१६ एकचत्वारिंशोऽध्यायः

अथ कृष्णश्च रामश्च कृतशौचौ परन्तपौ

॥ अथ एकचत्वारिंशोऽध्यायः ॥

श्रीशुक उवाच—

अथ कृष्णश्च रामश्च कृतशौचौ परन्तपौ ।

मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतुः ॥ १ ॥

पदरत्नावली

कृष्णरामौ किं नन्दादिभिः सह मञ्चमुपेयतुरुतान्यत्र ययतुरित्यतस्तत्कर्म कथयति अथेति ॥ कृतं शौचं स्नानादिकर्म याभ्यां तौ कृतशौचौ । परन्तपौ शत्रुतापकौ । मल्लानां दुन्दुभीनां च निर्घोषं श्रुत्वा मल्लयुद्धं द्रष्टुमुपेयतुः ॥ १ ॥

सत्यधर्मीया

रामकृष्णौ किं नन्दादिभिः सहितौ मञ्चमुपयातौ किं वा लोकविलोककौ किं वा पृथक्पन्थानमाश्रित्य तस्थतुरित्यतस्तत्कर्म श्रावयति श्रीशुक इति वदति ॥ श्रीशुक इति ॥ अथ सूर्योदयानन्दरं रामः कृष्णश्चेत्येतौ कृतशौचौ मुखप्रक्षालनमज्जनादिना गताङ्गशुद्धी लोकदृष्ट्या । मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुत्सवं समुपेयतुः ॥ १ ॥

सुमनोरञ्जिनी

परस्परसमुच्चये चशब्दौ । कृतं शौचं मुखप्रक्षालनादिकं याभ्यां तौ । परं शत्रुं तापयत इति परंतपौ । मल्लानां दुन्दुभीनां च निर्घोषम् । मल्लानां ये दुन्दुभयस्तन्निर्घोषमिति वा ॥ १ ॥

रङ्गद्वारं समासाद्य तस्मिन् नागमवस्थितम् ।

अपश्यत् कुवलयापीडं कृष्णोऽम्बष्ठप्रचोदितम् ॥ २ ॥

पदरत्नावली

तस्मिन् मल्लक्रीडास्थानद्वारे । अम्बष्ठेन हस्तिपेन प्रचोदितम् ॥ २ ॥

सत्यधर्मीया

रङ्गद्वारं समासाद्य तस्मिन् द्वार्यम्बष्ठप्रचोदितं कुवलयापीडं तन्नामकं गजमपश्यत् । रङ्गतां गच्छतां वारं समूहं च दृष्ट्वेत्यर्थः ॥ रङ्गेर्गत्यर्थः ॥ २ ॥

सुमनोरञ्जिनी

तस्मिन् रङ्गद्वारे । नाम्ना कुवलयापीडम् । अम्बष्टेन हस्तिपकेन ॥ २ ॥

बद्ध्वा परिकरं शौरिः समूह्य कुटिलालकान् ।

उवाच हस्तिपं वाचा मेघनादगभीरया ॥ ३ ॥

पदरत्नावली

परिकरमुत्तरीयवस्त्रं बद्ध्वा कटिसम्बद्धं कृत्वा कुटिलालकान् किञ्चित्कुञ्चित-कुन्तलान् समुह्य निबध्य ॥ ३ ॥

सत्यधर्मीया

परिकरमुत्प्लवनाद्यनुकूलदुकूलबन्धम् । भेर्यङ्कपरिवारयोः, प्रगाधे गात्रिकाबन्धे विप्रप्रारम्भयोरपीति विश्वः । कुटिलालकान्समूह्य समूहीकृत्य बद्ध्वा च । अनेन स्वकीयोऽपि कुटिलश्चेच्छिक्षणीय इति ध्वनयति । मेघनादगभीरया वाचा हस्तिपमुवाच ॥ ३ ॥

सुमनोरञ्जिनी

परिकरं कटिबन्धम् । कुटिलानलकांश्च समूह्य एकीकृत्य । मेघनादवद्गभीरया गम्भीरया वाचा ॥ ३ ॥

अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्राम माचिरम् ।

नो चेत् सकुञ्जरं त्वाऽद्य नयामि यमसादनम् ॥ ४ ॥

पदरत्नावली

अम्बष्ठाम्बष्ठेति आक्रोशे वीप्सा । अपक्राम अपसर । यमसादनं कृतान्तलोकम्

॥ ४ ॥

सत्यधर्मीया

अम्बष्ठाम्बष्ठेति द्विर्वचनमाक्रोशसूचकम् । नौ मार्गं देहि मा चिरम् । अपक्राम अपगच्छ । नो चेन्न गच्छसि चेद्यम् असादनमनवसादनममृत्युमिति यावन् मनुषे तेन कुञ्जरेण सहित-मिति सकुञ्जरं त्वा त्वामद्य यमसादनं यमसदनं नयामीत्युक्तावपि नयामीत्यावृत्त्याऽन्वयः ॥४॥

सुमनोरञ्जिनी

हे अम्बष्ठः नौ आवां मार्गं देहि । माचिरं शीघ्रम् अपक्राम अपसर । यमसादनं यमसदनम् । यमः सादयति शिक्षयति यत्र तत्स्थलमिति वा ॥ ४ ॥

एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम् ।

चोदयामास कृष्णाय कालान्तकयमोपमम् ॥ ५ ॥

पदरत्नावली

सर्वं कलयति च्छिनत्तीति कालः सर्वसंहारकर्ता, स चासावन्तको रुद्रश्च तेन यमेन चोपमा यस्य सः कालान्तकयमोपमस्तम् । ‘सोऽन्तकः स रुद्रः’ ‘रुद्रो मा विशान्तक’ इत्यादिश्रुतेः ॥ ५ ॥

सत्यधर्मीया

एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं कालान्तकयमोपमं कालेन क्लृप्तेनान्तकेन रुद्रेण । सोऽन्तकः स रुद्र इत्यादेः । यमेन चोपमा यस्य । कालान्तको यो यमस्तेनोपमा यस्य सः । कृष्णाय चोदयामास प्रेरयामास ॥ ५ ॥

सुमनोरञ्जिनी

कालो मृत्युः,अन्तको रुद्रः,यमश्च तेषामुपमा सादृश्यं यस्य तम् ॥ ५ ॥

करीन्द्रस्तमभिद्रुत्य करेण तरसाऽग्रहीत् ।

कराद् विगलितः सोऽमुं निहत्याङ्घ्रिष्वलीयत ॥ ६ ॥

पदरत्नावली

तरसा वेगेनाग्रहीद् जग्राह । सः कृष्णो ऽमुं करीन्द्रं निहृत्य मुष्टिना प्रहृत्य कराद् हस्तीन्द्रहस्ताद् विगलितो विश्लथितः सन् अङ्घ्रिषु पादमध्ये अलीयत विलिल्ये ॥ ६ ॥

सत्यधर्मीया

करेण शुण्डया । कराद्विगलितः स कृष्णोऽमुं निहत्याङ्घ्रिष्वलीयत लीनोऽभूत्

॥ ६ ॥

सुमनोरञ्जिनी

करीन्द्रस्तं कृष्णम् । अभिद्रुत्य अभिमुखम् आगत्य । करेण शुण्डादण्डेन । सः कृष्णः कराद् विगलितश् च्युतः । अमुं गजं करेण निहत्य ताडयित्वा । अङ्घ्रिषु तत्पादेषु । अलीयत लीनोऽभूत् ॥ ६ ॥

संक्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम् ।

परामृशत् पुष्करेण स प्रसह्य विनिर्गतः ॥ ७ ॥

पदरत्नावली

सः करीन्द्रस्तं कृष्णमचक्षाणः नेत्रेणापश्यन्नपि घ्राणेन दृष्टिर्दर्शनं यस्य तथाभूतः सन् केशवं पुष्करेण शुण्डाग्रेण परामृशज् जग्राह । सः कृष्णः प्रसह्य बलाद् बहिर्विनिर्गतः ॥७॥

सत्यधर्मीया

सङ्क्रुद्धो, घ्राणेन पूर्वमवघ्राणनेनान्तरं पदार्थस्य दृष्टिर्दर्शनं यस्य स तथा, तं केशवमचक्षाणोऽपश्यन्पुष्करेण स्वकरेण । अष्टमे गतम् । परामृशत्पस्पर्श । स कृष्णः प्रसह्य बलान्निर्गतो बहिः ॥ ७ ॥

सुमनोरञ्जिनी

स गजः । तं कृष्णम् । अचक्षाणो ऽपश्यन्सन् संक्रुद्धः । घ्राणेन अवघ्राणेन दृष्टिर् ज्ञानं यस्य सः । केशवं प्रसह्य बलात् । पुष्करेण शुण्डाग्रेण परामृशज् जग्राह । स कृष्णः प्रसह्य बलादेव विनिर्ययौ शुण्डाग्राद्विनिर्गतः ॥ ७ ॥

पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम् ।

विचकर्ष यथा नागं सुपर्ण इव लीलया ॥ ८ ॥

पदरत्नावली

विनिर्गत्य किं चकारेति तत्राह पुच्छ इति ॥ अतिबलं रुद्रप्रसादपरिरक्षितं सहस्रमतङ्गजसत्त्वममुं गजेन्द्रं पुच्छे प्रगृह्य धनुषः पञ्चविंशतिं धनुषां पञ्चविंशतिर्यावत् तावन्तं देशं यथा यथावदेव विचकर्ष । अमितविक्रमेण कृष्णेन विकर्षणावसरे करीन्द्रो मनागपि स्थैर्यं धर्तुं न शशाकेति यावत् । अत्र दृष्टान्तमाह सुपर्ण इवेति ॥ सुपर्णो गरुडो लीलया नागं सर्पमिव

॥ ८ ॥

दुर्घटभावदीपिका

कृष्णोऽतिबलं गजं पुच्छे प्रगृह्य लीलयैव धनुषः पञ्चविंशतिं विचकर्ष । अत्र दृष्टान्तमाह ॥ यथेति ॥ सुपर्णो नागं यथा कर्षति तथेति । एतेन यथेत्यनेन पूर्णत्वात्सुपर्ण इवेतीवशब्दो व्यर्थ इति दूषणं निरस्तम् । इवशब्दस्यैवार्थत्वं लीलयेत्यनेनान्वयं चाभ्युपगम्या-यासलेशोऽपि नास्तीति वक्तुं लीलयैव विचकर्षेत्युच्यत इत्यूरीकरणात् ॥ ८ ॥

सत्यधर्मीया

अतिबलं तं गजं पुच्छे प्रगृह्य धनुषः पञ्चविंशतिं पञ्चविंशति यावत्तावन्तं देशं यथा सम्यग्विचकर्ष सुपर्णो गरुडो लीलया नागं सर्पमिव ॥ ८ ॥

सुमनोरञ्जिनी

अति बलं यस्य तं गजम् । पुच्छे पुच्छदेशे प्रगृह्य । धनुषः पञ्चविंशति-र्यस्मिन् तावंतं देशं पञ्चविंशतिधनुःपरिमितं देशमित्यर्थः । तत्र दृष्टान्तो यथेति । नागं सर्पं सुपर्ण इव । सुपर्णो नागं यथेति, कृष्यमाणत्वेन गजे नागसादृश्यम्, कर्षकत्वेन कृष्णे सुपर्णसादृश्यं च बोधयितुं सादृश्यार्थकं यथेवेति पदद्वयम् । यद्वा ना अगमिति पदच्छेदः नागमिति च । सुपर्णो नागं यथा विचकर्षति तथा अगमिव पर्वतमिव स्थितं गजम् । ना परमपुरुषः कृष्णो विचकर्षेति सम्बन्धः ॥ ८ ॥

स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युतः ।

बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः ॥ ९ ॥

पदरत्नावली

सोऽच्युतः पुच्छग्राहिणमात्मानं ग्रहीतंु यदि करीन्द्रो दक्षिणतः परिवर्तते तर्हि सव्यतो भ्रामयन्, यदि सव्यतः परिवर्तते तदा दक्षिणतो भ्रामयन् एवं पर्यावर्तमानेन करीन्द्रेण सह भ्राम्यमाणेन गोवत्सेन बालक इव बभ्राम ॥ ९ ॥

सत्यधर्मीया

सव्यदक्षिणतः पार्श्वद्वयेन पर्यावर्तमानेन सह भ्राम्यमाणेन गोवत्सेन बालक इव बभ्राम ॥ ९ ॥

सुमनोरञ्जिनी

सव्यदक्षिणतः सव्यतो दक्षिणतश्च कृष्णं गृहीतुं पर्यावर्तमानेन भ्रमता गजेन सह अच्युतः स्वयमपि बभ्राम । बालको भ्राम्यमाणेन गोवत्सेनेव ॥ ९ ॥

ततोऽभिमुखमभ्येत्य पाणिनाऽऽहत्य वारणम् ।

प्राद्रवन् यापयामास स्पृश्यमानः पदे पदे ॥ १० ॥

पदरत्नावली

ततो वारणमभिमुखमभ्येत्य पाणिनाऽऽहत्य प्राद्रवन् तदुत्साहवर्धनार्थं प्रकर्षेण आ ईषदेव द्रवन् सन् पदेपदे तेन स्पृश्यमानो ग्रहीष्यामीममित्याशां जनयिष्यन् तं पृष्ठतो यापयामास गमयामास ॥ १० ॥

सत्यधर्मीया

ततोऽभिमुखं करिमुखं करिपुरोभागमभ्येत्य वारणं पाणिनाऽऽहत्य प्राद्रवद्दुद्राव । पदे पदे स्पृश्यमान इति धरिष्यामीत इममित्याशां जनयिष्यंस्तं पृष्ठतो यापयामास गमयामास

॥ १० ॥

सुमनोरञ्जिनी

ततः श्रीकृष्णः गजस्य अभिमुखम् । एत्य वारणं गजं पाणिनाऽऽहत्य सन्ताड्य स्वयं प्राद्रवत् । ततः पदे पदे तं स्पृशन् यापयामास स्वपृष्ठत आगमयामास ॥१०॥

स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः ।

तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत् क्षितिम् ॥ ११ ॥

सत्यधर्मीया

स कृष्णो धावन् क्रीडया पतित्वा सहसोत्थितस्तं कृष्णं पतितं मत्वा क्रुद्धो गजो दन्ताभ्यां क्षितिमहनदहन् । अस्मन्नाशायेशं सम्प्रार्थ्यानीतवती त्वमस्मन्मूलपुरुषोद्धृतापीत्यनीति-मतीति क्षितिक्षतिमकृत करीत्युत्प्रेक्षयन्ति प्रेक्षावन्तः ॥ ११ ॥

सुमनोरञ्जिनी

धावन् स कृष्णः क्रीडया भूमौ पतित्वा । सहसा अतिशीघ्रम् उत्थितः । गजस्य वञ्चनार्थं स्वेच्छयैवोत्थित इति यावत् । स गजोऽपि कृष्णमुत्थितम्, अजानन् पतितं मत्वा दंताभ्यां क्षितिम् अहनन् न तु कृष्णम् ॥ ११ ॥

स्वविक्रमे प्रतिहते कुञ्जरेन्द्रोऽत्यमर्षितः ।

चोद्यमानो महामात्रैः कृष्णमभ्यद्रवद् रुषा ॥ १२ ॥

पदरत्नावली

अत्यमर्षितो ऽत्यन्तक्रोधयुक्तः । ‘कोपः क्रोधस्तथाऽमर्षो रोषः प्रतिघ उच्यते’ इति हलायुधः । महामात्रैर्हस्तिपैः ॥ १२ ॥

सत्यधर्मीया

कुञ्जरेन्द्रः स्वविक्रमे प्रतिहते नष्टे सति स्वयमत्यमर्षितोऽत्यसहिष्णुः सन् माहामात्रैरम्बष्ठश्रेष्ठैश्चोद्यमानो रुषा कृष्णमभ्यद्रवत् ॥ १२ ॥

सुमनोरञ्जिनी

प्रतिहते व्यर्थे । महामात्रैर् हस्तिपकैः ॥ १२ ॥

तमापतन्तमासाद्य भगवान् मधुसूदनः ।

प्रगृह्य पाणिना हस्तं पातयामास भूतले ॥ १३ ॥

पदरत्नावली

तं स्वोपर्यापतन्तमासाद्य स्वयमग्रे गत्वा । हस्तं शुण्डाम् ॥ १३ ॥

सत्यधर्मीया

तं स्वोपर्यापतन्तमासाद्य पूर्वमेव स्वयं प्राप्य पाणिना हस्तं प्रगृह्य भूतले पातयामास । कुवलयस्यापीडा येन स इति नामान्वर्थं व्यतानीत् ॥ १३ ॥

सुमनोरञ्जिनी

हस्तं शुण्डादण्डम् ॥ १३ ॥

पतितस्य पदाऽऽक्रम्य मृगेन्द्र इव लीलया ।

दन्तमुत्पाट्य १तेनेमं हस्तिपांश्चाहनद् हरिः ॥ १४ ॥

पदरत्नावली

पतितस्य करीन्द्रस्य पदाऽऽक्रम्य मृगेन्द्रः सिंह इव लीलया दन्तं तद्युग्म-मुत्पाट्य । ‘कुम्भे पदं प्रतिनिधाय विषाणयुग्ममुत्कृष्य’ इत्याचार्योक्तेः । तेन दन्तेनैव ॥१४॥

सत्यधर्मीया

पतितस्य गजस्य पदाऽऽक्रम्य मृगेन्द्र इव सिंह इव लीलया दन्तं तद्युगं विषाणयुग्ममुत्कृष्येत्याचार्योक्तेरुत्पाट्योत्कृत्य तेन दन्तेनैव हरिर्हस्तिपानहन् ॥ १४ ॥

सुमनोरञ्जिनी

पतितस्य तस्य दन्तमुत्पाट्य तेनैव दन्तैनैव हस्तिपानहनत् ॥ १४ ॥

मृतकं द्विपमुत्सृज्य दन्तपाणी विरेजतुः ।

अंसन्यस्तविषाणासृङ्मदबिन्दुभि२रङ्कितौ ।

विरूढस्वेदकणिकवदनाम्बुरुहावुभौ ॥ १५ ॥

पदरत्नावली

अंसयोः स्कन्धयोर्न्यस्ते विषाणे दन्तौ तयोरसृग् रुधिरं मदो मदोदकं च तयोर्बिन्दुभिः । विशेषेण रूढाः स्वेदस्य कणिका बिन्दवो यस्मिंस्तद् विरूढस्वेदकणिकं तादृशं वदनाम्बुरुहं ययोस्तौ तथा ॥ १५ ॥

सत्यधर्मीया

मृतकं द्विपमुत्सृज्य दन्तपाणी उभौ विरेजतुः । अंसयोः स्कन्धयोर्न्यस्ते विषाणे दन्तौ तयोरसृग्रक्तं च मदो दानोदकं तयोर्बिन्दुभिरङ्किताविति निरङ्कः पाठः । बिन्दुभिरञ्जिताविति पाठे बिन्दुभिरञ्जितौ अक्तावित्यर्थः । विरूढा व्याप्य स्थिताः स्वेदस्य कणिकाबिन्दवो यस्मिंस्तद्वदनाम्बुरुहं ययोस्तौ ॥ १५ ॥

वृतौ गोपैः कतिपयैर्बलदेवजनार्दनौ ।

रङ्गं विविशतू राजन् गजदन्तवरायुधौ ॥ १६ ॥

पदरत्नावली

गजदन्तावेव वरे उत्कृष्टे आयुधे ययोस्तौ तथा ॥ १६ ॥

सत्यधर्मीया

गजदन्तावेव वरे आयुधे ययोस्ते ॥ १६ ॥

सुमनोरञ्जिनी

द्विपं गजम् । दन्तौ गजदन्तौ पाण्योर्ययोस्तौ । अंसयोर्न्यस्तौ विषाणौ गजदन्तौ याभ्यां तौ च तौ, असृजो रक्तस्य मदस्य मदजलस्य च बिन्दुभिर् अञ्जितौ लिप्तौ च । विरूढा उद्गताः स्वेदकणिकाः स्वेदबिन्दवो ययोस्तादृशे वदनाम्बुरुहे ययोस्तौ । बलदेवजनार्दनौ रामकृष्णौ गजदन्तवरायुधौ भूत्वा । रङ्गं मल्लरङ्गं विविशतुरिति सम्बन्धः ॥ १५,१६ ॥

मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्

गोपानां स्वजनोऽसतां क्षितिभृतां शास्ता स्वपित्रोः शिशुः ।

मृत्युर्भोजपतेर्विधातृविहितस्तत्त्वं परं योगिनां

वृष्णीनां च पतिः सदैव शुशुभे रङ्गेऽच्युतः साग्रजः ॥ १७ ॥

पदरत्नावली

अथ रङ्गभूमिं प्रविष्टस्य कृष्णस्य नवरसाविर्भावमाह मल्लानामिति ॥ मल्लानां पर्वतोपमगात्राणां चाणूरादीनामशनिर्वज्र इव भासमानः । सर्वत्रैवमेवान्वयः । विधातृविहितः परमेष्ठिना संस्तुत्याभिव्यक्तीकृतो योगिनां नारदादीनां सदैव परं तत्त्वं साक्षान्नारायणः ॥ १७ ॥

सत्यधर्मीया

कौतुक एतत्तुल इति कौतुकतोऽवलोककलोकानामेवं देवः सतामसतां च रौद्रोऽद्भुतश्च शृृङ्गारो हास्यं वीरो दया तथा । भयानकश्च बीभत्सः शान्तः सप्रेमभक्तिक इत्युक्त-नवरसरुचिरोऽभादिति भाषते ॥ मल्लानामिति ॥ मल्लानां चाणूरप्रमुखानामशनिर्वज्रो वा निर्घातो वा तथा भासमानो ये मल्ला नाम तेषां शनिः शनैश्चरवद्भासमानः । मल्लानामशनिरित्येकं पदम् । मल्लेषु ये नामा अनम्रास्तेषां शनिरिति वा । वज्राशन्यादिकं शक्यं परिहर्तुं विनाराधनेन न न बाधा शनेर्गच्छेदिति शनिरिवेति वा । आशन्यादिरपि शन्यादिदुर्ग्रहहेतुकः । तथा प्रपञ्चितं पञ्चमे । तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमानः शनैश्चर एकैकस्मिन्राशौ त्रिंशन्मासान्विलम्बमानः सर्वानेवा-नुपुर्येति तावद्भिरनुवत्सरैः प्रायेण हि सर्वेषामशान्तिकर इत्यादिना । नृणां नरवरः स्त्रीणां मूर्तिमान्स्वानङ्गतां त्यक्त्वाकारं भृत्वायातः स्मर इवायताक्षीणां गोपानां स्वजनो बन्धुरसतां क्षितिभृतां शास्ता । उणादेरनिट्कत्वात् । शासिता स्वपित्रोर्देवकीवसुदेवयोर्यशोदानन्दयोर्वा शिशुर्बालो भोजपतेः कंसस्य मृत्युर्विधातृविहितो ब्रह्मणा सम्प्रार्थ्याभिव्यक्तीकृतो योगिनां नारदादीनां सदैव परं तत्त्वं साक्षान्नारायणो वृष्णीनां च पतिः प्रभुः साग्रजोऽच्युतो रङ्गे शुशुभेऽशोभत ॥ १७ ॥

सुमनोरञ्जिनी

भगवान् सर्वभूतसमोऽपि त्रिविधेषु जनेषु तत्तद्योग्यतानुसारेण फलप्राप्तये तत्तदुपासनानुसारेण तेषां तेषां तथा तथा बुद्ध इत्याह ॥ मल्लानामिति ॥ मल्लादीनाम् अशन्यादि-रिवावभातः सन् । साग्रजोऽच्युतः रङ्गे शुशुभ इत्यन्वयः । अशनिर् अशनिवदवभासमानः । एवमुत्तरत्रापि । मल्लानामिति तमोयोग्यसङ्ग्राहकम् । नृणां मध्यमानां नरवरो राजा । अयं राजादिवदस्मदपेक्षया उत्तम इति ज्ञातः । स्त्रीणामित्यादि भक्तोपसङ्ग्राहकम् । अनेन तेषां तेषां भक्तिविशेषोऽपि सूचितः । कामाद्गोप्य इतिवत् । स्वजनः बन्धुः । भोजपतेः कंसस्य तदाविष्टभृगोः । विधात्रा ब्रह्मणा विहितः क्लृप्तो मृत्युस् तद्वदवभासमानः । योगिनां ज्ञानिनां परं तत्वं स्वतन्त्रतत्वं ब्रह्म । पतिः पालकः । इत्येवमुपासना तेषां तेषां न कादाचित्कीत्याह ॥ सदैवेति । इदं चासुरावेशवशात् ॥ १७ ॥

हतं कुवलयापीडं दृष्ट्वा तावपि दुर्जयौ ।

कंसो मनस्व्यपि तदा भृशमुद्विविजे नृप ॥ १८ ॥

पदरत्नावली

मनस्वी महाशूरोऽपि । उद्विविजे सम्बिभाय । ‘ओ विजी भयचलनयोः’ इति धातुः ॥ १८ ॥

सत्यधर्मीया

मनस्व्यपि स्थिरः प्रशस्तचित्तोऽपि तदा भृशमुद्विविजे भीतोऽभूत् ॥ १८ ॥

सुमनोरञ्जिनी

कुवलयापीडं हतं ज्ञात्वा । दुर्जयौ तौ रामकृष्णावपि दृष्ट्वा । मनस्व्यपि धीरोऽपि कंसः । भृशमत्यन्तम् । उद्विविजे भीतोऽभूत् ॥ १८ ॥

तौ रेजतू रङ्गगतौ महाभुजौ विचित्रवेषाभरणस्रगम्बरौ ।

यथा नटावुत्तमवेषधारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ १९ ॥

पदरत्नावली

देहप्रभया निरीक्षतां निरीक्षमाणानां मनः क्षिपन्तौ आकर्षयन्तौ ॥ १९ ॥

सत्यधर्मीया

निरीक्षतां निरीक्षमाणानां प्रभया मनः क्षिपन्तौ कर्षयन्तौ ॥ १९ ॥

सुमनोरञ्जिनी

विचित्राणि वेषाभरणस्रगंबराणि ययोस्तौ । वेष आकृतिः । नटौ नर्तकौ । प्रभया स्वशरीरकान्त्या निरीक्षतां मनः क्षिपन्तौ आकर्षयन्तौ ॥ १९ ॥

निरीक्ष्य तावुत्तमपुरुषौ जना मञ्चस्थिता नागरराष्ट्रका नृप ।

प्रहर्षवेगोत्कलितेक्षणाननाः पपुर्न तृप्ता नयनैस्तदाननम् ॥ २० ॥

पदरत्नावली

नागराः पौरा राष्ट्रका जानपदाश्च जनाः । प्रहर्षवेगेन सन्तोषातिशयेन उत्कलितानि उत्फुलितानि उत्फुल्लानि ईक्षणानि नेत्राण्याननानि च येषां ते तथा ॥ २० ॥

सत्यधर्मीया

नागरा नगरागाराश्च राष्ट्रका जनपदस्थाश्च प्रहर्षवेगेन सन्तोषातिशयेनोत्कलि-तानि विकसितानीक्षणानि नयनानि तथाऽननानि येषां ते नयनैस्तदाननं न तृप्ता ययुस्तथाऽपि न तृप्ता इत्यन्वयो वा ॥ २० ॥

सुमनोरञ्जिनी

मञ्चस्थिता मञ्चोपविष्टाः । नागरा नगरवासिनः । राष्ट्रका देशवासिनोऽपि जनाः । प्रहर्षवेगेन आनन्दोद्रेकेण उत्कलितं विकसितम् ईक्षणं नेत्रमाननञ्च येषां तादृशाः सन्तः, तदाननं तयोः रामकृष्णयोर् आननम् । नयनैः पपुर् अथापि न तृप्ता बभूवुः ॥ २० ॥

पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ।

जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ॥ २१ ॥

सत्यधर्मीया

नासाभ्यां तत्पुटीभ्याम् ॥ २१ ॥

सुमनोरञ्जिनी

लिहन्त आस्वादनं कुर्वन्तः । श्लिष्यन्त आलिङ्गनं कुर्वन्त इवावतस्थिरे इत्यर्थः ॥ २१ ॥

ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम् ।

तद्रूपगुणमाधुर्यप्रागल्भ्यस्मारिता इव ॥ २२ ॥

पदरत्नावली

तयो रूपं दिव्यसौन्दर्यं गुणाः कोमलकान्त्यादयः माधुर्यं सुम्मितालापादिगतं प्रागल्भ्यं वैशारद्यम्, एतैः स्मारिताः स्मरणं प्रापिता इव ॥ २२ ॥

सत्यधर्मीया

तयो रूपं गुणा दृष्टं सौन्दर्यं रूपैः कान्त्यादयो बहिष्ठा गुणाः श्रुताश्चोत्तरत्र वक्ष्यमाणा माधुर्यं वाचि प्रागल्भ्यं धृष्णुता । एतैः स्मारिताः स्मृतिमन्तः कारित इव परस्परमूचुः

॥ २२ ॥

सुमनोरञ्जिनी

ते जनाः । तयोः रामकृष्णयोः रूपेण सौन्दर्येण, गुणैर् गाम्भीर्यादिभिर् माधुर्येण वाङ्माधुर्येण प्रागल्भ्यं गौरवम् । प्रागल्भ्यं गौरवे प्राप्ताविति शाश्वतः । तेन च स्मारिताः स्मृतिं प्रापिताः सन्तः यथाश्रुतं श्रुतमनतिक्रम्य । श्रीकृष्णचरितम् । यथा यथावस्थितत्वेन दृष्टमिव प्रत्यक्षतो दृष्टमिव परस्परमन्योन्यमूचुरिति योजना । प्रत्यक्षीकृतं वस्तु यथा वदन्ति तथा अवदन्निति भावः ॥ २२ ॥

एतौ भगवतः साक्षाद् हरेर्नारायणस्य हि ।

अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि ॥ २३ ॥

पदरत्नावली

साक्षान्नारायणस्यांशेनावतीर्णौ ॥ २३ ॥

दुर्घटभावदीपिका

एतौ कृष्णरामौ साक्षाद्भगवतः सकलानिष्टपरिहारकस्य नारायणस्यांशे-नांशत्वेन युक्ताविह भूमौ वसुदेवस्य वेश्मन्यवतीर्णौ प्रादुर्भूतावित्येतद्धि प्रमाणप्रसिद्धमिति । एतेन रामकृष्णयोर्नारायणांशत्वान् नारायणांशत्वेन युक्ताविति वक्तव्यं नारायणस्यांशेनावतीर्णाविति कथनमनु-पपन्नमिति दूषणं परिहृतम् । अंशेनेति भावप्रधानो निर्देशः । युक्तावित्यस्य शेष इति च स्वीकृत्यांश-त्वेन युक्तावित्यर्थस्योक्तत्वात् ॥ २३ ॥

सत्यधर्मीया

साक्षान्नारायणस्यांशेनावतीर्णौ ॥ २३ ॥

सुमनोरञ्जिनी

किमूचुरित्यतस्तेषां वाक्यान्याह ॥ एतावित्यादिना ॥ साक्षान् मुख्यतः । भगवतः ॥ २३ ॥

स एष किल देवक्यां जातो नीतश्च गोकुलम् ।

कालमेतं वसन् गूढो ववृधे नन्दवेश्मनि ॥ २४ ॥

पदरत्नावली

एतमेतावन्तं कालम् ॥ २४ ॥

सत्यधर्मीया

नीतो वसुदेवेन । एतमेतावन्तं कालम् । नन्दवेश्मनि गूढस्सन् ववृधे ॥२४॥

सुमनोरञ्जिनी

यो देवक्यां जातः गोकुलं प्रति नीतश्च । स एष एव किल । एतं कालम् एतावन्तं कालम् एतावत्कालपर्यन्तमित्यर्थः । गूढः वसुदेवसूनुतया अज्ञातः ॥ २४ ॥

पूतनाऽनेन नीताऽन्तं चक्रवातश्च दानवः ।

अर्जुनौ धेनुकः केशी गुह्यकोऽन्ये च तद्विधाः ॥ २५ ॥

पदरत्नावली

अन्तं विनाशम् । धेनुको वत्सासुरः । गुह्यकः शङ्कचूडः ॥ २५ ॥

सत्यधर्मीया

अन्तं नाशम् । मेना सती सती त्वन्तं मोक्षं नीता गतम् । चक्रवातो दानवस्तृणावर्तासुरोऽर्जुनावन्तं नीतौ । धेन्वाः कं यस्यासौ धेनुको वत्सासुरः । यद्वा मुख्यो हन्ता कृष्ण एवेति धेनुकोक्तिः । उत्तरत्र तु बलो द्वारमिति धेनुकादय इत्युक्तिरिति न विरोधः । गुह्यकः शङ्खचूडस्तद्विधा अन्ये चान्तं नीता इति विपरिणतमन्वेति ॥ २५ ॥

सुमनोरञ्जिनी

किलेति सर्वत्रानुवर्तते । पूतना अनेनैव अन्तं नाशं नीता प्रापिता । चक्रवातस् तद्रूपेणागतो दानवो ऽनेनैव अन्तं नीतः किलेति । अर्जुनौ यमलार्जुनौ । गुह्यकः शङ्खचूडः । अन्ये च तद्विधा धेनुकादिसदृशा व्योमबकादयो ऽसुरा अन्तं नीताः किलेति योजना ॥ २५ ॥

गावः सपाला एतेन दावाग्नेः परिमोचिताः ।

कालियो दमितः सर्पः शक्रश्च विमदः कृतः ॥ २६ ॥

पदरत्नावली

विगतो मदो यस्य स तथा ॥ २६ ॥

सत्यधर्मीया

सपालाः ससंरक्षकाः । विमदो हताहन्तः ॥ २६ ॥

सुमनोरञ्जिनी

सपाला गोपैः सहिताः । कालियस् तदाख्यः सर्पः दमितः शिक्षितः । शक्र इन्द्रः विमदः विगतमदः कृतः ॥ २६ ॥

सप्ताहमेकहस्तेन धृतोऽद्रिप्रवरोऽमुना ।

वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम् ॥ २७ ॥

पदरत्नावली

वर्षवाताशनिभ्यः देवेन्द्रकृतेभ्यः वर्षप्रवाहेभ्यस् तीव्रवेगवद्वातेभ्योऽशनिभ्यश्च

॥ २७ ॥

सत्यधर्मीया

सप्ताहं गतम् । वर्षवाताशनिभ्य इन्द्रमुक्तेभ्यः ॥ २७ ॥

सुमनोरञ्जिनी

अद्रिप्रवरः गोवर्धनः । तेनैव कर्मणा वर्षादिभिर्गोकुलं परित्रातं संरक्षितम्

॥ २७ ॥

गोप्योऽस्य नित्यमुदितहसितप्रेक्षणं मुखम् ।

पश्यन्त्यो विविधांस्तापांस्तरन्ति २स्म श्रमं मुदा । २८ ॥

पदरत्नावली

नित्यमुदितं हसितपूर्वकप्रेक्षणं यस्य तन्मुखं मुदा पश्यन्त्यो विविधांस्तापान् अश्रमं यथा स्यात् तथा तरन्ति स्म ॥ २८ ॥

दुर्घटभावदीपिका

विविधांस्तापांस्तरन्ति स्म श्रममित्यस्य श्रमं दुःखं तत्साधनभूतां विविधां-स्तापांस्तरंति स्मेत्यर्थः । एतेन श्रममित्येतद्विविधांस्तापानित्यनेन पुनरुक्तमिति चोद्यमपास्तम्

॥ २८ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे एकचत्वारिंशोऽध्यायः ॥ १०-४१ ॥

सत्यधर्मीया

नित्यमुदिते हसितप्रेक्षणे यस्य तत् । नित्यमुदितं हसितेन सहितं प्रेक्षणं यस्य तन्मुखमिति वा स्वयं विविधांस्तापांस्तरन्ति स्मातरन् । श्रमं चातरन् ॥ २८ ॥

सुमनोरञ्जिनी

नित्यम् अनारतम् । उदितं हसितं तेन आविर्भूतस्मितेन सहितं प्रेक्षणं यस्मिन् तन्मुखम् । नित्यमुदितं सदा सन्तुष्टं च तत् हसितप्रेक्षणं चेति वा । मुखं नित्यं सदा । मुदा सन्तोषेण पश्यन्त्यः विविधांस्तापान् श्रमञ्च तरन्ति स्म विगतश्रमा भवन्ति स्मेति यावत्

॥ २८ ॥

वदन्त्यनेन वंशोऽयं यदोः सुबहुविश्रुतः ।

श्रियं यशो महत्त्वं च लप्स्यते परिरक्षितः ॥ २९ ॥

पदरत्नावली

अनेन श्रीकृष्णेन परिरक्षितो यदोर्वंशः सुबहुविश्रुतः सुबहुप्रसिद्धः सन् श्रियं यशो महत्त्वं पूज्यत्वं च लप्स्यत इति सन्तो वदन्ति ॥ २९ ॥

सत्यधर्मीया

अनेन श्रीकृष्णेन परिरक्षितो यदोर्वंशः श्रियं यशो महत्त्वं पूज्यत्वं लप्स्यत इति वदन्ति सन्तः ॥ २९ ॥

सुमनोरञ्जिनी

सुबहु विश्रुतो ऽतिख्यातः यदोर्वंशो ऽनेन परिरक्षितः । श्रियादिकं लप्स्यत इति वदन्ति नारदादयः ॥ २९ ॥

अयं चास्याग्रजः श्रीमान् रामः कमललोचनः ।

प्रलम्बो निहतो येन बहवो धेनुकादयः ॥ ३० ॥

पदरत्नावली

समाभाष्य सम्बोध्य ॥ ३० ॥

सत्यधर्मीया

येन बहवो धेनुकादयश्च निहता इत्यन्वेति ॥ ३० ॥

सुमनोरञ्जिनी

अयं श्रीकृष्णस्य पार्श्वे वर्तमानः ॥ ३० ॥

जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च ।

कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् ॥ ३१ ॥

सत्यधर्मीया

संसदि समासीनेषु जनेष्वेवं ब्रुवाणेषु सत्सु तूर्येषु निनदत्सु च कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत् ॥ ३१ ॥

सुमनोरञ्जिनी

तूर्येषु वाद्येषु । समाभाष्य सम्बोध्य ॥ ३१ ॥

हे नन्दसूनो हे राम भवन्तौ वीर्यसम्मतौ ।

नियुद्धकुशलौ श्रुत्वा राज्ञाऽऽहूतौ दिदृक्षुणा ॥ ३२ ॥

सत्यधर्मीया

हे नन्दसूनो । अनेन तव पित्रा वसुदेवेनेतो नीतस्तत्र स्थापित इति निकृतिषु युष्मासु निकृतिमाचरतो मदीश्वरस्य नापराध इति मर्म ध्वन्यते । हे राम भवन्तौ वीर्यसम्मतौ वीर्येण पराक्रमेण सम्मतौ सुख्यातौ नियुद्धे द्वन्द्वयुद्धे कुशलौ शिक्षिताविति श्रुत्वा दिदृक्षुणा राज्ञाऽऽहूतौ ॥ ३२ ॥

सुमनोरञ्जिनी

तदेवाह । हे नन्दसूनो इति । वीर्येण पराक्रमेण संमतौ प्रख्यातौ । नियुद्धे बाहुयुद्धे कुशलौ निपुणाविति श्रुत्वा दिदृक्षुणा भवतोर्नियुद्धं द्रष्टुमिच्छता । राज्ञा भवन्तौ समाहूतौ ॥ ३२ ॥

प्रियं राज्ञः प्रकुर्वन्त्यः श्रेयो विन्दन्ति वै प्रजाः ।

मनसा कर्मणा वाचा विपरीतमतोऽन्यथा ॥ ३३ ॥

पदरत्नावली

वीर्येण पराक्रमेण सम्मतौ प्रख्यातौ । नियुद्धकुशलौ मल्लानामिव बाहुयुद्धे समर्थौ । दिदृक्षुणा मल्लयुद्धदर्शनेच्छुना अन्यथा मनःप्रभृतिकरणत्रयेण राज्ञः प्रियं न कुर्वन्ति चेद् विपरीतमश्रेयो मरणादिकं विन्दन्ति प्राप्नुवन्ति ॥ ३३ ॥

सत्यधर्मीया

राज्ञः प्रियं कुर्वत्यः प्रजाः श्रेयो विन्दन्ति प्राप्नुवन्ति । मनसा कर्मणा वाचेति । त एतस्मादन्यथा चेद्विपरीतं श्रेयो न विन्दन्ति ॥ ३३ ॥

सुमनोरञ्जिनी

वक्ष्यमाणनियुद्धकरणे हेत्वन्तरं चाह ॥ प्रियमिति ॥ विपरीतम् अप्रियम् । प्रकुर्वन्त्यो ऽतोऽन्यथा भवन्ति श्रियं लभन्त इति ॥ ३३ ॥

नित्यं प्रमुदिता गोपा वत्सपालास्तथा स्फुटम् ।

वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः ॥ ३४ ॥

पदरत्नावली

आवयोर्नियुद्धकुशलत्वं कथमवगतमित्यत आह नित्यमिति ॥ मल्लयुद्धेन क्रीडन्तो गाश्चारयन्तीति किंवदन्त्याऽवगतमित्यर्थः ॥ ३४ ॥

सत्यधर्मीया

अस्मन्नियुद्धसन्नद्धता युष्मद्राजेनेव युष्माभिः कथमवगतेत्यत आह ॥ नित्यं प्रमुदिता इति ॥ मल्लयुद्धेन क्रीडन्तो गाश्चारयन्ति स्वभावस्तेषामित्येवमूहयाम इति भावः ॥३४॥

सुमनोरञ्जिनी

वयं गोपा अत एवानभ्यस्तविद्याः कथं नियुद्धनिपुणाः स्मेत्यत आह ॥ नित्येति ॥ ३४ ॥

तस्माद् राज्ञः प्रियं यूयं वयं च करवामहे ।

भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः ॥ ३५ ॥

पदरत्नावली

किं कलहेन फलमिति तत्राह भूतानीति ॥ ३५ ॥

सत्यधर्मीया

यस्मात्सर्वभूतमयो नृपो भूतानि नः प्रसीदन्ति तस्माद्राज्ञः प्रियं यूयं वयं च करवामहे ॥ ३५ ॥

सुमनोरञ्जिनी

तस्मान् नियुद्धकुशलत्वात्तु । राजप्रियकरणे श्रेयः प्राप्तेश्च । राज्ञः कंसस्य प्रियं मल्लयुद्धं यूयं वयं च मिलित्वा करवामहे कुर्मः । न केवलं राज्ञः प्रीतिर् यतो नृपः सर्वभूतमयः सर्वभूतप्रधानः । अतस्तत्प्रसत्या भूतान्यपि प्रसीदन्ति ॥ ३५ ॥

तन्निशम्याब्रवीत् कृष्णो देशकालोचितं वचः ।

नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च ॥ ३६ ॥

सत्यधर्मीया

नियुद्धमात्मन इष्टं मन्यमानोऽभिनन्द्य मनसाऽनुमोद्य तद्वचनं निशम्य देशकालोचितं वचोऽब्रवीत् ॥ ३६ ॥

सुमनोरञ्जिनी

नियुद्धम् आत्मनोऽभीष्टं मन्यमानः कृष्णो ऽभिनन्द्य श्लाघयित्वा ॥३६॥

श्रीभगवानुवाच—

प्रजा भोजपतेर्यूयं वयं चापि वनेचराः ।

करवाम प्रियं नित्यं तन्नः परमनुग्रहः ॥ ३७ ॥

पदरत्नावली

यूयं भोजपतेः प्रजाः । वयं चापि वनेचरा वृन्दावनवासिनः । तथापि वयं तस्य नित्यं प्रियं करवाम इति यत् तस्मान्नोऽस्मभ्यं परमनुग्रह एव ॥ ३७ ॥

सत्यधर्मीया

भोजपतेः प्रजा यूयं वयं चेति सत्यमुक्तं तस्य प्रियमतो नित्यं करवाम तत्तेन नः परमनुग्रहो राजप्रसादः सम्पादितप्रायो भवेत् । भगवदन्तरङ्गिको भावस्तु तत्त-स्माद्युद्धकरणात्परस्यारेः कंसस्य मनुर्मन्त्र आलोचनं तस्य ग्रहो निग्रहो ज्ञानं वा भवति ॥३७॥

सुमनोरञ्जिनी

यूयं भोजपतेः प्रजाः पुत्रवद्विद्यमानाः । वयं तु वनेचराः । अपि तथापि । तस्य प्रियं करवाम । तत् तेन अनुग्रह एव भवेत् ॥ ३७ ॥

बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम् ।

भवेन्नियुद्धं माऽधर्मः स्पृशेन्मल्ल सभासदः ॥ ३८ ॥

पदरत्नावली

वयं बाला इति यदतस्तुल्यबलैः सह क्रीडिष्यामः । नियुद्धं च तादृशैर्यथोचितं यथायोग्यं भवेत् । न तु गिरीन्द्रोपमैर्महामल्लैर्भवद्भिरिति यावत् । तस्माद् हे मल्ल सभासदः सभाधिकृतान् जनान् अधर्मो मा स्पृशेन् न स्पृशतु ॥ ३८ ॥

सत्यधर्मीया

तथाऽपि बालबलवद्युद्धमनुमन्तृराज्ञो बालिशता तथा सभासदामधर्मश्च तदनुवर्तिनां स्यादिति वदति ॥ बाला इति । वयं तुल्यबलैस्तुल्यं बलं येषां ते तैर्यथोचितं यथायोग्यं क्रीडिष्यामो नियुद्धं च तादृशैर्भवेत् । हे मल्ल सभासदोऽधर्मो मा स्पृशेन्न स्पृशतु ॥ ३८ ॥

सुमनोरञ्जिनी

परन्तु वयं बाला अतस्तुल्यबलैर् मल्लैः क्रीडिष्याम एवं चेन्नियुद्धं यथोचितं भवेत् । तेन च मल्लसभासदः सभानायकान् अधर्मः मा स्पृशेन् न स्पृशेत् । नो चेदधर्मो भवेदिति भावः ॥ ३८ ॥

चाणूर उवाच—

न बालो न किशोरस्त्वं बलश्च बलिनां वरः ।

लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् ॥ ३९ ॥

सत्यधर्मीया

चाणूर आरादागतमृतिरिति परिहरति ॥ नेति ॥ त्वं बालोऽपि न किशोरोऽपि न त्वं बलिनां वरो बलोऽपि तथैव । बलिबलीयस्त्वं मम त्वया कथं निरणायीत्यत इत इत्याह ॥ लीलयेति । सहस्रद्विपानां सत्त्वं बलं बिभर्ति स तथा । इभो लीलया येन हत इति बलिनां वरः । हस्रैर्मुखैरम्बष्ठैः सहितः सहस्रः सत्त्वभृच्चासौ द्विपश्च द्विपसत्त्वभृत् । परनिपातः । स चासावयं चेति ॥ ३९ ॥

सुमनोरञ्जिनी

बलश्च बलरामोऽपि सहस्रसंख्यानां द्विपानां गजानां सत्वं बलं बिभर्तीति तथाविध इभः येन त्वया लीलयैव हतः स त्वं न बालः ॥ ३९ ॥

तस्माद् भवद्भ्यां बलिभिर्योद्धव्यं नानयोऽत्र वै ।

मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४० ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे एकचत्वारिंशोऽध्यायः ॥

पदरत्नावली

अनयोऽन्यायलक्षणोऽधर्मः । विक्रम युध्यस्व । बलेन रामेण सह मुष्टिको विक्रमताम् ॥ ४० ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे एकचत्वारिंशोऽध्यायः ॥

सत्यधर्मीया

तस्माद्भवद्भ्यां बलिभिः सहैव योद्धव्यमत्रानयोऽन्यायो न न विद्यते । वार्ष्णेय कृष्ण त्वं मयि विक्रम विक्रमस्व । मुष्टिको बलेन सह विक्रमं करोतु ॥ ४० ॥

॥ इति श्रीमद्भागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे एकचत्वारिंशोऽध्यायः ॥

सुमनोरञ्जिनी

तस्माद्भवद्भ्यां सह । बलिभिरस्मदादिभिरेव । योद्धव्यम् । अत्र अस्मिन्विषये अनयो ऽन्यायः नास्ति । तस्मात् त्वं मयि । विक्रम पराक्रमं कुरु । मुष्टिको बलेन सह विक्रमतु

॥ ४० ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्याम् एकचत्वारिंशोऽध्यायः ॥