तृतीये मासि भूयश्च राजा बार्हद्रथो बली
॥ अथ पञ्चाशोऽध्यायः ॥
श्रीबादरायणिरुवाच–
तृतीये मासि भूयश्च राजा बार्हद्रथो बली ।
दिवानिशं तप्यमानः स्मरन् पूर्वपराभवम् ॥ १ ॥
सत्यधर्मीया
तृतीये मासि । पद्दन्निति मासशब्दस्य मासित्यादेशः ॥ १ ॥
सुमनोरञ्जिनी
बार्हद्रथः बृहद्रथस्यापत्यं जरासन्धः ॥ १ ॥
आहूय सर्वान् भूपालान् चकार कदनोद्यमम् ।
समत्स्यान् (स्ववश्यान्) मालवांश्चेदीन् कुरुपाञ्चालकेरलान् ॥ २ ॥
सत्यधर्मीया
मत्स्यसहितान्मालवान् ॥ २ ॥
सुमनोरञ्जिनी
सर्वभूपालानाहूय कलहोद्यमं चकार । तदेव विवृणोति ॥ स्वेति ॥ स्ववश्यान् स्वाधीनान् । मालवान् मालवदेशीयान् तदादीन् । आहूय ॥ २ ॥
कुलिन्दकुन्तलावन्तिकाशिगान्धारसृञ्जयान् ।
कलिङ्गकेकयानान्ध्रान् दशार्णान् वङ्गसैन्धवान् ॥ ३ ॥
सत्यधर्मीया
कुलिन्दादिदेशीयान् ॥ ३ ॥
सुमनोरञ्जिनी
कुलिन्दादिदेशीयान् ॥ ३ ॥
माद्रान् त्रिगर्तान् सौवीरान् पार्वतेयांश्च सर्वशः ।
आहूयाक्षौहिणिगणैस्त्रयोविंशतिभिर्युतः ॥ ४ ॥
सत्यधर्मीया
माद्रान् मद्राधिपान् अक्षौहिणिगणैः । सञ्ज्ञात्वात् ङीपो ह्रस्वः ॥४॥
सुमनोरञ्जिनी
माद्रान् मद्रदेशीयान् । त्रयोविंशतिभिर् अक्षोहिणिगणैर्युतः ॥४॥
स मागधानतिक्रम्य पश्चिमाभिमुखो ययौ ।
आकर्षन्निव भूपालान् गजाश्वरथवल्लभान् ॥ ५ ॥
सत्यधर्मीया
आकर्षन्निवेत्यनेन तेषामुत्साहाभावेऽप्यनिर्वाहेन समूहानामगतिरिति ध्वनयति ॥ ५ ॥
सुमनोरञ्जिनी
स जरासन्धः । मागधान् मगधदेशान् । अतिक्रम्य । गजाश्वरथ-वल्लभान् गजादिस्वामिनः भूपालान् । आकर्षन्निव । पश्चिमाभिमुखो ययाविति सम्बन्धः ॥५॥
आगत्य मधुरां रोद्धुं प्राविशद् यमुनातटे ।
स्कन्धावारेण महता राजभिर्बहुभिर्युतः ॥ ६ ॥
पदरत्नावली
स्कन्धावारेण सैन्यनिवेशार्थं वस्त्रविरचितपुरान्तःपुरादिगृहनिचयेन
॥ १–६ ॥
सत्यधर्मीया
महता स्कन्धावारेण शिबिरेण ॥ ६ ॥
सुमनोरञ्जिनी
स्कन्धावारेण सैन्यनिवेशार्थं रचितवस्त्रगृहसमूहेन ॥ ६ ॥
उपगीयमानो न्यरमत् सूतमागधबन्दिभिः ।
तदाकर्ण्य रणोद्योगं मागधस्य बलीयसः ॥ ७ ॥
सत्यधर्मीया
न्यरमन्न्यरमत ॥ ७ ॥
सुमनोरञ्जिनी
सूतादिभिर् उपगीयमानः स्तूयमानः । न्यरमत् सुष्वाप । कृष्णस्तु तदा मागधस्य रणोद्योगम् । आकर्ण्य ॥ ७ ॥
मन्त्रयामास शर्वर्यां कृष्णः सङ्कर्षणादिभिः ।
वसुदेवोद्धवाक्रूरशैनेयाहुकसारणैः ॥ ८ ॥
सत्यधर्मीया
सङ्कर्षणादिभिरित्यादिपदेन कनिष्ठानां बलतो ज्येष्ठानां कृष्णतो मन्त्रिणां ग्रहणम् । वसुदेवेत्यादिना स्ववर्यवर्णानां मन्त्रिणां च ग्रहणमिति विवेको ज्ञेयः । यद्वा सङ्कर्षणादिभिर्विहितमन्त्रा बहिःपातार्थमिह एहीति स्वसमीपं प्रति सम्यक्कर्षणं छोटिकावादनं पृष्ठस्फालनं चेत्येतदादिभिर्वसुदेवसारणादिभिरित्यर्थः ॥ ८ ॥
सुमनोरञ्जिनी
शर्वर्यां रात्रौ मन्त्रयामास आलोचितवान् ॥ ८ ॥
पतिरालोच्य शर्वर्यां सम्यङ् निर्धारितक्रियः ।
उषस्यनुदिते सूर्ये समाहूय भटोत्तमान् ॥ ९ ॥
सत्यधर्मीया
निर्धारिता क्रियोत्तरकार्यं कार्यं येन सः । उषसि तत्रापि सूर्येऽनुदिते जाग्रतां सति प्रकाशेऽजाग्रतां निद्रायाः किञ्चित्तमसि च निकृतेरुपरि निकृत्या पतितव्यमिति शिक्षयितुं ततानैवं श्रीनाथो न त्वशक्ततयेति मन्तव्यम् ॥ ९ ॥
सुमनोरञ्जिनी
सम्यक् निर्धारिता क्रिया कर्तव्यव्यापारो येन सः ॥ ९ ॥
त्रिधा विभज्य गोविन्दः स्वसेनां चतुरङ्गिणीम् ।
न्ययोजयदमेयात्मा मगधेन्द्रबलं प्रति ॥ १० ॥
सत्यधर्मीया
चतुरङ्गिणीमङ्गचतुष्कवतीम् ॥ १० ॥
सुमनोरञ्जिनी
चतुरङ्गिणीं गजाश्वरथपत्याख्यचतुरङ्गोपेताम् । न्ययोजयत् ॥ १० ॥
सङ्कर्षणं च हार्दिक्यं गदं सारणमेव च ।
वामेन प्रेषयामास मार्गेण मधुसूदनः ॥ ११ ॥
सत्यधर्मीया
वामेनादक्षिणेन ॥ ११ ॥
सुमनोरञ्जिनी
तदेव विविच्याह– सङ्कर्षणमित्यादिना ॥ वामेन मार्गेण । मागधसैन्यस्येति शेषः ॥ ११ ॥
सात्यकिं विपृथुं चैव पृथुमुद्धवमेव च ।
दक्षिणेनैव मार्गेण प्राहिणोत् सेनया सह ॥ १२ ॥
सत्यधर्मीया
सेनया सहेत्यत्रेव पूर्वत्रापि सम्बन्धनीयम् ॥ १२ ॥
सुमनोरञ्जिनी
प्राहिणोत् प्रेषयामास ॥ १२ ॥
स्वयं कतिपयैर्युक्तो रथैः कमललोचनः ।
अग्रे मगधराजस्य प्रविवेश महद्बलम् ॥ १३ ॥
सत्यधर्मीया
सर्वेषां निद्रितत्वाद्वस्तुतोऽग्रे ॥ १३ ॥
सुमनोरञ्जिनी
मगधराजस्य बलम् । अग्रे अभिमुखम् ॥ १३ ॥
सा सेना बहुनागाश्वरथपादातिसङ्कुला ।
प्रसुप्ता यमुनातीरे विस्रब्धा रमते सुखम् ॥ १४ ॥
सत्यधर्मीया
पादातिभिः पदातीनां समूहः पादातं तस्य समूह इत्यण् । पादातं पत्तिसंहतिरित्यमरः । तदस्ति येषामिति । नान्तः शब्दः । अन्यथाऽज्यतिभ्याञ्चेतीणि पादस्य पदाज्यातिगोपहतेष्विति पदादेशे पदातिरिति इदन्ततया स्यादिति भावः । सर्वे विधयश्छन्दसि विकल्प्यन्त इति निर्गलो मार्ग इति वा । नारब्धमधुना युद्धमिति विस्रब्धा विश्वस्ता । सुखं यथा तथा रमतेऽरमत ॥ १४ ॥
सुमनोरञ्जिनी
कदा प्रविवेशेत्यतः किञ्चित्प्रपञ्चयन्नाह । यदा सा सेना मागध सेना । पादातिनः पदातयः । विस्रब्धा निर्भया । सुखम् अनायासेन । रमते स्वापसुखमनुभवति ॥ १४ ॥
उदयाद्रिं समारोहत्यर्के तमसि नश्यति ।
नीडस्थेष्वेव कूजत्सु विहङ्गेषु ततस्ततः ॥ १५ ॥
सत्यधर्मीया
र्ओ सूर्ये उदयाद्रिं समारोहति सति विहगेषु नीडस्थेष्वेव । कुलाय-स्थेष्वेव बहिरबहुतमस्कत्वाद्विहायसः ॥ १५ ॥
सुमनोरञ्जिनी
तदा । विहङ्गेषु नीडस्थेष्वेव कूजत्सु । न तु बहिर्निर्गतेषु ॥१५॥
विकसत्सु सरोजेषु गायत्स्वलिकुलेषु च ।
प्रविवेश बलं भीमं मगधेन्द्रस्य दुर्जयम् ॥ १६ ॥
सत्यधर्मीया
दुर्जयमितरैः ॥ १६ ॥
हयाश्चाबद्धवैराणाः श्रेणीबद्धाः समन्ततः ।
कुञ्जराश्च तदा राजन्ननारोपितपञ्जराः ॥ १७ ॥
पदरत्नावली
हय गताविति धातुः, हयत्यनेनेति हयः । वैराणं पल्याणम् अश्व-पृष्ठासनमित्यर्थः । श्रेणीबद्धाः पङ्क्तिबद्धाः । पञ्जरं गजानां पृष्ठे शत्रुमुक्तशरस्तम्भियन्त्रगृहम्
॥ १७ ॥
सत्यधर्मीया
अबद्धं वैराणं पल्याणं खलीनं वा येषां ते तथा । श्रेणी पङ्क्तिस्तया बद्धा हया वाजिनः कुञ्जरा अपि । अनारोपितमुपरिभागेऽनर्पितं पञ्जरं येषां ते । रूप उपरिभाग इति धातुः । सुभद्रां रथमारोप्येत्यादिवच्चेति द्वितीयतात्पर्योक्तेः । वाहनमाहिता-दिति निपातितो वाहनशब्दः ॥ १७ ॥
सुमनोरञ्जिनी
अबद्धानि वैराणानि पल्याणानि येषु ते । श्रेण्यां पङ्क्तौ । बद्धाश्च । अनारोपितं पञ्जरं येषु तथा । पञ्जरं=गजानां पृष्टे शत्रुमुक्तशरस्तंभियन्त्रगृहमिति पदरत्नावल्याम् ॥ १७ ॥
अनादत्तप्रहरणा भटाश्चाबद्धमूर्धजाः ।
अप्रविष्टात्मवर्माणस्तदा नारूढवाहनाः ॥ १८ ॥
पदरत्नावली
अनादत्तप्रहरणा अस्वीकृतायुधाः ॥ १८ ॥
दुर्घटभावदीपिका
अप्रविष्टाप्तवर्माण इत्यस्य केचनाप्रविष्टवर्माणः केचनानावाप्तवर्माण इत्यर्थः । एतेनानाप्तवर्माण इत्यनेनैवाप्रविष्टवर्माण इत्यर्थस्य लाभाद् अप्रविष्टेत्येतव्द्यर्थमिति चोद्यं परास्तम् । केषाञ्चिद्वर्मप्राप्तिरेव जानतां केषाञ्चिद्वर्मप्राप्तौ सत्यामपि देहे वर्मणां सम्बन्धविशेषरूपः प्रवेशो न जात इत्युच्यत इत्यूरीकरणात् ॥ १८ ॥
॥ इति श्रीसत्याभिनवतीर्थविरचितायां श्रीभागवतटिप्पण्याम्
उत्तरार्धे पञ्चाशोऽध्यायः ॥ १०–५० ॥
सत्यधर्मीया
अनादत्तान्यस्वीकृतानि प्रहरणानि यैस्ते तथाऽबद्धमूर्धजाः शिरोरुहा यैस्ते । अप्रविष्टान्यात्मनो देहान् वर्माणि येषां ते । अनारूढानि वाहनानि यैस्ते ॥१८॥
सुमनोरञ्जिनी
अनादत्तानि अस्वीकृतानि प्रहणानि आयुधानि यैस्ते । अबद्ध-मूर्धजा विकीर्णकेशाः । न प्रविष्ट आत्मा देहो येषु तानि अप्रविष्टात्मानि । तथाविधानि वर्माणि कवचानि येषां ते अधृतकवचा इति यावत् ॥ १८ ॥
रथाश्चाबद्धतुरगाः सर्वतोऽनुद्धृतध्वजाः ।
सेनाया मगधेन्द्रस्य प्रवेशे पीतवाससः ॥ १९ ॥
पदरत्नावली
पीतवाससः श्रीकृष्णस्य । प्रवेशे प्रवेशसमये ॥ १९ ॥
सत्यधर्मीया
अबद्धास्तुरगा येषां ते । सर्वतः सर्वत्रानुद्धृता अनुच्छ्रिता ध्वजा येषां त इति वा । पीतवाससः पीताम्बरस्य मगधेन्द्रस्य सेनायाः प्रवेशे तत्काले दशा इयमवर्तिष्टेति भावः ॥ १९ ॥
सुमनोरञ्जिनी
सर्वतः सर्वे रथा अबद्धास् तुरगा येषां ते ॥ १९ ॥
त्रिदिक्ष्वापतितं सैन्यं दृष्ट्वा तद्राजमण्डलम् ।
इतिकर्तव्यतामूढं विभ्रान्तं समपद्यत ॥ २० ॥
पदरत्नावली
विभ्रान्तम् अनवस्थानम् ॥ २०–२१ ॥
सत्यधर्मीया
त्रिदिक्षु तिस्रश्च ता दिशश्च तास्वापतितं तत्सैन्यं राजमण्डलमुत्थितं स दृष्ट्वा । मण्डलं त्रिष्वित्युक्तेः, शक्यं स दृष्ट्वा राजमण्डल इति मण्डयितुम् । तथाऽपि सर्वथा तेषु न पौरुषमिति द्योतयितुं मण्डलमित्युक्तिरिति तात्पर्यं ज्ञेयम् । कर्तव्यताविषये मूढं सदित्येवं विभ्रान्तम् । भावे क्तः । बभ्रामानवस्थानं समपद्यत प्रापत् ॥ २० ॥
सुमनोरञ्जिनी
विभ्रान्तं बुद्धेर् एकत्रानवस्थानम् । समपद्यत प्राप्नोत् ॥ २० ॥
केचिद्भटाः समापेतुर्भयात् केचिच्च दुद्रुवुः ।
केचिदात्तप्रहरणास्त्वभिसस्रुररीन् रणे ॥ २१ ॥
सत्यधर्मीया
रणे केचिद्भटा अरीन्प्रति समापेतुर् अपतन् । निद्रया द्रावयन्त्या समापेतुरपतन्निति वा । अभिसस्रुरभ्यसरन् ॥ २१ ॥
सुमनोरञ्जिनी
केचित् समापेतुः पतिताः । केचिच्च आत्तप्रहरणाः स्वीकृता युधाः
॥ २१ ॥
केचिद् विभिन्नवर्माणश्छिन्नपादोरुबाहवः ।
रिपूनेवाभ्यवर्तन्त क्रोधोद्वृत्तारुणेक्षणाः ॥ २२ ॥
पदरत्नावली
तदा जरासन्धसेनावस्थाप्रकारं कथयति केचिदिति ॥ २२ ॥
सत्यधर्मीया
विभिन्नानि कलिङ्गस्य वर्म चैद्यश्चैद्यस्य क लिङ्ग इति । विभिन्नानि वम•णि येषां ते । अप्रविष्टात्मवर्माण इत्युक्तिस्वारस्यमेवं चेद्भविष्यति । त्वया स्थापिता-न्यपि तानि विभिन्नानि येषां त इति वा । क्रोधोद्रिक्तान्यरुणानीक्षणानि येषां ते ॥ २२ ॥
सुमनोरञ्जिनी
केचिद्विभिन्नवर्मादयोऽपि रिपूनेवाभ्यवर्तन्त न तु पश्चान्निवृत्ताः । तत्र निमित्तम् । क्रोधेति । क्रोधेन उद्वृत्ता विशदीकृता अरुणेक्षणा येषां ते तथाभूताः सन्त इत्यर्थः ॥ २२ ॥
केचिद् हयानपल्याणानारुह्य१ दृढविक्रमाः ।
मर्दयन्तो रिपून् युद्धे विमलं लेभिरे यशः ॥ २३ ॥
पदरत्नावली
पर्याणमुभयपार्श्वावलम्बकमापदं कविका वा ॥ २३ ॥
सत्यधर्मीया
अपल्याणान् अखलीनान् । विमलं यशो लेभिरे प्रापुः ॥ २३ ॥
सुमनोरञ्जिनी
अपर्याणान् अपल्याणान् । कविकाहीनानिति वा ॥ २३ ॥
राजानः सहसोद्बुद्ध्य दृष्ट्वा सैनिकसङ्क्षयम् ।
विना रणोपस्करणं चक्रुः केचन सङ्गरम् ॥ २४ ॥
पदरत्नावली
रणोपस्करणं युद्धसाधनम् ॥ २४–२९ ॥
सत्यधर्मीया
रणोपस्करणं तत्साधनमायुधादि ॥ २४ ॥
सुमनोरञ्जिनी
रणोपस्करणं युद्धसामग्रीम् ॥ २४ ॥
केचिद् विसृज्य शिबिरं विविशुर्गहनं वनम् ।
केचिन्मागधमासाद्य विजयस्वेति चाब्रुवन् ॥ २५ ॥
सत्यधर्मीया
गहनकान्तारं केचिदम्भस्तम्भनज्ञा वनं जलं विविशुः । विजयस्वेत्यब्रुवंश्च ॥ २५ ॥
सुमनोरञ्जिनी
विजयस्वेत्याक्रोशवचनम् ॥ २५ ॥
रथेनैकेन गोविन्दः प्रविश्य रिपुवाहिनीम् ।
जघान सुबहून् वीरान् सायुधान् सरणोद्यमान् ॥ २६ ॥
सत्यधर्मीया
स गोविन्दो रण उद्यमो येषां तान् रणोद्यमेन सहितानिति वा सरणे रणान्निस्सरणे उद्यमो येषामिति वा ॥ २६ ॥
सुमनोरञ्जिनी
सायुधान् तथा रणोद्योगेन सहितानेव जघान न तु निरायुधान् अनुद्यमांश्च ॥ २६ ॥
सङ्कर्षणोऽपि बलवान् महत्या सेनया वृतः ।
बलं प्रविश्य वामेन मर्दयामास मागधम् ॥ २७ ॥
सत्यधर्मीया
मागधं मगधस्वामिकं बलम् ॥ २७ ॥
सुमनोरञ्जिनी
वामेन वर्त्मनेत्याकृष्यते । मागधम् मगधदेशीयम् ॥ २७ ॥
शैनेयोऽपि महाबाहुर्दक्षिणेनैव वर्त्मना ।
प्रविश्य चतुरङ्गेण सैन्येन महताऽर्दयत् ॥ २८ ॥
सत्यधर्मीया
अर्दयद् अर्दयामास ॥ २८ ॥
सुमनोरञ्जिनी
शैनेयः सात्यकिः ॥ २८ ॥
एवं सा व्यथिता सेना मगधेन्द्राभिरक्षिता ।
दुद्राव त्रास्यमाना वै क्षणमात्रं दिशो दश ॥ २९ ॥
सत्यधर्मीया
व्यथिता त्रास्यमाना क्षणमात्रं दिशो दश दुद्राव ॥ २९ ॥
सुमनोरञ्जिनी
त्रास्यमाना श्रीकृष्णसैन्येन भयं प्रापिता । दिशः प्रति दुद्राव ॥२९॥
ततोऽनुद्रुत्य वार्ष्णेयः सात्यकिः पञ्चयोजनम् ।
निहत्य मागधं सैन्यं जयी व्यावर्तताहवात् ॥ ३० ॥
पदरत्नावली
मगधस्य अधिपतिर् मागधस् तस्य मागधस्य विद्यमानमपि मागधं सैन्यम् । अन्यथा मागधं निहत्येत्यनन्वितं स्यात् ॥ ३०–३१ ॥
सत्यधर्मीया
वार्ष्णेयः सात्यकिः पञ्चयोजनं विशेषणसमासः । मागधं गतम् । सैन्यं निहत्य जयी सन् व्यावर्तत ॥ ३० ॥
सुमनोरञ्जिनी
वार्ष्णेयः वृष्णिकुलोत्पन्नः । मागधस्य जरासन्धस्य सम्बन्धि मागधम् । आहवाद् युद्धात् ॥ ३० ॥
मतङ्गजान् पर्वतसन्निभान् बहून् निगृह्य सोपस्करतोमराङ्कुशान् ।
रथांश्च शस्त्रध्वजवाजिसंयुतान् निनाय कृष्णो मधुरां मनोरमाम् ॥ ३१ ॥
सत्यधर्मीया
मतङ्गजान् गजान् सोपस्करास्तोमराङ्कुशा येषां तान्निनाय । यद्यन्मतं तत्सर्वं निनायेति नीतवान् ॥ ३१ ॥
सुमनोरञ्जिनी
उपस्करैः कक्ष्याकुथादिभिः । तोमरैर् आयुधविशेषैः । अङ्कुशैश्च सहितान् । मतङ्गजान् । शस्त्रादिसहितान् रथांश्च । मथुरां प्रति । निनाय निन्य इति ॥३१॥
छत्राणि हेमाम्बररत्नमिश्रितान्यनेकबालव्यजनानि माधवः ।
किरीटपट्टाङ्गदकुण्डलांशुकान्यवाप कृष्णोऽगणितानि संयुगे ॥ ३२ ॥
पदरत्नावली
हेमाम्बरादीनि छत्राणीत्यस्य विशेषणानि ॥ ३२–३३ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
पदरत्नावल्याम् उत्तरार्र्धे पञ्चाशत्तमोऽध्यायः ॥
सत्यधर्मीया
हेमाम्बररत्नमिश्रितानि छत्राण्यनेकबालव्यजनानि पट्टेन क्षौमेण सहितं च तदङ्गदं चांशुकानि सूक्ष्मवस्त्राणि । अंशुकं सूक्ष्मवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोरिति विश्वः ॥३२॥
सुमनोरञ्जिनी
छत्राणि । कीदृशानि । हेमाम्बररत्नमिश्रितानि । दण्डादिषु हेम्ना सुवर्णेन प्रावरणार्थमम्बरेण । कलशादिषु रत्नैश्च मिश्रितानि । किरीटानि । पट्टा ललाटभूषाः । पट्टा ललाटभूषायामिति विश्वः । अंशुकानि वस्त्राणि ॥ ३२ ॥
हलायुधो मागधकोशवाहान् प्रजावरोधायुधभूषणादिकम् ।
नियोजितः कंसभिदा रणार्जितं यदुप्रवीराय धनं न्यवेदयत् ॥ ३३ ॥
॥ इति श्रीमद्भागवते दशमस्कन्ध उत्तरार्धे पञ्चाशोऽध्यायः ॥
सत्यधर्मीया
अवरोधः शुद्धान्तः । अगणितान्पदार्थानिति शेषः । अवरोधस्तिरोधाने शुद्धान्ते राजवेश्मनीति विश्वः । कंसभिदा कृष्णेन नियोजितो रणार्जितं रणसम्पादितं यदुप्रवीरायोग्रसेनाय । एवमादिधनं न्यवेदयत् ॥ ३३ ॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां
दशमस्कन्ध उत्तरार्धे पञ्चाशोऽध्यायः ॥ १०–५० ॥
सुमनोरञ्जिनी
मागधस्य कोशादिकम् । रणार्जितम्, अन्यदपि धनम् । कंसभिदा कृष्णेन नियोजितः सन् । यदुराजाय उग्रसेनाय न्यवेदयदित्यन्वयः । प्रजा अवरुध्यन्ते येष्विति प्रजावरोधाः पटकुटिकाः ॥ ३३ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां (गूढकर्तृकायां) **
सुमनोरञ्जिन्यां पञ्चाशोऽध्यायः ॥