२२ सप्तचत्वारिंशोऽध्यायः

अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः

॥ अथ सप्तचत्वारिंशोऽध्यायः ॥

श्रीशुक उवाच—

अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः ।

सैरंध्य्राः कामतप्तायाः १प्रियमिच्छन् गृहं ययौ ॥ १ ॥

पदरत्नावली

स्वपदपद्मरजोऽनुरक्तभक्तानां वाञ्छितार्थसाधनार्थमेव हरेरवतार इत्यर्थः प्रतिपाद्यतेऽस्मिन्नध्याये । तत्रादौ त्रिवक्राया अभीष्टसाधनार्थं हरेस्तद्गृहगमनं वक्ति अथेत्यादिना ॥ सैरन्ध्र्या गन्धकारिकायाः । ‘सैरन्ध्री गन्धकारिका’ इति हलायुधः ॥ १ ॥

सत्यधर्मीया

पुरपुरन्ध्रीषु सतीषु सैरन्ध्रीं त्रिवक्रामवक्रां विधाय केवलं करुणापरवांस्तया याचित उचितकाले आगच्छाम्यगारमिति स्वोक्तं स्मरंस्तद्भक्तिप्रसन्नः सहोद्धवेनागादित्यादि प्रतिपाद्यतेऽत्र ॥ अथेत्यादिना ॥ अथोद्धवागमनानन्तरं भगवान्सर्वात्मा सर्वदर्शनो विज्ञाय तत्प्रार्थनां स्मृत्वाऽनुग्रहोन्मुखो भूत्वेति यावत् कामतप्तायाः सैरन्ध्य्राः प्रीतिं यच्छन् गृहं ययावित्यन्वयः

॥ १ ॥

सुमनोरञ्जिनी

अथ उद्धवागमनानन्तरम् । विज्ञाय सैरन्ध्य्रा वरदानं स्मृत्वा सैरन्ध्रीं स्वागमनकाङ्क्षिणीं ज्ञात्वेति वा । सैरन्ध्य्रा मनोभावं वा । कामतृप्तायाः प्रीतिं यच्छन् ददन्

॥ १ ॥

महार्होपस्करोपेतं कामोपायोपबृंहितम् ।

मुक्तादामपताकाभिर्वितानशयनासनैः ॥ २ ॥

पदरत्नावली

महार्हैर्महतां योग्यैरुपस्करैरुपकरणैरुपेतम् । कामोपायैः कामोद्रेकसाधनैरुपबृंहितं पूर्णम् । मुक्तादामादिभिश्चोपबृंहितम् । वितानैरुल्लोचैः । ‘चन्द्रोदयो वितानं स्यादुल्लोचः कदकस्तथा’ इति हलायुधः ॥ २ ॥

सत्यधर्मीया

महार्होपस्करोपेतं महान्त्यर्हाणि मूल्यद्रव्याणि येषां ते चोपस्करा आस्तरणादिकं तेनोपेतं युतम् । उपस्करेति गतम् । कामोपायैस्तदुद्रेककरैर्जातीफलादिभिरुपबृंहितं पूर्णम् । मुक्तादामभिः पताकाभिर्मुक्तादामात्मकपताकाभिरिति वा वितानैरुल्लोचैः शयनैरासनैश्चोपबृंहितमिति वा मण्डितमिति वाऽन्वयः ॥ २ ॥

सुमनोरञ्जिनी

महार्हैर् महामौल्यैर् उपस्करैर् उपकरणैर् उपेतं युक्तम् । कामस्य ये उपाया उद्दीपकाः पदार्थविशेषास् तैर् उपबृंहितं पूर्णम् । वितानम् उपर्याततं वस्त्रम् ॥ २ ॥

धूपैः सुरभिभिर्दीपैः स्त्रग्गन्धैरपि मण्डितम् ॥ ३ ॥

पदरत्नावली

सुरभिभिः कृष्णागुगर्वादिकाष्ठजैः ॥ ३ ॥

सत्यधर्मीया

धूपैः सुरभिभिः कृष्णागुर्वादिकाष्ठजैर्दीपैर्मण्यात्मकैर्मुक्तादामानुरूप्यात् प्रसिद्धैर्वा धूपानुकूल्यात् । स्रजश्च गन्धाश्च तैर्मण्डितमलङ्कृतम् । गन्धानां वैतदनुबन्धसाधनत्वादुपसंहारे निबन्ध इति केऽपि । यत्र कुत्र वा निबन्ध इति ॥ ३ ॥

गृहं तमायान्तमवेक्ष्य साऽऽसनात् सद्यः समुत्थाय हि १जातसम्भ्रमात् ।

यथोपसङ्गम्य सखीभिरच्युतं सभाजयामास सदासनादिभिः ॥ ४ ॥

पदरत्नावली

यथा येन प्रकारेणोपगमनं कार्यं तथोपसङ्गम्य । सदासनादिभिः सिंहासनादिभिः

॥ ४ ॥

सत्यधर्मीया

सा गृहमायान्तं तं कृष्णम् । कदेत्यतोऽप्याह ॥ तमायान्तमिति ॥ रात्र्यामित्यर्थः । औचित्यात् । अवेक्ष्यासनात्स्वोपविष्टात्सद्यः समुत्थाय सम्भ्रमादादराच्च । सम्भ्रमस्त्वादरे भय इत्यमरः । उत्थाय हि जातसम्भ्रमेत्यपि पठन्ति । सखीभिः सह यथा येन प्रकारेणागन्तव्यं तथोपसङ्गम्य सम्यगिति वा सच्च तदासनं च तदेवादिर्येषां तैः सभाजयामासापूपुजत्

॥ ४ ॥

सुमनोरञ्जिनी

सखीभिः सह । उपसङ्गम्य समीपं गत्वा । सखीभिर्मिलित्वेति यावत् । सदासनादिभिः सद्भिर् आसनाद्युपचारैः सभाजयामास पूजयामास ॥ ४ ॥

तथोद्धवः साधु तयाऽभिपूजितो न्यषीददुर्व्यामभिमृश्य चासनम् ।

कृष्णोऽपि दान्तं शयनं महाधनं विवेश लोकाचरितान्यनुव्रतः ॥ ५ ॥

पदरत्नावली

साधु सम्यक् । उर्व्यां न्यषीदन् निषसाद । अभिमृश्य संस्पृश्य । स्वामिसमीपे विष्टरे नोपवेष्टव्यमिति धियाऽऽसनं संस्पृश्य भूमावुपविवेशेति यावत् । दान्तं दन्तिदन्तखचितम् । महाधनं बहुधनलभ्यम् ॥ ५ ॥

सत्यधर्मीया

केवलं नैकलसभाजनं सा कृतवतीति चतुरोद्धवमपि यथोचितमानर्चेत्याह ॥ तथेति ॥ साधु सम्यक् तयाभिपूजित आसनं चाभिमृश्य स्वामिसमीपे नोपवेष्टव्यं विष्टर इत्यभिमृश्येत्युक्तिः । उर्व्यां न्यषीदन्निषसाद । दान्तं दन्तिदन्तविकृतं मृद्विति वा महाधनं बहुधनलभ्यं शयनं लोकाचरितानि विटकटकघटिताचाराननुव्रतोऽनुकुर्वन्विवेश । उद्धवं बहिरुपवेशयित्वेति सम्भावकोऽपि ॥ ५ ॥

सुमनोरञ्जिनी

तथा उद्धवस् तया सैरन्ध्य्रा साधु यथायोग्यमासनम् अभिमृश्य स्पृष्ट्वा उर्व्यां न्यषीदद् उपविवेश । दान्तं गजदन्तनिर्मितं महद्धनं मौल्यरूपं यत् शयनं शयनीयं मञ्चं, लोकाचरितानि मानुषचर्याणि । अनुव्रतो ऽनुरुन्धानः ॥ ५ ॥

सा मज्जनालेपदुकूलभूषणस्त्रग्गन्धताम्बूलसुधासवादिभिः ।

प्रसाधितात्मोपससार माधवं सव्रीडलीलोत्स्मितविभ्रमेक्षितैः ॥ ६ ॥

पदरत्नावली

सुधाकल्पैरासवादिभिर् मध्वादिभिः । प्रसाधितः समलङ्कृत आत्मा देहो यया सा तथा । सव्रीडलीलादिभिर्युक्ता ॥ ६ ॥

सत्यधर्मीया

यथोपविष्टा सिपिविष्टमुपससार सारसाक्षी किं वाऽऽत्मानमलङ्कृत्येत्यत आद्यमनभ्युपगमेन द्वितीयमभ्युपगमेन परिहरति ॥ सेति ॥ मज्जनमभ्यञ्जनमालेपो गन्धयक्षकर्दमादिना लेपनं दुकूलमेतदनुकूलं वासो भूषणान्यलङ्काराः, सुधामृतं तदासवादिभिः शोभनं गन्धादिभिः सुधाभोजनं भुक्तपदार्थसौरभ्यजनित आमोद आसवो वा । सुधामृतं सुधा च भोजनं ज्ञेयं सुधा रात्रिरित्यनेकार्थध्वनिपदमञ्जरी । एतदादिभिः प्रसाधितात्मा प्रसाधितः सुरतोचितसाधनतामापादित आत्मा देहो यया सा । सव्रीडं यथा तथा लीला तयोद्गतं स्मितं च विभ्रमाश्चेक्षितानि च तैरुपलक्षिता माधवमुपससार उपसृताऽभूत् ॥ ६ ॥

सुमनोरञ्जिनी

सा सैरन्ध्री । मज्जनादिभिः प्रसाधितात्मा परिष्कृतदेहा सती । सव्रीडा या लीला अपाङ्गकुञ्चनादिचेष्टा, उत्स्मितम् उदितं स्मितं च, विभ्रमः शृृङ्गारचेष्टा एतैः सहि(तानि)-तम् ईक्षितानि अवलोकनानि । तैः । आससार प्राप्तवती ॥ ६ ॥

आहूय कान्तां नवसङ्गमह्रिया विशङ्कितां कङ्कणभूषिते करे ।

प्रगृह्य शय्यामधिवेश्य रामया रेमेऽनुलेपार्पणपुण्यलेशया ॥ ७ ॥

पदरत्नावली

रतौ निमित्तमाह अनुलेपेति । अनुलेपार्पणेन हरेर् गन्धसमर्पणेन लब्धः पुण्यलेशः पुण्यैकदेशो यया सा तथा ॥ ७ ॥

दुर्घटभावदीपिका

अनुलेपार्पणपुण्यलेशयेत्येत्यस्यानुलेपार्पणस्य क्रियारूपपुण्यलेशो यस्याः सा तयेत्यर्थः । एतेनानुलेपार्पणक्रियाजन्यपुण्यस्य महत्त्वात् । अनुलेपार्पणपुण्यलेशयेति कथनमनुपपन्न-मिति दूषणं परास्तम् । अनुलेपार्पणक्रियाजन्यादृष्टरूपपुण्यस्याल्पत्वमुच्यत इत्यनङ्गीकृत्यानु-लेपार्पणाख्यक्रियारूपपुण्यस्याल्पत्वमुच्यत इत्यङ्गीकारात् ॥ ७ ॥

सत्यधर्मीया

नवः सङ्गमस्तज्जनिता ह्रीर्लज्जा तया विशङ्कितां शङ्कासहितां कान्तामाहूय कङ्कणभूषिते करे प्रगृह्य शय्यामधिवेश्य तया रामया रमण्या रेमे चिक्रीड । अनुलेपस्यार्पणेन पुण्यस्य महाधिकारिसम्पाद्यस्यैकदेशो लेशः स्वविषये स एव पूर्णो यस्याः सा तयेतः परं सद्यः फलविशेषस्य प्राप्यस्याभावाद्येन स एकदेशः सफलो भविष्यतीत्येकदेशोक्तिर्युक्ता स्यादित्यवधेयम् । अनुलेपार्पणस्य पुण्यं लात्यादत्ते ददाति चानुलेपार्पणपुण्यलः स ईशो यस्याः सेति वा ॥ ७ ॥

सुमनोरञ्जिनी

नवसङ्गमे या ह्रीर् लज्जा तया शङ्कितां, रामया सैरन्ध्य्रा रेमे । भगवदङ्ग-सङ्गसाधनं किं सुकृतं तया चरितमित्यतस्तदाह ॥ अनुलेपेति ॥ अनुलेपः सुगन्धद्रव्यं तस्यार्पणेन पुण्यलेशो यस्याः सा तयेति ॥ ७ ॥

साऽनङ्गतप्तकुचयोरुरसस्तथाऽक्ष्णोर्जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती ।

दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तमानन्दमूर्तिमजहादतिदीर्घतापम् ॥ ८ ॥

पदरत्नावली

रुजो विरहजज्वरान् स्तनान्तरगतं वक्षस्स्थलगतम् ॥ ८ ॥

सत्यधर्मीया

योग्यतया समस्तमप्यनङ्गतत्पदमुरोक्षिविशेषणत्वेनानङ्गतप्तकुचयोरनङ्गतप्तो-रसोऽनङ्गतप्तयोरक्ष्णोरिति सम्बन्धनीयम् । रुजो विरहजज्वरांश्चरणेन कुचादिस्थापितेनैतेषां कमलतया चरणस्य सूर्यतया रोगमार्जनं युक्तमिति मृजतीत्युक्तिर्युक्ता । अनन्तमाकाशस्तत्र चरणं यस्य द्युमणे-स्तद्रूपेणानन्तचरणेनेति तन्त्रावृत्त्यन्यतरेणान्वयः । नवपदरविभासेत्यादेः । अनन्तचरणे नेति च छेदः । अनन्तचरणे पादौ । पदङ्घ्रिश्चरणोऽस्त्रियामित्यमरः । जिघ्रन्ती न इव गन्धानुबन्धाद्वा घ्राणन-पौरस्कर्यं युक्तमित्येवमुक्तिः । स्तनान्तरं वक्षस्तद्गतमानन्दमूर्तिं कान्तं दोर्भ्यां परिरभ्यातिदीर्घताप-मजहाज्जहौ । अल्पीयो दिनगमनेऽपि तदनिष्पत्तिप्रयुक्तमतिदीर्घत्वं ज्ञेयम् । बहिः कान्तं परिरभ्यान्त-र्मूर्तिं तदाकारमानन्दं बबन्धेति वा । इयत्सम्पत्सुधाममुक्तादामादिरूपिणी गन्धकर्त्र्या दास्यास्तत्राप्य-नितरनररहोविषयत्रिवक्रकायायाः कथमिति चेत् । यतो वक्रा जाताऽवक्रा तत एव सर्वसमृद्धिः किं दुश्शकेति पृच्छसि महात्मन्किमलभ्यं भगवति प्रसन्ने श्रीनिकेतन इत्यादेः ॥ ८ ॥

सुमनोरञ्जिनी

अनन्तस्य श्रीकृष्णस्य चरणेन । अनङ्गेन तप्तयोः कुचयोः । उरसः कुचमध्यदेशस्य च रुजः ज्वरान् मृजन्ती परिहरन्ती । तथा अक्ष्णोरित्यावर्तते । अक्ष्णोर् अक्षिभ्यां जिघ्रन्ती पश्यन्तीति यावत् । अक्ष्णोः रुजश्च मार्जयन्ती । स्तनान्तरे गतं प्राप्तमानन्दमूर्तिं कृष्णं परिरभ्य आलिङ्ग्य दीर्घतापं बहुकालीनतापम् । अजहात् तत्याज ॥ ८ ॥

सैवं कैवल्यनाथं तं प्राप्य दुष्प्रापमीश्वरम् ।

अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ॥ ९ ॥

सत्यधर्मीया

इतरापेक्षया तस्याः पुण्यं लेश इति द्रढयितुं तस्या मूढतां द्वाभ्यां श्लोकाभ्या-माह ॥ सेति ॥ कैवल्यनाथं मुक्त्यधिपतिं तद्दातारमिति यावत् । दुष्प्रापमितरैः । अङ्गरागार्पणेन गन्धसमर्पणेन दुर्भगा दुर्दैवा सेदमयाचताहो ॥ ९ ॥

सुमनोरञ्जिनी

कैवल्यस्य मोक्षस्य नाथम् । बहुसाधनैर्दुष्प्राप्यम् । अङ्गरागस्य अर्पणेन तन्मात्रेण प्राप्यापि । इदं वक्ष्यमाणम् । अयाचत । अहो तस्माद् दुर्भगा ॥ ९ ॥

आहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया ।

रमस्व नोत्सहो त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ॥ १० ॥

दुर्घटभावदीपिका

सा सैरन्ध्री एवं पूर्वोक्तरीत्याऽङ्गरागार्पणेन गन्धार्पणक्रियाजन्यादृष्टरूप-महापुण्येन कैवल्यनाथं दुष्प्रापं प्राप्तुमशक्यमीश्वरं श्रीब्रह्मरुद्रेन्द्रादिसर्वेश्वरं प्राप्य दुर्भगा दुरदृष्टा सतीदं वक्ष्यमाणमयाचत । अहोऽत्याश्चर्यम् । इदं किमयाचतेत्यत आह ॥ अहो इति ॥ हे प्रेष्ट अतिशयेन प्रिय । इह मद्गृहे कतिचिद्दिनान्या सम्यक् । अविच्छेदेनेति यावत् । मया सहोष्यतां रमस्व । हेऽम्बुरुहेक्षण ते सङ्गं त्यक्तुं नोत्सह इति । एतेनेदमयाचतेत्यनेन पूर्णत्वात् । आहेत्येतद्व्यर्थमिति दूषणं पराकृतम् । आहोष्यतामित्यत्र आह उष्यतामिति पदद्वयमित्यनङ्गीकृत्य आ अहो उष्यतामिति पदत्रयमुष्यतामित्युकारस्य छान्दसपूर्वरूपत्वं चेत्यभ्युपगमात् ॥ ९,१० ॥

सत्यधर्मीया

तदेव विशदयति । हे प्रेष्ठ इह मम गृहे कतिचिद्दिनानि भवतोष्यतां मया सह रमस्व च । हे अम्बुरुहेक्षण ते सङ्गं त्यक्तुं नोत्सह इत्याह ॥ १० ॥

सुमनोरञ्जिनी

किमयाचतेति तदाह ॥ आहेति ॥ उष्यतां वासः क्रियताम् । नोत्सहे नेच्छामि ॥ १० ॥

तस्यै कामवरं दत्वा मानयित्वा च मानदः ।

सहोद्धवेन सर्वेशः स्वधामागमदृद्धिमत् ॥ ११ ॥

सत्यधर्मीया

तस्यै एवं याचमानायै कामवरो हि काम एव वरस्तं दत्वा तां मानयित्वा सत्कृत्य मानद उद्घवेन सह सर्वेशो ऋद्धिमत्स्वधाम स्वगृहमगमत् ॥ ११ ॥

सुमनोरञ्जिनी

काम्यत इति कामः । कामम् अपेक्षितं वरम् । मानयित्वा वस्त्रालङ्कारादि-दानेन संमान्य । ऋद्धिमत् सकलसमृद्धम् ॥ ११ ॥

दुराराध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् ।

१या वृणीते मनोग्राह्यमसत्त्वात् कुमतिर्ह्यसौ ॥ १२ ॥

पदरत्नावली

मनोग्राह्यं रूपादिविषयं यो वृणीते सोऽसौ असत्त्वाद् रागादिदोषदुष्टत्वात् कुमनीषी ॥ १२ ॥

सत्यधर्मीया

सिंहावलोकनन्यायेन ग्रन्थकृन् मौर्ख्यं सकौतुकचेताः स्मरन्विवृणोति ॥ दुराराध्यमिति । सर्वेश्वरं दुराराध्यं मनोऽग्राह्यं साकल्येनातद्विषयं विना प्रसादं समाराध्य गन्धार्पणेन तर्पयित्वा या एवं वृणीत साऽसौ कुमतिर्हि निश्चयः । तस्या मतेरसत्त्वादमोक्षाधायकत्वाद्रागादिदोष-दुष्टत्वाद्वा कुमतिरिति । मनोऽग्राह्यं यथेष्टं या वृणीत वरयामासासत्त्वात् कुमतिर्हीत्यन्वयो वा । यो वृणीते मनोग्राह्यमसत्त्वात्कुमनीष्यसाविति पाठः प्रस्तुतासङ्गतः ॥ १२ ॥

सुमनोरञ्जिनी

श्री शुकाचार्यः पुनरपि तां संस्मृत्य अनुतप्यति । दुराराध्यम् अनेकसाधनैरपि प्रसन्नीकर्तुमशक्यम् । समाराध्य प्रसन्नीकृत्यापि मनोऽग्राह्यं मनसा अग्राह्यम् अनपेक्षणीयम् । ऐहिक-सुखमित्यर्थः । कुतोऽनपेक्षणीयमित्यतो ऽसत्वाद् असाधुत्वादिति । अतोऽसौ कुमतिरिति

॥ १२ ॥

अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः ।

किञ्चिच्चिकीर्षन् स प्रागादक्रूरप्रियकाम्यया ॥ १३ ॥

पदरत्नावली

‘पुनीहि पादरजसा गृहान् नो गृहमेधिनाम्’ इत्याद्यक्रूरप्रार्थनानुसारेण तदनु-जिघृक्षया कृष्णस्य तद्भवनगमनमाह अक्रूरभवनमिति । किञ्चित् पाण्डववृत्तान्तज्ञानाय अक्रूरप्रेषण-कार्यं चिकीर्षन् कर्तुमिच्छन् ॥ १३ ॥

सत्यधर्मीया

ननु ग्रामागमनात्प्रागक्रूरस्य वचो दत्तं दत्तं चानन्तरमनन्तेन मध्येऽध्वनः कुब्जायास्तत्कस्माद्व्यत्यासः । न च योषिदभिलाषतः प्राग्गमनमिति स्वरतस्य युक्तम् । न वा सर्ववेदितुर्विस्मरणं सम्भवत्यतः कथमिति चेत्सत्यम् । अद्य श्वो वा श्वाफल्किर्गमनेऽपि वेदान्तनिष्णात इति ध्यानपरः सन्वर्तेत । कामार्ता नेयं जीवेद्राजीवलोचनेत्यालोच्य तथा पुण्यमल्पमल्पं च फलं चपलाक्ष्या अक्रूरस्य तु न तथेति सूचीकटाहन्यायेन वा मृदुः सर्वत्र बाध्यत इत्यादेः कथं वाऽक्रूरोऽयमिति वा स इति विजानीहि । स्ववचनं सत्यं विधातुमक्रूरागारगमनं वक्ति ॥ अक्रूर-भवनमिति ॥ सहरामोद्धवो रामोद्धवाभ्यां सहितः कृष्णः । आर्यरामसाहित्यं न तस्य रहस्य-कार्यत्वात्सैरन्ध्रीगेहगमन इवेत्यनेन ध्वन्यते । अक्रूरभवनं किञ्चिद्वक्ष्यमाणमावश्यकं कार्यं चिकीर्षन् कर्तुमिच्छन् अक्रूरप्रियकाम्यया च प्रभुः प्रागात् ॥ १३ ॥

सुमनोरञ्जिनी

रामोद्धवाभ्यां सहितः सहरामोद्धवः । किञ्चित् पाण्डववृत्तान्तज्ञानाया-क्रूरप्रेषणलक्षणकार्यं चिकीर्षन् कर्तुमिच्छन् स्वगृहं प्रत्यागमनस्याक्रूरेण पूर्वं प्रार्थितत्वात्तत्प्रियकाम्यया च अक्रूरभवनं प्रागात् ॥ १३ ॥

स तान् नरवरश्रेष्ठानाराद् वीक्ष्य स्वबान्धवान् ।

प्रत्युत्थाय प्रमुदितः परिष्वज्याभ्यनन्दत ॥ १४ ॥

पदरत्नावली

आराद् दूरतः ॥ १४ ॥

सत्यधर्मीया

आराद्दूरतोऽभ्यनन्दत । अहो सत्यमकार्षीद्वचनं हरिरिति ननन्द ॥१४॥

सुमनोरञ्जिनी

आराद् दूरात् ॥ १४ ॥

ननाम कृष्णं रामं च स तैरप्यभिवादितः ।

पूजयामास विधिवत्कृतासनपरिग्रहान् ॥ १५ ॥

पदरत्नावली

कृष्णं राममुद्धवं च ॥ १५ ॥

सत्यधर्मीया

कृष्णं राममुद्घवं च तैरित्युत्तरानुकूल्यात् ॥ १५ ॥

सुमनोरञ्जिनी

तैरपि रामकृष्णोद्धवैरपि । अभिवादितः वन्दितः । कृतः यदासनस्य परिग्रहः स्वीकारो यैस्तान् । आसने उपविष्टानिति यावत् ॥ १५ ॥

पादावनेजनीरापो धारयन् शिरसा नृप ।

अर्हणेनाम्बरैर्दिव्यैर्गन्धस्रग्भूषणोत्तमैः ॥ १६ ॥

पदरत्नावली

आ अप इति च्छेदः । पादावनेजनीः पादप्रक्षालिनीरप आ आस्वाद्य शिरसा धारयन् । अर्हणेन पूजायोग्यसाधनेन ॥ १६ ॥

सत्यधर्मीया

पादावनेजनीरापः शिरसा सम्यग्धारयन्नम्बरैर्दिव्यैर्गन्धस्रग्भूषणोत्तमैरित्यर्हणेन पूजोपयुक्तपदार्थेन ॥ १६ ॥

सुमनोरञ्जिनी

पादावनेजनीः पादौ अवनेजयन्ति प्रक्षालयन्ति इति पादावनेजनी । आ अप इति च्छेदः । अप आ ईषत् शिरसाऽधारयत् । आ इत्यास्वाद्येति पदरत्नावल्याम् । अर्हणेन पूजासाधनेन मधुपर्कादिना । दिव्यैर्द्युतिमद्भिर् अम्बरैः, गन्धादिभिश्च ॥ १६ ॥

अर्चित्वा शिरसाऽऽनम्य पादावङ्कगतौ मृजन् ।

प्रश्रयावनतोऽक्रूरः कृष्णरामावभाषत ॥ १७ ॥

पदरत्नावली

मृजन् संवाहयन् ॥ १७ ॥

सत्यधर्मीया

अर्चित्वा शिरसाऽऽनम्य चाङ्कगतावुत्सङ्गगतौ । अङ्काविति प्राग्गतौ । धूल्यामवगताविति च । अनेन तथा पादावित्यनेन च कृष्णचरणसंवाहमेवेति ध्वन्यते । मृजन् शोधयन्संवाहयन्निति यावत् । प्रश्रयावनतो भक्तिनम्रः ॥ १७ ॥

सुमनोरञ्जिनी

अर्चित्वा पूजयित्वा । अङ्कगतौ कृत्वा मृजन् मृदु पीडयन् ॥ १७ ॥

दिष्ट्या पापो हतः कंसः सानुगः १पावितं कुलम् ।

भवद्भ्यामुद्धृतं कृच्छ्राद् दुरन्ताच्च समेधितम् ॥ १८ ॥

पदरत्नावली

समेधितमभिवृद्धम् ॥ १८ ॥

सत्यधर्मीया

भवद्भ्यामवतरिताभ्यां कुलं पावितं तथा कृच्छ्रात्कंसकृतकष्टादुद्धृता दुरन्ताद्विना युवां दुष्पारात् । समेधितमभिवृद्धं च ॥ १८ ॥

युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ ।

भवद्भ्यां न विना किञ्चित् परमस्ति न चापरम् ॥ १९ ॥

पदरत्नावली

जन्मन्मयौ जगद्व्यापिनौ । भवद्भ्यां विना परं चेतनमपरमचेतनं चानियम्यं नास्ति । ‘प्रभुर्हि जीवो जडमपेक्ष्य’ इत्यादेश्चेतनस्य परत्वमवधेयम् ॥ १९ ॥

सत्यधर्मीया

प्रधानपुरुषौ मुख्यत एकोऽमुख्यत एक इति । जगद्धेतू जगन्मयौ जगद्व्याप्तौ भवद्भ्यां विना परं चेतनमपरमचेतनं चानियम्यं न चास्ति सर्वं नियम्यमेवास्तीति भावः । प्रभुर्हि जीवो जडमपेक्ष्येत्यादेश्चेतनस्य परत्वम् ॥ १९ ॥

सुमनोरञ्जिनी

प्रधानपुरुषौ उत्तमपुरुषौ । जगन्मयौ जगद्व्यापिनौ । तदेवोपपादयति ॥ भवद्भ्यामिति । भवद्भ्यां विना रहितं परं ब्रह्मादि अपरं तृणादि च नास्ति ॥ १९ ॥

आत्मसृष्टमिदं विश्व१मन्वावेश्य स्वशक्तिभिः ।

ईयते बहुधा २ब्रह्मन् श्रुतिप्रत्यक्षगोचरः ॥ २० ॥

पदरत्नावली

स्वशिक्तभिरिच्छादिस्वरूपशक्तिभिः । बहुधा अणुत्वमहत्वादिबहुप्रकारेण । श्रुतिप्रत्यक्षगोचरः । तत् सृष्ट्वा तदेवानुप्राविशत्’ इत्यादिश्रुतेर् ब्रह्मादिज्ञानिप्रत्यक्षस्य च विषयः सन् ईयते भवान् ज्ञायते ॥ २० ॥

सत्यधर्मीया

आत्मसृष्टं स्वनिर्मितमिदं विश्वं स्वशक्तिभिरिच्छादिस्वरूपशक्तिभिः । सु अशक्तिभिस्तत्त्वदेवैश्च सहेत्यप्यर्थः । हे ब्रह्मन् पूर्ण । ब्रह्मेति वा पाठः सम्बुध्यन्तः । बहुधाऽ-णुत्वानगुणत्वादिबहुप्रकारेण । श्रुतिश्च, तत्सृष्ट्वा तदेवानुप्राविशत् । एकं सन्तं बहुधा कल्पयन्तीत्ये-तदेतत्सजातीया तस्याः प्रत्यक्षस्य च ब्रह्मादिज्ञानिप्रत्यक्षस्य गोचरो विषयः सन्मीयसे भवान्ज्ञायते । घटोऽयमित्यादिनिर्दोषार्थेन्द्रियसन्निकर्षणलक्षणं वेति व्याकुर्वते ॥ २० ॥

सुमनोरञ्जिनी

स्वशक्तिभिः स्वांशैः । आत्मसृष्टमिदं जगत् । अन्वाविश्य तत्तदाकारानु-सारेण प्रविश्य । बहुधा ईयसे व्यवह्रीयसे । घटपटादिशब्दैर्भवानेवोच्यते । अत्र प्रमाणमाह ॥ श्रुतीति ॥ तत्सृष्ट्वा तदेवानुप्राविशत् । ज्ञानिनां प्रत्यक्षम् । तयोर्गोचर इति ॥ २० ॥

यथा हि भूतेषु चराचरेषु मह्यादयो योनिषु भान्ति नाना ।

एवं भवान् केवल आत्मयोनिष्वात्माऽऽत्मतन्त्रो बहुधा विभाति ॥ २१ ॥

पदरत्नावली

इममेवार्थं सदृष्टान्तं स्पष्ट्यति यथेति । योनिषु भोगस्थानेषु चराचरेषु भूतेषु उत्पत्तिमृत्सु जङ्गमाजङ्गमेषु वस्तुषु मह्यादयः पृथिव्यादयो नाना शुक्लनीलपीतादिनानावर्णात्मना यथा भान्ति एवमात्मयोनिषु आत्मैव योनिः कारणं येषां तानि तेष्वात्मा व्याप्त आत्मतन्त्रः स्वतन्त्रः केवलो जडामिश्रो भवान् बहुधा विभाति । केवल आत्मनन्त्र इति विशेषणद्वयेनास्य मह्यादिभ्यो महान् विशेषोऽस्तीति सूच्यते । प्रवेशमात्रे मह्यादिनिदर्शनम् ॥ २१ ॥

सत्यधर्मीया

तमेवार्थं सदृष्टान्तमाचष्टे ॥ यथेति । योनिषु भोगशरणेषु चराचरेषु भूतेषूत्पत्तिमत्सु चराचरेषु जङ्गमाजङ्गमेषु वस्तुषु मह्यादयो नाना नानावर्णात्मना यथा भात्येवमात्मयोनिष्वात्मैव योनिः कारणं येषां तानि तेष्वात्मा व्याप्त आत्मतन्त्रः स्वतन्त्र इत्येतत्प्रवेशमात्रे मह्यादिनिदर्शनम् । स्वातन्त्र्यादिकं न तत्रास्त्यत्रेति विशेषसूचकमिति ज्ञेयम् । केवलो जडामिश्रो बहुधा विभाति । एक ईयते बहुधेयते स पुरुषः स ईश्वर इति श्रुतेः ॥२१॥

सुमनोरञ्जिनी

तदेव सदृष्टान्तमाह ॥ नानायोनिषु नानाकारणकेषु सुरनरतिर्यगादिनाना-जन्मस्विति वा । चराचरेषु स्थावरजङ्गमसंज्ञकेषु भूतेषु प्राणिषु । मह्यादयः पृथिव्यादयः पञ्चमहाभूतानि यथा भान्ति नानातत्तदाकारतया अन्तर्बहिर्व्याप्ततया भान्ति । व्याप्तिमात्रे दृष्टान्तोऽयम् । एवं भवान् आत्मयोनिषु आत्मा स्वयं योनिः कारणं येषां तेषु त्वया सृष्टेष्वित्यर्थः । प्रविश्य । आत्मतन्त्रः स्वतन्त्रः बहुधा विभाति । ज्ञानिनां केवलः जडामिश्रः ॥ २१ ॥

सृजस्यथो लुम्पसि पासि विश्वं रजस्तमस्सत्त्वगुणैः स्वशक्तिभिः ।

न बध्यसे त्वं गुणकर्मभिर्वा ज्ञानात्मनस्ते क्व च नैव हेतुः ॥ २२ ॥

पदरत्नावली

विश्वयोनित्वं स्पष्टयति सृजसीति । स्वशक्तिभिः रजस्तमस्सत्त्वगुणैस्त्वं विश्वं सृजसि पास्यथो लुम्पसि संहरसि । केवलत्वं स्पष्टयति नेति । गुणकर्मभिर्न बद्ध्यसे । ज्ञानात्मनस्ते क्वच कस्मिंश्चिद् देशे काले च हेतुः कारणं नैवास्ति । त्वमेव सर्वहेतुरिति यावत्

॥ २२ ॥

सत्यधर्मीया

विश्वयोनित्वं स्पष्टयति ॥ सृजसीति ॥ रजस्तमःसत्त्वगुणैस्त्वं विश्वं सृजसि पास्यथो लुम्पसि संहरसि । स्वतन्त्राभिः स्वशक्तिभिश्च । केवलत्वं स्पष्टयति ॥ नेति ॥ गुणकर्मभिर्न बद्ध्यसे ते ज्ञानात्मनस्ते क्व च देशे काले वा हेतुः कारणं न नास्ति त्वमेव सर्वहेतुरित्यर्थः ॥ २२ ॥

सुमनोरञ्जिनी

जगत्कारणत्वं नोपादानत्वं किन्तु कर्तृत्वमेवेत्याह । सृजसीति । लुम्पसि संहरसि । स्वस्य शक्तयो ऽंशा येषु नियामकत्वेन वर्तन्ते ते स्वशक्तयस् तैः रजस्तमःसत्वगुणैर् विश्वं सृजसि लुंपसि पासि । रजसा सृजसि । सत्वेन पासि । तमसा लुंपसीत्यर्थः । त्वं तु गुणैः कर्मभिर्वा न बध्यसे । कुतः । ज्ञानात्मने ज्ञानात्मकदेहाय ते क्व च कस्मिंश्चिद्देशे काले हेतुः कारणं नेत्यर्थः । अनादिरिति भावः ॥ २२ ॥

देहाद्युपाधेरनिरूपितत्वाद् भवो हि साक्षान्न चिदात्मनः स्यात् ।

अतो न बन्धस्तव नैव मोक्षः स्यातां १निकामं त्वयि नो विवेकः ॥ २३ ॥

पदरत्नावली

कुतो भगवत उत्पत्त्यादिकं नास्तीत्यत आह देहाद्युपाधेरिति । देहादेर्जन्मादे-र्मुख्यस्योपाधेः प्रयोजकस्य कर्मादेरनिरूपितत्वात् शास्त्रे हि यतोऽनिरूपणं ततश्चिदात्मनो, ज्ञाना-नन्दाद्यात्मनस्ते साक्षाद् भवः कर्मनिर्मितशरीरप्राप्तिलक्षणो न स्यात् । अतस्तव बन्धो न स्यात् । तदायत्तमोक्षश्च नैव स्यात् । नस्त्वयि निकामोनितरामभिलाषो विवेकस्तत्त्वनिश्चायकज्ञानं च स्याताम्

॥ २३ ॥

सत्यधर्मीया

कुतो भगवत उत्पत्त्यादिकं नास्तीत्यत आह ॥ देहाद्युपाधेरिति ॥ देहादेर्जन्मादेर्मुख्यस्योपाधेः प्रयोजकस्य कर्मादेरनिरूपितत्वाच्छास्त्रे हि यतो निरूपणं ततश्चिदात्मनो ज्ञानानन्दात्मकात्मवतः साक्षादुद्भवः कर्मनिर्मितशरीरप्राप्तिरूपो न हि स्यात् । अतो देहाभावादेव न बन्धस्तत एव मोक्षस्तदधीनसत्त इति तौ नैव स्यातामिति नोऽस्माकं त्वयि त्वद्विषये विवेको विचारो रहस्यं प्रमेयमिति वा । विवेकः स्याज्जले द्रोण्यां विचारेऽपि रहस्यपीति विश्वः । निकाम-मस्मद्योग्यतामनुसृत्यास्तीति विशेषः ॥ २३ ॥

सुमनोरञ्जिनी

कुत उत्पत्त्यादिकं नास्तीत्यत आह ॥ देहेति ॥ उत्पत्तिर्द्विधा । देहतः स्वरूपतश्चेति । तत्र चिदात्मनः ज्ञानमूर्तेः साक्षाद् भवः स्वरूपत उत्पत्तिर् नास्तीति हि प्रसिद्धम् । देहत उत्पत्तिस्तु देहाद्युपाधेः शास्त्रेऽनिरूपणाद् अप्रतिपादनान् नास्तीति योजना । आदिपदे-नेन्द्रियादेर्ग्रहणम् । उपाधिपदेन तस्य प्राकृतत्वमुक्तं भवति । अतो देहादेरभावादेव बन्धः संसारः नास्ति तत एव मोक्षोऽपि न स्यात् । स्यातामिति द्विवचनेन एकवचनान्तं पदद्वयं लक्ष्यते । ताभ्यां नञोरन्वयः ॥ इत्येवं नो ऽस्माकं विवेकस्तत्वनिश्चयः । त्वया उदितः प्रकाशित इत्युत्तरेणान्वयः ॥ २३ ॥

त्वयोदितोऽयं जगतो हिताय यदा यदा वेदपथः पुराणः ।

बाध्येत पाखण्डपथैरसद्भिस्तदा भवान् सत्त्वगुणं बिभर्ति ॥ २४ ॥

पदरत्नावली

साक्षाद् भवो नास्ति चेत् तर्हि कीदृशोऽस्तीति तत्राह त्वयीति । त्वयोदितः प्रकाशितोऽयं भवोऽवतारो जगतो हिताय ज्ञानलक्षणाय भवति । कथमिति तत्राह यदेति । सत्त्वगुणं ज्ञानोत्तेजकम् ॥ २४ ॥

सत्यधर्मीया

यस्मिन्समये तव भवो निरूपितः समयः पौरुषेयो यश्चेतरैरसुरप्रायैरन्यार्थतया नेष्यते तदा त्वमेव व्यासाद्यात्मनाऽवतीर्य समीकर्तुं सत्त्वोज्जृम्भको भवसीत्याह ॥ त्वयेति । त्वयोदितो राशीभूतो ऋङि्नगदाद्यात्मना व्यक्तीकृतः पञ्चमो वेदपथो निर्मितः । एकोऽनादिरिति पुराणः परोऽर्थतः पुराणः । पुराणानि तदर्थानि सर्गे सर्गेऽन्यथैव तु । क्रियन्तेऽतस्त्वनित्यानि तदर्थाः पूर्वसर्गवत् । पुराणानामन्यथारचनमेवानित्यत्वमित्यादेः । जगतो हितार्थमाशीर्विवक्षया । चतुर्थी चाशिषीत्यनेन न षष्ठीति ज्ञेयम् । तेन न तव कृत्यमिति भावः । यदा यदा पाषण्डानां पन्था ईश्वरोऽहमहं भोगीत्यादिमार्गो येषां तैरसद्भिर्बाध्येत दुरर्थलोडितो भवेत्तदा भवान्सत्त्वगुणं ज्ञानोत्तेजकं बिभर्ति पोषयति तेन तानसतः खण्डयित्वा सन्मार्गं स्थिरीकरोषीति यावत् । स भवांस्त्वगुणं गुणाद्यविकृतं देहं बिभर्ति स्वीकरोतीति यावत् । यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहमित्यादेः । द्वीपे भगिन्याश्च यमस्येत्यारभ्य ये ये च सन्तस्तमसानुविष्टास्तांस्तान् सुवाक्यैस्तमसो विमुञ्चन् । चचार लोकानित्यन्तेन श्रीमदाचार्योक्त-मत्रानुसन्धेयम् । दत्तव्यासादिरूपेषु ज्ञानकार्यो जनार्दन इत्यादेः ॥ २४ ॥

सुमनोरञ्जिनी

जाग्रत्प्रवर्तकोऽपि भवानेवेत्याह ॥ जगत इति ॥ यदा यदा वेदपथः वेदोक्तमार्गः । पाषण्डपथैः पाषण्डमार्गनिरतैर् असद्भिर्बाध्येत तदा जगतां हिताय भवान् सत्वगुणं ज्ञानप्रवर्तनाय बिभर्ति । हयग्रीवव्यासादिरूपो भूत्वा सत्वगुणेन ज्ञानं प्रवर्तयसीति भावः ॥ २४ ॥

स त्वं प्रभोऽद्य वसुदेवगृहेऽवतीर्णः स्वांशेन भारमपनेतुमिहासि भूमेः ।

१अक्षोहिणीशतवधेन २सुरेतराणां राज्ञाममुष्य च कुलस्य यशो वितन्वन् ॥२५॥

पदरत्नावली

अमुष्य कुलस्य यदुकुलस्य ॥ २५ ॥

दुर्घटभावदीपिका

अवतीर्णः स्वांशेनेत्यस्य स्वस्य स्वतन्त्रस्य नारायणस्यांशत्वेन युक्तस्त्व-मवतीर्णः प्रादुर्भूत इत्यर्थः । एतेन कृष्णस्य नारायणांशत्वेन कृष्णांशत्वाभावात् । स्वांशेनावतीर्ण इति कथनमयुक्तमिति चोद्यं निरस्तम् । स्वातन्त्र्यात्स्व इति प्रोक्त इति प्रमाणानुसारेण स्वशब्देन नारायणं गृहीत्वांऽशशब्दस्य भावप्रधानत्वं युक्त इत्यध्याहारं च स्वीकृत्य नारायणांशत्वेन युक्तस्त्वमवतीर्ण इत्यर्थस्योक्तत्वात् ॥ २५ ॥

सत्यधर्मीया

कृष्णरामादिरूपेण बलकार्य इत्युक्तेः स व्यासात्मैव त्वं प्रभो ओदानीं वसुदेवगृहे देवक्यां स्वांशेन स्वः पद्मनाभात्मा स्वतन्त्रत्वात्तदंशेन केशेन कृष्णेन भूमेः सुरेतराणां दैत्यानां राज्ञामक्षौहिणीशतानां वधेन भारमपनेतुमवतारयितुं किञ्चामुष्य कुलस्य यदुकुलस्य यशो वितन्वन्नवतीर्णोऽसि । सुरा इतरे येभ्यस्ते सुरेतरास्तेषामतो न सर्वनामकार्याभावशङ्का । सुरेतरांश-राज्ञामिति पाठे सुरेतरेषामंशा ये राजानस्तेषाम् । समासान्तानित्यतया नायातष्टजिति ज्ञेयम् । प्रभोद्य प्रभया उद्लोकविलक्षण इति व्यवहर्तव्यं यद्वसुदेवगृहं भार्या तत्रैकपद्यं वा । वदः सुपि क्यप्चेत्येतद्व्याख्यायां कर्मणि प्रत्ययावित्येक इत्युक्तेः कौमुद्यां क्यपि यजादित्वात्सम्प्रसारणम् । उक्तं चात्र । सा देवकी सर्वजगन्निवासनिवासभूता नितरां विरेजे । प्रभया जितम्भरामित्यादेः

॥ २५ ॥

सुमनोरञ्जिनी

स एतादृशस् त्वम् अक्षोहिणीनां शतस्य राज्ञां च कंसादीनां वधेन । अमुष्य कुलस्य यदुकुलस्य यशो वितन्वन् विस्तारयन् । वसुदेवस्य गृहे भार्यायां स्वांशेन अवतीर्णोऽसि

॥ २५ ॥

ओश नो वसतयः खलु भूरिभागा यत् सर्वदेवपितृभूतनृदेवमूर्तिः ।

यत्पादशौचसलिलं त्रिजगत् पुनाति स त्वं जगद्गुरुरधोक्षज याः प्रविष्टः ॥२६॥

पदरत्नावली

हे ईश अधोक्षज सर्वे देवादयो मूर्तयः प्रतिमा यस्य स जगद्गुरुः स त्वं यद् यस्माद् या वसतीः प्रविष्टस्ता नो वसतयोऽद्य भूरिभागा महासम्पत्प्रदान्यभूवन् खलु । नैतच्चित्रमित्याह यत्पादेति । यत्पादशौचसलिलं गङ्गा त्रिजगत् पुनाति ॥ २६ ॥

दुर्घटभावदीपिका

यद्यस्मात्सर्वदेवपितृभूतनृदेवमूर्तिः सर्वदेवादिनियमनार्थं सर्वदेवादिशरीरान्तर्गतो यस्माज्जगद्गुरुश्चातो भगवान् याः प्रविष्टस्ता नो वसतय आद्य भूरिभागा इत्येतत् खलु प्रसिद्धमिति

॥ २६ ॥

सत्यधर्मीया

हे ईश सर्व इति सर्वान्वयि । सर्वे देवाः पितरः सर्वाणि भूतानि सर्वे च नृदेवा राजानश्च त एव मूर्तौ शरीरे यस्य स विश्वम्भर इति यावत् । अनेन त्वय्यायाते ते सर्वेऽपि समायाताः पूजिते पूजिता एवेति न तत्सपर्यानाचरणन्यौन्यमिति ध्वनयति । यत्पादशौच-सलिलं गङ्गा त्रिजगत्पुनाति पावयति । जगद्गुरुर् हे अधोक्षज स त्वं यद्यतो याः प्रविष्टस्ता नो वसतयो गृहा भूरिभागा महासम्पत्प्रदा अभूवन् खलु निश्चयः । जगतो मातरिश्वनस्तेन व्याख्यातो मरुता विधिस्तद्गुरुरिति वा गतम् । अङ्गावबद्धास्त्वित्यादेः ॥ २६ ॥

सुमनोरञ्जिनी

हे ईश अद्य नो वसतयः गृहा भूरिभागा अतिभाग्योपेताः । कुतः । हे अधोक्षज यद् यस्मात् । सर्वे च ते देवा ब्रह्माद्याः, पितरो ऽर्यमादयः, भूतानि ऋषयो मनुष्याश्च, नृदेवाश्चक्रवर्तिनश्च एते मूर्तय प्रतिमा यस्य सः । यस्य पादशौचसलिलं पादप्रक्षालनोदकं भागीरथीजलं त्रिजगत्पुनाति स त्वं जगद्गुरुर् या अस्मद्वसतीः प्रविष्टस् तस्मादिति ॥ २६ ॥

कः पण्डितस्त्वदपरं शरणं समीयाद् भक्तप्रियादृतगिरः सुहृदः कृतज्ञात् ।

सर्वान् ददाति सुहृदो १भजतोऽपि कामानात्मानमप्युपचयापचयौ न यस्य ॥२७॥

पदरत्नावली

भक्तप्रियाद् ऋतगिरः सत्यवचनात् । भक्तप्रियश्चासावादृतगीश्च तस्मादिति वा । सुहृदः प्रत्युपकारमनपेक्ष्योपकर्तुः कृतज्ञात् कृतस्मरणवतस्त्वदपरमन्यं कः पण्डितः शरणं समीयात् । भजतः सेवमानस्य सुहृदः फलापेक्षारहितस्य सर्वांस्तद्योग्यानभिकामान् आत्मानं सारूप्यलक्षणं मोक्षमपि ददाति । यस्योपचयापचयौ वृद्धिक्षयौ न स्त इत्यनेन कृष्णस्य बाल्यादिकं न स्वाभाविकमित्यवधेयम् ॥ २७ ॥

सत्यधर्मीया

भजतः सुहृदः शोभनमनसोऽभजतः फलमलक्षयित्वा सेवमानस्यापि यस्योप-चयापचयौ वृद्धिह्रासौ न तमात्मानं देहं ददाति सर्वांस्तद्योग्यान्कामान्ददातीति किमिति योजयन्ति । सर्वान्कामान्ददात्यनन्तरमात्मानमपि । उर्वरितं पूर्ववत् । यद्वाऽऽत्मानं सारूप्यरूपमिति वा मनुष्याणां क्लृप्तस्य मनुष्यव्यतिरिक्तानां देवानां तु न क्लृप्तस्य प्राप्यस्य तौ स्त एवेति विवेको ज्ञेयः । तथोक्तमनु-व्याख्याने । प्राप्तह्रासो भवेत्क्वापि महता तु विकर्मणेत्यादिना । सङ्क्षेपे च वृद्धिह्रासौ विमुक्तिगौ । नृणां सुराणां मुक्तौ तु सुखं क्लृप्तं यथाक्रममित्यादिना । प्रस्थानान्तरेऽनुव्याख्याने । ह्रासोऽपि मानुषादीनामानन्दस्य विकर्मणा । भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधत इत्यादिना च । विस्तरस्त-त्सुधादितोऽवसेयः । यस्तस्माद्भक्तप्रियादृतगिरः सत्यवचनात् । ऋ गताविति धातोस्तु पूर्वावगतव-त्सदा । स्थितेर्ब्रह्मर्तमित्युक्तमित्युक्तेर्ऋतमिति ब्रह्मेति गीर्यस्य तस्मादिति वा । भक्तप्रियश्चासावादृतगीश्च तस्मादिति वा । सुहृदः प्रत्युपकारमनपेक्ष्योपकर्तुः कृतज्ञात्कृतस्मरणवतस्त्वदपरमन्यं कः पण्डितः शरणं समीयाद्गच्छेद्यदि समीयात्सोऽपण्डित इति तुर्विशेषं सूचयति ॥ २७ ॥

सुमनोरञ्जिनी

भक्तप्रियाद् ऋता गिरः सङ्कल्परूपा वाचो यस्य सः । सत्यसङ्कल्प इत्यर्थः। तस्मात् । ऋता यथार्था गिरः वेदवाचः प्रतिपादका यस्य स इति वा । वेदवेद्या-दित्यर्थः । सुहृदो ऽनिमित्तोपकारिणः । कृतं कर्म जानाति फलं दातुमिति कृतज्ञस् तस्मात् । कृतं कर्म ज्ञात्वा तद्योग्यफलदातुरित्यर्थः । एतादृशात् त्वत् त्वत्तो ऽपरम् अवरम् अवमं वा देवं कः पण्डितः शरणम् इयात् प्राप्नुयात् । ननु ऐहिकफलेच्छयाऽन्यदेवताभजनं किं न कार्यमित्यतः समस्तैहिकामुष्मिकफलप्रदानधुरीणे जाग्रति तत्र युज्यत इत्याशयेनाह ॥ सर्वानिति ॥ सुहृदः फलाकाङ्क्षारहितस्य । भजतः सेवमानस्य । फलानाकाङ्क्षया सेवमानस्येति यावत् । भवान् सर्वानपि कामान् इष्टान् ददाति । न केवलमेतावत् किन्तु स्वात्मानमपि ददाति । यस्य तव उपचयापचयौ वृद्धिक्षयौ सुखदुःखादिकृतोच्चत्वनीचत्वे वा न स्तः ॥ २७ ॥

दिष्ट्या जनार्दन भवानिह नः प्रतीतो योगेश्वरैरपि दुरापगतिः सुरेशैः ।

छिंध्याशु नः सुतकलत्रधनाप्तगेहदेहाभिमोहरशनां भवदीयमायाम् ॥ २८ ॥

पदरत्नावली

हे जनार्दन योगेश्वरैः सुरेशैरपि दुरापा गतिर्यस्य स दुरापगतिर्भवान् नोऽस्माभिर्दिष्ट्या प्रतीतो ज्ञातोऽतो नः सुताश्च कलत्राणि च धनानि चाप्ता बन्धवश्च गेहानि च देहाश्चैतेष्वभिमोहोऽभिमानस्तदाख्यां रशनां रज्जुरूपिणी भवदीयां मायां बन्धकशक्तिमाशु छिन्धि

॥ २८ ॥

सत्यधर्मीया

हे जनार्दन इहैतदवस्थायां योगेश्वरैः सुरेशैरपि दुरापगतिर्दुरापा गतिर्यस्य सो भवान्नोऽस्माभिर्दिष्ट्या प्रतीतो ज्ञातोऽतो नः सुताः कलत्राणि भार्या धनान्याप्ता बन्धवो गेहानि देहश्चैतेष्वभिमोहोऽभिमानस्तदाख्यां रशनां रज्जुरूपिणीं भवदीयां मायामाशु छिन्धि । त्वद्दर्शनोत्तरं नायमर्थः स्थातव्य इति तात्पर्यम् ॥ २८ ॥

सुमनोरञ्जिनी

योगेश्वरैरपि महायोगिभिरपि दुरापा गतिर् गम्यत इति गतिः स्वरूपं यस्य स भवान् । नोऽस्माकं दिष्टा दैवेन प्रतीतो दृष्टिविषयो जातः । दिष्टशब्दपर्यायो दिष्टिशब्दः । तस्मात् त्वं नः सुतादिषु अभिमोहो ऽहं ममताभिमानस् तद्रूपां रशनां रज्जुम् । छिन्धीति । कीदृशीम् । मोहरशनां भवदीयमायां भवदीया त्वदधीना या माया अविद्या तत्कृतां कार्यकारण-भावेऽभेदव्यपदेशः । ब्राह्मणोस्य मुखमितिवत् ॥ २८ ॥

इत्यर्थितः संस्तुतश्च भक्तेन भगवान् हरिः ।

अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्निव ॥ २९ ॥

सत्यधर्मीया

भक्तेनाक्रूरेण भगवान् हरिरित्यर्चितः संस्तुतश्च तं सस्मितं गीर्भिः सम्मोहयन्न-कालत्वादङ्कूरितं विवेकमाच्छादयन्निवाह ॥ २९ ॥

सुमनोरञ्जिनी

संमोहयन्निव उत्पन्नज्ञानस्य तिरोभावं कुर्वन्निव न तु कुर्वन्नेवेति ॥२९॥

श्रीभगवानुवाच—

त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा ।

वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः ॥ ३० ॥

सत्यधर्मीया

त्वं नो गुरुर्हितोपदेष्टा पितृव्यः पितृभ्राता श्लाघ्यः स्तुत्यो बन्धुश्चेत्यादयो मान्यता प्रयोजकाः प्रजा वो वयं हि यतो रक्ष्या रोगादितः पोष्या एवमनुकम्प्या इति मोहनार्थ-मत्युक्तिः ॥ ३० ॥

सुमनोरञ्जिनी

गुरुर् हितोपदेष्ट्रत्वात् । श्लाघ्यो बन्धुर् अनुरूपो ज्ञातिः । रक्ष्या भया-द्रक्षणीयाः । पोष्या अपेक्षितदानादिना ॥ ३० ॥

भवद्विधा महाभागा निषेव्या अर्हसत्तमाः ।

श्रेयस्कामैर्नृभिर्नित्यं देवाः स्वार्था न साधवः ॥ ३१ ॥

पदरत्नावली

अर्हसत्तमा अर्हणीयोत्तमाः । देवाः स्वार्थाः स्वार्चनाख्यस्वप्रयोजनपर-फलदाः । साधवस्तु न स्वार्था इत्यतो भवद्विधा निषेव्याः ॥ ३१ ॥

सत्यधर्मीया

तमेव धाटीं नट इव नटयति ॥ भवद्विधा इति ॥ अर्हसत्तमा अर्हणीयोत्तमाः । श्रेयस्कामैर्नृभिस्सेव्या न तु देवा एव सेव्याः । कुत एवमादय इत्यत आह । देवाः स्वार्थाः स्वप्रयोजनपरफलदा इति । साधवस्तु न स्वार्था अतो भवद्विधा निषेव्याः । अक्रूरस्य साधु साध्वन्यतमत्वं कटाक्षयत्यनेनेति ॥ ३१ ॥

सुमनोरञ्जिनी

र्ओषु पूज्येषु सत्तमाः श्रेष्ठा भवद्विधाः साधव एव । श्रेयस्कामैर् नित्यं निषेव्याः । ननु देवान् विहाय किमर्थं साधवो निषेव्या इत्यत उक्तं देवाः स्वार्था इति । स्वप्रयोजननिरता इत्यर्थः । साधवस्तु तथा नेति ॥ ३१ ॥

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।

ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ३२ ॥

पदरत्नावली

अस्मयानि जडजलमयानि तीर्थानि तीर्थशब्दवाच्यानि न । किन्तु तत्सन्निहितानि दैवतान्येव । तथा मृच्छिलामयाः प्रतिमादयो देवा न । तत्र सन्निहिता देवा एवोरुकालेन सेवादिना व्यवधानेन पुनन्ति । साधवस्तु दर्शनादेवाव्यवधानेन पुनन्ति । न च देवा न साधव इति ज्ञेयम् । देवाश्च पृथक् सभाजिताश्चेत् तेऽपि दर्शनादेव पवित्रयन्तीत्यवधेयम् ॥ ३२ ॥

सत्यधर्मीया

देवा इत्युक्तौ प्रतिमादय एव तथेह विवक्षिता इति भ्रमं भ्रंशयन् स्वयं विवृणोति ॥ न हीति ॥ अम्मयानि जलजडमयानि तीर्थानि पावित्र्यादीनि न । मृच्छिलामयाः प्रतिमादयो देवा न किन्तु तत्र सन्निहिता देवा एव । तर्हि तेऽर्हिताः फलं यच्छन्ति किं साधुसभाजनेनेत्यत आह । ते जलशिलादिगता उरुकालेन व्यवधानेन सेवादिना पुनन्ति साधूनां दर्शनादेव । जलशिलादिनिलयदेवानां विलम्बेन पावकत्वमितीयदन्तरमिति भावः । देवाश्च न साधव इत्यत्र न तात्पर्यं किन्तु पृथक् सभाजिताश्चेत्तेऽपि दर्शनादेव पवित्रयन्ति । तथाऽपि ते दुर्दर्शाः, जगत्यटन्ति नात्मार्थं भास्करा इव भास्वरा इत्यादेः सुमिलाः साधव इति झडिति पवित्रणमित्यवधेयम् । अग्नौ क्रियावतां विष्णुः, प्रतिमास्वप्रबुद्धानामित्यादेरधिकारवैशेष्यादियमुक्तिः । उरुणा कृतेन कालेनोपदेशेन गुरूपदिष्टेन कालेनेत्यप्यर्थापयन्ति । अम्मयानि तीर्थानि नेति तान्यपि स्वान्तर्निहितदेवताद्वारोरुकालेन पुनन्तीति । तथा मृच्छिलामया अपि देवा नेति न तेऽपि तथैव । साधवस्तु स्वोचिताप-चित्यादिकमनपेक्ष्य पुनन्तीति दर्शनादेवेत्युक्तिरिति व्यातन्वते । व्यवधानाव्यवधानकृतौ विशेष इति तेषां भावः ॥ ३२ ॥

सुमनोरञ्जिनी

ननु देवाः केचनाम्मया यथा भागीरथ्यादयः । केचिन्मृच्छिलामया यथा विघ्नेशादयः । एवंविधानामचेतनानां किं स्वार्थत्वमित्यत आह ॥ न हीति ॥ तीर्थानि भागीरथ्यादीनि अम्मयानि न किन्तु तदभिमानिनो देवाः । मृच्छिलामया देवा न किन्तु तदतिरिक्ता एव । अतस्तेषां स्वार्थत्वं युक्तमिति भावः । किं तत्स्वार्थत्वमित्यत आह ॥ ते पुनन्तीति ॥ ते देवा उरुकालेन सेविताः पुनन्ति । इदमेव स्वार्थत्वं नाम । यत्स्वयं बहुकाले सेवां गृहीत्वा फलदानम् । साधवस्तु नेत्युक्तं व्यनक्ति ॥ दर्शनादेवेति । साधवस्तु दर्शनात्पुनन्ति अन्यथाज्ञानमपगमयन्ति न तु सेवामपेक्षन्ते ॥ ३२ ॥

स भवान् सुहृदां वै नः श्रेयः श्रेयश्चिकीर्षया ।

जिज्ञासार्थं पाण्डवानां २गच्छ स्वगजसाह्वयम् ॥ ३३ ॥

पदरत्नावली

नः सुहृदां मध्ये स भवान् श्रेयान् श्रेष्ठः । गजेन सम आह्वयो यस्य स गजसाह्वयः । स्वेषां गजसाह्वयस्तमस्मदीयहस्तिनापुरमित्यर्थः ॥ ३३ ॥

दुर्घटभावदीपिका

स पूर्वोक्तगुणविशिष्टो भगवान् सुहृदां नोऽस्माकं किञ्चिच्छ्रेयश्चिकीर्षया कस्यचिच्छ्रेयसः कर्तुमिच्छया सर्वदा तिष्ठति । अतः पाण्डवानां जिज्ञासार्थं विचारार्थं गजसाह्वयं त्वं गच्छस्वेति । एतेन भवान्गच्छति इति वक्तव्यं भवान्गच्छस्वेति वचनमयुक्तमिति चोद्यं परास्तम् । भवानित्यस्य गच्छस्वेत्यनेनान्वयमनङ्गीकृत्याध्याहृतेन सर्वदा तिष्ठतीत्यनेनान्वयस्योक्तत्वात् । एतेनैव महाश्रेयश्चिकीर्षयेति वक्तव्यं किञ्चिच्छ्रेयश्चिकीर्षयेति कथनमनुपपन्नमिति दूषणं परास्तम् । किञ्चिदित्यस्याल्पत्वार्थमित्यनङ्गीकारात् ॥ ३३ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे सप्तचत्वारिंशोऽध्यायः ॥ १०-४७ ॥

सत्यधर्मीया

किञ्चिच्चिकीर्षन्स प्रागादिति सूचितं व्यक्तीकुर्वन्नुपपादितसाधुत्वं त्वय्यस्तीदं कुर्वित्याह ॥ स इति ॥ श्रेयाञ्छ्रेयश्चिकीर्षयेति श्रेयान्पाठः । नः सुहृदां मध्ये स भवान् श्रेयान् श्रेष्ठः श्रेयश्चिकीर्षया पाण्डवानां जिज्ञासयाऽर्थः फलरूपं ज्ञानं तमुद्दिश्य गजसाह्वयं गजेन सम आह्वयः पर्यायशब्दो वाचकतया यस्य तत्पुरं गच्छ । हे स्वेति सम्बोधनं वा । किञ्चिच्छ्रेय-श्चिकीर्षयेति पाठे सुहृदां मध्ये स भवान्सुहृदन्तःपातीत्यर्थः । लोके लोकाः स्वत्त्वेन ग्रामादिकं प्रति व्यवहरन्तीति स्वगजसाह्वयमस्मदीयं हस्तिनपुरमित्यैकपद्यं वा ॥ ३३ ॥

सुमनोरञ्जिनी

स एतादृशो भवान् । नो ऽस्माकं किञ्चित् श्रेयश्चिकीर्षया गजसाह्वयं गजेन सम आह्वयो नाम यस्य तद् गजसाह्वयं हस्तिनपुरमिति यावत् । गच्छेत्यन्वयः । किं श्रेय इति तदाह । पाण्डवानां जिज्ञासार्थं विचारार्थमिति ॥ ३३ ॥

पितर्युपरते बालाः सह मात्रा सुदुःखिताः ।

आनीताः स्वपुरं राज्ञा वसन्त इति शुश्रुम ॥ ३४ ॥

पदरत्नावली

पितरि पाण्डावुपरते मृते सति मात्रा सह सुदुःखिता शतशृङ्गगिरौ वसन्तः पञ्च बाला राज्ञा धृतराष्ट्रेन स्वपुरं शतशृृङ्गनिवासिभिर् ऋषिभिरानीता इति शुश्रुम ॥ ३४ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे सप्तचत्वारिंशोऽध्यायः ॥

सत्यधर्मीया

पितरि पाण्डावुपरते मृते सति मात्रा सह सुदुःखिता बालाः पञ्च वसन्तः शतशृृङ्गगिराविति शेषः । राज्ञा स्वपुरमानीता ऋषिभिरिति शुश्रुम । वसन्ते इति वसन्तीति शुश्रुम इति वा ॥ ३४ ॥

सुमनोरञ्जिनी

किं विचार्यमित्यत आह ॥ पितरीति ॥ पितरि पाण्डौ । ऋषिभिः पुरं प्रत्यानीताः । राज्ञा सह वसन्ते वसन्तीति ॥ ३४ ॥

तेषु राजाम्बिकापुत्रो भ्रातृपुत्रेषु दीनधीः ।

समो न वर्तते नूनं दुष्पुत्रवशगोऽन्धदृक् ॥ ३५ ॥

सत्यधर्मीया

तेषु पाण्डवेषु भातृपुत्रेषु दीनधीस्तप्तबुद्धिः समो न वर्तते नूनं निश्चयः । तत्र तन्त्रं दुष्पुत्रवशगोऽन्धे दृशौ यस्य स इति । यद्यप्यन्ध इत्येवालं तथाऽपि ‘‘अन्धाः पूर्वोत्तरा-नालोचनपरा’’ इति दृग्ज्ञानं यस्य स इत्यपि सूचनार्थमेवमुक्तमिति ज्ञातव्यम् ॥ ३५ ॥

सुमनोरञ्जिनी

तेषु पाण्डुवेषु । अम्बिकापुत्रः धृतराष्ट्रः समो न वर्तते । स्वपुत्रसाम्येन न प्रवर्तते । दुष्पुत्राणां दुष्टपुत्राणां दुर्योधनादीनां वशगः वशे विद्यमानः सन्नित्यपि शुश्रुम

॥ ३५ ॥

**गच्छ जानीहि तद्वृत्तमधुना साध्वसाधु वा । **

विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत् ॥ ३६ ॥

सत्यधर्मीया

गच्छ, तद्वृत्तं तस्य धृतराष्ट्रस्य तेषु वृत्तमिति वा साध्वसाधु वा जानीहि । अधुना गतात्त्वत्तस्तथाऽऽगताद्विज्ञाय ज्ञात्वा सुहृदां शं यथा भवेत्तथा विधास्यामः ॥ ३६ ॥

सुमनोरञ्जिनी

तद्वृत्तं तेषां पाण्डवानां राज्ञो वा वृत्तं वर्तनम् । अस्माभिः श्रुतं साधु वा असाधु वा जानीहि । सुहृदां पाण्डवानां शं सुखम् ॥ ३६ ॥

इत्यक्रूरं समादिश्य भगवान् हरिरीश्वरः ।

सङ्कर्षणोद्धवाभ्यां वै ततः स्वभवनं ययौ ॥ ३७ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे सप्तचत्वारिंशोऽध्यायः ॥

सत्यधर्मीया

भगवान् हरिरीश्वरः । अनेन लोकरीतिरियमिति ध्वनयामास । अक्रूरमिति समादिश्य सङ्कर्षणोद्धवाभ्यां सह स्वभवनं ततो ययौ ॥ ३७ ॥

॥ इति श्रीमद्भागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे सप्तचत्वारिंशोऽध्यायः ॥

सुमनोरञ्जिनी

ततो ऽक्रूरभवनात् ॥ ३७ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां सप्तचत्वारिंशोऽध्यायः ॥