तं वीक्ष्य कुष्णानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम्
॥ अथ पञ्चचत्वारिंशोऽध्यायः ॥
श्रीशुक उवाच—
तं वीक्ष्य कुष्णानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम् ।
पीताम्बरं पुष्करमालिनं लसन्मुखारविन्दं परिमृष्टकुण्डलम् ॥ १ ॥
पदरत्नावली
गोपस्त्रीणां व्यामोहोक्तिभङ्ग्याऽपि श्रीकृष्णैकभक्तिं निरूपयत्यस्मिन्नध्याये । तत्रादौ गोपानामुद्धवदर्शनाद् हृष्टमनसां प्रश्नप्रकारं वक्तुमाह तं वीक्ष्येति ॥ परिमृष्टे निष्टप्ताष्टापदवद् द्योतमाने कुण्डले यस्य तम् ॥ १ ॥
सत्यधर्मीया
गोपस्त्रीव्याजोक्तिरप्यव्याजभक्तिपूर्विकेति निरूपयत्यस्मिन्नध्याये । तत्रादौ तासामुद्धवदर्शनात्सोद्धवानां प्रश्नप्रकारं वक्तुमाह ॥ तं वीक्ष्येति । व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनं पीताम्बरं पुष्कराणां मालाऽस्तीति तं लसन्मुखारविन्दं यस्य स तं परिमृष्टे निष्टप्ताष्टपदवद्द्योतमाने कुण्डले यस्य तम् । एतद्विशेषणैस्तत्किङ्करीभवनयोग्यताऽस्य ध्वन्यते ॥ १ ॥
सुमनोरञ्जिनी
भगवति भक्तिः कार्येत्युक्तम् । भक्तिर्नाम स्वात्मात्मीयसमस्तवस्तुभ्योऽनेक गुणाधिकोऽन्तरायसहस्रेणाप्यप्रतिबद्धनिरन्तरप्रेमप्रवाह एव । तस्य चासम्भावनाशङ्कामपाकर्तुं गोपस्त्रीनिष्ठां निरन्तरां प्रेमपरंपरां प्रदर्शयति तद्व्यामोहोक्त्यनुवादव्याजेनास्मिन्नध्याये । तत्रादौ गोपस्त्रीणामुद्धवदर्शनं तेन सह संवादं च दर्शयति ॥ तमित्यादिना ॥ प्रलम्बौ बाहू यस्य तम् । नवकंजे इव लोचने यस्य । पीतमम्बरं परिधानीयं यस्य तम् । पुष्कराणां कमलानां माला यस्य । प्रशंसायामिनिः । परिमृष्टे निर्णिक्ते द्योतमाने इति यावत् कुण्डले यस्य तम् उद्धवं वीक्ष्य ॥ १ ॥
सुविस्मिताः कोऽयमतीवदर्शनः कुतश्च कस्याच्युतवेषभूषणः ।
इति स्म सर्वाः परिवव्रुरुत्सुकास्तमुत्तमश्लोकपदाम्बुजाश्रयम् ॥ २ ॥
पदरत्नावली
अतीवशब्दः प्राशस्त्यार्थे । अतीव प्रशस्ततमं दर्शनं यस्य स तथा । कुत आगतः कस्य किं सम्बन्धी । अच्युतस्येव वेषो भूषणानि च यस्य स तथा ॥ २ ॥
दुर्घटभावदीपिका
अतीवदर्शन इत्यस्यातीवमत्यन्तमखण्डं दर्शनं यस्य सोऽतीवदर्शन इत्यर्थः । एतेनातिसुखकरदर्शन इति वक्तव्यमतीवदर्शन इत्यनुपपन्नमिति चोद्यं परास्तम् । अत्यन्तत्ववाचके-नातीवशब्देन दर्शनस्याखण्डत्वोक्त्याऽर्थाद्दर्शनस्य सुखकरत्वलाभात् ॥ २ ॥
सत्यधर्मीया
अतीवदर्शनोऽतीवेति निपातोऽखण्डः प्रशस्त्यर्थेऽतीव प्रशस्ततमं दर्शनं यस्य सः । कुत आगतः कस्य किंसम्बन्धी । अच्युतस्येव वेषो भूषणानि च यस्य सोऽयं क इति सर्वाः सुविस्मिता उत्सुका उदन्तश्रवणसमुत्सुका उत्तमश्लोकपदाम्बुजाश्रयं तं वेषभूषादिभिस्तथोहितं परिवव्रुः ॥ २ ॥
सुमनोरञ्जिनी
सुविस्मिताः सञ्जातविस्मयाः सत्यो अयं, अतीव दर्शनः दृश्यत इति दर्शनः दर्शनीय इत्यर्थः । तत्रापि अच्युतस्य कृष्णस्येव वेषभूषणानि यस्य स एवंविधः कः, कुतो देशादागत इति ब्रुवन्त्यः । ज्ञातुमिच्छायां त्वराद्योतकं द्विर्वचनम् । सर्वा गोप्य उत्तमश्लोकस्य पदाम्बुजे आश्रयो यस्य तं हरिभक्तमित्यर्थः । तं परिवव्रुः परितो वलयाकारेण स्थिता इत्यर्थः
॥ २ ॥
तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः ।
रहस्यपृच्छन्प१रिविष्टमासने विज्ञाय सन्देशहरं रमापतेः ॥ ३ ॥
पदरत्नावली
प्रश्रयेण भक्त्या । प्रियं सत्यं च सूनृतम्’ इति स्मृतिः ॥ ३ ॥
सत्यधर्मीया
प्रश्रयेण भक्त्याऽवनताः । सव्रीडहासेक्षणसूनृतादिभिः प्रियं सत्यं च सूनृतमित्यादेर्यथार्थवाग्भिः प्रियवाग्भिर्वा सुसत्कृतमासने स्वदत्ते परिविष्टं रमापतेः सन्देशहरं विज्ञाय रहस्येकान्तेऽपृच्छन् ॥ ३ ॥
सुमनोरञ्जिनी
रमापतेः कृष्णस्य सन्देशहरम् आज्ञाधारकं विज्ञाय । प्रश्रयेण विनयेन अवनता नम्राः । सव्रीडहासेक्षणे सूनृतानि प्रियवचनानि । प्रियं सत्यं च सूनृतमित्यभिधानात् । आदिशब्दे-नार्घ्यादीनि तैः सु सत्कृतम् । रहसि, आसने परिविष्टमुपविष्टम् । अपृच्छन् प्रश्नवचनम् अब्रुवन्
॥ ३ ॥
गोप्य ऊचुः—
जानीमस्त्वां यदुपतेः पार्षदार्यमनुव्रतम् ।
भर्त्रेह प्रेषितः पित्रोर्भवान् प्रियचिकीर्षया ॥ ४ ॥
पदरत्नावली
पार्षदार्यं भृत्यश्रेष्ठम् । अनुव्रतं सदा तदनुचरम् ॥ ४ ॥
सत्यधर्मीया
सेर्ष्यप्रेमनिर्भरचित्ताः प्रियप्रेषितत्वं निश्चित्यात्मानमतद्विषयीकृत्य कृत्यान्तर-मेवोत्प्रेक्ष्याप्राक्षुरुद्धवमित्याह ॥ गोप्य इति । यदुपतेः पार्श्वदेष्वार्यस्तं प्रेष्यप्रमुखम् । अनुव्रतं सदा तदनुचरं त्वां वयं जानीमः प्रायः भवान् भर्त्रा स्वामिना पित्रोर्यशोदानन्दयोः प्रियचिकीर्षयेह प्रेषितः ॥ ४ ॥
सुमनोरञ्जिनी
किमब्रुवन्निति तदाह ॥ जानीम इत्यादिना । त्वां यदुपते पार्षदेषु भृत्येषु आर्यं श्रेष्ठम् । अनुव्रतम् अनुकूलम् । जानीमः । स भवान्, पित्रोर् यशोदानन्दयोः प्रियचिकीर्षया । भर्त्रा स्वामिना श्रीकृष्णेन प्रेषित इत्यपि जानीमः ॥ ४ ॥
अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे ।
स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ॥ ५ ॥
पदरत्नावली
अन्यथा पित्रोः प्रियकरणेच्छामन्तरेण स्मरणीयं स्मरणयोग्यं किञ्चिन्न चक्ष्महे न पश्यामः ॥ ५ ॥
सत्यधर्मीया
अन्यथा पित्रर्थं न प्रेषणं चेत् । गोव्रजे । स कीचकैर्मारुतपूर्णरन्ध्रैरित्यादि-वद्व्रजपदं स्थानमात्रवाचीति गोस्थाने गोष्ठ इति यावदिति केऽपि । तत्स्मरणीयं रमणीयं किञ्चिन्न चक्ष्महे । पश्यामः । गवां व्रजः समूहो यत्र तस्मिन्नित्यपरे । तस्य स्मरणीयं व्रजे न च चक्ष्महे अन्यथा सति पित्रादिकं विना रमणीये स्मरणीये नेति वदन्ति । नास्माकं मिथ्यावादित्वेनागोऽपराधः स्यादित्यन्वयो वा । तस्य तत्सम्बन्ध्यागो व्रजेऽस्मत्समूहे स्यादिति वा । आगो मन्तुरिति गतम् । पित्रादिरपि कृत्याभावाद्भामिन्यः कुतः स्मरणीयतेत्यतः कैमुत्येन तद्दुस्त्यजतामावेदयति । स्नेहानुबन्धो मुनेरपि दुस्त्यजः सन्न्यासिनो दुस्त्यजः कथा का कन्याशिनः कृष्णस्येति ॥ ५ ॥
सुमनोरञ्जिनी
अन्यथा यशोदानन्दयोः प्रियचिकीर्षाभावे । अन्यथा यशोदानन्दौ विहाय गवां व्रजः समुदायो यस्मिंस्तस्मिन् । तस्य स्मरणीयं स्मारकं स्मरणयोग्यं वा वस्तु । न चक्ष्महे न पश्यामः। गोव्रजे इति नन्दयशोदे विहाय अन्यान् पशुप्रायान् मन्यते । कथं स्मरतीति सेर्ष्या कोपोक्तिः । युक्तं च तत्स्मरणमित्याहुः । बन्धूनां यः परस्परं स्नेहानुबन्धः बन्धुत्वप्रयुक्तः स्नेहानुबन्ध इति भावः ॥ ५ ॥
अन्येष्वर्थकृता मैत्री यावदर्थविडम्बना ।
पुम्भिः स्त्रीषु कृता यद्वत् सुमनस्स्विव षट्पदैः ॥ ६ ॥
पदरत्नावली
अन्येषु पित्रादिव्यतिरिक्तेषु मैत्री अर्थकृता प्रयोजननिबद्धा । अत्र निदर्शनमाहुर् यावदर्थेति । यद्वद् यथा पुम्भिः कृता मैत्री यावदर्थं प्रयोजननिष्पत्तिपर्यन्तं विडम्बनमनुकरणं यस्याः सा तथा । इममर्थं दृष्टान्तान्तरेण द्रढयन्ति सुमनस्स्विति । षट्पदैर् भ्रमरैः ॥ ६ ॥
सत्यधर्मीया
अन्येषु पित्रादिव्यतिरिक्तेषु मैत्री यावदर्थविडम्बना यावदर्थं प्रयोजननिष्पत्ति-पर्यन्तं विडम्बनमनुकरणं यस्याः सा स्वप्रयोजनानन्तरं पुनर्न स्मरतीति यावत् । तत्र निदर्शनं स्वानुभूतमन्यापदेशेन वदन्ति ॥ पुम्भिरिति ॥ अनेन प्रातिस्विकमेकामेकामुद्दिश्यैवैकमेकमाकारं स्वीकृतवन्तं भगवन्तं कटाक्षयन्तीति ध्वनिः । पुरुषैः स्त्री यद्वदर्थकृता तथेति । केचित्काश्चिल्लक्षीकृत्य प्राक्तनीस्त्यजन्ति । केचिच्च विरक्तास्त्यजन्तीत्यनिर्णयरत्यस्वरसादन्या दृष्ट्वा त्यजन्तीति । एतदनुरूपं दृष्टान्तान्तरमाहुः । सुमनस्सु पुष्पेषु षट्पदैर्भ्रमरैरिवेति । अर्थान्नापराध आचरितोऽस्माभिर्वयं शोभन मनस्कास्तास्वप्येवं कृतमिति नाथघ्नतां ध्वनयन्ति । सरसं कुसुमान्तरं दृष्ट्वैव पूर्वतरं पुष्पं त्यजन्तो भजन्ति भृङ्गास्तद्वदेते पुमांस इति भावः । सत्यां षट्समयपदतायां प्रतिपाद्यतायामपि तैर्महात्मभिरिमां दशां नीता वयमहोऽस्मद्दौर्भाग्यमिति षट्पदैरित्यनेन ध्वन्यते । स्त्रीषुकृतेति पदमेकं वा । स्त्रीष्विषुभिः पञ्चबाणकृता तत्पीडानिमित्ता मैत्रीति वा ॥ ६ ॥
सुमनोरञ्जिनी
युष्मास्वपि स्नेहानुबन्धसत्वात्कथमुच्यते बन्धूनामिति तत्राहुः । अन्येषु बन्धुव्यतिरिक्तेषु । या मैत्री सा अर्थकृता प्रयोजननिबन्धना । अत एव यावदर्थं प्रयोजनावाप्तिपर्यन्तं विडम्बनम् अनुकरणमात्रं यस्याः सा । मैत्र्या अनुकरणमात्रमेव न तु वस्तुतः । तदपि यावदर्थमेवेति भावः । तत्र दृष्टान्तद्वयमाह ॥ पुंभिः परपुरुषैः स्त्रीषु कृता मैत्री यद्वद् यावदर्थविडम्बना तथा । एवं षट्पदैर् भ्रमरैः सुमनस्सु इव पुष्पेषु मकरन्दावाप्तिपर्यन्तमेव तेषु स्नेहो भृङ्गानां यथा तथेति
॥ ६ ॥
निस्स्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः ।
अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम् ॥ ७ ॥
पदरत्नावली
निस्स्वं वित्तहीनम् । अकल्पं स्वरक्षणादक्षम् । दत्तदक्षिणं यजमानम्
॥ ७ ॥
सत्यधर्मीया
बहुदृष्टान्तैः कृष्णान्तःकरणस्योपलतुलतां ललनाः स्फोरयन्त्यो विरहाग्नि-मस्फोरयन्त्यश्च सन्देशश्रवणालुतया वदन्ति ॥ निःस्वमिति ॥ सकारद्वयं वा स एको वाऽर्थः समः । निःस्वं निर्वृत्तं गणिका वारनार्यः । प्रजा नृपतिमकल्पं स्वरक्षणादक्षमधीतविद्या विनेया आचार्यमुपदेशकं दत्ता दक्षिणा येन तम् । यजमानमृत्विजस्त्यजन्ति ॥ ७ ॥
सुमनोरञ्जिनी
इदं लोके दृष्टमित्याहुः ॥ निःस्वमिति ॥ गणिका वाराङ्गना निःस्वं द्रव्यहीनम् । अकल्पं प्रजापालनादावसमर्थम् । अधीतविद्याः शिष्याः । दत्ता दक्षिणा येन तं यजमानम् ॥ ७ ॥
खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम् ।
दग्धं मृगास्तथाऽरण्यं जारो भुक्त्वा १परस्त्रियम् ॥ ८ ॥
पदरत्नावली
वीतफलं गलितफलम् । प्रणयकोपोद्रेकदर्शनार्थं बहुदृष्टान्तकथनम् ॥ ८ ॥
सत्यधर्मीया
खगा वीतफलं गलितफलं वृक्षम् । अतिथयो भुक्त्वा तद्गृहम् । मृगा दग्धं दावतोऽरण्यम् । यदर्थं निःस्वमित्याद्युक्तिस्तं पक्षमधिक्षिपन्ति ॥ जार इति ॥ जारः परस्त्रियं भुक्त्वा त्यजतीति । एकल एकलां किल संल्लाल्य त्यजञ्जारानरोचत उच्च इत्यस्मभ्यं ह्यस्तनप्रमेयं हा किं कथनीयमित्येकवचनेन ध्वन्यते ॥ ८ ॥
सुमनोरञ्जिनी
वीतफलम् अपगतफलम् । जार उपपतिः । यथायोग्यं वचनव्यत्ययेन यजन्तीत्याकृष्यते । इत्यब्रुवन्नितीतिशब्दाध्याहारेण योज्यम् ॥ ८ ॥
श्रीशुक उवाच—
ददर्श गोपीर्गोविन्दमनोवाग्देहचेष्टितैः ।
कृष्णदूतो व्रजं प्राप्त उद्धवस्त्यक्तलौकिकाः ॥ ९ ॥
पदरत्नावली
गोविन्दगतमनआदिभिस्त्यक्तलौकिकास् त्यक्ता लोकाचाराः पुरुषाग्रतः श्लथि-तदुकूलदृढीकरणादिलक्षणाः क्रिया याभिस्तास्तथा ॥ ९ ॥
सत्यधर्मीया
एवं सुदतीषु वदन्तीषु सद्धवनिमित्तमुद्धवः किं पुरतोऽकरोदित्यत ईरयति शुकः ॥ ददर्शेति ॥ गोविन्दमनोवाग्देहचेष्टितैर्गोविन्दस्य तत्रार्पितत्वेन तत्सम्बन्धीनि मनोवाग्देह-चेष्टितानि तैर्निमित्तैस्त्यक्तलौकिका मुक्तलौकिकव्यापारा व्रजं प्राप्तः कृष्णदूत उद्धवो गोपीर्ददर्शेत्यन्वयः
॥ ९ ॥
सुमनोरञ्जिनी
शुकः परीक्षितं प्रति वक्ति । व्रजं प्राप्त उद्धव एवंभूता गोपीर् ददर्शे-त्यन्वयः । कथंभूताः । गोविन्दे गतमनोवाक्कायवृत्तयः । गोविन्दे इति सप्तम्यन्तपाठे गोविन्दार्थम् । मनसा वाचा देहेन चेष्टितैः क्रियाभिश्च । त्यक्तलौकिकाः परित्यक्तलोकाचाराः ॥ ९ ॥
गायन्त्यः प्रियकर्माणि रुदन्त्यश्च गतह्रियः ।
तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः ॥ १० ॥
पदरत्नावली
गायन्त्यो गायन्तीः । रुद्रन्त्यो रुदतीः ॥ १० ॥
सत्यधर्मीया
गायन्त्यो गायतीर्यानि कैशोरबाल्ययोः प्रियकर्माणि तानि संस्मृत्य रुदतीर्गत-ह्रियो गतलज्जाः ॥ १० ॥
सुमनोरञ्जिनी
तस्य कृष्णस्य । यानि कैशोरबाल्ययोः कृतानि प्रियकर्माणि प्रियाणि सुखा-वहानि कर्माणि । संस्मृत्य संस्मृत्य । गता अपगता ह्रीर् लज्जा यासां तथाविधाः सत्यः । रुदन्त्यो रुदतीर् गायन्त्यो गायन्तीः ॥ १० ॥
काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् ।
प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत् ॥ ११ ॥
पदरत्नावली
प्रियेण कृष्णेन प्रस्थापितं सान्त्वनाय प्रेषितं दूतम् ॥ ११ ॥
सत्यधर्मीया
कृष्णसङ्गमं ध्यायन्ती काचिद्गोपी मधुकरं भ्रमरं दृष्ट्वा प्रियप्रस्थापितं प्रियेण नाथेन प्रस्थापितं सान्त्वनेन स्वप्रियं कर्तुं प्रेषितं वा दूतं कल्पयित्वेदं वक्ष्यमाणमब्रवीदवोचत् । कृष्णसङ्गमं रतिमतीव जनयित्वा निजां विधाय विहाय गत इति कलुषस्य कलुषो वा सङ्गम-स्तमितीर्ष्योक्तिरनेन ध्वन्यते ॥ ११ ॥
सुमनोरञ्जिनी
एवं स्थिते श्रीकृष्णसंगमं ध्यायन्ती मुग्धा काचित् स्त्री दैवादागतं विकसितार-विन्दवृन्देषु मन्दमरंदपाद्मेनारुणायमानश्मश्रुं मंजु गुंजन्तं मधुपं दृष्ट्वा । तं कृष्णप्रस्थापितं दूतमुद्धवं कल्पयित्वा आरोप्य । लब्धावसरा इदं वक्ष्यमाणम् । अब्रवीत् । उद्धवमेव कटाक्षीकृत्य भृङ्ग-मब्रवीदिति यावत् ॥ ११ ॥
गोप्युवाच—
मधुप कितवबन्धो १मा स्पृशास्मान् सपत्न््नयाः कुचविलुलितमालाकुङ्कुमश्मश्रुभिस्त्वम् ।
वहतु मधुपतिस्तन्मानिनीनां प्रसादं यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक्
॥ १२ ॥
पदरत्नावली
यदुसदसि यादवसभायां विडम्ब्यमनुकरणयोग्यम् । ईदृक् स्वामिसमः ॥१२॥
सत्यधर्मीया
हे मधुप अमात्य इति मधुपतोद्धवस्यापि ज्ञेया । मद्यपायिन्निति ध्वनिः । कितवस्य कपटिनो बन्धुः कितवः कृष्णो बन्धुर्यस्येति वाऽस्मान्मा स्पृश न स्पृश । अङ्घ्रिमिति पाठेऽस्मत्सान्त्वनार्थं पादस्पर्शं न कुर्वित्यर्थः । पुनरनन्यजोत्तेजकतयाऽङ्घ्रिं ज्ञानं न स्पृशास्मज्ज्ञान-विषयो न भवेति कटाक्षितोऽर्थः । कोऽपराधो मयाऽऽचारीति रीतिरियमादृतेत्यत आह । सपत्न्या एकाप्रियत्वं प्रेयसः परमानिष्टमित्येकवचनं पुरतस्तु विद्यमानस्थितिकथनमिति बोधयितुम् । तथा रमणस्थितिं वा तन्मानिनीनामिति बहुवचनमिति विशेषोऽवसेयः । मधुरास्थायाः । कुचाभ्यां विलुलिता रतिलव इतस्ततो लोला माला तस्या मालायाः कुचकुङ्कुमं येषां तानि च तानि श्मश्रूणि मुखरोमाणि च तैर्युक्तोऽस्पर्शने हेतुवचनम् । सपत्न्या इत्येकवचनेन नेत्यनुदीर्य मेत्युदीरणेन च या मा लक्ष्मी-स्तस्याः कुचविलुलितमालाकुङ्कुमश्मश्रुभिरञ्चितस्त्वं कितवानां बन्धो येन स त्वमस्मानपि स्पृशाङ्घ्रिं ज्ञानं वा स्पृश सदाऽस्मज्ज्ञानविषयोऽपि भव । त्वां तत्सपत्न्या अन्यं स्त्रीजनं मा स्पृशेति स्वानुमतिमेकत्र ध्वनयति । अननुमतमतेः करणात्कितवतां स्फोरयति । तन्मानिनीनां तन्नगरगाङ्गनानां स्वसत्कारास्पदानामिति ध्वनिः । मधुपतिस्तव स्वामी प्रसादं वहतु । यदुसदसि यादवसभायामेतादृशं मृगदृशं सुन्दरीमहमगममिति वचनानुकरणयोग्यामाभिराभीरभामिनीभिर्ममाङ्गसङ्ग इत्यस्येदानीं मानहानिनिदानतेति ध्वनिः । अस्मदीयं सज्जनम् उसदसि रुद्रसभायां पिशाचभूतायां विडम्ब्य-मनुकरणीयमित्यान्तरङ्गिको भावः ।
यस्य दूतस्त्वमीदृक् स्वामिसमः कितव इत्यतो न तव नाथेन त्वयापि कृत्यं गच्छेति तात्पर्यम् । यस्य दूतस्त्वमपि तादृगिति यद्यपि वक्तव्यं तथाऽपि र्इं लक्ष्मीं सम्पदमेव पश्यतीति ई दृक् दुर्भगाङ्गनावलोको न तवापि संमतमिति ध्वनयितुमीदृगितीदृगुक्तिरिति युक्तिमत्य इति मन्तव्यम् । भृङ्गं भृङ्गे प्रसक्तिमपि केवलमज्ञा अप्येवं कुर्वन्ति किङ्करीणामेतत्सर्वज्ञता किङ्करीति वक्ति ॥ मधुपेति ॥ मधुप प्रागस्मदनुरक्तभृङ्ग सपत्न्याः कुचविलुलितानि मालातः पङ्क्तितो विद्यमानानि कुङ्कुमकुसुमानि जपाकुसुमानि तेन तद्रसो लक्ष्यते । रसरक्तश्मश्रुभिरुपलक्षितस्तथा कितवबन्धो कितवो धुत्तूरपुष्पं स एव बन्धुर्यस्य तत्सम्बुद्धिः । अनेन चित्तभ्रंश सम्भाविततामाचष्टे । कितवो धूर्त उन्मत्तवञ्चके कनकाह्वये । कनकश्चम्पके स्वर्णे किं शुके नागकेसरे । धुत्तूरे काञ्चनारे चेत्युपयुक्ततदुपयुक्तविश्वौ । अस्मान्मा स्पृश । मधुर्वसन्तः पतिर्यस्य स तन्मानिनीनां प्रसादं वहतु वसन्तरूपः सोऽपि यस्य दूतस्तदनुसारतो वर्तमानस्त्वमपीदृक् येषां पुष्पाणामुवाच्यं यत्सदस्तस्मिन् विडम्ब्यमनुकार्यमित्यर्थः । उवाच्ये चापि कुत्सायामिति विश्वः । उत्कृष्टं सद इति वा । यदस्ति तत उच्चत्वाद्यदुरित्यृग्भाष्योक्तेः । भगवत्सभायां विडम्ब्यमिति पारमार्थिकोऽर्थः । यत्कितवो मधुपतिं तत्तस्मान्मानिनीनां न उ सदसि विडम्ब्य प्रसादं विशीर्णतां वहतु पुनरपि ददातु । इयताऽपि न तृप्तिस्तस्येति रुषाऽऽभाषेति भाव इति वा ॥ १२ ॥
सुमनोरञ्जिनी
दूत मधुप त्वमस्मान् मा स्पृश । कुतः । यतः हे कितवबन्धो कितवस्य धूर्तस्य श्रीकृष्णस्य दूतत्वादिति भावः । यतश्चास्मत्सपत्न््नयाः । कुचयोर् विलुलिता लोलायमाना कुचाभ्यां च्युता वा या माला तस्यां लग्नं कुङ्कुमं कुचालिप्तकुङ्कुमं येषु तानि । श्मश्रूणि । श्मनि मुखे श्रयन्त इति श्मश्रूणि मुखालङ्काररोमाणि तैः । यतोऽञ्चितो ऽतः श्मश्रुभिर्मा स्पृशेति वा । भवदतिप्रियेण श्रीकृष्णेन प्रेषितोऽहं किमिति धिक्क्रियत इत्यत आह ॥ वहत्विति ॥ यस्य दूतस्त्वम् ईदृक् अस्मत्सपत्नीकुचकुङ्कुमालङ्कृतः स मधुपतिरपि । तन्मानिनीनां ताश्च ता मानिन्यश्च । ता मधुरापुरवासिन्यो, मानो गर्व आसामस्तीति तथोक्ता गर्विता युवतयस् तासाम् । प्रसादं प्रसन्नताम् । वहतु संपादयतु । कीदृशम् । यदूनां सदसि विडंब्यम् अनुकर्तुं योग्यं, हास्यसमये अनुकरणयोग्यमित्यर्थः । सर्वप्रकारेण तस्मिन्नेवानुरक्तधियोऽस्मान् विहाय अतिगर्वितपौरनारीष्वा-सक्तचित्तस्तत्प्रसन्नीकरण एवोपक्षीणसर्वव्यापारः किं फलमनुभवति तदेवानुभवतु किमस्माभिरिति सेर्षाकोपवचनम् ॥ १२ ॥
सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इव सद्यः कस्त्यजेन्मां भवादृक् ।
परिचरति कथं १तत्पद्मकिञ्जल्कपादमपि बत हृतचित्ता उत्तमश्लोकजल्पैः ॥१३॥
पदरत्नावली
तृष्णाजनकत्वं कथमित्यत उक्तं मोहिनीमिति । मोहकत्वशक्तियुक्तामित्यर्थः । मोहनीमिति पाठे बुद्धिमोहकरीमित्यर्थः । सुमनसस्त्यागहेतुदौर्मनस्यरहिताः । नित्यमुक्ता श्रीरपि त्वां त्यक्तंु न शक्ता किमुत संसारार्णवमग्ना वयं नैव शक्नुयामेत्याशयेनाह परिचरतीति ॥ उत्तमश्लोकस्य हरेर्जल्पैः सुमधुरवचनविशेषैः ॥ १३ ॥
सत्यधर्मीया
तदेव देवकितवत्वं व्यक्तं व्यनक्ति ॥ सकृदिति ॥ सकृदेकवारमधरसुधां स्वां मोहयतीति मोहिनी । ल्युडन्ततया ङीपि पाठः मोहिनी मोहोऽस्या देयत्वे नास्तीति मोहिनीत्यपि । पाययित्वा । तर्हि मनोरथपूर्तिर्जाता किमतोऽपि कैतवं पश्यसीत्यतो रुचिमुत्पाद्यातृप्तायाः पुनरप्राशने कथं न कितवस्तव देव इति बोधयति सकृदित्यनेन । मां सुमनस इव, पुष्पं सकृदेकदैवाघ्राय यथा त्यजन्ति तथा कस्त्यजेत् । स यथोदास्ते त्वमपि तथोदास्येत्यतः श्रीरपि न शक्ता त्यक्तुं कथा काऽस्माकमिति कथयति ॥ भवादृगिति ॥ भवं संसारं न पश्यतीति नित्यमुक्ता रमाऽपि । समना चासृत्युपक्रमादमृतत्वं चानुपोष्य । नित्यमुक्ता इत्यादेर्भवादृग्रमा । तत्पद्मकिञ्जल्कपादं तस्य पद्मकिञ्जल्कवद्विद्यमानः पादस्तं कथं परिचरति कथं सेवते । एवमव्यवस्थितं मत्वा सेवते संसाररहिताऽपि वयं तु सांसारिक्यः कथं कथय त्यक्ष्याम इति भावेनाह ॥ अपीति ॥ अपि किञ्चोत्तमश्लोकस्य जल्पैर्हृतानि चित्तानि यासां तास्तद्व्याहृतहृतचेतसः कथं त्यक्ष्यामो बत खेदे । अपि मधुरीस्था अप्युत्तमश्लोकजल्पैर्हृतचित्ता एवं भवेयुर्बत हर्ष इति वा । पाययित्वा यूयमपि बत किलेति कस्त्वदन्यो निर्घृणस्त्यजेदिति वा । हे अबला बलाद्युष्माभिः पीतं मया प्रीतिपूर्वकं पायितमिति नेत्यप्याह । हे अ भगवन्पिबतेति पाययित्वेति मामिति मदाद्या इत्यर्थः । सुमनस-स्त्यागहेतुदौर्मनस्यरहिता इत्यप्यर्थः । सौन्दर्याभावादित्यपि न त्याज्या इत्याह । सुमवत्तिल-कुसुमवन्नासिका यासां ताः । प्रथमाबहुवचनम् । प्रभृतिग्रहणस्य प्रकारार्थत्वाज्ज्ञापकं त्वत्र ककुद्दोषणी इति भाष्यम् । तदनुगमानीतराङ्गानीति सुन्दरीरिति न स्मरपरवशतेति त्यागः कथमसम्भावित इत्यत आह । ईर्मन्मथो वसत्यास्मिन्स वसन्निति यः यशो यस्य स इव सद्य इति । यं यशो यानयोस्त्यागे वाते यातरि दातरीति विश्वः । इति धार्ष्ण्यादेव देवत्याग इति भावः ॥ १३ ॥
सुमनोरञ्जिनी
कितवबन्धो इत्यनेन सूचितं कृष्णस्य कितवत्वं व्यनक्ति ॥ सकृदिति ॥ यदा अहमुत्तमश्लोकस्य जल्पितैः सम्भाषणैर् हृतचित्ता सती । तस्य पद्मकिञ्जल्कवद् अरुणं पादं परिचरति स्म संवहति स्म तदा एतादृश्या अपि सुमनसो ऽकपटमनसः विश्वस्तचित्ताया इति यावत् । मोहिनी सन्तोषातिशयेन व्यामोहयन्ती स्वां स्वीयाम् अधरसुधाम् । सकृदेकवारं पाययित्वा भवादृगिव त्वादृशभृङ्गः सुमनस इव पुष्पमिव । स्त्रियः सुमनसः पुष्पमित्यमरः । यथा पुष्परसं सकृदेवास्वाद्य विसृजति तद्वन् मां सद्यो ऽस्यामवस्थायाम् । कथं केन प्रकारेण को लोकस् त्यजेत् । बत खेदे । मा इति पाठे मा इति एकोऽस्मच्छब्दः । अपरो लक्ष्मीवाचक आबन्तः । तथा चैवं योजना ॥ मा रमा । तस्य पद्मकिंजल्कपादं परिचरति । उत्तमश्लोकजल्पैर् हृतचित्ता सती याम् अधरसुधाम् अपिबत अपिबत् तामधरसुधां सुमनसोऽस्मान् सकृदेव पाययित्वेति । शेषं पूर्ववत् । यद्वा अन्यथा स्वाम् अधरसुधां सकृदेव पाययित्वा । अनेन स्वस्यातृप्ततां ध्वनयति । कः पुरुषस् त्यजेत् । तत्र दृष्टान्तः सुमनस इव विरक्ता इवेति । यथा विरक्ताः खलु तृप्ता अतृप्ता वा नारीः सद्य एव त्यजन्ति तथेति । एवं स्थिते भवादृक् त्वत्सदृशः पुरुषस् त्वमेवेति यावत् । तस्य पद्मकिंजल्कपादं कथं वा परिचरति । अपि मानिनीनामित्येतद्विपरिणामेनानुवर्तते । मानिन्यो मधुरांगना उत्तमश्लोकस्य कृष्णस्य जल्पैर् मधुरालापमात्रैः कथं हृतचित्ता अभूवन् । अस्माकं वनौकसां चातुर्यहीनानां हृतचित्तता युक्ता । तास्तु अतीव चतुराः कथं परवशा अभवन्निति भावः । बत खेदे । मामिव ता अप्यतृप्ता एव केन निमित्तेन त्यजति । ते तु न विदुरिति मम खेद इति ॥ १३ ॥
किमिह बहु षडङ्घ्रे गायसि त्वं यदूनामधिपतिमगृहाणामग्रतो नः पुराणम् ।
**विजयसखसखीनां गायतां तत्प्रसङ्गः क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः **
॥ १४ ॥
पदरत्नावली
षडङ्घ्रे षट्पद । अगृहाणां न विद्यते गृहं यासां तास्तथा, वनेचराणामित्यर्थः । विजयोऽर्जुनस्तस्य सखा कृष्णस्तस्य सखीनां मधुराङ्गनानामग्रतस्तत्प्रसङ्गः कृष्णवार्ता त्वया गायताम् । तत्र गातुस्तवेष्टसिद्धिरस्तीत्याह क्षपितेति । तत्प्रसङ्गेन क्षपिता निरस्ता कुचानां रुक् सन्तापलक्षणा यासां ता इष्टाः कृष्णप्रिया मधुराङ्गना उद्गात्रे ते इष्टमभीष्टं कल्पयन्ति । तत्प्रसङ्गक्षपितेति पाठे या यदुपतिविषया गीतिस्तां गायेत्यन्वयः ॥ १४ ॥
सत्यधर्मीया
कृष्णविनेयमनुनयनायायातमिव सञ्चारं कुर्वन्तं निरीक्ष्य न तव गानेनात्र लभ्यं तत्र गच्छानच्छे्रष्ठ सिद्धिः स्यादिति वक्ति ॥ किमिति ॥ हे षडङ्घ्रे षट्पद षट्सु कामक्रोधादिष्वङ्घ्रिर्यस्य तत्सम्बुद्धिर्वा । अधः कामादेः । हे उद्धव यदूनामधिपतिं किं बहु यथा तथा । उद्धवसम्बोधनपक्षे ईषदूनः षडङ्घ्रिरिति बहुषडङ्घ्रिः । बहुच्प्रत्ययो वा । तस्य सम्बुद्धिः । नोऽग्रतः पुरतो गायसि । अङ्गनागानयोग्य इति युष्माकं धुरि मया क्रियत इति नेत्याह ॥ अगृहाणां न इति ॥ न विद्यते गृहं यासां तास्तासाम् । सोऽपि निर्जनसदन इत्यतो नेदानीं तथेत्याह ॥ पुराणमिति ॥ पुरे मधुरापुरेऽणतीति स तं यदूनां येन ऊना उज्ज्ञिता तां मां निरीक्ष्य पुराण-मतीतं वृत्तमिह किं बहु गायसीति वा । न त्वत्पुरत आसामग्रत इति न वदता अपि मद्वदयोग्या इत्याह ॥ अगृहाणामिति । मम स्वभावोऽयं न हातुं शक्य इत्यतस्तत्स्थाने स्थानं वदामस्तत्र गच्छ यथेच्छं गायेति वक्ति ॥ विजयसखेति । विजयोऽयं कंसहिंसासादितो जयो विशिष्टस्तस्य सखा तस्य कृष्णस्य सख्योऽधुना मधुनगरीचन्द्रमुख्यस्तासामग्रतस्तत्प्रसङ्गः कृष्णवार्ता त्वया गायताम् । ताश्च क्षपितकुचरुजः क्षपिता कुचानां रुक् तदपीडनजो रोगो यासां ताः श्रुतस्वालिङ्गितकृष्णकथा इति ते इष्टा प्रेमपात्राणि ते इष्टं कल्पयन्ति । गातुस्तवाभिलषितं योषितस्ता ददतीति भावः । विजयोऽर्जुनस्तस्य सखेति विजयसखस्तस्य सखीनामग्रतस्तां कथां त्वं गाय । परस्मैपदे लोट् । तत्प्रसङ्गक्षपितेति पाठे तत्प्रसङ्गेन क्षपिता कुचरुग्यासां ता इति पदमेकं वा । विजयसखसखीनामित्यनेनैष्यज्ज्ञत्वं पुंसखिताविषयेऽस्माकमेवं देवस्तनुयादिति स्वविषये मतिहीनतां ध्वनयति । विजयसखसखीनां गायतामन्येषां भ्रमराणां ते च तत्प्रसङ्ग क्षपितरुज इष्टाः पुनरार्य इष्टं कल्पयन्तीति वा ॥ १४ ॥
सुमनोरञ्जिनी
यदुवरस्य वार्तां वर्णयन्तमुद्धवमेव मनसा लक्षीकृत्य स्वाग्रे खंकुर्वन्तं भ्रमरमुद्दिश्याह ॥ किमिति । हे षडङ्घ्रे भ्रमर त्वम् अगृहाणां गृहरहितानां वनौकसामित्यर्थः । नो ऽस्माकम् अग्रत इहास्मिन्प्रदेशे पुराणं पुरे नगरे अणति चरतीति तथोक्तम् । नो ऽस्माकं पुराणं पुरातनम् । इदानीमत्रावर्तमानत्वात् । पुरस्य मधुरायां स्थितस्य जनस्य आ सम्पूर्णः ण आनन्दो यस्मात्तमिति वा । यदुपतिं, किं किमर्थम् । बहु यथा स्यात्तथा गायसि । मदनोद्दीपक-तयाऽस्मत्क्लेशावहत्वाच्च मा गायेति भावः । क्व गातव्यमित्यत आह ॥ विजयेति ॥ विजयोऽ-र्जुनस्तस्य सखा कृष्णस्तस्य सखीनां मधुरांगनानामग्रतः गायतां त्वयेति शेषः । तासामपि मदनोद्दीपकत्वात्तत्पुरतः कथं गेयमित्यत आह ॥ तत्प्रसङ्गेति ॥ तस्य कृष्णस्य प्रसङ्गेन प्रकृष्टाङ्ग-सङ्गेन क्षपिता निरस्ता कुचानां रुक् सन्तापो यासां ताः । उद्दीपितमदनानामपि तच्छामकः श्रीकृष्णांगसङ्गस्तवास्तीति त्वद्ज्ञानं तासामनुकूलमेवेति भावः । कुतस्तदङ्गसङ्गो लभ्यस्तेषामित्यत उक्तम् ॥ इष्टा इति ॥ कृष्णस्येति शेषः। मम किं फलमित्यतस्तवाप्यस्तीत्याह । ते तव इष्टम् ईप्सितम् । कल्पयन्ति कुर्वन्तीत्यर्थः । यद्वा इष्टाः प्रसन्नाः सत्यस्तुभ्यमिष्टं कल्पयन्तीति । गानमात्रेण कथमिष्टं कल्पयन्तीत्यत उक्तम् ॥ तत्प्रसङ्गेति । तस्य कृष्णस्य प्रसङ्गः प्रसक्तिस्तत्कथाकथनमिति यावत् । तेन क्षपिता नाशिता कुचरुक् येन तथाविधस्य ते इत्यर्थः । त्वमपि तासामुपकारक एव । अतस्तवेष्टदानं किं चित्रमिति भावः ॥ १४ ॥
दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः ।
चरणरज उपास्ते यस्य भूतिर्वयं का अपि च कृपणपक्षे १उत्तमश्लोकशब्दः ॥१५॥
पदरत्नावली
कं सुखं पटयति गमयतीति कपटस्तत्सम्बुद्धौ । याः स्त्रियः रुचिरश्चासौ हासश्च तेन सहितो यो भ्रूविजृम्भस्तस्य विषयाः स्युः । भूतिर्महालक्ष्मीर्यस्य हरेश्चरणरज उपास्ते, तदनुग्रहार्थमिति शेषः । भवन्त्योऽपि तथा कुर्वन्त्वित्यत्राह वयमिति ॥ तत्र वयं वनचारिण्यः काः स्याम अपि च कृपणानां दीनानां नः पक्षे उत्तमश्लोकस्य शब्द एव कर्णविषयो न तु वाच्योऽर्थश्चक्षुर्विषय इति यावत् ॥ १५ ॥
सत्यधर्मीया
मन्मथमथितो मधुमथनः स्वत एव स्मृतत्वत्सङ्गः सङ्गरुचिरचिरेणागमिष्यति किं चिन्तया कान्ता इति न वदेति वदन्ति । दिवि स्वर्गे भुवीह रसायां भोगिन्यादिलोके विद्यमानाः स्त्रियः कास्तद्दुरापास्तद्दुष्प्रापाः सर्वा अपि सुमिलास्तस्योपायमुपदिशन्ति ॥ कपटेति ॥ कपटो वक्रो रुचिरश्चासौ हासश्च तेन सहितो भ्रूविजृम्भस्तस्य या यान्तीति पात्र्यः स्युः । ओर्यश्च कपटरुचिर्वस्तुतस्तु नास्मत्सङ्गरुचिता रमारतेरितीरयन्ति ॥ अह आसेति ॥ ओति खेदे । इयमपीयत्कृत्वा लभतेऽस्मत्कथा केति कथयन्ति ॥ भूतिरिति ॥ भूतिर्महालक्ष्मीर्यस्य चरणरज उपास्ते । स्वरतस्य स्वरतिपात्रत्वमात्रघटनायोपासनां करोति । एतादृशे वयं काः किं तनुपत्राण्यपि शृृणु । आगमिष्यतीति वचनं दन्धनमात्रम् । कृपणानां दीनानां नः पक्षे । उत्तमश्लोकस्य शब्दः कृष्णकृष्णेत्यादिरूप एव न तदर्थं प्रत्यक्षसन्धिरित्युत्तरत्र भावीति भावः । तन्नाममात्रोच्चारणं तद्ध्यानमेवानुष्ठेयमहेति वा । अह खेदविषादयोरिति विश्वः । पक्षे उत्तमेत्यत्र सन्ध्यभाव एवैतत्सर्वस्य मूलमिति मन्तव्यम् । हे मधुप कपट तददर्शकत्वाद्रुचिरकथाकथकत्वाद्दिवि भुवि वा चर नास्मत्समीपे । भ्रूविजृम्भस्य याः स्युरिति ताः स्त्रियः का न का अपि । न च दृश्यते तत्र प्रागदर्शि च दर्शनीये सङ्गस्तस्येत्यत आह ॥ सेति ॥ सा रमा यां पश्यति तत्र स्वयमेवासातो वयं तद्दुरापाः स दुरापो दुष्प्रापो याभिस्ता हा लोकावलोकनतोऽपि तन्नास्तीति खेदः । हासेत्याद्यैकपद्ये यां पश्पति तां स्वयमेवोपास्त इत्यन्वयः । यस्य पक्षे हे कृष्ण वयं का अवगमोऽस्ति किम्? भूतिरेवेति चरणरज इव चेति वाऽध्यात्ममन्वयः । स यामुपास्ते सा दिवि भुवि चर का न काऽपि । यस्य भ्रमतस्ते चरणरज एवोपास्ते धूलिधूसरतस्तव चरणे स्यातामिति तादृशी नोपलभ्यतेऽतो वृथा श्रमस्तवेति तात्पर्यम् । वयं सायाङ्काः सायो हि स स एवाङ्को यासां ता इति वा पदोऽस्मत्पक्षसायकवदयमिति भावः । आसायाङ्कमित्यृग्भाष्यटीकाटिप्पणीषु सायङ्करं लयकृज्ज्ञानमेव । षोन्तकर्मणीत्यस्येदं रूपम् । सायमन्तं करोतीति ङ इत्यस्य रूपमिति । अस्माद्भावे घञि आदेच इत्यात्वे युगागमे सायमिति रूपम् ॥ १५ ॥
सुमनोरञ्जिनी
भवतीष्वपि स्नेहपारवश्येनाकलय्य पुनरत्रागमिष्यतीत्यतो रमालालि-तपादपल्लवस्य हरेर् वयं का विषयाः । येनास्मन्निकटमागमिष्यतीति सम्भावयाम इत्याह ॥ दिवीति ॥ दिवि तदुपलक्षितोर्ध्वलोके । भुवि भूलोके । रसायां पाताललोके च याः स्त्रियः स्युस् तासु कपटः भावगर्भितः रुचिरश्च यो हासस् तत्सहितो यो भ्रूविजृम्भः भ्रूविलासो यस्य सस् तत् तस्य कृष्णस्य काः स्त्रियो दुरापाः प्राप्तुमशक्याः । यद्वा याः स्त्रियः कृष्णस्य कपटहासभ्रूविजृंभस्य विषयाः स्युस् तासां मध्ये कास्तद्दुरापास् तस्य कृष्णस्य दुरापा दुष्प्रापा इति । कुत इत्यत उक्तम् । श्रीर् भूतिर् महालक्ष्मीर् यस्य चरणरज उपास्ते सेवते तस्येति । एवंभूतस्य कृष्णस्य वयं काः किंविषया इत्यर्थः। यद्यप्येवम्, अपि तथापि, उत्तमश्लोक इति शब्दो यस्य सः कृष्णः । कृपणानां दीनजनानां पक्षे सहाये तिष्ठति अतः पुनरागन्तेति किञ्चिद्धैर्यमस्तीति भावः । यद्वा यूयमविषयाश्चेत् कुत एतावत्पर्यन्तं भवन्निकटे स्थित इत्यत उक्तम् ॥ कृपणेति ॥ चो यस्मादित्यर्थे । यस्मात्कृपणपक्षे स्थितिः स्वभावः कृपणपक्षपातीति यावत् । अतः कृपणानामस्माकं पक्षेऽन्तिके स्थित इत्यावृत्त्या योज्यम् । पक्षः सहायमरुदन्तिकभित्तिसाध्येत्यभिधानम्
॥ १५ ॥
विसृज शिरसि पादं वेद्म्यहं चाटुकारैरलमनुनयसारैर्याहि १दूत्ये मुकुन्दम् ।
स्वकृत इह विसृष्टापत्यपत्याप्तलोका व्यसृजदकृतचेताः किं नु २सन्धेयमस्य
॥ १६ ॥
पदरत्नावली
परिभ्रमद्भ्रमरचरणयोः स्वमस्तकस्थापितयोः सत्योर् गोपी तमेवमाह विसृजेति ॥ मम शिरसि स्थितं तव पादं विसृज मुञ्च । त्वामहं वेद्मि । चाटुकारैरापातरमणीयै-रनुनयसारैः प्रणयिनीवशीकरणप्रियवचनैरलम् । दौत्ये स्थितस्त्वं मुकुन्दं याहि । किमित्येव क्रोधगर्भवचनं वक्षीत्यत आह स्वकृत इति । स्वकृते स्वनिमित्तं कृष्णार्थमित्यर्थः । विसृष्टापत्य-पत्याप्तलोकास् त्यक्तपुत्रभर्तृबन्धुजना अस्मानिह वने व्यसृजदिति यदतोऽकृतचेता अकृतज्ञ इत्यस्मिन् किं सन्धेयम् ॥ १६ ॥
सत्यधर्मीया
क्रमात्क्रीडता षट्पदेन शिरसि पादस्थापने कृष्णपादं तं ध्वनयन्त्युपात्तकोपा वदति ॥ विसृजेति । शिरसि स्थापितं तव पादं विसृज त्यज निष्कासयेति यावत् । अनेनोद्धवोऽपि कटाक्षितः । त्वामपि कितवदूतत्वात्कितवं वेद्मि । अनुनयसारैः प्रणयिनीप्रणयमेलकालापश्रेष्ठै-श्चाटुकारैरापातप्रियवचनैरलम् । अफलपर्यवसायित्वात् । दूत्ये पुनरपि मुकुन्दं याहि । दौत्ये इति लेखकप्रमादः दूतवणिग्भ्यामिति भावकर्मणोर्यतो यतो विधानम् । किं तव विषये कितवता त्वयाऽदर्शि देवस्येत्यत आहुः ॥ स्वकृते स्वनिमित्तमिति ॥ विसृष्टास्त्यक्ता अपत्यानि पुत्राः पतयो भर्तार आप्तलोका बन्धवश्च याभिस्ता अस्मान्यो व्यसृजत तत्याज । सन्धिं कर्तुमेवायातः, किमायताक्ष्य एवं तर्जनमित्यतः किं दुर्जनेन सन्ध्यार्जनेनेत्याहुः । अकृतचेता अकृतज्ञ इत्यस्यानेन किं सन्धेय-मिति । इह स्वकृतेऽस्मत्कर्मण्येवं विघटके सति हे सन्धे विरहजबाधे पादमित्यनुवर्तते । किं नु नुमः सोऽपीदानिं संयमिनीं नयत्वित्यान्तरङ्गिको भावः । इन्द्रावरुणनूनुवामित्यृग्माष्ये अद्य वां नु नुमो लोप इत्याद्युक्तेर्नु नुम इत्यर्थः । विस्तृतं च स्कन्धान्तरेऽस्माभिर्मन्तव्यम् । सन्धा स्थितौ प्रतिज्ञायां बाधादुःखनिषेधयोरिति विश्वः । शरणीकृतमरणानां न तेन सन्धानकृत्यमिति तात्पर्यम् । अयमस्यासदृशस्य कृष्णस्य हे सन्धे युष्मदायुष्मत्ता यावत्तावन्न यावत्तावन्न त्यक्ष्यामीति प्रतिज्ञे त्वां नु नुमस्त्वया वयं वञ्चिता इति वा । अस्य सन्धा इयं किं नु इति । उद्धवं शिरः-स्थापितस्वाङ्घ्रिं मत्वा निष्कासयेति वदन्तीति वा ॥ १६ ॥
सुमनोरञ्जिनी
कलहान्तरितायाः स्वस्याः सन्धानार्थमागतं मत्वा वक्ति । शिरसि अस्मच्छिरसि । पादं विसृज स्थापय । त्वां नमस्करोमीति यावत् । यद्वा विसृज तद्वार्तां त्यज । पादं शिरसि करिष्यामि नमस्करोमीत्यर्थः । अनुनयसारैर् अनुनयः सांत्वनं सारं प्रधानं येषां तैः सांत्वनमात्रफलैरिति यावत् । चाटुकारैश् चमत्कृतिवचनैः । अलं पर्याप्तम् । त्वं तु दूत्ये नियुक्तः मुकुन्दं प्रति याहि । कुत एतावान् कोप इत्यत आह ॥ स्वकृतेति । यः कृष्णः, स्वकृते स्वनिमित्तम् । विसृष्टास् त्यक्ता अपत्यानि पतय आप्तलोकाश्च याभिस्तथाविधा अपि स्त्रियो व्यसृजत् परित्यक्तवान् । अतो अकृतचेताः कृते उपकारे चेतश् चित्तं यस्य स कृतचेता उपकारज्ञस् तदितरो ऽकृतचेता अकृतज्ञ इत्यर्थः । अस्य एतादृशस्य सन्धेयं किं नु स्यान् न किमपीत्यर्थः ॥ १६ ॥
मृगयुरिव कपीन्द्रं विव्यधे यः किरातः स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम् ।
बलिमपि बिलवासं वेदविद्वर्गवन्द्यस्तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः ॥ १७ ॥
पदरत्नावली
कं परमानन्दमेषामस्तीति किनो मुक्ता एव रातानि मित्राणि यस्य स तथा । ‘मित्रं रातं वयस्यश्च सखा स्निग्धः सुहृत् तथा’ इत्युत्पलमाला । यो रामो मृगयुरिव लुब्धक इवादृश्यः सन् विव्यधे । स्त्री जिता पराभूता येन सः स्त्रीजितः काम एव यानं यस्याः सा तां कामाख्यरथाधिरूढत्वाद् दुष्टां स्त्रियं शूर्पणखां विरूपां विच्छिन्नकर्णनासिकामकृत । शिक्षायोग्यशिक्षायां न दोष इति यावत् । वेदविदाम् ऋषीणां वर्गेण समूहेन वन्द्यो वामनः सबहुमानं बलेस् त्रिपदपरिमितं भूम्युपहारमादाय कृतघ्न इव बलिनामानं राजानं बिलवासं पातालवासिनमकृतेति निन्दा । बलिमप्यहन्तायुततया गर्हितमपि बिलवासं पाताललोकपालकमकृतेति स्तुतिः । निन्दास्तुतीरुपसंहरति तदिति । यतोऽयं कृष्णोऽस्मासु शोकाधानमकरोत् तस्मादसितस्य श्यामवर्णस्य सख्यैः सहासनशयनादिलक्षणैरलम् । ‘षिञ् बन्धने’ इति धातोः सितो बद्धो न भवतीत्यसितस्तस्य नित्यमुक्तस्य हरेः सख्यशब्देनार्थनादिकमुपलक्ष्यते । अर्चनादिभिरलं भूषणम्, आत्मन इति शेषः । निर्विण्णा चेत् किमिति तत्प्रसङ्गं करोषीति तत्राह दुस्त्यज इति । तस्य कृष्णस्य कथार्थश् चरितविषयव्यवहारो दुस्त्यजस्त्यक्तुमशक्यः ॥ १७ ॥
दुर्घटभावदीपिका
वेदविद्वर्गवन्द्य इत्यनेन कविज्ञानत्वमुपपद्यत इति द्रष्टव्यम् । तेन वेद-विद्वर्गवन्द्य इत्येतद्व्यर्थमिति दूषणस्यानवकाशः ॥ १७ ॥
सत्यधर्मीया
माधवस्य धवस्यासन्धेयत्वे समाधेयानो महान्प्रकारानवतारयुगलीलाः सङ्गृह्य बहिरन्तस्तुतिगर्भितश्लोकेनोपश्लोकयन्ति ॥ मृगयुरिति । यो रामो यश्चैकाप्रियः शमादिसहितस्तस्यापीयं दशा चेदस्मदीशानां कृतपुरतरुणीविहाराणां का कथेति द्योतयितुं रामा रामाचरितं वर्णयन्त्यो ध्वनयामासुः । कपीन्द्रं वालिनं मृगयुरिव लुब्धक इवादृश्यः सन्विव्यधे । मृगव्यादयश्चेति यातेः कुप्रत्ययान्तत्वे निपातितः शब्दः । यो मृगयुरिव कपीन्द्रं सुग्रीवं विव्यधे स्त्रियं तत्स्त्रियं रुमां कामयानामिच्छया यानं गमनं यस्याः सा तां विरूपां विगतं रूपं यशो यस्यास्तामकृतेति तं
कपीन्द्रं विव्यधे । नानयोऽनेनानुष्ठित इति भावः । यः किरात इव निषाद इव कामयानां पतिमपेक्षमाणां स्त्रियं शूर्पणखां विरूपामकृत । किमर्थमित्थं कृतवानानतवतीमित्यतो वदन्ति ॥ स्त्रीजित इति ॥ यः स्त्रिया स्वभार्यया जितः पराभूतः । अनेन तद्वचनादनागस्या नासिकाकर्णछेदनं कारयित्वा विरूपां चक्रे । स्त्रियो जिता येनासवतद्वश्यः कामयानां स्वैरिणीस्त्रियम् । किनो वायुजयवन्तः सुखवन्तो वा । रातिशब्दपर्यायोऽयं रातशब्दः । रातं मित्रं यस्य स विरूपामकृत शिक्षायोग्यशिक्षायां न दोष इति भावः । रूपं स्वभावे सौन्दर्ये चालोके पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारे श्लोकयोरपीति विश्वः । स्त्रीजितो गौतमभार्यां प्राप्तः सन्विरूपां कामयानामिन्द्रमिति पत्या शापतो जाता शिलातुलेति विरूपा ताम् । देवराजकुतूहलात्प्रहृष्टेनान्तरात्मनेत्यादि-रामायणोक्तेस्तां स्त्रियमकृतेति स्तुतिः । स संस्तुत्यारातयो बोधं तु शूररातय इत्यृग्भाष्ये बोधं तु चैवमित्राणीत्युक्तेः । कामयानां कामं यानं गमनं वीथ्यां यस्याः सा तां विरूपां त्रिवक्रेति तां स्त्रियं स्ववधूमकृतैवं स्त्रीजित स्त्रैण इति किरातस्तद्वदिति । आन्तरङ्गिकोऽर्थस्तु कामयानां स्त्रियं मां नः स्त्रीजितः प्राप्तपुरयेषिदिति विरूपामप्रतिष्ठामकृतेति किरात इवेत्यपि द्वितीयार्थवादपरतयाऽपि योजना ज्ञेया । यः स्वस्वामित्वं वेद तमपि बलिं स्वाज्ञामनुसृत्य परिवर्तमानमपि बिलवासं पाताल-वासमकृत यो विद्धद्वर्गवन्द्य इति काकुः । नेत्यर्थः । यत्तदसितसख्यैरसितः श्यामवर्णोऽनेन कलुषताऽपि ध्वन्यते । तस्य सख्यैरलं, न प्रयोजनमित्यर्थस् तर्हि तद्वार्ताविति कुतुकता कुत इत्यत आहुः । तत्कथार्थस्तच्चरितश्रवणादिरूपो विषयो दुस्त्यजस्त्यक्तुमशक्यः । बलिमप्यहन्तायुततया गर्हितमपि बिलवासं तत्र राजानमकृतातो वेदविद्वर्गेण ज्ञानिसमूहेन वन्द्य इति । अलमसितो नित्या-बद्धस्तस्य सख्यैः सहाऽऽसनाशनादिभिः प्राचीनैस्तत्कथार्थो दुस्त्यज इत्यान्तरङ्गिकः । प्रथमार्थ-वादश्च । बिलवासमिति कपीन्द्रपक्षेऽपि किष्किन्धाबिलवासमित्यर्थकं सदन्वेतव्यम् । असितः षिञ् बन्धनेऽसितोऽबद्धो नित्यमुक्तस्तस्य सख्यैरलं भूषणमित्यपि व्याकुर्वते । मन्वन्तरान्तरे बलिमपि बिलवासम् उच्चैःश्रवो हयवासं तद्वाहनकमिन्द्रमिति यावद् अकृत निश्चितत्वेनैवमुक्तिः । बिलं छिद्रे गुहायां च बिल उच्चैःश्रवो हय इति विश्वः । बलिमस्मन्मध्यप्रदेशं तदुपलक्षितमङ्गं बिलवासं स्वाङ्गसङ्गायोग्यतया बिलवासं गुहानिहितमकृतेत्यान्तरङ्गिको भावश्च । बलिः पूजोपहारः स्याद्बलिर्दानवपुङ्गवः । बलिः स्त्रीमध्यभागः स्यादित्यनेकार्थध्वनिपदमञ्जरी । वेदविद्वर्गैर्वेदज्ञवर्जितैर्वन्द्यो वेदबाह्यसहवासयोग्य इति वर्णयन्ति । विटोत्कतां घटयन्ती स्वैरत्वमीश्वरस्य कथयति ॥ कामिति ॥ विरूपामसुन्दरीमपि स्त्रियं काम् अयानां न विद्यते यानं स्वगमनं यस्यास्तामकृत कृतवान् । न काञ्चन, जित इति भावः । न तु तद्वत्त्वमञ्चितवतीति त्वां त्यक्तवानित्यपि नारद उद्धवेति वक्ति ॥ बलिमिति ॥ अस्मद्दत्तं बलिं स्वपूजोपहारं च बिलवासमकृत गर्ते प्राक्षिपदित्याक्रोशोक्तिरिति वा । सख्यान्येवैतादृशानि तस्यास्मद्धिषय इत्यपि वक्ति ॥ तदिति ॥ तानि च तान्यलमत्यन्तम-सिता, तालव्याश्चैव दन्त्याश्च शम्बशूकरपांशव इति वचनादसिरप्यशिरिति मन्तव्यं, खङ्गता येषां तान्यलमसितानि तानि च तानि सख्यानि तैः । स्त्रियं जातावेकवचनम् । इतरद्यथापूर्वम् । विव्यधे, तर्हि तत्कथास्त्यजतेत्यत आहुः ॥ दुस्त्यजस्तत्कथार्थ इति ॥ १७ ॥
सुमनोरञ्जिनी
प्रणयकोपे अभिव्यञ्जयती निन्दाव्याजेन स्तौति । यः रामावतारे । कपीन्द्रं वालिनं मृगयुरिव लुब्धक इव च्छन्नः सन्नित्यर्थः । विव्यधे संहृतवान् । न निर्निमित्तं कपिवधः कृतः किंतु कपेः सुग्रीवस्य र्इम् ऐश्वर्यं द्रावितवानित्यपराधं दृष्ट्वेति स्तुतिर्ज्ञापितेति रत्नावल्याम् । यः कामयानां स्वमेव पतिमिच्छन्तीं स्त्रियं शूर्पनखां विरूपां विकृतरूपाम् । अकृत अकरोत् । यश्च स्वयं स्त्रीजितः स्त्रैणः । किञ्च वामनावतारेऽपि बलिं बिलवासं पातालवासिनमकृत । अत्रापि अपिना इन्द्रैश्वर्यापहारित्वेन गर्हा सूचिता । अतः । तत् तस्माद् असितस्य कृष्णस्य सख्यैर् मैत्रीभिरलम् । एवं कोपमभिव्यञ्ज्य प्रणयं व्यनक्ति ॥ असितेति । अपिरावर्तते । एवमसितसख्यैर् निरस्तसख्यैरप्यस्माभिः स्त्रीजनैः । तत्कथार्थं तस्य श्रीकृष्णस्य कथया योऽर्थः मनसि जायमानः सुखविशेषः स दुस्त्यजः । अध्यात्मं तु यः कं परमानन्दस्वरूपं परमात्मानं पिबन्त्यनुभवन्ति जानन्ति ते कपयो ज्ञानिनः । तेषां र्इं शोभां द्रावयतीति कपीन्द्रं ज्ञानप्रतिबन्धकासुरवर्गम् । विव्यधे परिहृतवान् । स्त्रियं स्वगुणाच्छादिकां विरूपां विगतशरीराम् । अकृत हननं कृतवान् । इतरापि स्त्री परमाच्छादिका लक्षणा जिता पराभूता अपसारिता येन सः । एवं कृत्वा किरातः किनः परमानन्दिनो मुक्तास् तेषां रातः मित्रम् । अभवत् । मोक्षप्रद इत्यर्थः । बलि बलपरिवर्तन इति धातोः । अन्यथास्वरूपं कलिं बिलवासम् अन्धन्तमोगतम् अकृत । अत एव वेदविदां ज्ञानिनां वर्गेण समूहेन वन्द्यः । तत् तस्माद् असितं निरस्तं सख्यम् आत्मात्मीयेषु स्नेहः येषां तैर् विरक्तैरिति यावत् । असिते कृष्णे सख्यं स्नेहः भक्तिर्येषां तैर् भक्तिमद्भिरित्यर्थः । तत्कथारूपो ऽर्थः दुस्त्यजस् त्यक्तुमशक्यो ऽवश्यं कार्य एवेति ॥ १७ ॥
यदनुचरितलीलाकर्णपीयूषविप्लुट्१सकृददनविधूतद्वन्द्वधर्मा विनष्टाः ।
सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना बहव इह विहङ्गा भैक्षचर्यां चरन्ति ॥१८॥
पदरत्नावली
यस्य कृष्णस्यानु अवतारमनु चरिता लीलैव कर्णानां पीयूषममृतं तस्य या विप्रुट् बिन्दुस्तस्याः सकृदेकवारमदनेन श्रवणलक्षणेन विधूता द्वन्द्वधर्मा रागादिलक्षणा येषां ते यदनुचरितलीलाकर्णपीयूषविप्रुट्सकृददनविधूतद्वन्द्वधर्माः, ते च ते अविनष्टाश्च अनुच्छिन्नज्ञानधर्माश्च तथा । ‘अयमात्माऽनुच्छित्तिधर्मा’ इति श्रुतेः । सपदि विरक्त्युत्पत्त्यनन्तरं दीनं दारिद्र्यापादकं गृहकुटुम्बमुत्सृज्य ‘दीङ् क्षये’ इति धातोर् दीनाः क्षीणदोषा बहवो विहङ्गा आकाशनामकभगवन्तं गच्छन्ति तदाधारेण गच्छन्तीति विहङ्गाः सन्न्यासिनः । ‘विहायसो विह इति वाच्यम्’ इत्यनुशासनेन विहायसो विहादेशः । इह जीवराशौ भैक्षचर्यां ज्ञानभिक्षाचरणमुद्दिश्य चरन्ति देहयात्रां कुर्वन्ति । ज्ञानार्थमेव तेषां देहधारणं नोदरपूरणार्थमिति यावत् । ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिर्भवत्येतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्त्येतद्धस्म वै पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः स एष नेति नेत्यात्माऽगृह्यो नहि गृह्यतेऽशीर्यो नहि शीर्यतेऽसङ्गो नहि सज्जतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते तपतः’ इति बृहदारण्यकब्राह्मणे ॥ १८ ॥
सत्यधर्मीया
स्फुटं प्रथमाद्वितीयाभ्यामर्थवादाभ्यां स्वनायकगुणावगुणौ कथयन्ति ॥ यदिति ॥ येन अनु अवताराननुचरिता लीला सैव कर्णानां पीयूषममृतं तस्य या विप्लुट् बिन्दुस्तस्या विप्लुषः सकृदेकदाऽदनं श्रवणरूपं तेन विधूता द्वन्द्वधर्मा रागादयो येषां ते । विनष्टाः । भावे क्तः । नष्टं नष्टिः सा विगता येभ्यस्ते । ते च तेऽविनष्टा इत्यैकपद्यं वा । अर्थात्तेषां तद्धर्माणां चानुच्छित्ति-रुक्ता भवति । विधूतद्वन्द्वा दूरीकृतशीतोष्णास्तद्बाधाश्च ते धर्मैरविनष्टाश्चेति वा । अयमात्मानुच्छित्ति-धर्मेति श्रुतेः । दीनमभिमानेन तप्तं गृहकुटुम्बं सपदि विरक्त्यङ्कूरणानन्तरमेवोत्सृज्य स्वयं दीनाः क्षीणाभिमाना विहङ्गा इति गतम् । आकाशनामकभगवन्तं गच्छन्ति तदाधारेण गच्छन्तीति यावत् । सन्न्यासिनो भैक्षचर्यां ज्ञानभिक्षाचरणमुद्दिश्य चरन्ति न त्वैहिककामा एतादृशोऽपि पस्पर्शास्मानित्यहो दयालुतेति । यथोक्तं बृहदारण्यकशारीरब्रह्मणे । तमेवं विदित्वा मुनिर्भवत्येतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्त्येतद्ध स्म वैतत्पूर्वे विद्वांसः प्रजां न कामयन्ति किं प्रजया करिष्यामो येषां नायमात्माऽयं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । स एव नेति नेत्यात्मा गृह्यो न हि गृह्यते शीर्यो न हि शीर्यते सङ्गी न हि सज्जते शितो न व्यथते न रिष्यत्येतमु हैवेते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैषणे एते तरति नैनं कृताकृते तपत इति । भावबोधे व्याख्यातोऽयं खण्डः । सकृदेकदा यददनं तेन विधूता द्वन्द्वधर्माः पतिपत्नीधर्मास्त आविनष्टा यासां ताः । दीनमस्मन्निमित्तं दैन्योपेतं गृहसहितं कुटुम्बं बन्धुसन्दोहं च विसृज्य विहङ्गा इव पक्षिण इव निराधारा दीनास्तद्विरहेण क्षीणास्तप्ता वा बहवो गोप्यो मदादिकं दृष्वा भैक्षचर्यां भिक्षुकधाटीं स्वामी नस्त्यक्त्वा गतः किं कार्य यूयं गत्वा वदतेति याचनां चरन्त्याटीकन्त इति स त्वं पदि पतित्वा वदेति शेषः । अवदन्निति च ॥ १८ ॥
सुमनोरञ्जिनी
किं च एतस्मिन्कृतसौहृदानामवस्थां पश्येति स्तुतिगर्भां निन्दामाह ॥ यदिति । येन अनुरचिता अनुकृता या लीला सैव कर्णपीयूषं कर्णामृतम् । तस्य विप्लुट् बिन्दुस् तस्य सकृददनम् एकवारं श्रवणलक्षणं भोजनं तेन विधूता द्वन्द्वधर्मा रागद्वेषादिलक्षणा धर्मा येषां तथाविधाः सन्तो विनष्टा विगतं नष्टं नाशो येषां तथाविधाः । सपदि तत्काले दीनं दुःखापादकं गृहकुटुम्बं गृहदारादिकमुत्सृज्य विरक्ताः सन्त इति यावत् । इह जीवराशौ च बहवो लोका विहङ्गा इव । भैक्ष्यचर्यां चरन्तीति । यल्लीलाऽऽकर्णनमात्रेण बहवो लोका दारापत्यादीन् विहाय दीनाः सन्तो भिक्षामटन्तीत्युत्तानतो निन्दाऽवगम्यते । वस्तुतः यल्लीलाश्रवणमात्रेण रागद्वेषादिमुक्ता विषयविरक्ताः सन्तो ज्ञानार्थं गुरुकुलवासं कुर्वन्तीत्यर्थो गर्भितः ॥ १८ ॥
वयमृतमिव जिह्मं व्याहृतं श्रद्धधानाः कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः ।
ददृशिम सकृदेतत्तन्नखस्पर्शतीव्रस्तनरुजपरमार्तिं भण्यतामस्य वार्ता ॥ १९ ॥
पदरत्नावली
अज्ञा अपि कृष्णमृगवध्वो हरिण्य इव कृष्णवध्वो वयं कुलिकस्य सुश्राव्य-रागालापकलापज्ञकुलसत्तमस्य रुतं नानाप्रकारगानशब्दमिव जिह्ममल्पमपि व्याहृतं कृष्णवचनं श्रद्धधानाः सत्यः सकृदेकवारमेतस्य कृष्णस्य तेषां सुकोमलानां नखानां स्पर्शेनोत्पन्नेन तीव्रेण दृढेन स्तनानां रुजेन क्षतेन जाता या परमार्तिरत्युत्कटसुखलक्षणा पीडा तामनुबभूविमेति यत् ततोऽस्य वार्ता भण्यताम्’ इत्यभिधानम् । ‘जिह्मं तु गजवक्त्रेऽल्पे कुटिले च प्रकीर्त्यते’ इति च । ‘तीव्रैकान्तनितान्तानि गाढबाढदृढानि च’ इत्यमरः ॥ १९ ॥
दुर्घटभावदीपिका
हिरण्यः कुलिकरुतमिव कुलिकस्य मृगयो रुतमिव गानशब्दमिवाज्ञाः कृष्णवध्वो वयम् ऋतमिव सत्यमिव विद्यमानं जिह्मं वञ्चनकरं व्याहृतं कृष्णवचनं श्रद्दधानाः सत्य एतत्तन्नखस्पर्शतीव्रस्तनरुजपरमार्तिमेतस्य कृष्णस्य तेषां सुखकरं प्रसिद्धानां नखानां स्पर्शेन तीव्रस्तनरुजस्य तीव्रस्तननिष्ठकामपीडायाः परमार्तिं परमपीडां स्तननिष्ठकामनिमित्तदुःखस्यात्यन्तिक-निवृत्तिमिति यावत् । उपलक्षणमेतत् । परमसौख्यं च सुहृद्ददृशिमानुभूविम । अनन्तरं कृष्णयोगेन परमदुःखमेवानुभूयतेऽतस्तद्दुःखपरिहारार्थमस्य कृष्णस्य वार्तां भण्यतामिति । एतेन कृष्णस्य स्तनक्षतेन परमदुःखहेतुत्वे तद्योगप्रार्थनमनुपपन्नं स्यात् । अस्य वार्तां भण्यतामित्येतद्विरुद्धं च स्यात् । अनेन कृष्णस्य सुखहेतुत्वाप्रतीतेरिति दूषणं पराकृतम् । एतत्तन्नखस्पर्शतीव्रस्तनरुजपरमार्तिमित्यस्यैतस्य कृष्णस्य तेषां नखानां स्पर्शेन जातेन तीव्रस्तनरुजेन तीव्रस्तनक्षतेन परमार्तिं परमदुःखमित्यर्थस्या-नङ्गीकारात् । एतेनैवास्य वार्ता भण्यतामित्येतदनन्वितमिति चोद्यं परिहृतम् । अनन्तरं कृष्णवियोगे-नेत्यादीनां शेषेणान्वयस्योक्तत्वात् ॥ १९ ॥
सत्यधर्मीया
वयं कृष्णवध्वो हरिण्यो हरिणतरुण्यः कुलिकस्य वशयितुं स्वविश्वास-कर्तुर्व्याधस्य रुतं गीतं यथा श्रद्दधतेऽज्ञा इत्युभयान्वपि । अनेन व्याहृतं जिम्हं वक्रं मिथ्याभूतमिति यावद् ऋतं यथार्थमिति श्रद्दधाना विश्वसन्त्यः । तदानृत्यमर्यादां वेदयन्ति ॥ सकृदिति ॥ सकृदेकवारमेवैषा चासौ स च तस्य नखस्पर्शोत्पन्नेन तीव्रेण दृढेन स्तनानां रुजेन भङ्गेन परमा याऽऽर्तिः पीडा तां ददृशिम । अनेनानेकवारप्रतिश्रवस्तेन कृत इति तदनृतवत्ता द्योत्यते । वार्तायां वा वर्तामहे तां भणेति भणन्ति ॥ अस्य वार्ता त्वया भण्यतामिति । आर्तिरिति सुखपीडा ग्राह्या । बन्धोज्झिताया अपि सिन्धुपुत्र्या माङ्गल्यसूत्रं किल नित्यबद्धमितिवत् । जिह्मं मन्देभवक्रयो-रित्यभिधानान्मन्दं वचनं व्याहृतमृतमिव गतम् । श्रद्दधाना अज्ञा अपि हरिण्यः कुलिकः कुलसत्तमो रागालापकलापज्ञस्तद्रुतमिव निश्शङ्कं श्रद्दधत इति दृष्टान्तदार्ष्टान्तिकभावो भावनागम्यः सकृद्वैतदयोग्या अपि तन्नखस्पर्शे तीव्रस्तनरुजपरमार्तिमेतन्नखस्पर्शेन तीव्राः कठिणा ये स्तनास्तेषां रुजः कृष्णकरा-नर्पणजो भङ्गस्तस्य परमार्तिर्भङ्ग इति यावत् तां ददृशिम पूर्ववदुर्वरितम् । एतत्तन्नखानां स्पर्शन-तीव्रा दृढाः कठिणा इति यावत् स्तनास्तेभ्यो रुजस्तज्जातां परमार्तितां ददृशिम । अनेन कोमलानां नखाङ्कुराणामस्मद्दृढदृषतुलस्तेन स्पर्शेन तत्परमार्तिं ददृशिमेति तन्मन्युपरिहृत्यै अस्य वार्ता भण्यतामित्युक्तिरिति वा । बाल्ये मामधिरोप्य वक्षसि शिशुं सन्नर्तयन्त्यास्तव स्थूलोरोजसमागमेन तदिति प्रौढिं स दद्यान्ममेति रुक्मिणीशविजयोक्तेः । कृष्णनखस्पर्शतीव्रस्तनरुजपरमेव ददृशिम । अत्रेन्द्रियसामान्यवाचकखशब्देन योग्यः करो गृह्यते । न जिह्मं कुवलयापीडवक्त्रं नाप्यार्तिं कंसोपस्थापितचापकोटिं वा ददृशिमेति । तस्य श्रीकृष्णस्य नखस्पर्शेन तीव्रो यः स्तनरुः स्वकुचशब्दस्तस्य जपो जपनं तच्चिन्तनमिति यावद् यस्याः सा च सा रमा च तस्या आर्तिस्तां सकृदेव ददृशिम । एकदा मत्सम्भोगे तस्या आर्तिर्जातेत्यर्थः । लोकदृष्ट्यैतदिति वा । अस्य वार्ता का मधुरायां मधुनाथस्य मधुरा वृत्ता साऽधुना वर्ण्यतामिति वा । तीव्रैकान्तनितान्तानि गाढ-बाढदृढानि चेत्यमरः । कुलिकश्च कुलश्रेष्ठे वल्मीके काकतुण्डके । कुलिको व्याधभेदे स्याद्रुभेदे कुलसत्तम इति विश्वः । आर्तिः पीडा धनुष्कोट््योरिति च । रुज उपमन्त्रिन्भण्यतामन्यवार्तेति पाठश्चतुरस्रो नेति ज्ञेयम् । अस्य सकाशाद्वयमिव केति शेषः । का वाऽऽर्ता ऋतं यथार्थं यथा तथा भण्यतामित्यन्वयः । भण्यं तामस्यमज्ञानं यस्य तत्सम्बुद्धिः ॥ १९ ॥
सुमनोरञ्जिनी
यथा कृष्णमृगवध्वो हरिण्यः । कुलिकरुतं कुलिकस्य लुब्धकस्य रुतं गानं श्रद्धास्यन्ति तथा वयं कृष्णवध्वः जिह्मं कुटिलम् । व्याहृतं भाषितम् । ऋतमिव सत्यमिव श्रद्धधानाः श्रद्धाङ्कुर्वन्त्यः । हरिण्यो यथा परमार्तिं भजन्ते तथा सकृत् । एतत् तद् इति भिन्ने पदे । तस्य एतस्य कृष्णस्येत्यर्थः । अव्यये च । नखस्पर्शेन तीव्रो यः स्तनरुजः मदनाग्निसन्तापलक्षणस् तेन परमार्तिं परमपीडाम् । ददृशिमदृष्टवत्यः । न किमपि सुखमित्यौत्तानिकोऽर्थः । वास्तविकस्तु ऋतं परब्रह्मस्वरूपं जिह्मं मायामानुषं कृष्णं व्याहृतमिव विशेषेण आहृतमिव संपादितं वस्त्विव श्रद्धधानाः स्म । अयमस्माभिः संपादितोऽस्मान्विहाय न गच्छतीति मन्वाना इत्यर्थः । अत एवाज्ञाः । ब्रह्मादीनामपि मनोवाचामगोचरोऽस्माकं कथं लभ्य इत्यजानमानाः स्म । एतद् एतदवस्थायां तस्य श्रीकृष्णस्य नखस्पर्शेन तीव्रो यः स्तनरुजस् तस्य परमार्तिं परमां विपत्तिं तन्नाशमित्यर्थः । सकृदेव ददृशिम अनुबभूविम । न पुनः पुनः स्वल्पेनैव कालेनास्मान्विहाय मधुरां गत इति भावः । अतो ऽस्य कृष्णस्य । वार्ता अस्मत्पुरतो भण्यतां कथ्यतां त्वयेति । तद्वार्ताश्रवणेनापि हृदयज्वरं परिहराम इति । एवंस्थितानामस्माकं वार्ता तस्य पुरतः भण्यतामिति वा । एवमवस्थां शृृण्वानः सञ्जातकरुणो भगवान् कदाचिदप्यागमिष्येतेति भाव इति ॥ १९ ॥
प्रियसख पुनरागाः प्रेयसा प्रेषितस्त्वं वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग ।
**नयसि कथमिहास्मान् दुस्त्यजं बन्धुपार्श्वं सततमुरसि सौम्य श्रीवधूः साकमास्ते **
॥ २० ॥
पदरत्नावली
प्रियस्य कृष्णस्य सख मित्र प्रेयसा कृष्णेन प्रेषितस्त्वं पुनर्गत्वाऽऽगा आगतवानसि किं? किञ्च भवान् किमनुरुन्धे अनुवाञ्छति तद् वरय । प्रेष्ठबन्धुत्वात् त्वमस्माकं माननीयोऽसि । अङ्ग भो उद्धव इह स्थितानस्मान् दुस्त्यजं बन्धुपार्श्वं कृष्णसमीपं नयसि किं? कथं नयसि । तस्योरसि सततं सपत्न्याः सत्त्वान्नास्मदभीष्टप्राप्तिरित्याह सततमिति । हे सौम्य श्रीवधूः रमारूपिणी कान्ता तस्योरसि सततं साकमाकेन सुसुखेन सहितं यथा स्यात् तथाऽऽस्ते
॥ २० ॥
दुर्घटभावदीपिका
सततमुरसि सोम्य श्रीवधूः साकमास्त इत्यस्य हे सोम्य श्रीवधूः सततं सर्वदा भगवता साकमुरसि चास्त इत्यर्थः । एतेन भगवत उरसि इत्यनेन भगवता साकमित्यर्थस्य लाभात् । भगवता साकमित्येतद्व्यर्थमिति दूषणं निरस्तम् । भगवता साकमित्यस्य भगवतः पार्श्वभाग इति ताप्तर्यार्थ इत्यभ्युपगमात् ॥ २० ॥
सत्यधर्मीया
भ्रमतो भ्रमन्तं भ्रमरमिव पुनरागतं मत्वा देहस्मृतिः काचिद्वदति ॥ प्रिय-सखेति । प्रियस्य वल्लभस्य सखेति तत्सम्बुद्धिः । प्रेयसा प्रेषितस्त्वं पुनर्गत्वाऽऽगा आगतवानसि किं? किञ्च भवाननुरुन्धेऽनुवाञ्छति तत्त्वं वरय । कुत इयत्यायताक्षिप्रव्हती त्वयीत्यत आह । मेऽङ्ग दूत स्वामिदूतत्वान्माननीयोऽसि । प्रायेणाभिप्रायेणानेनायात इव भासि भो त्वमिति वक्ति ॥ नयसीति ॥ इहावस्थायां बन्धुपार्श्वं कृष्णसमीपं कथं नयसि । नादरस्तत्र तवेति नेति वक्ति ॥ दुस्त्यजमिति ॥ कुतः कौतुकं तवेत्यतः साऽप्येवं लुब्धा का कथा न इति प्रोचे ॥ सतत-मिति ॥ हे सौम्य साऽऽकं सुसुखं यथा तथा यस्योरसि श्रीवधू रमारूपिणी भार्याऽऽस्तेऽस्माकं तदाशा नालौकिकीति भावः । गमनेऽपि सपत्न््नया उरसि सत्त्वान्नास्मदभिलषितलाभ इत्यास्तामस्मन्नयनकथेति ध्वनिं वर्णयन्ति । सदा मायां सत्यामपि प्राक् तदनुभवित्रीणां सोऽनुपपन्न इवाभाति । आनन्दानुभव उत्कृष्टानुभवात्स्मृतः । तद्युक्तत्वं तथा सौम्यं गुणानामधिकं तदित्येकादश-तात्पर्योक्तानन्दनिर्भरसौम्य वा । प्रियश्चा सखा चेति सोऽस्मत्स्वामिप्राप्यसुखसखे । यथोक्तं छान्दोग्यभाष्ये । यं सुखं प्रोक्तं प्रियमित्येव पण्डितैरिति । स श्रीमाञ्जात इदानीं वयं दरिद्रा इति कथं नयसीत्युक्तिः । स्वकीयप्रेषितत्वमारोप्य तथा मधुमथनागमं च वक्ति ॥ प्रियेति ॥ प्रेयसा केनचिदस्मत्प्रीतिपात्रेण प्रेषितो नायकानुनयनाय पुनः प्रेया श्रीकृष्णेन सहागाः किम् । अतोऽङ्ग हे उद्धव माननीयोऽसि सत्कारर्होऽसि किमनुरुन्धे तद्वरय । दुस्त्यजं बन्धुपार्श्वमस्मान्नयसि किं कथं नयसि । उपसर्गा धातुलीनार्थद्योतका इति अनुनयसि त्वन्तु उः उत्कृष्टोऽसि । न च स्तुत्या कृत्यं प्रस्तुतं न रमासमासत्तिर्युष्मास्विति कथमहं यामनुनयमिति न वदेति वदति ॥ सौम्येति ॥ सततं श्रीवधूः साकमस्माभिरास्त इति सम्भावितमनुनयनमिति वा भावः । सततमुरसिसौम्यश्रीवधूरिति पदमेकम् । ततेन वेणुवादनेन सहितः सततः । ततं वीणादिवादनमिति विश्वः । स चासौ मुरस्या-सुरस्य सो वारणं वा । सः कोपे वारणे चेति विश्वः । सोऽस्यास्तीति सततमुरसी स चासौ सौम्यः प्रसादोन्मुखस्तस्य श्रीमती वधूस्तद्रूपिणी वधूर्वा साकमास्त इति वा । एतादृशे, नयसीत्यत्र ने असीति छेदः । ने नेतरि श्रीकृष्णे कथमसि केन प्रकारेणासि । नो नेता समुदीरित इति विश्वः । किं वा भवतु किमनुरुन्धे तद्वरय ॥ २० ॥
सुमनोरञ्जिनी
कृष्णेनास्मदानयनार्थं प्रेषितोऽयमुद्धव इति संभ्रान्तचित्ता वक्ति ॥ प्रियेति ॥ हे प्रियसख प्रियस्य कृष्णस्य सखे त्वं प्रेयसा अस्मत्प्रियेण कृष्णेन । प्रेषित आगाः पुन आगन्तासि किम् । पुनःशब्दः प्रश्नार्थे । पुनरप्रथमे प्रश्ने व्यावृत्तावधारणे इत्यभिधानात् । आमिति चेत्तर्हि मे माननीयोऽसि प्रेष्टप्रेषितत्वात् । किमनुरुन्धे किमिच्छसि । तं वरं वरय । यद्यस्मान् भवान् नेतुमागतस् तर्हि दुस्त्यजं त्यक्तुमशक्यं बन्धोः कृष्णस्य पार्श्वं सन्निधिं प्रति । अस्मान् कथं नयसि । किं दौर्घट्यमित्यतः सपत्नीसन्निधानसद्भावादिदमशक्यमित्याह ॥ सततमिति । श्रीवधूः श्रीनाम्नी वधूः, तेन साकम् आस्ते । सा यदा गृहे नास्ति तदा नेष्यामीत्यत उक्तम् । सततम् उरसि वक्षःस्थले आस्त इति ॥ २० ॥
अपि बत मधुपुर्यामार्यपुत्रोऽधुनाऽऽस्ते स्मरति स पितृगेहं सौम्य बन्धूंश्च गोपान् ।
**क्वचिदपि स कथं नः किङ्करीणां गृहीतो भुजमगुरुसुगन्धं मूध््नर्यधास्यत् कदा नु **
॥ २१ ॥
पदरत्नावली
अधुना आर्यस्य पूज्यस्य वसुदेवस्य पुत्रः श्रीकृष्णो मधुपुर्यां बत लोकसुखं कुर्वाण आस्ते अपि किम् । किञ्च सः पितुर्नन्दस्य गेहं गृहिणी यशोदां बन्धून् गोपांश्च स्मरत्यपि स्मरति किम् । क्वचिदपि सः नोऽस्माभिर्यः प्राग् गृहीतस्तमगुरुवत् सुगन्धो यस्य तं भुजं किङ्करीणां मूधर्ि्न कदा नु अधास्यत् ॥ २१ ॥
दुर्घटभावदीपिका
स कथं नः किंकरीणां गृहीतो भुजमगुरुसुगन्धं मूध््नर्यधास्यत्कदान्वित्यस्य भगवान्किंकरीणां नो मूर्ध्य्नगुरुसुगन्धं भुजं कदान्वधास्यत् । अन्यथा किङ्करीणां किङ्करीभिर्नोऽस्माभिः कथं गृहीत इत्यर्थः । एतेन कथमित्येतदनन्वितमिति दूषणं परास्तम् । अन्यथेति शेषपूरणे-नान्वयस्योक्तत्वात् । एतेनैव गृहीत इति ग्रहणक्रियां प्रति कर्तृत्वात् । किङ्करीणां न इत्यर्थवशा-त्किङ्करीभिरस्माभिरिति विपरिणाम इत्यभ्युपगमात् ॥ २१ ॥
सत्यधर्मीया
स्वाभीप्सितं स्मरपरवती प्रकाशयति ॥ अपीति ॥ अधुनाऽऽर्यपुत्रः श्वसुर-सुतो मधुपुर्यामपि गुरुकुलवासत आगत्याप्यास्ते बत सुखेन । हे सौम्य स पितृगेहं स्मरति किं पित्रा सहितं च तद्गेहं गृहिणीं यशोदां च । बन्धून्गोपांश्च क्वचिदपि । स वासुदेवो नोऽस्माभिर्यः प्राग्गृहीतस्तमगुरुसुगन्धं सु शोभनश्चासौ सौगन्धश्च । अगुरुणा सुगन्धो यस्य स तम् । अगुरोरपि सुगन्धो येन तं वा भुजं किङ्करीणां मूधर्ि्न शिरसि कथं कदाऽन्वधास्यदिति पृच्छामि त्वामिति भावः । स कथं ससल्लापं गृही गृहस्थाश्रमी इतः प्राप्तः कदा नु नः किङ्करीणां मूध््नर्यगुरुसुगन्धं चम्पककुसुमसौरभ्यमिव, न नासिकावमर्दहेतुगन्धसहितं, भुजं क्वचिदपि । त्वं करं धारयितुर्माधवस्य किमुपकुरुत इत्यत आह ॥ हे कदेति ॥ सुखदेति आनु आनुमो गते उ सगन्धं नारायणीतरु-तरुणीरूपधारणसमये शोभनश्चासौ गन्धश्च ओ रुद्रस्य सुगन्धो येन तं मधुपुर्यामधुनाऽगुरङ्गनास्तमिति वा । भवद्भर्तारो वर्तन्ते गृहे किमेतत्कामनया कामिन्य इत्यत आहुः । यः स्मरति मन्मथवदाचरति स इति सौन्दर्यसागर इति न तत्स्पृहा हातुं शक्येति भावो ऽगुरुरित्यपपाठः । रूपं प्राङ्निरूपितमनुसन्धेयम् । धन्याकमगुरुर्वा पुंसि लघु चेति वोपालितः । अगुरुर्जाङ्गके लघाविति हैमः । अगुरु क्लीबे शिंशुपायां जोऽङ्गके लघुनि त्रिष्विति रुद्रः ॥ २१ ॥
सुमनोरञ्जिनी
स्वस्थचित्ता सती इदानीमनामयं पृच्छति ॥ अपीति ॥ हे सौम्य अधुना इदानीम् । आर्यस्य नन्दस्य पुत्रः श्रीकृष्णः मधुपुर्यां बत हर्षेण आस्ते किम्? पितुर् नन्दस्य गेहं भार्यां यशोदां गृहं वा, स्वबाललीलास्थानत्वाद् बन्धून् गोपांश्च स्मरति किम्? क्वचित् कदाचित् किंकरीणां नो ऽस्माकं कथमपि स्मरति किम्? गृहीतापि स्मरन्नपि अस्माभिर्गृहीत आश्लिष्ट इति वा । पादैर् गृहीतः नमस्कृत इति वाऽर्थः । कृष्णो ऽगरुवत्सुगन्धं भुजम् । अस्मन्मूधर्ि्न कदा अधास्यद् अधास्यति । नु वितर्के ॥ २१ ॥
श्रीशुक उवाच—
अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः ।
सान्त्वयन् प्रियसन्देशैर्गोपीरिदमभाषत ॥ २२ ॥
सत्यधर्मीया
प्रियस्य सन्देशैराज्ञारूपैर्वचनैः सान्त्वयन् गोपीः प्रतीदमभाषत ॥ २२ ॥
सुमनोरञ्जिनी
कृष्णदर्शने लालसा उत्कण्ठिता गोपीः । प्रियस्य कृष्णस्य सन्देशैर् आज्ञारूपैर्वचनैः । सांत्वयन् समाधास्यन् ॥ २२ ॥
अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः ।
वासुदेवे भगवति यासामित्यर्पिता मतिः ॥ २३ ॥
पदरत्नावली
पूर्णार्थाः कृतकृत्याः । इति शब्दो हेत्वर्थः ॥ २३ ॥
सत्यधर्मीया
पूर्णार्थाः कृतकृत्याः । तत्र तन्त्रं यासां मतिर्भगवति वासुदेव इत्येवमर्पिता तत एवेति ॥ २३ ॥
सुमनोरञ्जिनी
पूर्णार्था लब्धप्रयोजनाः । कुतः । यासां युष्माकम् । इति एवं प्रकारेण । वासुदेवे । मतिरर्पिता । सर्वप्रकारेण तदेकविषयिणी । अतः ॥ २३ ॥
दानव्रततपोहोमजपस्वाध्यायसंयमैः ।
श्रेयोविधिभिरन्यैश्च कृष्णे भक्तिर्हि साध्यते ॥ २४ ॥
भगवत्युत्तमश्लोके भवतीभिरनुत्तमा ।
भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा ॥ २५ ॥
पदरत्नावली
संयम इन्द्रियनिग्रहः । हितसाधनानुष्ठानं श्रेयोविधिः । दुर्लभेतिवचनमवश्य-कर्तव्यत्वपरं न तु मुनीनां तादृशी भक्तिर्नास्तीति ॥ २४,२५ ॥
सत्यधर्मीया
द्वाभ्यां श्लोकाभ्यामितरदुर्लभा भक्तिः सुलभा भवतीनामित्याह ॥ दानेति ॥ व्रतमेकादश्यादिव्रतं तपः कृच्छ्रचान्द्रायणदिकं स्वाध्यायो वेदाध्ययनं संयम इन्द्रियनिग्रहो अन्यैः प्रवचनादिभिः श्रेयोविधिभिस्तत्साधनोपायैर्हि यतो भक्तिरुत्तमश्लोके भगवति साध्यते या मुनीनां पूर्वोक्तसाधनसम्पन्नानां दुर्लभा साऽप्यनुत्तमा भक्तिर्भवतीभिर्दिष्ट्या प्रवर्तिता अहो मुनिदुर्लभता-वचनमवश्यकर्तव्यतारुचिं जनयितुं न तु तेषां दुर्मिलतापरम् । यद्धा कामादित्याद्युक्ता भक्तिर्मुनीनां दुर्लभेति तत्परम् ॥ २४,२५ ॥
सुमनोरञ्जिनी
व्रतं शास्त्रोक्तनियमानुष्ठानम् । संयम इन्द्रियनिग्रहः । अन्यैश्च श्रेयोविधिभिः श्रेयसे विधीयन्त इति श्रेयोविधयस् तैः श्रेयःसाधनानुष्ठानैः । साध्यते साधकैः ॥ प्रवर्तिता कृतास्ति । मुनीनां दुर्लभा कष्टसाध्या न त्वसाध्या ॥ २४,२५ ॥
दिष्ट्या पुत्रान् पतीन् देहान् स्वजनान् भवनानि च ।
हित्वा वृणीत यूयं यत् कृष्णाख्यं पुरुषं परम् ॥ २६ ॥
पदरत्नावली
यूयं कृष्णाख्यं परं पुरुषं वृणीतेति यत् तद् दिष्ट्या अतिमङ्गलम् ॥२६॥
सत्यधर्मीया
यूयं देहान् लज्जादिवर्जनेन कृष्णाख्यं परं पुरुषं साक्षान्नारायणं वृणीतेति यत्तद्दिष्ट्या दैवतः ॥ २६ ॥
सुमनोरञ्जिनी
कृष्णे प्रेमातिशयमात्रमस्माकं न भक्तिरित्यतो इयमेव भक्तिरित्याह ॥ दिष्ट्येति ॥ पुत्रादीन् हित्वा कृष्णाख्यं परं पुरुषं मत्वा वृणीत स्नेहपूर्वं स्वीकुरुतेति यत् सैव भक्तिरित्यर्थः ॥ २६ ॥
सर्वात्मभावोऽधिगतो भवतीनामधोक्षजे ।
विरहेण महाभागा महान् वोऽनुग्रहः कृतः ॥ २७ ॥
पदरत्नावली
सर्वात्मभावः सर्वस्वामित्वपूर्विका भक्तिः ॥ २७ ॥
सत्यधर्मीया
सर्वात्मभावः सर्वस्वामित्वपूर्विका भक्तिः । पत्याद्यत्वस्थानेऽयमेवेति भावोऽनुसन्धानं वा । विरहेण हे महाभागा व उपरि महाननुग्रह एव कृत इति मन्ये ॥ २७ ॥
सुमनोरञ्जिनी
हे महाभागा विरहेण वो महाननुग्रह एव कृतः । यस्माद् भवतीनाम् । अधोक्षजे सर्वात्मभावः सर्वस्यात्मा अन्तर्यामी स्वामीति भावो बुद्धिरधिगतः प्राप्तः। सर्वेभ्य आत्मा प्रिय इति वा ॥ २७ ॥
श्रूयतां प्रियसन्देशो भवतीनां सुखावहः ।
यमादायागतो भद्रा अहं १भर्तुर्हि किङ्करः ॥ २८ ॥
पदरत्नावली
इदानी कृष्णसन्देशं वक्तुमुपक्रमते श्रूयतामिति ॥ २८ ॥
सत्यधर्मीया
नानयसि तं न नयसि नः किन्तु होद्धव विरहेण योऽनुग्रहः कृत इति वदसि महानसीति न वदत सुदत्यः समर्थितार्थसारं तद्वचनं च शृृणुतेति तच्छ्रावयति ॥ श्रूयतामित्या-दिना ॥ भवतीनां सुखावहो भर्तुः किङ्करोऽहं यमादायागतोऽहं प्रियसन्देश इष्टवाची प्रियशब्दः । हे भद्रा युष्माभिः श्रूयताम् । भर्तुरहस्कर इति पाठे एकान्तकार्यकर्तेत्यर्थः । कस्कादिः ॥२८॥
श्रीभगवानुवाच—
भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् ।
यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही ॥ २९ ॥
सत्यधर्मीया
भवतीनां मे वियोगः क्वचिदपि सर्वात्मना सर्वथा न हि सर्वप्रकारेणोपपादयत वियोगं तथाऽपि संयोग उपपादयितुं शक्य इति वाक्यतात्पर्यम् । तत्र निदर्शनं दर्शयति ॥ यथेति ॥ भूतानि । तानि नामनिर्देशपूर्वकमाह ॥ खमित्यादिना । खमाकाशो वाय्वित्यविभक्तिको निर्देशो वायुरग्निर्जलं मही चेति भूतेषु सर्वशरीरेष्वनुगतानि तथाऽहं सर्वानुगत इति कथं वियोगो मयेति भावः । वायुना सहितश्चासावग्निश्च वाय्वग्निरिति वा ॥ २९ ॥
तथाऽहं च मनःप्राण२भूतेन्द्रियगुणाश्रयः ।
आत्मन्येवात्मनाऽऽत्मानं सृजे हन्म्यनुपालये ॥ ३० ॥
पदरत्नावली
सर्वात्मना सर्वप्रकारेण । एतमर्थं दृष्टान्तेनोपपादयति यथेति । यथा पञ्चभूतानि भूतेषु चराचरशरीरेषु कारणत्वेनानुगतानि तथाऽहम् । कानि तानि भूतानीत्यत आह खमित्यादिना । वाय्वित्यविभक्तिकनिर्देश आर्षः । सामान्यत उक्तं विशिनष्टि मन इति ॥ आत्मना स्वेच्छयैवात्मानं देहादिकमात्मनि सृजे हन्मि संहरामि अनुपालये परिरक्षामि ॥ २९,३० ॥
सत्यधर्मीया
साम्मुग्ध्यं विशिनष्टि ॥ मन इति ॥ तथा भूतवदहं वो मनश्च प्राणश्च बुद्धिश्चेन्द्रियाणि च गुणास्तद्विषयाश्च तेषामाश्रयस्तथाऽऽत्मन्येवानन्यथारतया स्थितः । आत्मना स्वेच्छयैवात्मानं देहादिकं सृजे हन्म्यनुपालये । सर्जनं पालनं संहरणमिति क्रमतो वक्तव्ये व्युत्क्रमत उक्तिर्विधाता धाता हर्ता हर इत्यपप्रथां श्लथयितुम् । पालनं त्वामरपामरं भगवत्कर्तृकमिति निश्चितमिति नान्ते निवेशेऽपि चिन्तेति ॥ ३० ॥
सुमनोरञ्जिनी
एवमुक्त्वा श्रीकृष्णसन्देशं वक्तुमुपक्रमते ॥ श्रूयतामिति ॥ हे भद्राः सुवासिन्यः यं कृष्णसन्देशम् ॥ सन्देशमनुवदति ॥ भवतीनामिति ॥ भवतीनां मे मया वियोगः सर्वात्मना न हि । कथमित्यतः सदृष्टान्तं निरूपयति ॥ यथेति ॥ यथा भूतेषु प्राणिनां शरीरेषु खमाकाशं तदादीनि भूतानि पञ्चमहाभूतानि अनुगतानि तथा अहं च अहमपि मन आदीनि नियामकतया अनुगतः । मनः प्राणबुद्धीन्द्रियगुणा एवाश्रया यस्य सः । मन आदिनियामकतया तत्र स्थित इत्यर्थः । अत्र भूतान्यपि ग्राह्याणि । भूतेन्द्रियेत्यनुवादात् । प्राणाः श्वासवायवः । इन्द्रियाणि मनोबुध्यतिरिक्तानि दश । तयोः पृथक् ग्रहणात् । गुणाः शब्दादयः । ननु भवत एकत्वाद् भूतेन्द्रियादीनामनेकत्वेन कथं तत्र स्थितिरित्यतो रूपविशेषैर्युक्तेत्याह ॥ आत्मनीति ॥ आत्मनि देहसमुदाये । भूतेन्द्रियगुणात्मना । अत्र पूर्वोक्तमनःप्राणबुद्धयो ग्राह्याः । भूतेन्द्रियगुणा-द्यन्तर्यामिबहुरूपस्वरूपेण । आत्मानं स्वात्मानम् । यद्वा भावप्रधानोऽयम् । इत्थंभूतलक्षणे तृतीया । भूतेन्द्रियाद्यन्तर्यामित्वेनेत्यर्थः । सृजे दीपाद्दीपान्तरमिव व्यक्तीकरोमि । अनिरुद्धादिरूपविशेषा-नाविर्भावयामीति यावत् । आत्मनि हन्मि स्वाप्ययसूत्रोक्तरीत्या प्रलये मूलरूप एकीकरोमि । अनुपालये एतावत्कालपर्यन्तं मानुषेषु स्थास्य इति सङ्कल्पं करोमि । तदुक्तमेकादशतात्पर्ये–
दीपाद्दीपान्तरं यद्वत्सृष्टिरीशस्य कीर्त्यते ।
एतावत्कालमासिष्ये मानुषेष्विति चिन्तनम् ।
विष्णोस्त्राणं समुद्दिष्टं स्वस्यैव स्वेच्छयैव तु ।
दीपो दीपान्तरस्येव ह्येकीभावश्च संहृतिरिति ॥ २८-३० ॥
आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ।
आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तो गुणान्वयः ॥ ३१ ॥
पदरत्नावली
आत्मनेत्युक्तं विवृणोति आत्मेति । आत्ममायानुभावेन स्वरूपेच्छासामर्थ्येन । तत्स्वरूपं निरूपयति भूतेति । भूतेन्द्रियगुणात्मान भूतेन्द्रियगुणादीन् व्याप्य वर्तमानेन । अनेन स्वस्य प्रधानकारणत्वं भूतानामवान्तरकारणत्वं चाभिमतमिति न विरोधः । भूतेन्द्रियगुणात्मनेत्यनेना-पाततः प्रतीतजडतादात्म्यं निरसितुं व्यावर्तकधर्मानाचष्टे आत्मेति ॥ ज्ञानमयः पूर्णज्ञानात्मकः शुद्धोऽप्राकृत आनन्दादिगुणानामन्वयो यस्य स गुणान्वयस्तस्माद् व्यतिरिक्तस्तद्भिन्नः ॥३१॥
सत्यधर्मीया
आत्मनेति स्वोक्तं विशदयति ॥ आत्मेति ॥ आत्मनो मायेच्छा गतम् । तस्यानुभावेन सामर्थ्येन । तत्स्वरूपं निरूपयति । भूतेन्द्रियगुणात्मना भूतेन्द्रियगुणादीन्व्याप्य वर्तमानेन । अनेन स्वस्य मुख्यकारणतामवान्तरकारणतां भूतानामभिप्रैतीति न विरोधः । भूतेन्द्रिय-गुणात्मनेत्यनेनापाततः प्रतीतजडतादात्म्यं निराकर्तुं व्यावर्तकधर्मानाह ॥ आत्मेति ॥ ज्ञानमयो ज्ञानात्मकः । शुद्धोऽप्राकृतो निरञ्जनो वा । गुणान्वयो न विद्यते गुणानां सत्त्वादीनामन्वयो यस्य सः, शुणानामानन्दादीनामन्वयो यस्य सोऽप्रधानसम्बद्धः कार्यं कारयतीति गुणान्वयो वाऽतो व्यतिरिक्तस्तद्भिन्न इत्यर्थः ॥ ३१ ॥
सुमनोरञ्जिनी
ननु भवानपि देहादिमानुपलब्धः कथं मन्मन आदिप्रवर्तक इत्यत आह ॥ आत्मेति ॥ य आत्मा मन आदिनियामकः सोऽहमगुणान्वयो ऽगुणाश्रयः सत्वादि-गुणबन्धरहितः प्राकृतदेहादिमान्नेत्यर्थः । शुद्धः निर्दोषः । ज्ञानमयः ज्ञानपूर्णः सर्वज्ञ इति यावत् । अत एव व्यतिरिक्तः युष्मदादिविलक्षण इत्यर्थः । मम शरीरादिमत्वेऽपि मच्छरीरादेरप्राकृतत्वेन मम च निर्दोषत्वसर्वज्ञत्वाभ्यां च युष्मदादिभ्यो विलक्षणत्वाद्युक्तं मन आदिप्रवर्तकत्वमिति भावः
॥ ३१ ॥
सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते ॥ ३२ ॥
पदरत्नावली
उक्तार्थे किं प्रमाणमिति तत्राह सुषुप्तीति । ‘मुख्यतो विष्णुशक्तिर्हि माया-शब्देन भण्यते’ इति ब्रह्मतर्कोक्तेर्मायया हरेरिच्छया वृत्तिर्वर्तनं यासां तास्ताभिरीयते अवगम्यते । ‘बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः’, ‘दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः’ इत्यादिश्रुतिभ्यः ॥ ३२ ॥
सत्यधर्मीया
स केनावसीयत तत्राह ॥ सुषुप्तीति । सुषुप्तिश्च स्वप्नश्च जाग्रच्च तैर्माया च, मुख्यतो विष्णुशक्तिस्तु मायाशब्देन भण्यत इति द्वितीयतात्पर्योक्तेः स्वशक्त्या । वृत्तयः (मायया हरीच्छया वृत्तिः स्वरूपलाभो यासां तास्तथा ताभिः । विजयध्वजीव्याख्या) । सोऽयमात्मा चतुष्पाज्जागरितस्थानेऽन्तः प्रज्ञः । बहिः प्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृत इत्यारभ्य त्रिधा तृप्तिमित्यन्तमण्डूकोपनिषदा । तथा जाग्रद्दर्शनरूपत्वादित्यादीकृत्येति मार्कण्डेय इत्यन्ततद्भाष्येण । तथा स्वप्नस्यान्तः सुषुप्तिः, स्वातन्त्र्यात्स्व इति प्रोक्तो विष्णुः सर्वेश्वरेश्वरः । तं प्राप्नोति मनोनामा संसारी स्वपितीत्यत इत्यादि छान्दोग्यादिभाष्येण चोक्ता वृत्तयस्ताभिरीयते । स्वप्नादिकं सकर्तृकं कार्यत्वाद् घटवदित्यनुमानेन ज्ञायते ॥ ३२ ॥
सुमनोरञ्जिनी
अस्मिन्नर्थे प्रमाणमाह ॥ सुषुप्तीति । मायावृत्तिभिर् मायया भगवदिच्छया वृत्तिर् वर्तनं यासां ताभिः सुषुप्तिस्वप्नजागृद्भिस् तदाख्यावस्थाविशेषैः । आत्मा ज्ञानमय इत्यादि । ईयते अनुमीयते । तथा हि । अवस्थात्रयं तावत्सर्वेषामनुभवसिद्धम् । न च तज्जीवकर्तृकम् । जीवस्यास्वातन्त्र्यदर्शनात् । अतो भगवदिच्छाधीनमङ्गीकार्यम् । स च भगवानल्पज्ञानादि-मांश्चेज्जीवतुल्यः स्यात् । अतः पूर्णज्ञानादिमानङ्गीकार्य इति ॥ ३२ ॥
एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् ।
त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः ॥ ३३ ॥
पदरत्नावली
निर्दुष्टवेदादिकं भगवदपरोक्षज्ञानपर्यवसायीत्याशयेनाह एतदन्त इति ॥ समाम्नायो निर्दोष आगमः योगः समाध्यादिः, साङ्ख्यं पञ्चरात्रं, ‘मिथ्याभिमानविरतिस्त्याग इत्यभिधीयते’ इति नारायणाध्यात्मवचनात् त्यागो मिथ्याभिमानवर्जनं, तपो दमः सत्यमित्यादिरापगा नद्यः समुद्रान्ता इवैतदन्त एतदपरोक्षज्ञानमेवान्ते जन्यत्वेन यस्य स तथा । ‘वासुदेवपरा वेदा वासुदेवपरा मखाः । वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥ वासुदेवपरं ज्ञानं वासुदेवपरं तपः । वासुदेवपरा धर्मा वासुदेवपरा गतिः’ इत्यादेः ॥ ३३ ॥
सत्यधर्मीया
नैतच्छुष्कमनुमानमिति तन्मूलयति ॥ एतदन्त इति ॥ एतस्यानु-मानिकार्थस्यान्तो निर्णयो येन स समाम्नाय आगम उदाहृतः । स विश्वकृत्स हि सर्वस्य कर्तेत्यादेः । समा निष्पातनिकार्थतया सम्यक्त्वमाम्नायस्य ज्ञेयम् । योगः समाध्यादिः साङ्ख्यं पञ्चरात्रं त्यागो दानं दुःसमयवर्जनं वा तपो दमः सत्यमित्यादिः । सर्वोऽप्येतदन्त एष भगवदपरोक्षावगमोऽन्ते यस्य स तत्पर्यवसायीति यावत् । यथाऽऽपगा अपगा वा नद्यः समुद्रान्तर्नदीनां सागरो गतिः । आकाशात्पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छतीत्यादेः । सर्वसर्गादिरूपव्यापारे भगवदवगमके सति किं सुषुप्त्यादिग्रहणमिति चेत् सत्यम् । गोपीः प्रतीदं वचनमिति ताश्च कामतः सह शय्या इति तदाद्युक्तिरिति मन्तव्यम् । सुषुप्तिर्मोक्षस्तदर्थं स्वप्ने स्वापगमके स्वापं नयन्निति तथा स्वर्गः सुषुप्तिरित्याख्या मुक्तेरपि समा यत इति च बृहद्भाष्योक्तेः । स्वप्ने हरौ जाग्रद्भिर्जागरणवद्भिस्तत्रैव निरतैर्मायावृत्तिभिर्भगवदिच्छयैव वृत्तिर्वर्तनं येषां ते तैरीयते तत्प्रत्यक्षतो विषयीक्रियत इति मनीषिणां समाम्नायः । सर्वोऽप्यभ्यासस्तथा योगं साङ्ख्यं त्यागस्तपो दमः सत्यमित्यादिरापगाः ससुद्रान्ता इवैतदपरोक्षज्ञानमेवान्ते जन्यत्वेन यस्य तथेति वा ॥३३॥
सुमनोरञ्जिनी
समाम्नायः सर्वोऽपि वेदतन्मीमांसादिः । एतदन्त एतस्य पूर्वोक्तार्थस्य विष्णोः पूर्णज्ञानत्वादिरूपस्य अन्तो निर्णयो येन स उक्तार्थनिश्चायक इत्यर्थः । ननु वेदे क्वचिद्ज्ञानोपायः क्वचिच्च ज्ञानम् । क्वचिच्च त्यागादि । तत्कथं सर्वोऽप्येतदन्त इत्यत आह ॥ योग इत्यादि ॥ योगो ज्ञानोपायः । एतदन्त एतद्ज्ञानपर्यन्तः । एतद्ज्ञानार्थमेवोपदिश्यत इति यावत् । साङ्ख्यं ज्ञानम् । एतदन्तम् एतदर्थनिश्चयरूपमेव । त्यागादिकमपि एतदन्तम् एतद्ज्ञानपर्यन्तमेवेति । त्यागः फलकामनावर्जं दानं वा । सत्यं मनोवाक्कर्मणामवैपरीत्यम् । तत्र दृष्टान्तः ॥ समुद्रेति ॥ आपगा नद्यः समुद्रान्ता समुद्रपर्यवसायिन्यः ॥ ३३ ॥
यत्त्वहं भवतीनां वै दूरे वर्त्यपि यो दृशाम् ।
मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया ॥ ३४ ॥
पदरत्नावली
कस्त्यजेन् मां भवादृगित्युक्तिपरिहारमिवाह यत्त्विति ॥ योऽहमन्तिकादन्तिके वर्त्यपि भवतीनां दृशां दूरे वर्तीति प्रतीयत इति यत् तन्मदनुध्यानकाम्यया ममानुध्यानं निरन्तरोपासनं तत्काम्यया तदिच्छया युष्मन्मनसः सन्निकर्षार्थं संयोजनार्थमेवेत्यर्थः ॥ ३४ ॥
दुर्घटभावदीपिका
दृशां दूरे वर्तीत्यस्य दृशामविषय इत्यर्थः । एतेन भगवतः सर्वगतत्वेन दृशां समीपे विद्यमानत्वाद् दृशां दूरे वर्तीति कथनमयुक्तमिति चोद्यं निराकृतम् । दृशां दूरे वर्तीत्यनेन दृग्दूरवर्तित्वकार्यस्य दृगविषयत्वस्य गृहणात् ॥ ३४ ॥
सत्यधर्मीया
कस्त्यजेन्मां भवादृगिति मृगदृशो वदिष्यन्तीति विदितवृत्तः सर्ववित्तदुत्तरयति ॥ यत्त्विति ॥ भवतीनां वैदूरे विदूरमेव वैदूरं तस्मिन्समीपे वर्त्यपि दृशां दूरेऽहमभवमिति यत्तन्मदनु-ध्यानकाम्यया ममानुध्यानमखण्डं ध्यानं तत्काम्यया तदिच्छया । मदं नुदतीति मदनुदहङ्कारपरिहारकं यद्ध्यानं तत्काम्ययाऽहङ्कृता इत्येवमहङ्कृतवानिति वा युष्मन्मनसः सन्निकर्षार्थं मनःसंयोजनार्थमेवेति
॥ ३४ ॥
सुमनोरञ्जिनी
सत्यं, सर्वदा सर्वत्र सुसन्निहितो भवानिति तथापि दृशां दूरत्वात्खेद इत्यत-स्तदपि भवतीनामनुग्रहार्थमेव कृतमित्याह ॥ यदिति ॥ यदपि भवतीनां दृशां दूरे वर्ती दूरे अस्मि तदपि यदनुध्यानं मदुपासनं तस्य काम्यया भवतीनां भूयादितीच्छया । मनसः सन्निकर्षार्थं मयि मनोनिवेशनार्थमेवेति ज्ञेयम् ॥ ३४ ॥
यथा दूरतरे प्रेष्ठे मन आविश्य वर्तते ।
स्त्रीणां च न तथा चेतः २सन्निकृष्टेऽक्षिगोचरे ॥ ३५ ॥
पदरत्नावली
निदर्शनेनैतमर्थमुपपादयति यथेति । च शब्दात् पुरुषाणामपि बोध्यम् । अक्षगोचरे इन्द्रियविषये ॥ ३५ ॥
सत्यधर्मीया
किमस्माकं समीपे सति भगवति भगवन्मनस्सन्निकर्षो दुष्कर इत्यतः सत्यमित्युत्तरयति ॥ यथेति ॥ दूरतरे प्रेष्ठे मन आविश्य वर्तते लग्नं भवतीति यावत् तथा स्त्रीणां चेतः सन्निकृष्टे पूर्वं सङ्गसहितेऽक्षिगोचरे चक्षुर्विषये । अक्षगोचर इति पाठ इन्द्रियविषय इत्यर्थः । नाविश्य वर्तत इत्यनुवर्तते । चशब्दात्पुरुषाणामित्यपीति । स्वयं तु लोकविलक्षणः पुमानिति सूचयितुं कण्ठतोऽनुक्तिरिति ज्ञेयम् ॥ ३५ ॥
सुमनोरञ्जिनी
तदेवोपपादयति ॥ तथेति । स्त्रीणां, चशब्देन पुरुषाणां मनः दूरतरे प्रेष्ठे वस्तुनि आविश्य प्रविश्य यथा वर्तते चेतः, सन्निकृष्टे तस्मिन्नेवाक्षिगोचरे चक्षुर्विषये न तथेति
॥ ३५ ॥
मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत् ।
अनुस्मरन्त्यो मां नित्यमचिरान्मामुपेष्यथ ॥ ३६ ॥
पदरत्नावली
लोके प्रियतमस्मरणे फलसन्देहो यथा न तथा मत्स्मरणं फलनिश्चयादिति भावेनाह मयीति । विमुक्ता अशेषवृत्तयो येन तत् तथा ॥ ३६ ॥
सत्यधर्मीया
कृत्स्नं स्ववृत्तिनिकुरम्बं तन्मनो मय्यावेश्य । कीदृक् तदित्यत ईदृगित्याह । विमुक्ता अशेषवृत्तयो येन तत्तथा । मां नित्यमनुस्मरन्त्योऽचिरात्त्वरया मामुपेष्यथ तत्र मां श्रियं स्वरूपसम्पदमुपेष्यथेत्यप्यन्वयसूचनार्थं पुनर्मामित्युक्तिरिति ज्ञेयम् ॥ ३६ ॥
सुमनोरञ्जिनी
यद् यदा । कृत्स्नं यथा स्यात्तथा । विमुक्ता अशेषवृत्तयः कामसंकल्पादयो यस्मात्तथाविधं मनो मय्याविश्य । असंप्रज्ञातसमाधिस्था इति यावत् । नित्यं मामनुस्मरन्त्यो यूयं तदा अचिरात् शीघ्रं मामुपेष्यथ ॥ ३६ ॥
यन्मया क्रीडिता रात्रीर्वनेऽस्मिन् व्रज आस्थिताः ।
अलब्धरासाः कल्याण्य आपुर्मां मद्विचिन्तया ॥ ३७ ॥
पदरत्नावली
अस्मिन्नर्थे तासामनुभूत्यैव विश्वासं जनयन्नाश्वासयति यदिति ॥ यद् यथा व्रजे आस्थिता अस्मिन् वने अलब्धावासकल्याणा अप्राप्तगृहसुखा यूयं मया रात्रीः क्रीडिता मद्विचिन्तया मामापुस्तथा मामुपेष्यथेति ॥ ३७ ॥
सत्यधर्मीया
रोचनार्थं रसनाग्रोपरितनी वाणीति नेति भवदनुभूतमिदं प्रमेयमित्युक्त्या ता विश्वासं जनयन्नाश्वासयति ॥ यदिति ॥ यद्यस्मादस्मिन्वने आगताभिर्गोपीभी रात्रीः क्रीडिता मया व्रजे आस्थिताः पतिप्रतिषिद्धा व्रजाद्व्रजन्त्योऽलब्धरासोऽलब्धो रासो रासक्रीडा याभिस्ताः कल्याण्यो मद्विचिन्तया किं तया तन्वेति तां त्यक्त्वा मामापुः प्राप्ताः । एवमनुवादेन सैका पतिविधृता पदमाप विष्णोरितिवत्काश्चन स्वधवप्रतिषिद्धा भगवन्तमगुरिति । अन्तर्गेहगता इत्यारभ्य जहुर्गुणमयं देहमित्यन्तोक्तमनुसन्धेयम् । व्रज आस्थिता इति च सुलग्नमेतत्पक्षे । उपेष्यथेतीदं कायं विहायेत्यर्थकमिति तदानुगुण्यं च गुण्यैरस्मत्पक्षे वर्तत इति विभावनीयम् । अलब्धवासकल्याणा इति पाठोऽपि कल्याणकरो ऽलब्धं रासक्रीडाकल्याणं याभिस्ताः सत्य इत्यर्थः ॥ ३७ ॥
सुमनोरञ्जिनी
व्रजे आस्थिता भवत्यो ऽलब्धावासकल्याणा अलब्धमावासकल्याणं गृहसुखं याभिस्ताः । मामापुः । मया सह रात्रीर् वने क्रीडिताश्चेति यत् तन् मद्विचिन्तया प्राग्भवीयमदनुचिन्तनेनैवेति । अतः सन्ततं मदनुचिन्तनेनैव मत्प्राप्तिर्भवतीति ज्ञेयमिति भावः
॥ ३७ ॥
श्रीशुक उवाच—
एवं प्रियतमादेशमाकर्ण्य व्रजयोषितः ।
ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः ॥ ३८ ॥
पदरत्नावली
प्रियतमस्य ‘तदेतत् प्रेयः पुत्रात्, प्रेयो वित्तात्, प्रेयोऽन्यस्मात् सर्वस्मा-दन्तरन्तरं यदयमात्मा’ इत्यादेरतिप्रियस्यादेशमाज्ञारूपं वचनम् । तत्सन्देशेनागता स्मृतिर्भगव-द्विशेषस्मरणा यासां तास्तथा ॥ ३८ ॥
सत्यधर्मीया
प्रियतमस्य पुत्रात्प्रेयो वित्तात्प्रेय इत्यादेरतिप्रियस्यादेशमाज्ञारूपं वचनम् । तत्सन्देशेनागता स्मृतिर्विशेषतो यासां ता आगतस्मृतयः प्रीता उद्धवं प्रत्यूचुः ॥ ३८ ॥
सुमनोरञ्जिनी
प्रियतमस्य कृष्णस्य आदेश उपदेशः । तस्य सन्देशेन आगता स्मृतिर्भगव-न्माहात्म्यविषयिणी स्मृतिर्यासां ताः ॥ ३८ ॥
गोप्य ऊचुः—
दिष्ट्याऽऽहितो हतः कंसो यदूनां सानुगोऽघकृत् ।
दिष्ट्याऽप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना ॥ ३९ ॥
पदरत्नावली
यदूनामहितः । सानुगः सभृत्यः । आप्तैर्वसुदेवादिभिः । अच्युत इत्युक्त्या कुशलप्रश्नो लोकमपेक्ष्येति सूचयन्ति ॥ ३९ ॥
सत्यधर्मीया
यदूनां सानुगः सदासोऽघकृत्पापकार्योऽहितः कंसो दिष्ट्या हतः । दिष्ट्यैव ॥ आप्तैर्वसुदेवादिभिर्लब्धाः सर्वार्था येन स सन् अधुनाऽच्युतः कुशल्यास्ते कच्चित् । अच्युत इति वचनेन कुशलप्रश्नो लोकमपेक्ष्येति सूचयन्ति ॥ ३९ ॥
सुमनोरञ्जिनी
यदूनाम् अहितो ऽघकृद् बालहत्याद्यघकृत् । लब्धः सर्वार्थः सर्वपुरुषार्थो यैस्तैराप्तैर् वसुदेवादिभिः सह । अच्युतः कुशली क्षेमवानास्ते । तद्दिष्ट्या आनन्दकरम् ॥ ३९ ॥
कच्चिद् गदाग्रजः सौम्य करोति पुरयोषिताम् ।
प्रीतिं सुस्निग्धसव्रीडहासोदारेक्षणा२ञ्चितः ॥ ४० ॥
पदरत्नावली
ताभिः पुरयोषिद्भिः सुस्निग्धानि सव्रीडानि हाससहितान्युदाराणीक्षणानि तैरर्जितः ॥ ४० ॥
सत्यधर्मीया
पुरयोषितां गदाग्रजः प्रीतिं करोति कच्चित् । ताभिः पुरयोषिद्भिः सुस्निग्धानि सव्रीडानि हाससहितान्युदाराणीक्षणान्यवलोकनानि तैरञ्चितः सन् एवं तत्सत्कृतः स्वयं तत्फलरूपां प्रीतिं करोति कच्चिदित्यन्वयः । क्वचिदिति पाठे क्वचित्करोति किमित्यर्थः ॥ ४० ॥
सुमनोरञ्जिनी
गदाग्रजः गदनाम्नो वसुदेवपुत्रस्य अग्रजः श्रीकृष्णः । सु अत्यन्तं स्निग्धः स्नेहसहितः सव्रीडः व्रीडायुक्तो यो हासस् तेन उदारमुत्कृष्टमीक्षणं तेनार्चितः सन् पुरयोषितां प्रीतिं करोति कच्चित् ॥ ४० ॥
कथं रतिविशेषज्ञः प्रियश्च पुरयोषिताम् ।
नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः ॥ ४१ ॥
पदरत्नावली
विभ्रमैर्विलासैरनुभाजितः सभाजितस्तासां वाक्यैः कथं नानुबध्येत ॥४१॥
दुर्घटभावदीपिका
यतः कृष्णो रतिविशेषज्ञो रतौ प्रीतिमांश्च पुरयोषितां प्रियश्चातस्तद्वाक्यैः पुरयोषित्प्रयुक्तवाक्यैर्विभ्रमैर्विलासैश्चानुभाजितः सम्यक् पूजितःसन् कथं नानुबद्ध्येतेति । एतेन रतिविशेषज्ञानवद्रतौ प्रीतिमत्त्वस्यापि स्त्रीवाक्यादिना बद्धत्वं प्रति योजकत्वाद्रतौ प्रीतिमांश्चेति वक्तव्यमिति शङ्काऽनवकाशः । रतिविशेषज्ञशब्दस्य रतिप्रीतिमत्वोपलक्षकत्वमित्यङ्गीकारात् । एतेन पुरयोषित्प्रियत्वस्य पुरयोषिद्वाक्यादिना बद्धत्वं प्रति योजकत्वाभावात् । पुरयोषिदित्येतद्व्यर्थमिति चोद्यं निरस्तम् । पुरयोषितां प्रियत्वस्य पुरयोषिद्वाक्यप्रयोगादिकं प्रति हेतुत्वमित्यभ्युपगमात्
॥ ४१ ॥
॥ इति श्रीभागवतटिप्पण्यां श्रीसत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे पञ्चचत्वारिंशोऽध्यायः ॥ १०-४५ ॥
सत्यधर्मीया
अनुभाजितः सभाजितः पात्रीकृत इति वा रतिविशेषज्ञः पुरयोषितां प्रियश्च संस्तद्वाक्यैः परयोषितां विभ्रमैर्विलासैः कथं नानुबद्ध्येत न बद्धः स्यात् स्याच्च बद्ध एवेति भावः
॥ ४१ ॥
सुमनोरञ्जिनी
रतेर्ये विशेषास् तान् जानातीति तथाविधः । अत एव पुरयोषितां प्रियश्च । पुरयोषितामित्यनेन तासामपि तदभिज्ञता ध्वनिता । विभ्रमैः श्रङ्गारचेष्टाभिर् अनुभाजितः सभाजितः कथं नानुबध्येत ॥ ४१ ॥
अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् ।
गोष्ठीमध्ये पुरस्त्रीणां ग्राम्यस्वैरकथान्तरे ॥ ४२ ॥
पदरत्नावली
गोविन्दः पुरस्त्रीणां गोष्ठीमध्ये व्यवहरणान्तरे तथा ग्राम्यस्वैरकथान्तरे सुरतकालिकेच्छाप्रवृत्तकथाविशेषान्तरे प्रस्तुते प्रसक्ते वा क्वचिन्नः स्मरति किमित्यर्थः ॥ ४२ ॥
सत्यधर्मीया
केवलमेकान्तिको देवस्येति परमरहस्यं पृच्छन्ति ॥ अपीति ॥ गोविन्दः पुरस्त्रीणां गोष्ठीमध्ये व्यवहरणान्तरे तथा ग्राम्यस्वैरकथान्तरे सुरतकालिकेच्छाप्रवृत्तकथान्तरे प्रस्तुते वा क्वच्चिन्नः स्मरति ॥ ४२ ॥
सुमनोरञ्जिनी
पुरस्त्रीणां गोष्ठीमध्ये सभामध्ये । ग्राम्ये इन्द्रियग्रामविषये । स्वैरकथान्तरे स्वच्छन्देन व्यवह्रीयमाणकथाविशेषे प्रस्तुते सति ॥ ४२ ॥
ताः किं निशाः स्मरति यासु तदा प्रियाभिर्वृन्दावने कुमुदकुन्दशशाङ्करम्ये ।
रेमे क्वणच्चरणनूपुररासगोष्ठ्यामस्माभिरीडितमनोज्ञकथः कदाचित् ॥ ४३ ॥
पदरत्नावली
यासु निशासु प्रियाभिरस्माभिरीडितमनोज्ञकथः सन् प्रियाभिरस्माभिः सह रेमे ता निशाः कदाचित् स्मरति किमित्यर्थः ॥ ४३ ॥
सत्यधर्मीया
यासु निशासु कुमुदकुन्दैः शशाङ्केन च रम्ये वृन्दावने क्वणच्चरणनूपुररास-गोष्ठ्यामीडितमनोज्ञकथस्तदा प्रियाभिरस्माभिरित्युभयान्वयि । अस्माभिः सह रेमे ता निशाः कदाचित्स्मरति किमित्यन्वयः ॥ ४३ ॥
सुमनोरञ्जिनी
तदा वृन्दावनावासकाले । कुमुदैः कुन्दैः शशाङ्केन च रम्ये वृन्दावने । क्वणन्ति चरणनूपुराणि यस्यां सा च सा रासगोष्टी रासक्रीडास्थानं तस्याम् । तदा तस्मिन् । प्रियाभिर् अस्माभिः । ईडिताः स्तुतिपूर्वं कथिता मनोज्ञा कथा यस्य सः । यासु रात्रिषु रेमे ता निशाः कदाचित् स्मरति ॥ ४३ ॥
अप्येष्यतीह दाशार्हस्तप्तं स्वकृतया शुचा ।
सञ्जीवयन् व्रजं गात्रैर्यथेन्द्रो वनमम्बुदैः ॥ ४४ ॥
पदरत्नावली
स्वकृतया स्वनिमित्तया शुचा तप्तं व्रजं तत्स्थं जनं गात्रैः स्पृष्टैरवयवैः सञ्जीवयन्निहैष्यत्यपि किम् ॥ ४४ ॥
सत्यधर्मीया
स्वकृतया स्वनिमित्तया शुचा तप्तं व्रजं तत्स्थं स्त्रीजनं गात्रैः स्पृष्टैः सञ्जीवयन्निहैष्यत्यपि किम् । अनेनामृतमयतामवयवानां कटाक्षयन्ति । तत्र निदर्शनमाहुः ॥ यथेति ॥ इन्द्रस्तप्तं निदाघतो वनमम्बुदैर्मेघैर्यथेति । गात्राणामप्यम्बुदसाम्यं ध्वनयन्ति ॥ ४४ ॥
सुमनोरञ्जिनी
स्वकृतया स्वनिमित्तया । स्वविरहनिमित्तेनेति यावत् । शुचा तप्तं सन्तप्तं व्रजम् । गात्रैर् अवयवैः संजीवयन् आप्याययन् ॥ ४४ ॥
कस्मात् कृष्ण इहायाति प्राप्तराज्यो हताहितः ।
विहृत्य नगरस्त्रीभिः प्रीतः सर्वसुहृद्वृतः ॥ ४५ ॥
पदरत्नावली
अदीर्घेण कालेनागमिष्यामीति यदुक्तं तत् प्रलोभनमात्रमिति सहेतुकं वक्ति कस्मादिति ॥ ४५ ॥
सत्यधर्मीया
तां प्रति वा साम्मुग्ध्येन वा काचित्प्रौढा दीर्घेण कालेनागमिष्यामीति प्रलोभनमात्रमिति सहेतुकं वक्ति ॥ कस्मादिति ॥ प्राप्तराज्यो हताहितो नगरस्त्रीभिर्विहृत्य प्रीतः सर्वसुहृद्वृत्तश्चेत्यनागमनहेतवः । कस्मादिहायाति न कारणं पश्याम इत्याशयः ॥ ४५ ॥
सुमनोरञ्जिनी
प्राप्तराज्यादिः कृष्णः कस्मान्निमित्तादिहायाति । हता अहिताः शत्रवो येन सः ॥ ४५ ॥
किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः ।
श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः ॥ ४६ ॥
पदरत्नावली
वनमोको यासां ताभिरस्माभिः किं प्रयोजनम्? अन्याभिर्नगराङ्गनाभिरप्यर्थः प्रयोजनं क्रियेत किम्? महात्मत्वश्रीपतित्वाप्तकामत्वकृतात्मत्वानि प्रयोजनाभावे निमित्तानि । कृतात्मनः पूर्णस्वरूपस्य । ‘विहिते हिंसिते पूर्णे पर्याप्तयुगयोः कृतम्’ इत्युत्पलमाला ॥ ४६ ॥
सत्यधर्मीया
तत्रोद्धवद्धारा स्वधवमाधवबोधनोद्बुद्धस्मृतिमती काचिद्वदति ॥ किमिति ॥ वनमोको यासां ताभिः किं किं प्रयोजनम् । तथाऽन्याभिर्नगराङ्गनाभिरप्यर्थः क्रियेत किं नेत्यर्थः । महात्मत्वं श्रीपतित्वमाप्तकामत्वं कृतात्मत्वं च तत्कृतार्थाभावे हेतवः ॥ ४६ ॥
सुमनोरञ्जिनी
परमार्थबुध्या त्वाहुः ॥ वनौकाभिर् वनवासिनीभिः । अन्याभिः पुरस्त्रीभिर्वा किं किं प्रयोजनम् । तत्र हेतुत्रयम् ॥ श्रीपतेरिति ॥ आप्तकामस्य अवाप्तपरमानन्दस्य । कृतात्मनः पूर्णस्य । अर्थः किं क्रियेत किं सुखं कुर्यात् ॥ ४६ ॥
परं सुखं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला ।
तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया ॥ ४७ ॥
पदरत्नावली
आशा अतितृष्णा ॥ ४७ ॥
सत्यधर्मीया
इत आशा कुतस्तथाऽपि सा नात्येतुं शक्येत्याहुः ॥ परमिति ॥ नैराश्यं परं सुखम् । स्वैरिणी पिङ्गला तन्नाम्नी वारनार्याह । एकादशे प्रोक्ता तत्कथाऽनुसन्धेया । तत्तद्वचनं जानतीनामप्यस्माकं कृष्णे तथाऽपि । तथाप्येति छेदः । आशा दुरत्यया । साऽप्येतमेव परोक्षतः कान्तं मत्वा नश्यत्कान्तान्तराशां तत्याज । वयं त्वपरोक्षतः सम्प्राप्तसङ्गाः कथय कथं त्यक्ष्यामाशामित्याशयः । यथोक्तमेकादशे । सन्तं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यमिमं विहाय । अकामदं दुःखभयादिशोकमोहप्रदं जारमहं भजेऽज्ञेति ॥ ४७ ॥
सुमनोरञ्जिनी
तथा स्वैरिण्यपि पिङ्गला तन्नाम्नी वेश्या । नैराश्यं परं सुखमित्याह । तथापि तत्पिङ्गलोक्तं जानतीनां न आशा तृष्णा दुरत्यया त्यक्तुमशक्या ॥ ४७ ॥
क उत्सहेत सन्त्यक्तुमुत्तमश्लोकसंविदम् ।
अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित् ॥ ४८ ॥
पदरत्नावली
अनिच्छतोऽपि भगवतोऽङ्गान्नित्यमुक्ता रमाऽपि क्वचिदपि न च्यवते किमुतास्माभिः कृष्णाशा दुस्त्यजेत्याशयेनाह क उत्सहेतेति । उत्तमश्लोकसंविदं तेनैकान्तव्यवहरणं सन्त्यक्तुं कः स्त्रीजन उत्सहेत ॥ ४८ ॥
सत्यधर्मीया
इत उत्तरत्र तद्गात्रसङ्गो नास्माकमिति पुंस्त्वमेवारोप्य स्त्रीजनो वक्ति ॥ क इति ॥ उत्तमश्लोकसंविदं तेनैकान्तव्यवहरणं सन्त्यक्तुं कः स्त्रीजन उत्सहेत । या श्रीः साऽपि यस्याङ्गात्क्वचिदपि न च्यवते । सोऽपि तदाकाङ्क्षते इति सा तदाकाङ्क्षेति नेत्याह ॥ अनिच्छतोऽपीति । स्वरतत्वान्मुनिवर्य शैल इति पञ्चमोक्तिवदङ्गस्मरणाभावेन क इत्युक्तिर्वाऽतो न दृष्टान्तदार्ष्टान्तिकव्यत्यासः ॥ ४८ ॥
सुमनोरञ्जिनी
न केवलमस्माकमेव श्रीकृष्णतृष्णा दुरत्यया किं तु सर्वेषामपीत्याहुः ॥ क इति । उत्तमश्लोकेन सहसंविदं मैत्रीम् । अनिच्छतोऽपि आप्तकामत्वेनेच्छारहितत्वेऽपि । अङ्गाद् वक्षसः ॥ ४८ ॥
सरिच्छैलवनोद्देशा गावो वेणुरवा इमे ।
सङ्कर्षणसहायेन कृष्णेनाक्रीडिताः प्रभो ॥ ४९ ॥
सत्यधर्मीया
न तद्विस्मरणे शक्ता इति वदन्ति ॥ सरिदिति । तत्प्रदेशा गावस्तदङ्कितनाम्न इमे तत्किञ्चित्सजातीयो बुद्धिसन्निधानादिम इत्युक्तिः । वेणुरवाः सङ्कर्षणसहायेनाक्रीडिताः सरिच्छैलवनोद्देशाश्च तं याचितमस्मारयन्तीति वा ॥ ४९ ॥
सुमनोरञ्जिनी
कृष्णेन आक्रीडिताः क्रीडारङ्गत्वेन कृता इमे सरिच्छैलवनानामुद्देशाः प्रदेशाः ॥ ४९ ॥
पुनःपुनः स्मारयन्ति नन्दगोपसुतं बत ।
श्रीनिकेते तत्पदके विस्मर्तुं नैव शक्नुमः ॥ ५० ॥
सत्यधर्मीया
श्रीनिकेते तत्पदके धूल्यङ्किते पदके ॥ ५० ॥
सुमनोरञ्जिनी
बत हर्षे । श्रियो निकेते तस्य कृष्णस्य पदके पादौ वयं विस्मर्तुं नैव शक्नुमः ॥ ५० ॥
गत्या ललितयोदारहासलीलावलोकनैः ।
माध्व्या गिरा हृतधियः कथं तद् विस्मराम हे ॥ ५१ ॥
पदरत्नावली
तद् गत्यादि कथं विस्मराम । हे प्रभो इति पूर्वेणान्वयः ॥ ५१ ॥
सत्यधर्मीया
तद्गत्यादि विस्मराम । हे प्रभो इत्यन्वयः ॥ ५१ ॥
सुमनोरञ्जिनी
स्नेहातिशयवशेन पुनरप्याह ॥ गत्येति । ललितया मनोहरया । माध्व्या मधुरया । तद् गत्यादिकम् ॥ ५१ ॥
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।
मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ ५२ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे पञ्चचत्वारिंशोऽध्यायः ॥
पदरत्नावली
व्रजनाथ तत्स्वामिन् । आर्तिसागरे मग्नमित्यर्थः ॥ ५२ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे पञ्चचत्वारिंशोऽध्यायः ॥
सत्यधर्मीया
सर्वा अपि पारवश्येन सम्बोध्य प्रार्थयन्ते ॥ हे नाथेति ॥ नाथेदानीमस्मत्प्रेष्ठ याचितैश्वर्यमूर्ते वा । व्रजनाथ तत्स्वामिन् । व्रजनाथस्य नन्दस्यार्तिनाशनेति वा । अविशेषेणार्तिनाशन इति वा । मग्नं तत्रैव तस्माद्वृजिनार्णवाद्गोविन्द त्वमुद्धर । गोविन्देति वचनेन गिर्युद्धरणादिकं कृत्वा स्वावनं प्राग्यथा कृतं तथोत्तरत्रापि स्वानुभवं हेतुं ध्वनयन्ति ॥ ५२ ॥
॥ इति श्रीमद्भागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे पञ्चचत्वारिंशोऽध्यायः ॥
सुमनोरञ्जिनी
भक्त्युद्रेकेणाहुः ॥ हे नाथेति । वृजिनं दुःखम् । वृजिनं दुःखमकं तोद इत्यभिधानात् ॥ आर्तिनाशन सांसारिकार्तिपरिहारक व्रजनाथानां गोपानाम् आर्तिनाशनेति वा
॥ ५२ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्यां पञ्चचत्वारिंशोऽध्यायः ॥