२१ षट्चत्वारिंशोऽध्यायः

ततस्ताः कृष्णसन्देशैर्व्यपेतविरहामयाः

॥ अथ षट्चत्वारिंशोऽध्यायः ॥

श्रीशुक उवाच—

ततस्ताः कृष्णसन्देशैर्व्यपेतविरहामयाः ।

उद्धवं पूजयाञ्चक्रुर्ज्ञात्वा स्निग्धमधोक्षजे ॥ १ ॥

पदरत्नावली

व्रजौकसां भक्त्युद्रेक एव प्रतिपाद्यतेऽस्मिन्नध्याये । तत्रादौ वासुदेवैकबुद्धावुद्धवे पूजितेऽजित एव सम्पूजितो भवतीति बुद्ध्या गोप्यस्तं पूजयन्ति स्मेति वक्ति तत इति । व्यपेतो नष्टो विरहोत्पन्न आमयो रोगो यासां तास्तथा ॥ १ ॥

सत्यधर्मीया

उद्धवस्तद्भक्तिं निशाम्य चित्रचेतस्क एवं ताः स्तुवन् दिनानि कानिचिद्गमयित्वा मधुरामगादित्यादि कथ्यतेऽस्मिन्नध्याये । तत्रादौ गोपीकृतसत्कारमुद्धवस्य वक्ति शुक इति वक्ति ॥ श्रीशुक इति ॥ व्यपेतो नष्टो विरहजनित आमयो रोगो यासां ता अधोक्षजे स्निग्धं स्नेहसहितं भक्तमिति ज्ञात्वा । अनेनास्मिन् पूजितेऽजितः पूजितो भवतीति तासां भावो ध्वन्यते ॥ १ ॥

सुमनोरञ्जिनी

उद्धवस्य भक्तिं निरूपयत्यस्मिन्नध्याये । तत्र तावत्प्रसक्तां कथां समापयति । व्यपेतः विरहामयः विरहज्वरो याभ्यस्ता गोप्यः । अधोक्षजे । स्निग्धं भक्तियुक्तं ज्ञात्वा ॥१॥

उवास कतिचिन्मासान् गोपीनां विनुदन् शुचः ।

कृष्णलीलाकथा गायन् रमयामास गोकुलम् ॥ २ ॥

पदरत्नावली

विनुदन् परिहरन् । कृष्णस्य लीला यासु ताः कथा गायन् ॥ २ ॥

सत्यधर्मीया

कृष्णस्य लीला यासु ताः कथा गायन् गोपीनां शोकान्विनुदन्परिहरन्गोकुलं रमयामास ॥ २ ॥

सुमनोरञ्जिनी

विनुदन् परिहरन् । कृष्णस्य लीलाविषयिण्यः कथाः । रमयामास सुखयामास ॥ २ ॥

यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत् स उद्धवः ।

व्रजौकसां क्षणप्रायाण्यासन् कृष्णस्य वार्तया ॥ ३ ॥

पदरत्नावली

अवात्सीद् उवास । तावन्त्यहानि सुभक्तिभारेण क्षणप्रायाण्यासन् ॥ ३ ॥

सत्यधर्मीया

तावन्त्यहानि सन्तोषातिशयेन क्षणप्रायाणि तत्सदृशान्युत्सवभूयिष्ठानि वा

॥ ३ ॥

सुमनोरञ्जिनी

यावन्ति अहानि दिनानि । अवात्सीद् उवास । तावंति कृष्णवार्तया क्षणप्रायाणि क्षणतुल्यानि ॥ ३ ॥

सरिद्वनगिरिद्रोणीर्वीक्षन् कुसुमितान् द्रुमान् ।

कृष्णं संस्मारयन् रेमे हरिदासो व्रजौकसाम् ॥ ४ ॥

पदरत्नावली

द्रोणी सानुविशेषः । हरिदास उद्धवः ॥ ४ ॥

सत्यधर्मीया

सरिद्वनगिरिद्रोणीर्वीक्षन्वीक्षमाणः । कृष्णं संस्मारयन्रेम इति सरलः पाठः । कृष्णक्रीडाः स्मरन्निति पाठे व्रजौकसां तैः सह कृष्णक्रीडां स्मरन् रेम इत्यन्वयः ॥ ४ ॥

सुमनोरञ्जिनी

सरितो वनानि गिरिद्रोणीः पर्वतनिम्नप्रदेशान् । तत्र तत्र । कुसुमितान् द्रुमांश्च वीक्षन् । तत्सर्वं व्रजौकसां गोपगोपीनां या कृष्णेन सह क्रीडा तस्याः समं योग्यं मत्वा । रेमे सुखितोऽभूत् । व्रजौकसां गोपीनां या क्रीडा तस्याः समं यथा भवति तथा । स्वयमप्यन्याभिः रेमे इति च ॥ ४ ॥

दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम् ।

उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ ॥ ५ ॥

पदरत्नावली

कृष्णावेशेनात्मनो मनसो विक्लवं क्लैब्यं दृष्ट्वा ॥ ५ ॥

सत्यधर्मीया

एवमादि कृष्णावेशात्मविक्लवं कृष्णावेशेन निवेशेनात्मनो मनसो विक्लवं क्लैब्यं दृष्ट्वा परमप्रीत उद्धवस्ता नमस्यन्निदं वक्ष्यमाणं जगौ ॥ ५ ॥

सुमनोरञ्जिनी

एवमादि । कृष्णो आवेशः प्रवेशो यस्य तस्यात्मनो मनसो विक्लवं विवशतां दृष्ट्वा । ता गोपीर् नमस्यन् मनसा नमस्कुर्वन् ॥ ५ ॥

उद्धव उवाच—

एताः परं १तनुभृतां भुवि गोपवध्वो गोविन्द एवमखिलात्मनि रूढभावाः ।

**वाञ्छन्ति यद् भवधियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथा न यत्र **

॥ ६ ॥

पदरत्नावली

भुव्येता गोपवध्वोऽखिलात्मनि पूर्णात्मनि गोविन्दे रूढभावा रूढो दृढनिरूढो भावो भक्तिर्यासां तास् तनुभृतां शरीरधारिणां मध्ये परमुत्तमाः । परमित्यव्ययम् । मुन्यादिषु सत्सु कथमेता एव विशिष्य स्तूयन्ते इत्यत आह वाञ्छन्तीति ॥ भवधियो मङ्गलबुद्धयः संसारोद्विग्न-बुद्धयश्च मुनयो यद् भक्तिलक्षणं मुक्तिसाधनं वाञ्छन्ति । वयं च वाञ्छामः । न त्वेवं प्रभवाम इति यावत् । यत्र ब्रह्मजन्मसु अनन्तस्य हरेः कथा न ततोब्रह्मजन्मभिः किं प्रयोजनम् ॥६॥

सत्यधर्मीया

भुव्येता गोपवध्वो यद्यतोऽखिलात्मनि पूर्णात्मनि गोविन्दे रूढभावा रूढो दृढनिरूढो भावो भक्तिर्यासां तास्तनुभृतां शरीरधारिणां मध्ये । परमित्यव्ययम् । उत्तमा इत्यर्थः । परं तनुभृत इति पाठे सफलजन्मान इत्यर्थः । भवधियो मङ्गलबुद्धयो वाञ्छन्ति । वयमपि वाञ्छामः किं तन्निन्दनं क्रियत इत्यत आह । ब्रह्मजन्मभिश्च किं प्रयोजनम् । यत्र ब्रह्मजन्म-स्वनन्तकथा न तत इति । भवधिय संसारबुद्धय इति वा ॥ ६ ॥

सुमनोरञ्जिनी

तनुभृतां देहिनां मध्ये । एवमुक्तरीत्या । अखिलात्मनि पूर्णात्मनि गोविन्दे । निरूढो ऽतिदृढ इति यावत् । भावो भक्तिर्यासां ता दृढभक्ता एता एवेति यावत् । वयं मुनयश्च यद्भवे येषां गोपीनां भवो जन्म तस्मिन् धीर्बुद्धिर्येषां तथाविधाः सन्तो यद् भक्तिदार्ढ्यमेव वाञ्छन्ति । जन्मान्तरेऽपि गोपी भूत्वैव भक्तिदार्ढ्यं संपादयाम इति वाञ्छन्तीति भावः । उत्तमं ब्रह्मजन्मैवा-पेक्षणीयम् । किमर्थं वैश्यजन्मापेक्षेत्यत आह ॥ किमिति ॥ यत्र येषु जन्मसु अनन्तकथा नास्ति तादृशैर्ब्रह्मजन्मभिः किं न किमपि । यद्वा भवधियः संसारे बुद्धिमन्तः वयं मुनयश्च यद् भक्तिदार्ढ्यम् । वाञ्छन्ति वाञ्छन्त्येव न तु प्राप्तवन्तः । अस्मदादीनामेवंरीतिः का कथाऽन्येषामित्याह ॥ किमिति ॥ यत्र अनन्तस्य कथैव नास्ति तादृशैर्ब्रह्मजन्मभिर् ब्राह्मणैः प्राप्यमिति किं किं वक्तव्यमिति ॥६॥

क्वेमाः स्त्रियो १वनचरीर्व्यभिचारशीलाः कृष्णे क्व चैष परमात्मनि रूढभावः ।

नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच्छ्रेयस्तनोत्यगदराज इवोपयुक्तः ॥ ७ ॥

पदरत्नावली

व्यभिचारशीला अनैकान्तिकस्वभावा वनचरा इमाः स्त्रियः क्व । कृष्णे परमात्मन्येष रूढभावः क्व । अविदुषोऽपि शास्त्रोक्तिमजानतोऽपि अनुभजतो जनस्य साक्षादीश्वरः श्रेयस्तनोति ननु । अज्ञेनापि उपयुक्तः सेवितोऽगदराज औषधश्रेष्ठः श्रेयस्तनोति यथा तथेति

॥ ७ ॥

सत्यधर्मीया

इमाः स्त्रिय वनचरीर्वनचर्यः क्व । ननु च तपोर्थं वनचरणं तासां किन्न भवेदित्यत आह ॥ व्यभिचारशीला अनैकान्तिकस्वभावा इति कृष्णे परमात्मन्येष रूढभावः क्व । अविदुषोऽपि वेदान्तजनिताज्ञानस्यानुभजतो जनस्य साक्षादीश्वरः श्रेयस्तनोति ननु । अनभिज्ञेनापि वैद्येनोपयुक्तोऽगदराजश्चिन्तामण्यादिमात्रागुणानुगुणं श्रेयस्तनोति तथेति ॥ ७ ॥

सुमनोरञ्जिनी

इमाः स्त्रियः क्व, कृष्णे निरूढभावः क्व ? कुत इत्यतो वनचरा इत्यनेन गुरूप-देशादिसाध्यभक्तेः स्वप्राप्तिसाधनत्वज्ञानाभावं सूचयति । व्यभिचारः परपुरुषाभिगमनमेव शीलं स्वभावो यासां ता इत्यनेन ज्ञानप्रतिबन्धकं च सूचयति । तथापि भगवान्, अविदुषोऽपि एतज्जन्मनि शास्त्रेण भक्तिर्भगवत्प्राप्तिसाधनमित्यजानतोऽपि । अनुभजतः स्वभावादेव भक्तिं कुर्वतः पुंसः । साक्षात्स्वयम् । श्रेयः स्वप्राप्तिलक्षणं श्रेयस् तनोति प्रयच्छति । तत्र दृष्टान्तः ॥ गदराज इति ॥ गदराजः रोगपरिहारकौषधविशेषः विघ्नराज इतिवत् । उपयुक्तः सेवितः यथा श्रेय आरोग्यं तनोति न तु रोगिणस्तद्ज्ञानमपेक्षत इति । नन्वित्यनेन यमेवैष वृणुते । भक्त्या त्वनन्यया लभ्य इति श्रुतिस्मृती सूचयति ॥ ७ ॥

नायं श्रियो ननु नितान्तरतेः प्रसादः स्वर्योषितां च ललिताङ्गरुचां कुतोऽन्याः ।

रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठलब्धाशिषां य उदगाद् व्रजवल्लवीनाम् ॥ ८ ॥

पदरत्नावली

रासोत्सवे रासक्रीडोत्सवेऽस्य कृष्णस्य भुजदण्डैर्गृहीतकण्ठाश्च लब्धा आशि-षश्च सुरतसुखोद्बोधकशुभवाक्यप्रबन्धाश्च याभिस्तास्तासां व्रजवल्लवीनां व्रजस्य गोपीनामुपरि यः प्रसाद उदगादयं प्रसादो नितान्तरतेः श्रियस्तथा ललिता मनोज्ञाऽङ्गस्य रुग् यासां तासां ललिताङ्गरुचां स्वर्योषितां स्वर्गाङ्गनानां च न । ईदृशप्रसादमन्या वरवर्णिन्यो कुतो लभेरन् । नैवेति यावत् । अत्र तु ‘एकत्रैकस्य वात्सल्यं विशेषाद् दर्शयेद्धरिः । अवरस्यापि मोहाय क्रमेणैवापि वत्सलः’ इति ब्रह्माण्डोक्त्या, तथा ‘कृपानिमित्ता या प्रीतिर्नीचभक्तेषु साऽधिका । आन्तरैव तु या प्रीतिः सा तूच्चेषु यथाक्रमम् । यथा कश्चित् स्वमात्मानं प्रियां पुत्रमथापि वा । अतिहाय कृपायुक्तो भिक्षवेऽन्नं ददात्यपि । कदाचिदेव न पुनः स्वात्मादेः सार्वकालिकम् । योगक्षेमवहत्वं च नित्यं स्वात्मादिषु स्फुटम् । एवमेव परेशस्य भक्तेषु श्रियजादिषु’ इति प्रियविवेकवचनानुसारेण गोपवरवर्णिनीविषयकभगवत्प्रसादोऽवसेयः । मुख्यतो गोपाङ्गनासु सन्निहितया रमयैव साकं भगवतो रासोत्सवस्य सम्प्रवृत्तत्वात् । ‘ऋते रमां जातु ममाङ्गसङ्गयोग्याङ्गना नैव सुरालयेऽपि’ इत्यादेः

॥ ८ ॥

सत्यधर्मीया

रासोत्सवे भुजदण्डैर्गृहीतकण्ठा इति लब्ध आशिषोऽभिलाषो याभिस्ता-स्तासाम् । व्रजवल्लवीनां व्रजस्य गोपीनामुपर्यस्य कृष्णस्य यः प्रसाद उदगादयं प्रसादो नितान्तरतेः सदा तदासक्तायाः स्त्रियः श्रियो रमाया न । शाश्वतिकस्तत्प्रसाद एवमिदानीमेव नेति तात्पर्यम् । सप्तमतात्पर्यादौ वर्णितमनुसन्धेयम् । स्वर्योषितामप्सरसां ललिताङ्गरुचां ललिता मनोज्ञाऽङ्गस्य रुग्यासां तासां न ननु । अन्या योषितः कुतो लभन्ते नेति भावः । उदगादुद्धृतादगाद्गेवर्धनाच्च यः प्रसाद इत्यप्यावृत्त्याऽन्वयो ज्ञेयः । भुजदण्डगृहीतकण्ठलब्धाशिषां व्रजवल्लवीनां यः प्रसादः स नितान्तरतेः श्रिय एव तथा ललिताङ्गरुचां स्वर्योषितां च श्रिय एव । यतोऽयं श्रिय एव ना परमपुरुषोऽन्या वल्लव्योऽप्सरसः कुतस्तत्पात्रं भवेयुरित्यन्तर्भाव उद्धवस्येति ज्ञेयम् ॥ ८ ॥

सुमनोरञ्जिनी

रासोत्सवे अस्य कृष्णस्य भुजदण्डेन गृहीतकण्ठा तत एव लब्धा आशिषो मनोरथा यासां ताश्च । तासां व्रजवल्लवीनां गोपीनां यः प्रसादो ऽनुग्रह उदगाद् उदितः । अयं नितान्तरतेः श्रियः स्वर्योषितां च नेत्यर्थः । अन्याः कुतस्तादृशप्रसादभागिन्यः । रासोत्सवे व्रजवल्लवीनां यः प्रसादः सुखविशेष उदगात् सः श्रियादीनां च नेति वा । रमाया जन्यसुखस्यैव निषेधो ज्ञेयः ॥ ८ ॥

आसामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीनाम् ।

या दुस्त्यजं स्वजनमार्यपथं च हित्वा भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम्

॥ ९ ॥

पदरत्नावली

आसां गोपीनां चरणरेणुजुषां पादपांसून् सेवमानानां वृन्दावने प्ररूढानां गुल्मलतौषधीनां मध्ये किमपि स्यामुद्भवेयम् । या गोप्यो दुस्त्यजं स्वजनमार्यपथं च नियतस्वभर्तृ-सङ्गविषयकस्मार्तमार्गं च हित्वा श्रुतिभिर्विमृग्यां मुकुन्दपदवी भेजुरासामित्यन्वयः ॥ ९ ॥

सत्यधर्मीया

स्वयं तासां भक्तिं दृष्ट्वोत्तेजयितुं ताः पारोक्ष्यतस्तद्दास्यं स्वस्य नाना-प्रकारेणाशास्ते त्रिभिः श्लोकैरुद्धव इत्यभिधत्ते ॥ आसामिति ॥ आसां गोपीनां चरणरेणुजुषां पादधूलीः सेवमानानां वृन्दावने तदवनौ गुल्मलतौषधीनां मध्ये किमपि गुल्मादि किमप्येकतमं स्याम् । किं तच्चरणरेणुमाहात्म्यामित्यतस्ता एवं महानुभावा इत्याह ॥ या इति ॥ दुस्त्यजमभिमते-स्त्यक्तुमशक्यं स्वजनं हित्वा यथाऽऽर्यपथमार्याणां पन्थाः पत्या नियत्या सार्धमर्धाङ्गिन्या वर्तितव्यमिति यः स आर्यपथस्तं मृहित्वा श्रुतिभिर्विमृग्यां मुकुन्दपदवीं भेजुर्या आसामित्यन्वयः । अहो नीचानामाभीरभामिनीनामिदं च चित्रमिति ॥ ९ ॥

सुमनोरञ्जिनी

अहम् आसां गोपीनां चरणरजोजुषां पादरजःस्पर्शवतां गुल्मलतौषधीनां मध्ये किमपि गुल्मादिकं स्याम् ? किं तासां माहात्म्यमित्यत आह ॥ या इति ॥ याः स्वजनं भर्त्रादिकम् । आर्यपथं भर्तृसङ्गादिरूपार्यमार्गं हित्वा । श्रुतिभिर्वेदैरपि विमृग्यां मार्गणीयां मुकुन्दपदवीं मुकुन्दस्य हरेः प्रापकं मार्गं भेजुः । अहो अमीषां किं पूर्वार्जितं स्यादिति ॥ ९ ॥

या वै श्रियाऽर्चितमजादिभिराप्तकामैर्योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम् ।

कृष्णस्य तद्भगवतश्चरणारविन्दं न्यस्य स्तनेषु विजहुः परिरभ्य तापम्

॥ १० ॥

पदरत्नावली

आप्तकामैः सत्यसङ्कल्पैः । ‘आप्तस्त्वात्मीयविश्वस्तसत्याधिकहितेषु च’ इत्युत्पलमाला । योगेश्वरैः सनकादिभिरपि आत्मनि हृदयेऽर्चितं यत् तत् कृष्णस्य भगवतश्चरणार-विन्दं रासगोष्ठ्यां स्तनेषु न्यस्य किञ्चाङ्गं परिरभ्य तापं या विजहुरासामिति पूर्वेणान्वयः ॥१०॥

सत्यधर्मीया

श्रियाऽर्चितं ब्रह्मादिभिश्चार्चितम् । आप्तकामैरिति योग्यान्वयि । योगेश्वरैर्योगेनैवेश्वरा राजान इति वा योगवदधिकैर्जनकादिभिर्वा सनकादिभिरात्मनि हृदयेऽर्चितं यत्तत्कृष्णस्य भगवतश्चरणारविन्दं रासगोष्ठ्यां स्तनेषु न्यस्य किञ्च परिरभ्य चाङ्गं, तापं या विजहुरासामित्यतीतेन वोत्तरेण वाऽन्वयः ॥ १० ॥

सुमनोरञ्जिनी

या गोप्यः श्रिया । आप्तकामैः पूर्णकामैर् ब्रह्मादिभिर् योगेश्वरैर् योगप्रभावलब्धैश्वर्यवद्भिः । आत्मनि हृदये अर्चितं भगवतश्चरणारविन्दं, रासगोष्ठ्यां स्तनेषु स्वस्वस्तनेषु न्यस्य स्थापयित्वा । तापं त्रिविधसन्तापं जहुः । आसामिति पूर्वेणान्वयः ॥ १० ॥

वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः ।

यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ॥ ११ ॥

पदरत्नावली

हरिकथाया उद्गीतं गानम् ॥ ११ ॥

सत्यधर्मीया

यासां हरिकथाया उद्गीतं गानं भुवनत्रयं पुनाति तासां नन्दव्रजस्त्रीणामभीक्ष्णशः पादरेणूनहं वन्दे शिरसा वहामि स्तौमि च ॥ ११ ॥

सुमनोरञ्जिनी

नन्दव्रजे विद्यमानस्त्रीणां पादरेणुं, अभीक्ष्णशः पुनः पुनरपि वन्दे नमामि स्तौमि वा । कुतः । यासां हरिकथासहितमुद्गीतम् । यद्वा यद्विषयकं हरिकथासहितमुद्गीतं स्तोत्रम् । भुवनत्रयं पुनाति ॥ ११ ॥

श्रीशुक उवाच—

अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च ।

गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम् ॥ १२ ॥

पदरत्नावली

यास्यन्, मधुरामिति शेषः ॥ १२ ॥

सत्यधर्मीया

चाद्यशोदां नन्दमप्यनुज्ञाप्येत्यन्वयः सूच्यते । यास्यन्मधुराम् ॥ १२ ॥

सुमनोरञ्जिनी

अनुज्ञाप्य तासामनुज्ञां गृहीत्वा । आमन्त्र्य गमिष्यामीति सम्भाव्य ॥१२॥

तं निर्गतं समासाद्य नानोपायनपाणयः ।

नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः ॥ १३ ॥

सुमनोरञ्जिनी

राज्ञे निवेदनीयनानाविधोपायनपाणयः ॥ १३ ॥

मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रयाः ।

वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रवणादिषु ॥ १४ ॥

पदरत्नावली

नोऽस्माकं मनसो वृत्तयो व्यापाराः कृष्णपादाम्बुजाश्रयाः स्युः । नो वाचः कृष्णस्य नाम्नामभिधायिनीरभिधायिन्यः स्युः । नः कायस्तस्य प्रवणादिषु नमस्कारादिषु स्यात्

॥ १४ ॥

सत्यधर्मीया

पारवश्यादिदं च व्यापारं गोपानां वदति ॥ मनस इति द्वाभ्याम् ॥ अस्माकं नो मनसो वृत्तयो धर्माः कृष्णपादाम्बुजाश्रयाः स्युः । नो वाचः कृष्णनाम्नामभिधायिनी-रभिधायिन्य उच्चारयन्त्यः स्युः । कायस्तत्प्रवणादिषु तन्नमस्कारादिषु स्यात् ॥ १४ ॥

सुमनोरञ्जिनी

नो ऽस्माकं मनोवृत्तयः मनोव्यापाराः कृष्णस्य पादाम्बुजविषयाः स्युः । वाचः वागिन्द्रियाणि कृष्णस्य नाम्नामभिधायिनीर् उच्चारयित्र्यः स्युः । कायः देहस् तत्प्रवणादिषु तन्नमस्कारादिषु स्यादित्यन्वयः ॥ १४ ॥

कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया ।

मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे ॥ १५ ॥

पदरत्नावली

कर्मभिर्जन्मान्तरसञ्चितैर्नानायोनिषु भ्राम्यमाणानाम् । न तेषां स्वातन्त्र्य-मित्याशयेनाहुर् ईश्वरेच्छयेति ॥ यत्र क्वापि मङ्गलाचरितैस्तथा दानैः सद्भ्यो द्रव्यवितरणैः कृष्णे ईश्वरे नो रतिर्भक्तिः स्यात् ॥ १५ ॥

सत्यधर्मीया

कर्मभिर्जन्मान्तरसञ्चितैर्भ्राम्यमाणानां नानायोनिषु । न तेषां स्वातन्त्र्यं चेतनानामचेतनानां वेति वेदयितुमीश्वरेच्छया मुख्ययाऽमुख्यैः कर्मभिरित्युक्तिः । तत्रापि यत्र क्व च मङ्गलाचरितैस्तथा दानैः सद्भ्यो वित्तवितरणैः कृष्णे इश्वरे नो रतिर्भक्तिः स्यात् ॥ १५ ॥

सुमनोरञ्जिनी

न केवलमेतज्जन्मन्येवं किन्तु जन्मान्तरेऽपि कृष्ण एव रतिः स्यादित्याहुः ॥ कर्मभिरिति ॥ कर्मभिस् तदुद्बोधकेश्वरेच्छया च भ्राम्यमाणानां नानायोनिषु परिभ्रमतामस्माकं यत्र क्वापि जन्मनि यानि मङ्गलाचरितानि सुकर्माणि दानानि वा तैर् निमित्तैः कृष्णे रतिः स्यादिति ॥१५॥

एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप ।

उद्धवः पुनरागच्छन्मधुरां कृष्णपालिताम् ॥ १६ ॥

पदरत्नावली

पुनः सभाजितः पूजितः ॥ १६ ॥

दुर्घटभावदीपिका

पुनरित्यस्य सभाजित इत्यनेनान्वयः । एतेन वृन्दावनान्मधुरां प्रत्यागमनस्या- वृत्तेरभावात्पुनरागच्छदिति कथनमनुपपन्नमिति दूषणं प्रत्युक्तम् । पुनःशब्दस्य सभाजित इत्यनेनान्वय-मभ्युपेत्य पुनः सभाजित इत्युच्यत इत्यूरीकरणात् ॥ १६ ॥

॥ इति श्रीभागवतटिप्पण्यां श्रीसत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे षट्चत्वारिंशोऽध्यायः ॥ १०-४६ ॥

सुमनोरञ्जिनी

एवं गोपैः कृष्णे या भक्तिस् तया निमित्तया सभाजितः पूजितः ॥१६॥

कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसाम् ।

वासुदेवाय रामाय राज्ञे चोपायनान्यदात् ॥ १७ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे षट्चत्वारिंशोऽध्यायः ॥

पदरत्नावली

राज्ञे उग्रसेनाय च सत्तान्युपायनान्यदात् ॥ १७ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे षट्चत्वारिंशोऽध्यायः ॥

सत्यधर्मीया

एवमित्यनेनैवमुद्धव दयां कुरु यथाऽस्माभिर्मनसो वृत्तय इत्याद्याशंसितं स्यात्तथेति सूचयति ॥ सभाजितः पूजितः । कृष्णाय उग्रसेनाय चोपायनानि दत्तान्यदात् ॥१६,१७॥

॥ इति श्रीमद्भागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे षट्चत्वारिंशोऽध्यायः ॥

सुमनोरञ्जिनी

भक्त्युद्रेकः भक्त्युत्कर्षः । राज्ञे उग्रसेनाय ॥ १७ ॥

॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां (गूढकर्तृकायां)

सुमनोरञ्जन्यां षट्चत्वारिंशोऽध्यायः ॥