१७ द्विचत्वारिंशोऽध्यायः

एवं चिन्तितसङ्कल्पो भगवान् मधुसूदनः

॥ अथ द्विचत्वारिंशोऽध्यायः ॥

श्रीशुक उवाच—

एवं चिन्तितसङ्कल्पो भगवान् मधुसूदनः ।

आससाद ह चाणूरं मुष्टिकं रोहिणीसुतः ॥ १ ॥

पदरत्नावली

एवं चाणूरोक्तप्रकारेण चिन्तितः सङ्कल्पो मनोरथो येन स तथा । इति युद्धप्रारम्भे प्रसिद्धौ ह’ इत्यभिधानम् ॥ १ ॥

सत्यधर्मीया

चिन्तितस्य स्वमनआलोचितस्य सङ्कल्पः सङ्क्लृप्तिः सिद्धिरिति यावद् यस्य स चिन्तितं चाणूरमरणं कल्पयति समर्थयतीति स तथा वा । हेत्यवधारणे ॥ १ ॥

सुमनोरञ्जिनी

चाणूरकंसवधादिलक्षणमाहात्म्यं निरूपयत्यस्मिन्नध्याये । एवं प्रकारेण चिन्तितः विचारपूर्वकं निश्चितः सङ्कल्पः कंसादिमनोरथो येन सः । कंसादिमनोरथं ज्ञात्वेति यावत् । आससाद प्राप्तवान् ॥ १ ॥

आस्फोट्य हस्तौ हस्ताभ्यामूरू चैव परस्परम् ।

विसृज्य भूयः सङ्गम्य परिक्रम्य परस्परम् ॥

हस्ताभ्यां हस्तयोर्बद्ध्वा पद्भ्यामेव च पादयोः ।

विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया ॥ २ ॥

सत्यधर्मीया

हस्तौ हस्ताभ्यामास्फोट्योरू ऊरूभ्यां चास्फोट्य पुनः पुनर्हस्तादि द्वयान्वयि । विसृज्य त्यक्त्वा भूयः सङ्गम्य परस्परं परिक्रम्य हस्ताभ्यां हस्तयोर्बद्ध्वा पद्भ्यां पादयोर्बद्ध्वा प्रसह्य बलाद्विजिगीषया जेतुमिच्छयाऽन्योन्यं विचकर्षतुः ॥ २ ॥

सुमनोरञ्जिनी

मल्लयुद्धप्रकारमाह । आस्फोट्येति ॥ हस्तौ स्वबाहू । हस्ताभ्यां करतलाभ्याम् । आस्फोट्य ऊरू च आस्फोट्य । सङ्गम्य परस्परं सङ्गतौ भूत्वा । पुनः विसृज्य, परस्परमन्योन्यं परिक्रम्य प्रदक्षिणाकारं चरित्वा । प्रत्ययुध्यतामित्युत्तरेणान्वयः । बध्वा वेष्टयित्वा । प्रसह्य बलात् । अरत्नी मुष्टी । विक्षेपः दूरतः क्षेपणम् । परिरम्भः बाहुभ्यां पीडनम् । अवपातनं भूमौ पातनं तैः । उपसर्पणं परस्परसमीपगमनम् । अपसर्पणं पुनः पश्चाद्गमनम् । एतैश्च चेष्टितैः प्रत्ययुध्यताम् ॥ २४ ॥

अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी ।

शिरः शीर्ष्णोरसोरस्तावन्योन्यमभिजघ्नतुः ॥ ३ ॥

पदरत्नावली

अरत्नी कफोणी ॥ ३ ॥

सत्यधर्मीया

अरत्नी । अरत्निः कफणौ हस्ते स प्रकोष्टतताङ्गुलाविति विश्वः । विहाय कनिष्ठाङ्गुलिं कृतमुष्टिः करोऽरत्निरित्यर्थः । जानुभ्यां जानुनी च शीर्ष्णा च शिर उरसोरश्चाभ्योन्य-मभिजघ्नतुः ॥ ३ ॥

परिभ्रामणविक्षेपपरिरम्भावपातनैः ।

उत्सर्पणापसर्पैश्चाप्यन्योन्यं १प्रत्ययुध्यतम् ॥ ४ ॥

पदरत्नावली

परिभ्रामणं करादिषु गृहीत्वा परितश्चालनम् । विक्षेपो दूरतः प्रक्षेपः । परिरम्भो बाहुभ्यां निष्पीडनम् । अवपातनमधःपातः । उत्सर्पणमूर्ध्वं प्रक्षेपः । अपसर्पणं पश्चाद्गमनम्

॥ ४ ॥

सत्यधर्मीया

परिभ्रामणं चक्रवत्, विक्षेपो दूरत उत्प्लवनं, परिरम्भ आश्लेषोऽवपातनमधः पातनमुत्सर्पणं पुरतोऽतर्कितः पातोऽपसर्पैस्तथैव पश्चाद्गमनैर्मल्लयुद्धरीतिरियम् ॥ ४ ॥

उत्थापनैरुन्नमनैश्चालनैः स्थापनैरपि ।

परस्परं जिगीषन्तावन्योन्यमभिचक्रतुः ॥ ५ ॥

पदरत्नावली

उत्थापनं चरणौ जानुनी च पिण्डीकृत्य पतितस्योच्चाटनम् । उन्नयनं कराभ्या-मुद्धृत्य नयनम् । चालनं कन्धरादिलग्नस्य निस्सारणम् । स्थापनं पाण्यादेः पिण्डीकरणम् । अभि-चक्रतुर् मुख्यनियुद्धं कृतवन्तौ । ‘मल्लयुद्धं नियुद्धज्ञा विंशद्भेदं प्रचक्षते । द्वात्रिंशद्भेदमपरे चत्वारिंशद्विधं तथा’ इति सङ्ग्रामविजयवचनाद् तद्भेदोऽध्यवसेयः । रामकृष्णौ स्वकीयसर्वनियुद्धविधिप्रावीण्य-प्रदर्शनार्थमेवं लीलयैवायुध्यतामिति’ तैस्तैर्नियुद्धविधिभिर्विविधैरच्युतेतरौ । युयुधाते’ इत्यग्रे सूच्यते

॥ ५ ॥

सत्यधर्मीया

उत्थापनैरुन्नमनैरुत्तानीकरणैश्चालनैः पुनः स्थापनैः परस्परं जिगीषन्ता-वभिचक्रतुः ।

मल्लयुद्धं नियुद्धज्ञा विंशद्भेदं प्रचक्षते ।

द्वात्रिंशद्भेदमपरे चत्वारिंशद्विधं तथा ॥

इति सङ्ग्रामविजयवचनात्तद्भेदोऽध्यवसेयः ॥ ५ ॥

सुमनोरञ्जिनी

उत्थापनम् अधोमुखं पतितस्य पुनरुत्तानीकरणम् । उन्नमनं हस्तपादौ गृहीत्वा शिरःपर्यन्तमुद्धरणम् । चालनं कण्ठादिलग्नस्य निःसारणम् । स्थापनम् उन्नीतस्य भूमौ प्रक्षेपः । एतैर् अभिचक्रतुर् नियुद्धं कृतवन्तौ । अपचक्रतुरित्यपि पठन्ति अपकारं चक्रुतुरित्यन्वयः

॥ ५ ॥

तद् बालबलवद्युद्धं समेताः सर्वयोषितः ।

ऊचुः परस्परं प्रेक्ष्य सानुकम्पा वरूथशः ॥ ६ ॥

पदरत्नावली

बालबलवतोः कृष्णचाणूरयोर् युद्धं तत् प्रेक्ष्य । वरूथशः सङ्घशः ॥ ६ ॥

सत्यधर्मीया

बालस्य कृष्णस्य बलवतश्चाणूरस्येत्येतयोर्युद्धं समेता उत्सवावलोकनमिलिता योषितः सानुकम्पाः सघृणा वरूथशः सङ्घशः परस्परमूचुः ॥ ६ ॥

सुमनोरञ्जिनी

बालयोः कृष्णरामयोः । बलवद्भ्यां तरुणाभ्यां चाणूरमुष्टिकाभ्यां युद्धं प्रेक्ष्य । वरूथशः सङ्घशः समेता मिलिताः ॥ ६ ॥

महानयं बताधर्म एषां राजसभासदाम् ।

ये बालबलवद्युद्धं राज्ञोऽन्विच्छन्ति पश्यतः ॥ ७ ॥

पदरत्नावली

राज्ञः पश्यतः सतः ये राजसभासदः स्वयमपि बालस्य बलवता सह युद्धमन्विच्छन्ति अनुमन्यन्ते इति राज्ञः राजसभासदां च महानयमधर्मः ॥ ७ ॥

सत्यधर्मीया

राज्ञः पश्यतः सतः । अनेन स त्वधर्मिष्ठ इत्यारेभ इति ध्वनयति । ये बालबलवद्युद्धमन्विच्छन्ति एषां तेषां राजसभासदामयं महानधर्मो बत खेदे ॥ ७ ॥

सुमनोरञ्जिनी

किमित्यूचुरिति तत्राह ॥ महानिति ॥ राजसभासदां राज्ञः सभानायकानां, राजा च सभासदश्च तेषामिति वा । अयं महानधर्मः । बत खेदे । कोऽयमधर्मः? ये सभासदः राज्ञः पश्यतः सतः ये बालयोर् बलवद्भ्यां युद्धमन्विच्छन्ति अनुमन्यन्ते । स एवेति ॥ ७ ॥

क्व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ ।

क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ ॥ ८ ॥

पदरत्नावली

वज्रवत् साराणि कठिनानि सर्वाण्यङ्गानि ययोस्तौ तथा । किशोरौ किशोरा-वस्थासम्पन्नौ नाप्तयौवनौ अनारब्धयौवनौ । किशोरावस्थायौवनावस्थासन्धिकालेऽपि किशोराविति वक्तंु शक्यत्वाद् यौवनावस्थाया आरम्भोऽपि नास्तीत्याशयेन नाप्तयौवनावित्युक्तम् ॥ ८ ॥

दुर्घटभावदीपिका

किशोरौ नाप्तयौवनावित्यस्य किशोरौ किशोरावस्थासंपन्नौ नाप्तयौवनौ अनारब्धयौवनावित्यर्थः । एतेन किशोरावित्यनेनैव नाप्तयौवनावित्यर्थस्य लाभात् । नाप्तयौवना-वित्येतद्व्यर्थमिति दूषणं परिहृतम् । किशोरावस्थायौवनावस्थासन्धिकालेऽपि किशोराविति वक्तुं शक्यत्वात् । यौवनावस्थाया आरम्भोऽपि नास्तीति वक्तुं नाप्तयौवनावित्युक्तमित्यभ्युपगमात्

॥ ८ ॥

सत्यधर्मीया

अबलास्तद्बलवत्तामिवैतदबलवत्तां च विशदयन्ति ॥ क्वेति ॥ वज्रवत्साराणि स्थिरांशोपेतानि सर्वाण्यङ्गानि ययोस्तौ । शैलेन्द्रसन्निभौ मल्लौ क्व । अतिसुकुमाराङ्गौ किशोरौ यथाऽनाप्तयौवनौ । नसमासो वा । नाप्तयौवनाविति पदे वेति ज्ञेयम् ॥ ८ ॥

सुमनोरञ्जिनी

कुतोऽधर्म इत्यत आह ॥ क्वेति ॥ वज्रवत् साराणि कठिनानि सर्वाणि अङ्गानि ययोस्तौ । नाप्तयौवनौ अप्राप्तयौवनौ ॥ ८ ॥

धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् ।

यत्राधर्मः समुत्तिष्ठेन्न स्थेयं तत्र कर्हिचित् ॥ ९ ॥

पदरत्नावली

धर्मव्यतिक्रमोऽधर्मः समाजस्य सभ्यसमूहस्य ध्रुवं भवेत् । यत्राधर्मः समुत्तिष्ठेत् तत्र कर्हिचित् क्षणमपि न स्थेयम् ॥ ९ ॥

दुर्घटभावदीपिका

यत्राधर्मः समुत्तिष्ठेन्न स्थेयं तत्र कर्हिचिदित्यनेन यस्यां सभायामधर्मः समुत्तिष्ठेत् । तत्सभां परित्यज्य गन्तव्यमित्युक्तम् । न सभां प्रविशेत्प्राज्ञः सभ्यदोषाननुस्मर-न्नित्यनेनास्यां सभायामधर्मो भविष्यतीति पूर्वं विचार्य सभाप्रवेश एव न कर्तव्य इत्युक्तम् । अत्र तु पक्षान्तरसमुच्चये । यत्र सभायामधर्मः समुत्तिष्ठेत्तत्सभां प्रविश्यास्यां सभायामधर्मः प्राप्त इति प्राज्ञो ब्रूयात् । पक्षत्रयाकरणे बाधकमाह ॥ अब्रुवन्निति ॥ अज्ञः पूर्वोक्तपक्षत्रयज्ञानरहितः सभां प्रविश्य सभामपरित्यज्याब्रुवन् अस्यां सभायामधर्मः प्राप्त इत्यब्रुवन् विब्रुवन् अस्यां सभायां धर्म एव वर्तत इति विरुद्धं ब्रुवन्नरः किल्मिषमश्नुते । अतः पूर्वोक्तपक्षेष्वेकं पक्षं कुर्यादिति । एतेन सभापरित्यागसभाप्रवेशाभावरूपपक्षद्वयवत्सभायां यथावस्थितं वक्तव्यमिति पक्षोऽपि वक्तव्यः । स नोक्त इति न्यूनतेत्याशङ्का परिहृता । यत्रेत्यादीनामनुवृत्त्या तत्सभामित्यादीनां शेषेण च तृतीय-पक्षस्याप्युक्तत्वात् ॥ ९ ॥

सत्यधर्मीया

समाजस्य सभ्यसमूहस्य ध्रुवं भवेत् । भवतु तेषामधर्मो युष्माकं किमित्यत आहुः ॥ यत्रेति ॥ यत्राधर्मः समुत्तिष्ठेत्तत्र कर्हिचित्केनचिदपि न स्थेयं यत्राधर्मस्तत्र कोऽपि समुन्मुदा सहितो न तिष्ठेदिति वा । इतरदुक्तार्थः ॥ ९ ॥

सुमनोरञ्जिनी

समाजस्य सभ्यसमूहस्य । धर्मव्यतिकरः धर्मोल्लङ्घनं भवेत् । कुतः । यत्र यस्यां सभायाम् । अधर्म उत्तिष्ठेद् अभिवर्धते तत्र न स्थेयम् । एते त्वत्रैव स्थिता अत इति

॥ ९ ॥

न सभां प्रविशेत् प्राज्ञः सभ्यदोषाननुस्मरन् ।

अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते ॥ १० ॥

पदरत्नावली

सभ्यानां दोषाननुस्मरन् प्राज्ञस्तां सभां न प्रविशेत् किमित्यप्रवेश इति तत्राहुर् अब्रुवन्निति । अब्रुवन् ज्ञात्वाऽपि तूष्णी तिष्ठन्, विब्रुवन् विपरीतं ब्रुवन्, तस्मादज्ञ इव नरः किल्बिषं पापमश्नुते । ‘सभायां न प्रवेष्टव्यं न वदेद् वाऽसमञ्जसम् । अब्रुवन् विब्रुवन् वाऽपि नरो भवति किल्बिषी’ इति मनुस्मृतिः ॥ १० ॥

सत्यधर्मीया

अर्थतो मन्वादिसम्मतिमेतदर्थे दर्शयति ॥ नेति । सभ्यदोषाननुस्मरन्प्राज्ञस्तां सभां न प्रविशेत् । अब्रुवन्किमप्यवदन्विब्रुवन्विरीतं ब्रुवन् । अतोऽज्ञवन्नरः । किल्बिषं पापमश्नुते प्राप्नोति ॥ १० ॥

सुमनोरञ्जिनी

अत एव यः प्राज्ञः प्रेक्षावान् स सभ्यानां दोषाननुस्मरन् सभां न प्रविशेत् । कुत इत्यतो विपक्षे बाधकमाह ॥ अब्रुवन्निति । नरो ऽज्ञः सभ्यदोषस्मरणहीनः सन् सभां प्रविशेच्चेत् तदा अब्रुवन् ज्ञात्वापि धर्माधर्ममकथयन् । विब्रुवन् विपरीतं ब्रुवन् । किल्बिषं पापम् । अश्नुते प्राप्नोति ॥ १० ॥

वल्गतः शत्रुमभितः कृष्णस्य वदनाम्बुजम् ।

वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभिः ॥ ११ ॥

पदरत्नावली

वल्गतो भ्रमतः । श्रमवारिभिरुप्तं व्याप्तं कृष्णस्य वदनाम्बुजम् । पद्मकोशं कमलमुकुलम् ॥ ११ ॥

सत्यधर्मीया

शत्रुम्, अत्र विरोधमात्रवाची शत्रुशब्दः । अभितः परितः । अभितः परित इति तद्योगे द्वितीया । वल्गतो भ्रमतः कृष्णस्य । श्रमवारिभिः श्रमजनितस्वेदोदबिन्दुभिः, पद्मकोशं कमलकोरकमम्बुभिरुदकैरिवोप्तं व्याप्तं वीक्ष्यतां सख्यो भवद्भिः ॥ ११ ॥

सुमनोरञ्जिनी

शत्रुमभितः शत्रुं परितः । वल्गतः सञ्चरतः । श्रमवारिभिः स्वेदबिन्दुभिर् उप्तं युक्तम् । वीक्ष्यताम् अवलोक्यताम् । पद्मकोशं कमलकुड्मलम् ॥ ११ ॥

किं न पश्यत रामस्य मुखमाताम्रलोचनम् ।

मुष्टिकं प्रति सामर्षहाससंरम्भशोभनम् ॥ १२ ॥

पदरत्नावली

आ ईषत् ताम्रे लोचने यस्मिन् तत् तथा । सामर्षं सक्रोधं हासेन यः संरम्भ आवेशस्तेन शोभनं मनोरमम् ॥ १२ ॥

सत्यधर्मीया

आताम्रे समुद्रिक्तरक्तवर्णे लोचने यस्य तत् । अमर्षेण सहितो यो हाससंरम्भः कोपाटोपस्तेन च शोभनं मनोहरं रामस्य मुखं सख्यः किं न पश्यतेत्यन्वयः ॥१२॥

सुमनोरञ्जिनी

रामस्य मुखं न पश्यत किं ? कीदृशम् । आताम्रे ईषत्ताम्रे लोचने यस्मिन् तत् । मुष्टिकं प्रति तदुद्देशेन । सामर्षो ऽमर्षेण रोषेण सहितः यो हासस् तेन संरंभेण च शोभनं चारुतरम् ॥ १२ ॥

पुण्या बत व्रजभुवो यदयं नृलिङ्गगूढः पुराणपुरुषो वनचित्रमाल्यः ।

गाश्चारयन् सहबलः क्वणयंश्च वेणुं विक्रीडयाऽञ्चति गिरावमरार्चिताङ्घ्रिः

॥ १३ ॥

पदरत्नावली

नृणां लिङ्गैर्लक्षणैर्गूढश् छन्नोऽयं कृष्णनामा पुराणपुरुषो यद् यासु व्रजभूमिषु विक्रीडया विविधक्रीडया अञ्चति अटति, गाश्चारयन् गिरौ चाञ्चति ता व्रजभुवः पुण्या धन्याः । बत आश्चर्यम् । वनस्थानि चित्राणि माल्यानि यस्य स तथा । अमरैर्विधिभवादिभिरर्चितावङ्घ्री यस्य स तथा ॥ १३ ॥

सत्यधर्मीया

वनितास्ता एवमलवं लवल्लव्योऽनयन्निति धन्या इति श्रुततत्कथाऽनुवदन्त्य आदौ मेदिन्यादिमहिमामाहुः ॥ पुण्या इति ॥ व्रजभुवो गोकुलभूमयो धन्या गतम् । तत्र निमित्त-माहुः ॥ यदिति ॥ नृलिङ्गगूढो नृणां लिङ्गानि लक्षणानि तैर्गूढश्छन्नोऽप्रकाशितलक्षणोऽयं साक्षान्नारायणात्मा वनचित्रमाल्यः सहबलो वेणुं क्वणयंश्च यासु भूषु विक्रीड्य स्वलीलयाऽञ्चति गच्छति तथा गिरौ पर्वते चेति त एते धन्याः । किं तन्महत्त्वमित्यत आहुः ॥ अमरैर्देवैरर्चितावङ्घ्री यस्य सोऽपीति । बताश्चर्यम् । अयं तच्छुभदैवं निमित्तीकृत्यैवाञ्चतीति वा । वनचित्रमाल्य इत्यत्र चित्रं वनमाल्यं यस्येति योग्यतयाऽन्वयः । गाश्चारयन्निति जातिस्वभावोक्तिः । वेदवाणीश्चारयंस्त्वविषये प्रवर्तयन्नपीत्वन्तरार्थः । भुवः पुण्याः । किमधिकोक्त्या त्वं व्रजेत्येकामुद्दिश्य वदन्तीति वा

॥ १३ ॥

सुमनोरञ्जिनी

व्रजभुवः व्रजभूमयः पुण्या पावना धन्या वा । कुतः । यद् यस्मात् । यद् यत्र व्रजभूमिषु गिरौ गोवर्धने । पुराणपुरुषोऽप्ययं कृष्णः नृणां मनुष्याणां लिङ्गेन देहेन गूढश् च्छन्नः सन् । वनस्थानि चित्राणि नानाविधानि माल्यानि पुष्पाणि यस्य सः सह बलः गाश्चारयन् वेणुं च क्वणयन् वादयन् विक्रीडया लीलया । अञ्चति सञ्चरति । अतस्ता एव पुण्या इति । अमरैर् देवैर् अर्चिताङ्घ्रिर् गिरित्ररमार्चिताङ्घ्रिरिति पाठे गिरित्रः शिवः रमा च ताभ्यामर्चिताङ्घ्रि-रित्यर्थः ॥ १३ ॥

गोप्यस्तपः किमचरन् यदमुष्य रूपं लावण्यसारमथनोत्थमनन्यसिद्धम् ।

दृग्भिः पिबन्त्यनुसवाभिनवं दुरापमेकान्तधाम यशसः श्रिय ईश्वरस्य

॥ १४ ॥

पदरत्नावली

गोप्यो यद् यतो लावण्यसारमथनोत्थं सौन्दर्यसारमथनेनाविर्भूतमिव प्रतीय-मानमनन्यसिद्धं स्वाभाविकं यशसः श्रियश्चैकान्तधाम मुख्याश्रयमनुसवाभिनवं प्रतिक्षणं नूतनं दुरापं सच्छास्त्रज्ञानमन्तरेण दुष्प्रापममुष्येश्वरस्य रूपं दृग्भिः पिबन्ति ततः किं तप अचरन् चक्रुः

॥ १४ ॥

दुर्घटभावदीपिका

लावण्यसारमथनोत्थमनन्यसिद्धमित्यस्य लावण्येन साराः श्रेष्ठा ये पदार्थास्तेषां मथनेनोत्पन्नमिति प्रतीयमानं वस्तुतोऽनन्यसिद्धमित्यर्थः । एतेन लावण्यसारमथनोत्थ-मनन्यसिद्धमित्येतद्व्याहतमिति दूषणं निराकृतम् । इति प्रतीयमानमित्यस्य शेषमङ्गीकृत्य लावण्य-सारमथनोत्थितमिति प्रतीयमानमित्युच्यत इत्यङ्गीकारात् ॥ १४ ॥

सत्यधर्मीया

गोप्योऽऽभीरनार्यो यद्यतो लावण्यसारमथनोत्थं सौन्दर्यरसमथनेनोत्थमाविर्भूतम् । तर्हि केन कृतमित्यतः स्वापराधोपरोधं तन्वङ्ग्यस्तन्वन्ति ॥ अनन्यसिद्धमिति ॥ सहजम् । अनेन सञ्चीय सौन्दर्यरसान् समग्रानमुं विधाता व्यधितेति मिथ्या । हे सख्यः सोत्प्रेक्षा न प्रेक्षा-पूर्वोक्तिरिति दघ्वनुः । यशसः श्रियश्चैकान्तधाम मुख्याश्रयमीश्वरस्य रूपमनुसवाभिनवं तद्गतश्रीविवक्षया मुख्यम् । नवनवसु विशेषोपलम्भेत्यादेः । अमुख्यं चैतद्विवक्षयेति ज्ञेयम् । दृग्भिः पिबन्ति । ततः किमेतत्सम्पत्प्रापकं तपः पूर्वमाचरंश्चक्रुः ॥ १४ ॥

सुमनोरञ्जिनी

गोप्योऽपि धन्या इत्याहुः ॥ गोप्य इति ॥ गोप्यः किं तप आचरन् स्म । कुतः । यद् यस्माद् ईश्वरस्य सर्वस्वामिनो ऽमुष्य कृष्णस्य लावण्यसारस्य लवणसमुद्रस्य मथनेनोत्थमाविर्भूतमिव स्थितम् । अत्युत्कृष्टलावण्योपेतमित्यर्थः । लावण्यसारमसमोर्ध्वमित्यपि पठन्ति । लावण्येन सारम् । असमोर्ध्वं न विद्यते सममूर्ध्वमधिकं च यस्मात्तद् इत्यर्थः । अनन्यसिद्धम्, अन्येन भूषणादिना सिद्धं प्रतीयमानं न भवतीति तथा । अन्येषामविद्यमानमिति वा । अन्यस्मात्प्रकृत्यादेर्जातं न भवतीत्यप्राकृतमित्यर्थः । अनन्याया रमादेव्या एव सिद्धं प्रतीतमिति वा । पुनः कीदृशम् । अनुसवं प्रतिक्षणम् । अभिनवं नूतनम् । अनुग्रहमन्तरेण दुरवापं श्रियो यशस ऐश्वरस्येति पाठे ऐश्वर्यस्य च । एकान्तधाम नियतस्थानम् । एतादृशं रूपं सौन्दर्यमाकृतिं वा । दृग्भिर् नेत्रांजलिभिः पिबन्ति पिबन्ति स्म । अत इति योजना ॥ १४ ॥

या दोहनेऽवहनने मथनोपजल्पप्रेङ्खेङ्खनार्भरुदितोक्षणमज्जनादौ ।

गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यः पुण्या व्रजस्त्रिय उरुक्रमचित्तयामाः ॥१५॥

पदरत्नावली

या गोप्यो गवां दोहने, अवहनने अलूखले धान्यसंस्कारावसरे, मथनं दधिमन्थनम्, उपजल्पः परस्परसंवादः, प्रेङ्खाया दोलाया इङ्खनमितस्ततश्चालनम्, अर्भरुदितं बालरोदनम्, उक्षणं प्राङ्गणसेचनम्, मज्जनं स्नानमित्यादौ काले एनं कृष्णमनुरक्तधियोऽनुरागयुक्तचित्ता अश्रुकण्ठ्य आनन्दाश्रुनिरुद्धकण्ठ्य उरुक्रमचित्तेन भगवद्विषयकचित्तेनैव यामः कालो यासां तथाभूता गायन्ति ता व्रजस्त्रियः पुण्याः ॥ १५ ॥

सत्यधर्मीया

या दोहने क्षीरक्षारणकालेऽवहनने व्रीह्याद्यकुट्टने मथनं दध्नः । उपलेपेति पाठे गन्धलेपनमुपलेपो गोमयतो गृहलेपनम् । उपजल्पेति जल्पने । उपजल्पः परस्परसंवादः । प्रेङ्खाया डोलाया इङ्खनं तत इतश्चालनं बालानां तथाऽर्भाणामर्भकाणां रुदितं तत्समाधानमुक्षण-मङ्गणजलसेचनं मज्जनं स्नानं चेत्यादिर्यत्सर्वत्र कालो ग्राह्यः । तत्समयेऽनुरक्तधिय आसक्त-मतयोऽश्रुकण्ठ््य आनन्दजलकलिलकण्ट्य उरुक्रमे भगवति चित्तस्य यामो गमनं यासां ता उरुक्रमचित्तेनैव यामः कालो यासां ता इति वा । एनं गायन्तीति व्रजस्त्रियः पुण्यास्तद्वत्यः । आदिशब्देन तत्सर्ववृत्तयो ग्राह्याः । प्रेङ्खा डोला च गमनमिति वचनात् । प्रेङ्खा पर्यटने नृत्ये भवेदश्वगतावपीति विश्वात्प्रेङ्खा नटनमिङ्खनं गतिरिति वा । यादसा जलजन्तुना हने नन्दनयने तत्समये इति वा । उरुर्महान्क्रमः पादविक्षेपो द्रुतगमनमिति यावत् तस्मिंश्चित्तं येषां ते उरुक्रमचित्ता यामा यमसम्बन्धिनो दूता यासां ता उरु ता उरुक्रमचित्तयामा अत एव पुण्याः ॥ १५ ॥

सुमनोरञ्जिनी

या दोहने गवां दोहने क्रियमाणे तत्समय इत्यर्थः । अवहनने व्रीह्यादीनां वितुषीभावार्थ(ख)कण्डने । मथने दधिमथनकाले । उपलेपे गोमयादिना देवमन्दिराद्युपलेपनसमये । प्रेंखोंखने दोलांदोलने । अर्भरुदिते बालरोदनसमये तत्समाधानसमय इति यावत् । उक्षणे अङ्गणसेचन समये मज्जनादौ च । अनुरक्तधियः । अत एवाश्रुकण्ठ्यः गद्गदकण्ठ्यः सत्य एनम् एनमेव गायन्ति । एवम् ऊरुक्रमे श्रीकृष्णे यच्चित्तं तेनैव गतः यामः कालो यासां ता व्रजस्त्रियः पुण्याः पावनाः

॥ १५ ॥

प्रातर्व्रजाद् व्रजत आविशतश्च सायं गोभिः समं क्वणयतोऽस्य निशम्य वेणुम् ।

निर्गत्य तूर्णमबलाः पथि भूरिपुण्याः पश्यन्ति सस्मितमुखं सदयावलोकम् ॥१६॥

पदरत्नावली

या गोप्योऽस्य वेणुं निशम्य गृहात् तूर्णं निर्गत्य पथि सदयावलोकं सस्मितमुखं पश्यन्ति ता भूरिपुण्याः ॥ १६ ॥

सत्यधर्मीया

प्रातर्व्रजाद्व्रजतः सायं गोभिः समं चाद्व्रजतः क्वणयतोऽस्य वेणुं निशम्य चाबलास्तूर्णं सत्त्वरं निर्गत्य पथि मार्गे सस्मितं मुखं दयावलोकसहितं पश्यन्ति यास्ता भूरिपुण्याः । हे सदय स्वामिन् लोकमवेति भावगर्भं पश्यन्ति यास्ता इति वा सत्समीचीनमयावलोकम् । अये शुभावहे देवे सति । अवलोको यस्य तदिति वा ॥ १६ ॥

सुमनोरञ्जिनी

या अबलाः । प्रातःकाले व्रजाद् गोष्ठात् । वनं प्रति । व्रजतः गच्छतः पुनः सायं गोभिः सममाविशतः प्रविशतश्च तदैव वेणुं क्वणयतो ऽस्य श्रीकृष्णस्य । वेणुं वेणुरवं निशम्य । तूर्णं गृहाद्वहिरागत्य पथि मार्गे । सस्मितं सदयावलोकं मुखम् । पश्यन्ति स्म । ता एव भूरिपुण्या इति ॥ १६ ॥

एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः ।

शत्रुं हन्तुं मनश्चक्रे भगवान् भरतर्षभ ॥ १७ ॥

सत्यधर्मीया

एवं स्त्रीषु मधुरावधूषु भाषमाणासु सतीषु योगेश्वरो हरिः शत्रुं चाणूरं हन्तुं मनश्चक्रे । इयत्समयमाचरिता मया लीला तद्बलिष्ठतास्पष्टनार्थमिति द्योतयत्यनेन । चाणूरेण चिरं कालं क्रीडित्वा देवकीसुत इति हरिवंशोक्तेः ॥ १७ ॥

सुमनोरञ्जिनी

योगेश्वरः स्वभावसिद्धैश्वर्यवान् । योगेषु उपायेषु स्वतन्त्र इति वा ॥ १७ ॥

तैस्तैर्नियुद्धविधिभिर्विविधैरच्युतेतरौ ।

युयुधाते तथाऽऽन्योन्यं तथैव बलमुष्टिकौ ॥ १८ ॥

पदरत्नावली

इतरश्चाणूरः ॥ १८ ॥

सत्यधर्मीया

तैस्तैर्नियुद्धविधिभिः । कृतप्रतिकृतैश्चित्रैर्बहुभिश्च सकण्टकैरित्यादिभिर्हरिवंश-शंसितैः । अच्युतश्चेतरश्चाणूरश्च । तैस्तथा मल्लरीत्या युयुधाते तथा बलमुष्टिकावप्यन्योन्यं युयुधाते

॥ १८ ॥

भगवद्गात्रनिष्पातैर्वज्रनिष्पेषनिष्ठुरैः ।

चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवाप ह ॥ १९ ॥

पदरत्नावली

वज्रस्य निष्पेषस्तीव्रप्रहारस्तद्वन्निष्ठुरैः । ग्लानिं हर्षक्षयम् ॥ १९ ॥

सत्यधर्मीया

वज्रनिष्पेषवन्निष्ठुरैस्ततोऽपि क्रूरैर्भगवद्गात्रनिष्पातैर्भज्यमानान्यङ्गान्यवयवानि यस्य स चाणूरो मुहुः पुनः पुनर्ग्लानिं हर्षापकर्षमवाप ॥ १९ ॥

सुमनोरञ्जिनी

ततः किमभूदिति तत्राह ॥ तैरिति । यदा तदेत्युपस्कर्तव्यम् । नियुद्धस्य बाहुयुद्धस्य विधिभिः प्रकारैः । अच्युत इतरश्चाणूरश्चेत्युभौ बलमुष्टिकौ च यथान्यायं यदा युयुधाते तदा वज्रस्य यो निष्पेषः घर्षणं तीव्रपातो वा । तद्वन् निष्ठुरैः क्रूरैरित्यर्थः । भगवतः श्रीकृष्णस्य गात्राणां हस्तादीनां निष्पातैर् भज्यमानाङ्गः ग्लानिं निर्विण्णतामापेति योजना ॥ १८,१९ ॥

स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ ।

भगवन्तं वासुदेवं क्रुद्धो वक्षस्यताडयत् ॥ २० ॥

पदरत्नावली

श्येनस्येव वेगो यस्य स तथा ॥ २० ॥

सत्यधर्मीया

स तादृशोऽपि श्येनवद्वेगो यस्य स उत्पत्योभौ करौ मुष्टीकृत्य भगवन्तं वासुदेवम् । ननु हरिवंशे चाणूरमारणात्पूर्वं

न्यवादयन्त तूर्याणि कंसः सव्येन पाणिना ।

प्रतिषिद्धेषु तूर्येषु मृदङ्गादिषु तेन वै ।

दिवं गतान्यवाद्यन्त देवतूर्याण्यनेकशः ।

युद्ध्यमाने हृषीकेशे पुण्डरीकनिभेक्षणे ।

स्वयमेव प्रवाद्यन्त तूर्यघोषा अनेकशः ।

अन्तर्धानगता देवा विमानैः कामरूपिभिः ।

चेरुर्विद्याधरैस्सार्धं कृष्णस्य जयकाङ्क्षिणः ।

जयस्व कृष्ण चाणूरं दानवं मल्लरूपिणम् ।

इति सप्तर्षयः सर्वे ऊचुश्चैव नभोगताः ।

चाणूरेण चिरं कालं क्रीडित्वा देवकीसुतः ।

बलमाहरयामास कंसस्याभावदर्शिवान् ।

ततश्चचाल वसुधा मञ्चाश्चैव जुघूर्णिरे ।

मुकुटाच्चैव कंसस्य पपात मणिरुत्तमः ।

इत्यादिना तूर्यनिवारणावगतेरत्र तु चाणूरमारणानन्तरं तदुक्तिस्तु कथमिति चेन्न । तेषां तु मल्लीयत्वान्निवारणं तत्रोक्तमत्र स्वेषामिति तदैककठ्यसम्भवात् । यद्वक्ष्यति स्वतूर्याणीति प्रस्थानभेदेन देवतावाद्यवादनं मुन्यभिवादनपूर्वकं याचनं कंसशिरोमुकुटमणिपात इत्यादेरुक्तस्यात्रानुक्तिर्न दोषायैव । तत्रैतदाद्यनुक्तिरपीति । तत्रैतदत्र तदप्यनुसन्धेयमिति न विरोधः ॥ २० ॥

सुमनोरञ्जिनी

सः, श्येनस्य वेग इव वेगो यस्य सः ॥ २० ॥

नाचलत् तत्प्रहारेण १स्रजा हत इव द्विपः ।

बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः ॥ २१ ॥

भूपृष्ठे पोथयामास तरसा क्षीणजीवितम् ।

विस्रस्ताकल्पकेशस्रगिन्द्रध्वज इवापतत् ॥ २२ ॥

पदरत्नावली

विस्रस्ता इतस्ततः प्रक्षिप्ता आकल्पा आभरणानि केशाः स्रजो मालाश्च यस्य स तथा ॥ २२ ॥

सत्यधर्मीया

स्रजा मालया हतो द्विप इव तत्प्रहारेण चाणूरताडनेन नाचलन्न चचाल बाह्वोः स्वबाहुभ्याम् । अथवा तद्बाह्वोर्निगृह्य । न च द्वितीयया भवितव्यमेतत्पक्षेऽत एव शृृङ्गे कर्णे वा गृहीत्वेति तत्त्वनिर्णयटिप्पणे शृृङ्गे कर्णे इति द्वितीयाद्विवचनमित्युक्तिरिति वाच्यम् । सप्तम्या अप्यधिकरणबोधनद्वारा चाणूररूपमुख्यकर्मसमर्पकत्वस्य महाभाष्ये वृध्द्यान्हिके यथोगोज्ञाय कश्चिद्गां सक्थिनि कर्णे वा गृहीत्वोपादिशतीत्युक्तियुक्तत्वात्तदनावश्यकता ध्रौव्याद्युपपद्यते सप्तमी बहुशः । हरिर्भ्रामयंस्तरसा क्षीणजीवितं भूपृष्ठे पोथयामासापोथयत् । विस्रस्ता विगलिता आकल्पाः केशाः स्रजश्च यस्य स इन्द्रध्वज इवापतत् ॥ २१,२२ ॥

सुमनोरञ्जिनी

तस्य चाणूरस्य प्रहारेण ताडनेन । स्रजा मालया हतस्ताडितो द्विप इव गज इव । नाचलन् न चचाल । बाहू निगृह्य दृढं गृहीत्वा ॥ क्षीणजीवितं क्षीणश्वासं गतप्राणमिति यावत् । भूपृष्ठे भूतले । पोथयामास आस्फालयामास । स चाणूरः विस्रस्ता विस्रंसिता विक्षिप्ता इत्यर्थः । आकल्पा अलङ्काराः केशाः स्रजश्च यस्य सः । इन्द्रध्वजः पतितश्चेद्यथा तथा अपतत्

॥ २१,२२ ॥

तथैव मुष्टिकः पूर्वं स्वमुष्ट्याऽभिहतेन वै ।

बलभद्रेण बलिना तलेनाभिहतो भृशम् ॥ २३ ॥

सत्यधर्मीया

पूर्वं स्वमुष्टिना मुष्ट्याऽभिहतेन ताडितेन । गोमणियष्टिपाटलिवस्तिशाल्प-लित्रुटिमसिमरीचय इति लिङ्गानुशासनाद्द्विलिङ्गो मुष्टिशब्दः स्त्रीपुंसयोरित्यधिकृतेः । बलिना बलभद्रेणा-तलेन तलभिन्नेन तलसदृशेन मुष्टिनेत्यर्थः । भृशमभिहतस्तथा च मुष्टिः के यस्य स इति व्युत्पत्त्या तन्नामान्वर्थकतयामास बल इति तात्पर्यं ज्ञेयमिति सूचितं भवति । तद्वद्बलस्य दृढमुष्टि-निपिष्टमूर्धा भ्रष्टस्तदैव निपपात स मुष्टिकोऽपीत्याचार्योक्तेः ॥ २३ ॥

सुमनोरञ्जिनी

तथैव चाणूरवदेव । पूर्वं स्वमुष्ट्या अभिहतेन ताडितेन बलेन बलभद्रेण । स्वयं तलेन करतलेन ताडितः ॥ २३ ॥

प्रवेपितः स रुधिरमुद्वमन् मुखतोऽर्दितः ।

व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः ॥ २४ ॥

पदरत्नावली

प्रवेपितः कम्पितः । विगता असवो यस्मात् सः व्यसुः । उर्व्युपस्थे भूपृष्ठे

॥ २४ ॥

सत्यधर्मीया

प्रवेपितः कम्पमानो मुखतो रुधिरमुद्वमन्नुद्गिरन् । उद्वहन्निति पाठे प्रवाहयन्नित्यर्थः । विगता असवो यस्मात्स सन् उर्व्युपस्थे भूपृष्ठे वाताहतोऽङ्घिपः पादप इव पपात

॥ २४ ॥

सुमनोरञ्जिनी

पूर्वं बलभद्रः स्वयं ताडयित्वा अनन्तरं तेन ताडित इत्यर्थः । प्रवेपित आत्तकम्पः । उर्व्युपस्थे भूपृष्ठे ॥ २४ ॥

ततः कूटमनुप्राप्तं रामः प्रहरतां वरः ।

अवधील्लीलया राजन् सावज्ञं वाममुष्टिना ॥ २५ ॥

पदरत्नावली

सावज्ञं सावहेलनम् ॥ २५ ॥

सत्यधर्मीया

कूटं तन्नामकं मल्लं लीलया मल्ललीलापदेशेन सावज्ञं सतिरस्कारं तमलक्षयित्वेति यावद् रामो वाममुष्टिनाऽवधीज्जघान । सद्बुद्धौ दुर्बुद्धिमेवं कुतः कृतवान्बल इत्यतोऽप्याह कूटं यथा तथा । अनुप्राप्तमिति क्रियाविशेषणमेतत् । कूटस्य मनुना मन्त्रेण प्राप्तमिति वा ॥ २५ ॥

सुमनोरञ्जिनी

कूटं तन्नामकं मल्लम् । सावज्ञं सहेलनम् ॥ २५ ॥

तथैव हि शलः ३कृष्णपदापहतशीर्षकः ।

द्विधा विदीर्णस्तोसलक उभावपि निपेततुः ॥ २६ ॥

पदरत्नावली

कोसलकस्तु द्विधा विदीर्णः ॥ २६ ॥

सत्यधर्मीया

शलस्तन्नामा । तोसलको गतम् ॥ २६ ॥

सुमनोरञ्जिनी

शलस्तन्नामा । कृष्णस्य पदा पादेन अपहृतं मर्दितं शीर्षं यस्य सस् तोसलकोऽपि द्विधा विदारितः । एवमुभावपि पतितौ ॥ २६ ॥

चाणूरे मुष्टिके कूटे शले तोसलके हते ।

शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः ॥ २७ ॥

पदरत्नावली

प्राणपरीप्सवः प्राणरक्षां कर्तुमिच्छवः ॥ २७ ॥

सत्यधर्मीया

प्राणपरीप्सवः ॥ २७ ॥

सुमनोरञ्जिनी

प्राणपरीप्सवः प्राणान् परीप्सन्ति रक्षितुमिच्छन्तीति तथोक्ताः ॥ २७ ॥

गोपान् वयस्यानाकृष्य तैः संसृज्य विजह्रतुः ।

वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ ॥ २८ ॥

पदरत्नावली

ततो रामकृष्णौ वयस्यान् सखीन् गोपानाकृष्याहूय तैः संसृज्य सङ्गम्य विजह्नतुः । वल्गन्तौ नृत्यन्तौ ॥ २८ ॥

सत्यधर्मीया

अवध्यानेनैव वध्यानां प्रस्तुतं (तस्य) समाप्तत्वान्न तूष्णीं स्थातव्यमिति वयस्यान्गोपानुपविष्टानाकृष्य तैः संसृज्य सङ्गम्य विजह्रतुः । तूर्येषु वाद्यमानेषु वल्गन्तौ स्वयं तथा नटन्तौ तत्तालतुलतया रुतनूपुरौ च ॥ २८ ॥

सुमनोरञ्जिनी

तैर् गोपैः संसृज्य संगम्य । विजह्रतुर् मल्लक्रीडां चक्रतुः । रुतानि मञ्जुलस्वनानि नूपुराणि चरणाभरणानि ययोस्तौ । वल्गन्तौ नृत्यन्तौ ॥ २८ ॥

जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः ।

ऋते कंसं विप्रमुख्याः साधवः साधुसाध्विति ॥ २९ ॥

पदरत्नावली

साधुसाध्विति ब्रुवन्तः प्रजहृषुः ॥ २९ ॥

दुर्घटभावदीपिका

रामकृष्णयोः कर्मणा कंसमृते सर्वे जनाः प्रजहृषुर्जनानां मध्ये ये विप्रमुख्याः साधवस्ते न केवलं रामकृष्णयोः कर्मणा प्रजहृषुः किं तु साधुसाध्वित्यवदंश्चेति । एतेन साधवो जना रामकृष्णयोः कर्मणा प्रजहृषुरित्युक्ते कंसस्यासाधुत्वेन कंसव्यावृत्तेर्जातत्वात् । कंसमृत इत्येतद्व्यर्थमिति दूषणं पराकृतम् । साधव इत्यस्य प्रजहृषुरित्यनेनान्वयमनङ्गीकृत्याध्याहृतेनावदं-श्चेत्यनेनान्वयस्योक्तत्वात् ॥ २९ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे द्विचत्वारिंशोऽध्यायः ॥ १०-४२ ॥

सत्यधर्मीया

ऋते कंसं तमसन्तं विना सर्वे जना रामकृष्णयोः कर्मणा विप्रमुख्याः साधवो मरीच्याद्याः साधु सम्यगिति जहृषुः ॥ २९ ॥

सुमनोरञ्जिनी

प्रजहृषुर् हर्षिता बभूवुः । विप्रा एव मुख्या येषां ते साधवः । साधु साध्वित्यवदन्निति शेषः ॥ २९ ॥

हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् ।

न्यवारयत् स्वतूर्याणि वाक्यं चेदमुवाच ह ॥ ३० ॥

पदरत्नावली

विंशत्यक्षोहिणीसेनाः प्रतीदं वक्ष्यमाणं वाक्यमुवाच । यथोक्तमाचार्यैः ‘अक्षोहिणीगणितमस्य बलं च विंशदासीदसह्यमुरुवीर्यमनन्यवध्यं शम्भोर्वरादपि’ इति ॥ ३० ॥

सत्यधर्मीया

मल्लवर्येष्वत्रोक्तेषु । तथा हरिवंशादिषु–

संकर्षणस्तु सुचिरं योधयित्वा महाबलः ।

आन्ध्रं मल्लं महामल्लो मण्डलानि व्यदर्शयत् ।

मुष्टिनैकेन तेजस्वी साशनिस्तनयित्नुना ।

शिरस्यभ्यहनद्वीरो वज्रेणेव महागिरिम् ।

स निष्पतितमस्तिष्को विस्रस्तनयनाननः ।

पपात निहतस्तेन ततो नादो महानभूदित्युक्तान्ध्रादिषु । केषु विद्रुतेषु च । भोजराट् स्वतूर्याणि न्यवारयत् स्ववचःश्रवणार्थमिदं वाक्यं चोवाच ॥ ३० ॥

सुमनोरञ्जिनी

भोजराट् कंसः । पञ्चसु हतेषु । इतरेषु विद्रुतेषु पलायितेषु सत्सु ॥३०॥

निस्सारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् ।

धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥ ३१ ॥

पदरत्नावली

पुरान्निस्सारयत बहिष्कुरुत ॥ ३१ ॥

सत्यधर्मीया

वसुदेवात्मजौ दुर्वुत्तौ पुरान्निःसारयत गोपानां धनं हरत दुर्मतिं नन्दं बध्नीत । इति विंशत्यक्षौहिणी सेनाः प्रति । यथोक्तमाचार्यैः । अक्षौहिणीगणितमस्य बलं च विंशदासीद-सह्यमुरुवीर्यमनन्यवध्यं शम्भोर्वरादपीति ॥ ३१ ॥

सुमनोरञ्जिनी

पुरान्निःसारयत निष्कासयध्वम् ॥ ३१ ॥

वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः ।

उग्रसेनः पिता चापि सानुगः परपक्षगः ॥ ३२ ॥

पदरत्नावली

दुर्मेधाः स्वपुत्रपरिवर्त्तनादिकौटिल्येन तस्मादसत्तमः स्वपुत्रसमर्पणप्रतिज्ञाभङ्गात्

॥ ३२ ॥

सत्यधर्मीया

दुर्मेधा वसुदेव आशु हन्यतामसत्तमो मम पिता परपक्षग उग्रसेनश्च हन्यताम्

॥ ३२ ॥

सुमनोरञ्जिनी

पिता मत्पितापि उग्रसेनः । परपक्षगोप्ता । तत आशु हन्यतामित्युवाचेति सम्बन्धः ॥ ३२ ॥

एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः ।

लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत् ॥ ३३ ॥

पदरत्नावली

न व्येति न विकुरुते इत्यव्ययः । लघिम्ना लाघवेन ॥ ३३ ॥

सत्यधर्मीया

एवं निर्नामाव्यादीन्प्रति कंसे कत्थमाने सत्यव्ययो निर्नाशो नन्दवसुदेवादिव्यथां दृष्ट्वा । यथोक्तं हरिवंशे–

ये च सम्प्रेक्षका गोपा नन्दगोपपुरोगमाः ।

भयक्षोभितसर्वाङ्गाः सर्वे तत्रावतस्थिरे ।

हर्षजं वारि नेत्राभ्यां वर्तमाना प्रवेपती ।

प्रस्रवोत्पीडिता कृष्णं देवकी समुदैक्षत ।

वसुदेवो जरां त्यक्त्वा स्नेहेन तरुणायितः ॥

इत्यादिना । लघिम्ना लाघवेन तरसोत्पत्य मञ्चमारुहत् ॥ ३३ ॥

सुमनोरञ्जिनी

कंसे एवं विकत्थमाने प्रलपति सति । लघिम्ना लाघवेन । तरसा एकोत्पातेनैव ॥ ३३ ॥

तमाविशन्तमालोक्य मृत्युमात्मन आसनात् ।

मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी ॥ ३४ ॥

पदरत्नावली

आत्मनो मृत्युं मृत्युमिव । मनस्वी धीरः ॥ ३४ ॥

सत्यधर्मीया

आत्मनो मृत्युं तद्रूपमापतन्तं कृष्णमालोक्यासनात्सहसोत्थाय मनस्वी स कंसोऽसिचर्मणी जगृहे ॥ ३४ ॥

सुमनोरञ्जिनी

मनस्वी धीरः सहसा वेगेन । आसनादुत्थाय ॥ ३४ ॥

तं खड्गपाणिं विचरन्तमाशु श्येनं यथा दक्षिणसव्यमम्बरे ।

समग्रहीद् दुर्विषहोग्रतेजा यथोरगं तार्क्ष्यसुतः प्रसह्य ॥ ३५ ॥

प्रगृह्य केशेषु चलत्किरीटं निपात्य रङ्गोपरि तुङ्गमञ्चात् ।

तस्योपरिष्टात् स्वयमब्जनाभः पपात विश्वाश्रय आत्मतन्त्रः ॥ ३६ ॥

पदरत्नावली

दक्षिणसव्यं दक्षिणवामतः । दुर्विषहमविषह्यमुग्रं तेजो यस्य स तथा ॥ विश्वाश्रयो विश्वम्भरः । आत्मतन्त्रः स्वतन्त्रः ॥ ३५,३६ ॥

सत्यधर्मीया

अम्बरे दक्षिणसव्यम् । सर्वो द्वन्द्व इत्येकवद्भावे वोत्तरपदलोपे समासे वा बोध्यम् । विचरन्तं श्येनमिव विद्यमानं खङ्गपाणिमसिहस्तं दुर्विषहोग्रतेजा दुर्विषहमुग्रं वैरितीक्ष्णं तेजो वीर्यं यस्य स तार्क्ष्यसुतो गरुडः प्रसह्य बलादुरगं यथा केशेषु निगृह्य चलत्किरीटं मुकुटं यस्य तं तुङ्गमञ्चाद्रङ्गोपरि निपात्य तस्य कंसस्योपरि स्वयमब्जनाभः पपात । तनुतरतनुमतः पोतस्य पाते किं स्यादित्यत आह ॥ विश्वाश्रयो विश्वम्भर इति । तदसम्भावना पराकृत्या आत्मतन्त्र इति ॥ ३५,३६ ॥

सुमनोरञ्जिनी

अम्बरे आकाशे । श्येनं यथा श्येनमिव । दक्षिणसव्यं दक्षिणभागे सव्यभागे च चरन्तम् । खड्गं पाणौ यस्य तं कंसम् । दुर्विषहम् अविषह्यम् । उग्रं तेजो यस्य सः श्रीकृष्णस् तार्क्ष्यस्य कश्यपस्य सुतो गरुड उरगमिव समग्रहीज् जग्राह ॥ तुङ्गमञ्चाद्रङ्गोपरि रङ्गभूपृष्ठे । कंसं निपात्य पातयित्वा । तस्य कंसस्योपरिष्टात् तदङ्गोपरीत्यर्थः । अनेन कंसस्य द्विजीवत्वाद-सुरस्याधोगतिः । तदाविष्टभृगोः स्वपादरजसा पुनीतत्वं च सूचयामासेति । विश्वस्य सर्वजगत आश्रयः । आत्मतन्त्रः स्वतन्त्रः ॥ ३५,३६ ॥

कंसोऽपि कृष्णेन जगत्त्रयैकनिवासभूतेन निपात्य सोऽधः ।

तेनात्मतन्त्रेण च पीडितोऽसुं तत्याज राजन् निमिषान्तरेण ॥ ३७ ॥

सत्यधर्मीया

तदेव विशदयति ॥ कंसोऽपीति ॥ जगत्त्रयैकनिवासभूतेन कृष्णेनाधो निपात्यात्मतन्त्रेण च पीडितो निमिषान्तरेणासुं तत्याज । पुंसि भूम््नयसवः प्राणा इति तु प्रायिकाभिप्रायम् । अयं श्लोकस्तु प्रक्षिप्त इति बहवः ॥ ३७ ॥

सुमनोरञ्जिनी

जगत्त्रयस्यैकनिवासः मुख्याश्रयस् तेन निपात्य निपीडित इत्यन्वयः

॥ ३७ ॥

कंसं परेतं विचकर्ष भूमौ हरिर्यथेभं जगतो विपश्यतः ।

हाहेतिशब्दः सुमहांस्तदाऽभूदुदीरितः सर्वजनैर्नरेन्द्र ॥ ३८ ॥

पदरत्नावली

परेतं मृतम् ॥ ३८ ॥

सत्यधर्मीया

परेतं कंसं विचकर्षेत्यस्योत्तरं कंसं परेतं विचकर्षतीत्यपि योजयन्ति । हरिः सिंह इभं यथा, हरिः कृष्ण इभं कुवलयापीडं यथा तथेति सर्वा हिंसिता, ये तेषां जनाः स्वकीयास्तैर्हाहेति सुमहान् शब्दस्तदोदीरितोऽभूत् । अर्व–षर्व–हिंसायामिति स्मरणात् ॥ ३८ ॥

सुमनोरञ्जिनी

हरिरित्यावर्तते । हरिः सिंहः कृष्णश्च ॥ ३८ ॥

स नित्यदोद्विग्नधिया तमीश्वरं पिबन्नदन् वा विचरन् स्वपन् श्वसन् ।

ददर्श चक्रायुधमच्युतं यतस्तदेव रूपं दुरवापमाप ॥ ३९ ॥

पदरत्नावली

यतः सः कंसाविष्टो भृगुर्नित्यदा सर्वदैवोद्विग्नधिया भीतबुद्ध्या तमीश्वरं कृष्णमेव पानभोजनाद्यवस्थासु अग्रतश्चक्रायुधं ददर्श ततस्तदेव रूपं तत्सदृशदेवरूपमन्यैर्दानवैर्दुरवापमाप । कालनेम्यसुरस्तु नित्यातिदुःखमनिवृत्ति सुखव्यपेतमन्धन्तम आप । यथोक्तमाचार्यैः ‘द्वेषात् स सर्वजगदेकगुरोः स्वकीयैः पूर्वं प्रमापितजनैः सहितः समस्तैः । धात्र्यादिभिः प्रतिययौ कुमति-स्तमोऽन्धमन्न्येऽपि चैवमुपयान्ति हरावभक्ताः’ इति ॥ ३९ ॥

सत्यधर्मीया

भयात्कंस इति शंसिततदवस्थामाह ॥ स इति ॥ उद्विग्नधिया भीतियुक्तमत्या तमीश्वरं पिबञ्जलं कलशं वाऽदन्फलादिकमन्नकवलं वा विचरन्स्वपन्रात्रौ दिवा वा श्वसन्नेवं नित्यदा यतश्चक्रायुधमच्युतं ददर्श ततस्तदेवरूपमन्यैः केवलदानवैर्दुरवापमाप । तदाविष्टो भृगुर्भगवदन्त-निविष्टोऽसुरस्तु क्रमात्तमो गच्छति । अतः समसमराकरणादनायुधघातान्न वीरस्वर्गस्तस्येति मन्तव्यम् । यथोक्तं हरिवंशे ।

असङ्ग्रामहतः कंसः स बाणैरपरिक्षतः ।

कण्ठग्राहान्निरस्तासुः स्वर्गमार्गान्निराकृतः ॥ इति ॥ ३९ ॥

सुमनोरञ्जिनी

सः कंसः यतः नित्यदा सर्वदा उद्विग्ना भयसहिता धीर् अन्तःकरणं तया तमीश्वरमेव ददर्श । धिया दर्शनं ध्यानमेव । ध्यायति स्मेति यावत् । इदानीमन्तेऽपि चक्रं सुदर्शन-मायुधं यस्य तमच्युतमेव ददर्श । अतस्तदेव रूपं श्रीकृष्णरूपमेव । आप प्रविष्ट इत्यर्थः । इदं च कंसाविष्टसज्जीवविषयकम् । तदुक्तं–

पौण्ड्रके नरके चैव साल्वे कंसे च रुग्मिणि ।

आविष्टास्तु हरेर्भक्तास्तद्भक्त्या हरिमापिरे ॥ इति ॥ ३९ ॥

तस्यानुजा भ्रातरोऽष्टौ कङ्कन्यग्रोधकादयः ।

अभ्यधाव१न्नतिक्रुद्धा २भ्रातुर्निर्वेशकारिणः ॥ ४० ॥

पदरत्नावली

निर्वेशो निष्कृतिरानृण्यं तत्कारिणः ॥ ४० ॥

सत्यधर्मीया

तस्य कंसस्यानुजा भ्रातरः परस्परं कङ्कन्यग्रोधकावेवादी येषां ते भ्रातृनिर्वेशकारिणो भ्रातुः कंसस्य निर्वेशो निष्कृतिरानृण्यमिति यावत् कर्तुं शीलमेषामस्तीति ते तथाऽतिक्रुद्धा अभ्यधावन् ॥ ४० ॥

सुमनोरञ्जिनी

निर्वेशम् आनृण्यं तत्कारिणः ॥ ४० ॥

तथाऽतिरभसांस्तांस्तु संयतान् रोहिणीसुतः ।

अहन् परिघमुद्यम्य पशूनिव मृगाधिपः ॥ ४१ ॥

पदरत्नावली

मृगाधिपः सिंहः ॥ ४१ ॥

सत्यधर्मीया

अतिरभसान् बहुवेगिनः । परिघं तद्वद्विद्यमानं बाहुम् । सह नानीतो न वापि स उत्तरत्रेव स्मृतश्चेति । परितो हन्तीति परिघो वा बाहुस्तमुद्यम्य । उक्तं च तत्रैव ।

बलदेवोऽपि धर्मात्मा कंसभ्रातरमोजसा ।

बाहुभ्यामेव तरसा सुनामानमपोथयदिति ।

निदर्शनं चैवं सुदर्शनं मृगाधिपः पशूनिवेति ॥ ४१ ॥

सुमनोरञ्जिनी

अतिरभसानतिवेगान् । संयतान् सश्रद्धान् । मृगाधिपः सिंहो व्याघ्रो वा । सिंहव्याघ्रौ मृगाधिपावित्यभिधानात् ॥ ४१ ॥

नेदुर्दुन्दुभयो व्योमि्न ब्रह्मेशाद्या विभूतयः ।

पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः ॥ ४२ ॥

पदरत्नावली

विभूतयो हरिविशेषसन्निधानपात्राणि । स्त्रियोऽप्सरसः ॥ ४२ ॥

सत्यधर्मीया

विभूतयो विशेषसन्निधाननिधानानि गतं च । स्त्रियो गान्धर्व्यः ॥ ४२ ॥

सुमनोरञ्जिनी

विभूतयः विशेषतो भगवत्सन्निधानपात्राणि ब्रह्मेशाद्यास्तं पुष्पैः किरन्तः वर्षयन्तः प्रशशंसुः । स्त्रियोऽप्सरसः ॥ ४२ ॥

तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः ।

तत्राभीयुर्विनिघ्नन्त्यः स्वशीर्षाण्यश्रुलोचनाः ॥ ४३ ॥

पदरत्नावली

तेषां कंसादीनाम् । सुहृदां भर्तॄणां मरणेन दुःखिताः । अभीयुराजग्मुः । अश्रुपूर्णानि लोचनानि यासां तास्तथा ॥ ४३ ॥

सत्यधर्मीया

तेषां कंसादीनाम् ॥ ४३ ॥

सुमनोरञ्जिनी

तेषां कंसादीनाम् । सुहृदः पत्युर् मरणेन ॥ ४३ ॥

शयानान् १वीर शय्यायां पतीनालिङ्ग्य शोचतीः ।

विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः ॥ ४४ ॥

पदरत्नावली

वीरशय्यायां रणाङ्गणे । विलेपुर् विलापांश्चक्रुः । श्रुचः पश्यतां विसृजन्त्यो ददत्यः । ‘त्यागो विहापितं दानमुत्सर्जनविसर्जने’ इति हलायुधः ॥ ४४ ॥

सत्यधर्मीया

हे वीर परीक्षित् शय्यायां नित्यं यथा तथा शयानान् पतीनालिङ्ग्य शोचतीः शोचन्त्यो नार्यो मुहुर्मुहुः शुचः पश्यतां विसृजन्त्यो ददत्यस्त्यागो विहापितं दानमुत्सर्जनविसर्जने इति हलः । शुचो बहिर्विसृजन्त्य उपर्युपर्युत्पादयन्त्यः सुस्वरं विलेपुः ॥ ४४ ॥

सुमनोरञ्जिनी

शुचः शोकाश्रूणि शुचः शोकान् विसृजन्त्यो ऽन्येषां मनसि उत्पादयन्त्य इति वा । विलेपुर् विलापं चक्रुः ॥ ४४ ॥

हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल ।

त्वया हतेन निहता वयं ते सगृहप्रजाः ॥ ४५ ॥

पदरत्नावली

करुणया नाथन्ते प्रार्थयन्ते इति करुणानाथास्तेषु वत्सल स्निग्ध । हतेन त्वया सहैव ते त्वदीयाः सगृहप्रजा गृहैः प्रजाभिश्चापत्यादिभिः सहिता वयमपि निहता निहतप्रायाः

॥ ४५ ॥

सत्यधर्मीया

करुणयतीति करुणस्तत्सम्बुद्धिः । अनाथवत्सल तत्प्रीतिमन् । हतेन त्वया वयं सगृहप्रजास्तत्सहिता निहतास्त्वन्मूलकत्वादस्मद्गृहादेः ॥ ४५ ॥

सुमनोरञ्जिनी

करुणया अनाथेषु जनेषु वत्सल स्निग्ध हे करुणेति सम्बोधनं वा । ते त्वदीया गृहैः प्रजाभिश्च सहिता वयं निहता निहतप्रायाः ॥ ४५ ॥

त्वया विरहिता पत्या पुरीयं भरतर्षभ ।

न शोभते वयमिव निवृत्तोत्सवमङ्गला ॥ ४६ ॥

सत्यधर्मीया

त्वया पत्या नाथेन राज्ञा वयमिव निवृत्तोत्सवमङ्गला इयं पुरी मधुरा न शोभते ॥ ४६ ॥

सुमनोरञ्जिनी

पत्या पालकेन । निवृत्तानि उत्सवमङ्गलानि यस्यां सा । इदं च स्वदृष्टा । न परमार्थतः ॥ ४६ ॥

अनागसां त्वं भूतानां कृतवान् द्रोहमुल्बणम् ।

तेनेमां भो दशां नीतो भूतध्रुक् को लभेत शम् ॥ ४७ ॥

पदरत्नावली

अनागसां निरपराधानाम् । भूतेभ्यो द्रुह्यतीति भूतध्रुक् ॥ ४७ ॥

सत्यधर्मीया

अनागसां निरपराधानां प्राणिनामुल्बणं द्रोहमत्युत्कटफलदम् । भो पते इमां दशां नीतः । सामान्यार्थान्तरं न्यस्यन्ति । कः भूतध्रुक् भूतेभ्यो द्रोग्धा शं सुखं लभेतेति

॥ ४७ ॥

सुमनोरञ्जिनी

अनागसां निरपराधिनां भूतानाम् । द्रोहं कृतवान् तेन कारणेन ॥ ४७ ॥

सर्वेषामिह भूतानामेष हि प्रभवाप्ययः ।

गोप्ता च तदवध्यायी १न क्वचित् सुखमेधते ॥ ४८ ॥

पदरत्नावली

प्रकर्षेण भव उत्पत्तिरप्ययो नाश्यश्च यस्मात् स तथा । तस्मिन् विषयेऽ-वध्यानमवज्ञां कर्तुं शीलमस्यास्तीति तदवध्यायी क्वचिदपि सुखं यथा तथा नैधते न वर्धते

॥ ४८ ॥

सत्यधर्मीया

यादृशतादृशभूतद्रोह एवंमहिमा महामहिमद्रोहे तु किं वक्तव्यमिति वदन्ति ॥ सर्वेषामिति ॥ हि यतः सर्वेषां भूतानामेषः प्रकर्षेण भव उत्पत्तिरप्ययो नाशश्च यस्मात्स तथा गोप्ता रक्षिता च तदवध्यायी तदवज्ञाता क्वचिदपि सुखं यथा तथा नैधते ॥ ४८ ॥

सुमनोरञ्जिनी

एषः कृष्णः । प्रभवन्त्यस्मादिति प्रभव उत्पादकः स चासौ अपियन्ति लीयन्तेऽस्मादित्यप्ययः संहर्ता च । तदवध्यायी तस्य अवध्यानमवज्ञा तत्कर्तुं शीलमस्येति तथाविधः । सुखं यथा भवति तथा । नैधते न वर्धते ॥ ४८ ॥

श्रीशुक उवाच—

राजयोषित आश्वास्य भगवान् लोकभावनः ।

यामाहुर्लौकिकीं संस्थां हतानां समकारयत् ॥ ४९ ॥

पदरत्नावली

लोकानां भावनं रक्षणं यस्मात् स तथा । ‘भावनं रक्षणं प्रोक्तम्’ इत्यभिधानम् । लोकानां भावं मनो नयतीति च । ‘भावो मनश्च क्वचिदभ्यास इष्यते’ इति शब्दनिर्णयः । संस्थामन्त्यसंस्कारम् ॥ ४९ ॥

सत्यधर्मीया

लोकभावनो लोकोत्पादकस्तत्सत्ताप्रदो वा । राजयोषितो राजराजीवाक्षीराश्वास्य हतानां या लौकिकी लोकैः क्रियमाणेत्येव लौकिकी तां श्रौतीं स्मार्तीं संस्थां चरमकृतिमाहुः शिष्टास्तामकारयत्कारयामास ॥ ४९ ॥

सुमनोरञ्जिनी

राजस्त्रिय आश्वास्य । लौकिकीं लोकसंप्रदायागतां यां द्विजा आहुस्तां संस्थां संस्कारम् ॥ ४९ ॥

मातरं पितरं चैव मोचयित्वाऽथ बन्धनात् ।

रामकृष्णौ ववन्दाते शिरसाऽऽस्पृश्य पादयोः ॥ ५० ॥

सत्यधर्मीया

आस्पृश्य ॥ ५० ॥

सुमनोरञ्जिनी

मातरं देवकीम् । पितरं वसुदेवम् । शिरसा पादयोर् आस्पृश्य संस्पर्शं कृत्वा

॥ ५० ॥

देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ ।

कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ ५१ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे द्विचत्वारिंशोऽध्यायः ॥

पदरत्नावली

न सस्वजाते आलिङ्गनं न कुर्वाते । किन्तु बद्धाञ्जली तस्थुरित्यर्थः

॥ ५१ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे द्विचत्वारिंशोऽध्यायः ॥

सत्यधर्मीया

देवकी वसुदेवश्च जगदीश्वरौ कृतपादाभिवन्दनौ विज्ञाय नशङ्कितौ शङ्काशून्यौ सस्वजाते, पुत्रौ जगदीश्वरौ विज्ञाय शङ्कितौ न सस्वजात इति वा ॥ ५१ ॥

॥ इति श्रीमद्भागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे द्विचत्वारिंशोऽध्यायः ॥

सुमनोरञ्जिनी

जगदीश्वरौ विज्ञाय इमौ जगदीश्वराविति विज्ञाय । नशङ्कितौ भयरहितौ कृतवन्दनौ पुत्रौ रामकृष्णौ सस्वजाते आलिलिङ्गतुः । कृतवन्दनावपि पुत्रौ जगदीश्वरौ विज्ञाय, शङ्कितौ संशयत्रासयोः शङ्केति शाश्वतः । न सस्वजाते इति वा ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां द्विचत्वारिंशोऽध्यायः ॥