॥ ४८ ॥
सुमनोरञ्जिनी
अश्मकुट्टनिभाम् अश्मसारनिभाम् । अश्ममयमुद्गरनिभां वा ॥ ४८ ॥
विसृज्य स गदां तूर्णमुरसाऽऽहत्य मागधम् ।
जग्राहाश्लिष्य बलिनं बलवान् रोहिणीसुतः ॥ ४९ ॥
दुर्घटभावदीपिका
बलवान् रोहिणीसुतः स रामो गदया तूर्णं बलिनं मागध-मुरस्याहत्य गदां विसृज्य मागधमाश्लिष्य जग्राहेति । एतेनाहत्येत्युक्तहननसाधनं नोक्तमिति शङ्का परास्ता । गदामित्यस्यार्थवशात्तृतीयान्ततया विपरिणाममङ्गीकृत्य गदाया हनन-साधनत्वमुच्यत इत्यभ्युपगमात् ॥ ४९ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां
श्रीभागवतटिप्पण्याम् उत्तरार्धे पञ्चाशोऽध्यायः ॥ १०–५१ ॥
सत्यधर्मीया
विसृज्य प्रक्षिप्य तूर्णं मागधमुरस्याहत्य बलिनमाश्लिष्य जग्राह ॥४९॥
सुमनोरञ्जिनी– स रामः विसृज्य भूमौ क्षिप्त्वा । आहत्य स्वस्य उरसा आघातयित्वा ॥
बबन्ध पद्भ्यां जठरं मागधस्य हलायुधः ।
चकार कुक्षौ तत्कण्ठं ततस्तौ पेततुर्भुवि ॥ ५० ॥
सत्यधर्मीया
पद्भ्यां स्वचरणाभ्यां कुक्षौ तत्कण्ठं मागधकण्ठं चकार ॥ ५० ॥
तयोर्निपततो राजन् उपर्यासीद्धलायुधः ।
तं मागधः क्षणेनाधश्चकारामितविक्रमः ॥ ५१ ॥
सत्यधर्मीया
निपततोस्तयो राममागधयोर्मध्ये उपरि जरासुतस्योपरि । अमित-विक्रम उपचारतः ॥ ५१ ॥
सुमनोरञ्जिनी
निपततोस्तयोर्मध्ये । उपरि मागधस्योपरि ॥ ५१ ॥
तत उत्थाय तौ वीरौ क्रोधसंरक्तलोचनौ ।
भूयो जग्रहतुर्घोरौ मत्तौ द्वाविव कुञ्जरौ ॥ ५२ ॥
सत्यधर्मीया
भूयो जगृहतुः ॥ ५२ ॥
तावुभौ परमक्रुद्धौ परस्परवधैषिणौ ।
उरसोरः समाहत्य भीमौ चकृषतू रणे ॥ ५३ ॥
सत्यधर्मीया
उरसा उरो वक्षसा वक्षः ॥ ५३ ॥
सुमनोरञ्जिनी
चकृषतुश् चकर्षतुः ॥ ५३ ॥
एवं धनुःशतशतं तावाकृष्य परस्परम् ।
निकटस्थान् द्रुमान् शैलांश्चूर्णयामासतुर्नृप ॥ ५४ ॥
सत्यधर्मीया
निकटस्थान्समीपवर्तिपादपान् ॥ ५४ ॥
तं विसृज्य जरासन्धो गदामादाय दुर्मदः ।
उदतिष्ठदमेयात्मा रामोऽपि बलिनां वरः ।
क्षणादादत्त मुसलं प्रहर्तुमुपचक्रमे ॥ ५५ ॥
सत्यधर्मीया
तं रामम् ॥ ५५ ॥
तं कामपालो मुसलेन मूध्रर्ि्न जत्रुण्यंसे भुजयोर्नाभिदेशे ।
शङ्खे च जानौ जठरे च वक्षस्यनेकशो वै प्रजहार युद्धे ॥ ५६ ॥
पदरत्नावली
कामपालो बलभद्रः । जत्रुणि वक्षःस्कन्धयोर्मध्ये । शङ्खे स्कन्धमूले ।
सत्यधर्मीया
कामपालो हलायुधो जत्रुणि गलतले । सन्धी तस्यैव जत्रूणीत्यमरः । अंसे स्कन्धे भुजयोः । शङ्खे चेति पाठे शङ्खो निध्यन्तरे कम्बुललाटास्थिनखेषु चेति विश्वाद् ललाटास्थिषु वा नखेषु वेत्यर्थः । ऊराविति चेदुत्सङ्ग इत्यर्थः । जानौ जानुनि जायते । वृसनिजनि चरीति अप् । जनिवध्योश्चेति न प्रवर्तते । उणित्यनुबन्धद्वयसामर्थ्यात् । जानुर् अर्धर्चादिः । आस्त्रियामिति त्रिभिः सम्बध्यंते । रात्रौ जानुर्दिवाभानुरित्यादेः । जठरे उदरे वक्षस्युरसि । एकैकस्थानेऽनेकशः प्रजहार ॥ ५६ ॥
सुमनोरञ्जिनी
कामपालो बलभद्रः । जत्रुणि कण्ठपश्चाद्भागे । अंसे स्कन्धे ॥५६॥
तं मागधो वक्षसि कन्धरे च मुखे ललाटे चुबुके तथांऽसे ।
नाभौ नितम्बे च तथैव पार्श्वे समं स मानी प्रजहार रामम् ॥ ५७ ॥
सत्यधर्मीया
कन्धरे कन्धरायां हे कन्धर इति सम्बोध्य प्रजहारेति वा । मुखे तथा ललाटे चुबुके । अधस्ताच्चुबुकमित्युक्तेरोष्ठाधःप्रदेशः । स मानी । सममिति वचनादत्रानुक्त-मङ्गं ततस्तत्रानुक्तम् । अतः सङ्ग्राह्यमिति सूचयति समं युगपदिति वा ॥ ५७ ॥
सुमनोरञ्जिनी
कन्धरे कण्ठे ॥ ५७ ॥
एवं प्रहरतोस्तत्र राममागधयोर्मृधे ।
राजानो रणसंविग्ना बभूवुर्भृशपीडिताः ॥ ५८ ॥
सत्यधर्मीया
रणसंविग्ना एतद्युद्धभीताः ॥ ५८ ॥
सुमनोरञ्जिनी
रणे संविग्ना निर्विण्णाः ॥ ५८ ॥
क्रमेण ते विमनसो निवृत्तकदनोद्यमाः ।
आसन्नासन्ननिधनं मन्वाना मागधेश्वरम् ॥ ५९ ॥
सत्यधर्मीया
स्वयं निवृत्तकदनोद्यमा आसन्नं समीपवर्तिनिधनं मरणं यस्य तमिति च । मागधेश्वरं मन्वानास्तन्वानाः सङ्गरमासन् ॥ ५९ ॥
सुमनोरञ्जिनी
निवृत्तकदनोद्यमा आसन् । कुतः ? आसन्नं समीपस्थं निधनं मरणं यस्य तथाविधं मागधेश्वरं मन्वाना इति ॥ ५९ ॥
सात्यकिस्तु महातेजाः सङ्गरे बाणमन्त्रिणा ।
युध्यमानस्त्रिभिर्बाणैः कुभाण्डेन समर्पितः ॥ ६० ॥
सत्यधर्मीया
सह किञ्चित्सेनः शैनेयो गतः किल तत्र किमभूदित्यतस्तां कथां कथयति ॥ सात्यकिरिति । बाणमन्त्रिणा कुभाण्डेन त्रिभिर्बाणैः समर्पितस्ताडितः ॥६०॥
सुमनोरञ्जिनी
बाणमन्त्रिणा कुभाण्डेनेत्यन्वयः ॥ ६० ॥
सोऽतिविद्धो महाबाहुः क्रुद्धः सर्प इव श्वसन् ।
आददे पञ्च नाराचान् कुम्भाण्डं हन्तुमाहवे ॥ ६१ ॥
सत्यधर्मीया
नाराचान् शरविशेषान् ॥ ६१ ॥
सुमनोरञ्जिनी
सः सात्यकिः ॥ ६१ ॥
ततो हाहारवो जज्ञे सेनायां दैत्यमन्त्रिणः ।
सात्यकिस्तु महाबाहुराकृष्याकर्णमाशुगैः ॥ ६२ ॥
सत्यधर्मीया
दैत्यस्य बाणस्य मन्त्रिणोऽमात्यस्य सेनायाम् । अत्राशुगैर् इत्यस्य शीघ्रगामिभिरित्यर्थः ॥ ६२ ॥
सुमनोरञ्जिनी
दैत्यमन्त्रिणः कुभाण्डस्य सेनायाम् । आकृष्य चापमिति शेषः ॥ ६२ ॥
विव्याध कुरुशार्दूल कुम्भाण्डं बाणमन्त्रिणम् ।
नाभौ कण्ठे ललाटे च हृदि मूर्ध्य्नपि दानवम् ॥ ६३ ॥
सत्यधर्मीया
कुभाण्ड इत्यपि नाम भारते हरिवंशे ॥ ६३ ॥
‘एवमुक्ते तु वचने कुभाण्डेन महात्मना ।
तथेत्याह कुभाण्डम् इति निरवकाशमुक्तेः ।
पञ्चानां विषयानाह— नाभावित्यादिना ॥ ६३ ॥
अतिविद्धो रथोपस्थे निषसाद विचेतनः ।
तं विचेतनमालोक्य दुर्मनास्तस्य सारथिः ॥ ६४ ॥
सत्यधर्मीया
तस्य कुभाण्डस्य ॥ ६४ ॥
सुमनोरञ्जिनी
रथोपस्थे रथमध्ये । विचेतनः स्मृतिरहितः ॥ ६४ ॥
अपोवाह रणात् तूर्णं रथेन भरतर्षभ ।
कूपकर्णस्तु दैतेयः प्रसक्तः कृतवर्मणा ॥ ६५ ॥
सत्यधर्मीया
रणात्तं तूर्णमपोवाहापानयत् । प्रसक्तः सङ्गतः ॥ ६५ ॥
सुमनोरञ्जिनी
अपोवाह परावर्तयत् । कृतवर्मणा साकं प्रसक्तः युद्धासक्तः ॥ ६५ ॥
गतं कुम्भाण्डमालोक्य प्राप्तं च प्राणसंशयम् ।
विसृज्य कृतवर्माणमपायात् समराङ्गणात् ॥ ६६ ॥
सत्यधर्मीया
समराङ्गणाद् गतम् । कुभाण्डमालोक्य तथा प्राणसंशयं च गत-मालोक्य समराङ्गणात्कृतवर्माणं विसृज्यापायादपगतः । प्राणसंशयं गतमात्मानं च । इत उपर्यवस्थाने ममापीयं दुर्दशैवेति विलोक्यालोच्य अपायादेष्यतोऽपायादिति वा ॥ ६६ ॥
सुमनोरञ्जिनी
अपायात् परावृत्तः ॥ ६६ ॥
तौ विसृज्य रणं दैत्यावनापृच्छ्य च भूपतिम् ।
अविसृष्टौ मागधेन हतशेषबलान्वितौ ।
दैत्यौ तेनैव मार्गेण जग्मतुः शोणितं पुरम् ॥ ६७ ॥
॥ इति श्रीमद्भागवते दशमस्कन्ध उत्तरार्धे एकपञ्चाशोऽध्यायः ॥
पदरत्नावली
अनापृच्छय गमिष्यामित्यनुक्त्वा ॥ ६६ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यां
दशमस्कन्धे उत्तरार्धे एकपञ्चाशोऽध्यायः ॥ १०–५१ ॥
सत्यधर्मीया
भूपतिं जरासन्धमनापृच्छ्यापृष्ट्वाऽत एव मागधेनाविसृष्टावनाज्ञप्तौ तेनैव येन पथाऽऽगतौ तेनैव प्रत्यङ्गशोणितं जग्मतुः रक्तमिति शोणितं तदाख्यं पुरं च ॥ ६७ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे
एकपञ्चाशोऽध्यायः ॥ १०–५१ ॥
सुमनोरञ्जिनी
अनापृच्छय अपृष्ट्वा । अविसृष्टौ अप्रेषितौ ॥ ६७ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां (गूढकर्तृकायां)
सुमनोरञ्जिन्याम् एकपञ्चाशोऽध्यायः ॥ १०–५१ ॥