१८ त्रिचत्वारिंशोऽध्यायः

पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः

॥ अथ त्रिचत्वारिंशोऽध्यायः ॥

श्रीशुक उवाच—

पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः ।

मा भूदिति निजां मायां ततान जनमोहिनीम् ॥ १ ॥

तात्पर्यम्

‘सर्वोत्तमोऽपि भगवान् गुणा(ण)भावं जनार्दनः । दर्शयेद्वसुदेवादेरात्मनो जीवतामपि । अज्ञाशक्त्यादिभावस्तु कुतस्तस्याखिलेशितुः । कुतो दोषा सर्वगुणपूर्ण-स्यानन्दवारिधेरि’ति वामने ॥

पदरत्नावली

भगवतो बन्धनशक्तेः प्रकारः प्रतिपाद्यतेऽस्मिन्नध्याये । तत्रादौ कंसवधानन्तरं श्रीकृष्णेन किमकारीति राज्ञो मानसप्रश्नं परिहरति पितराविति । उपलब्धः प्राप्तो जगत्पितृविषयक-ज्ञानरूपोऽर्थो याभ्यां तौ तथाभूतौ पितरौ विदित्वा तयोरेवं ज्ञानमिदानी मा भूदिति जनमोहिनी निजां मायां बन्धकशक्तिं ततान विस्तृतवान् ॥ १ ॥

सत्यधर्मीया

पितरावुपलब्धार्थावित्यारभ्येति मायामनुष्यस्येत्यन्तैर्दशभिः श्लोकैर्लोकेशस्य वसुदेवाद्यवरत्वं परतन्त्रता चोच्यत इति प्रतीयतेऽतस्तत्तात्पर्यमाचार्यवर्यो मानेनानयति ॥ सर्वोत्तमोऽ-पीति । भगवान् जनार्दनः सर्वोत्तमोऽपि सन् गुणभावमप्राधान्यं वसुदेवादेः सकाशात्तथाऽऽत्मनः स्वस्माद्वरतां तेषां दर्शयेत् । अज्ञाशक्त्यादिकमज्ञेति मुक्तोपसृप्येत्यादिवद्भावप्रधानम् । नञ्पूर्वाज्जानातेर्घञर्थे कविधानमिति भावेऽज्ञमज्ञानमिति वा । अशक्तिश्चेत्यादी यस्य स स्वभावः । न विद्यते शक्त्यादिर्यस्य सोऽज्ञश्च स चेत्यज्ञाशक्त्यादिस्तस्य भाव इति वा । तस्याखिलेशितुः कुतो भवेत् । एतदादेर्दोषमूलकत्वात्तदभावादेवाभाव इत्याह ॥ कुतो दोषा इति ॥ सर्वगुणपूर्ण-स्यानन्दवारिधेः सुखसमुद्रस्य । सर्वोपेता च तद्दर्शनात् । अथातो ब्रह्मजिज्ञासा । आनन्दमयोऽ-भ्यासादित्याद्युपयुक्तसूत्रोक्तानुवादरूपत्वान्न पौनरुक्त्यमिति मन्तव्यम् ॥ अथ मूलार्थः ॥ यथा खलाचरितः शृङ्खलाबन्धो व्यमोचि भगवता तथा संसारबन्धनमपि मोचयति हरिरिति सूचयत्यनेना-ध्यायेन । तत्रादौ कंसहिंसानन्तरमनन्तः किं ततानेति क्षितिपतिशङ्कां मानसीं परिहरति ॥ पितरा-विति ॥ पुरुषोत्तम उपलब्धोऽर्थो नित्यं प्राप्योऽयमिति ज्ञानविषयो हरिः स्वयं ययोस्तौ ज्ञातस्वरूपाविति यावद् विदित्वा ज्ञात्वा तयोरेवं ज्ञानमिदानीं मा भूदिति जनमोहिनीं मायां निजां स्वबन्धकशक्तिं ततान व्यतनोत् तया वृतवानिति यावत् ॥ १ ॥

सुमनोरञ्जिनी

अचिन्त्याद्भुतशक्तेर् भगवतः श्रीकृष्णस्य यदि ह्यहमित्युक्तरीत्या सुजन-शिक्षणाय कृतं गुरुकुलवासादिकं वदन् मृतपुत्रदानादिमहिमानं निरूपयत्यस्मिन्नध्याये । तत्रादौ देवकीवसुदेवयोः सदा स्वस्मिन् जगदीश्वरत्वज्ञानपूर्वकपुत्रस्नेहः । सार्वधिकः स्वाधिकारादधिकं साधन-मिति मन्वानः स्वीयमायया तदावृणोदित्याह ॥ पितराविति ॥ पितरौ, उपलब्धो ज्ञात अर्थः ‘नायमस्मत्सुतः किन्तु साक्षाज्जगदीश्वर एवेत्यादिरूपः’ याभ्याम् । अत एव उपलब्धः प्राप्तो ऽर्थः पुरुषार्थः स्वयोग्यमौक्तानन्दलक्षणः याभ्यां तथाविधौ विदित्वा । मा भूत् स्वयोग्यतातिक्रमेण साधनं मा भूदितीच्छया । निजां स्वाधीनां मायां स्वेश्वरत्वविषयामविद्याम् आततान विस्तारयामास । वक्ष्यमाणवचनैरिति शेषः ॥ १ ॥

उवाच पितरावेत्य साग्रजः सात्वतर्षभः ।

प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् ॥ २ ॥

पदरत्नावली

प्रश्रयेण विनयेनावनतो नम्रः । प्रीणन् प्रीतिमुत्पादयन् ॥ २ ॥

सत्यधर्मीया

साग्रजः सबलः सात्वतर्षभः कृष्णः पितरौ गृहोपविष्टावेत्य प्राप्य । यथोक्तं हरिवंशे । ‘‘तं हत्वा पुण्डरीकाक्षः प्रहर्षाद्द्विगुणप्रभः । ववन्दे वसुदेवस्य पादौ निहतकण्टकः । मातुश्च शिरसा पादावित्याद्युदीर्य । तौ जितारी जितक्रोधौ चिरविप्रोषितौ व्रजे । स्वपितुर्भवनं वीरौ जग्मतुर्हृष्टमानसाविति । प्रश्रयेणावनतः प्रीणन्स्वयं प्रीतियुतः प्रीणयन्वा । हे अम्ब हे तातेति सादरमुवाच । इदमेव मायाबीजमिति ज्ञेयम् ॥ २ ॥

सुमनोरञ्जिनी

प्रश्रयेण विनयेन अवनतः नम्रः । प्रीणन् प्रीणयन् प्रीतिमुत्पादयन्निति यावत् ॥ २ ॥

नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि ।

बाल्यपौगण्डकैशोराः पुत्राभ्यामगमन् क्वचित् ॥ ३ ॥

पदरत्नावली

अस्मत्तोऽस्मद्धेतोर्नित्यमुत्कण्ठितयोरपि युवयोः पुत्राभ्यामावाभ्यां बाल्य-पौगण्डकैशोरा इत्यवस्था नागमन् । युष्मत्पुरतो बाल्याद्युचिता लीला न प्राप्ता इत्यर्थः ॥ ३ ॥

दुर्घटभावदीपिका

हे तात । अस्मत्तोऽस्मद्विषये नित्योत्कण्ठितयोरपि युवयोः पुरतः पुत्राभ्यां पुत्रयोरावयोर्बाल्यपौगण्डकैशोरबाल्याद्यवस्था नागमन्निति ॥ ३ ॥

सत्यधर्मीया

अस्मत्तोऽस्मन्निमित्तम् । नित्यमुत्कण्ठितयोरुत्कण्ठतयोरुत्कण्ठयुतयोर्युवयोः पुरत इति शेषः । बाल्यपौगण्डकैशोरा इत्यवस्थाः । गतम् । पुत्राभ्यामावाभ्यां नागमन्न गमिता इति तच्चित्तज्ञानं युवयोः क्व कथं भवेन्न भवेत् ॥ ३ ॥

सुमनोरञ्जिनी

अस्मत्तो ऽस्मन्निमित्तम् । नित्यमुत्कण्ठितयोरपि युवयोः पुरतः पुत्राभ्या-मावाभ्यां चतुर्थीद्विवचनमिदम् । बाल्यपौगण्डकैशोरा अवस्था नागमन् नाययुर् बाल्याद्यवस्थासु कृता अस्मल्लीला भवद्भ्यां न दृष्टा इति यावत् ॥ ३ ॥

न लब्धो दैवहतयोर्वासो नौ भवदन्तिके ।

ये बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ॥ ४ ॥

पदरत्नावली

अप्राप्तौ निमित्तमाह नेति । दैवहतयोर्भाग्यहीनयोर्नौ आवयोर्भवदन्तिके युष्मत्समीपे वासो न लब्धः । पितृगेहस्था बाला यां मुदं विन्दन्ते साऽपि न लब्धेत्यन्वयः

॥ ४ ॥

सत्यधर्मीया

अस्मद्दुर्दैवतो, युष्मत्तो विवासनमिति न तल्लीला युष्मत्पुरो जातेति तात्पर्यं लोकविलोकनतो बहिः प्रकाशयन्नाह ॥ न लब्ध इति । दैवहतयोर्नौ भवदन्तिके युष्मत्समीपे वासो न लब्धः । यन्नाभूद्दैवं तद्दैवं क्व फलप्रदं दृष्टमित्यत आह ॥ ये बाला इति । पितृगेहस्था ये बाला लालिता मुदं विन्दन्ते सा याभ्यां न प्राप्तेति ॥ ४ ॥

सुमनोरञ्जिनी

नेति । ये बाला लोके पितृगेहस्थाः सन्तः पितृभ्यां लालिता मुदं विन्दन्ते विन्दन्ति । आवयोस्तु दैवहतयोर् अदृष्टेन प्रतिबद्धयोर् भवदन्तिके वास एव न लब्धः । न केवलं पुत्रलीला भवद्भ्यां न दृष्टा आवाभ्यामपि पितृकृतलालनसुखं न लब्धमित्याह ॥ नेति ॥ ४ ॥

सर्वार्थसम्भवो देहो जनितः पोषितो यतः ।

न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ॥ ५ ॥

पदरत्नावली

यतः सर्वेषामर्थानां मोक्षादिपुरुषार्थानां सम्भव उत्पत्तिर्यस्यात् स देहो याभ्यां जनितः पोषितश्च ततस्तयोः पित्रोर्निर्वेशमानृण्यं मर्त्योऽपत्यं शतायुषा शतसंवत्सरात्मकेनायुषाऽपि न याति ॥ ५ ॥

सत्यधर्मीया

युष्मदुपकारस्य वयं न प्रत्युपकर्तुमीशा इतीशः शंसति ॥ सर्वार्थेति ॥ सर्वार्थानां सम्भवो घटनाय यस्मात्सो मोक्षादिसकलपुरुषार्थसाधनं याभ्यां जनितोऽनन्तरं पोषितश्च तयोः पित्रोर्निर्वेशं मर्त्योऽपत्यं शतायुषा शतसंवत्सरात्मनाऽप्यायुषा न याति । मर्त्य इत्यानुकूल्याय शतायुर्वै पुरुष इति श्रुतेः शतायुषेति ॥ ५ ॥

यस्तयोरात्मजः कल्प आत्मना च धनेन च ।

वृत्तिं न दद्यात् तं प्रेत्य स्वमांसं खादयन्ति हि ॥ ६ ॥

पदरत्नावली

यस्तयोरात्मजः पुत्रः कल्पः समर्थः सन्नपि आत्मना देहेन धनेन च वृत्तिं जीविकां न दद्यात् तं प्रेत्य यमलोके स्वस्यैव मांसं खादयन्ति, यमभटा इति शेषः । हिशब्दः ‘वृद्धौ च मातापितरौ’ इत्यादिमानद्योतकः ॥ ६ ॥

सत्यधर्मीया

यस्तयोरात्मजः शरीरजः सन्नात्मना तज्जन्येन देहेन धनेन तदपेक्षितधनेन वृत्तिं जीवनोपायं न दद्यान्न कुर्याच्चेत्पादसंवाहनाद्यात्मकमन्नादिकं धनसाध्यं च न कुर्यात्तं प्रेत्य संयमिन्यां स्थितम् । लक्ष्मणः प्रेत्य सुग्रीवमित्यादेः । स्वं मांसं खादयन्ति यमभटा हि यतोऽतस्तत्सेवायां प्रयतितव्यम् । अनिर्वाहपक्ष आह । कल्प इति । समर्थश्चेदित्यसमर्थश्चेन्नैवं प्रत्यवेयादिति भावः ॥ ६ ॥

सुमनोरञ्जिनी

पितरौ स्तौति । सर्वार्थानां चतुर्विधपुरुषार्थानां सम्भव उत्पत्तिर्यस्मात्स देहः याभ्यां पितृभ्यां जनितः पुनः पोषितश्च । तयोर्मातापित्रोर्निर्वेशं निष्कृतिम् आनृण्यमित्यर्थः । शतायुषा न याति मर्त्यः ॥ एवं स्थिते आत्मजः पुत्रः कल्पः समर्थः सन्नपि आत्मना स्वशरीरेण धनेन च तयोर्मातापित्रोर् वृत्तिं जीवनं न दद्याच्चेत्तं पुरुषं प्रेत्य मृत्वा स्थितं स्वमांसमेव खादयन्ति यमभटा इति ॥ ५,६ ॥

मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम् ।

गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन्मृतः ॥ ७ ॥

पदरत्नावली

गुरुं शास्त्रोपदेष्टारम् । विप्रमुपनेतारम् । प्रपन्नं शरणागतम् । एतानविभ्र-दपोषयिता सः श्वसन्मृतः जीवन्नपि मृतप्रायः ॥ ७ ॥

सत्यधर्मीया

वृद्धौ च मातापितराविति मानमर्थतोऽनुकुर्वन्नाह ॥ मातरमिति ॥ वृद्धमिति तावद्वार्धक्यं न मातुरिति ध्वनयितुमिति ज्ञेयम् । अन्यथा विपरिणामसाम्यात् पूर्वोक्तमातृविवक्षया वक्तव्यं वृद्धामिति स्यात् । साध्वीं स्वैकशरणां भार्याम् । शिशुम् । स्वोदरभरणासुशकं सुतं, गुरुं शास्त्रोपदेशकं विप्रं मेधाविनमन्यम् । विप्रा मेधाविनस्तन्नामसु पाठादित्यृग्भाष्यटीकाद्युक्तेः । प्रपन्नं शरणागतम् । कल्प एतदादिरक्षणदक्षोऽप्यबिभ्रदपोषयिता यः सः श्वसन्नेव मृतो मृतप्रतीकः । कञ्चन वृद्धं काञ्चन साध्वीं कञ्चन शिशुं गुरुं विप्रमिति व्यातन्वते ॥ ७ ॥

सुमनोरञ्जिनी

वृद्धौ च मातापितराविति स्मृतिं मनसि निधायाह ॥ मातरमिति ॥ साध्वीं पतिव्रतां, सुतं, शिशुं स्वजीवप्रवृत्तावशक्तम् । गुरुं तत्वोपदेष्टारम् । विप्रम् अतिथ्यादिरूपम् । प्रपन्नं शरणागतं च । स्वयं कल्पः समर्थः सन् अबिभ्रन् भरणमकुर्वन् पुरुषः श्वसन् जीवन्नपि मृतः मृतप्राय इत्यर्थः ॥ ७ ॥

तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः ।

मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ॥ ८ ॥

पदरत्नावली

तत् तस्मान्नित्यं कंसादुद्विग्नं भीतं चेतो ययोस्तौ तयोर्वां युवयोरनर्चतोः परिचर्यामकुर्वतोरकल्पयोरसमर्थयोर्नौ आवयोरेते दिवसा मोघं वृथा यथा तथा व्यतिक्रान्ताः

॥ ८ ॥

सत्यधर्मीया

लौकिकी रीतिरेवं भवतु भवन्तौ क्व निवेश्यावित्यतोऽधुनाऽप्यनुदञ्चितमधुमथन-व्यतिरिक्ततामती वञ्चयन्तौ वदतः ॥ तदिति ॥ अकल्पयोर् असमर्थयोः । कंसान्नित्यमुद्विग्नं चेतो ययोस्तौ तयोर्वामनर्चतोर्दिवसा वासरा मोघं वृथा यथा तथा व्यतिक्रान्ताः ॥ ८ ॥

सुमनोरञ्जिनी

एवंस्थितेऽपि यदावयोर् मातापितृसेवा न लब्धा तत्क्षन्तव्यमिति प्रार्थयतः ॥ तदिति ॥ अकल्पयोर् भवत्सेवां कर्तुमशक्तयोः । कुतः कंसान् नित्यमुद्विग्नं भयग्रस्तं चेतो ययोस्तयोर् अतो वामनर्चतोर् नौ । मोघं व्यर्थमेव । एते पूर्वे दिवसा व्यतिक्रान्ताः ॥ ८ ॥

तत् क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः ।

अकुर्वतोर्वां शुश्रूषां क्लिष्टयो१र्दुर्हृदोर्भृशम् ॥ ९ ॥

पदरत्नावली

दुर्हृदा दुरात्मना कंसेन ॥ ९ ॥

दुर्घटभावदीपिका

दुर्हृदोरित्यस्य भवत्सेवा नास्तीति चिन्ताजनितक्लेशयुक्तमनसोरित्यर्थः । एतेन दुर्हृदोरित्यस्य किं दुष्टान्तःकरणयोरित्यर्थः । किं वा दुःखयुक्तान्तःकरणयोरिति । नाद्यः । तन्नावकल्पयोरित्यादि पूर्ववाक्यविरोधात् । न द्वितीयः । क्लिष्टयोरित्यनेन पुनरुक्तिप्रसङ्गादिति चोद्यमपास्तम् । क्लिष्टयोरित्यस्य पूतनादिनिमित्तकक्लेशयोरित्यर्थः । दुर्हृदोरित्यस्य भवत्सेवा नास्तीति चिन्ताजनितक्लेशयुक्तमनसोरित्यर्थ इत्यभ्युपगमात् ॥ ९ ॥

सत्यधर्मीया

तात हे मातः पूर्वं पूर्वं मात्रुक्तिरत्र तु तातेति पुरा पित्रुक्तिश्च माता पूर्वरूपं तत्पूर्वोऽपि पितेति युक्ते । परतन्त्रयोर्वां शुश्रूषां सेवामकुर्वतोः क्लिष्टयोः क्लेशभागिनोर्दुहृदोर्मनः-शुद्धिरहितयोरियत्समयपर्यन्तं कृतं तदागः क्षन्तुमर्हथः । एवं क्लिष्टयोर्वामिति वाऽन्वयः ॥ ९ ॥

सुमनोरञ्जिनी

तथापि हे मातः हे तात परतन्त्रयोर् नौ तद्रूपमपराधं क्षन्तुमर्हथः । भवत्सेवामकृत्वापि नावां सुखिनावित्याहतुः । क्लिष्टयोर् बहुभिः कंसभृत्यैः क्लेशितयोर् अत एव दूयमानहृदययोः ॥ ९ ॥

इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा ।

मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् ॥ १० ॥

पदरत्नावली

विश्वात्मनः सर्वान्तर्यामिणः ॥ १० ॥

सत्यधर्मीया

विश्वात्मनः सर्वान्तर्नियामकस्य मायामनुष्यस्य हरेर्गिरा मोहितौ तौ मातापितरौ परिष्वज्य मुदमापतुः । अस्माभिरेतत्स्वारस्यवश्यतयाऽध्यायान्त्यश्लोके शङ्कितौ न सस्वजाते इत्यर्थापितं श्लिष्टतरमिति मन्तव्यम् ॥ १० ॥

सुमनोरञ्जिनी

मायामनुष्यस्य मायया स्वेच्छया मनुष्यवद्देहधारिणः । गिरा वचनेन । मोहितौ स्वपुत्र एवायमिति मोहयुक्तौ । परिष्वज्य आलिङ्ग्य ॥ १० ॥

सिञ्चन्तावश्रुधाराभिः स्नेहपाशेन संवृतौ ।

न किञ्चिदूचतू राजन् बाष्पकण्ठौ विमोहितौ ॥ ११ ॥

पदरत्नावली

अश्रूणां नेत्रानन्दजलानां धाराभिः ॥ ११ ॥

सत्यधर्मीया

अश्रूणामानन्दजानां धारास्ताभिर्न किञ्चिद्बाष्पेणोष्मणा प्रतिरुद्धकण्ठत्वात्

॥ ११ ॥

सुमनोरञ्जिनी

अश्रुधाराभिर् आनन्दबाष्पवृष्टिभिस् तौ रामकृष्णौ सिञ्चन्तौ । स्नेहपाशेन पुत्रस्नेहाख्यपाशेन । संवृतौ युक्तौ । विमोहितौ प्रतिवचनमूढौ । न किञ्चिदूचतुरित्यन्वयः ॥११॥

एवमाश्वास्य पितरौ भगवान् देवकीसुतः ।

मातामहं तूग्रसेनं यदूनामकरोन्नृपम् ॥ १२ ॥

सत्यधर्मीया

उग्रसेनं मातामहं, यदूनां नृपं राजानम् ॥ १२ ॥

सुमनोरञ्जिनी

यदूनां नृपं राजानम् ॥ १२ ॥

आह चास्मान् महराज प्रजाः स्वाज्ञप्तुमर्हसि ।

ययातिशापाद् यदुभिर्नासितव्यं नृपासने ॥ १३ ॥

पदरत्नावली

स्वाज्ञप्तुं समीचीनतया आज्ञप्तुम् । ययातिशापान् नृपासने नासितव्यं नोप-वेष्टव्यम् । भवतो यादवत्वेऽपि भोजत्वेन किञ्चिद्वैलक्षण्यान्न दोष इति भावः ॥ १३ ॥

सत्यधर्मीया

हे महाराज अस्मान् प्रजाः स्वाज्ञप्तुं समीचीनतया शिक्षापूर्वकमिति यावद् आज्ञप्तुमाज्ञां कर्तुमर्हसि । त्वमेव भव भगवन्नवन्यवनकर्तेत्यत आह ॥ ययातीति ॥ अनेन वसुदेवकुलोग्रसेनकुलयोर्यादवत्वायादवत्वे ध्वन्येते । एवमनङ्गीकारे वैवाहिकी क्रियाऽपि परस्परमनुपपन्ना स्यात् । ययातेः शापात् । यदुभिः साक्षात्तदीयैः प्रवर्तकैरस्मदादिभिर्नृपासने नासितव्यं नोपवेष्टव्यम् । त्वं त्वमुख्य इति यादवत्वेऽपि तव चिन्ता नास्तीति वा । पुत्रीपुत्रत्वादिमतामपि तत्त्वेन व्यवहारो दृष्टचरो लोक इति विवाहादिरुपपन्न इति भावः । अवोचच्च मातामहं तूग्रसेनमिति । यद्वक्ष्यति सर्वान्स्वज्ञातिसम्बन्धानिति । आचार्यगोत्रेण राजन्यो वृणीतेति प्रयोगकारोक्तेर्यादवत्वेऽपि गोत्रभेदेन विवाहादिसम्भव इति वा ॥ १३ ॥

सुमनोरञ्जिनी

हे राजन् उग्रसेन प्रजा अस्मान् । स्वाज्ञप्तुं सुष्ठु आज्ञप्तुम् । अर्हसि । त्वमेव नृपासने उपविशेत्युक्तः प्रत्याह ॥ ययातीति । नासितव्यं नोपवेष्टव्यम् ॥ १३ ॥

मयि भृत्य उपासीने भवतो विबुधादयः ।

बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः ॥ १४ ॥

पदरत्नावली

वृद्धस्य मे तादृशी शक्तिर्नास्तीति मानसी शङ्कां परिहरति मयीति । उपासीने सेवमाने सति ॥ १४ ॥

सत्यधर्मीया

वृद्धोऽहं न नृपासन उपविश्य शासने समर्थ इत्यत आह ॥ मयीति ॥ भृत्ये मय्युपासीने सति विबुधादयो देवादयो बलिं भवतो हरन्ति । अवनताः प्रवणा अन्ये नराधिपा हरेयुर्बलिमिति किं वक्तव्यमिति भावः ॥ १४ ॥

सुमनोरञ्जिनी

अहं वृद्धः कथं राज्यं करोमीति शङ्कां त्यजेत्याह ॥ मयीति ॥ भृत्ये मयि उपासीने सेवमाने सति समीपे तिष्ठतीति वा । विबुधादयः देवादयः । बलिं करम् ॥१४॥

सर्वान् स्वज्ञातिसम्बन्धान् दिग्भ्यः कंसभयाद् गतान् ।

यदुवृष्ण्यन्धकमधुदाशार्हकुकरार्हकान् ॥ १५ ॥

सभाजितान् समाश्वास्य विदेशावासकर्शितान् ।

न्यवासयत् स्वगेहेषु वित्तैः सन्तर्प्य विश्वसृक् ॥ १६ ॥

पदरत्नावली

स्वज्ञातीन् स्वसम्बन्धिनश्च, समाहूयेति शेषः । सभाजितान् सत्कृतान् । विदेशावासेन कर्शितान् कृशतां प्रापितान् । विश्वं सर्वं सृजति ददातीति विश्वसृक् ॥१५,१६॥

सत्यधर्मीया

स्वज्ञातीन् स्वसम्बन्धानिति सर्वान्कंसभयाद्दिग्भ्यो गतान्यदुवृष्ण्यन्धकमधुकुक-रार्हकान् । एवं विशेषाद्विशेषो बोध्यः ॥ विदेशावासकर्शितान्सभाजितान्सत्कृतान्समाश्वास्य वित्तैः सन्तर्प्य तर्पयित्वा स्वगेहेषूत्सृष्टेषु न्यवासयद्वासयामास । अपेक्षितसर्ववितरितुरीश्वरस्य कियदिय-द्दीनदीनारदानमित्याह ॥ विश्वसृगिति । विश्वं समस्तं सृजत्यत्ति सृजतीति स तथा । क एते कश्च स्वयं कोऽनुबन्ध इत्यतो वाऽऽह ॥ विश्वसृगिति । स्वप्रजारक्षणं पितुर्विहितमिति ॥१५,१६॥

सुमनोरञ्जिनी

स्वज्ञातीन् सम्बद्धान् सम्बन्धिनः मत्वर्थीयोऽच् । दिग्भ्यो गतान् दिग्भ्य आगतान् वा ॥ वस्त्रालङ्कारादिना अन्नादिना प्रियसम्भाषणादिना वा सभाजितान् पूजितान् । विदेशावासेन कर्शितान् क्लिष्टान् । सन्तर्प्य सन्तोष्य ॥ १५,१६ ॥

कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथाः ।

गेहेषु रेमिरे सिद्धाः कृष्णरामगतज्वराः ॥ १७ ॥

पदरत्नावली

गुप्ता रक्षिताः । सिद्धाः पूर्णकामाः । कृष्णरामाभ्यां गतो निवृत्तो ज्वरस्तापो येषां ते तथा ॥ १७ ॥

सत्यधर्मीया

सिद्धा मुक्ता इवेति लुप्तोपमा । पूर्णा इति वा । कृष्णरामाभ्यां गतो ज्वर उपतापो येषां ते तथा ॥ १७ ॥

सुमनोरञ्जिनी

गुप्ता रक्षिताः । कृष्णरामाभ्यां निमित्ताभ्यां गतज्वरा नष्टसन्तापाः ॥१७॥

वीक्षन्तोऽहरहः प्रीता मुकुन्दवदनाम्बुजम् ।

नित्यप्रमुदितं श्रीमत्सदयस्मितवीक्षणम् ॥ १८ ॥

सत्यधर्मीया

वीक्षन्तो वीक्षमाणाः । नित्यं प्रमुदितं, श्रीमत्कान्तिमत्सदयं तत्स्मितवीक्षणं यस्य तत् ॥ १८ ॥

सुमनोरञ्जिनी

अहरहः प्रतिदिनम् । सदयं यत्स्मितं तत्सहितं वीक्षणं यस्य तत् ॥१८॥

तत्र प्रवयसोऽप्यासन् युवानोऽतिबलौजसः ।

पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहुः ॥ १९ ॥

पदरत्नावली

तत्र मधुरायां प्रवयसो वृद्धा अपि अतिशयितबलमोजश्च येषां ते तथाभूता युवान आसन् । तत्र किमौषधमिति तत्राह पिबन्त इति ॥ १९ ॥

सत्यधर्मीया

प्रवयसो गतवयस्का युवानोऽतिबलौजसोऽप्यासन्नित्यन्वयः । तत्र तन्त्रमाह । अक्षैः सामान्यशब्दोऽत्राक्षिरूपरूपग्राहकग्राहकः । नेत्रैर्भृङ्गैरिति योजयन्ति ॥ १९ ॥

सुमनोरञ्जिनी

तत्र मधुरायाम् । अक्षैर् नेत्रैः । मुकुन्दस्य मुखाम्बुजे विद्यमानसुधां मुहुः पिबन्तः प्रवयसो वृद्धा अपि युवानस्तरुणा आसन् । तच्चिह्नमाह ॥ अतीति ॥ अत्यन्तं बलं शारीरं, ओजो ऽन्तःसामर्थ्यं च येषाम् ॥ १९ ॥

अथ नन्दं समासाद्य भगवान् देवकीसुतः ।

सङ्कर्षणश्च राजेन्द्र परिष्वज्येदमूचतुः ॥ २० ॥

सत्यधर्मीया

देवकीसुतः परिष्वज्येत्यनेनानास्था ध्वन्यते । अन्यथा प्रणम्येति वाऽवक्ष्यत्

॥ २० ॥

सुमनोरञ्जिनी

इदं वक्ष्यमाणम् ॥ २० ॥

पितर्युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम् ।

पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि ॥ २१ ॥

पदरत्नावली

आत्मनः स्वस्मादपि ॥ २१ ॥

सत्यधर्मीया

हे पितर्युवाभ्यां दम्पतिभ्यां पोषितौ भृशं लालितौ च पित्रोरात्मनः स्वस्मादप्यात्मजेषु स्वकीयपुत्रेषु चाभ्यधिका प्रीतिः ॥ २१ ॥

सुमनोरञ्जिनी

हे पितः युवाभ्यां दम्पतिभ्याम् । आवां पोषितौ । अन्नादिना प्रिय-सम्भाषणादिना च लालितौ । कुत इत्यत आह ॥ पित्रोरिति ॥ मातापित्रोर् आत्मनः स्वस्मादपि आत्मुजेषु अभ्यधिका प्रीतिः । हि प्रसिद्धमेतत् ॥ २१ ॥

स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत् ।

शिशून् बन्धुभिरुत्सृष्टानकल्पैः पोषरक्षणे ॥ २२ ॥

पदरत्नावली

पोषरक्षणे पोषणे रक्षणे चाकल्पैरसमर्थैर्बन्धुभिर् उत्सृष्टान् शिशून् यौ स्वपुत्रवत् पुष्णीताम् अपुष्णातां स एव पिता सा च जनती ॥ २२ ॥

सत्यधर्मीया

अर्थादुक्तं स्वापुत्रत्वं किञ्चिद्विवेचयति ॥ स पितेति । पोषरक्षणे पोषण-रक्षणयोः, पोषरक्षणे प्रति । अकल्पैरसमर्थैर्बन्धुभिः पित्रादिभिरुत्सृष्टान् शिशून्स्वपुत्रवद्यौ पुष्णीतां सा जननी स एव पिता च । अनेनान्नदानाद्युपाधिपितृताऽपि युवयोरस्तीति देवकीवसुदेवपुत्रौ किलेति दौर्मुख्यं न भजतमिति वाऽसूचि ॥ २२ ॥

सुमनोरञ्जिनी

ननु नावां भवत्पितरौ । कथं त्वयि प्रीतिरस्माकं स्यादित्यतो युवामेव पितरौ । पितृवदस्मत्पोषणादित्याह ॥ या च यश्च यौ स्त्रीपुरुषौ स्वपुत्रवत् पुष्णीतां पोषणं कुरुतः स एव पिता सैव मातेति न्यायः । पोषणे अन्नादिना पालने, रक्षणे भयादितस्त्राणे च । अकल्पैर् बन्धुभिः । उत्सृष्टान् त्यक्तान् शिशून् यौ युवां पुष्णीताम् । अतः स त्वमेव पिता । सा यशोदैव जननीति पूर्वार्द्धमावृत्य योजना ज्ञेया ॥ २२ ॥

यात यूयं व्रजं तात वयं च स्नेहदुःखितान् ।

ज्ञातीन् नो द्रष्टुमेष्यामो विधाय सुहृदां सुखम् ॥ २३ ॥

पदरत्नावली

वयमत्रत्यानां सुहृदां चिरायास्मद्विरहकातराणां सुखं विधाय स्नेहदुःखितान् अस्मत्स्नेहनिमित्तदुःखयुतान् नो ज्ञातीन् भवदादीन् द्रष्टुमेष्यामः ॥ २३ ॥

सत्यधर्मीया

हे तात यूयं व्रजं यात सुहृदां चिरायास्मद्विरहकातराणां सुखं विधाय स्नेहदुःखितान्स्नेहनिमित्तदुःखयुतान्नौ ज्ञातीन्भवदादीन्द्रुष्टुमेष्यामः प्रस्तुतं यूयं यात ॥ २३ ॥

सुमनोरञ्जिनी

हे तात नन्द यूयं व्रजं यात । वयं च वयमपि । अत्रत्यानां सुहृदां सुखं विधाय । अस्मत्स्नेहेन दुःखितान् ज्ञातीन् युष्मान् । द्रष्टुमेष्याम इति ॥ २३ ॥

एवं सान्त्वय्य भगवान् नन्दं सव्रजमच्युतः ।

वासोऽलङ्कारकुप्याग्रैरर्हयामास सादरम् ॥ २४ ॥

पदरत्नावली

सान्त्वय्य सान्त्वयित्वा । सव्रजं व्रजवासिभिः सहितम् । वासोभिर्वस्त्रैरलङ्कारै-राभरणैश्च कुप्याग्रैः रजतहेमव्यतिरिक्तद्रव्यश्रेष्ठैश्च । ‘अकुप्यं रूप्यहेमादि कुप्यमन्यद् धनादिकम्’ इति हलायुधः ॥ २४ ॥

सत्यधर्मीया

सान्त्वय्य समाधानं विधाय । सव्रजं तद्वासिजनसहितं वासांसि वस्त्राण्यलङ्कारा आभरणानि कुप्यानि रसपूरितपात्राणि सुवर्णदुर्वर्णभिन्नान्येतान्येवाग्रे येषां तैः पदार्थैः सादरमर्चयामास । पुष्पाग्रैरिति च स्फुटार्थम् । अकुप्यं रूप्यहेमादि कुप्यमन्यद्धनादिकमिति हलायुधोक्तेः ॥२४॥

सुमनोरञ्जिनी

सांत्वय्य सांत्वयित्वा । सव्रजं सगोपं वासोभिरलङ्कारैश्च कुप्याग्रैः सुवर्ण-रजताद्यतिरिक्तद्रव्यश्रेष्ठैः । अर्हयामास पूजयामास ॥ २४ ॥

इत्युक्तस्तौ परिष्वज्य नन्दः प्रणयविह्वलः ।

पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ ॥ २५ ॥

सत्यधर्मीया

इति कृष्णरामाभ्यामुक्तो नन्दस्तौ परिष्वज्य प्रणयविह्वलो नेत्रे अश्रुभि-र्विरहशोकोदकैः पूरयन्सहगोपैर्व्रजं ययौ ॥ २५ ॥

सुमनोरञ्जिनी

इति ‘पितर्युवाभ्याम्’ इत्युक्तप्रकारेण ॥ २५ ॥

अथ शूरसुतो राजन् पुत्रयोः समकारयत् ।

पुरोधसा ब्राह्मणैश्च यथावद् द्विजसंस्कृतिम् ॥ २६ ॥

पदरत्नावली

पुरोधसा गर्गाचार्येण । द्विजसंस्कृतिमुपनयनसंस्कारम् ॥ २६ ॥

सत्यधर्मीया

अथ नन्दगमनानन्तरं पुरोधसा तेनैव द्विजातिसंस्कृतिं स्वाध्यायोऽध्ययनोपयुक्त-मुपनयनलक्षणं यथावद्ब्राह्मणैः सह समकारयत् ॥ २६ ॥

सुमनोरञ्जिनी

शूरसुतो वसुदेवः । पुत्रयोः रामकृष्णयोर् द्विजसंस्कृतिं क्षत्रयोग्यसंस्कारम् उपनयनाख्यं यथावद् विधिमनतिक्रम्य ॥ २६ ॥

तेभ्योऽदाद्दक्षिणां गावो रुग्ममालाः स्वलङ्कृताः ।

स्वलङ्कृतेभ्यः सम्पूज्य सवत्साः क्षौममालिनीः ॥ २७ ॥

पदरत्नावली

गावो गाः । रुग्ममालाः स्वर्णमालायुक्ताः । क्षौममालिनीः क्षौमवस्त्रपुष्प-मालावतीः ॥ २७ ॥

सत्यधर्मीया

शूरसुतो रुक्ममालाः स्वलङ्कृताः सवत्साः क्षौममालिनीः । क्षोमाणां मालो मल धारणे घञ् । धारणमासामस्तीति क्षौममालिन्यस्ता गाः सम्पूज्य गन्धादिना स्वलङ्कृतेभ्यस्तेभ्यो ब्राह्मणेभ्यो वः सम्प्रददे न ममेति दक्षिणामदात् ॥ २७ ॥

सुमनोरञ्जिनी

रुक्ममालाभिः सुष्ठु अलङ्कृताः । क्षौमाणि कौशेयानि मालाः पुष्पमालाश्चासां सन्तीति तथोक्ताः । सवत्सा गावः गाः संपूज्य । स्वलंकृतेभ्यः स्वदत्तालङ्कारैरलङ्कृतेभ्यस् तेभ्यो ब्राह्मणेभ्यः ददौ । दक्षिणां च ददौ ॥ २७ ॥

याः कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः ।

ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृताः ॥ २८ ॥

पदरत्नावली

याः कृष्णरामयोर् जन्मर्क्षे जन्मनक्षत्रे मनसा दत्ताः सङ्कल्पिताः कंसेनाधर्मतो हृतास्ताश्चानुस्मृत्याददात् ॥ २८ ॥

सत्यधर्मीया

जन्मर्क्षे जन्मनक्षत्रे मनोदत्ता मनसा दत्ताः, कंसेनाधर्मतो हृतास्ताश्चानुसंस्मृत्य स्मृतिपथं नीत्वाऽऽनाय्याददात् ॥ २८ ॥

सुमनोरञ्जिनी

या गावः कृष्णरामयोर् जन्मर्क्षे मनसा दत्ता दानार्थं सङ्कल्पिताः । अनुस्मृत्य । याश्च कंसेनाधर्मतो हृता अपहृतास् ताश्च अददात् ॥ २८ ॥

ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ ।

गर्गाद् यदुकुलाचार्याद् गायत्रं व्रतमास्थितौ ॥ २९ ॥

प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ ।

नान्यसिद्धामलं ज्ञानं गूहमानौ नरेहितैः ॥ ३० ॥

पदरत्नावली

द्विजत्वमुपनीतत्वम् । सुव्रतौ शोभनब्रह्मचर्यनियमयुक्तौ । गायत्रं व्रतं गायत्री-जपनियममास्थितौ आश्रितौ ॥ सर्वविद्यानां प्रभवौ प्रवर्तकौ । नान्यसिद्धामलम् औत्पत्तिकममलं च ज्ञानं नरेहितैर्मानुषचेष्टाभिर्गूहमानौ आच्छादयन्तौ गायत्रं व्रतमास्थिताविति पूर्वेण सम्बन्धः

॥ २९,३० ॥

सत्यधर्मीया

द्विजत्वमुपनीततां प्राप्य लब्धसंस्कारौ व्रतोपयुक्तप्राप्तगात्रनैर्मल्यौ गायत्रं व्रतं यदुकुलाचार्याद्गर्गादास्थितौ तदुपदिष्टमार्गेण व्रतरतावभूतामित्यर्थः ॥ अनेनापातप्रतीताविज्ञत्वं ग्रन्थकृद्दूरयति ॥ प्रभवाविति ॥ सर्वविद्यानां प्रभवौ व्यञ्जकावुत्पादकौ च सर्वज्ञौ जगदीश्वरौ नान्य-सिद्धं सहजममलं ज्ञानं नरेहितैर्मानुषचेष्टाभिर्गूहमानौ आच्छादयन्तौ ॥ २९,३० ॥

सुमनोरञ्जिनी

यदुकुलस्य आचार्याद् गर्गात् । लब्धसंस्कारौ प्राप्तोपनयनौ कृतोपनयना-वित्यर्थः । द्विजत्वं प्राप्य । सुव्रतौ अग्निपरिचर्यादिव्रतोपेतौ । गायत्रं व्रतं गायत्रीजपनियमम् ॥ सर्वविद्यानां प्रभवौ उत्पादकौ । नान्यसिद्धं नसमासोऽयम्,अनन्यसिद्धं स्वाभाविकमित्यर्थः । अमलं यज् ज्ञानं तत् । नरयोरिव ईहितैश्चेष्टितैर् गूहमानौ आच्छादयन्तौ सन्तौ ॥ गुरुकुले वासमिच्छन्तौ । उपजग्मतुर् मधुरापुरादिति शेषः । काश्यं सान्दीपनिं तन्नामानम् । अवन्तिपुरे उज्जयिन्यां वसन्तम्

॥ २९-३१ ॥

अथो गुरुकुले वासमिच्छन्तावुपजग्मतुः ।

काश्यं १सान्दीपनिं नाम अवन्तिपुरवासिनम् ॥ ३१ ॥

पदरत्नावली

काश्यं काश्यगोत्रजम् ॥ ३१ ॥

सत्यधर्मीया

काश्यं नामैकदेशेन येन कश्यपगोत्रे वा स्वतन्त्रे काशगोत्रे वा भवमवन्ति-नामपुरवासिनं नाम्ना सान्दीपनिं गुरुकुले वासमिच्छन्तौ सन्तावुपजग्मतुः ॥ ३१ ॥

यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम् ।

ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवादृतौ ॥ ३२ ॥

पदरत्नावली

तौ रामकृष्णौ यथा यथावदुपसाद्य समित्पाणित्वादिना प्राप्य दान्तौ गुराव-निन्द्रितां शुद्धां वृत्तिमन्यान् ग्राह्यन्तौ शिक्षयन्तौ भक्त्या देवमिव गुरुमुपेतौ स्म सिषेवाते । ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ इति श्रुतिरत्रानुसन्धेया ॥ ३२ ॥

सत्यधर्मीया

यथोपसाद्य यथावत्समित्पाणित्वादिना प्राप्य दान्तौ । गुरावनिन्दितां वृत्तिमन्यान् ग्राहयन्तौ शिक्षयन्तौ भक्त्या सुदामादीन्देवमिवादृतावुपेतौ । न सर्वात्मसाम्यम् । देवे यथा तद्योग्यतानुसारेणेति यथा देवे तथा गुराविति सूचितः श्रुत्यर्थः ॥ ३२ ॥

सुमनोरञ्जिनी

यथा यथावत् । आसाद्य प्राप्य । दान्तौ निगृहीतेन्द्रियौ । गुरौ तद्विषये । अनिन्दितां वृत्तिमनुवृत्तिम् । न केवलं स्वयं किन्तु अन्यानपि सतीर्थान् ग्राहयन्तौ ‘अस्माभिरप्येवं गुर्वनुवृत्तिः कार्या’ इति बुद्धिमुत्पादयन्तौ । भक्त्या देवमिव देवं प्रतीव आदृतौ आदरं कुर्वन्तौ । उपेतौ स्म प्राप्तौ तौ । आदृतौ आदरेण स्वीकृतौ । गुरुणेति शेषः । यद्वा देवमिव देव इव । षट्सु द्वितीयेति सूत्रात् । गुरावनुवृत्तिं प्राप्य । भक्त्या भक्तिपूर्वम् । अनिन्दितां क्षत्रियाणाम-निन्दिताम् । भिक्षाटनादिभिन्नामिति यावत् । तस्य क्षत्रियाणां निन्दितत्वात् । वृत्तिम् अनुवृत्तिं गुरुसेवायामिति । देव इवेति सप्तम्यन्तपाठोऽपि दृश्यते ॥ ३२ ॥

तयोर्द्विजवरस्तुष्टः शुद्धभावानुवृत्तिभिः ।

प्रोवाच वेदानखिलान् साङ्गोपनिषदो गुरुः ॥ ३३ ॥

पदरत्नावली

शुद्धभावाः शुद्धभक्तिपूर्विका अनुवृत्तयः परिचर्यास्ताभिस्तुष्टः । औः शिक्षादिभिर् उपनिषद्भिश्च सहितान् ॥ ३३ ॥

सत्यधर्मीया

शुद्धभावानुवृत्तिभिः शुद्धभावाः शुद्धभक्तिपूर्विका अनुवृत्तयः परिचर्यास्ताभिस्तुष्टो गुरुर्द्विजस्तयोरखिलान् वेदान् प्रोवाच । साङ्गोपनिषदः– शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमित्यङ्गैः सहिता उपनिषदः ॥ ३३ ॥

सुमनोरञ्जिनी

तयोः शुद्धः भावो भक्तिः, अनुवृत्तयः सेवाः । शुद्धभावेन शुद्धमनसा अनुवृत्तयस्ताभिर्वा । अङ्गानि शिक्षादीनि । उपनिषदश्च ताभिः सहितान् । औः सहिता उपनिषदश्चेति वा ॥ ३३ ॥

सरहस्यं धनुर्वेदं धर्मन्यायपथांस्तथा ।

तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्विधाम् ॥ ३४ ॥

सर्वं तदमरश्रेष्ठौ सर्वविद्याप्रवर्तकौ ।

सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप ॥ ३५ ॥

पदरत्नावली

सरहस्यं प्रयोगोपसंहाररूपरहस्यसहितं धनुर्वेदम् । धर्मन्यायपथान् धर्मशास्त्र-ब्रह्मतर्कादितर्कशास्त्रलक्षणान् । आन्वीक्षिकी विद्यां वेदार्थनिर्णायकब्रह्ममीमांसाशास्त्रविद्याम् । ‘आन्वीक्षिकी कुतर्काख्या तथैवान्वीक्षिकी परा’ इति मात्स्योक्तेः । षड्विधां सन्धिविग्रहयानासन-द्वैधीभावसंश्रयरूपां राजनीतिं च प्रोवाच । ‘सन्धिं च विग्रहं चैव यानमासनमेव च । द्वैधीभावं संशयं च षड्गुणान् कवयो विदुः’ इत्युक्तेः ॥ सकृन्निगदमात्रेण एकवारमुच्चारणमात्रेण ॥३४,३५॥

सत्यधर्मीया

प्रयोगोपसंहाररूपरहस्यसहितं धनुर्वेदम् । धर्मस्य पन्था धर्मपथो वर्णाश्रमाचार-रूपो न्यायपथो नीतिमार्गास्तानान्वीक्षकीं तत्त्वविद्याम् । आन्वीक्षकी कुतर्काख्या तथैवान्वीक्षकी परेति मात्स्य इति प्रथमतात्पर्योक्तेरत्र तत्त्वविद्येत्यर्थः । षड्विधां राजनीतिम् । सन्धिं च विग्रहं चैव यानमासनमेव च । द्वैधीभावं संश्रयं च षड्गुणान् कवयो विदुरित्युक्तप्रकारोपेतावमरश्रेष्ठौ सर्वविद्या-प्रवर्तकौ तौ सर्वं सान्दीपन्युद्दीपितम् । सकृन्निगद एव निगदमात्रं तेनैकवारमुक्तित एव सञ्जगृहतुः

॥ ३४,३५ ॥

सुमनोरञ्जिनी

सरहस्यम् अस्त्रप्रयोगोपसंहारसहितम् । धर्मपथः धर्मशास्त्रम् । न्यायपथः ब्रह्मतर्कादितर्कशास्त्रम् । आन्वीक्षिकीम् अन्वीक्षा मीमांसा । तत्सम्बन्धिनीं विद्यां शास्त्रम् । षडि्वधां,

सन्धिं च विग्रहं चैव यानमासनमेव च ।

द्वैधीभावं संश्रयं च षड्गुणान् कवयो विदुः ॥

इत्युक्तरीत्या षडि्वधाम् ॥ ३४ ॥

अहोरात्रैश्चतुःषष्ट्या संयातौ तावतीः कलाः ।

गुरुदक्षिणयाऽऽचार्यं छन्दयामासतुर्नृप ॥ ३६ ॥

पदरत्नावली

चतुःषष्ट्या चतुःषष्टिसङ्ख्याकैरहोरात्रैस्तावतीः कलाश् चतुःषष्टिकलाः संयातौ सम्यक् प्राप्तौ गुरुदक्षिणया गुरवे देयदक्षिणार्थमाचार्यं छन्दयामासतुः प्रार्थयामासतुः । गुरुदक्षिणयेति हेत्वर्थे तृतीया ॥ ३६ ॥

दुर्घटभावदीपिका

हे नृप रामकेशवौ गुरुदक्षिणया गुरुदक्षिणाप्रतिपादकवाक्येनाचार्यं छन्दया-मासतुस्तोषयामासतुरिति । एतेन गुरुदक्षिणया अदत्तत्वात् । गुरुदक्षिणया आचार्यं छन्दया-मासतुरित्यनुपपन्नमिति दूषणं निरस्तम् । गुरुदक्षिणाशब्देन भवदपेक्षितगुरुदक्षिणा दीयत इति वाक्यं गृह्यत इत्युरीकरणात् ॥ ३६ ॥

सत्यधर्मीया

चतुःषष्ट्या । वैशिष्ट्यं तृतीयार्थः । तत्सङ्ख्यापरिच्छेद्यैतावद्भिरहोरात्रैः कालावयवैस्तावतीर्विद्याः कलाः काश्चिदत्रोक्ताः काश्चिच्च वेदविद्यां नक्षत्रविद्यां सर्पविद्यामित्यादि-नोक्ताश्चेति तावतीः । गीतादिविद्यानां ज्ञानमित्यन्तशैवतन्त्रगीताः कला इत्यपरे । संयातौ प्राप्तौ । आचार्यं गुरुदक्षिणया छन्दयामासतुः । वरय गुरो का च दक्षिणाऽपेक्षिता तामिति प्रार्थयामासतुः । अन्यथा न फलनं विद्यानामिति भावः ॥ ३६ ॥

सुमनोरञ्जिनी

सकृन्निगदमात्रेण एकवारमुच्चारणमात्रेणैव । चतुःषष्ट्या तावत्संख्यायुक्तैर् अहोरात्रैः । तावतीस् तावत्सङ्ख्या कला विद्याश् चतुःषष्टिविद्या इत्यर्थः । संयातौ सम्यक् प्राप्तौ । कृतविद्यौ शिक्षितविद्यौ । गुरुदक्षिणया तन्निमित्तं छन्दयामासतुः प्रार्थयामासतुः ॥ ३६ ॥

द्विजस्तयोस्तं महिमानमद्भुतं संलक्ष्य राजन्नतिमानुषीं मतिम् ।

सम्मन्त्र्य पत्न््नया स महार्णवे मृतं बालं प्रभासे वरयाम्बभूव ह ॥ ३७ ॥

पदरत्नावली

प्रभासे क्षेत्रे महार्णवे मृतं बालं स्वसुतं वरयाम्बभूव ॥ ३७ ॥

सत्यधर्मीया

तयो रामकृष्णयोरद्भुतं तं महिमानं तथाऽतिमानुषीं मानुषीमतिक्रान्तां मतिं च संलक्ष्य द्विजः पत्न्या सम्मन्त्र्यालोच्य महार्णवे तत्रापि प्रभासक्षेत्रे मृतं बालं स्वपुत्रं वरयाम्ब-भूवावृणोत् ॥ ३७ ॥

सुमनोरञ्जिनी

अतिमानुषीं मानुषीमतिक्रान्तां विलक्षणामित्यर्थः । मतिं संलक्ष्य । महार्णवे प्रभासे प्रभासक्षेत्रे । बालं स्वपुत्रम् । वरयांबभूव याचितवान् ॥ ३७ ॥

तथेत्यथारुह्य महारथौ रथं प्रभासमासाद्य दुरन्तविक्रमौ ।

वेलामुपव्रज्य निषीदतुः क्षणं सिन्धुर्विदित्वाऽर्हणमाहरत् तयोः ॥ ३८ ॥

पदरत्नावली

वेलां तीरम् ॥ ३८ ॥

सत्यधर्मीया

तथैव भवत्वित्युक्त्वा महारथौ रथमारुह्य प्रभासमासाद्य वेलां तीरमुपव्रज्य च क्षणं निषीदतुः । सिन्धुर्विदित्वा तयोरर्हणमहरत् । रामवदिमावपि मां शुष्कीकर्तुं क्षमाविति भीतः स स एवायात इति क्षणोक्त्या ध्वनयति ॥ ३८ ॥

सुमनोरञ्जिनी

वेलां समुद्रस्य तीरम् । उपव्रज्य आगत्य । क्षणं निषीदतुर् उपविशतुः । अर्हणं पूजाम् आहरत् कृतवानिति यावत् ॥ ३८ ॥

तमाह भगवानाशु गुरुपुत्रः प्रदीयताम् ।

योऽसाविह त्वया ग्रस्तो बालको महतोर्मिणा ॥ ३९ ॥

पदरत्नावली

योऽसौ गुरुपुत्रस् त्वया महतोर्मिणा ग्रस्तः सः प्रदीयतामित्यन्वयः ॥३९॥

सत्यधर्मीया

तं वरुणं महतोर्मिणा तरङ्गेण । तरङ्ग ऊर्मिर्वा स्त्रियामित्यमरः । तदीयेन कृतमपि तेन कृतं भवतीति विदितपञ्चजनाह्वयव्यापारोऽपि तन्मुखेन वादयितुं त्वयेत्युक्तवानिति ज्ञेयम् ॥ ३९ ॥

सुमनोरञ्जिनी

यो बालकः महता ऊर्मिणा त्वया ग्रस्तो ऽसौ गुरुपुत्रः प्रदीयतामिति सम्बन्धः ॥ ३९ ॥

तमाह वरुणो देवो विनयावनतः स्थितः ।

नैवाहार्षमहं देव दैत्यः २पञ्चजनोऽहरत् ॥ ४० ॥

सत्यधर्मीया

विनयावनतो देवो वरुणो हे देवेति सम्बोधनेन तद्धनन एक एव समर्थ इति ध्वनयति । अहं नाहार्षम् । कस्तर्ह्यपाहार्षीत्तं वदेत्यतो वदति । पञ्चजनाह्वयो दैत्योऽहार्षीदिति

॥ ४० ॥

सुमनोरञ्जिनी

हे देव अहं नाहार्षं नापहार्षं किं तु पञ्चजनाह्वयः दैत्यो ऽपाहार्षीत्

॥ ४० ॥

अन्तर्जलचरः कृष्ण शङ्खरूपधरोऽसुरः ।

आस्ते तेनाहृतो नूनं तच्छ्रुत्वा सत्वरं प्रभुः ।

जलमाविश्य तं हत्वा २गृह्यतामित्युवाच सः ॥ ४१ ॥

पदरत्नावली

शङ्खमत्स्यरूपधरः ॥ ४१ ॥

सत्यधर्मीया

अन्तर्जलं चरतीति स तथा । तदाकारमीरयति । शङ्खरूपस्य, धरतीति धर इति । जलमाविश्य तं दितिसुतं हत्वा गृह्यतां त्वया सुतः सान्दीपनेरिति स उवाच ॥ ४१ ॥

सुमनोरञ्जिनी

तच्चिह्नमाह ॥ शङ्खयुक्तं रूपं शरीरम् । तस्य धरः शङ्खचिह्नित इत्यर्थः । स्वयन्तु मत्स्याकृतिर्गृह्यतां गुरुपुत्रः ॥ ४१ ॥

ततस्तौ जलमाविश्य हत्वाऽन्तर्जलवासिनम् ।

विदार्य जठरं तस्य नापश्यदुदरेऽर्भकम् ॥

तदङ्गप्रभवं शङ्खमादाय रथमागमत् ॥ ४२ ॥

दुर्घटभावदीपिका

तावित्यस्य स कृष्ण इत्यर्थः । एतेनापश्यदित्येकवचनात्स इति वक्तव्यम् । तावित्यनुपपन्नमिति शङ्का परास्ता । सुपां सुपो भवन्तीति वचनात् स इति प्रथमैकवचनस्य ताविति प्रथमाद्विवचनादेश इत्यभ्युपगमात् ॥ ४२ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे त्रिचत्वारिंशोऽध्यायः ॥

सत्यधर्मीया

जठरं विदार्य तत्र दीर्णे उदरे नापश्यन्न ददर्श । तदङ्गात्प्रभवतीति स तथा तं शङ्खम् ॥ ४२ ॥

सुमनोरञ्जिनी

अन्तर्जलवासिनं जलान्तर्वासिनम् । तस्य पञ्चजनस्य अङ्गप्रभवं शरीरोद्भवम्

॥ ४२ ॥

ततः संयमनीं नाम यमस्य दयितां पुरीम् ।

गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः ॥ ४३ ॥

सत्यधर्मीया

संयमिनीं नाम तन्नाम्नीम् । सहलायुध इति गमनमात्रे सहितता ॥ ४३ ॥

सुमनोरञ्जिनी

संयमिनीं तत्संज्ञाम् ॥ ४३ ॥

शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यमः ।

तयोः सपर्यां महतीं चक्रे भक्त्युपबृंहितः ॥ ४४ ॥

सत्यधर्मीया

आकर्ण्यागत्य चेति शेषः ॥ ४४ ॥

सुमनोरञ्जिनी

शङ्खस्य निर्ह्रादम् आध्वानम् । सपर्यां पूजाम् । भक्त्या उपबृंहितः पूर्णः

॥ ४४ ॥

उवाचावनतः कृष्णं १सर्वभूताशयाश्रयम् ।

लीलामनुष्य हे विष्णो युवयोः करवाम किम् ।

इत्युक्तस्तेन देवेशो देवकीनन्दनोऽब्रवीत् ॥ ४५ ॥

पदरत्नावली

सर्वेषां भूतानामाशयो हृदयमेव आलयो निलयो यस्य स तम् ॥ ४५ ॥

सत्यधर्मीया

सर्वभूतानामाशयोऽन्तःकरणं हृदयमिति यावत् स एवाश्रयो यस्य तम् । हे लीलामनुष्य नीलचैल हे विष्णो कृष्ण युवयोः किं करवाम इति यम उवाच ॥ ४५ ॥

सुमनोरञ्जिनी

सर्वभूतानामाशयो हृदयस्थानमालयो यस्य स तथा तम् । लीलार्थं मनुष्यवद्वर्तमान तेन यमेन ॥ ४५ ॥

श्री भगवानुवाच—

गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम् ।

आनयस्व महाराज मच्छासनपुरस्कृतः ॥ ४६ ॥

पदरत्नावली

निजं कर्मैव नितरां बन्धनं यस्य तम् ॥ ४६ ॥

सत्यधर्मीया

गुरुपुत्रमानीतं, स्वामिन्नानयो मया कृतस्तत्कृतं कर्म तथाऽवर्ततेति स आनीत इति सत्यं तथाऽपि मच्छासनं पुरस्कृतं येन स सन्निजकर्मबन्धनम् । एवं त्वत्तो मयाऽऽनीय पित्रे देयत्वे च निजकर्मनिबन्धनम् । आनयस्व ॥ ४६ ॥

सुमनोरञ्जिनी

निजं स्वीयं कर्मैव निबन्धनं निमित्तमिहानयने यस्य तम् । मच्छासनं पुरस्कृतं येन सः । मदाज्ञां पुरस्कृत्येति यावत् ॥ ४६ ॥

तथेति तेनोपनीतं गुरुपुत्रं यदूत्तमौ ।

दत्वा स्वगुरवे भूयो वृणीष्वेति तमूचतुः ॥ ४७ ॥

सत्यधर्मीया

तेन यमेन सादृश्यसम्भाषणस्मृत्यादिकं सर्वं श्रीकृष्णकृपातो नचिकेतोवदिति ज्ञेयम् ॥ ४७ ॥

सुमनोरञ्जिनी

तथेत्युक्त्वा । तेन यमेन उपनीतमानीतं गुरुपुत्रं दत्वा । भूयः पुनरपि । वृणीष्वेति वरयेति ॥ ४७ ॥

ततः प्रीतमना राजन्निदं वचनमब्रवीत् ।

सान्दीपिनिर् महाभागो रामकृष्णावरिन्दमौ ॥ ४८ ॥

सत्यधर्मीया

प्रीतमनास्सन्तुष्टमनाः ॥ ४८ ॥

सुमनोरञ्जिनी

अरिन्दमौ शत्रुसंहारकौ ॥ ४८ ॥

सम्यक् सम्पादितौ २वत्स भवद्भ्यां गुरुनिष्क्रिया ।

को नु युष्मद्विधगुरोः कामानामवशिष्यते ।

गच्छतं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी ॥ ४९ ॥

पदरत्नावली

गुरुनिष्क्रिया गुरुकृतप्रतिक्रिया । युष्मद्विधानां गुरोः कामानां काम्यानां विषयाणां मध्ये को नु कामोऽवशिष्यते । सर्वोऽपि कामः सिद्धो भवतीत्यर्थः ॥ ४९ ॥

सत्यधर्मीया

मुखतो मुख्योऽयमिति वत्सेति सम्बोधितवान् । यद्वा वत्सौ च तौ भवन्तौ चेति ताभ्याम् । गुरुनिष्क्रिया गुरुकृतप्रतिक्रिया सम्यक् सम्पादिता । वत्साविति पाठो निर्वत्स-नाभिः । युष्मद्विधानां गुरोः कामानां काम्यानां विषयाणां मध्ये कः कामोऽवशिष्यते सर्वः सम्पूर्ण एव । स्वगृहं गच्छतं वां पावनी कीर्तिः पावनी लोकपावनी अस्तु ॥ ४९ ॥

सुमनोरञ्जिनी

गुरुनिष्क्रिया गुरोर्निष्क्रिया प्रत्युपकृतिः । सम्यक् संपादिता कृता । युष्मद्विधानां यो गुरुस् तस्य कामानां मध्ये को नु कामो ऽवशिष्यते अपूर्णो भवति न कोऽपि । सर्वकामपूर्तिर्भवतीति भावः ॥ ४९ ॥

गुरुणैवमनुज्ञातौ रथेनानिलरंहसा ।

आयातौ स्वपुरं तात पर्जन्यनिनदेन वै ॥ ५० ॥

पदरत्नावली

पर्जन्यो मेघस्तद्वन्निनदो यस्य तेन रथेन ॥ ५० ॥

सत्यधर्मीया

एवं साशीर्वचनम् ॥ ५० ॥

सुमनोरञ्जिनी

अनिलरंहसा वायुवेगेन । पर्जन्यस्य मेघस्य निनदवन् निनदो घोषो यस्य तेन रथेन । तातेति परीक्षित्सम्बोधनम् ॥ ५० ॥

समनन्दन् प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ ।

अपश्यन्त्यो बह्वहानि नष्टलब्धधना इव ॥ ५१ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे त्रिचत्वारिंशोऽध्यायः ॥

पदरत्नावली

तौ अपश्यन्त्यः ॥ ५१ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे त्रिचत्वारिंशोऽध्यायः ॥

सत्यधर्मीया

बह्वहानि बहुदिनान्यपश्यन्त्यः प्रजा नष्टलब्धधना इव समनन्दंस्तुतुषुः ॥५१॥

॥ इति श्रीमद्भागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे त्रिचत्वारिंशोऽध्यायः ॥

सुमनोरञ्जिनी

बहून्यहानि । अपश्यन्त्यः सर्वाः प्रजा रामजनार्दनौ दृष्ट्वा । पूर्वं नष्टम् अथ च लब्धं धनं यासां ताः । समनन्दन् आननन्दुः ॥ ५१ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां त्रिचत्वारिंशोऽध्यायः ॥