२३ अष्टचत्वारिंशोऽध्यायः

स गत्वा हस्तिनपुरं पौरवेन्द्रयशोऽङ्कितम्

॥ अथ अष्टचत्वारिंशोऽध्यायः ॥

श्रीशुक उवाच—

स गत्वा हस्तिनपुरं पौरवेन्द्रयशोऽङ्कितम् ।

ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथाम् ॥ १ ॥

पदरत्नावली

सतां भगवति हरौ स्वत एव भक्तिः प्रवहतीत्यर्थः प्रकाश्यतेऽस्मिन्नध्याये । तत्रादावक्रूरस्य धृतराष्ट्रादिदर्शनं वक्ति स गत्वेति ॥ १ ॥

सत्यधर्मीया

सोऽक्रूरः । पौरवेन्द्राणां यशसाऽङ्कितं चिह्नितं हस्तिनपुरं गत्वा तत्र सभीष्ममाम्बिकेयमम्बिकापुत्रं सभीष्मं विदुरं वा पृथां कुन्तीं च ददर्श ॥ १ ॥

सुमनोरञ्जिनी

अधिकारिभिर्भक्तिसाधनतया ‘मौनं स्वाध्यायमार्जवम् ’ इत्यादिना भागवतधर्मेषु परिगणितं निष्कापट्यापरपर्यायमार्जवं संपाद्यमिति सूचयत्यस्मिन्नध्याये । तत्र तावदक्रूरस्य भगवदाज्ञया हस्तिनपुरं प्रति गतस्य धृतराष्ट्रेण संवादमाह ॥ स इति । पौरवेन्द्राणां पुरुवंशोद्भवानां यशसा अङ्कितं तत्रत्यजनाः पौरवेन्द्रक्रीर्तिमेव कीर्तयन्ति स्मेति यावत् । आम्बिकेयं धृतराष्ट्रम् ॥१॥

सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम् ।

कर्णं सुयोधनं द्रौणिं पाण्डवान् सुहृदोऽपरान् ॥ २ ॥

पदरत्नावली

सहपुत्रं सोमदत्तसहितं बाह्लीकं प्रतीपपुत्रम् । भारद्वाजं भवद्वाजस्यापत्यं द्रोणम् । सगौतमं सकृपम् ॥ २ ॥

सत्यधर्मीया

बाल्हीकबाल्हिकावित्येकनामनी । प्रतीपपुत्रं बाल्हीकं सहपुत्रं सोमदत्तसहितम् । प्रतीपस्याभवन्पुत्रास्त्रयस्त्रेताग्निवर्चसः । देवापिरथ बाल्हीकः सोमदत्तोऽस्य चात्मज इत्याचार्योक्तेः । भारद्वाजं भरद्वाजात्मजं द्रोणं सगौतमं सकृपं सुहृद इत्युभयान्वयि ॥ २ ॥

सुमनोरञ्जिनी

बाह्लिकं तन्नामकं शन्तनोरनुजम् । भारद्वाजं भरद्वाजस्यापत्यं द्रोणम् । सगौतमं गौतमेन कृपेण सहितम् । द्रौणिं द्रोणस्यापत्यमश्वत्थामानम् ॥ २ ॥

यथावदुपसङ्गम्य बन्धुभिर्गान्दिनीसुतः ।

सम्पृष्टस्तैः सुहृद्वार्तां स्वयं चापृच्छदव्ययम् ॥ ३ ॥

पदरत्नावली

यथावद् वयोज्ञानाद्यनुसारेण । तैर्भीष्मादिभिः सुहृद्वार्तां प्रति सम्पृष्टोऽव्ययमुक्त्वा स्वयं चाव्ययमनामयमपृच्छत् ॥ ३ ॥

सत्यधर्मीया

यथावद् वय आद्यनुसारेण तैर्बन्धुभिः सुहृद्वार्तामुद्दिश्य सम्पृष्टोऽव्ययमुक्त्वा स्वयं चाव्ययमनामयमपृच्छदित्यन्वयः ॥ ३ ॥

सुमनोरञ्जिनी

गान्दिन्याः सुतोऽक्रूरः । तैर्भीष्मादिभिः । सुहृदां वसुदेवादीनां वार्तां प्रति संपृष्टः स्वयं च अव्ययं क्षेमम् । अपृच्छत् ॥ ३ ॥

उवास कतिचिन्मासान् राज्ञो वृत्तविवित्सया ।

दुष्प्रज्ञस्याल्पसारस्य खलच्छन्दानुवर्तिनः ॥ ४ ॥

पदरत्नावली

वृत्तविवित्सया स्वपुत्रभ्रातृपुत्रेषु वृत्तं वर्तनं समं विषमं वेति ज्ञातुमिच्छया । दुष्प्रज्ञस्य दुर्बुद्धेः । अल्पमन्याय्यं सारं यस्य स तथा । तत्र हेतुं वक्ति खलच्छन्दानुवर्तिन इति ॥ खलानां पुत्राणां च्छन्दमिच्छामनुवर्तितुं शीलमस्यास्तीति तस्य ॥ ४ ॥

सत्यधर्मीया

झडिति कौटिल्यमकौटिल्यं वा नावगन्तुं शक्यमिति कतिचिन्मासानित्युक्तिः । तत्स्वभावमावेदयति । दुष्प्रज्ञस्य दुर्बुद्धेरल्पसारस्येदं वा निर्वाहयितुं बलविकलस्य । कलिरेवैतन्मूल-मित्यालपति ॥ खलच्छन्दानुवर्तिन इति । पुत्रेच्छानुवर्तिन इत्यर्थः । राज्ञो वृत्तं पाण्डवदुर्योधनादि-वर्तनं तद्विवत्सया वेदितुमिच्छा विवत्सा तया विविदिषया विचारेच्छया वा ॥ ४ ॥

सुमनोरञ्जिनी

राज्ञः धृतराष्ट्रस्य । वृत्तविवित्सया वृत्तस्य स्वपुत्रेषु पाण्डवेषु च प्रवृत्तिप्रकारस्य स्वभावस्य वा विवित्सया वेत्तुमिच्छया । कीदृशस्य राज्ञः । दुष्प्रज्ञस्य दुष्टा प्रज्ञा यस्य सः । तदेवाह ॥ अल्पसारस्येति ॥ अल्पं सारं श्रेष्ठं यस्येति । अल्पं सारत्वेन मन्यमानस्येत्यर्थः । तत्र निमित्तं खलानां स्वपुत्राणां छन्दम् इच्छाम् अनुसृत्य वर्तितुं शीलमस्येति

॥ ४ ॥

तेज ओजो बलं वीर्यं प्रश्रयादींश्च सद्गुणान् ।

प्रजानुरागं पार्थेषु न सहद्भिश्चिकीर्षितम् ॥ ५ ॥

पदरत्नावली

तेजः शारीरवर्चः । ओजः पराभिभवलक्षणं सामर्थ्यम् । बलं शरीरम् । वीर्यं पराक्रमः ॥ ५ ॥

सत्यधर्मीया

तेजः शारीरवर्च ओजोऽवष्टम्भशक्तिर्बलं शारीरं वीर्यं पराक्रमः प्रश्रयादीन् सद्गुणान्प्रजानुरागं प्रजाकर्तृकं स्नेहं च न सहद्भिः । स एवायं नागः सहति कलभेभ्य इत्युदाहृत्य धात्वन्तररूपमिति प्राग्विस्तृतं विलोक्यम् । चिकीर्षितं कर्तुमिष्टमुत्तरेणान्वयः ॥ ५ ॥

सुमनोरञ्जिनी

तेजः दीप्तिः । ओजो ऽन्तःसामर्थ्यं धैर्यापरपर्यायम् । बलं शारीरसामर्थ्यम् । वीर्यं पराक्रमः। प्रश्रयो विनयम् । न सहद्भिः सहनमकुर्वाणैर् धार्तराष्ट्रैश् चिकीर्षितम् उत्तरत्र कर्तुमिच्छाविषयं पुरान्निर्वासनादिकं यच्च कृतं गरदानाद्यकौशलम् एतत्सर्वम् ॥ ५,६ ॥

कृतं च धार्तराष्टै्रर्यद् गरदानाद्य१कौशलम् ।

आचख्यौ सर्वमेतस्मै पृथा विदुर एव च ॥ ६ ॥

पदरत्नावली

धार्तराष्ट्रैश् चिकीर्षितं कर्तुमिष्टं कृतं चेत्यन्वयः । तदेवाह यदिति । गरदानादि यदकौशलमक्षेमव्यापारम् ॥ ६ ॥

सत्यधर्मीया

तथा धार्तराष्ट्रैः कृतं च तदेवाह ॥ यदिति । गरदानादि यदकौशलमक्षेमव्यापारम् । अपेशलमिति पाठोऽपि पेशलः । अपेशलममनोहरमन्यायमिति यावद् आचख्यौ । पृथा विदुर एव चाचख्याविति पृथगन्वयः ॥ ६ ॥

पृथा तु भ्रातरं प्राप्तमक्रूरमुपसृत्य तम् ।

उवाच जन्मनिलयं स्मरन्त्य२श्रुकुलेक्षणा ॥ ७ ॥

पदरत्नावली

जन्मनिलयं मातृगृहमित्यर्थः । अश्रूणां कला बिन्दवो ययोस्ते ईक्षणे यस्याः सा तथा ॥ ७ ॥

सत्यधर्मीया

पृथा भ्रातरं प्राप्तं तमक्रूरम् । तुरेकान्तादिविशेषसूचकः । जन्मनिलयं जन्मगृहं मातृसद्मेत्यर्थः । इदानीं पुत्रजन्मनिलयं गिर्युपरीति तत्स्मरन्तीति वा । अश्रूणां कुलं सङ्घो ययोस्ते ईक्षणे लोचने यस्याः सा सत्युवाच । जन्मनि सति पुत्राणां लयोऽप्ययः पाण्डोरिति पदतदर्थौ वा । अश्रुकलेक्षणेति पाठेऽऽश्रूणां कला बिन्दवो ययोस्ते ईक्षणे यस्याः सेत्यर्थः ॥ ७ ॥

सुमनोरञ्जिनी

जन्मनिलयं स्वजन्मगृहम् । अश्रूणां कुलं समूहो ययोस्ते ईक्षणे यस्याः सा ॥ ७ ॥

अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश्च मे ।

भगिन्यो भ्रातृपुत्राश्च जामयः सख्य एव च ॥ ८ ॥

पदरत्नावली

जामयः भ्रातृवर्गभार्याः ॥ ८ ॥

सत्यधर्मीया

पितरौ श्वफल्कादिकौ भ्रातरौ वसुदेवादिकौ भगिन्यौ भ्रातृपुत्रा जामयस्तव । जामयो वयमित्यृग्व्याख्यायामायुष्करो भ्रातरस्ते वयं चेत्यृग्भाष्ये । तथाम्बयोयन्त्यध्वभिर्जामय इति भाष्ये च, कारणत्वात्सहोदरा जगतो जामय इत्युक्त्या भगिन्यो भ्रातरौ चेति मातृभगिनीपुत्रीपुत्राणां ग्रहणमत्र, साक्षात्सहोदरीणां सहोदराणां चाग्रहणमिति विवेकः । सख्य एव च नः स्मरन्त्यपि स्मरन्ति किमिति ॥ ८ ॥

सुमनोरञ्जिनी

हे सौम्य पुत्रादयो नो ऽस्मान् अपि स्मरति किमिति सम्बन्धः । भगिन्यः ज्येष्ठभगिन्यः । जामयः स्वसॄः । जामयः कुलस्त्रीभूताः सख्यो वा । जामिस्वसृकुल-स्त्रियोरित्यमरः । भ्रातृभार्या इति पदरत्नावल्याम् ॥ ८ ॥

भ्रात्रीयो भगवान् कृष्णः शरण्यो भक्तवत्सलः ।

पैतृष्वस्रीयान् स्मरति रामश्चाम्बुरुहेक्षणः ॥ ९ ॥

पदरत्नावली

भ्रात्रीयो भ्रातृपुत्रः । पैतृष्वसेयान् पितृष्वसुः पुत्रान् पाण्डवान् ॥ ९ ॥

सत्यधर्मीया

यद्यपि पूर्वं कुन्त्योपजीव्यतामुपजीव्य कृष्णकुशलप्रश्नः कुशलया कर्तव्यो यद्यार्या विचार्या मर्यादयेति हन्त तर्हि रामश्चाम्बुरुहेक्षण इति तदनन्तरमनन्तप्रश्नोऽनुपपन्नः स्यादिति चेत् । सत्यम् । तथाऽपि बहुविज्ञाप्यं कृष्णं प्रत्यस्तीति सूचीकटाहन्यायेन बलस्य शुक्लकेशावेशेन साक्षाद्भगवदात्मकृष्णानन्तरतया बोधनं चावश्यकमिति द्वावपि केशावेकस्यैवेति सूचयितुं चार्धाभ्यां पप्रच्छेति तात्पर्यमवधेयम् । भ्रात्रीय इति कृष्णवद्रामोऽपि ज्ञेयः । भ्रातृव्यश्चेति चकाराच्छोणपवादेन ज्ञेयः । भ्रातृव्यो भ्रात्रीयश्चेति काशिकोक्तेः । भ्रातृपुत्र इत्यर्थः । भ्रात्रेय इति क्वाचित्कः पाठः । तत्र शुभ्रादिनिवेशनेन ठक्, किति चेत्यादिवृद्धिः । गणितत्वेनानाकृतिगणत्वान्न स्वच्छन्दत उक्तिः सम्भवतीति तु चकारोऽनुक्तसमुच्चयार्थः । आकृतिगणतामस्य बोधयति । तेन गाङ्गेय इत्येवमादि-सिद्धमिति काशिकाप्रतिषिद्धम् । शरण्यो भक्तवत्सलः पैतृष्वस्रीयान् पितुर्वसुदेवस्य स्वसुर्ममापत्यानीति पञ्च मत्पुत्रान् । पितृस्वसुश्छणिति छण् । तस्येयादेशे आदिवृद्धौ च पैतृष्वस्रीय इति भवति । पितृष्वसेय इति पाठे तु ठकि लोप इत्यन्तलोप इयादेशे च पितृष्वसेय इत्यवसेयम् । न च केन ठगिति वाच्यम् । यतो लोपस्तस्मिन्परतोऽन्वकाशाच्छाकृतेनैव ठकं प्रत्ययमन्वजिज्ञपदिति ज्ञेयम् । भ्रात्रेयोऽम्बुरुहेक्षणो रामश्च स्मरति किमिति पृथगन्वयः । कर्णरहिताहिमहीमहदवतारत्वं ध्वनयितुं श्रवणदर्शनकार्यस्य तत्र नेत्रमात्रनिर्वाह्यत्वरूपमहत्त्वं बोधयितुं चाम्बुरुहेक्षण इत्युक्तिरिति मन्तव्यम् ॥ ९ ॥

सुमनोरञ्जिनी

भ्रात्रीयः भ्रातृपुत्रः पैतृष्वसेयान् पितृष्वसुर्मम पुत्रान् धर्मादीन् ॥ ९ ॥

सपत्नमध्ये शोचन्तीं वृकाणां हरिणीमिव ।

सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान् ॥ १० ॥

पदरत्नावली

सपत्नमध्ये भ्रातृमध्ये । वृकाणां मध्ये स्थितां हरिणीमिव ॥ १० ॥

सत्यधर्मीया

सपत्नानां वैरिणामित्यनेनान्वयः । वृकाणां मध्य इत्यस्य विश्लिष्टस्य हरिणीमिव शोचन्तीं मां भर्तृहीनामित्युत्तरदृष्ट्या सिद्धमेवेत्यनुक्तिः । वाक्यैः सान्त्वयिष्यति । पितृहीनान् बालकांश्च सान्त्वयिष्यति किमित्यन्वेति ॥ १० ॥

सुमनोरञ्जिनी

वृकाणां मध्ये शोचन्तीं हरिणीमिव सपत्नमध्ये शोचन्तीं माम् । पितृहीनान् बालकान् धर्मादींश्च सांत्वयिष्यति किमिति ॥ १० ॥

कृष्ण कृष्ण महायोगिन् सर्वात्मन् विश्वपालक ।

प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीम् ॥ ११ ॥

पदरत्नावली

महायोगिन् महोपाय । सर्वात्मन् सर्वव्यापिन् ॥ ११ ॥

सत्यधर्मीया

पारवश्येन चिरवरिवश्या फलतया प्रतिफलितं साक्षात्कृत्येव कुन्त्याह ॥ कृष्णेति ॥ महोपाय सर्वव्यापिन् जगद्रक्षकेति क्रमार्थः । शिशुभिः सहावसीदन्तीं प्रपन्नां मां पाहि ॥ ११ ॥

सुमनोरञ्जिनी

एवमुत्क्वा भक्तिपरवशा सती कुन्ती मनस्याविर्भूतं कृष्णं स्तौति ॥ कृष्णेति ॥ महान् योगः सामर्थ्यम् उपायो वाऽस्यास्तीति तत्सम्बुद्धिर् महायोगिन् सर्वात्मन् सर्वान्तर्यामिन् सर्वमाप्नोतीति वा सर्वमातनोतीति वा । विस्तारयसि सृजसीति यावत् । तनोतेर्ङ्मन् । शिशुभिः सह । अवसीदतीं क्लिश्यन्तीं प्रपन्नां मां पाहीति ॥ ११ ॥

नान्यत् तव पदाम्भोजात् पश्यामि शरणं नृणाम् ।

बिभ्यतां मृत्युसंसारादीश्वरस्यापवर्गिकात् ॥ १२ ॥

पदरत्नावली

मृत्युरूपात् संसाराद् बिभ्यतां नृणामीश्वरस्य तवापवर्गिकान्मोक्षसाधनात् पदाम्भोजादन्यच्छरणं न पश्यामः ॥ १२ ॥

सत्यधर्मीया

मृत्युरूपात्संसाराद्बिभ्यतां नृणामधिकारिणामीश्वरस्य तवापवर्गिकान्मुक्तिसाधना-त्पदाम्भोजादन्यच्छरणं न पश्यामः ॥ १२ ॥

सुमनोरञ्जिनी

मृत्युवद्भयहेतोः संसाराद्बिभ्यताम् । आपवर्गिकाद् अपवर्गो मोक्षस् तत्साधनात् तव पदाम्भोजादन्यत् शरणं न पश्यामः ॥ १२ ॥

नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने ।

योगेश्वराय योगाय त्वामहं शरणं गता ॥ १३ ॥

पदरत्नावली

शुद्धाय निरञ्जनाय । युज्यते योगिभिर्हृदि निरुध्यत इति योगस्तस्मै ॥१३॥

सत्यधर्मीया

शुद्धाय निरञ्जनाय । ब्रह्मणे पूर्णगुणाय । परमात्मने अत्यन्तादानकर्त्रे । योगेश्वराय योगाय सर्वान्युङ्क्त इति योगो मा तूक्ता प्राक् नमस्त्वामहं शरणं गता ॥ १३ ॥

सुमनोरञ्जिनी

शुद्धाय निर्दोषाय । ब्रह्मणे देशकालगुणैरपरिच्छिन्नाय । परमात्मने परा उत्कृष्टा मा ज्ञानं तदेव आत्मा शरीरं यस्य तस्मै । योगेश्वराय योगे अघटितघटनायाम् ईश्वराय समर्थाय अचिन्त्यशक्तिमत इत्यर्थः । योगाय उपायभूताय । मोक्षस्येति शेषः । युज्यत इति योगः प्राप्यः । तस्मै मुक्तगम्यायेति वा ॥ १३ ॥

इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम् ।

प्रारुदद् दुःखिता राजन् भवतां प्रपितामही ॥ १४ ॥

सत्यधर्मीया

स्वजनं वसुदेवादिकं सु अजनमुत्पत्तिरहितम् । इयति स्वलाघवेऽपि ते नायाता इति द्योतयितुं स्वो लघुः पठितोऽन्यथा वृत्तविच्छित्त्यापत्तेः । इत्येवं गुणकत्वेनानुस्मृत्य हे राजन् भवतां प्रपितामही दुःखिताऽन्तः प्रारुदत् । इदितो वेत्यङ् । रुरोद । प्रपितामही प्रपितामहस्य पाण्डोः पत्नी । भवत इति राजन्नित्यानुकूल्येन वक्तव्ये बहुपुत्रस्थानेऽभिमन्योस्त्वमेकोऽनेकगुणकः पुत्र इति भावं ध्वनयितुं भवतामित्युक्तिरिति हृदयम् ॥ १४ ॥

सुमनोरञ्जिनी

भवतामिति परीक्षितं प्रत्युक्तिः ॥ १४ ॥

समदुःखसुखोऽक्रूरो विदुरश्च महायशाः ।

सान्त्वयामासतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः ॥ १५ ॥

पदरत्नावली

तस्याः पुत्राणां युधिष्ठिरादीनामुत्पत्तौ हेतुभिर्दुर्वाससोऽनुग्रहादिभिः ॥१५॥

सत्यधर्मीया

समदुःखसुखः समे दुःखसुखे यस्य स महाज्ञानित्वादक्रूरो विदुरश्चैवमेव महायशा इति । विदुरोऽक्रूरश्च कुन्तीं, तत्पुत्रोत्पत्तिहेतुभिस्तस्याः पुत्राणां धर्मादीनामुत्पत्तौ हेतवोऽश्विनीयमाद्यास्तैस्त एवैतेऽवतीर्णा न चिन्ता कर्तव्येति तत्पुत्रोत्पत्तिहेतुभिरित्यर्थः । सान्त्वयामासतुः । तस्याः पुत्रोत्पत्तौ तत्त्वेन यमानिलेन्द्रनासत्यानामुत्पत्तौ हेतवः कारणानि तैर्निमित्तानि देवताकार्याणि तैर्निरूपितैरिति वा ॥ १५ ॥

सुमनोरञ्जिनी

तस्याः पुत्राणां युधिष्ठिरादीनामुत्पत्तिहेतुभिर् उत्पत्तौ ये हेतवः भूभारपरिहरणादयस् तैः । नैते साधारणाः किन्तु देवोत्तमा भूभारपरिहारार्थमवतीर्णाः । एषां धृतराष्ट्रादिभिः किमपि भयं नास्तीत्येवमादिभिरिति भावः ॥ १५ ॥

यास्यन् राजानमभ्येत्य विषमं पुत्रलालसम् ।

प्रावदत् सुहृदां मध्ये बन्धुभिः सौहृदोदितम् ॥ १६ ॥

पदरत्नावली

यास्यन् मधुरां गन्तुमिच्छन् । बन्धुभिः कृष्णादिभिः सौहृदेन सुहृद्भावेन कथितं प्रावदत् ॥ १६ ॥

सत्यधर्मीया

यास्यन्मधुरां गन्तुमिच्छन्पुत्रलालसं तद्गर्धिनमतो विषमं राजानमभ्युपेत्य सुहृदां मध्ये । अनेन नैकान्त इति सूचयति । बन्धुभिः कृष्णादिभिः सौहृदेन सुहृद्भावेनोदितमुक्तं प्रावददुवाच

॥ १६ ॥

सुमनोरञ्जिनी

यास्यन् गन्तुमिच्छन् । विषमं पाण्डवेषु वैषम्येण वर्तमानम् । तत्र निमित्तं पुत्रेषु लालसं स्नेहपरवशं राजानं धृतराष्ट्रं बन्धुभिः कृष्णरामादिभिः । सौहृदेन सुहृद्भावेन उदितम्

॥ १६ ॥

भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन ।

भ्रातर्युपरते पाण्डौ बन्धूनां १सममास्थितः ॥ १७ ॥

दुर्घटभावदीपिका

कुरूणां कीर्तिवर्धन । भो भो वैचित्रवीर्य । सत्पुरुषो भ्रातर्युपरते सति बन्धूनां विषये समं यथा भवति तथाऽऽस्थितोऽवस्थितो भवति । अतो भ्रातरि भ्रातुः पाण्डौ पाण्डोरुपरतत्वात् । बन्धूनां पाण्डवानां विषये त्वं सममास्थितो भव । अधिकं वदन्साम्यावस्थानस्य फलमाह ॥ धर्मेणेति ॥ एतेन भ्रातुः पाण्डोः पूर्वमेवोपरतत्वाद्भ्रातुः पाण्डोरुपरत्वात्समास्थितो भवेदिति वक्तव्यम् । भ्रातरि पाण्डावुपरते सति समास्थितो भवेति कथनमनुपपन्नमिति दूषणं पराकृतम् । भ्रातरीत्यस्यार्थवशाद्विपरिणामः पाण्डाविति सप्तमी षष्ठ्यादेश उपरतत्वादित्यस्याध्याहार इति चाङ्गीकृत्य भ्रातुः पाण्डोरुपरतत्वाद्बन्धूनां विषये समास्थितो भवेत्यर्थस्योक्तत्वात् ॥ १७ ॥

सत्यधर्मीया

कुरूणां कीर्तिवर्धन । यशः शब्दं विहाय निधाय कीर्तिपदं कुलपङ्किलतैव किलानेन कृता भविष्यतीति ध्वनयति । गतम् । भो भो वैचित्रवीर्य तत्क्षेत्राम्बिकापुत्र भ्रातरि पाण्डावुपरते मृते सति समयमप्यनेनैवाह । उप माद्य्रा सहासन्ने रते सुरते सतीति । उप हीनेऽधिके प्रोक्तमासन्नेऽप्युपकीर्तितमिति विश्वः । बन्धूनां पाण्डवानां विषये । बन्धुभिरूनामुज्झितां कुन्तीं समं यथा तथाऽऽस्थितः सन् मम ममतया सहितः समः सन्नास्थित इति वा ॥ पालयन्नुर्वीं च पालयन् प्रजाः शीलेन सच्चरित्रेण रञ्जयन् दार्ढ्याय पुनरप्याह । स्वेषु समः वर्तमानः श्रेयः कीर्तिं चावाप्स्यसि । कीर्तिच्छेदकेति वाऽन्तरङ्गिको भावः ॥ १७,१८ ॥

सुमनोरञ्जिनी

वैचित्रवीर्य विचित्रवीर्यस्य पुत्र बन्धूनां समं बन्धुभिः सह ॥ १७ ॥

धर्मेण पालयन्नुर्वीं प्रजाः शीलेन रञ्जयन् ।

वर्तमानः समः स्वेषु श्रेयः कीर्तिमवाप्स्यसि ॥ १८ ॥

सुमनोरञ्जिनी

उर्वीं पृथ्वीम् । शीलेन स्वभावेन रंजयन् तोषयन् । स्वेषु पाण्डवेषु समः सन् वर्तमानः पुत्रसाम्येन वर्तमान इत्यर्थः । श्रेयः सुकृतम् ॥ १८ ॥

अन्यथा त्वाचरल्लोके गर्हितो यास्यसे तमः ।

तस्मात् समस्त्वं वर्तस्व पाण्डवेष्वात्मजेषु च ॥ १९ ॥

पदरत्नावली

तमो दुःखम् । ‘तमो राहावन्धकारे दुःखेऽज्ञाने गुणान्तरे’ इति उत्पलमाला

॥ १९ ॥

सत्यधर्मीया

अन्यथाऽऽचरन्वैषम्यमाचरन् त्वं तु लोके गर्हितः सन् तम आविष्टदुष्टविवक्षया, लोकं गन्धर्वविवक्षया । इह ग्लानिमुत्तरत्रैतत्सहवाससम्भूतं दुःखं यास्यसे । तमोऽन्धकारे स्वर्भानौ तमः शोके गुणान्तर इति विश्वः । तस्मात्पाण्डवेष्वात्मजेषु समो वर्तस्व ॥ १९ ॥

सुमनोरञ्जिनी

अन्यथा पूर्वोक्तादन्यथा । लोके गर्हितः निन्दितः सन् । मृत्युर्वै तमोज्योतिरमृतमिति श्रुतेस् तमः मृत्युं यास्यसे । अथवा तमो ऽन्धन्तमः । इदं च तदाविष्टासुर-विषयम् । यस्मात् तस्मात् पाण्डवेषु आत्मजेषु दुर्योधनादिषु च समः सन् वर्तस्वेति ॥१९॥

नेह चात्यन्तसंवासः कस्यचित् केनचित् सह ।

राजन् स्वेनापि देहेन किमु जायात्मजादिभिः ॥ २० ॥

पदरत्नावली

न चैषोऽस्ति विशेषोऽपत्यैः सहावस्थानं सुस्थिरमितरैरस्थिरमिति येन विषमता मता स्यादित्याशयेनाह नेहेति ॥ इह लोके कस्यचित् केनचित् सहात्यन्तं संवासो वैषम्यमूलभूतो नास्ति । कैमुत्येनैतमेवार्थमाह राजन्निति ॥ २० ॥

सत्यधर्मीया

न चासावस्ति विशेष आत्मजैः सहावस्थानं सुस्थिरमस्थिरमितरैरिति येन विषमता मता स्यादित्याह ॥ नेति ॥ इह कस्यचित्केनचित्सहात्यन्तं संवासो वैषम्यमूलभूतो न नास्ति । कैमुत्येनैतमेवार्थमाह ॥ राजन्निति ॥ स्वेन स्वत्त्वेन सम्प्रतिपन्नेन देहेनानेन किमु जायात्मजादिभिर्नेति वक्तव्यमिति ॥ २० ॥

सुमनोरञ्जिनी

सर्वस्यानित्यत्वात् स्नेहद्वेषाभ्यां किं सम्पाद्यमस्तीत्याह ॥ नेहेति ॥ इहास्मिन् लोके कस्यचित् केनचिदपि सह अत्यन्तसंवासः सर्वदा सहवासः न हि । कैमुत्येन दृढयति । स्वेन स्वकीयेन देहेनापि अत्यन्तसंवासो नास्ति किमु जायादिभिरिति ॥ २० ॥

एकः प्रसूयते जन्तुरेक एव प्रलीयते ।

एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ २१ ॥

पदरत्नावली

इतोऽपि वैषम्यबुद्धिर्न कार्येत्याह एक इति ॥ सुकृतं तच्छुभफलम् । दृष्कृतं तदशुभफलम् ॥ २१ ॥

सत्यधर्मीया

तत्कृतफलमप्येवमेवेति निश्चित्य वर्तस्वेत्याह ॥ एक इति ॥ एको जन्तुः प्रसूयते एक एव जन्तुः प्रलीयते एक एव जन्तुः सुकृतं तच्छुभफलं तथा दुष्कृतं तदशुभफलमनुभुङ्क्ते । दृश्यमान इदानीं नश्यमाने स्वयं केऽपि सह न संयन्ति । कस्य के पतिपुत्राद्या इत्यादेः ॥२१॥

सुमनोरञ्जिनी

दारापत्यादीनामुपकारकतया आनुभाविकत्वात् स्नेहस् त्यक्तुं शक्य इत्यतो नेत्याह । जन्तुर् एकः प्रसूयते प्रसवदुःखमनुभवति । प्रलीयते मरणदुःखमनुभवति । एवेत्यनेन तद्दुःखं केऽपि दारादयो नापहरन्तीति भावः । किन्तु सुकृतं सुकृतफलम् । दुष्कृतं दुष्कृतफलम् ॥२१॥

अधर्मोपचितं वित्तं हरन्त्यन्येऽल्प१चेतसः ।

सम्भोजनीयापदेशैर्जलानीव जलौकसः ॥ २२ ॥

पदरत्नावली

अन्येऽल्पचेतसः दुर्बुद्धेरधर्मोपचितमन्याय्यार्जितं वित्तं सम्भोजनीयापदेशैः सम्भोजनीया बन्धव एत इत्यपदेशा व्याजास्तैर्हरन्ति । जलौकसः प्राणिनो यथा जलान्याहरन्ति तथेति ॥ २२ ॥

सत्यधर्मीया

न्यायार्जितमूर्जितताहेतुर्वित्तमन्यथा चेदित्थम्भवतीत्याह ॥ अधर्मेति ॥ अधर्मेणोपचितम् । आर्जयत्येवं कुतः स इत्यत आह ॥ अल्पमेधस इति ॥ षष्ठी प्रथमा च । अल्पबुद्धेरस्यान्येऽल्पचेतसः । सम्भोजनीयापदेशैः सम्भोजनीया बन्धव एत इत्यपदेशा व्याजास्तैर्हरन्ति । अधर्मो ह्यार्थं कृतो धर्मोऽधर्मस्तेनोपचितं वर्धितं चित्तम् । अल्पचेतसोऽन्ये महाचेतस्काः सम्भोजनीयाश्च तेऽपदेशाश्च तैः सहैतद्देशस्था एत इति न विदिता अपदेशा इति यावत् हरन्ति । तत्र तर्हि ममता स्यात्किमित्यतो नेतीत्यप्याह ॥ हरन्तीति ॥ हरवदाचरन्ति स यथाऽकिञ्चनस्तेऽपि निष्किञ्चना इदं मुखतो व्रतं तन्वत इति भावः । अकिञ्चन न किञ्चन व्रजिनमस्त्यभस्मीभवदित्यादेः । तत्र निदर्शनमाह ॥ जलानीवेति ॥ जलौकस उक्तात्सम्भोजनीया-पदेशैस्तर्पणादिना सम्भोजनीया इत्यपदेशा निमित्तानि लक्ष्याण्युद्देशा वा तैः सह हरन्त्युपयुक्तानि तन्वते ॥ २२ ॥

सुमनोरञ्जिनी

वित्तमपि अनित्यं न स्वोपकारकमित्याह ॥ अधर्मेति ॥ अधर्मेण उपचितं वर्धितम् । अल्पचेतसो धर्मार्थं विनियोक्तुमजानतः मनुष्यस्य वित्तम् अन्ये बन्ध्वादयः । सम्भोजनीया-पदेशैः सम्भोजनीया बन्धवो ऽपदेशैर् व्याजैः स्वभोगार्थमिति यावत् । हरन्ति । जलौकसस् तटाकादेः सकाशात् कर्षका जलानीव केदाराद्यर्थमिति ॥ २२ ॥

पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम् ।

अन्तेऽकृतार्था हिन्वन्ति प्राणा रायः सुतादयः ॥ २३ ॥

पदरत्नावली

स्वबुद्ध्या ममत्वभ्रान्त्या । अन्ते मरणसमयेऽकृतार्था अपूर्णस्वप्रयोजनास्तम-पण्डितमज्ञं हिन्वन्ति त्यजन्ति ॥ २३ ॥

सत्यधर्मीया

यो यान् स्वबुद्ध्या स्वकीया एत इति बुद्धिर्ममता भ्रान्तिस्तया पुष्णाति पोषयति । द्रव्यपोषणं च वार्धुषिकतया । प्राणा रायः सुतादेः प्राक् प्राणानन्तरं निर्देशोनार्था बहिश्चराः प्राणा इत्यादिस्मार्ततत्समतां ध्वनयति । कृतार्थाः सम्पन्नस्वप्रयोजना अकृतार्था अननुष्ठितैतदिष्टास्तमपण्डितमनागमज्ञमन्ते हिन्वन्ति ॥ २३ ॥

सुमनोरञ्जिनी

स्वबुध्या स्वीयबुध्या । यान् सुतादीन् अधर्मेण पुष्णाति ते रायः वित्तानि सुतादयश्च स्वयं कृतार्थाः स्वकार्यं कृत्वेति यावत् । अन्ते इममपण्डितं हिन्वन्तीति अधर्म एव परं भवतीति भावः ॥ २३ ॥

स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविदः ।

असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तमः ॥ २४ ॥

पदरत्नावली

प्राणादिहानानन्तरं तद्गतिं वक्ति स्वयमिति । नार्थकोविदः स्वप्रयोजनानभिज्ञः । असिद्धार्थोऽनिष्पन्नमनोरथः ॥ २४ ॥

सत्यधर्मीया

प्राणादिहानानन्तरं तद्गतिं वक्ति ॥ स्वयमिति ॥ स्वयं किल्बिषमेतत्पोषणा-द्यायातपातकमादाय । अनेन तस्यावर्जनीयतां ध्वनयति । तैः प्राणादिभिस्त्यक्तो नार्थकोविदः शाश्वतिकेश्वररूपार्थानभिज्ञोऽसिद्धार्थोऽनिष्पन्नमनोरथः स्वधर्मविमुख इतीयदापत्तिहेतुकथनम् । अन्धन्तम उक्तरूपमुक्तरूपो विशतीति । अन्धं धृतराष्ट्रं प्रतीत्युत्तरेण सत्पक्षेऽन्वयः । अन्धयतीत्यन्धम-ज्ञानमिति वा ॥ २४ ॥

सुमनोरञ्जिनी

तत्फलमाह ॥ स्वयमिति । नार्थकोविदः स्वप्रयोजनेऽकुशलः । स्वयं किल्बिषम् अधर्मम् आदाय । असिद्धार्थो ऽप्राप्तप्रयोजनः सन् अन्धं विशति अतिदुःखमनुभवती-त्यर्थः । कुतः । यतः स्वधर्मे विमुखः पराङ्मुखः ॥ २४ ॥

तस्माल्लोकमिमं राजन् स्वप्नमायामनोरथम् ।

सम्भजन्नात्मनाऽऽत्मानं समः शान्तो भव प्रभो ॥ २५ ॥

पदरत्नावली

अस्थिरविश्वमिदं न विश्वसनीयमित्यत्र निदर्शनमाह स्वप्नेति । स्वप्नेति लुप्तोपमा । स्वप्नवत्, मायावद् इन्द्रजालवत्, मनोरथवच्च । आत्मना मनसाऽऽत्मानं परमात्मानम्

॥ २५ ॥

दुर्घटभावदीपिका

हे प्रभो राजन् धृतराष्ट्र । तस्मात्स्वधर्मविमुखानां तमःप्रवेशस्य विद्यमान-त्वात् । स्वप्नमायामनोरथमनित्यत्वादिना स्वप्नादिसदृशमिमं लोकं दुर्योधनादिलोकं सम्भजन् सम्यक् भजन् । पाण्डवान् क्रमेण भज्जन्निति यावत् । भवांस्तमो वेक्ष्यति । अतो दुर्योधनादिषु पाण्डवेषु समः सन् आत्मनाऽन्तःकरणेनात्मानं परमात्मानं सम्भजन् सम्यक् भजन् शान्तो भवमुक्तो भवेति । एतेनेमं लोकमित्येतदनन्वितमिति दूषणं परास्तम् । तमो विशतीत्यत्र विशतीत्यस्यार्थवशाद्वेक्ष्यतीति विपरिणाममङ्गीकृत्येमं लोकं सम्भजन् भवांस्तमो वेक्ष्यतीत्यन्वयस्योक्तत्वात् ॥ २५ ॥

सत्यधर्मीया

न शृृणोति न वा वृणोति समतामिति मतिमानप्येनाद्दूरीकृत्य सतः शासितुं श्वाफल्किः किं बहुनेति परमार्थमुपदिश्योपसंहरति ॥ तस्मादिति ॥ इमं लोकं देहं स्वप्नमायामनोरथं स्वप्नवद्भगवदधीनं मायया निर्मितमैन्द्रजालिकं तद्वन्मनोरथवच्च । अनेन भगवन्मात्राधीनं न मम स्वातन्त्र्यं किमप्यत्रास्तीत्यत्र स्वप्नो मायामनोरथौ च क्रमादविश्वसनीयतायां निदर्शनानीति ज्ञेयम् । आत्मना मनसाऽऽत्मानं हरिं सम्भजन्समः सञ्छान्तो भगवन्निष्ठबुद्धिर्भव प्रभो इति सौमुख्यं सम्पादयितुमित्यन्धं जगाद गान्दिनीतनय इत्यन्वयः ॥ २५ ॥

सुमनोरञ्जिनी

उपसंहरति ॥ तस्मादिति ॥ इमं पुत्रादिकम् । स्वप्नमाया स्वप्ने प्रतीयमानो मायोपादकगजतुरगादिर् मनोरथश्च । तमिव मत्वा । आत्मना मनसा । आत्मानं परमात्मानं सम्यक् भजन् । शान्तः भगवदेकनिष्ठबुद्धिः सन् स्वपुत्रेषु पाण्डवेषु च समो भवेति सम्बन्धः । सर्वं च भगवदधिष्ठानमिति पाण्डवान् स्वपुत्रसाम्येन रक्षस्वेति भावः ॥ २५ ॥

धृतराष्ट्र उवाच—

यथा वदति कल्याणीं वाचं दानपते भवान् ।

तथाऽनया न तृप्यामि मर्त्यः प्राप्य यथाऽमृतम् ॥ २६ ॥

पदरत्नावली

कल्याणी मङ्गलरूपिणी वाचम् । न तृप्यामि अलम्बुद्धिं न प्राप्नोमि । अमृतं देवान्नम् । ‘अमृतं व्योमि्न देवान्ने यज्ञशेषे रसायने’ इति यादवः ॥ २६ ॥

दुर्घटभावदीपिका

वदसीत्यस्य वदतीत्यर्थः । एतेन भवान्वदतीति वक्तव्यं भवन्वदसीति कथनमयुक्तमिति दूषणं परिहृतम् । तिङा च तिङिति वचनात् । वदतीति प्रथमपुरुषैकवचनस्य वदसीति मध्यमपुरुषैकवचनादेश इत्यभ्युपगमात् ॥ २६ ॥

सत्यधर्मीया

मनस्येकं वचस्येकमिति न निरूढमूढपुत्रममतः स्वमनोगतमक्रूरं प्रति धृतराष्ट्रो वक्तीति वक्ति ॥ धृतराष्ट्र इति ॥ हे दानपते भवान् कल्याणीं मङ्गलप्रापकतया तद्रूपिणीं वाचं यथा येन प्रकारेण वदति यथावदकृत्रिमं वदसीति वा तथा तेनैव प्रकारेणानया वाचा न तृप्यामि । तत्र निदर्शनं दर्शयति । यथा मर्त्यो मरणधर्मा अमृतं देवान्नमभूतोपमतायां सुधां वा प्राप्य यथा तृप्तिं नाप्नोति तथेति । अमृतं व्योमि्न देवान्ने यज्ञशेषे रसायने । अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । अयाचिते च मोक्षे चेति यादवविश्वौ ॥ २६ ॥

सुमनोरञ्जिनी

हे दानपते अक्रूर त्वं यथा यथाऽनुपूर्व्या । कल्याणीं श्रवणमनसाम् आनन्दकरीं वाचं वदसि तथा तादृशानुपूर्वयुक्तया । त्वद्वाचा न तृप्यामि अलंबुद्धिं न प्राप्नोमि । मर्त्यो अमृतं सुधां प्राप्येव ॥ २६ ॥

तथापि सूनृता सौम्य हृदि न स्थीयते जले ।

पुत्रानुरागविषमे विद्युत् १सौदामिनी यथा ॥ २७ ॥

पदरत्नावली

सूनृता वाक् । सुदाम्नः पर्वताद् व्यज्यमाना विद्युद् विद्युल्लता ॥ २७ ॥

सत्यधर्मीया

एवं वचनेन मम ममता सुतेषु गता समतोत्पन्नेति भ्रमतः सम्भ्रमं न भज भो भोजपते इति जल्पति ॥ तथाऽपीति ॥ सूनृता विद्युद्वाणी द्यौर्नाम देवी विद्युत्स्यात्साक्षादेव सरस्वती । द्योतनात्सर्ववस्तूनामिति बृहद्भाष्ये । तथा सूत्रभाष्ये । विद्युत्पतिं वायुमिति । तथा कर्मनिर्णयभाष्ये । द्यौर्वाव विद्युद् द्यौरेव विद्युत् । तट्टीकायाम् ‘‘ननु वरुणावराया विद्युतः कथं चन्द्रादपि परत्वमित्यत आह । द्योरितीत्युक्तेर् विद्युद्वाणी । सौम्य मम हृदि न स्थीयते स्थिरतया न स्थास्यति । तत्र तन्त्रम् ॥ चल इति ॥ चञ्चलता कुत इत्यत आह ॥ पुत्रानुरागविषम इति ॥ तत्र निदर्शनमाह । यथा सौदामिनी सुदामपर्वताकारादिसम्बन्धिनी तेनैकदिग्गतं विद्युदिति वा विशेषतो द्योतमानत्वेन सुदामाद्येकदिक्तयोरन्यतरयोगरूढितो वाऽर्थो ज्ञेयः ॥ २७ ॥

सुमनोरञ्जिनी

यद्यप्येवं तथापि सूनृता वाक् मम चले चंचले हृदि मनसि न स्थीयते । पुत्रानुरागेण विषमे वक्रे । विद्युद् विशेषेण द्योतमाना सौदामिनी तटिद् यथा न स्थीयते तथेति

॥ २७ ॥

ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान् ।

भूमेर्भारावताराय योऽवतीर्णो यदोः कुले ॥ २८ ॥

पदरत्नावली

विधिं नियमं विधुनोति अन्यथाकरोति ॥ २८ ॥

सत्यधर्मीया

छद्म चरन् पद्मनाभोपरि भारं निधाय विधाय स्वदुष्कर्मावज्ञां बुध इव वक्ति ॥ ईश्वरस्येति ॥ यो भूमेर्भारावताराय यदोः कुलेऽवतीर्णस्तस्येश्वरस्य विधिं नियमं कः पुमानन्यथै-तदन्यथा स्त्री का नु विधुनोति कम्पयति तिरस्करोतीति यावत् । भूमेर्भारावतारायैवावतीर्णोऽन्यथा पूर्वश्लोकान्नेत्यनुवर्त्यान्यथेत्यनेनान्वेतव्यम् । कर्मादिना न जननं जनार्दनस्येति भावः । को नु विधुनोतीत्यन्वयो वा ॥ २८ ॥

सुमनोरञ्जिनी

अथापि श्रीकृष्णाज्ञां करोमीत्याह ॥ ईश्वरस्येति ॥ यो यदोः कुलेऽवतीर्णस् तस्येश्वरस्य विधिम् आज्ञां को नु अन्यथा विधुनोति तिरस्करोति न कोऽपीत्यर्थः ॥ २८ ॥

यो दुर्विमर्शपथया निजमाययेदं सृष्ट्वा गुणान् विभजते तदनुप्रविष्टः ।

तस्मै नमो दुरवबोधविहारतन्त्रसंसारचक्रगतये परमेश्वराय ॥ २९ ॥

पदरत्नावली

दुर्विमर्शपथया दुर्विज्ञेयमार्गया निजमायया प्रकृत्योपादानभूतया स्वेच्छया इदं जगत् सृष्ट्वा तदनुप्रविष्टः सन् तत्तत्कर्मानुगुणान् गुणान् फलादीश्च विभजते विभज्य विभज्य ददाति तस्मै दुरवबोधविहारतन्त्रसंसारचक्रगतये दुरवबोधो दुर्ज्ञेयो विहार एव तन्त्रं कारणं यस्याः सा दुरवबोधविहारतन्त्राः, दुरवबोधविहारतन्त्रा संसारचक्रस्य गतिर्येन स तस्मै परमेश्वराय नमः ॥२९॥

सत्यधर्मीया

गन्धर्वराट् पवनावेश इत्याद्युक्तेः स्वस्वरूपानुरूप्येण हरिं नमस्यति ॥ य इति ॥ यो दुर्विमर्शः पन्था यस्याः सा तया निजमाययेच्छया स्वाधीनया प्रकृत्योपादानभूतया गुणान्द्वारीकृत्वा चेदं जगत्सृष्ट्वा तदनुप्रविष्टः सन् तत्तत्कर्मानुगुणान्गुणान्फलादींश्च विभजते विभज्य ददाति । दुरवबोधो दुर्ज्ञेयो विहारो लीला सैव तन्त्रं कारणं यस्याः, संसारचक्रस्य तच्चक्रवालस्य गतिर्येन स तस्मै चक्रं परिवर्तनं वा तस्मै परमेश्वराय नमः । गुणान्विभजत इति चतुर्थ्यन्तं वा । य इदं सृष्ट्वा तदनुप्रविष्टस्तस्मै गुणान्विभजते । दुरवबोधसंसारचक्रगतये परमेश्वराय नम इत्यन्वयः

॥ २९ ॥

श्रीशुक उवाच—

इत्यभिप्रेत्य नृपतेरभिप्रायं स यादवः ।

सुहृद्भिः समनुज्ञातः पुनर्यदुपुरीमगात् ॥ ३० ॥

पदरत्नावली

अभिप्रेत्य ज्ञात्वा ॥ ३० ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे अष्टचत्वारिंशोऽध्यायः ॥

दुर्घटभावदीपिका

स यादवोऽक्रूरो नृपतेरभिप्रायमिति पूर्वोक्तरीत्या पुनः पुनरभिप्रेत्यातिप्रकर्षेण ज्ञात्वा सुहृद्भिः समनुज्ञातःसन् यदुपुरीमगादिति । एतेन नृपतेरभिप्रायं ज्ञात्वेति वक्तव्यम् । नृपते-रभिप्रायमभिप्रेत्येति कथनमयुक्तमिति चोद्यं परास्तम् । अभिप्रेत्येत्यस्याभिप्रायं कृत्वेत्यर्थमनङ्गी-कृत्याभिप्रेत्येत्यस्यातिप्रकर्षणार्थत्वं गत्यर्थे अण्धातोर्ज्ञानार्थत्वं चाङ्गीकृत्याभिप्रेत्येत्यस्यातिप्रकर्षेण ज्ञात्वेत्यर्थ इत्युक्तत्वात् । एतेनैव पूर्वं यदुपुरीं प्रति गमनाभावात् । यदुपुरीं पुनरगादिति कथनमनु-पपन्नमिति दूषणं निरस्तम् । पुनःशब्दस्यागादित्यनेनान्वयमनङ्गीकृत्यावृतिमभिप्रेत्येत्यनेनान्वयं चाङ्गीकृत्य पुनः पुनर्ज्ञात्वेत्यर्थस्योक्तत्वात् ॥ ३० ॥

॥ इति श्रीमदश्रुतपदवाक्यप्रमाणव्याख्यातॄणामभिनवचन्द्रिकाऽभिनवताण्डवाभिनव-गदाऽभिनवामृतादिबहुग्रन्थकर्तॄणां जगत्पूज्यपादुकानां श्रीसत्यनाथश्रीचरणानां शिष्येण सत्याभिनवयतिना त्वया भागवतटिप्पणिं कारयिष्यामीति तदीयामोघसंकल्पमात्रमवलम्ब्य कृतायां श्रीमद्भागवतटिप्पण्यां दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे अष्टाचत्वारिंशोऽध्यायः ॥

सत्यधर्मीया

स यादवोऽक्रूरो नृपतेर्धृतराष्ट्रस्याभिप्रायमाशयमित्यभिप्रेत्य ज्ञात्वा सुहृद्भिः समनुज्ञातः पुनर्यदुपुरीं मधुरामगात् ॥ ३० ॥

सुमनोरञ्जिनी

इत्युत्क्वा श्रीकृष्णं नमति ॥ य इति । यः दुर्विमर्शपथया विचारेण ज्ञातु-मशक्यः पन्था यस्याः सा तया इत्थमिति ज्ञातुमशक्यया । वाचा । निजमायया स्वेच्छया । गुणान् सत्वादीन् सृष्ट्वा तदनुप्रविष्टः । इदं जगन् नानाप्रकारेण विभजते । दुरवबोधः दुर्विज्ञेयः यो विहारः क्रीडा तत्तन्त्रा तदधीना संसारचक्रस्य गतिर् भ्रमणं यस्य तस्मै । एतत्संसारचक्रभ्रमणं यल्लीलाधीनमिति भावः । अभिप्रेत्य ज्ञात्वा । यदुपुरीं मधुरापुरीम् । जगामेति । सर्वं सुमङ्गलम्

॥ ३० ॥

॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां

(गूढकर्तृकायां) सुमनोरञ्जिन्याम् अष्टचत्वारिंशोऽध्यायः ॥

शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् ।

पाण्डवान् प्रति कौरव्य यदर्थं प्रेषितः स्वयम् ॥ ३१ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे अष्टचत्वारिंशोऽध्यायः ॥

सत्यधर्मीया

हे कौरव्य परीक्षिद् यदर्थं स्वयं प्रेषितः पाण्डवान् प्रति धृतराष्ट्रविचेष्टितं रामकृष्णाभ्यां शशंस । रामकृष्णाभ्यामिति प्राग्रामनामग्रहणेन दुर्योधनादिपक्षपातो रामस्येति तथा सन्धिर्नाभिसन्धित्सितस्ते इति जिह्मगतिमनोजिह्मं च विशेषं ध्वनयामासेति तात्पर्यं ज्ञेयम् । यस्य शेष एव द्वारं हर्यपरोक्षस्येति तदवतारपुरस्करणमिति राम आदौ गृहीत इति च मनोहरम् । मधुनाथाधुना तव दयोदयं नेयाच्चेद्भैक्षचर्यैव तेषामिति सूचयितुं रामकृष्णाभ्यामित्युक्तिरित्यपि पक्षः सुमनोहर इत्यलम् ॥

**॥ इति श्रीभागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां **

दशमपूर्वार्धेऽष्टचत्वारिंशोऽध्यायः ॥ १०-४८ ॥

॥ इति दशमस्कन्धपूर्वार्धः समाप्तः ॥