अस्तिप्रास्तीति कंसस्य महिष्यौ भरतर्षभ
श्रीमद्भगवद्बादरायणप्रणीतम्
श्रीमद्भागवतम्
दशमस्कन्ध उत्तरार्धः
॥ अथ एकोनपञ्चाशोऽध्यायः ॥
श्रीशुक उवाच–
अस्तिप्रास्तीति कंसस्य महिष्यौ भरतर्षभ ।
हते भर्तरि दुःखार्ते ईयतुः स्वपितुर्गृहान् ॥ १ ॥
श्रीमद्विजयध्वजतीर्थविरचिता पदरत्नावली
पदरत्नावली
सच्छास्त्रस्यासच्छास्त्रेणेव कतिपयेष्वध्यायेषु श्रीकृष्णस्य जरासन्धेन साकं सङ्ग्रामं वर्णयति । तत्वनिर्णयेन सदसतां भक्तिद्वेषाभ्यामुद्बुद्धाभ्यां विहितनिर्वाणावाप्तिर्भवति । तत्र कथां प्रसञ्जयितुमाह– अस्तीति ॥ अस्तिप्रास्तिशब्दाभ्यामविद्याया द्वे रूपे संशयविपरीत-ज्ञाननामनी उच्येते । तत्र संशये ज्ञानसत्तामात्रमस्ति विपरीते तदपि नास्तीत्यस्तिप्रास्ती । अस भुवि, भू सत्तायामिति धातोः । यद्वा निश्चायकप्रमाणाभावेन निश्चयज्ञानाभावात् संशय-विपरीतज्ञानवाचकावेतौ । असु निरसन् इति धातोः । कंसस्य महिष्यौ । ‘कसि हिंसायाम्’ इति धातोर् हिंसात्मनोऽधर्मस्य महिमबन्धकत्वेन सम्बन्धिन्यौ । ‘षिञ् बन्धने’ इति धातोः । कृष्णनाम्ना धर्मेण भर्त्तरि स्वनिर्वाहके कंसनाम््नयधर्मे हते विनाशिते स्वपितुः स्व-पोषकस्य जरासन्धस्य, ‘जॄ वयोहानौ’ इति धातोर्वयोहानिहेतुभूतशैवी शास्त्रसंहिता जरेत्युच्यते । तस्यां सन्धा मरणापत्तावपि न मुञ्चामीति प्रतिज्ञा यस्य स तथा तस्य गृहान् प्रमेयविशेषानीयतुः प्राप्य स्थिते । शब्दशक्तिविचक्षणैः पुरुषैरध्यात्मविषयतयाऽत्रार्थो ज्ञातव्य इति ग्रन्थबाहुल्यभीरुणा मया न प्रदर्श्यत इति ॥ १ ॥
श्रीसत्यधर्मयतिकृता भागवतटिप्पणी
सत्यधर्मीया
यदर्थमत्यर्थमर्थितोऽर्थितदोऽवनाववतीर्णश्चकार चाङ्कुरार्पणं तत्तूर्णमुदीर्णं विधातुमिव गते गतपतिके द्वे सुते मागधस्येत्यादिरेतदादिकथनाकर्णनादिकं च मुक्तिकारणमिति निरूप्यतेऽस्मिन्स्कन्धे । तत्रादौ का कथोत्तरत्र प्रवृत्तेत्यौत्तरेयस्यान्तरीं शङ्कां स्वयमेव शुक आशुकरुणः परिहरन्वक्तीति वक्ति— श्रीशुक इति ॥ हे भरतर्षभ । अत्रोत्तरत्र यौष्माकीणपूर्वपुरुषकर्मैव प्रतिपाद्यते प्राय इति प्रोत्साहयितुं सम्बोधनमिति मन्तव्यम् । कंसस्यास्तिप्रास्तीति द्वे महिष्यौ मूर्धाभिषिक्ते योषितौ निर्विसर्गे द्वे नामनी अस्तीति प्रास्तीति विवेकः । अस्तिः प्रास्तिश्चेत्यपि हरिवंशपाठस्तत्रेतिशब्दोऽध्याहार्यः । भर्तरि कंसे हते कृष्णेनेति शेषः । दुःखार्ते, स्वपितुर्जरासन्धस्य गृहानीयतुः । अत्र भर्तृगेहे तन्निवेश-कर्तुरदर्शनात्पुत्री नष्टा चेत्पितृशरणं शरणमिति नीत्या गते । हरिरेव तदायुरवलोक्यै-तेऽत्रैरयत्तत्र गन्तुमिति तात्पर्यं चावधेयम् । यच्च भागवतं तत्र क्व नामातीवदुर्वचः । आध्यात्मिकोऽर्थो विदुषां विदुषैतत्कृते कृतम् । ईदूदेद्विवचनमिति प्रगृह्यसञ्ज्ञायां प्लुतप्रगृह्या अचि नित्यमिति प्रकृतिभावः ॥ १ ॥
श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्या (गूढकर्तृका) सुमनोरञ्जिनी
सुमनोरञ्जिनी
सेवितं (नन्दि) विष्णुतीर्थार्यभावितं हरिमाश्रये ॥ १ ॥
वन्देऽहं मौद्गराचार्यचरणद्वन्द्वमादरात् ।
यत्प्रेमपात्रतां प्राप्तो दुरितैर्नाभिभूयते ॥ २ ॥
पूर्वार्धस्य परं पारमुत्तीर्य मम मानसम् ।
दशमस्कन्धवाराशेरुत्तरार्धं तितीर्षति ॥ ३ ॥
भक्तवत्सलो भगवान् भवापवर्गाय भजमानानां जनानां ततस्ततः प्रत्यूहव्यूहं स्वयं परिहृत्य परिरक्षतीतीममर्थं सूचयन् स्वपादमूलं भजद्भोजान्धकादीनां सुसुखान्तरायस्य सन्ततिरूपजरासन्धादेः पराभवप्रकारः प्रदर्श्यतेऽत्र कतिपयैरध्यायैः । तत्र तावज्जरासन्धस्य युद्धोद्योगबीजं वक्ति– अस्तीति ॥ अस्तिप्रास्तीति नाम््नयौ । अत्र मणीवादिवत्प्रगृह्य-सञ्ज्ञाभावो ज्ञेयः । कंसस्य महिष्यौ पत्नी । दुःखार्ते दुःखेन पीडिते । स्वपितुर् जरासन्धस्य । गृहान् गृहं प्रति । ‘गृहाः पुंसि च भूम््नयेव’ इत्यमरः । ईयतुर् आगते ॥१॥
पित्रे मगधराजाय जरासन्धाय दुःखिते ।
वेदयाञ्चक्रतुः सर्वमात्मवैरूप्यकारणम् ॥ २ ॥
पदरत्नावली
आत्मवैरूप्यकारणम् आत्मवैधव्यनिमित्तम् । अन्यत्र प्रतिपादना-सामर्थ्यम् ॥ २ ॥
सत्यधर्मीया
मगधराजाय तद्देशेशाय नाम्ना जरासन्धाय । यद्यपि पूर्वं स्वपितु-र्गृहानित्युदीरणादेव जरासन्धस्य पितृत्वं ज्ञातं भवति तथाऽपि मन्दस्य सन्देहः स्यात्स्वपितु-र्गेहं गत्वा भ्रात्रे जरासन्धायेतीति तमतङ्कयितुं पुनः पित्र इत्युक्तिरिति ज्ञेयम् । आत्म-वैरूप्यस्य वैधव्यस्य कारणं सर्वं वेदयाञ्चक्रतुः । पदे द्वे । अनुप्रयोगमात्रं नियतं तं पातयां प्रथममासेत्यादयोऽपभ्रंशा इति शेखराद्युदीरणात् । विज्ञापयामासतुः । अये पुत्र्यौ किमुर्वरितै रणो न कार्य इत्यतोऽप्याहतुः । आत्मनः वैरूप्यं येन स आत्मवैरूप्यकस्तेन, न विद्यते रणो यस्य तं च सर्वेऽपि तद्भ्रातरश्च मृता न रणधुरीणस्तत्रास्तीति चात्मवैरूप्यकारणं च वेदयाञ्चक्रतुरिति । तस्मादरणं रक्षणमुद्दिश्येति । बहुव्रीहौ कप् । यद्वा स्वजनकाक्रोशजनना-यात्मनोर्वैरूप्यं येन स आत्मवैरूप्यः स च कः कुत्सित इति कटाक्षयत इति वा ॥ २ ॥
सुमनोरञ्जिनी
मगधस्य तन्नामकदेशस्य । राज्ञे नामतो जरासन्धाय । आत्म-वैरूप्यस्य आत्मनो यद्वैरूप्यं विरूपता वैधव्यचिह्नं तस्य कारणं कंसवधम् । सर्वं सपरिकरम् । वेदयाञ्चक्रतुः ॥ २ ॥
स तदप्रियमाकर्ण्य शोकामर्षयुतो नृपः ।
अयादवीं महीं कर्तुं चक्रे परममुद्यमम् ॥ ३ ॥
पदरत्नावली
नॄ नये इति धातोः, नॄन् नयान् शैवशास्त्रोक्तान् पिबतीति नृपः शास्त्रज्ञः । अकयः प्रतिसम्भूमेत्यभिधानाद् यो विष्णुः स एव आदो दुष्टदण्डकस्तं वान्ति शरणं गच्छन्तीति यादवा वैष्णवास् तद्रहिताम् ॥ ३ ॥
सत्यधर्मीया
स नृपस्तदप्रियम् । तदाप्रियमिति पाठे तदाऽऽकर्ण्य । शोकेन कंसहिंसाश्रवणजेनामर्षेण कृष्णकर्मासहनेन च युतो, महीमयादवीं न विद्यन्ते यादवा यस्यां साऽयादवी तां कर्तुं परममुद्यमं चक्रे । आत्मनेपदेन तदुद्योगोद्भवोऽनर्थस्तस्यैवेति सूच्यते । अत्र नारदबोधितमथुरायोजने यतो गदां गदाग्रजमुद्दिश्य चिक्षेपेत्यादिकथाऽनुसन्धेया । ‘क्षुब्धोऽतिकोपवशतः स्वगदाम्’ इत्यारभ्य ‘राजा स्वमातृत उतो गदया च हीन’ इत्यन्तेन चाचार्योक्तेः ॥ ३ ॥
सुमनोरञ्जिनी
सः जरासन्धः । तत् ताभ्यामुदितम् । अप्रियं दुःखकरं जामातृ-वधम् । तयोः स्वदुहित्रोरप्रियमिति वा । शोकामर्षयुतः दुहितृवैरूप्येण शोकः श्रीकृष्णे चामर्षः क्रोधस् ताभ्यां युतः । अयादवीं यादवरहिताम् । उद्यमम् उद्योगम् ॥ ३ ॥
अक्षौहिणीभिर्विंशद्भिस्तिसृभिश्चापि संवृतः ।
यदुराजधानीं मधुरां न्यरुणत् सर्वतो दिशम् ॥ ४ ॥
पदरत्नावली
एकस्थानमारभ्य षोडशस्थाने या सङ्ख्या साक्षौहिणीत्युच्यते । अन्ये गजानां सप्तसहस्राणि द्विशती साशितिः (७२८०) । एवं रथानामपि सङ्ख्या । अश्वा-नामेकविंशतिसहस्री पञ्चशती विंशतिश्च (२१५२०) । पदातीनां पञ्चत्रिंशत्सहस्रं विंशतिश्च (३५०२०) इत्यक्षौहिणीसङ्ख्यां ब्रुवते । एको गज एको रथस्त्रयोऽश्वाः पञ्च पदातय इति दश सङ्ख्यापत्तिर्नाम । त्रिगुणिता पत्तिः सेनामुखम् । सेना मुखमिति भिन्नं वा पदम् । सेनामुखात्रिगुणो गुल्मनामा । तत्रिगुणो गणनामा । गणत्रिगुणा वाहिनी नाम । वाहिनी त्रिगुणा पृतना । तत्रिगुणा चमूः । त्रिगुणिता चमूरनीकिनी दशानीकिनी अक्षौहिणीति केचित् । ‘एकेभैकरथा त्र्यश्वापत्तिः पञ्चपदातिका । पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् । सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः । अनीकिनी दशानीकिन्यक्षौहिणी’ इत्यमरः ॥ ४ ॥
सत्याभिनवयतिकृता दुर्घटभावदीपिका
दुर्घटभावदीपिका
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥ जरासन्धो विंशद्भिरक्षौहिणीभिस्तिसृभिरक्षौहिणीभिश्च संवृतः सन् यदुराजधानीं सर्वतो दिशं सर्वा दिशो यस्याः सा तां मथुरां न्यरुणदपीति । एतेन तिसृभिश्चेति चशब्देनैव न केवलं विंशद्भिरक्षौहिणीभिः किन्तु तिसृभिरक्षौहिणीभिश्चेति समुच्चयस्य प्राप्तत्वात्तिसृभिश्चा-पीत्यपिशब्दो व्यर्थ इति चोद्यं परिहृतम् । न केवलं परमोद्योगं चक्रे किन्तु मथुरां न्यरुण-दपीति समुच्चयलाभार्थमपिशब्दः प्रयुक्त इत्यभ्युपगमात् । एतेनैव मथुरां सर्वासु दिक्षु न्यरुणदिति वक्तव्यम् । सर्वतो दिशमिति कथनमनुपपन्नमिति दूषणं निरस्तम् । सर्वतो दिशमित्यत्र सर्वा दिशो यस्याः सेति बहुव्रीहिः सर्वा इति प्रथमाया लुकं तसीत्यादेशं च स्वीकृत्य सर्वतो दिशमित्यस्य सर्वासु दिक्ष्विति तात्पर्यार्थ इत्यभ्युपगमात् ॥ ४ ॥
सत्यधर्मीया
विंशद्भिस्तिसृभिरुपरि चाहत्य त्रयोविंशद्भिरक्षौहिणीभिः । दशानी-किन्यक्षौहिणीत्यमरः ।
‘षट्सहस्रं पञ्चशतं षष्ठिरेका तु वाहिनीम् ।
द्विसहस्रं शतं सप्ताशीतिर्गजरथस्य च ।
यत्रायुतं नवशती त्रिंशत्पञ्चपदातयः ।
अनीकिन्यभिधेया । से’त्युक्तानीकिनीदशकमक्षौहिणी ।
अन्यत्राप्युक्तम्– प्रयुतं नवसाहस्रं पञ्चाशत्त्रिशतं भटाः । पञ्चाशत्षष्ठिसाहस्रं षट्शतं दशवाहिनः । एकविंशतिसाहस्रं शतानामष्टसप्ततिः । द्विशतस्यन्दना यत्र साऽक्षौहिण्युच्यते बुधैरिति । अक्षादूहिन्यामुपसङ्ख्यानमिति वृद्धिः । संवृतः । अक्षौहिणी रथास्तस्याः खसप्त-वसुमूर्छनाः । गजास्तावन्त एव स्युस्त्रिपञ्चघ्ना हया नरा’ इति । व्याख्याता च सङ्ख्या महाभारततात्पर्यनिर्णयटीकायां बुधवल्याम् । तथा चापिभिर्धनुष्पाणिभिः संवृतोऽक्षौहिणीभिः सह यदुराजधानीं मथुरां सर्वतो दिशं न्यरुणद्रुरोध ॥ ४ ॥
सुमनोरञ्जिनी
विंशद्भिस् तिसृभिश्च अक्षौहिणीभिस् त्रयोविंशतिभिरक्षौहिणीभिरित्यर्थः । अक्षौहिणी च–
खाद्य्रष्टमूर्च्छनमिता (२१८७०) करिणो रथाश्च (२१८७०)
व्योमेन्द्वरीष्वरिमिता (६५६१०) अपि सप्तयः स्युः ।
खेषु त्रिखेचरखभूसमिताश्च (१०९३५०) पद्गा
अक्षौहिणीति कथिता कविभिः समस्ता ॥
इति सङ्ग्रहश्लोकानुसारेण ज्ञेया । एतत्सङ्ख्याकसेनाभिः सर्वतोदिशं सर्वासु दिक्षु न्यरुणद् रुरोध ॥ ४ ॥
निरीक्ष्य तद्बलं कृष्ण उद्वेलमिव सागरम् ।
स्वपुरं तेन संरुद्धं स्वकुलं च भयाकुलम् ॥ ५ ॥
सत्यधर्मीया
उद्वेलं वेलामुद्गत्यायान्तं सागरमिव विद्यमानं तद्बलं सैन्यं, तेन बलेन संरुद्धं स्वपुरं मथुरां भयाकुलं स्वकुलं च निरीक्ष्येत्यन्वयः ॥ ५ ॥
सुमनोरञ्जिनी
तस्य जरासन्धस्य । बलं सैन्यम् । उद्वेलम् उद् उल्लङ्घिता वेला मर्यादा येन सस् तम् । सागरमिव स्थितम् । तेन सैन्येन ॥ ५ ॥
चिन्तयामास भगवान् हरिः कारणमानुषः ।
तद्देशकालानुगुणं स्वावतारप्रयोजनम् ॥ ६ ॥
सत्यधर्मीया
कारणेनैव मानुषस्तत्त्वेनावतरितस्तद्देशकालानुगुणं स्वावतारस्य प्रयोजनं भगवांश्चिन्तयामास लोकमनुकुर्वन् ॥ ६ ॥
हनिष्यामि बलं ह्येतद्् भुवि भारं समाहितम् ।
मागधेन समानीतं वंश्यानां सर्वभूभृताम् ॥ ७ ॥
दुर्घटभावदीपिका
अहं भुवि भुवो भारं समाहितं सन्नद्धम् । ह्येतद्बलम् । हिशब्दोऽवधारणे । हनिष्यामि हनिष्याम्येवेति । एतेन भुवि भारं बलं हनिष्यामीत्यनेनैव पूर्णत्वात्समाहितमित्येतद्व्यर्थमिति दूषणं परास्तम् । समाहितमित्यस्य स्थापितमित्यर्थमनङ्गी-कृत्य सन्नद्धमित्यर्थमङ्गीकृत्य बलस्य सन्नद्धताज्ञापनेन स्वपराक्रमज्ञापनं क्रियत इत्यूरी-करणात् ॥ ७ ॥
सत्यधर्मीया– भारं समाहितं तत्त्वेन स्थितं पश्यतां सर्वभूभृतां ताननादृत्येत्यर्थः ॥७॥
सुमनोरञ्जिनी
कारणेन भूभारहरणरूपनिमित्तेन । मानुषः मनुष्यलोकेऽवतीर्णः । तद्देशकालयोस् तदानीन्तनदेशकालयोर् अनुगुणम् अनुकूलं योग्यमित्यर्थः । स्वावतारे प्रयोजनं भूभारपरिहाररूपं प्रयोजनम् । चिन्तयामास सङ्कल्पितवान् । तमेवाह ॥ हनिष्यामीति ॥ भुवि समाहितं भारं भारभूतम् एतद्बलं सैन्यं हनिष्यामि । सर्वभूभृतां पश्यतां सताम् । वश्यानां सर्वभूभुजामिति क्वचित्पाठः । वंश्यानां स्ववश्यानां सर्वभूभुजां बलमित्यन्वयः ॥ ७ ॥
अक्षौहिणीभिः सङ्ख्यातं भटाश्वरथकुञ्जरैः ।
मागधोऽपि न हन्तव्यो भूयः कर्ता बलोद्यमम् ॥ ८ ॥
दुर्घटभावदीपिका
अक्षौहिणीभिः सङ्ख्यातं भटाश्वरथकुञ्जरैर्युक्तं बलं हनिष्यामीति पूर्वेणान्वयः । यतो भूयो रणोद्यमं कर्ताऽतो मागधोऽपि मागध एव न हन्तव्य इति । एतेन मागधबलं हनिष्यामीत्युक्तत्वान् न केवलं मागधबलं न हन्तव्यं किन्तु मागधोऽपि न हन्तव्य इति कथनमयुक्तमिति दूषणं परिहृतम् । अपिशब्दस्यावधारणार्थत्वमङ्गीकृत्य मागधोऽपि न हन्तव्य इत्यस्य मागध एव न हन्तव्य इत्यर्थ इत्युक्तत्वात् ॥ ८ ॥
सत्यधर्मीया
कीदृग्बलमित्यत आह । अक्ष•हिणीभिः सङ्ख्यातं भटाश्वरथकुञ्जरैः सङ्ख्यातं तदेव हनिष्यामि । मागधोऽपि मागधस्तु न हन्तव्यः । कुतस्तस्य न हननमित्यत आह– भूयः कर्ता बलोद्यममिति ॥ ८ ॥
सुमनोरञ्जिनी
तर्हि मागधोऽपि हन्तव्य इति नेत्याह– मागध इति ॥ भूयः पुनः बलोद्यमं सैन्योद्योगं कर्ता करिष्यति । तद्बलं पुनरपि हन्तव्यमिति भावः ॥ ८ ॥
एतदर्थोऽवतारोऽयं भूभारहरणाय मे ।
संरक्षणाय साधूनां कृतोऽन्येषां वधाय च ॥ ९ ॥
दुर्घटभावदीपिका
मेऽयमवतार एतदर्थो भवति । एतदर्थ इत्युक्तं विवृणोति ॥ भूभारेति । अयमवतारो भूभारहरणाय साधूनां संरक्षणाय मे मया कृतः । भूभारहरणा-येत्युक्तं विवृणोति ॥ अन्येषामिति ॥ साधुभ्योऽन्येषां दैत्यादीनां वधायायमवतारः कृत इति । एतेनैतदर्थ इत्येतच्छब्देन बुद्धिस्थभूभारहरणादेः परामर्शस्य कर्तव्यत्वेन भूभारहरणा-येत्यादिकं व्यर्थमिति चोद्यस्यानवकाशः । एतच्छब्देन कस्य परामर्श इत्याशङ्कापरिहारार्थं
बुद्धिस्थभूभारहरणादेः परामर्श इति वक्तुं भूभारहरणायेत्यादिनैतदर्थोऽवतारोऽयमित्यस्य विवरणं कृतमित्यभ्युपगमात् । एतेनैव भूभारहरणायेत्यनेनैवान्येषां वधायेत्यर्थस्य प्राप्तत्वाद् अन्येषां वधायेत्येतव्द्यर्थमिति दूषणस्यानवकाशः । कोऽसौ भूभारस्तस्य हरणं कीदृशमित्याशङ्कापरिहारार्थं भूभारहरणायेत्यस्य विवरणम् अन्येषां वधायेत्यनेन क्रियत इत्यूरीकरणात् ॥ ९ ॥
सत्यधर्मीया
अयमवतारो भूभारहरणाय साधूनां रक्षणायान्येषां बलादीनां सकाशा द्वधाय च मे मया कृत इतीदानीमेतदर्थ एतस्य जरासन्धस्यार्थो निवृत्तिस्त्याग इति यावत्
॥ ९ ॥
सुमनोरञ्जिनी
कुत एवं कर्तव्यमित्यत आह– एतदिति ॥ चोऽवधारणे । एतदर्थ एवावतार इति सम्बन्धः । किमेतदित्यत उक्तम् ॥ भूभारेति ॥ किं तद्भूभारहरणं नामेत्यतः स्पष्टयति ॥ अन्येषामिति ॥ साधुभ्योऽन्येषाम् ॥ ९ ॥
अन्योऽपि धर्मरक्षायै देहः सम्भ्रियते मया ।
विरामायाप्यधर्मस्य काले प्रभवतः क्वचित् ॥ १० ॥
पदरत्नावली
अन्योऽपि वाराहादिरपि । स्वकाले प्रभवतः वर्धमानस्याधर्मस्य विरामाय विनाशाय ॥ ५–१० ॥
सत्यधर्मीया
अन्योऽपि वराहादिरपि देहो मया संभ्रियते । क्वचित्प्रभवतः कालेऽधर्मस्य विरामाय विनाशाय देहो व्यासादिदेहो भ्रियते ॥ १० ॥
सुमनोरञ्जिनी
न केवलमयमेवावतारो भूभारहरणाद्यर्थः किं तु अन्योऽपि देहः वराहादिः । काले स्वकाले । प्रभवतः वर्धमानस्य अधर्मस्य विरामाय विनाशाय ॥ १० ॥
एवं ध्यायति गोविन्दे मगधाधिपतिर्बली ।
मधुरां सवनोद्यानां रुरोध बहुसैनिकः ॥ ११ ॥
सत्यधर्मीया
बहवः सैनिकाः सेनायां समवेता यस्य सः ॥ ११ ॥
सुमनोरञ्जिनी
उद्यानानि राज्ञां क्रीडावनानि । वनानि साधारणानि । बहवः सैनिकाः सेनारक्षका यस्य सः । सेनारक्षाश्च सैनिका इत्यमरः ॥ ११ ॥
कलिङ्गश्चेकितानश्च दन्तवक्रविडूरथौ ।
उल्मुखो वेणुदारी च साल्वश्चैद्यश्च दुर्मतिः ॥ १२ ॥
सत्यधर्मीया
दुर्मतिरिति कलिङ्गादिविशेषणम् ॥ १२ ॥
सुमनोरञ्जिनी
दुर्मतिश् चैद्य इति सामानाधिकरण्यम् ॥ १२ ॥
पूर्वद्वारं समासाद्य रुरुधुर्मागधाज्ञया ।
विन्दानुविन्दावावन्त्यौ विराटो दरदस्तथा ॥ १३ ॥
सत्यधर्मीया
विराटादयस्तु तत्पराजिता इति तन्निघ्नाः ॥ १३ ॥
सुमनोरञ्जिनी
आवन्त्यौ अवन्तीपुरीशौ ॥ १३ ॥
एकलव्यो बाह्लिकश्च तथा पञ्चजनेश्वरः ।
रुरुधुर्दक्षिणद्वारं पौण्ड्रकश्च महाबलः ॥ १४ ॥
सत्यधर्मीया
पौण्ड्रको वासुदेवः ॥ १४ ॥
युधामन्युर्बृहत्क्षत्रः शल्यो भूरिश्रवास्तथा ।
उत्तमौजाश्च रुग्मी च द्रुमश्चैव सुदक्षिणः ॥ १५ ॥
सत्यधर्मीया
बृहत्क्षत्रस्तन्नामा ॥ १५ ॥
एते नियुक्ता राजानो जरासन्धेन जयद्रथः ।
पश्चिमद्वारमासाद्य रुरुधुर्मधुरां पुरीम् ॥ १६ ॥
सत्यधर्मीया
नियुक्ता आज्ञप्ताः ॥ १६ ॥
द्रुपदः शिशुपालश्च त्रिगर्तोऽथ भारत ।
शुकनिः सोमदत्तश्च कुलिन्दश्च महाबलः ॥ १७ ॥
सत्यधर्मीया
कुलिन्दो महाबल इति योग्यान्वयि ॥ १७ ॥
जरासन्धेन सहिताः सर्वे मदबलान्विताः ।
उत्तरद्वारमासाद्य रुरुधुर्भरतर्षभ ॥ १८ ॥
सत्यधर्मीया
मदश्च बलं च ताभ्यामन्विताः ॥ १८ ॥
सुमनोरञ्जिनी
मदबलाभ्यामन्विताः ॥ १८ ॥
ते निरुध्य चतुर्द्वाराण्युद्वेलाम्भोधिसन्निभाः ।
सिंहनादं प्रकुर्वन्तो दध्मुः शङ्खाननेकशः ॥ १९ ॥
पदरत्नावली
मधुरां योग्यानां परमानन्ददात्री वेदान्तविद्याम् । तस्याश्चतुर्द्वाराणि ऋगादीनि । पाखण्डशैववीरादयः कलिङ्गादिशब्दिता बहवः सैनिकाः सेनारक्षका यस्य स तता । ‘सेनारक्षाश्च सैनिकाः’ इत्यमरः ॥ ११–१९ ॥
सत्यधर्मीया
चतुर्द्वाराण्येवं गतम् । अनेकश इति प्रथमाबहुवचनान्तं द्वितीया-बहुवचनान्तं च सत्त इत्यस्य शङ्खानां च विशेषणम् ॥ १९ ॥
सुमनोरञ्जिनी
उद्वेलः सीमामतिक्रान्तो योंऽभोधिस्तत्सन्निभाः ॥ १९ ॥
क्ष्वेलन्तो युद्धसन्नद्धा जघ्नुर्भेरीः सहस्रशः ॥ २० ॥
पदरत्नावली
क्ष्वेलन्तो ऽट्टहासं कुर्वन्तः ॥ २० ॥
सत्यधर्मीया
क्ष्वेलन्तः सिंहनादं कुर्वन्तः ॥ २० ॥
सुमनोरञ्जिनी
क्षेलन्त उच्चध्वनिं कुर्वन्तः । क्ष्वेडः कर्णामयेशब्द इति विश्वः ॥२०॥
तद् वीरभूपालकदम्बजृम्भितं युगावसानार्णवघूर्णितोपमम् ।
निशम्य कृष्णो न चचाल चेतसा सृगालघोषं मृगराडिवोद्धतः ॥ २१ ॥
पदरत्नावली
कदम्बः समूहः ॥ २१ ॥
दुर्घटभावदीपिका
कृष्णो युगावसानार्णवघूर्णितोपमं युगावसानसमुद्रघोषोपमम् । तद्वीरभूपालकदम्बजृम्भितं वीराश्च ते भूपालाश्च वीरभूपालास्ते प्रसिद्धाश्च ते वीरभूपालाश्च तद्वीरभूपालास्तेषां कदम्बः समूहस्तस्य जृम्भितं निनादम् । जृम्भितं गात्रविनमे निनादे गोमुखेऽपि चेत्यभिधानात् । निशम्य चेतसा मनसाऽपि न चचाल किमु देहतः । अत्र दृष्टान्तमाह ॥ सृगालेति । सृगालघोषं निशम्योद्धतो मृगराट् सिंह इवेति ॥ २१ ॥
सत्यधर्मीया
वीराश्च ते भूपालाश्च तेषां कदम्बः सङ्घस्तस्य जृम्भितमास्फोटजं शब्दम् । जृम्भितं करणे स्त्रीणामीहास्फुटितयोरपीति विश्वः । युगावसानस्य प्रलयस्य यद्घूर्णितं ध्वनिविशेषस्तेनोपमा यस्य तत् । उद्धतो मृगराट् सृगालानां गोमायूनां घोषं निशम्येव कृष्णो निशम्य चेतसा न चचाल ॥ २१ ॥
सुमनोरञ्जिनी
ते च ते वीरा आरब्धान्तगामिनो भूपालास्तेषां कदंबेन समूहेन जृम्भितं वर्धितम् । युगावसाने प्रलये अर्णवस्य यद् घूर्णितं प्रचलनेन जायमानो घोषस् तस्य उपमा सादृश्यं यस्य तं घोषं निशम्य कृष्णो न चचाल मनश्चांचल्यंं नाप । सृगालघोषं श्रुत्वा मृगराट् सिंह इव ॥ २१ ॥
एतस्मिन्नेव काले तु गगनात् सूर्यवर्चसौ ।
रथावुपस्थितौ सद्यः ससूतौ सपरिच्छदौ ॥ २२ ॥
पदरत्नावली
सपरिच्छदौ सोपस्करणौ ॥ २२ ॥
सत्यधर्मीया
सपरिच्छदौ सोपस्करणौ ॥ २२ ॥
सुमनोरञ्जिनी
उपस्थितौ समीपं प्राप्तौ । कीदृशौ । सूताभ्यां सहितौ । सपरिच्छदौ पताकाद्युपस्करसहितौ ॥ २२ ॥
आयुधानि च दिव्यानि पुराणानि यदृच्छया ।
चक्रं सुदर्शनं घोरं सहस्रारं मनोरमम् ॥ २३ ॥
पदरत्नावली
सहस्रमराणि दलानि यस्य तत् तथा ॥ २३ ॥
सत्यधर्मीया
सुदर्शनसहस्रारशब्दौ यौगिकौ । सु शोभनं दर्शनं यस्य तत् । सहस्रमराणि दलानि यस्य तत् । घोरं रिपूणां, मनोरमं साधूनाम् ॥ २३ ॥
सुमनोरञ्जिनी
आयुधान्यपि उपस्थितानि । कान्यायुधानीत्यतस्तान्याह ॥ चक्रमिति ॥ सुदर्शनं तन्नामकं घोरं रिपूणां, मनोरमं स्वीयानाम् । सहस्रसङ्ख्या अरा दलानि यस्य तत् ॥ २३ ॥
गदा कौमोदकी गुर्वी नाम्ना कौमोदकी शुभा ।
त्रिनतं कार्मुकश्रेष्ठं शार्ङ्गसञ्ज्ञं गुणान्वितम् ॥ २४ ॥
पदरत्नावली
कौ मह्यां मोदको नारायणस् तस्य विद्यमाना कौमोदकी । त्रिषु स्थानेषु कोटिद्वये मध्ये च नतं वक्रं त्रिनतम् । ‘कार्मुकं तु चतुर्हसतम्’ इति यादवः । शार्ङ्गं शृृङ्गविकृतम् । गुणेन ज्यया अन्वितं सहितम् ॥ २४–२७ ॥
सत्यधर्मीया
कुमोदकस्य हरेरियं कौमोदकी नाम्ना च कौमोदकी गुर्वी गदा । शुभा सताम् । त्रिषु भागेषु कोट्योर्मध्ये चेति नतम् । शार्ङ्गेंति सञ्ज्ञा यस्य तत् । गुणेन ज्ययाऽन्वितं कार्मुकश्रेष्ठम् ॥ २४ ॥
सुमनोरञ्जिनी
कौमोदकी सन्तोषकरी । कौ मह्यां मोदको नारायणस् तत्सम्बन्धिनी वा । त्रिनतम् । त्रिषु स्थानेषु मध्ये कोटिद्वये च नतं वक्रम् । गुणेन मौर्व्या अन्वितम् । कार्मुकश्रेष्ठं धनुःश्रेष्ठम् ॥ २४ ॥
तीक्ष्णधारः शितमुखः खड्गो नन्दकसञ्ज्ञितः ।
**लघू शरचितौ रम्यौ तूणी चाक्षयसायकौ ॥ २५ ॥ **
सत्यधर्मीया
तीक्ष्णा धारा यस्य सः । शितं निशितं मुखं यस्य सः । नन्दक-सञ्ज्ञितः खड्गः । शरचितौ शरैर्नालैः पुङ्खैरिति यावच्चितौ सम्बद्धौ । ‘बाणस्त्वयोमयः प्रोक्तः शरो नालोऽस्य कीर्तित’ इति बृहद्भाष्योक्तेः । तौ चैवम्भूतावित्याह– अक्षय-सायकाविति ॥ अक्षयाः सायका ययोस्तौ ॥ २५ ॥
सुमनोरञ्जिनी– तीक्ष्णा धारा यस्य सः । शितं तीक्ष्णं मुखम् अग्रं यस्य सः । शरैश् चितौ पूर्णौ । इतरतूणीरवन्नेत्याह । अक्षयाः सायका ययोस्ताविति ॥ २५ ॥
तुरगाः सैन्यसुग्रीवमेघपुष्पबलाहकाः ।
हलं च बलभद्रस्य मुसलं च दृढं गुरु ॥ २६ ॥
सत्यधर्मीया
शैब्येत्यपि केचित्पठन्ति । दृढं गुर्विति हलमुसलयोर्विशेषणम् । कुसलं मुसलं तु स्यादिति विश्वः ॥ २६ ॥
सुमनोरञ्जिनी
शैब्यः सुग्रीवः मेघपुष्पः बलाहक इति सञ्ज्ञाः । तुरगाः शीघ्रगामिनोऽश्वाः । मुसलं दृढं स्थूलम् । शक्ते स्थूले त्रिषु दृढमित्यमरः ॥ २६ ॥
इत्येतान्यायुधान्याजौ गगनादागतानि सः ।
दृष्ट्वा राजन् हृषीकेशः सङ्कर्षणमथाब्रवीत् ॥ २७ ॥
सत्यधर्मीया
गगनादागतानि स्वयम् । स कृष्णोऽथ सङ्कर्षणमब्रवीत् ॥ २७ ॥
सुमनोरञ्जिनी
आयुधानि । बहुवचनमाद्यर्थे । आयुधादीनि । युद्धसाधनानीति वा । मध्येऽश्वकथनात् । आजौ रणे प्रस्तुते सति । रणार्थमिति वा ॥ २७ ॥
पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो ।
एष ते रथ आयातो दयितान्यायुधानि च ॥ २८ ॥
पदरत्नावली
त्वावतां त्वद्युक्तानाम् । यद्वा त्वम् अवः रक्षको येषां ते त्वावन्तस् तेषाम् । त्वावतामिति पाठश्छान्दसः ॥ २८ ॥
सत्यधर्मीया
हे आर्य अग्रज त्वावतां त्वद्युक्तानां त्वत्स्वामिकानामिति यावत् । आघत्वावान्त्मनेत्यृग्भाष्ये त्वद्वान् । टीकायां त्वत्स्वामिक इत्युक्तेः । युष्मदोर्मपर्यन्तस्य प्रत्ययोत्तरपदयोश्चेति त्वादेशे दृग्दृशवतुष्वेव विहितेऽपि चान्मतुप्यपि आसर्वनाम्न इति दकारस्यात्वे त्वमस्यास्तीति मतुपो मस्य झञ इति वत्वे च त्वावानिति रूपं ज्ञेयम् । दयितानि प्रीतिपात्राणि । आयुधानि हलमुसलादीनि ॥ २८ ॥
सुमनोरञ्जिनी
हे आर्य त्वावतां त्वमेव अवन् रक्षको येषां ते त्वावन्तस् तेषाम् । त्वन्नाथानामिति यावत् । त्वावतामिति प्रयोगश्छान्दसः । दयितानि इष्टानि ॥ २८ ॥
यानमास्थाय जह्येतद् व्यसनात् स्वान् समुद्धर ।
एतदर्थं हि नौ जन्म साधूनामीश सत्कृतम् ॥ २९ ॥
पदरत्नावली
साधूनां साधुभिः सत्कृम् । कृद्योगे षष्ठी ॥ २९ ॥
सत्यधर्मीया
एतज्जरासन्धसैन्यम् । स्वान्व्यसनात्कष्टात् । साधूनां साधुभिः सत्कृतम् । कर्तृकर्मणोरिति कर्तरि षष्ठी । ईशेति बलसम्बोधनम् ॥ २९ ॥
सुमनोरञ्जिनी
यानं रथम् । एतज् जरासन्धसैन्यम् । जहि । स्वान् स्वीयान् यदून् व्यसनात् समुद्धर । यत् साधूनां सत्कृतं सत्कारः । एतदर्थं हि एतदर्थमेव । नौ आवयो-र्जन्म ॥ २९ ॥
त्रयोविंशत्यनीकानां भूमेर्भारमपाकुरु ।
एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनां वरौ ॥ ३० ॥
पदरत्नावली
त्रयोविंशत्यनीकानां त्रयोविंशदक्षौहिणीनां समुत्पन्नं भूमेर्भारम् ।
सत्यधर्मीया
अत्रानीकशब्दोऽक्षौहिणीपरः । यद्वा त्रयोविंशतिपदेन तावदक्षौहिण-ग्रहोऽनीकशब्दः सेनावाची । तेषां भारं सङ्घमपाकुरु । दंशितौ कवचखचिताङ्गौ ॥३०॥
सुमनोरञ्जिनी
त्रयोविंशत्यनीकानां त्रयोविंशदक्षोहिणीसैन्यानां सकाशात् । यो भूमेर् भारस् तम् अपाकुरु परिहर । दाशार्हौ दशार्हकुलोत्पन्नौ रामकृष्णौ संमन्त्र्य सम्भाष्य । दंशितौ सन्नद्धौ ॥ ३० ॥
दंशितैश्च यदुश्रेष्ठैर्बहुभिश्च समन्वितौ ।
निर्जग्मतुः पुरवराद् बलेनाल्पीयसा नृप ॥ ३१ ॥
सत्यधर्मीया
अल्पीयसा बलेन गणनतोऽल्पतमेन ॥ ३१ ॥
सुमनोरञ्जिनी
अल्पीयसा मागधबलापेक्षया अल्पसङ्ख्येन बलेन सैन्येन निर्जग्मतुः ॥ ३१ ॥
निर्गत्य सदनात् कृष्णो वृष्णीनाहूय सर्वशः ।
आज्ञापयामास तूर्णं चतुर्द्वारस्य पालने ॥ ३२ ॥
सत्यधर्मीया
सदनात्समादितश्चतुर्द्वारस्य समाहारः ॥ ३२ ॥
सुमनोरञ्जिनी
सर्वशः सर्वान् चतुर्द्वारस्य द्वारचतुष्ठयस्य ॥ ३२ ॥
वसुदेवं च निशठं कृतवर्माणमुद्धवम् ।
कृष्णो निर्यातयामास पूर्वद्वारेण भारत ॥ ३३ ॥
पदरत्नावली
ब्रह्मसूत्रादयो वसुदेवादिशब्दवाच्याः ।
सत्यधर्मीया
वसुदेवं पितरं निर्यातयामास गमयामास ॥ ३३ ॥
सुमनोरञ्जिनी
निर्यातयामास निष्क्रान्तानकरोत् ॥ ३३ ॥
उग्रसेनं सुदामानं पृथुं विपृथुमेव च ।
हरिर्निर्यातयामास द्वारेणानुत्तरेण वै ॥ ३४ ॥
सत्यधर्मीया
अनुत्तरेणोत्तरभिन्नेन सामुख्येन तत्सदृशेन दक्षिणेनेति यावत् ॥३४॥
सुमनोरञ्जिनी
अनुत्तरेण दक्षिणेन ॥ ३४ ॥
सात्यकिं च गदं चैव प्रसेनं गान्दिनीसुतम् ।
हरिः प्रतीचीद्वारेण प्रेषयामास दुर्मदान् ॥ ३५ ॥
पदरत्नावली
दुःखं मन्दयन्ति अल्पीकुर्वन्तीति दुर्मदास्तान् । नुमागमाभाव-श्छान्दसः ॥ ३५ ॥
सत्यधर्मीया
दुर्मदान् रणकर्मणि ॥ ३५ ॥
सुमनोरञ्जिनी
गान्दिनीसुतमक्रूरम् । प्रतीचीद्वारेण प्रतीच्यां दिशि यद्वारं तेन ॥
गोविन्दस्तु महातेजाः स्वयं दारुकसारथिः ।
आत्ताभीष्टप्रहरणः सङ्कर्षणसहायवान् ॥ ३६ ॥
सत्यधर्मीया
सङ्कर्षणश्चासौ सहायश्च तद्वान् ॥ ३६ ॥
सुमनोरञ्जिनी
दारुक एव सारथिर्यस्य सः । आत्तानि स्वीकृतानि अभीष्टानि प्रहरणानि सुदर्शनाद्यायुधानि येन सः ॥ ३६ ॥
उत्तरेण विनिर्गम्य द्वारेण जगदीश्वरः ।
शङ्खं दध्मौ महाप्राणं दैत्यदानवभीषणम् ।
आह दारुकमासीनं रथाग्रे माधवः स्मयन् ॥ ३७ ॥
पदरत्नावली
महाप्राणं महाघोषम् ॥ ३७ ॥
सत्यधर्मीया
महाप्राणं बहुलबलं यथा तथा ॥ ३७ ॥
सुमनोरञ्जिनी
विनिर्गम्य निष्क्रम्य । महाप्राणं महाघोषम् ॥ ३७ ॥
श्रीभगवानुवाच–
रथं वाहय धर्मज्ञ यत्र तौ चैद्यमागधौ ।
तर्पयामि नृपान् सर्वान् सायकैर्युद्धदुर्मदान् ॥ ३८ ॥
पदरत्नावली
युद्धदुर्मदान् युद्धे दुष्टमदान् ।
सत्यधर्मीया
धर्मज्ञ सारथिधर्ममर्मज्ञ । आवृत्त्या हयधर्मज्ञेति वा । पशुपालेन शिशुपालपुर आलपनं मागधादपि न बलिष्ठतया किन्तु स्वेनैवान्ततो गत्वा संहार्य त्वं निमित्तीकृत्येति बोध्यम् । तौ यत्र वर्तेते तत्र रथं वाहय ॥ ३८ ॥
सुमनोरञ्जिनी
रथाग्रे आसीनमुपविष्टम् । वाहय पुरतश्चालय । चैद्यः शिशुपालः । युद्धे दुष्टो मदः हर्षो गर्वो वा येषां तान् । शरैस् तर्पयामि अलम्बुद्धिं जनयामि ॥ ३८ ॥
श्रीशुक उवाच–
इत्युक्तो दारुकस्तेन हयांस्तूर्णमचोदयत् ।
व्यनदत् सिंहनादं च गोविन्दः परवीरहा ॥ ३९ ॥
सत्यधर्मीया
परवीरहा गोविन्दः सिंहनादं व्यनदच्चकार ॥ ३९ ॥
सुमनोरञ्जिनी
सिंहनादं व्यनदद् अकरोत् ॥ ३९ ॥
शङ्खमाध्माय रामोऽपि सिंहनादं व्यनीनदत् ।
ततोऽभूत् परसैन्यानां हृदि चिन्ता सवेपथुः ॥ ४० ॥
सत्यधर्मीया
ततोऽद्वन्द्वशङ्खद्वन्द्वशब्दश्रवणसमनन्तरं सवेपथुर्वेपथुना कम्पेन सहिता सा चिन्ता परसैन्यानां हृद्यभूत् ॥ ४० ॥
सुमनोरञ्जिनी
ततः सिंहनादात् । परसैन्यानां शत्रुसैन्यानाम् । सवेपथुः कम्प-सहिता चिन्ता अभूत् ॥ ४० ॥
पूर्वद्वारि नृपैः सार्द्धं यदूनां कदनं महत् ।
आसीच्चतुर्भिरष्टानां तदद्भुतमिवाभवत् ॥ ४१ ॥
पदरत्नावली
वासुदेवादिभिश्चतुर्भिः कलिङ्गाद्यष्टानाम् । ‘कद क्लद हिंसार्थौ’ इति धातुः । कदनं युद्धम् ॥ ४१ ॥
सत्यधर्मीया
अल्पीयसा बलेनेत्युक्तं तत्प्रकारं जल्पति । चतुर्भिर्वसुदेवादिभिरष्टानां कलिङ्गादिकानां तदद्भुतमिवाभवदिति ॥ ४१ ॥
सुमनोरञ्जिनी
यदूनां नृपैः सार्धं कदनं युद्धम् अभूत् । अत्रापि चतुर्भिर् वसुदेवा-दिभिः साकम् अष्टानां कलिङ्गाद्यष्टसङ्ख्यानां यत्कदनमासीत् तदद्भुतमिव अदृष्टाश्रुतं युद्धमिव
॥ ४१ ॥
दक्षिणद्वार्यपि तथा गोविन्दाध्मातचेतसाम् ।
आसीद् यदूनां कदनं राजन्यकटकेन वै ॥ ४२ ॥
सत्यधर्मीया
तथा दक्षिणद्वारि उग्रसेनादिभिश्चतुर्भिर्विन्दादिपौण्ड्रकान्तानामष्टानां तथेतरेण राजन्यकटकेन । सैन्येऽपि कटकोऽस्त्रियामित्यभिधानम् । गोविन्दस्याध्मातेन शङ्खध्माननेन चेतो मनो युद्धे येषां तेषां यदूनां कदनं युद्धम् ॥ ४२ ॥
अपरद्वार्यपि तथा यदूनां दृढधन्विनाम् ।
आसीद् राजसमाजेन सङ्ग्रमो रोमहर्षणः ॥ ४३ ॥
सत्यधर्मीया
अपरद्वारि पश्चिमद्वारि सात्यक्यादिभिश्चतुर्भिर्युधामन्वादि सुदक्षिणान्तानां राजसमाजेनेतरेण रणः ॥ ४३ ॥
सुमनोरञ्जिनी
अपरद्वारि पश्चिमद्वारीत्यर्थः । दृढा बलिष्ठाश्च धन्विनश्च । तेषां यदूनां राजसमाजेन पौण्ड्रकादिराजसमुदायेन । तथा पूर्वद्वारीव अष्टानां चतुर्भिरित्यर्थः ॥ ४३ ॥
ते हन्यमाना यदवो राजभिः शक्रविक्रमैः ।
न चेलुः सङ्गराद् राजन् लोकद्वयजिगीषवः ॥ ४४ ॥
सत्यधर्मीया
लोकद्वयजिगीषवः । साम्राज्यं वा स्वाराज्यं वेति लोकद्वयं जिगीषवो जेतुमिच्छवः न लोकेति षष्ठीनिषेधात् ॥ ४४ ॥
सुमनोरञ्जिनी
सङ्गराद् युद्धात् । कुतः । यतो लोकद्वयम् इहलोकं परलोकं जिगीषवः जेतुमिच्छावन्तः । (अत्र जिधातुः सकृत्प्रयुक्तोऽपि तन्त्रेण जयप्राप्तिं चाह । लोकद्वयमपि पराजयितुमिच्छन्तो वा) ॥ ४४ ॥
तत्र यादवशार्दूलो विष्णुस्त्रैलोक्यवल्लभः ।
आससाद महाघोरौ यत्र तौ चैद्यमागधौ ॥ ४५ ॥
पदरत्नावली
गोविन्देनाध्यातमाश्वासितं चेतो येषां ते तथा । तेषां राजन्यानां कटकेन सैन्येन । ‘सैन्येऽपि कटकोऽस्त्रियाम्’ इत्यभिधानम् । समूहेन वा ॥ ४५ ॥
सत्यधर्मीया
यादवेषु श्रेष्ठो यादवशार्दूलः ॥ ४५ ॥
सुमनोरञ्जिनी
यादवशार्दूलः यादवानां श्रेष्ठः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थ-वाचका इत्यभिधानात् । विष्णुः कृष्णः रामेण सहेति शेषः । यत्र चैद्यमागधौ तत्रेत्यर्थः
॥ ४५ ॥
जरासुतस्तावभिवीक्ष्य माधवौ महाबलौघेन बलीयसाऽऽवृणोत् ।
ससैन्ययानध्वजवाजिसारथी सूर्यानलौ वायुरिवाभ्ररेणुभिः ॥ ४६ ॥
पदरत्नावली
माधवौ मधुकुले जातौ । सैन्येन यानध्वजैः रथध्वजैर्वाजिभिरश्वैः सारथिभिश्च सहितौ । ‘वाजी त्वश्वे शरे वेगे’ इति । अभ्रैर् जलधरैः रेणुभिश्च ॥ ४६ ॥
सत्यधर्मीया
तौ माधवौ मधुकुलोत्पन्नाविति । यानध्वजा रथकेतवः । अभ्रैै रेणुभिश्च वायुः सूर्यानलौ विवस्वद्विभावसू । आवृणोद् यथावृणोत् ॥ ४६ ॥
सुमनोरञ्जिनी
माधवौ मधुकुलोत्पन्नौ । सैन्येन, यानैः रथैः शिबिकाभिश्च, ध्वजैः, वाजिभिर् अश्वैः सारथिभ्यां च सहितौ । तौ रामकृष्णौ । बलीयसा सैन्येनावृणोत् । सूर्यानलौ वायुरिव । वायुरभ्रैः सूर्यम् । रेणुभिश्चाग्निमिवेत्यर्थः ॥ ४६ ॥
सुपर्णतालध्वजचिह्नितौ रथौ विलक्षयन्त्यो हरिरामयोर्मृधे ।
स्त्रियः पुराट्टालकहर्म्यगोपुरं समाश्रिताः सम्मुमुहुः शुचार्पिताः ॥ ४७ ॥
पदरत्नावली
सुपर्णतालध्वजाभ्यां चिह्नितौ अङ्कितौ हरिरामयोः कृष्णबलभद्रयोः रथौ विलक्षयन्त्यः पश्यन्त्यः । पुरं गृहम् । अट्टालकं गृहोपरीष्टकादिविरचितचतुरस्रस्थलम् । हर्म्यं धनिनांवासः गोपुरं पुरद्वारम् । अल्पवयसौ अल्पसेनौ कृष्णरामौ मागधं (च) प्रलयार्णवोपमसेनं दृष्ट्वा समुत्पन्नया शुचा ॥ ४७ ॥
दुर्घटभावदीपिका
पुराट्टालकहर्म्यगोपुरं समाश्रिताः स्त्रियो हरिरामयोः कृष्ण-बलरामयोः सुपर्णतालध्वजचिन्हितौ गरुडतालध्वजाङ्कितौ रथौ मृधे विलक्षयन्त्योऽप-श्यन्त्योऽत एव शुचार्पिताः सत्यः सम्मुमुहुः सम्यग्मोहं प्रापुरिति । एतेन कृष्णराम-रथादर्शनस्यैव संमोहहेतुत्वाद् रथावलक्षयन्त्य इति वक्तव्यम् । रथौ विशेषेण लक्षयन्त्य इति कथनमनुपपन्नमिति चोद्यं परास्तम् । विशब्दस्य नञर्थत्वमङ्गीकृत्य विलक्षयन्त्य इत्यस्या-लक्षयन्त्य इत्यर्थ इत्युक्तत्वात् ॥ ४७ ॥
सत्यधर्मीया
हरिरामयोः सुपर्णतालध्वजचिन्हितौ सुपर्णश्च तालश्च तौ ध्वजौ च केतू ताभ्यां चिन्हितौ रथौ मृधे विलक्षयन्त्यः पुराट्टालकहर्म्यगोपुरं समाश्रिताः स्त्रियः शुचार्पिताः सम्मुमुहुः ॥ ४७ ॥
सुमनोरञ्जिनी
सुपर्णो गरुडः । तालो वृक्षविशेषस् ताभ्यां सहितौ यौ ध्वजौ ताभ्यां चिह्नितौ । हरिरामयोः रथौ । मृधे युद्धे विलक्षयन्त्यः पश्यन्त्यः । अट्टालकं गृहोपरिभागे इष्टिकोपरचितचतुष्कोणगृहम् । हर्म्यः धनिनां निवासस्थानम् । गोपुरं पुरद्वारम् । एतेषां समूहमित्यर्थः । समाश्रिताः स्त्रियः, शुचा ‘इमौ द्वौ शत्रवो बहवः’ इति धिया समुन्नतशोकेन अर्दिताः पीडिताः । अलक्षयन्त्य इति पाठे अपश्यन्त्य इत्यर्थः शोककारणमदर्शनमेवेति भावः ॥ ४७ ॥
**हरिः परानीकपयोमुचां मुहुः शिलीमुखात्युल्बणवर्षपीडितम् । **
स्वसैन्यमालोक्य सुरासुरार्चितं व्यघूर्णयच्छार्ङ्गशरासनोत्तमम् ॥ ४८ ॥
पदरत्नावली
व्यघूर्णयद् विस्फारयामास । परानीकपयोमुचां शत्रुसेनामेघानाम्
॥ ४८ ॥
सत्यधर्मीया
परेषामनीकानि तान्येव पयोमुचो मेघास्तेषां तत्सम्बन्धिशिलीमुखा अत्युल्बणं वर्षं तेन पीडितं स्वसैन्यमालोक्य शरासनोत्तमं शार्ङ्गं शृृङ्गविकृततया तन्नामकं धनुः । तन्महिमानमाह– सुरासुरार्चितमिति । व्यघूर्णयद्विस्फारयामास ॥ ४८ ॥
सुमनोरञ्जिनी
हरिः श्रीकृष्णः । परानीकानि शत्रुसैन्यान्येव पयोमुचो मेघास् तेषां शिलीमुखा बाणाः । खलबाणौ शिलीमुखा इत्यमरः । तेषां वर्षेण वृष्ट्या पीडितं स्वसैन्य-मालोक्य । सुरासुरैरप्यर्चितं श्लाघितं शार्ङसञ्ज्ञकं शरासनोत्तमं धनुःश्रेष्ठम् । व्यघूर्णयत् प्रकृष्टचलनयुक्तमकरोत् ॥ ४८ ॥
गृह्णन् निषङ्गादथ सन्दधच्छरान् विकृष्य मुञ्चञ्छितबाणसञ्चयम् ।
निघ्न्नन् रथान् कुञ्जरवजियूथपान् निरन्तरं यद्वदलातचक्रम् ॥ ४९ ॥
पदरत्नावली
श्रीकृष्णस्य हस्तलाघवं कथयति– गृह्णन्निति ॥ निषङ्गात् तूणीरात् । भ्राम्यमाणमलातचक्रम् उल्मुकमण्डलं निरन्तरं छिद्रदर्शनं दुःशकं यद्वत् तद्वत् ॥ ४९ ॥
सत्यधर्मीया
निषङ्गादिषुधेः शरान्नाराचान् गृह्णन् । अथ सन्दधच्छितबाणसञ्चयं विकृष्य मुञ्चन् मुक्तेन तेन रथान्कुञ्जरवाजियूथपान्निघ्नंश्च । अलातचक्रमुल्मुकमण्डलं यद्वत्तद्व-न्निरन्तरं यथा तथा भगवानदृश्यत ॥ ४९ ॥
सुमनोरञ्जिनी
तत्प्रकारमेवाह– गृह्णन्निति ॥ निषङ्गात् तूणीरात् । शरान् गृह्णन् । सन्दधद् धनुषि सन्धदन् । विकृष्य धनुर्ज्यां विकृष्य । शितबाणसञ्चयं निशित-बाणसमूहं मुञ्चन्, रथादीन् निघ्नन्, यद्वद् यथा । अलाते उल्मुके भ्राम्यमाणे यत्तेजोमण्डलं वलयाकारेण दृश्यते तदलातचक्रम् । तद्वन् निरन्तरम् अन्तरदर्शनं यथा न भवति तथा व्यघूर्णयदिति पूर्वेणान्वयः ॥ ४९ ॥
ततः शशाङ्काकृतिपाञ्चजन्यं महारवं दैत्यकुलापचारम् ।
मुखे निधायाशु पुपूर यादवानाश्वासयन् क्षत्रियकूटघट्टितान् ॥ ५० ॥
पदरत्नावली
दैत्यकुलस्यापचारं नाशकरम् । क्षत्रियाणां कूटेन समूहेन घट्टितान् संवेष्टितान् ॥ ५० ॥
सत्यधर्मीया
शशाङ्काकृतिपाञ्चजन्यं शशाङ्कस्याकृती रूपमिव रूपं यस्य स चासौ पाञ्चजन्यश्च तम् । आकृतिः कथिता रूप इति विश्वः । दैत्यकुलस्य गर्भनिर्भेदनेनापचारो नाशो येन तम् । योग्यतया रवावन्वयीदम् । दैत्यकुलापचारमहारवोपेतमिति निर्गलितोऽर्थः । मुखे तद्द्वारि निधायाशु यादवानाश्वासयन् सबलान् कुर्वन् क्षत्रियकूटेन समूहेन घट्टितान् पुपूर पूरयामास । पपारेति वक्तव्ये पुपूरेत्यार्षः प्रयोगः ॥ ५० ॥
सुमनोरञ्जिनी
शशाङ्काकृतिः शशाङ्कस्य चन्द्रस्य आकृतिरिव आकृतिर्यस्य सः । चन्द्रवत् शुभ्र इत्यर्थः । स चासौ पाञ्चजन्यश्च तम् । दैत्यकुलस्य अपचारो नाशो यस्मात्त-मिति पदरत्नावल्याम् । पुपूर श्वासेन पूरयामास । किमर्थमित्यत उक्तम् ॥ यादवानिति । क्षत्रियकूटेन क्षत्रियसमुदायेन । घटितान् युद्धे व्यासक्तान् यदून् आश्वासयन् समाधास्यन्
॥ ५० ॥
नृपास्तदाकर्ण्य तु कर्णनिष्ठुरं क्रमेण निर्भिण्णहृदो बभूविरे ।
यदुप्रवीराश्च समुद्यतायुधा रणे नृपान् जघ्नुरनीकसंयुताः ॥ ५१ ॥
पदरत्नावली
क्रमेण तत्तद्योग्यतानुसारेण ॥ ५१ ॥
सत्यधर्मीया
नृपा रिपुनृपाः कर्णनिष्ठुरं स्वश्रोत्रकठोरमाकर्ण्य क्रमेण निर्भिन्नं हृदयं येषां ते तथा । बभूविरे बभूवुः । निर्भिन्नहृदः कायानिति शेषः । बभूविरे प्रापुः । भू प्राप्तावात्मनेपदीति स्मरणादिति वा । यदुवीराश्च तदाकर्ण्येति समुच्चायकः । समुद्यतान्या-युधानि यैस्ते रणेऽनीकसंयुताः सेनासमेता नृपाञ्जघ्नुः ॥ ५१ ॥
सुमनोरञ्जिनी
कर्णनिष्ठुरं कर्णकठोरम् । क्रमेण यथायोग्यम् ॥ ५१ ॥
ततश्चतुर्द्वारगतान् महीपतीन् यदुप्रवीराः परिभूय सर्वशः ।
चक्रुः शरौघैः सहसैकवाहिन आप्यायिताः शार्ङ्गरवेण शौरिणा ॥ ५२ ॥
पदरत्नावली
एकवाहिन एकवाहनगतान् पृष्टवाहनहीनानित्यर्थः ।
सत्यधर्मीया
शौरिणा कत्र• शार्ङ्गरवेण करणेनाप्यायिताः समेधिता यदुप्रवीरा यादवश्रेष्ठाः । यदस्ति तत उच्चत्वाद्यदुरित्यृग्भाष्योक्तेर्यदुर्हरिः स प्रवीरो येषां त इति वा । चतुर्द्वारगतान् महीपतीन् सर्वशः सर्वान् परिभूय पराभाव्य शरौघैः सहसैकवाहिन एकश्चासौ वाहश्च सोऽस्त्येषामित्येकवाहिन स्वरक्षकपृष्ठविहीनांश्चक्रुः ॥ ५२ ॥
सुमनोरञ्जिनी
ततः शौरिणा कृष्णेन । शार्ङ्गरवेणाप्यायिता आप्यायनं सन्तोषं प्रापिता यदुप्रवीराः परिभूय पराजितान् कृत्वा । एकवाहिनश् चक्रुर् एकैकशो वहन्ति गच्छन्तीति एकवाहिनः पलायितानिति यावत् । एकैकवाहनयुक्तानिति वा । सैन्यहीनानिति यावत् ॥ ५२ ॥
ततो हरिं चैद्यपतिर्मण्डलीकृतकार्मुकः ।
भर्त्सयन् कृष्ण कृष्णेति तिष्ठ तिष्ठेति चाब्रवीत् ॥ ५३ ॥
सत्यधर्मीया
कृष्ण कृष्ण तिष्ठेति भर्त्सयन्नब्रवीत् ॥ ५३ ॥
सुमनोरञ्जिनी
चैद्यपतिः शिशुपालः । मण्डलीकृतकार्मुकः । कर्णान्तमाकर्षणे कार्मुकं मण्डलाकारं भवति तथाकृतकार्मुक इत्यर्थः ॥ ५३ ॥
तमभ्यधावद् गोविन्दो विमुञ्चन् सायकान् बहून् ।
मण्डलीकृतकोदण्डस्तैलधौताञ्छितान् शरान् ॥ ५४ ॥
सत्यधर्मीया
मण्डलीकृतकोदण्डस्तैलधौतान् शितान्निशितान् सायकान् शरान् बहून् विमुञ्चंस्तं गोविन्दोऽभ्यधावत् । आसायकं मघवा दत्तवज्रमित्यृग्भाष्ये सायङ्करं लयकृत इति टीकायां च सायक इत्यपि वज्रनाम । ततः पुनरुक्तिपरिहाराय निर्वक्ति ॥ सायङ्करमिति ॥ सायमिति षोन्तकर्मणीत्यस्य रूपम् । सायमन्तं करोतीत्युक्तेः ॥ ५४ ॥
सुमनोरञ्जिनी
अभ्यधावद् अभिमुखमाधावत् । तैलेन धौतान् अपनीतमलान्
॥ ५४ ॥
ततः पञ्च शरान् घोरानादाय दमघोषजः ।
चतुर्भिस्तुरगानाशु विव्याधैकेन सारथिम् ॥ ५५ ॥
पदरत्नावली
दमघोषजः शिशुपालः ॥ ५५ ॥
सत्यधर्मीया
चतुर्भिः शरैश्चतुरस्तुरगान् ॥ ५५ ॥
सुमनोरञ्जिनी
दमघोषजः शिशुपालः ॥ ५५ ॥
भूयो दशाशु सन्धाय विव्याध मधुसूदनम् ।
व्यनदत् सिंहनादं च तदद्भुतमिवाभवत् ॥ ५६ ॥
पदरत्नावली
सिंहनादं व्यनदत् सिंहनादं चकार ॥ ५६ ॥
सत्यधर्मीया
दश शरान् ॥ ५६ ॥
सुमनोरञ्जिनी
भूयः पुनरपि सिंहनादं व्यनदत् सिंहनादं चकार ॥ ५६ ॥
ततस्तमाह गोविन्दः साधु साध्विति पूजयन् ।
भो भो चैद्य महेष्वास वीरोऽसि बलवानसि ॥ ५७ ॥
पदरत्नावली
वीरः शूरोऽसि बलवान् शक्तिमानसि ॥ ५७ ॥
सत्यधर्मीया
साधु साध्विति पूजयन् । भो भो चैद्य महेष्वास वीरोऽसि बलवां-श्चासि । महेष्वासेत्युक्तौ धानुष्कतामात्रप्रतीतिः स्यादेकेनैवासीत्यनेनैव पूर्तौ वीरोऽसि बलवानिति चैकपद्येऽसिनापि बलवानसि वीरश्चासीत्यर्थविशेषं ध्वनयितुं पुनरसिपदं यथा समस्तं भवेच्च तथा समव्यदिति मन्तव्यम् ॥ ५७ ॥
अतो मे पश्य दुर्बुद्धे धानुष्मत्त्वं स्वयं रणे ।
इति ब्रुवति गोविन्दे राजानः सर्व एव ते ॥ ५८ ॥
पदरत्नावली
धानुष्मत्वं धमुष्मतां माहात्म्यम् ॥ ५८ ॥
दुर्घटभावदीपिका
हे दुर्बुद्धे चैद्य । अतस्तव वीर्यादिमत्त्वात् । त्वं रणे मे स्वयं मुख्यं धानुष्मत्त्वं धनुष्मतो भावं धानुष्मत्त्वं दीर्घश् छान्दसः । पश्येति । एतेन स्वय-मित्येतव्द्यर्थमिति दूषणं परास्तम् । सर्वधनुष्मत्त्वापेक्षया मन्निष्टधनुष्मत्त्वं मुख्यमिति वक्तुं स्वयमित्युक्तमित्यभ्युपगमात् ॥ ५८ ॥
सत्यधर्मीया
धनुष्मतो भावो धानुष्मत्त्वं तदेव धानुष्मत्त्वं मेऽपि स्वयं साक्षात् पश्य ॥ ५८ ॥
सुमनोरञ्जिनी
अत एतदनन्तरम् । यतो वीरोऽसि अत इति वा । धानुष्मत्वं धनुर्धरोत्तमत्वम् ॥ ५८ ॥
विव्यधुर्निशितैर्बाणैर्यौगपद्येन माधवम् ।
तांस्तान् प्रत्येकशः कृष्णो विद्ध्वा पञ्चभिराशुगैः ॥ ५९ ॥
पदरत्नावली
आशुगैः शरैः ॥ ५९–६० ॥
दुर्घटभावदीपिका
कृष्णः, पञ्चभिराशुगैर्बाणैस्तांस्तान् राज्ञः प्रत्येकशो विद्ध्वा त्रिभिस्त्रिभिः शरैः । राज्ञां सारथिं चतुरो वाहान्यमसदनमनयन्भूयोऽपि पुनरपि यदुनन्दनः कृष्णो रणे नृपतीन् । वक्षसि आस्ये ललाटे चैकैकमेकैकेन बाणेन विव्याधेति । एतेनैकैक-मित्येतदनन्वितमिति दूषणं परास्तम् । एकैकमिति द्वितीयैकवचनमेकैकेनेति तृतीयैक-वचनादेश इति स्वीकृत्य विव्याधेत्यनेनान्वयस्योक्तत्वात् ॥ ५९,६१ ॥
सत्यधर्मीया
यौगपद्येनैकदैव मिलित्वा । प्रत्येकश इत्याशुगैः पञ्चभिरित्यनेनान्वितं वीप्सासमर्थं भवति । तांस्तान् पञ्चभिः सायकैर्विद्ध्वा ॥ ५९ ॥
सुमनोरञ्जिनी
तांस्तान् राज्ञः । आशुगैर् बाणैः ॥ ५९ ॥
सारथिं चतुरो वाहाननयद् यमसादनम् ।
त्रिभिस्त्रिभिः शरैर्भूयोऽप्येकैकं नृपतीन् रणे ॥ ६० ॥
सत्यधर्मीया
पञ्चकाशुगविनियोगं प्रपञ्चयति ॥ सारथिमिति ॥ एकैकं नृपतीं-स्त्रिभिस्त्रिभिः शरैः रणे ॥ ६० ॥
सुमनोरञ्जिनी
वाहान् अश्वान् यमसादनं यमसदनम् । भूयः पुनरपि एकैक-नृपतीन् । वक्ष आदिस्थलत्रये । त्रिभिस्त्रिभिर् विव्याधेति सम्बन्धः ॥ ६० ॥
वक्षस्यास्ये ललाटे च विव्याध यदुनन्दनः ।
ततश्च त्रिंशतां राज्ञां त्रिंशत्कार्मुकमाहवे ॥ ६१ ॥
पदरत्नावली
यदून् नन्दयति बलेन समर्द्धयतीति यदुनन्दनः ।
सत्यधर्मीया
त्रयाणां सायकानां काये निकाय्यमाह ॥ वक्षस्यास्ये ललाटे चेति । ततोऽनन्तरं त्रिंशतां तत्सङ्ख्याकानां राज्ञां त्रिंशत्कार्मुकं तत्सङ्ख्यं धनुः ॥ ६१ ॥
सुमनोरञ्जिनी
त्रिंशत्सङ्ख्याकं कार्मुकं कार्मुकसमूहम् । आहवे युद्धे ॥ ६१ ॥
त्रिंशद्भिः सायकैराशु चिच्छेद यदुपुङ्गवः ।
दमघोषसुतस्यापि धनुश्छित्त्वा त्रिभिः शरैः ॥ ६२ ॥
सत्यधर्मीया
त्रिंशद्भिः सायकैस्त्रिंशद्राजमध्येऽसावपीति तद्धनुश्छित्वा त्रिभिः शरैः ॥ ६२ ॥
ध्वजं च मुकुटच्छत्रे चकर्त प्रहसन्निव ।
ततो दश हरिर्भल्लान् शार्ङ्गे सन्धाय माधवः ॥ ६३ ॥
सत्यधर्मीया
ध्वजं मुकुटच्छत्रे चकर्त । प्रहासस्तु मुकुटच्छेदवच्छिरच्छेदोऽपि कर्तंु शक्यम् । किन्तु कालान्तरे भवत्वित्युपेेक्षितमिति भावोऽवसेयः ॥ ६३ ॥
सुमनोरञ्जिनी
मुकुटं च छत्रं च ते । चकर्त चिच्छेद । भल्लान् बाणविशेषान्
॥ ६३ ॥
आकर्णान्तं समाकृष्य चैद्यं विव्याध सङ्गरे ।
तेन राजन्यकटकं विभ्रान्तं शरताडितम् ॥ ६४ ॥
सत्यधर्मीया
आकर्णान्तं कर्णप्रान्तपर्यन्तं तेन कृष्णेन शरताडितं राजन्य-कटकं विभ्रान्तम् ॥ ६४ ॥
सुमनोरञ्जिनी
आकर्णान्तं कर्णप्रान्तपर्यन्तम् । आकृष्य चैद्यं विव्याधेति सम्बन्धः । राजन्यकटकं राज्ञां सैन्यम् । तेन कृष्णेन । शरताडितं, विभ्रान्तं विकीर्णम् ॥ ६४ ॥
कालान्तमारुतोद्धूतशैलद्रुमलतोपमम् ।
त्रातारं नाध्यगच्छद् वै हताश्वरथसारथिः ॥ ६५ ॥
दुर्घटभावदीपिका
किञ्चिद्राजन्यकटकं कालान्तमारुतोद्धूतशैलोपमं किञ्चिद्राजन्य-कटकं कालान्तमारुतोद्धूतद्रुमोपमं किञ्चिद्राजन्यकटकं कालान्तमारुतोद्धूतलतोपममिति विवेको द्रष्टव्यः । एतेन राजन्यकटकस्य विरुद्धशैलादिसाम्याभिधानमयुक्तमिति चोद्यं परिहृतम्
॥ ६५ ॥
पदरत्नावली
कालान्तमारुतेन प्रलयकालवायुना ॥ ६५–६६ ॥
सत्यधर्मीया
शैलोपरि विद्यमानश्चासौ द्रुमश्च तस्मिन्विद्यमाना च सा लता वल्ली । कालान्तो हि प्रलयकालिको मारुतो मारुतोद्धूता च सा सा च तयोपमा यस्य तत् । हताश्वरथसारथिस्त्रातारं रक्षकं नाध्यगच्छन्नाप ॥ ६५ ॥
सुमनोरञ्जिनी
कालान्तमारुतेन प्रलयकालीनवायुना । उद्धूतानाम् इतस्ततः क्षिप्तानां शैलस्थद्रुमलतानामुपमा यस्य तत् । एवंभूतं स्वत्रातारं नाध्यगच्छदित्यन्वयः ॥ ६५ ॥
शरान् विमुञ्चन् जलजं च पूरयन् विष्फूर्जयन् कार्मुकमुग्रपौरुषः ।
विलोलयन् मागधसैन्यमाहवे निरन्तरं यद्वदलातचक्रम् ॥ ६६ ॥
सत्यधर्मीया
विष्फूर्जयन् टङ्कारयन् उग्रपौरुष उग्रान् प्रत्युग्रं पौरुषं यस्य सः ॥६६॥
सुमनोरञ्जिनी
कार्मुकं यद्वद् यथा अलातचक्रं निरन्तरं निच्छिद्रतया प्रकाशमानं तथा विस्फूर्जयन् प्रकाशयन् । मागधसैन्यं व्यलोकयद् ददर्श ॥ ६६ ॥
निर्भिन्नकुम्भाः करिणो निपेतुरनीकशोऽश्वाः शररुग्णकन्धराः ।
रथा हताश्वध्वजसूतनायकाः पदातयश्छिन्नभुजोरुकन्धराः ॥ ६७ ॥
पदरत्नावली
निर्भिन्नकुम्भा विदलीकृतमूर्धानः । अनीकशः राशिशः । करिप्रभृतयो निर्भिन्नकुम्भादयो बभूवुरित्यन्वयः ॥ ६७ ॥
सत्यधर्मीया
निर्भिन्नकुम्भा दलितशिरस्का अनीकशः सङ्घशः शरै रुग्णा भग्नाः कन्धरा ग्रीवा येषां ते तथा । नायका रथिकाः पदातयः पत्तयः ॥ ६७ ॥
सुमनोरञ्जिनी
निर्भिन्नकुंभा विदारितकुंभस्थलाः करिणः निपेतुः पतिताः । अश्वाः शरैः रुग्णकन्धराः कृन्तग्रीवाः सन्तः । अनीकशः समूहशः । छिन्ना भुजा ऊरवः कन्धरा ग्रीवाश्च येषां ते तथोक्ताः ॥ ६७ ॥
सञ्छिद्यमानद्विपदेभवाजिनामङ्गप्रसूताः शतशोऽसृगापगाः ।
भुजाहयः पूरुषशीर्षकच्छपा हतद्विपद्वीपहयग्रहाकुलाः ॥ ६८ ॥
पदरत्नावली
अङ्गप्रसूता देहोत्पन्नाः । असृगापगा रुधिरनद्यः । भुजा एवाहयो यासु तास्तथा । एवमुत्तरत्रापि । कच्छपाः कूर्माः । द्विपा एव द्वीपा अन्तरद्वीपाः । हया एव ग्रहा ग्राहाः ॥ ६७ ॥
सत्यधर्मीया
सञ्छिद्यमानाश्चते द्विपदेभवाजिनश्च तेषां सेनाङ्गत्वादेकवद्भावे चैकैका व्यक्तिरित्यपि भायादतस्तमुद्गणं नादृतमिति मन्तव्यम् । अङ्गभङ्गप्रसूताः शतशोऽऽसृगापगा रुधिरसरितो विशेषकेन रणमण्डलस्य तदाऽपगासारूप्यमाह । भुजा एवाहयः सर्पा यासु ताः । पुरुषशीर्षाण्येव कच्छपाः कूर्मा यासु ताः । हता द्विपा एव द्वीपा गतम् । हया एव ग्रहा हतद्विपद्वीपैर्हयग्रहैश्चाकुला व्याप्ताः ॥ ६८ ॥
सुमनोरञ्जिनी
सञ्छिद्यमाना द्विपदा मनुष्या इभा वाजिनश्च तेषामङ्गेभ्यः प्रसूता असृगापगा रुधिरनद्यः सङ्कर्षणेन प्रवर्तिता इति वक्ष्यमाणेनान्वयः । प्रसिद्धनदीसाम्यमाह ॥ भुज इति । भुजा एवाहयः सर्पा यासु ताः । पुरुषाणां शीर्षाण्येव कच्छपाः कूर्मा यासु ताः । हता द्विपा एव द्वीपा अन्तर्वर्तिस्थलानि । हया एव ग्रहा ग्राहा नक्रास् तैराकुला व्याप्ताः ॥ ६८ ॥
करोरुमीना नरकेशशैवला धनुस्तरङ्गायुधगुल्मसङ्कुलाः ।
आस्फूर्जितावृत्तभयानका महामणिप्रवेकाभरणाश्मशर्कराः ॥ ६९ ॥
पदरत्नावली
धनुस्तरङ्गैर् आयुधगुल्मैश्च सङ्कुलाः । आस्फूर्जिता उन्नतस्थलादधः-पतज्जलध्वनयः, तैरावर्तैर् जलभ्रमणैश्च भयानका भयप्रदाः । वृत्तफलकध्वनयो वाऽऽ-स्फूर्जितास्त एव आवर्त्ताः । महामणिप्रवेकाः प्रवेका उत्तमा एवाश्मान आभरणान्येव शर्करा यासु तास्तथा ॥ ६९ ॥
दुर्घटभावदीपिका
नरकेशशैवला इत्यस्याश्वादिकेशव्यावृत्त्यर्थं नरेत्युक्तम् ॥ ६९ ॥
सत्यधर्मीया
करा एवोरवो मीना यासु ताः । नरकेशशैवला नराणां केशा एव शैवलानि जलाञ्चलानि यासु ताः । शैवलं पद्मकाष्ठेऽपि जलाञ्चल इति विश्वः । धनूंष्येव तरङ्गा यासु ताश्च ता आयुधान्येव गुल्मास्तैः सङ्कुला आस्फूर्जितैर् ध्वनिविशेषैर् आवृत्तैर्भ्रमणैरन्यत्राम्भसां भ्रमैर्भयानका भीतिप्रदाः । महामणिप्रवेकाभरणाश्मशर्करा महामणिप्रवेका अत्युत्तममणय आभरणानि चाश्मानः शर्कराः क्षुद्रपाषाणाश्च यासु ताः । क्रमिकोऽन्वयः ॥ ६९ ॥
सुमनोरञ्जिनी
करा ऊरवश्च मीना नराणां केशा एव शैवलं यासु ताः । धनंूष्येव तरङ्गा आयुधान्येव गुल्मा लतास् तैः सङ्कुलाः । आस्फूर्जितैर् नदीघोषैर् आवर्तैर् जलभ्रमैश्च भयानकाः । महामणीनां प्रवेका उत्तमा आभरणानि च यथायथम् अश्मानः शर्कराश्च यासु ताः ॥ ६९ ॥
प्रवर्तिता भीरुभयावहा मृधे मनस्विनां हर्षवहाः परस्परम् ।
विनिघ्नताऽरीन् मुसलेन दुर्मदान् सङ्कर्षणेनापरिमेयतेजसा ॥ ७० ॥
पदरत्नावली
सङ्कर्षणेन एवंविधा असृगापगाः प्रवर्त्तिता इत्यन्वयः ॥ ७० ॥
दुर्घटभावदीपिका
हर्षवहाः परस्परमित्यस्य कृष्णसङ्कर्षणयोः परस्परं हर्षवहा इत्यर्थः । एतेन कृष्णसङ्कर्षणाभ्यामेव नदीप्रवर्तनस्य कृतत्वाच् चैद्यादिभिर्नदीप्रवर्तनस्याकृतत्वात् परस्परं हर्षवहा इत्येतदनुपपन्नमिति चोद्यं प्रत्युक्तम् । कृष्णसङ्कर्षणयोरित्यस्य शेषमङ्गीकृत्य कृष्णकृतनदीदर्शनेन रामस्य हर्षो रामकृतनदीदर्शनेन कृष्णस्य हर्ष इत्युच्यत इत्यभ्युपगमात् ॥ ७० ॥
॥ इति श्रीसत्याभिनवतीर्थविरचित दुर्घटभावदीपिका
श्रीभागवतटिप्पण्यामेकोनपञ्चाशोऽध्यायः ॥ १०–४९ ॥
सत्यधर्मीया
भीरूणां भयावहा मनस्विनां धीराणां हर्षवहाः परस्परमरीनृते तथा मुसलेन दुर्मदानरीन्निघ्नता । अपरिमेयतेजसा बलेन मृधे प्रवर्तिता इत्यन्वयः । परस्परं कृष्णेन रामेणेति परस्परं वा ॥ ७० ॥
सुमनोरञ्जिनी
भीरूणां भयावहाः । मनस्विनां धीराणां परस्परं हर्षवहाः ॥७०॥
बलं तदङ्गार्णवदुर्गभैरवं दुरन्तपारं मगधेन्द्रपालितम् ।
क्षयं प्रणीतं वसुदेवपुत्रयोर्विक्रीडितं तज्जगदीशयोः परम् ॥ ७१ ॥
पदरत्नावली
अङ्ग हे विष्णुरात यन्मगधेन्द्रेण पालितम् अर्णवदुर्गम् अत एव भैरवं दुरन्तपारं चक्षुरविषयतीरान्तरम् अनवसितसमाप्तिं वा तद्बलं कृष्णरामाभ्यां क्षयं प्रणीतमित्यन्वयः । जगदीश्वराभ्यामनायासेन कृतमेतद् युद्धमित्याह जगदीशयोरिति ॥ जगदीशयोर् वसुदेवपुत्रयोस् तद्युद्धं परं केवलं विक्रीडितं क्रीडामात्रमेव ॥ ७१ ॥
सत्यधर्मीया
अङ्ग हे राजन् । अर्णवदुर्गं भैरवं च तद्बलं दुरन्तपारं दुःशब्दः प्रतिषेधे । दुर्न विद्यतेऽन्तेऽपि पारो यस्य तत् । अन्तः प्रान्तेऽन्तिक इति विश्वः । अन्तस्तलं च पारं परतटं दुर्न विद्येते यस्येति वा । मगधेन्द्रपालितं बलं रामकृष्णाभ्यां क्षयं प्रणीतम् । कियानप्यायासो नाऽस तयोरित्याह । जगदीशयोर्वसुदेवपुत्रयोः परं केवलं तद्विक्रीडितं लीलैवेति ॥ ७१ ॥
सुमनोरञ्जिनी
हे ओति परीक्षितं प्रति सम्बोधनम् । अर्णववद् दुर्गं गन्तुमशक्यं भैरवं च । दुरन्तपारम् । दुःशब्दो निषेधे । अन्तो निर्णयः । निषिद्धो निर्णयो यस्य पारस्य तद् दुरन्तपारम् । अनिश्चितपारमिति यावत् । अगाधं देशतो निरवधिकं चेति वा । मगधेन्द्रेण जरासन्धेन पालितं बलं सैन्यम् । क्षयं प्रणीतमिति यत् तद् वसुदेवपुत्रयोः रामकृष्णयोर् विक्रीडितमेव लीलयैव । अनायासेनैव कृतं न तु पराक्रमेणेत्यर्थः ॥ ७१ ॥
स्थित्युद्भवान्तं भुवनत्रयस्य यः समीहतेऽनन्तगुणः स्वलीलया ।
न तस्य चित्रं परपक्षनिग्रहस्तथापि मर्त्यानुविधस्य वर्ण्यते ॥ ७२ ॥
पदरत्नावली
योऽनन्तगुणो भुवनत्रयस्य स्वलीलया स्थित्युद्भवान्ततं समीहते करोति । स्थितिर् उद्भवश्च अन्तश्च तत्तथा । मिथो विरुद्धत्वादेकवद्भावः । यद्यपि तस्य हरेः परपक्षनिग्रहश् चित्रं न भवति तथापि मर्त्यानुविधस्य मनुष्यधर्ममनुकुर्वतो हरेस्तद्युद्धं बुध्द्यवतारार्थं वर्ण्यते प्रशस्यत इत्यन्वयः ॥ ७२ ॥
सत्यधर्मीया
ग्रन्थकृन् मन्दामन्दरधरवद्वलयमपि निरवध्यधिकं जगतो जानीयुर्भवे-युश्च दुष्प्रज्ञा इति तदुद्दिधीर्षया विविच्याच्युतगुण एवायं मयोपचारतः प्राङ्निर्देशः कृत इति वक्ति ॥ स्थितीति ॥ भुवनत्रयस्य स्थित्युद्भवान्तं सर्वो द्वन्द्व इत्येकवद्भाव उत्तरपदलोपी वा समासः । पालनोत्पत्तिनाशान् समीहते करोति स्वलीलया इत्यनायासेनेत्याह । अनन्त-गुणः प्राग्जगदीशत्वेन सहोक्तस्यानन्तस्य गुणा येनेति वा । अनन्तो गुणोऽप्रधानं यस्मादिति वा । तस्य कृष्णस्य परपक्षनिग्रहश्चित्रं न । तर्हि वर्णनं कुत इत्यत आह ॥ तथाऽपीति ॥ मर्त्याननुविधा प्रकारो यस्य स तस्य । तद् युद्धादिकं वर्ण्यते ॥ ७२ ॥
सुमनोरञ्जिनी
योऽनन्तगुणः भुवनत्रयस्य स्थित्युद्भवान्तं लीलयैव समीहते यथा-योग्यं करोति तस्य परपक्षनिग्रहो यद्यपि न चित्रं तथापि मर्त्यान् मनुष्यान् अनुविधत्ते अनुकरोतीति तथाविधस्य तस्य परपक्षनिग्रहः वर्ण्यते प्रशंस्यते । मर्त्येषु चित्रत्वादिति भावः । स्वकीयकर्तव्यतया वर्ण्यत इति वा ॥ ७२ ॥
हतेषु सर्वसैन्येषु जरासन्धो महाबलः ।
विद्रुतेष्ववशिष्टेषु रथेनैकेन शीरिणम्१ ॥ ७३ ॥
पदरत्नावली
सीरिणं बलभद्रम् आपेति शेषः ।
सत्यधर्मीया
अवशिष्टेषु हतेभ्य एकेन स्वेन रथेन शीरिणमाप ॥ ७३ ॥
सुमनोरञ्जिनी– शीरं लाङ्गलं तदस्यायुधमिति शीरी बलभद्रस् तम् । प्रापेति शेषः ॥७३॥
तावुभौ गिरिसङ्काशौ मत्ताविव महागजौ ।
परस्परमयुध्येतां सामर्षौ बलशालिनौ ॥ ७४ ॥
सत्यधर्मीया
बलेन शाले इति तौ ॥ ७४ ॥
सुमनोरञ्जिनी
तौ बलभद्रमागधौ ॥ ७४ ॥
मागधस्तु गदां गुर्वीमादायामर्षविह्वलः ।
भ्रामयित्वा शतगुणं चिक्षेप बलवक्षसि ॥ ७५ ॥
सत्यधर्मीया
शतगुणं शतवारं बहुवारमिति यावत् ॥ ७५ ॥
सुमनोरञ्जिनी
अमर्षविह्वलः क्रोधपरवशः । शतगुणं शतवारम् ॥ ७५ ॥
तामापतन्तीं तरसा गदां शृङ्गोपमां गिरेः ।
व्यंसयित्वा हलधरो मुधा चक्रे स्मयन्निव ॥ ७६ ॥
पदरत्नावली
व्यंसयित्वा वञ्चयित्वा ॥ ७६–७७ ॥
सत्यधर्मीया
व्यंसयित्वा मृधा वृथा ॥ ७६ ॥
सुमनोरञ्जिनी
तरसा वेगेन । आपतन्तीम् । व्यंसयित्वा वञ्चयित्वा । मुधा व्यर्थां चक्रे ॥ ७६ ॥
व्यर्थीकृत्य गदां तस्य मुसलेन हलायुधः ।
पोथयित्वा रथे क्षुब्धो निहत्य रथसारथी ॥ ७७ ॥
सत्यधर्मीया
रथे पोथयित्वा । करणमीरयति ॥ मुसलेनेति ॥ क्षुब्धः क्षुभितो रथश्च तौ निहत्य ताडयित्वा मारयित्वा क्षुब्धो यथा मथ्नन्नपि स्वयं निस्सङ्गस्तथाऽसज्जमान इति लुप्तोपमा वा । क्षुब्धेत्यादिनिपातितः शब्दो मन्थनदण्डवाची ॥ ७७ ॥
सुमनोरञ्जिनी
रथे पोथयित्वा आस्फालयित्वा ताडयित्वेति यावत् । क्षुब्धः क्रुद्धः ॥ ७७ ॥
जग्राह विरथं रामो जरासन्धं महाबलम् ।
हतानीकावशिष्टासुं सिंहः सिंहमिवौजसा ॥ ७८ ॥
पदरत्नावली
हतानीकश्च हतसेनश्च अवशिष्टासुश्च अवशिष्टप्राणश्च स तथा तम् । हतानीकावशिष्टास्विति पाठे क्रियाविशेषणम् ॥ ७८–७९ ॥
सत्यधर्मीया
हतान्यनीकानि यस्य स चासावशिष्टा असवो यस्य च तम् ॥७८॥
सुमनोरञ्जिनी
हतान्यनीकानि यस्य स चासौ अवशिष्टा असव एव यस्य सस् तम् ॥ ७८ ॥
बध्यमानं हतानीकं पाशैर्वारुणमानुषैः ।
वारयामास गोविन्दस्तेन कार्यचिकीर्षया ॥ ७९ ॥
सत्यधर्मीया
वारुणमानुषैः पाशैर्बध्यमानं गोविन्दो वारयामास । तेन जीवितेन कार्यचिकीर्षया तद्द्वारेण भूभारहरणरूपकार्यकरणेच्छया वारयामास ॥ ७९ ॥
स मुक्तो लोकनाथाभ्यां व्रीडितो वीरसम्मतः ।
वनं विविक्षुस्तपसे वारितः पथि राजभिः ॥ ८० ॥
हतेषु सर्वानीकेषु नृपो बार्हद्रथस्तदा ।
उपेक्षितो भगवता मागधो दुर्मना ययौ ॥ ८१ ॥
पदरत्नावली
मुक्तः विसृष्टः ॥ ८०–८३ ॥
सत्यधर्मीया
मुक्तो जीवेति विसृष्टो राजभिर्विद्रुतमिलितैर्वार्भिरितो वारितो नेत्रयोरिति शेष इत्यप्यर्थः ॥ ८०,८१ ॥
सुमनोरञ्जिनी
लोकनाथाभ्यां रामकृष्णाभ्याम् । वचनैर्वारित इत्यन्वयः ॥ दुर्मना दुःखितमनाः ॥ ८०, ८१ ॥
(तपसे कृतसंकल्पो वारितः पथिराजभिः ॥
वाक्यैः पवित्रार्थपदैर्नयनैः प्राकृतैरपि ।
स्वकर्मबन्धप्राप्तोऽयं यदुभिस्ते पराभवः ॥)
सत्यधर्मीया
श्लोकद्वयं प्रक्षिप्तमिति सम्प्रदायविदः ।
सुमनोरञ्जिनी
कानि वचनानीत्यतस्तानि दर्शयति ॥ स्वेति ॥ ते, यदुभिः प्राप्तो यः पराजयः सः स्वकर्मबन्धनः स्वीयकर्ममूलक इत्येवंरूपैर्वचनैरित्यन्वयः ।
मुकुन्दोऽप्यक्षतबलो निस्तीर्णारिबलार्णवः ।
गृहीत्वा मागधेन्द्रस्य धनं स्त्रीकोशवाहनम् ॥ ८२ ॥
सत्यधर्मीया
अक्षतं बलं सेना यस्य सः ॥ ८२ ॥
सुमनोरञ्जिनी
न क्षतं बलं यस्य सः । निस्तीर्णो ऽरिबललक्षणोऽर्णवो येन । स्त्रीकोशवाहनं स्त्रियो दास्यः ॥ ८२ ॥
विकीर्यमाणः कुसुमैस्त्रिदशैरनुमोदितः ।
माधुरैरभिसङ्गम्य विज्वरैर्मुदितात्मभिः ।
उपगीयमानविजयः सूतमागधबन्दिभिः ॥ ८३ ॥
सत्यधर्मीया
त्रिदशैः कर्तृभिः कुसुमैः कर्णैर्विकीर्यमाणोऽनुमोदितश्च माधुरैस्तन्नगरा-गारैर् उपगीयमानो विजयो यस्य सः ॥ ८३ ॥
सुमनोरञ्जिनी
त्रिदशैर् देवैः । अनुमोदितः साधु साध्विति भाषितः । माथुरैर् मथुरावासिभिर् जनैः । अभिसङ्गम्य मिलित्वा । सूतादिभिर् उपगीयमानविजयो ऽभूदिति शेषः ॥ ८४ ॥
शङ्खदुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः ।
वीणावेणुमृदङ्गानि पुरं प्रविशति प्रभौ ॥ ८४ ॥
पदरत्नावली
पुरं प्रविशति सति दुन्दुभ्यादयो नेदुरित्यन्वयः ॥ ८४ ॥
सत्यधर्मीया
भेर्यश्च तूर्याणि च तानि कीदृशानि वीणाभिः सहिता वेणुमृदङ्गा येषां तानि । अतो न मृदङ्गो न बबाधे । प्रभौ पुरं प्रविशति नेदुः ॥ ८४ ॥
सुमनोरञ्जिनी
प्रभौ पुरीं प्रविशति सति । शङ्खादयो नेदुरित्यन्वयः ॥ ८४ ॥
सिक्तमार्गां हृष्टजनां पताकाभिरलङ्कृताम् ।
निर्घुष्टां ब्रह्मघोषेण कौतुकाबद्धतोरणाम् ॥ ८५ ॥
पदरत्नावली
कौतुकाभिर्द्वन्द्वमालाभिराबद्धतोरणाम् ॥ ८५ ॥
सत्यधर्मीया
ब्रह्मघोषः स्वाध्यायध्वनिः । कौतुकेनोत्सवेन हर्षेण वा । उत्सवे नर्महर्षयोरिति विश्वः । आसमन्ताद्बद्धानि तोरणानि यस्यां सा ताम् ॥ ८५ ॥
सुमनोरञ्जिनी
कथम्भूतां पुरीम् । ब्रह्मघोषेण वेदघोषेण निर्घुष्टां नादिताम् । कौतुकेन हर्षेण उत्सवेन वा । परम्परागतमङ्गलतया वा । आ सर्वतः बद्धानि तोरणानि यस्यां सा ताम् ।
‘कौतुकं चाभिलाषः स्यादुत्सवे नर्महर्षयोः ।
परंपरासमायातमङ्गले च कुतूहले’ इति विश्वः ॥ ८५ ॥
निचीयमानो नारीभिर्माल्यदध्यक्षताङ्कुरैः ।
निरीक्ष्यमाणः सस्नेहं प्रीत्युत्कलितलोचनैः ॥ ८६ ॥
पदरत्नावली
निचीयमानः राशीक्रियमाणः ॥ ८६ ॥
सत्यधर्मीया
निचीयमानो विकीर्यमाणो विवेशेति विपरिणतानुषङ्गः । प्रीत्यो-त्कलितानि च तानि लोचनानि च तैर्निरीक्ष्यमाणः ॥ ८६ ॥
सुमनोरञ्जिनी
नारीभिर् माल्यादिभिर् निचीयमानः विकीर्यमाण इत्यर्थः । प्रीत्या उत्कलितैर् विकसितैर् लोचनैर् निरीक्ष्यमाणः प्रभुः ॥ ८६ ॥
आयोधनागतं वित्तमनन्तं वीरभूषणम् ।
यदुराजाय तत्सर्वमाहृतं प्रादिशत् प्रभुः ॥ ८७ ॥
॥ इति श्रीमद्भागवते दशमस्कन्ध उत्तरार्धे एकोनपञ्चाशोऽध्यायः ॥ १०–४९ ॥
पदरत्नावली
यदुराजाय उग्रसेनाय ॥ ८७ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
पदरत्नावल्याम् उत्तरार्र्धे एकोनपञ्चाशत्तमोऽध्यायः ॥ १०–४९ ॥
सत्यधर्मीया
अनन्तं बहु अबद्धं तथैव राशीकृतं वा यदुराजायोग्रसेनाय ॥८७॥
॥ इति श्रीसत्यधर्मयतिकृतायां भागवतटिप्पण्यां दशमस्कन्ध उत्तरार्धे
एकोनपञ्चाशोऽध्यायः ॥ १०–४९ ॥
सुमनोरञ्जिनी
आयोधने युद्धस्थाने गतं स्वेनाहृतम् । वित्तादिकम् । यदुराजाय उग्रसेनाय । व्यादिशत् ॥ ८७ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धोत्तरार्धव्याख्यायां (गूढकर्तृकायां) **
सुमनोरञ्जिन्याम् एकोनपञ्चाशोऽध्यायः ॥ ॥ १०–४९ ॥