१९ चतुश्चत्वारिंशोऽध्यायः

वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा

॥ अथ चतुश्चत्वारिंशोऽध्यायः ॥

श्रीशुक उवाच—

वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा ।

शिष्यो बृहस्पतेः साक्षादुद्धवो बुद्धिसत्तमः ॥ १ ॥

पदरत्नावली

स्वभक्तानुरक्तो भगवान् सुभक्त्यैव सम्प्रीयते इत्यर्थप्रतिपादनाय निश्चलामल-भक्तियुक्तगोपगोपीषु हरेरनुग्रहोन्मुखत्वं निरूपयत्यस्मिन्नध्याये । तत्रादौ स्वानुरक्तगोपगोपीनां सान्त्वनकर्मणि सन्मित्रमन्त्रिणा भाव्यमिति उद्धत्वं प्रेषणार्थं वर्णयति वृष्णीनामिति ॥ बुद्धिसत्तमो बुद्ध्याऽतिश्रेष्ठः ॥ १ ॥

सत्यधर्मीया

भक्तिमत्यस्ता अहं च भक्त्यनुरक्तोऽतस्त्वं गोकुलं गत्वा मत्सन्देशैः समाधत्स्वे त्युद्धवं प्रेषयामासेति सकरुणो देव इति प्रतिपाद्यतेऽस्मिन्नध्याये । तत्रादौ तमुपदिदेशैवमिति शंसति शुक इत्याह ॥ श्रीशुक इति ॥ वृष्णीनां प्रवरो मन्त्री अमात्य आलोचनापर इति वा दयितः सखा च बृहस्पतेः साक्षाच्छिष्यो बुद्धिसत्तमो बुद्धिः सती येषु ते बुद्धिसन्तस्तेषां श्रेष्ठ इति बुद्धिसत्तमः ॥ १ ॥

सुमनोरञ्जिनी

भगवतो भक्तानुकम्पिता निरूपयत्यस्मिन्नध्याये । दयितः प्रेष्ठः दयापात्रं वा । सखा मित्रम् ॥ १ ॥

तमाह भगवान् प्रेष्ठं भक्तमेकान्तिनं क्वचित् ।

गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः ॥ २ ॥

पदरत्नावली

य एवं विधगुणोपेत उद्धवस्तमाह । क्वचिद् रहसि ॥ २ ॥

सत्यधर्मीया

एकान्तिनमेकान्तभक्तं रहस्यप्रमेयनिरूपणयोग्यमिति वा ॥ २ ॥

सुमनोरञ्जिनी

एकांतिनं भक्तम् । क्वचिद् रहस्यस्थाने ॥ २ ॥

गच्छोद्धव व्रजं सौम्य पित्रोर्नः प्रीतिमावह ।

गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय ॥ ३ ॥

पदरत्नावली

मद्वियोगाद्धेतोर्या आधिर्मनःपीडा ताम् ॥ ३ ॥

सत्यधर्मीया

नः पित्रोर्यशोदानन्दयोस्तथा गोपीनां मद्वियोगाधिं मत्सन्देशैरेष आयास्यतीत्यादिभिर्विमोचय ॥ ३ ॥

सुमनोरञ्जिनी

पित्रोर् यशोदानन्दयोः । आवह प्रापय । मद्वियोगेन मद्विरहेण य आधिर् मानसी व्यथा ताम् । मत्सन्देशैर् मद्वचनैः ॥ ३ ॥

ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः ।

मामेव दयितं प्रेष्ठमात्मानं मनसाऽगताः ॥ ४ ॥

पदरत्नावली

मय्येव मनो यासां तास्तथा । अहमेव प्राणो जीवनं यासां तास्तथा । मदर्थे त्यक्ता दैहिका अशनशयनादयो याभिस्तास्तथा । दयाऽस्य सञ्जातेति दयितस्तं दयावन्तम् । आत्मानं स्वामिनम् ॥ ४ ॥

सत्यधर्मीया

तत्स्वभाववेदितारमप्युद्धवं प्रेमातिशयवशाद्देव आवेदयति ॥ ता इति । मन्मनस्का मयि मनो यासां ताः । मत्प्राणा अहमेव जीवनं चेष्टको वा यासां ताः । मदर्थे मन्निमित्तं त्यक्तो दैहिको लज्जादिर्धर्मो याभिस्ताः । दयितं प्रेष्ठादपि प्रेष्ठं मामेवमात्मानं स्वामिनं मनसाऽत्रैवागता गात्रमात्रं तत्रेति तात्पर्यम् । पूर्वोक्ततन्मनस्कताविवरणपरमिदमिति केऽपि ॥४॥

सुमनोरञ्जिनी

मय्येव प्राणा इन्द्रियाणि यासां ताः । त्यक्ता दैहिका देहानुबन्धिनो देहालङ्करणादयो वा याभिस्ताः । मामेव । प्रेष्ठं मुख्येष्टं दयितं पतिम् । आत्मानं स्वामिनं च । मनसा गता ज्ञातवत्यः ॥ ४ ॥

ये त्यक्तलोकधर्माश्च मदर्थे तान् १बिभर्म्यहम् ।

मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः ॥ ५ ॥

स्मरन्त्यङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविक्लवाः ।

धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन ॥ ६ ॥

पदरत्नावली

ये मदर्थे त्यक्ताः स्वर्गादिलोकविषया धर्मा यागादिसुकृतलक्षणा यैस्ते तथा । प्रेयसां प्रीतिविषयाणां मध्ये प्रेष्ठेऽतिप्रियतमे मयि दूरस्थे ता गोकुलस्त्रियो विरहेणोत्पन्नं यदौत्कण्ठ्यं तेन विक्लवा विह्वलाः स्मरन्ति ॥ ५,६ ॥

दुर्घटभावदीपिका

अतिकृच्छ्रेण वियोगनिमित्तकातिक्लेशेन निमित्तेन यद्यपि प्राणधारणं दुर्घटं तथाऽपि कथञ्चन प्रायः प्राणान् धारयन्तीति । एतेन कथञ्चनेत्येतदतिकृच्छ्रेणेत्यनेन पुनरुक्तमिति चोद्यं पराकृतम् । अतिकृच्छ्रेणेत्यस्य प्राणान् धारयन्तीत्यनेनान्वयमनभ्युपगम्याध्याहृतेन यद्यपीत्यादिनाऽन्वयस्योक्तत्वात् ॥ ६ ॥

सत्यधर्मीया

तद्वृत्तिरित्थं तत्र मद्वृत्तिरेवमिति सामान्यतस्तान्सम्मान्य तासु पर्यवसाययन्देवो वक्ति ॥ य इति ॥ लोकस्य देहस्य स्वर्गादेर्वा धर्मास्ते त्यक्ता यैस्ते । तेन त्यक्तेनेत्यादिवन्मद्दत्ता लोकधर्मा यैरिति वा । सर्वत्राप्यकेवलत्वान्नानिच् । मदर्थे मद्रूपार्थे विषये एतानहं बिभर्मि पोषयामि । बिभेमीति पाठे तान्निमित्तीकृत्य भीततामाप्नवानीति वा । प्रेयसां प्रेष्ठेऽतिप्रियतमे मयि दूरस्थे त्रुटियुगीभवनवत्कोशाल्पतायामपि तदाक्रोशस्येत्थम्भवतीति दूरस्थ इत्युक्तिः । ता गोकुलस्त्रियो विरहौत्कण्ठ््यविक्लवा विरहेणोत्पन्नमौत्कण्ठ्यं दिदृक्षोत्कलिकता तेन विक्लवा विह्वलाः स्मरन्ति विमुह्यन्ति प्राणान् कथञ्चन दुर्दशातोऽतिकृच्छ्रेण बहुकष्टेन प्रायो धारयिष्यन्ति ॥ ५,६ ॥

सुमनोरञ्जिनी

स्वस्य भक्तवत्सलतां प्रदर्शयन्नाह ॥ य इति ॥ ये जना मदर्थे मन्निमित्तं मद्भजनार्थमिति यावत् । त्यक्तलोकधर्मास् त्यक्तः लोकधर्मः स्रक्चन्दनादिविषयभोगलक्षणो यैस्ते । त्यक्तः लोकानां यो धर्मः फलकामनया कर्मकरणलक्षणो धर्मो यैस्त इति वा । ग्राम्यविषयविरक्ताः सन्तः काम्यकर्माकुर्वाणा मामेव भजन्त इत्यर्थः । तान् बिभर्मि रक्षिताऽस्मि । गोकुलस्त्रियश्च, प्रेयसां पुत्रादीनां सकाशात्प्रेष्ठेऽतिप्रिये । तदेतत्पुत्रात्प्रेयो मित्रात्प्रेय इति श्रुतेः । एतादृशे दूरस्थेऽपि मयि तास् तादृशास् त्यक्तलोकधर्मा इत्यर्थः । पुत्रमित्रादिभ्यो मामेवातिप्रेयांसं मन्वाना मदर्थं स्रक्चन्दनाद्यैहिकविषयाननुभवन्त्यो मदन्यफलकामनया किमपि कर्म न कुर्वन्तीति भावः ॥ मां स्मरन्ति । अथ च विरहेणोत्पन्नमौत्कण्ठ्यम् । तेन विक्लवा विह्वला मुह्यन्ति । कथञ्चन कथमपि

॥ ५,६ ॥

प्रत्यागमनसन्देशैर्वक्तव्या मे मदात्मिकाः ।

इत्युक्त उद्धवो राजन् सन्देशान् भर्तुरादृतः ॥ ७ ॥

आदाय रथमारुह्य प्रययौ नन्दगोकुलम् ।

प्राप्तो नन्दव्रजं श्रीमान् निम्लोचति १विभावसौ ॥ ८ ॥

पदरत्नावली

शीघ्रमागमिष्यति युष्मत्प्रेष्ठः कृष्ण इत्यादिप्रत्यागमनसन्देशैः । मदात्मिका मन्मनस्काः ॥ विभावसौ सूर्ये निम्लोचति अस्तं गच्छति सति । ‘वह्नौ सूर्ये शशाङ्के च हारभेदे विभावसुः’ इत्युत्पलमाला ॥ ७,८ ॥

सत्यधर्मीया

मदात्मिका मन्मनस्काः प्रत्यागमनसन्देशैरायताक्ष्य आयाति नायको भजत त्यजत शोकमित्यादिरूपैर्वाक्यैर्वक्तव्यास्त्वया । सन्देशानाज्ञावचनानि श्रीमानुद्धवो विभावसौ सूर्ये । विभावसुर्दिनमणौ हारभेदे च पावक इति विश्वः । निम्लोचत्यस्तं गच्छति सति नन्दव्रजं प्राप्तः । विभौ सूर्ये निम्लोचति सत्यसौ उद्धवः प्राप्त इत्यन्वयः । दिवाकर इत्यपि पठन्ति ॥ ७,८ ॥

सुमनोरञ्जिनी

मे प्रत्यागमनसन्देशैः श्रीकृष्ण आगमिष्यति युष्मन्निकटमित्यादिरूपैर्मम प्रत्यागमनबोधकवचनैः । मदात्मका मय्येव मनो यासां ताः । भर्तुः कुष्णस्य सन्देशान् आज्ञारूपवचनानि । आदृत आदरयुक्तः सन् । आदाय स्वीकृत्य । विभावसौ सूर्ये । निम्लोचति सति अस्तंगते सति ॥ ७,८ ॥

छन्नयानः प्रविशतां पशूनां खुररेणुभिः ।

वासितार्थे नियुद्ध्यद्भिर्नादितं शुष्मिभिर्वृषैः ॥ ९ ॥

पदरत्नावली

छन्नयान आच्छन्नरथः । वासितानां पुष्पवतीनां गवामर्थे नियुद्ध्यद्भिर्द्वन्द्वयुद्धं कुर्वद्भिः शुष्मिभिर्वीर्यवृद्धिमद्भिर्वृषैर्नादितम् ॥ ९ ॥

सत्यधर्मीया

गोधूलिलग्नसमय इति गोधूल्यो लग्ना इत्याह ॥ व्रजं प्रविशतां पशूनां खररेणुभिश्छन्नं यानं यस्य स वासितार्थे वृषानभिलषन्त्यो वासितास्तदर्थे नियुध्द्यद्भिर्द्वन्द्वयुद्धं कुर्वद्भिः शुष्मिभिर्वीर्यवृद्धिमद्भिर्बलिष्ठैर्वा गतम् । वृषैर्नादितम् ॥ ९ ॥

सुमनोरञ्जिनी

प्रविशतां व्रजं प्रविशताम् । पशूनां खुररेणुभिश् छन्नमाच्छादितं यानं रथो यस्य तथाविधः नन्दव्रजं प्राप्त इत्यन्वयः । कीदृशं व्रजमित्यतस्तं वर्णयति पञ्चभिः । वासितायाः कामुकाया गोर् अर्थे नियुध्यद्भिः परस्परं युद्धं कुर्वद्भिः । शुष्मं वीर्यं येषामस्ति ते शुष्मिणस् तैः । वृषभैर् नादितम् ॥ ९ ॥

धावन्तीभिश्च वास्राभिरूधोभारेण वत्सकान् ।

इतस्ततो विलङ्घद्भिर्गोवत्सैर्मण्डितं सितैः ॥ १० ॥

१गोदोहशब्दाभिरवैर्वेणूनां निस्स्वनेन च ।

गायन्तीभिश्च कर्माणि शुभानि बलकृष्णयोः ॥ ११ ॥

स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम् ।

अग्न्यर्कातिथिगोविप्रपितृदेवार्चनान्वितैः ॥ १२ ॥

पदरत्नावली

ऊधोभारेण युक्ताभिर्वत्सकान् तर्णकान् प्रति धावन्तीभिर्वास्राभिः सकृत्प्रसूताभि-र्गोभिः । विलङ्घद्भिरुत्पतद्भिः ॥ १० ॥

सत्यधर्मीया

ऊधोभारेणान्विताभिर्वत्सकांस्तर्णकान्प्रति धावन्तीभिर्वास्राभिर्हम्बारवं कुर्वन्तीभिः सकृत्प्रसूता गावो वास्रास्ताभिः । तथा हि वास्रा अभिज्ञ्वित्यृग्भाष्यटीकाटिप्पणेषु । वास्रा वचन-शीलिनः । शब्दमात्रे वाश्यतिमङ्गीकृत्य ताच्छीलिको रो विहितः । वाशृ शब्दकुत्सायामित्युक्तेः । कथमत्र वचनं शास्त्रव्याख्यानमित्यत आह ॥ शब्दमात्र इतीति ॥ प्रस्थानान्तरे तत्रैव वास्रेव विद्युदित्यत्र गौर्वत्समिव वस्रेव वत्सला माता गौरित्युक्तेः । परोऽप्येतद्व्याख्याने वत्सशब्दप्रयुक्त-प्रस्रुतस्तनवती गोः स्फायितंचीत्यादिना वाशृशब्द इत्यतो रगिति व्याजहार । तालव्यपाठः । इतस्ततो विलङ्घद्भिः सितैः शुभ्रैर्गोवत्सैर्मण्डितं गोदोहशब्दाज्जातोऽभितो रवः शब्दोत्पन्नशब्दान्तरं तद्युतं वेणूनां निःस्वनेन च बलकृष्णयोः शुभानि कर्माणि गायन्तीभिः स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम् । गोपव्यापारं निरूपयति ॥ अग्न्यर्केत्यादिना ॥ १०-१२ ॥

सुमनोरञ्जिनी

वास्राभिर् वत्सलोलुपाभिः । ऊधोभारेण युक्ताभिर् वत्सान् प्रति धावन्तीभिर् गोभिस् तथा इतस्ततो विलङ्घद्भिर् उत्पतद्भिः शितैः शुभ्रैर् गोवत्सैश्च मण्डितम् अलङ्कृतम् ॥ गवां दोहशब्दैर् अभिरवं प्रतिध्वनियुक्तम् । शुभानि मङ्गलानि कर्माणि रासोत्सवादीनि । गायन्तीभिर् गोपीभिः सुविराजितम् ॥ १०-१२ ॥

धूपदीपैश्च माल्यैश्च गोपावासैर्मनोरमम् ।

सर्वतः पुष्पितवनं द्विजालिकुलनादितम् ॥ १३ ॥

पदरत्नावली

गोपानामावासैरुत्तमगृहैः ॥ १३ ॥

सत्यधर्मीया

गोपावासैर्गोपगृहैर्द्विजा अलयो भ्रमराश्च तेषां कुलैर्नादितम् ॥ १३ ॥

सुमनोरञ्जिनी

धूपादिभिः पूजासाधनैर् अग्न्यादीनामर्चनम् । तदन्वितैर् गोपैर् गोपावासैश्च गोपगृहैश्च मनोरमम् । द्विजाः शुकपिकादयो ऽलयो भ्रमरास्तेषां कुलं समुदायः ॥ १३ ॥

हंसकारण्डवाकीर्णैः २पद्मषण्डैश्च मण्डितम् ।

तमागतं ३समालोक्य कृष्णस्यानुचरं प्रियम् ॥ १४ ॥

सत्यधर्मीया

पद्मषण्डैः पद्मखण्डैरिति पाठौ ॥ १४ ॥

सुमनोरञ्जिनी

पद्मखण्डैः पद्मानां खण्डैः षण्डैः समूहैः । पद्मानां खण्डानि येषु तैः सरोभिर्वा ॥ १४ ॥

नन्दः प्रीतः परिष्वज्य वासुदेवधियाऽऽर्चयत् ।

भोजितं परमान्नेन संविष्टं कशिपौ सुखम् ॥ १५ ॥

गतश्रमं पर्यपृच्छत् पादसंवाहनादिभिः ॥ १६ ॥

पदरत्नावली

कशिपौ कार्पासगर्भास्तरणविशेषे सुखं यथा तथा संविष्टम् ॥ १५ ॥

सत्यधर्मीया

वासुदेवधियाऽस्मिन्सत्कृते वासुदेव एव सत्कृतो भवतीति धीस्तयाऽऽचर्यद-पूजयत् । यथासुखं कशिपौ कार्पासगर्भास्तरणविशेषे ॥ पादसंवाहनादिभिर्गतश्रमं पर्यपृच्छत्पप्रच्छ

॥ १५,१६ ॥

सुमनोरञ्जिनी

वासुदेवधिया अस्मिन् पूजिते तदन्तर्गतो वासुदेव एव पूजित इति धिया ॥ कशिपौ तल्पे । सुखं यथा तथा । संविष्टम् । पादसंहननादिभिर्गतश्रमम् ॥ १५,१६ ॥

नन्द उवाच—

कच्चिदङ्ग महाभाग सखा नः शूरनन्दनः ।

आस्ते कुशल्यपत्याद्यैर्युक्तो मुक्तः सुहृद्वृतः ॥ १७ ॥

पदरत्नावली

मुक्तः बन्धनक्लेशात् ॥ १७ ॥

सत्यधर्मीया

मुक्तो निगडतः ॥ १७ ॥

सुमनोरञ्जिनी

कच्चिदिति प्रश्नसूचकस्वरद्योतकम् । शूरनन्दनो वसुदेवः । बन्धनान्मुक्तः । अपत्याद्यैः पुत्राद्यैर् युक्तः । सहृद्वृतः बन्धुयुतः । कुशल्यास्ते कच्चिद् इति ॥ १७ ॥

दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना ।

साधूनां धर्मशीलानां यदूनां द्वेष्टि यः सदा ॥ १८ ॥

पदरत्नावली

‘दिष्ट्या स्यान्मङ्गलादिषु’ इति हलायुधः । साधूनामिति कर्मणि षष्ठी

॥ १८ ॥

सत्यधर्मीया

यः सदा साधूनामित्यादिका कर्मणि षष्ठी । य इत्यावृत्तम् । यः स्त्रिय इति द्वितीया बहुवचनान्तं तत्कर्मसमर्पकमिति वा सम्पदो द्वेष्टीति यावत् ॥ १८ ॥

सुमनोरञ्जिनी

यदूनां यदुभ्यः । यदूनिति वा । यः सदा द्वेष्टि स कंसः । स्वेन पाप्मना स्वपापकर्मणा । हत इति यत् तद् दिष्ट्या परमानन्दकरम् । दिष्ट्या दैवेनेति वा

॥ १८ ॥

अपि स्मरति नः कृष्णो मातरः सुहृदः सखीन् ।

गोपान् व्रजं चात्मनाथं गावो वृन्दावनं गिरिम् ॥ १९ ॥

पदरत्नावली

मातरः मातॄः । आत्मा स्वयमेव नाथो यस्य तं व्रजम् । गावो गाः

॥ १९ ॥

सत्यधर्मीया

गावो गा मातरो यास्ता वः समीपवर्तिन इवेति वा ॥ १९ ॥

सुमनोरञ्जिनी

अपिशब्दः स्वरविशेषद्योतकः । कृष्णमातरः मातॄर् मात्रादीन् । आत्मा स्वयमेव नाथो यस्य तं व्रजं वृन्दावनम् । गिरिं गोवर्धनं गावो गाश्च । अपि स्मरति स्मरति किम् ॥ १९ ॥

अप्यायास्यति गोविन्दः १स्वजनान् सकृदीक्षितुम् ।

तर्हि द्रक्ष्याम तद्वक्त्रं सुनसं सुस्मितेक्षणम् ॥ २० ॥

दावाग्नेर्वातवर्षाच्च वृषात् सर्पाच्च रक्षिताः ।

दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सुमहात्मना ॥ २१ ॥

पदरत्नावली

अप्यायास्यति आगमिष्यति किम् । शोभना नासिका यस्य तत् तथा ॥ दुरत्ययेभ्यो दुरतिक्रमेभ्यो मृत्युभ्यः कृष्णेन रक्षिताः स्मः ॥ २०,२१ ॥

सत्यधर्मीया

सकृदेकवारमपि । तर्हि सुनसं सु शोभना नासा यस्य तत् । टाबन्तता हलन्तत्वात् । सुस्मितेक्षणं तद्वक्त्रं द्रक्ष्याम । तत्कृतं सोपस्करं तं प्रति शंसति ॥ दावाग्नेरिति ॥ अङ्गस्मरणाभावात्कथापूर्वापरीकारादिकं युक्तम् ॥ २०,२१ ॥

सुमनोरञ्जिनी

सकृदपि एकवारमपि आयास्यति किम् । यद्यायास्यति तर्हि तद्वक्त्रं द्रक्ष्यामि ॥ दावादिभ्यस् ततोऽन्येभ्यो दुरत्ययेभ्यो मृत्युभ्यश्च कृष्णेन रक्षिताः ॥ २०,२१ ॥

स्मरतां कृष्णवीर्याणि लीलापाङ्ग२निरीक्षणम् ।

हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः ॥ २२ ॥

पदरत्नावली

क्रिया गृह्यकर्माणि ॥ २२ ॥

सत्यधर्मीया

सर्वा नः क्रिया गृह्यकर्माणि शिथिला मनःप्राशस्त्याभावात् ॥ २२ ॥

सुमनोरञ्जिनी

कृष्णस्य वीर्याणि पूतनावधादीनि । लीलया अपांगनिरीक्षणं कटाक्षवीक्षणम् । हसितं भाषितं कलभाषितं प्रौढभाषितं च स्मरतां नः सर्वा अपि क्रियाः शिथिला लुप्ता असंपूर्णा वा ॥ २२ ॥

सरिच्छैलवनोद्देशान् मुकुन्दपदभूषितान् ।

आक्रीडानीक्षमाणानां मनो याति तदात्मताम् ॥ २३ ॥

पदरत्नावली

आक्रीडान् क्रीडास्थानानि । तदात्मतां तद्व्याप्तताम् ॥ २३ ॥

सत्यधर्मीया

मुकुन्दपदभूषितांस्तच्चरणचिह्नान् आक्रीडानि क्रीडास्थानानि तत्साधनानीति वा मनस्तदात्मतां तद्व्याप्तताम् ॥ २३ ॥

सुमनोरञ्जिनी

सरिच्छैलवनानामुद्देशान् प्रदेशान् । कथंभूतान् । मुकुन्दस्य पदैः पादविन्यासैर् भूषितान् । आक्रीडानि क्रीडासाधनानि कन्दुकादीनि च । ईक्षमाणानां पश्यतां नः मनः, तदात्मतेव तदात्मता । तां तदेकलग्नतां याति ॥ २३ ॥

मन्ये कृष्णं च रामं च प्राप्ताविह सुरोत्तमौ ।

सुराणां महदर्थाय गर्गस्य वचनं यथा ॥ २४ ॥

पदरत्नावली

सुराणां महतेऽर्थाय प्रयोजनाय सुरोत्तमावेवेह प्राप्ताविति गर्गस्य वचनं यथा तथा कृष्णं रामं च मन्ये ॥ २४ ॥

दुर्घटभावदीपिका

कृष्णं च रामं च गर्गस्य वचनं यथा तथा मन्ये । एतदेव विवृणोति ॥ प्राप्ताविति ॥ इह भूलोके । कृष्णरामौ सुरोत्तमौ । अत एव सुराणां महदर्थाय महार्थाय प्राप्तौ मन्य इति । एतेन कृष्णं राममित्येकवचनान्तयोः सुरोत्तमौ प्राप्ताविति द्विवचनान्ताभ्यामनन्वय इति दूषणं परिहृतम् । कृष्णं राममित्यनयोः सुरोत्तमौ प्राप्तावित्येताभ्यामन्वयमनभ्युपगम्य गर्गस्य वचनं यथा तथेत्यनेनान्वयस्योक्तत्वात् । एतेनैव कथं मन्य इत्याकाङ्क्षाशान्तेर्गर्गस्य वचनं यथा तथेत्यनेन जातत्वात् । सुरोत्तमौ प्राप्तावित्येतद्व्यर्थमिति दूषणं निरस्तम् । तथा कथं मन्य इत्याकाङ्क्षाशान्त्यर्थं कृष्णरामावित्यध्याहारेण सुरोत्तमावित्यादिना तथा मन्य इत्यस्य विवरणं क्रियत इत्यभ्युपगमात् ॥ २४ ॥

सत्यधर्मीया

पुरोधा यदुपदिदेश तदुपदिशति ॥ मन्य इति ॥ सुराणामर्थाय प्रयोजनमुद्दिश्य सुरोत्तमावेवेह प्राप्ताविति गर्गस्य महदनन्यथाभवदिति वचनं यथा तथाऽहं सुरोत्तमौ मन्ये । अविस्मरणमात्रं ममालमिति ध्वनिः ॥ २४ ॥

सुमनोरञ्जिनी

गर्गस्य वचनं यथा तथैव अहमपि मन्ये । किमिति । इह भूमौ । सुरोत्तमौ प्राप्तौ अवतीर्णाविति । कुतोऽवतीर्णावित्यत आह । सुराणां महते अर्थाय प्रयोजनायेति । आन्महत इत्यस्य स्थान्यादेशव्यत्ययेन समानाधिकरणजातीययोरित्यल्पाच्तरस्य पूर्वनिर्देशातिक्रमेण चानित्यत्वान् महदर्थायेति साधु ॥ २४ ॥

कंसं नागायुतबलं मल्लौ गजपतिं तथा ।

अवधिष्टां लीलयैव पशूनिव मृगाधिपः ॥ २५ ॥

पदरत्नावली

नागायुतस्य हस्तिनां दशसहस्रस्येव प्राणो बलं यस्य तं कंसम् ॥२५॥

दुर्घटभावदीपिका

तान् मृगाधिपः पशूनिव लीलयैवावधीत् । एतदेव विवृणोति ॥ कंसमिति ॥ नागायुतप्राणं कंसं मल्लो तथा गजपतिमवधीदिति । एतेन कंसमित्याद्येकवचनान्तानां तानिति बहुवचनान्तेनानन्वय इति दूषणं प्रत्युक्तम् । तान् कानित्याशङ्कापरिहारार्थं तानवधीदित्युक्तस्यैव विवरणं कंसमित्यादिना क्रियत इत्यूरीकरणात् ॥ २५ ॥

सत्यधर्मीया

गजपतिं गजराजं गजेन सहितपतिरम्बष्ठस्तं वा । नागानामयुतस्येव बलं यस्य स तम् । मृगाधिपः सिंहः ॥ २५ ॥

सुमनोरञ्जिनी

महापराक्रमेणापि इमौ सुरोत्तमौ मन्य इत्याह ॥ कंसमित्यादिना । नागायुतस्य प्राणो बलं यस्य तम् । मल्लावपि तथाविधौ । तथाविधं गजपतिं कुवलयापीडं चेत्येतान् लीलयैवावधिष्टाम् । मृगाधिपो व्याघ्रः ॥ २५ ॥

तालत्रयं महासारं धनुर्यष्टिमिवेभराट् ।

बभञ्जैकेन हस्तेन सप्ताहमदधाद् गिरिम् ॥ २६ ॥

पदरत्नावली

शतहस्तपरिमाणं तालमित्युच्यते । तालानां त्रयं यस्मिन् तत् तथा । इभराड् गजराड् यष्टिमिक्षुदण्डमिव महासारमतिदृढं तद् धनुर्बभञ्ज । ‘धनुषो भङ्गनादेन वायुनिर्घोषकारिणा । चचालान्तःपुरं सर्वं दिशश्चैव पुपूरिरे’ इति हरिवंशे ॥ २६ ॥

सत्यधर्मीया

यत्प्रसादात्सम्पादितं तन्महापुरुषतालत्रयपरिमितं कृतयुगीयतालत्रयपिरिमितं वाऽधुनातनांगुष्ठमध्यमाङ्गुलिवितत्यात्मकतालस्याल्पीयस्त्वात्तत्परिमाणतायां धनुषस्तनुत्वापत्तेः । ततश्चाद्भुतमित्यत्र हरिवंशे च तद्धनुः स्तम्भसन्निभमित्याद्युक्तिश्चानुपपन्ने स्यातामिति मन्तव्यम् । महासारं बहुदृढं धनुरिभराड्गजो यष्टिमिवेक्षुदण्डं वा कञ्चित्काष्ठविशेषं वैकेन हस्तेन बभञ्ज । सप्ताहं गोवर्धनं गिरिम् ॥ २६ ॥

सुमनोरञ्जिनी

अङ्गुष्ठमारभ्य मध्यमाङ्गुल्यग्रपर्यन्तं यत्परिमाणं तालः ।

प्रादेशः स्यात्प्रदेशिन्या तालो मध्यमया भवेत् ।

गोकर्णोऽनामया प्रोक्तो वितस्तिस्तु कनिष्ठया ॥ इत्यभिधानात् ।

महासारम् अतिदृढम् । इभराट् गजश्रेष्ठः । यष्टिं दण्डम् । इतोऽप्यधिकं कृतमित्याह ॥ एकेनेति ॥ सप्ताहं सप्ताहपर्यन्तम् ॥ २६ ॥

प्रलम्बो धेनुकोऽरिष्टस्तृ१णावर्तो बकादयः ।

दैत्याः सुरासुरजितो हता येनेह लीलया ॥ २७ ॥

पदरत्नावली

सुरासुरान् जयन्तीति सुरासुरजितः ॥ २७ ॥

सत्यधर्मीया

सुरासुरजितः सुराश्चासुराश्च सुरासुरं तज्जयन्तीति सुरासुरजितो येन लीलया हताः ॥ २७ ॥

सुमनोरञ्जिनी

येन रामेण । प्रलम्बो धेनुकश्च हतौ । येन च, सुरासुरान् जयन्तीति तथोक्तास् तृणावर्तादयः लीलयैव हताः । अतस्तावुभावपि सुरोत्तमौ मन्य इत्यन्वयः । येनेति हेत्वर्थं वा । यस्मादेताभ्यां हतास् तस्मात्सुरोत्तमौ मन्य इति ॥ २७ ॥

श्रीशुक उवाच—

इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्तधीः ।

अश्रुकण्ठोऽभवत् तूष्णीं प्रेमप्रसरविह्वलः ॥ २८ ॥

पदरत्नावली

प्रेमप्रसरेण प्रेमप्रवाहेण विह्वलः विवशः ॥ २८ ॥

सत्यधर्मीया

प्रेम्णां प्रसर आनन्दोदप्रवाहस्तेन विह्वलश्चञ्चलोऽप्रतिभानात्पुरस्तूष्णीमभवत्

॥ २८ ॥

सुमनोरञ्जिनी

प्रेम्णः प्रसरो विस्तृतिस् तेन विह्वलः विवशः । अश्रुपूरितकण्ठो वक्तुमक्षमः सन् तूष्णीं बभूवेति ॥ २८ ॥

यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च ।

शृण्वन्त्यश्रूण्यवास्राक्षीत् १स्नेहस्रुतपयोधरा ॥ २९ ॥

पदरत्नावली

अवास्राक्षीद् ववर्ष ॥ २९ ॥

सत्यधर्मीया

स्नेहेन स्रुतौ पयोधरौ स्तनौ यस्यां साऽश्रूणि शीतान्यशीतानि चावास्राक्षीदुत्ससर्ज ॥ २९ ॥

सुमनोरञ्जिनी

यशोदा च नंदेन वर्ण्यमानानि कृष्णस्य चरितानि शृृण्वन्ती अश्रूणि अस्राक्षीद् अमुंचत । स्नेहेन स्रुतौ द्रुतौ पयोधरौ यस्याः सा ॥ २९ ॥

तयोरित्थं भगवति कृष्णे नन्दयशोदयोः ।

वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा ॥ ३० ॥

सत्यधर्मीया

तयोर्नन्दयशोदयोर्नन्दगोपयशोदयोर्नन्दश्चानन्दश्च यशश्च तौ ददत इति तयोः स्वकुलानन्दयशःप्रदयोरिति यावत् ॥ ३० ॥

सुमनोरञ्जिनी

परमं निरतिशयं वीक्ष्य । मुदा युक्तः ॥ ३० ॥

उद्धव उवाच—

युवां श्लाघ्यतमौ नूनं देहिनामिह मानद ।

नारायणेऽखिलगुरौ यत् कृता मतिरीदृशी ॥ ३१ ॥

सत्यधर्मीया

यद्यतोऽखिलगुरौ साक्षान्नारायणे युवाभ्यामीदृशी मतिः कृता तस्माद्युवामिह हे नन्द मानद यशोदे च देहिनां प्रशस्तशरीरभाजां तन्मध्ये श्लाघ्यतमौ सुस्तुत्यौन्नत्यौ नूनं निश्चयः । इहैतद्विषये मा नदाहं कियानिति विपरीतं न वदेत्यप्यर्थः ॥ ३१ ॥

सुमनोरञ्जिनी

इह भूमौ । देहिनां देहधारिणां मध्ये । युवां श्लाघ्यतमौ अतीव श्लाघनीयौ प्रशंसनीयावित्यर्थः । कुतः । यद् यस्माद् अखिलगुरौ पितृभूते । यो नः पितेति श्रुतेर् नारायणे ईदृशी परमस्नेहपूर्विका महत्वबुद्धिः कृता अत इत्यन्वयः ॥ ३१ ॥

एतौ हि विश्वस्य च बीजयोनी १रामो मुकुन्दः पुरुषः प्रधानम् ।

अन्वीय भूतेषु विलक्षणेषु २विज्ञाय चेशात इमौ पुराणौ ॥ ३२ ॥

पदरत्नावली

अखिलगुरुत्वमुपपादयति एताविति ॥ आवेशविवक्षया बलं सङ्कलय्य एतावित्युक्तम् । नित्यस्य व्यञ्जकत्वादनित्यस्य कारणत्वाद् बीजयोनी इत्युच्येते । ‘बीजं शुक्रे व्यञ्जके च’ इत्युत्पलमाला । ‘अजामेकां लोहितशुक्लकृष्णाम्,’ ‘प्रधानादिदमुत्पन्नम्’ इत्यादिना प्रकृतेर्बीजयोनित्वप्रतीतेः कथमेतयोर्युज्यत इति तत्राह पुरुष इति ॥ ‘प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास भगवान् सृष्ट्यर्थं जगतो विभुः’ इत्यादेः । इमौ पुराणौ पुरुषौ विलक्षणेषु सुरनरतिर्यगादिविविधलक्षणेषु भूतेषु अन्वीयान्तः प्रविश्य ज्ञानस्येशाते नियन्तारौ भवतः ॥ ३२ ॥

सत्यधर्मीया

अखिलगुरुत्वं चैतस्मादित्याह ॥ एताविति ॥ छत्रिनयेनेयमुक्तिर्वाऽऽवेश-विवक्षया बलं सङ्कलय्येति ज्ञेयम् । एतौ रामकृष्णौ विश्वस्य प्रपञ्चस्य, बीजं च व्यञ्जकत्वान्नित्यं प्रति, योनिश्चानित्यं प्रति कारणत्वाद्बीजयोनी इत्युच्येते । अत्र मानं किमित्यतो वेदादिरेवेतीदमप्याह । बीजं नित्यं भगवद्व्यञ्जकमिति वेदादिशास्त्रं तदेव योनिरेतदाद्यर्थविनिगमकं ययोरिति शास्त्रयोनीत्यर्थः । प्रकृतिकृतताकथनं ब्रह्मस्रष्ट्रता कथमित्यत आह । प्रधानं प्रकृतिः पुरुषो हिरण्यगर्भः समवर्तताग्र इति श्रुतः, पुरुषावपीमाविति । परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरित्युक्तेरेकशेषस्यापि तद्विशेषत्वादेत-द्विस्तृतमधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तिताविति साधुतट्टिप्पणीषु प्राच्युदञ्चितमस्माभिः स्कन्धान्तरविवृताविति ततोऽप्यनुसन्धेयम् । ईदूद इति प्रगृह्यतां प्रगृह्य प्लुतप्रगृह्या इति प्रकृतिभावः । पुरुषशब्दं स्वयं मूलकृव्द्याचर्करीति ॥ पुराण इति ॥ यथोक्तं गीताभाष्ये । पुरं देहमणतीति पुराणः पुरि शेत इति पुरुष इति व्युत्पत्तिः सर्वासु एषपूर्षुस्त्र्येष पुरुष इति श्रुतेः । प्रकृतिकारणतावादस्तु प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास भगवान् सृष्ट्यर्थं जगतो विभुरित्याद्यावेदितगतिरेव । स्वसृष्टव्यक्तिं कृतेषु च विलक्षणेषु सुरनरतिर्यगादिनानाभेदकधर्मवत्सु । अन्वीयान्तःप्रविश्य विज्ञाय नित्यज्ञानावपि तद्विषयतां नीत्वेवेति विज्ञायेत्युक्तिः । एतद्ध्वन-नार्थमेवासन्धिः । इमौ प्रत्यक्षसिद्धौ । पुराणावादिकालिकौ । ईशाते प्रेरयतः । मानमिदमत्रेत्याह । भूतेषु विलक्षणेषु ब्रह्मलक्षणेष्विमौ इः इच्छाविषयस्य मा ज्ञानं ययोस्तौ पुराणौ देहाद्यन्तर्गतौ ईशाते इति ये विज्ञा विशेषज्ञानिनो व्यासादयो यः पुराणस्तत्रावदन्निति वेति । पुराणौ पद्मनाभदेहगतौ केशाविति यावत् । विलक्षणेषु दुर्लक्षणवत्सु दैतेयेषु भूतेषु भुव्यूतेषु प्रोतेषु पुरुषो ब्रह्माऽन्वीय प्रार्थयामास । तद्विज्ञायेशापद्मनाभेनोत्सृष्टाविमौ ते सकाशाज्जाताविति योजयन्ति । पुराणशब्दस्य पुल्लिङ्गता त्वितिहासपुराणः पञ्चमो वेदानां वेद इति तत्त्वनिर्णये तथा पुराणशब्दस्य विशेष्यलिङ्गत्वाद्ग्रन्थविशेषणत्वेन पुल्लिङ्गत्वमेवाश्रितमिति तट्टीकायां चोक्तेः । ग्रन्थ इत्यध्याहृत्या-न्वयः । ये विज्ञास्त एवैवमभ्यधुरिति वा । भूतेषु नित्यसत्ताकेषु विलक्षणेषु नानाशब्दलिङ्गादिविभिन्नेषु वेदादिष्वन्वीयोपक्रमादितात्पर्यलिङ्गैः सम्यग्विचार्य ये विज्ञास् ते इमौ पुराणौ ईशाते इत्यवदन्नत एतौ । उर्वरितं पूर्ववत् । तत्तु समन्वयादित्यादेरिति वा । विलक्षणेषु विगतं लक्षणं येषां तानि तेषु भूतेषु ये विज्ञास् तद्रक्षणादेर्विश्वस्य च तं कर्तुमिमौ पुराणौ मानवतनूमाप्तवन्तावन्वीय ईशाते इति ये विज्ञाः शिष्टं स्पष्टम् ॥ ३२ ॥

सुमनोरञ्जिनी

इमौ सुरोत्तमौ मन्य इति यत्त्वयोक्तं तत्र न केवलं कंसहननादिबाह्यव्यापारेण इमौ सुरोत्तमौ मन्तव्यौ अपि तु जगत्सृष्ट्यादिमहामहिमोपेतत्वेनापीत्याह ॥ एताविति ॥ एतौ रामकृष्णौ । विश्वस्य सर्वजगतः बीजयोनी उपादाननिमित्ते । कथम् । यत इमौ रामकृष्णौ । प्रधानं पुरुषश्च । रामस्तु शेषांशत्वात्प्रधानैकदेशः । अहङ्काराभिमानित्वेन प्रधानमित्युच्यते । अभिमान्यभिमन्यमानयोरभेदव्यपदेशदर्शनात् । कृष्णस्तत्प्रवर्तकः पुराणपुरुष इत्यर्थः । इमावेव विलक्षणेषु नानाविधेषु सुरनरतिर्यगादिषु भूतेषु प्राणिषु अन्वीय प्रविश्य, रामस्य मनोमानितया सर्वभूतसम्बन्धो ज्ञेयः । विज्ञाय तत्तद्योग्यतां ज्ञात्वा ईशाते प्रवर्तयतो ऽत एव पुराणौ । पुराणि अणयतश् चेष्टयत इति । यद्वा कृष्णबलरामाविष्टभगवदंशयोर्विवक्षयैवेयं स्तुतिः । एतौ पुरुषस्य बीजयोनी पूर्ववद् एताविति द्वित्वोक्त्याऽभेदो न शङ्क्य इत्याह ॥ इमौ द्वावपि पुराणः पुरुष इति पुराणपुरुषभगवदंशावेवेत्यर्थः । कथं बीजत्वयोनित्वे इत्यतः प्रधानगतत्वादीक्षापूर्वप्रवृत्तित्वाच्चेत्याह ॥ प्रधानमिति ॥ विज्ञाय बहुस्यां प्रजायेयेति । विज्ञाय आलोच्य स ईक्षांचक्र इति श्रुतेः । प्रधानं जगदुपादानभूतां प्रकृतिम् । अन्वीय प्रविश्य प्रकृतावनुप्रविश्येति श्रुतेः । तां प्रकृतिं विलक्षणेषु भूतेषु अन्वीय संयोज्य प्राकृतं स्थूलदेहं दत्वेति यावत् । तत्र स्वयमप्यन्वीय बहुप्रविश्य ईशाते प्रेरयत इति । अत एव इमौ पुराणाविति पूर्ववत् ॥ ३२ ॥

यस्मिन् जनः प्राणवियोगकाले क्षणं समावेश्य मनो विशुद्धम् ।

निगृह्य कर्माशयमाशु याति परां गतिं ब्रह्ममयोऽर्कवर्णः ॥ ३३ ॥

पदरत्नावली

मुकुन्दस्यैव मोक्षप्रदातृत्वात् तस्यैव जगज्जन्मादिकर्तृत्वं युक्तमिति वक्ति यस्मिन्निति ॥ जनो यज्जातो यस्मिन् भगवति प्राणवियोगकाले विशुद्धं विषयान्तरविमुखं मनः क्षणं समावेश्य कर्माशयं बहुशरीरापादककर्मसमूहं निगृह्य उपमृद्य ब्रह्ममयो ज्ञानप्रधानो ऽर्कवर्णः स्फटिकप्रकाश आशु परां गतिं याति । ‘अर्कः स्फटिकसूर्ययोः’ इत्यमरः ॥ ३३ ॥

सत्यधर्मीया

इतराशक्यापवर्गनिसर्गदातृत्वाज्जगतो जन्मादिकर्तेत्युक्तं युक्तमिति वक्ति ॥ यस्मिन्निति ॥ जनो यज्जातो, यस्मिन् भगवति तव तोके । प्राणवियोगस्य कालः समय-स्तस्मिन्विशुद्धं प्राक् साधनासादनेन, मनः क्षणमावेश्य कर्माशयं निगृह्य बहुशरीरापादकः कर्मसङ्घस्तं निगृह्योपमर्द्याशु परां गतिं ब्रह्ममयो हरिप्रधानोऽर्कवर्णः स्फटिकवर्णो वासुदेववर्णस्य तत्त्वाद्दर्शनेन गच्छतोऽपि स एव वर्णो न्याय्यः । शुद्धस्फटिकसङ्काशं वासुदेवमित्यादेः । र्ओ वर्णे स्फटिके रवाविति विश्वः । अर्कवर्णः सूर्यवर्ण इति । तस्यापि अथ येऽस्य दक्षिणा रश्मय इत्यारभ्य तद्वा एतद्यदेतदादित्यस्य शुक्लं रूपमित्यन्तेन छन्दोगोपनिषदुक्तेः शुक्लोऽपि वर्णः सम्भवतीति वा

॥ ३३ ॥

सुमनोरञ्जिनी

मोक्षप्रदोऽप्ययमेवेत्याह ॥ यस्मिन्निति । विशुद्धं कामादिदोषविधुरम् । मनो यस्मिन्क्षणं निवेश्य । तेन कर्माशयं कर्मबन्धम् । निगृह्य विनाश्य । अर्कवर्णः सूर्य इव प्रकाशमान आविर्भूतस्वरूप इति यावत् । ब्रह्ममयः ब्रह्मैकप्रधानकः । परां गतिं यातीति

॥ ३३ ॥

तस्मिन् भवन्तावखिलात्म१योनौ नारायणे कारणमर्त्यमूर्तौ ।

भावं व्यधत्तां नितरां महात्मन् किं वाऽवशिष्टं युवयोः सुकृत्यम् ॥ ३४ ॥

पदरत्नावली

कारणेन सुजनपरिरक्षणरूपनिमित्तेन मर्त्यमूर्तौ । भावं भक्तिं व्यधत्तां व्यदधाताम् । महात्मन् महात्मनि ॥ ३४ ॥

सत्यधर्मीया

अखिलानामात्मनां योनौ कारणे नारायणे कारणमर्त्यमूर्तौ कारण एव मर्त्या मूर्तिर्यस्य तस्मिन्कृष्णे महात्मन्महात्मनि परमे व्योमन्नितिवन् नितरां भावं भक्तिं व्यधत्तां व्यधतां कुरुतम् । युवयोः सुकृतमवशिष्टमुर्वरितं वा न किमपि सर्वं सुकृतं कृतमेवेत्यर्थः । भवन्तौ वर्तमाने काले हि महात्मन्नन्द त्वय्यखिलात्मनः सर्वस्वामिनो योनौ प्रादुर्भावस्थाने यशोदायां चेति युवयोः

॥ ३४ ॥

सुमनोरञ्जिनी

यदा क्षणमात्रं मनोनिवेशेन जनाः परां गतिं प्राप्नुवन्ति तदा किं वक्तव्यं तस्मिन्नेव सदा समाविष्टचित्तौ युवां कृतकृत्यावितीत्याह ॥ तस्मिन्निति ॥ तस्मिन् एवंविधे । अखिला नामात्मनां योनौ कारणे । अखिलस्य आत्मा स्वामी अन्तर्यामी वा आदानादिकर्ता वा । योनिः कारणं च तस्मिन् । कारणेन भूभारहरणलक्षणनिमित्तेन मर्त्यवत्प्रतीता मूर्तिर्यस्य तस्मिन्महात्मन् महात्मनि नारायणे । अतितरां निरन्तरम् । भावं भक्तिं व्यधत्तां व्यदधताम् । अतः युवयोः सुकृत्यं किमवशिष्टं न किमपीति ॥ ३४ ॥

आगमिष्यत्यदीर्घेण कालेन व्रजमच्युतः ।

प्रियं विधास्यते पित्रोर्भगवान् सात्वतां पतिः ॥ ३५ ॥

सत्यधर्मीया

पुष्कलशुष्ककथया क उद्धवो भवितोद्धवेत्यत आह ॥ आगमिष्यतीति ॥ पित्रोर्युवयोः ॥ ३५ ॥

सुमनोरञ्जिनी

अदीर्घेण अल्पेन । पित्रोर् भवतोः प्रियं विधास्यते करोति ॥ ३५ ॥

हत्वां कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम् ।

यदाह वः समागम्य कृष्णः सत्यं करोति तत् ॥ ३६ ॥

पदरत्नावली

प्रतीपं प्रतिकूलम् । वो युष्मान् प्रति यदाह ‘यात यूयं व्रजं तात वयं च स्नेहदुःखितान् । ज्ञातीन् नो द्रष्टुमेष्यामो विधाय सुहृदां सुखम्’ इति तत् सत्यं करोति ॥३६॥

सत्यधर्मीया

प्रतीपं प्रतिकूलम् । वः समागम्य सङ्गम्य कृष्णो यदाह तत्सत्यं करोति । सर्वसात्वतां प्रतीपं विरोधं निमित्तीकृत्य यो यदाहावो य आहवो युद्धं यस्य तं कंसं हत्वा समागम्य यदाह च वचस्तत्सत्यं करोतीति वाऽन्वयः । यदाह वः कृष्णः कंसं समागम्य तं हत्वा यदाह तदिति वा ॥ ३६ ॥

सुमनोरञ्जिनी

प्रतीपं प्रतिकूलम् । वः युष्मान् प्रति यदाह ‘ज्ञातीन् नः द्रष्टुमेष्यामः’ इति तत् सत्यं करोति ॥ ३६ ॥

मा १खिद्येतां महाभागौ द्रक्ष्यथः कृष्णमन्तिके ।

अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि ॥ ३७ ॥

पदरत्नावली

अन्तिकेऽल्पकाले । तत्त्वोपदेशमार्गेणैव समाधापयति अन्तर्हृदीति । ज्योतिरग्निः । एधसि काष्ठे ॥ ३७ ॥

सत्यधर्मीया

हे महाभागौ मा खिद्येतामन्तिकेऽल्पकाल एव द्रक्ष्यथः । ज्ञानिनां नायं पन्था इत्याह ॥ अन्तर्हृदीति । एधसि काष्ठे ज्योतिरग्निर्यथा तत्र मथनेनाभिव्यक्तस्तथाऽत्र विचारेऽभिव्यज्यत इति तद्ध्यानं कुरुतमिति तात्पर्यम् ॥ ३७ ॥

सुमनोरञ्जिनी

अन्तिके समीपे । वस्तुतस्तु तस्य दूरस्थत्वमेव नास्तीत्याह ॥ अन्तरिति ॥ स भूतानां हृद्यन्तरास्ते । एधसि अरणीरूपे काष्ठे ज्योतिरग्निरिव ॥ ३७ ॥

न ह्यस्यातिप्रियः कश्चिन्नाप्रियो वाऽस्त्यमानिनः ।

नोत्तमो नाधमो वाऽपि समानस्य १समोऽपि वा ॥ ३८ ॥

पदरत्नावली

अमानिनो ऽहंममाभिमानहीनस्य । योग्यतानुसारेण समानस्य ॥ ३८ ॥

दुर्घटभावदीपिका

समानस्य सेवानिमित्तकातिशयरहितस्य कृष्णस्योत्तमसेवानिमित्तकोत्तमसुख-जनकः । वाशब्द एवार्थे । नैवास्ति । अधमोधमसेवानिमित्तकाधमसुखजनकोऽपि नैवास्ति । समः समसेवानिमित्तकसमसुखजनकोऽपि नैवास्ति । इति । एतेन भगवत्क्लृप्त्यनुसारेण जीवानामुत्तमाधम-मध्यमभावस्य विद्यमानत्वात् । कृष्णस्योत्तमोऽधमः समोऽपि नास्तीत्यनुपपन्नमिति चोद्यं परिहृतम्

॥ ३८ ॥

सत्यधर्मीया

स च वर्तमानः प्राक् प्रियत्वादत्रेति सत्यमिदानीं तत्रत्याः प्रीतिपात्रमिति तद्धृदये वसेदिति न योग्यतामतिहाय प्रियादयस्तस्येत्याह ॥ न हीति ॥ अस्यातिप्रियः कश्चि-न्नास्त्यप्रियो वा न । तत्र तन्त्रममानिनोऽभिमानहीनस्येति । उत्तमो नाधमोऽपि न समो नासमोऽपि नह्यस्य स्वेच्छाबद्ध्यप्रपञ्चस्य मध्य इति वा ॥ ३८ ॥

सुमनोरञ्जिनी

सत्यं सर्वभूतानामन्तर्हृदयेऽस्तीति । स इदानीं न दृश्यते । श्रीकृष्णरूपेण च सर्वेषां दृश्यमानोऽपि स मधुरां गतः । स्वस्यातिप्रियान् मातापित्रादीन् विहाय किमिति जात्याप्यधमा नस्मान्प्रत्यागच्छेतेत्यत आह ॥ अस्त्यमानिन इति ॥ समानस्य सर्वभूतसमानस्य । यस्य अनुग्रहे विषये । जात्या उत्तमो ऽयं जात्या अधमो ऽयं सम इति नास्ति । तत्तद्योग्यतानुसारेण सर्वेष्वप्यनुग्रहं करोत्येवेत्यर्थः ॥ ३८ ॥

न माता न पिता तस्य न भार्या न सुतादयः ।

नात्मीयो न परश्चास्य न देहो १जन्म कर्म वा ॥ ३९ ॥

दुर्घटभावदीपिका

न देहो जन्म कर्म वेत्यस्य देहः प्राकृतदेहो जन्मोत्पत्तिः । वाशब्दश्च-शब्दार्थे । कर्म वाऽदृष्टं च नास्तीत्यर्थः । एतेन लोकेऽस्य जन्मकर्माणीति कृष्णस्य जन्मकर्मणां वक्ष्यमाणत्वात्कृष्णस्य जन्म कर्म नास्तीत्येतद्व्याहतमिति शङ्का परिहृता । लोकेऽस्य जन्मकर्माणीत्यत्र जन्मशब्देनोत्पत्तिः कर्मशब्देनादृष्टमुच्यत इत्यभ्युपगमात् ॥ ३९ ॥

सत्यधर्मीया

यशोदानन्दयोः कथान्तरकथनापदेशेनोभयोर्युवयोर्न मातृत्वपितृत्वे वस्तुकृते इत्युपदिशति ॥ नेति । सुतो धाता वर्तते न सुतादय इति कथं कथयसीत्यतोऽप्याह । यतः सुतादयो न विद्यते दया यस्य सोऽदयः सुते ब्रह्मण्यप्यदय इति सुतादयो नेत्युक्तिः॥ ब्रह्मचर्मशिरः पट्टीत्यादेः। नञ् योग्यतया सम्भवदन्वयः । उपपादितश्चायं प्रकारः प्राक् । नदेहो जन्म कर्म वा न । तर्हि कोऽयमित्यतोऽन्तरङ्गतो जल्पति ॥ न देह इति ॥ नदे क्षीरवारिधावीहा चेष्टा यस्य स इति ॥ ३९ ॥

सुमनोरञ्जिनी

शुक्लशोणितसम्बन्धाभावान्न मातापितरौ तस्येति भावः । भार्या रतिप्रदापि न नित्यतृप्तत्वादिति भावः । सुतादयोऽपि न । तज्जन्यागन्तुकसुखाभावात् । देहः प्राकृतः ॥३९॥

लोकेऽस्य जन्मकर्माणि सदसन्मिश्रयोनिषु ।

क्रीडार्थं सोऽपि साधूनां परित्राणाय कल्पते ॥ ४० ॥

पदरत्नावली

सोऽपि जन्मकर्मादिरहितोऽपि क्रीडार्थं साधूनां परित्राणाय परिरक्षणरूपपरम-प्रयोजनाय लोके सदसन्मिश्रयोनिषु सुरनरतिर्यग्योनिषु कल्पते अवतरति । ‘लोकवत्तु लीलाकैवल्यम्’ इत्यादेः ॥ ४० ॥

दुर्घटभावदीपिका

अस्य कृष्णस्य क्रीडां कर्तुं लोके भूलोके सदसन्मित्रयोनिषु सुरनरतिर्यग्योनिषु जन्म प्रादुर्भावो भवति । अनन्तरं कर्माणि दैत्यहननादिक्रीडा अपि भवन्ति । स दैत्यहननादिव्यापारः साधूनां परित्राणाय कल्पत इति । एतेन क्रीडार्थमिति चापर इति भगवत्कर्मणां क्रीडार्थत्वस्य निषिद्धत्वात् । क्रीडार्थं कर्माणीत्ययुक्तमिति चोद्यस्यानवकाशः । क्रीडार्थमित्यस्य कर्माणीत्य-नेनान्वयमनङ्गीकृत्य जन्मेत्यनेनान्वय इत्यभ्युपगमात् ॥ ४० ॥

॥ इति श्रीभागवतटिप्पण्यां श्रीसत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे चतुश्चत्वारिंशोऽध्यायः ॥ १०-४४ ॥

सत्यधर्मीया

मत्तो जन्म साक्षात्सिद्धं कथमपलपसि उद्धवेत्यत आह ॥ लोक इति ॥ सदसन्मिश्रयोनिषु सुरतिर्यङ्नरादिषु जन्म देहग्रहः कर्माणीति तदनुरूपाणि क्रीडार्थम् । लोकवत्तु लीलाकैवल्यमित्यादेः । न तेनास्यालब्धलाभ इति भावः । सोऽपीति जन्मपदार्थदेहपरामर्शः । साधूनां परित्राणाय रक्षायै कल्पते समर्थो भवति हेतुतयोपतिष्ठत इति यावत् । बृहद्भाष्यऋग्भाष्यटीका-गीतातात्पर्यादिकमुदाहृत्य प्राग्विवृतस्य विलोकनार्थपरामर्शसङ्गततावगता स्यादिति नापूर्वता ॥ ४० ॥

सुमनोरञ्जिनी

जन्म देहान्तरप्राप्तिः । कर्म च नास्ति । अक्लिष्टकारित्वादिति भावो ऽकर्माऽक्लिष्टकारित्वादित्यादेः । तर्ह्येवंविधो भगवान् किमिति लोकेऽवतरतीत्यत आह ॥ लोक इति । लोके भूलोके । सदसन्मिश्रयोनिषु, सन्तो देवाः, असन्तस् तिर्यग्जातयः, मिश्रा मनुष्यास् तेषां योनिष्वित्यर्थः । अस्य यज्जन्म यानि च कर्माणि स सर्वोऽपि व्यापारः क्रीडार्थमेव कल्पते भवति । स कृष्णः जन्मादीनि क्रीडार्थं कल्पते कल्पयति करोतीति वा । किमिति निष्फला क्रीडा क्रियत इत्यतः स्वप्रयोजनाभावेऽपि परप्रयोजनमस्तीत्याह ॥ साधूनां परित्राणायेति ॥ परित्राणाय साधूनां सम्भवामि युगे युग इत्युक्तेः ॥ ४० ॥

सत्त्वं रजस्तम इति भजते निर्गुणो महान् ।

क्रीडन्ननीहोऽनुगुणैः सृजत्यवति हन्त्यजः ॥ ४१ ॥

पदरत्नावली

अनुगुणैस् तत्तत्कर्मानुगुणैः ॥ ४१ ॥

सत्यधर्मीया

सृजत्यवति हन्तीत्यानुगुण्येन रजस्सत्त्वं तम इति विनिमयो ज्ञेयस्तत्तत्कर्मानु-गुणैः ॥ ४१ ॥

सुमनोरञ्जिनी

अनीहो ऽक्लिष्टकारी भगवान् । स्वयं निर्गुणोऽपि गुणबन्धशून्योऽपि क्रीडन् लीलयेति यावत् । सत्वरजस्तम इत्युक्तान् गुणान् भजते स्वीकरोति । स्वयं गमनसमर्थस्यापि लीलया दण्डमवष्टभ्य गमनवत् । अत्र गुणस्वीकारो नाम गुणानां कार्योन्मुखतया उज्जृंभणमेव । निर्गुणस्य गुणादानं प्रकृतेर्गुणवर्धनमित्याचार्यचरणैर्वक्ष्यमाणत्वात् । अनुगुणैः स्वाधीनैः सत्वादिभिः सृष्ट्यादिकं करोतीत्यर्थः ॥ ४१ ॥

युवयोरेव नैवायमात्मजो भगवान् हरिः ।

सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः ॥ ४२ ॥

पदरत्नावली

भक्तियोगेन सम्यक् प्रणिहिते आत्मनि मनसि जायते प्रकाशत इत्यात्मज इत्यध्यात्मम् ॥ ४२ ॥

सत्यधर्मीया

आत्मज आत्मनि जायते प्रादुर्भवतीत्यन्तर्बहिस्तु सर्वोद्धारकत्वात् ॥ ४२ ॥

सुमनोरञ्जिनी

युवयोरेवात्मज इति न किंतु सर्वेषामात्मजादिः । कुतः । आत्मा । हि यस्माद् आद् आदेयं सुखं मा मापयति अनुभावयतीति । आत्मजादिषु स्थित्वा आनन्ददानादिति भावः ॥ ४२ ॥

दृष्टं श्रुतं भूतभवद्भविष्यत् स्थास्नु चरिष्णुमहदल्पकं च ।

विनाऽच्युताद् वस्तुतया न चान्यत् स एव सर्वं परमार्थरूपः ॥ ४३ ॥

पदरत्नावली

दृष्टं प्रात्यक्षिकं श्रुतं धर्माद्यतीन्द्रियं भूतमतीतं भवद् वर्तमानं भविष्यद् भावि स्थास्नुः स्थावरं चरिष्णुर्जङ्गमं महद् गगनादिकमल्पकं परमाण्वादिकमन्यन् मध्यमपरिमाणोपेतं चेत्येतत्सर्वमच्युतान् विना वस्तुतया शक्तत्वेन नैवास्ति । ‘अवस्त्वशक्तमुद्दिष्टं शक्तं वस्त्विति भण्यते’ इत्यभिधानम् । परमार्थरूपो नित्याप्रतिहतस्वरूपः स भगवानेव पिता मातेश्वर इत्यतीते-नान्वयः ॥ ४३ ॥

सत्यधर्मीया

इदानीं रहस्यमुपदिश्य समादधति ॥ दृष्टमिति ॥ दृष्टं प्रात्यक्षिकं श्रुतं धर्माद्यतीन्द्रियं भूतेनातीतेन सहितं च तद्भवद्वर्तमानं भविष्यद्भावि स्थास्नु स्थावरं चरिष्णु जङ्गमं महद्गगनादिकमल्पकं परमाण्वादिकमन्यन्मध्यमपरिमाणोपेतं चेत्येतत्सर्वमच्युताद्विना वस्तुतया शक्तत्वेन । अवस्त्वशक्तमुद्दिष्टं शक्तं वस्त्विति भण्यत इति प्रथमतात्पर्योक्तेः । न चास्ति । परमार्थो मुख्यार्थ-स्तदात्मेति परमार्थरूपः स एव भगवानेव माता पितेश्वर आत्मजश्चेत्यतीतेनान्वयः ॥ ४३ ॥

सुमनोरञ्जिनी

किं बहुनोक्तेन निष्कृष्टं तत्त्वं ब्रवीमीत्याह ॥ दृष्टमिति ॥ भूतम् अतीतम् । भवद् वर्तमानम् । भविष्यच्च यच्छ्रुतं दृष्टं वा । स्थास्नुः स्थावरम् । चरिष्णुर् जङ्गमम् । महद् अव्याकृताकाशम् । अल्पकं भूतसूक्ष्मम् । अन्यद् एतदन्यच्च । तत्सर्वम् अच्युताद्विना वस्तुतया च स्वातन्त्र्येण नास्ति । किं तु सर्वं स एव तदधीनमेव । अतः स एव परमार्थरूपः सर्वोत्तमवस्तुरूप इत्यर्थः । यद्वा सर्वम् अच्युताद्विना नास्तीत्युक्ते तर्हि किमच्युतात्मकमेवेत्यतो नेत्याह ॥ अन्यदिति ॥ तद्भिन्नमित्यर्थः ॥ ४३ ॥

श्रीशुक उवाच—

एवं निशा सा ब्रुवतोर्व्यतीता नन्दस्य कृष्णानुचरस्य राजन् ।

गोप्यः समुत्थाय निरूप्य दीपान् वास्तून् समभ्यर्च्य दधीन्यमन्थन् ॥ ४४ ॥

पदरत्नावली

निरूप्य प्रज्वाल्य । वास्तून् देहल्यादिस्थवास्तुदेवताः । अमन्थन् ममन्थुः

॥ ४४ ॥

सत्यधर्मीया

सा निशा रात्रिर्यदा नन्दस्य कृष्णानुचरस्यैवं संवदतोरेतयोर्व्यतीता गता । तदा गोप्यः समुत्थाय दीपान्निरूप्य स्तम्भाद्युपरि स्थापयित्वा । रूप उपरिभाव इति धातुः । सुभद्रां रथमारोप्येत्यादिवदिति प्रथमतात्पर्योक्तेः । वास्तून् गृहद्वाराधस्तनकाष्ठादिनिष्ठदेवताः समभ्यर्च्य दध्यक्षतादिभिः पूजयित्वा दधीन्यमन्थन्ममन्थुः ॥ ४४ ॥

सुमनोरञ्जिनी

कृष्णानुचरस्य उद्धवस्य नन्दस्य चेत्येतयोर् ब्रुवतोर् एवं श्रीकृष्णकथालापं कुर्वतोस् तेनैव सा निशा व्यतीता यदा तदा गोप्यस् तल्पात्समुत्थाय । दीपान्निरूप्य प्रबोध्य । वास्तून् गृहान् समभ्यर्च्य अनुलेपनादिना । अमन्थन् ममन्थुः ॥ ४४ ॥

ता दीपदीप्तैर्मणिभिर्विरेजू रज्ज्वा१विकर्षोज्वलकङ्कणाः स्रजः ।

चलन्नितम्बस्तनहारकुण्डलत्विषत्कपोलारुणकुङ्कुमाननाः ॥ ४५ ॥

पदरत्नावली

दीपा दीप्ता यैस्ते दीपदीप्तास्तैर्मणिभिर्विरेजुः । रज्जुमाविकर्षत्सु करेषु चलाः कङ्कणा यासां तास्तथा । चलन्तो नितम्बाः स्तना हाराश्च यासां ताश् चलन्नितम्बस्तनहाराः कुण्डलैस् त्विषन्तः प्रकाशमानाः कपोला यासां ताः कुण्डलत्विषत्कपोलाः, चलन्नितम्बस्तनहाराश्च ताः कुण्डलत्विषकपोलाश्च चलन्नितम्बस्तनहारकुण्डलत्विषत्कपोलाः, ताश्च ता अरुणानि कुङ्कुमानि येषु तान्याननानि यासां ताश्च तथा ॥ ४५ ॥

सत्यधर्मीया

दीपैर्दीप्ताश्च ते मणयश्च तैर्दीपा दीप्ता यैस्ते च ते तैरिति वा मणिभिर्विरेजुः । रज्जुविकर्षणोच्चलकङ्कणाः स्रज इति पाठः । रज्ज्वा विकर्षेणोज्वलाः कङ्कणा यासां ताः । रज्वा-विकर्षच्चलकङ्कणाः स्त्रिय इति पाठे रज्जुमाकर्षन्तः करास्तेषु चलाः कङ्कणा यासां ताः स्त्रिय इत्यर्थः । चलन्ति नितम्बस्तनहारकुण्डलानि तैस्त्विषन्तः काशमानाः कपोला यासां ताश्चारुणं कुङ्कुमं तेन युतमाननं यासां ता अमन्थन्नित्यतीतेनान्वयः ॥ ४५ ॥

सुमनोरञ्जिनी

रज्वा विकर्षत इतस्तत आकृष्टो ऽत एव चलाश् चञ्चलाः कङ्कणाः करभूषणानि यासां ता रज्वाविकर्षादिति पाठः सुगमः पन्थाः । रज्वा मथनरज्जोर् विकर्षाद् विकर्षणाद् इति । चलन्नितम्बस्तनहाराश्च कुण्डलैस् त्विषन्ति कान्तियुक्तानि कपोलानि येषु तानि च तानि अरुणकुङ्कुमाननानि यासां ताश्च ॥ ४५ ॥

उद्गायतीनामरविन्दलोचनं व्रजाङ्गनानां दिवमस्पृशद् ध्वनिः ।

दध्नश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गलम् ॥ ४६ ॥

पदरत्नावली

येन श्रुतेन ध्वनिना दिशां दशदिग्वर्तिनां जनानाममङ्गलं निरस्यते ॥४६॥

सत्यधर्मीया

अरविन्दलोचनं श्रीकृष्णमुद्गायन्तीनां सा ध्वनिर्दिवमस्पृशत् । उच्चैष्ट्वे तात्पर्यम् । सहस्रधनुषस्तूर्ध्वं द्युशब्देनापि भण्यत इति प्रथमतात्पर्योक्तेः । स च दध्नश्च निर्मन्थनशब्देन मिश्रितः । दध्नां चेति क्वाचित्कोऽपि पाठो दधीन्यमन्थन्नित्यनुगुणः । दध्नश्चेति पाठ एकवचनं मथनसमकालीनतां ध्वनयति । येन श्रुतेन ध्वनिना दिशां तद्गतजनानाममङ्गलं निरस्यते । न केवलमनिष्टनिवृत्तिरिष्टप्राप्तिरप्यस्तीत्यप्याह ॥ दिशामेति । उद्गायतीनां मङ्गलं दिशामेति दिशां दिग्देवतानां ध्वनिश्च भुवमस्पृशत इति वा ॥ ४६ ॥

सुमनोरञ्जिनी

अरविन्दलोचनं कृष्णम् उद्गायतीनाम् उच्चैर्गायन्तीनां व्रजाङ्गनानां ध्वनिः । दध्नो निर्मन्थनशब्देन मिश्रितः दिवमस्पृशत् । येन ध्वनिना । दिशां तद्वासिनाम् । अमङ्गलम् अशुभं निरस्यते नश्यति ॥ ४६ ॥

भगवत्युदिते सूर्ये २व्रजद्वारि व्रजौकसः ।

दृष्ट्वा रथं शातकौम्भं कस्यायमिति चाब्रुवन् ॥ ४७ ॥

पदरत्नावली

व्रजौकसो गोप्यः । शातकौम्भं सुवर्णमयम् ॥ ४७ ॥

सत्यधर्मीया

भगवति पूज्ये सूर्ये उदिते सति व्रजौकसौ गोप्यो व्रजद्वारि शातकौम्भं सुवर्णमयं रथं दृष्ट्वा कस्यायं रथ इति चाब्रुवन् ॥ ४७ ॥

सुमनोरञ्जिनी

शातकौंभं सुवर्णमयम् ॥ ४७,४८ ॥

अक्रूर आगतः किं वा यः कंसस्यार्थसाधकः ।

येन नीतो मधुपुरीं कृष्णः कमललोचनः ॥ ४८ ॥

सत्यधर्मीया

यः कंसस्यार्थसाधक एकदेशान्वयस्तु नित्यसापेक्षत्वाद्युक्तः । सोऽक्रूरः किं वाऽऽगतो येन कमललोचनः कृष्णो मधुरापुरीं नीतः सः ॥ ४८ ॥

किं साधयिष्यत्यस्माभिर्भर्तुः प्रेतस्य निष्कृतिम् ।

इति स्त्रीणां वदन्तीनामुद्धवोऽगात् कृताह्निकः ॥ ४९ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे चतुश्चत्वारिंशोऽध्यायः ॥

पदरत्नावली

प्रेतस्य मृतस्य भर्तुः स्वस्वामिनः कंसस्य निष्कृतिमानृण्यमस्माभिः साधयिष्यति किम् । अस्मद्दण्डेन कर्तुमिच्छति किमित्यर्थः । कृताह्निको ऽनुष्ठितप्रातःसन्ध्योपास्त्यादिक्रियः

॥ ४९ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे चतुश्चत्वारिंशोऽध्यायः ॥

सत्यधर्मीया

कर्तव्यान्तरं न दृश्यते ? स कुत आगच्छेदित्यतः प्रेतस्याभिप्रेतं किं वा कर्तुमिति प्राचीनभीतित उत्प्रेक्ष्योत्पलाक्ष्यो वदन्ति ॥ किमिति ॥ प्रेतस्य मृतस्य भर्तुः स्वस्वामिनः कंसस्य निष्कृतिमानृण्यमस्माभिः प्रत्यक्षतो हताभिः साधयिष्यति किमित्यन्वयः । इति स्त्रीणां वदन्तीनां कृताह्निकः कृतप्रातःसन्ध्योपास्त्यादिक उद्धवोऽगाद्यत्र ता आसते तं देशम् ॥४९॥

॥ इति श्रीमद्भागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे चतुश्चत्वारिंशोऽध्यायः ॥

सुमनोरञ्जिनी

किंशब्दो वितर्के । काश्चिदाहुः । आगच्छतु नाम । प्रेतस्य मृतस्य भर्तुः स्वभर्तुः कंसस्य । अस्माभिर् निष्कृतिं किं साधयति न किमपि । कृताह्निकः कृतप्रातराह्निकः

॥ ४९ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां चतुश्चत्वारिंशोऽध्यायः ॥