१५ चत्वारिंशोऽध्यायः

अथ व्रजन् राजपथेन माधवः स्त्रियं गृहीताङ्गविलेपभाजनाम्

॥ अथ चत्वारिंशोऽध्यायः ॥

श्रीशुक उवाच—

अथ व्रजन् राजपथेन माधवः स्त्रियं गृहीताङ्गविलेपभाजनाम् ।

विलोक्य कुब्जां युवतीं वराननां पप्रच्छ धात्रीं १वचसा रसप्रदः ॥ १ ॥

पदरत्नावली

अथ मालाकारानुग्रहानन्तरम् । गृहीताङ्गविलेपभाजनां गृहीतचन्दनपात्राम् । कुब्जां वक्रशरीराम् । धात्री सैरन्ध्रीम् । वचसा रसप्रदः सुखप्रदः ॥ १ ॥

सत्यधर्मीया

अथ मालालाभानन्तरम् । राज्ञः पन्था राजपथस्तेन व्रजन्माधवो, गृहीतमङ्गविलेपस्य भाजनं पात्रं यया तां स्त्रियं कुब्जां त्रिवक्रां युवतीं तरुणीं वराननां धात्रीं सैरन्ध्रीं विलोक्य प्रहसन्रसप्रद आनन्ददः सुरतरसप्रदो वा पप्रच्छ ॥ १ ॥

सुमनोरञ्जिनी

भगवदपरोक्षानन्तरम् अन्यथारूपप्रहाणेन सुस्वरूपाविर्भावलक्षणमोक्षं प्रसन्नो भगवानेव प्रयच्छतीतीममर्थं व्यंजयितुं तच्छक्तेरघटितघटकतां च व्यंजयन् कुब्जार्ज्वीकरणादिमाहात्म्यं निरूपयत्यस्मिन्नध्याये । अथ राजपथेन राजमार्गेण व्रजन् माधवः । गृहीतानि अङ्गविलेपनस्य चन्दनस्य भाजनानि यया ताम् । काञ्चन स्त्रियं विलोक्य पप्रच्छेत्यन्वयः । कीदृशीं, कुब्जां वक्राम् । किं सर्वाङ्गेषु, नेत्याह ॥ वराननामिति । आननन्तु उत्तममिति भावः । वयसा युवतीं तरुणीं धात्रीं कंसस्येति शेषः । वचसा वाक्येन । रसप्रद आनन्दप्रदः रागप्रदः सन् । कामरागोद्दीपकवचसा प्रपच्छेति भावः ॥ १ ॥

का त्वं २वरोर्वेतदिहानुलेपनं कस्याङ्गने ३वा कथयस्व साधु नः ।

देह्यावयोरङ्गविलेपमुत्तमं श्रेयस्ततस्ते नचिराद् भविष्यति ॥ २ ॥

पदरत्नावली

सोपहासं सम्बोधयति वरोर्विति । साधु सत्यम् । ‘निर्दोषे पेशले सत्ये साधुशब्दं प्रयुज्यते’ इत्यभिधानम् ॥ २ ॥

सत्यधर्मीया

हे अङ्गने वरोरु, सोल्लण्ठवचनम्, उत्तमोत्सङ्गे त्वं का? एतदनुलोपनं कस्य? कंसमुद्दिश्य नयसि? साधु सत्यं यथा तथा कथयस्व । निर्दोषे पेशले सत्ये साधुशब्दं प्रयुज्यत इत्युक्तेः । उत्तममङ्गविलेपनमावयोर्देहि ततो दानात्ते नचिराच्छीघ्रं श्रेयो भविष्यति ॥ २ ॥

सुमनोरञ्जिनी

हे अङ्गने हे वरोरु इदं च भविष्यद्वरोरुत्वाभिप्रायेण न तूपहासरूपम् । रसप्रद इति पूर्वोक्तविरोधात् । त्वं का ? एतदनुलेपनं कस्योद्देशेन नयसि ? एतदित्यावर्तते । एतन् नः साधु सत्यं कथयस्व । निर्दोषे पेशले सत्ये साधुशब्दं प्रयुज्यत इति । आवयो-रुत्तममङ्गविलेपं देहि । ततस् तद्दानेन नचिरात् शीघ्रमेव श्रेयो भविष्यतीति ॥ २ ॥

सैरन्ध्य्रुवाच—

दास्यस्म्यहं ते सुरवर्य सम्मता त्रिवक्रनाम्नी ह्यनुलेपकर्मणि ।

मद्भावितं भोजपतेरतिप्रियं विना युवां कोऽन्यतमस्तदर्हति ॥ ३ ॥

पदरत्नावली

अनुलेपकर्मणि अनुलेपसाधनचन्दनसौरभ्यकर्मणि सम्मता अविप्रतिपन्ना । मद्भावितं मया साधितमनुलेपनं भोजपतेः कंसस्यातिप्रियम् । युवां विनाऽन्येषु प्रसक्तेष्वेकोऽन्यतमः कोऽर्हति । भोजपतेः प्रियमेव न तु भोजपतिरेतदनुलेपनार्ह इति यावत् ॥ ३ ॥

सत्यधर्मीया

कृष्णपृष्टा, सैरन्ध्री परवेश्मस्था शिल्पकृत्स्ववशा स्त्रियामिति विश्वात्सोवाचेत्याह ॥ सैरन्ध्रीति ॥ हे सुरवर्य अहं दास्यस्मि । अनुलेपकर्मणि गन्धलेपनक्रियायां सम्मता किञ्चि-त्प्रसिद्धा । त्रिवक्रेति नाम यस्याः सा त्रिवकनाम्नी । मद्भावितं विलेपनं भोजपतेः कंसस्यातिप्रियं सुरतरतिप्रियमिति वा । युवां विनाऽन्यतमोऽन्यः, अन्यतमो मुकुन्दात्को नाम लोक इतिवत्स्वार्थे तमप्प्रत्ययः । कोऽर्हति योग्यो भवति । अन्येषु प्रसक्तेष्वेकोऽन्यतमः कोऽर्हतीत्यपि वर्णयन्ति

॥ ३ ॥

सुमनोरञ्जिनी

हे सुरवर्य अहं भोजपतेर् दासी अस्मि । त्रिषु स्थानेषु ग्रीवोरःकटिषु वक्रत्वात्त्रिवक्रनाम्नी । अथापि अनुलेपकर्मणि चन्दनादिसुरभीकरणे । सम्मता । अतो मया भावित-मनुलेपनं भोजपतेः कंसस्यातिप्रियम् । एतेन कस्योद्देशेन नयसीति द्वितीयप्रश्नोत्तरं लभ्यते । युवां विना अन्यतमोऽन्यः को अर्हति न कोपि । अतो युवाभ्यां ग्राह्यमिति भावः ॥ ३ ॥

रूपपेशलमाधुर्यहसितालापवीक्षितैः ।

धर्षितात्मा ददौ सान्द्रमुभयोरनुलेपनम् ॥ ४ ॥

पदरत्नावली

रूपं सौन्दर्यम् । पेशलं सौकुमार्यम् । माधुर्यं सरसत्वम् । धर्षितो मोहित आत्मा चित्तं यस्याः सा तथा । सान्द्रं घनीभूतमनुलेपनम् ॥ ४ ॥

सत्यधर्मीया

रूपमाकारसौष्ठवं, पेशलं सुकुमारता, माधुर्यं सरसता, हसितं हासः, आलाप उक्तिः, वीक्षितं कटाक्षविक्षेपस्तैर्धर्षितात्मा धर्षित आत्मा मनो यस्याः सा गतम् । मोहितचित्तोभयोः सान्द्रं घनीभूतमनुलेपनं ददौ ॥ ४ ॥

सुमनोरञ्जिनी

रूपमाकृतिः । पेशलं सौन्दर्यम् । माधुर्यहसिताभ्यां सहितो य आलापः स्मितपूर्वमधुरालाप इत्यर्थः । वीक्षितं च तैर् धर्षितात्मा आकृष्टचित्ता । सान्द्रं घनीभूतम्

॥ ४ ॥

ततस्तावङ्गरागेण सुवर्णेतरशोभिना ।

सम्प्राप्ता२परभागेन शुशुभातेऽनुरञ्जितौ ॥ ५ ॥

पदरत्नावली

स्ववर्णाभ्यां सितासितवर्णाभ्यामितरेण पीतादिवर्णेन शोभाऽस्यास्तीति स्ववर्णेतरशोभी तेन । सम्प्राप्तः परभागो गुणोत्कर्षो येन स तथा । ‘परभागो गुणोत्कर्षः’ इति हलायुधः । भगवदङ्गसङ्गेन सम्प्राप्तगुणोत्कर्षेणाङ्गरागेणेति यावत् ॥ ५ ॥

दुर्घटभावदीपिका

ततोऽनुलेपनदानानन्तरं तौ रामकृष्णौ सुवर्णेतरशोभिना सुवर्णवदितर-वत्सुवर्णेतररजतवच्छोभिना संप्राप्तापरभागेन संप्राप्तौ रामकृष्णौ देहापरभागौ येन तेन संप्राप्तापरभागेनाङ्ग-रागेणानुरञ्जितौ सन्तौ शुशुभाते इति । एतेन संप्राप्तापरभागेनेत्येतद्व्यर्थमिति दूषणं निरस्तम् । एकस्मिन्भागे सुवर्णवर्णाङ्गरागलेपनं कृतमिति वक्तुं संप्राप्तापरभागेनेत्युक्तमित्यभ्युपगमात् ॥ ५ ॥

सत्यधर्मीया

ततस्तौ रामकृष्णौ सुवर्णेतरशोभिना सुवर्णादितरद्रजतं तद्वच्छोभाऽस्यास्तीति तदतिशुभ्रेणेत्यर्थः । स्ववर्णेतरशोभिनेति पाठे स्ववर्णौ सितासितवर्णौ ताभ्यामितरेण पीतेन केशरकुङ्कुमादिमिश्रेण शोभाऽस्यास्तीति व्याकुर्वन्ति । सम्प्राप्तापरभागेन सम्प्राप्तः परभागो यस्य क्लृप्तस्तद्भिन्नो भागोऽपरभागो येन तेन । सम्प्राप्तपरभागेनेति पाठे सम्प्राप्तः परो नाभेरूर्ध्वतनो भागो येन तेनेत्यर्थः । अनुरञ्जितौ शुशुभाते । सम्प्राप्तापरभागेनेत्यत्र मध्ये विद्यमाननञः पूर्वमन्वयः । तथा चासम्प्राप्तपरभागेनेति पदसम्पत्तिः । असम्प्राप्तः परस्य कंसस्य भागो येन स इति वा

॥ ५ ॥

सुमनोरञ्जिनी

सुवर्णं तदितरं रजतम् । तद्वच्छोभितुं शीलमस्येति तथाविधम् । तेन सु समीचीनो वर्ण इतरः सुगन्धस्ताभ्यां शोभितुं शीलमस्येति वा । सम्प्राप्तो ऽपरभागो नाभेरुपरिभागो येन सः । संप्राप्त आसमन्तात्परभागः गुणोत्कर्षो येन । प्रसरत्परिमलेनेति यावदिति वा । भगवदङ्ग सङ्गसम्प्राप्तः परभागविशेषो येनेति वा । एतादृशेन अङ्गरागेण । अनुरञ्जितौ शुशुभात इत्यन्वयः

॥ ५ ॥

प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् ।

ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम् ॥ ६ ॥

पदरत्नावली

तिस्रो ग्रीवोरःकट्यो वक्रा यस्याः सा त्रिवक्रा ताम् । ऋज्वीमवक्रां कर्तुम् । आत्मनो दर्शने यत् फलं तद् दर्शयन् ॥ ६ ॥

सत्यधर्मीया

दर्शने स्वस्य, दर्शयंस्त्रिवक्रां ग्रीवोरःकटितटानि वक्राणि यस्याः सेति त्रिवक्रा । रुचिराननाम् । इदं च ऋज्वीकरणकारणम् । ऋज्वीं कर्तुं मनश्चक्रे ॥ ६ ॥

सुमनोरञ्जिनी

रुचिराननां सुन्दराननाम् । अथापि त्रिवक्राम् । कुब्जां ह्रस्वाम् । स्वस्य दर्शने अपरोक्षदर्शने । फलम् अन्यथारूपप्रहाणेन स्वरूपेण व्यवस्थितिरूपं फलं स्वभक्तानां ददामीति दर्शयन् व्यञ्जयन् । स्वभक्तानामिति शेषो ऽस्या अपि । या पिङ्गलान्यभव आत्मनि संस्थितं तं संस्मृत्य कान्तमुरुगायमभूत्त्रिवक्रेति निर्णयानुसारेण भक्तत्वं ज्ञेयम् । अनेन मतान्तराभिमतमोक्षस्वरूपं निराकृतं भवति भगवता बादरायणेन ॥ ६ ॥

पद्भ्यामाक्रम्य प्रपदे द्व्यङ्गुलोत्तानपाणिना ।

प्रगृह्य चुबुके २ह्यास्यमुदनी३नयदच्युतः ॥ ७ ॥

पदरत्नावली

तस्याः प्रपदे पादाग्रद्वयं स्वपद्भ्यामाक्रम्य अवष्टभ्य द्व्यङ्गुलमुत्तानमूर्ध्वीकृतं यस्य सस् तथाभूतेन पाणिना चिबुके अधराधोभागे आस्यं प्रगृह्य उदनीनमद् उन्नमयामास ॥ ७ ॥

सत्यधर्मीया

पद्भ्यां स्वपदाभ्यां तस्याः प्रपदे आक्रम्य । प्रह्रे इति पिङ्गलनागसूत्रात्प्रे परतः सतिम्यो न गुरुरिति न छन्दोभङ्गः । द्व्यङ्गुलं गतम् उत्तानमूर्ध्वीकृतं यस्य स पाणिस्तेन चुबुके हनुप्रदेशे प्रगृह्यास्यमुदनीनयदुन्नमयामास ॥ ७ ॥

सुमनोरञ्जिनी

ततः किं चकारेत्यत आह ॥ पद्भ्यामिति । पद्भ्यां स्वपादाभ्यां कुब्जायाः प्रपदे आक्रम्य अवष्टभ्य । द्व्यङ्गुले उन्नते उत्ताने यस्मिन् पाणौ तेन द्व्यङ्गुलोन्नतपाणिना । चुबुके मुखस्याधोभागे । आस्यं प्रगृह्य । उदनीनयद् उन्नमयामास । ऊर्ध्वमाचकर्षेत्यर्थः ॥ ७ ॥

सा तदार्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा ।

मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा ॥ ८ ॥

पदरत्नावली

तदैव ऋजु समानं चाङ्गं यस्याः सा तथा ॥ ८ ॥

सत्यधर्मीया

स तदैव । ऋजु समानमङ्गं यस्याः सा । बृहत्यौ बृहन्त्यौ चेति बृहन्तः श्रोणी च पयोधरौ च ते यस्याः सा । मुकुन्दस्पर्शात्सद्यः प्रमदोत्तमा बभूव ॥ ८ ॥

सुमनोरञ्जिनी

सा तदा मुकुन्दस्य मोक्षप्रदस्य हरेः स्पर्शनात् । ऋजु अवक्रं समानं समुचितसंस्थानम् अङ्गं शरीरं यस्याः सा । बृहन्तौ श्रोणी नितम्बौ तत्सहितौ च पयोधरौ यस्याः सा । एवंविधा भूत्वा सद्य एव प्रमदानामुत्तमा बभूवेति ॥ ८ ॥

ततो रूपगुणौदार्यसम्पन्ना प्राह केशवम् ।

उत्तरीयान्तमाकृष्य सस्मयं जातहृच्छया ॥ ९ ॥

पदरत्नावली

उत्तरीयान्तम् उत्तरीयचैलाञ्चलम् । सस्मयं समदम् । जातो हृच्छयः कामो यस्याः सा तथा ॥ ९ ॥

सत्यधर्मीया

ततो, रूपं गुणानामौदर्यं च ताभ्यां सम्पन्ना । उत्तरीयान्तं चैलाञ्चलमाकृष्य सस्मयं सगर्वं जातो हृच्छयो मन्मथो यस्याः सा केशवं प्राह ॥ ९ ॥

सुमनोरञ्जिनी

उत्तरीयान्तम् उत्तरीयवस्त्रप्रान्तम् । जात उद्रिक्तो हृच्छ्रयः कामो यस्याः सा ॥ ९ ॥

एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे ।

त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ ॥ १० ॥

पदरत्नावली

त्वयोन्मथितचित्ताया विलोलितमनसो मम प्रसीद ॥ १० ॥

सत्यधर्मीया

हे वीर एहि, गृहं यामस्त्वां त्यक्तुं नोत्सहे त्वयोन्मथितं चित्तं यस्याः सा तस्याः । हे पुरुषर्षभ प्रसीद ॥ १० ॥

सुमनोरञ्जिनी

उन्मथितम् आकृष्टं चित्तं यस्यास् तस्याः ॥ १० ॥

एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः ।

मुखं १वीक्ष्यानुगानां च प्रहसंस्तामुवाच ह ॥ ११ ॥

सत्यधर्मीया

एवं स्त्रिया याच्यमानः कृष्णो रामस्यार्यस्य पश्यतस्ततोऽनुगानां च मुखं वीक्ष्य । अनेनैकान्तिकं कार्यं नार्यादिसन्निधाने कार्यमियं च मन्मथमथितचित्तेति न जानमाना तत्कालं समाधेयेति कृत्वा वदति ॥ प्रहसन्निति ॥ ११ ॥

सुमनोरञ्जिनी

अनुगानां रामस्य च । मुखं वीक्ष्य ॥ ११ ॥

एष्यामि ते गृहं सुभ्रु पुंसामाधिविकर्शनम् ।

साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम् ॥ १२ ॥

पदरत्नावली

हे सुभ्रु साधितः कंसवधरूपोऽर्थः प्रयोजनं येन सः साधितार्थः सन् पुंसामाधिविकर्शनं मनःपीडाप्रशमनं ते गृहमेष्यामि । अगृहाणां स्वकीयत्वेन गृहरहितानां पान्थानां पथिकानां नस्त्वं परायणं मुख्याश्रया ॥ १२ ॥

सत्यधर्मीया

हे सुभ्रु पुंसामाधिविकर्शनं ते गृहम् । पुंसामाधिविकर्शनमिति पदमेकम् । पुंसाम् आधिविकर्शनं येन तदिति वा । साधितोऽर्थः कंसहिंसाद्यात्मा येन स सन् एष्यामि । अपदेशे-नोपदिशति । अगृहाणां स्वकीयत्वेन गृहरहितानां पान्थानां पथिकानां नस्त्वं परायणं मुख्याश्रय इति । आन्तरङ्गिको हरिभावस्त्वगृहाणामसहानीतवनितानां पान्थानां त्वं तत्त्वेन परायणमिति ॥ १२ ॥

सुमनोरञ्जिनी

हे सुभ्रु अहं साधितार्थः सन् साधितोऽर्थः कंसवधलक्षणं प्रयोजनं येन सः । पुंसामाधेर् मन्मथव्यथाया विकर्शनं परिहारकम् । ते गृहं प्रति एष्यामि । किञ्च अगृहाणां गृहरहितानाम् । अकृतदाराणां वा । पान्थानां प्रवासिनाम् । नो ऽस्माकम् । त्वं मुख्याश्रय इत्यर्थः ॥ १२ ॥

विसृज्य माध्व्या वाण्या तां व्रजन् मार्गे वणिक्पथैः ।

नानोपायनताम्बूलस्त्रग्गन्धैः साग्रजोऽर्चितः ॥ १३ ॥

पदरत्नावली

माध्व्या मधुरया । वणिजां पन्थानो येषां ते वणिक्पथास्तैर्वाणिज्यवर्त्मवर्तिभि-र्वणिग्भिरर्चितः । नानाविधैरुपायनैः रत्नादिभिस् ताम्बूलादिभिश्च ॥ १३ ॥

सत्यधर्मीया

माध्व्या मधुरया वाण्या तां त्रिवक्रां विसृज्य । वणिजां पन्थानो येषां ते तैर्जनैर्नानोपायनानि वक्ष्यमाणविलक्षणानि च ताम्बूलस्रग्गन्धैः करणैः । माध्व्या वाण्याऽप्यत्रान्वेति । मधुरया वाण्या च साग्रजः सबलोऽर्चितोऽभूत् ॥ १३ ॥

सुमनोरञ्जिनी

माध्व्या मधुरया । तां विसृज्य प्रस्थाप्य । वणिक्पथैर् वणिक्पथाश्रितैर् जनैर् नानोपायनताम्बूलादिभिः साधनैरर्चितः ॥ १३ ॥

ततः पौरान् पृच्छमानो धनुषः स्थानमच्युतः ।

तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रमिवाद्भुतम् ॥ १४ ॥

सत्यधर्मीया

ततस्तं पुरो गच्छन्तं कञ्चिद्गोपमच्युतो धनुषः स्थानं पृच्छ नो माऽऽलस्यमिति शेषः । राक्षसैर् गतम् । अब्रवीत् । तस्मिन्पृच्छन्तं प्रति लोकावेदिते स्थाने प्रष्टा पृच्छमानः पृच्छन् । व्यत्ययेन सर्ववेदितुरियं लीलेति ध्वनयति । ऐन्द्रं धनुरिवाद्भुतं धनुर्ददृशे ॥ १४ ॥

सुमनोरञ्जिनी

धनुषः स्थानं धनुःशालां पृच्छमानः । तस्मिन् तस्यां शालायाम् । ऐन्द्रं धनुरिव इन्द्रचापमिव । अत्यद्भुतम् आश्चर्यकरम् ॥ १४ ॥

पुरुषैर्बहुभिर्गुप्तमर्चितं परमर्द्धिमत् ।

वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे ॥ १५ ॥

पदरत्नावली

तस्मिन् धनुषः स्थाने प्रविष्ट ऐन्द्रं धनुरिवाद्भुतं धनुर्ददृशे । ‘स तयोर्दर्शयामास तद् धनुः स्तम्भसन्निभम् । अनारोप्यमसम्भेषु देवैरपि सवासवैः’ इति हरिवंशवचनम् ॥ परमा ऋद्धिः सम्पत्तिरस्यास्तीति परमर्द्धिमत् तत् । प्रसह्य बलात् ॥ १४,१५ ॥

सत्यधर्मीया

बहुभिरनेकैः पुरुषैर्गुप्तं रक्षितं तैरर्चितं च परमा च ऋद्धिश्च सम्पच्च साऽस्यास्तीति तत् । अनृभिरनोऽस्मच्छकटादिकं मा पृच्छ । तद्रक्षकैर्वार्यमाणो निवार्यमाणः प्रसह्य बलात्कृत्य धनुराददे न तु शक्यमित्यविदित्वा झडिति भगवान्कुतोऽकरोद्धरणमिति नेत्यप्याह । प्रसह्य धनुः स्वेन सोढुं शक्यं प्रकर्षेणेति ते च तद्धनुश्चेति ॥ १५ ॥

सुमनोरञ्जिनी

गुप्तं रक्षितम् । प्रसह्य बलात् ॥ १५ ॥

करेण वामेन सलीलमुद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम् ।

नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षुदण्डं मदकर्युरुक्रमः ॥ १६ ॥

पदरत्नावली

ज्यया मौर्व्या सहितं सज्यम् । निमिषेण पक्ष्मस्पन्दनकालेन । मदकरी मत्तमतङ्गजः । उरुक्रमो भूरिविक्रमः । ‘क्रमश्चानुक्रमे शक्तौ कल्पे चाक्रमणे तथा’ इत्युत्पलमाला

॥ १६ ॥

सत्यधर्मीया

करेणोद्धृत्य प्राग्व्यतनुत च गुणावेदनमसौ प्रभुः पादाघातं तदनु विरचय्याश्व्य-नमयत् ।

अथो लीलाबालः करधृतधनुर्भग्नमकरोद्बलान्नम्रीभूते किमिह करुणा शुष्कहृदये ।

सद्वंशजातोऽपि गुणान्वितोऽपि शिक्षानुरूपोऽपि स तेन चापः ।

भग्नः शनैर्वक्रहृदो हि लोके को वा गुणः कोविदमानयोग्यः ।

इत्यभिप्रेत्याह ॥ करेणेति । वामेन करेण सलीलमिति तदलभ्यतया हेलनं ध्वनयति । उद्धृतं सज्जं ज्यया गुणेन सहितं चात्कृत्वा निमिषेण क्षणार्धकालेनानिमिषेण निमिषौ निमीलनोन्मीलने न स्तो यस्य तेन चक्षुषा नृणां पश्यतामिति वा यथा मदकरीक्षुदण्डं मदवद्धस्ती तथोरुक्रमः कृष्णो मध्यतो मध्ये प्रबभञ्ज ॥ १६ ॥

सुमनोरञ्जिनी

सलीलं लीलया अनायासेन सहितं यथा भवति तथा । वामेन करेणोद्धृतम् । निमिषेण निमिषपरिमितकालेन । सज्जं कृत्वा । नृणां पश्यतां सताम् । उरुक्रमः ज्यां विकृष्य मध्यत एव बभञ्ज । तत्र दृष्टान्तः । मदेन युक्तः करी गज इक्षुदण्डं यथेति ॥ १६ ॥

धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः ।

पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥ १७ ॥

पदरत्नावली

रोदसी द्यावाभूमी । यं शब्दम् ॥ १७ ॥

सत्यधर्मीया—

भग्नश्चापः स्वभर्तुः प्रतिभयनिनदैर्धैर्यचौर्यं ततान

व्यग्रस्वान्तान्स्वपालान्दृढतरशकलद्वन्द्वघातैर्जघान ।

भङ्गेनैवोग्रमल्लप्रकरहृदि भयं भल्लकल्पं चखान

द्वैधीभावं विपक्षे विरचयति बत स्वीय एव स्वशत्रुः ।

इति भगवद्भग्नधनुर्ध्वनित इयदापदुपयातेत्याह ॥ धनुष इति ॥ भज्यमानस्य धनुषः शब्दो ध्वनिः खंरोदसी द्यावापृथिव्यौ दिशः पूरयामास यं शब्दं श्रुत्वा कंसः स्वयं त्रासं भयमुपागमज्जगाम

॥ १७ ॥

सुमनोरञ्जिनी

खम् आकाशम् । रोदसी द्यावाभूमी । त्रासं भयम् ॥ १७ ॥

तद्रक्षिणः सानुचराः कुपिता आततायिनः ।

ग्रहीतुकामा आवव्रुर्गृह्यतां वध्यतामिति ॥ १८ ॥

पदरत्नावली

तद्रक्षिणः कार्मुकपालकाः । आततायिनः जिघांसया शस्त्रपाणयः । आवव्रुरावृण्वन् ॥ १८ ॥

सत्यधर्मीया

तद्रक्षिणो धनुरक्षकाः सानुचराः स्वस्वभृत्याः कुपिता आततायिन आयुधेष्वायुधधरा गृहीतुकामा हन्तुकामाश्च गृह्यतां वध्यतामित्यावव्रुरावृण्वन् ॥ १८ ॥

अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ ।

क्रुद्धौ धनुष आदाय शकले तांश्च जघ्नतुः ॥ १९ ॥

पदरत्नावली

तानावृतान् दुरभिप्रायान् जिघांसून् । धनुषः शकले द्वे खण्डे आदाय

॥ १९ ॥

सत्यधर्मीया

दुर्दुष्टो भावो येषां तान्विलोक्य धनुषः शकले आदाय ताभ्यामेव तांश्च जघ्नतुः

॥ १९ ॥

सुमनोरञ्जिनी

तद्रक्षिणस् तस्य धनुषो रक्षकाः । आततायिनः शस्त्रपाणयः गृह्यतामित्यादि वदन्तो, दुरभिप्रायान् दुष्टो ऽभिप्रायः श्रीकृष्णग्रहणविषयो येषां तान् । धनुषः शकले द्वे खण्डे

॥ १८,१९ ॥

बलं च कंसप्रहितं हत्वा शालामुखात् ततः ।

निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः ॥ २० ॥

पदरत्नावली

कंसप्रहितं कंसप्रेषितं बलं सैन्यं च हत्वा ततः शालामुखाद् धनुर्गृहद्वारान्निष्क्रम्य । ‘चमूरनीकिनी सेना बलं सैन्यं पताकिनी’ इत्युत्पलमाला ॥ २० ॥

सत्यधर्मीया

कंसप्रहितं बलं सेनाम् । सेना नाप्ता चेत्स्वयं भवति भिन्ना विद्रुत्वा द्रुतं न तथेदमित्यप्याह ॥ प्रहितमिति । प्रकर्षेण हितमेव यस्मात्तदिति । शालामुखाद्धनुर्गृहद्वारात् । शाले गृहे, मुखं निःसरण इति विश्वौ । निष्क्रम्य पुरसम्पदो निरीक्ष्य हृष्टौ विचेरतुः ॥२०॥

सुमनोरञ्जिनी

कंसेन प्रहितं प्रेषितं बलं सैन्यम् । शालामुखाद् धनुःशालाद्वारात् शालाश्रेष्ठादिति वा ॥ २० ॥

तयोस्तदद्भुतं वीर्यं १निशम्य पुरवासिनः ।

तेजः प्रागल्भ्यरूपं च मेनिरे विबुधोत्तमौ ॥ २१ ॥

पदरत्नावली

वीर्यं कोदण्डखण्डनादौ पराक्रमम् । तेजः प्रभावः, प्रागल्भ्यं धार्ष्ट्यम्, रूपं कन्दर्पकोटिलावण्यम् । एकवद्भावः । विबुधोत्तमौ देवश्रेष्ठो ॥ २१ ॥

सत्यधर्मीया

वीर्यं पराक्रमं, तेजः कायकान्तिं, प्रागल्भ्यं धार्ष्ण्यं, रूपमाकारम् । एकवद्भावः । प्रागल्भ्येन सहितं च तद्रूपं चेति वा । पुरवासिनो निशम्य तौ विबुधोत्तमौ देववरौ मेनिरे व्यजानन् ॥ २१ ॥

सुमनोरञ्जिनी

तद् वीर्यं पराक्रमं प्रागल्भ्येन धार्ष्णेन सहितं रूपम् । निशम्य विबुधोत्तमौ देवोत्तमाविति मेनिरे ॥ २१ ॥

तयोर्विचरतोः स्वैरमादित्योऽस्तमुपेयिवान् ।

कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतुः ॥ २२ ॥

पदरत्नावली

अस्तम् अस्ताचलम् । शकटं शकटस्थानम्, नन्दादीनां विश्रमस्थानमिति यावत् ॥ २२ ॥

सत्यधर्मीया

स्वैरं मरणभीत्या केऽपि न न्यवारयन्निति यथेच्छम् । आदित्योऽस्तमुपेयिवान् । सोमवंशसम्भूतप्राभवावलोकनविलम्बमवलम्ब इति कंसायुरद्य वर्तत इति वाऽस्तं गत, उत देवानां वार्तामाख्यातुं वेति ध्वनिः । नावपि स्वमूलपुरुषद्विषामहनीयोऽहन्यस्मन्महिमेति गोपैर्वृतौ रामकृष्णौ पुराच्छकटमर्धचन्द्रीकृतशकटस्थानमीयतुः ॥ २२ ॥

सुमनोरञ्जिनी

स्वैरं विचरतोः सतोर् अस्तम् अस्तगिरिम् । पुरात् पुरं हित्वा । शकटं शकटमोचनस्थानम् ॥ २२ ॥

अवनिज्याङ्घ्रियुगलं भुक्त्वा क्षीरोपसेचनम् ।

ऊषतुस्तां सुखं १रात्रीं ज्ञात्वा कंसचिकीर्षितम् ॥ २३ ॥

पदरत्नावली

क्षीरमुपसेचनं यस्य तत् क्षीरोपसेचनं क्षीरान्नम् । ‘रात्रौ क्षीरान्नभोजनम्’ इत्यादेः रात्रौ दधिनिषेधात् । कंसस्य चिकीर्षितं रङ्गभूमौ स्ववधविधापनेच्छां ज्ञात्वाऽपि तां रात्री सुखं यथा तथोषतुः ॥ २३ ॥

सत्यधर्मीया

अङ्घ्रियुगलं पादद्वन्द्वमवनिज्य प्रक्षाल्य क्षीरोपसेचनं क्षीरान्नं रात्रौ दधि-निषेधात् । कंसचिकीर्षितं कंसालोचितस्वहिंसादिकं ज्ञात्वाऽपि तां रात्रिं सुखं यथा तथोषतुः । सुखमिति श्रुतैतद्वृत्तयोरपि तदलभ्यतां सूचयति ॥ २३ ॥

सुमनोरञ्जिनी

अवनिज्य प्रक्षाल्य । क्षीरम् उपसेचनं यस्य तत् । अन्नमिति शेषः । कंसेन चिकीर्षितं कर्तुमिच्छाविषयम् । सुखं यथा स्यात्तथा ॥ २३ ॥

कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च ।

वधं निशम्य गोविन्दरामविक्रीडितं परम् ॥ २४ ॥

सत्यधर्मीया

रक्षिणां धनुषस्तथा धनुषश्च भङ्गं स्वबलस्य च वधं निशम्य परं केवलं रामकृष्णयोर्विक्रीडितं तल्लीलारूपम् ॥ २४ ॥

सुमनोरञ्जिनी

रक्षिणां धनूरक्षिणाम् । बलस्य च स्वप्रेषितसैन्यस्य च वधम् । अपरं च गोविन्दरामादिभ्यो विक्रीडितं रजकवधादिकम् । यद्वा धनुर्भङ्गादिकम् । गोविन्दरामयोः परं केवलं विक्रीडितमेव । न तु पराक्रमरूपमेवेति निशम्येति सम्बन्धः ॥ २४ ॥

दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः ।

बहून्यचष्टोभयथा १मृत्योर्दूतकराणि च ॥ २५ ॥

पदरत्नावली

कंसस्तु परं केवलं गोविन्दरामयोर्विक्रीडितं लीलारूपं धनुषो भङ्गं तद्रक्षिणां स्वबलस्य स्वप्रेषितसैन्यस्य च वधं निशम्याकर्ण्य भीतो दुर्मतिर् दीर्घं प्रजागरो जागरणं यस्य सः दीर्घप्रजागरोऽलब्धनिद्र उभयथा दैहिकानि बाह्यानि च बहूनि मृत्योर्दौत्यमिव कुर्वन्तीति दौत्यकराणि तूर्णं मरणसूचकानि अचष्ट अपश्यत् ॥ २४,२५ ॥

सत्यधर्मीया

दीर्घं प्रजागरो जागरणं यस्य सोऽलब्धनिद्रः, कदाचित्तत्प्राप्तौ दुर्मतिर्दुर्निमित्ता-न्युभयथा दैहिकबाह्यभेदेन भीतो बहून्यचष्टापश्यत् । कीदृशानीत्यत ईदृशानीत्याह ॥ मृत्योर्दूतकराणि शीघ्रं मरणसूचकानीति ॥ २५ ॥

सुमनोरञ्जिनी

तेन भीतस् तत एव च दीर्घं प्रजागरो निद्राभावो यस्य स तथाविधः । मृत्योर्दौत्यकराणि आगतं मृत्युं कथयन्ति । मृत्युसूचकानीति यावत् । उभयथा स्वप्ने जागरे च दुर्निमित्तानि दुश्चिह्नानि । अचष्ट अपश्यत् ॥ २५ ॥

अदर्शनं स्वशिरसः प्रतिरूपेषु सत्स्वपि ।

असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ २६ ॥

छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः ।

स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥ २७ ॥

पदरत्नावली

तान्येव व्यनक्ति अदर्शनमित्यादिना । दर्पणादिषु प्रतिरूपेषु प्रतिबिम्बेषु सत्स्वपि स्वशिरसः स्वशिरःप्रतिबिम्बस्यादर्शनम् । द्वितीये करालकृष्णदन्तपुरुषमर्कटादावसत्यपि तं द्वितीयमचष्ट । तथा ज्योतिषां चन्द्रदीनां द्वैरूप्यं द्वित्वं ददर्शेत्यर्थः । ‘अथाप्यादर्शे वोदके वा जिह्मशिरसं वाऽशिरसं वाऽऽत्मानं पश्येत्’, ‘पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति वराह एनं हन्ति मर्कट एनमास्कन्दयत्याशु वायुरेनं प्रवहति’ इत्यैतरेयोक्तेः ॥

छायायां छिद्रप्रतीतिः सुषिरप्रतीतिः । कराभ्यां कर्णरन्ध्रयोः पिहितयोः सतोरन्तः श्रूयमाणो यो ध्वनिः सः प्राणघोषः वायुकृतप्रणवनादस्तस्यानुपश्रुतिरश्रवणम् । वृक्षेषु स्वर्णप्रतीतिस्तद्वर्णप्रतिभानम् । पृथिव्यां स्वपदानां तल्लाञ्छनानामदर्शनम् । ‘अथापि यत्र छिद्र इवादित्यो दृश्यते रथनाभिरिवाभिख्यायेत छिद्रां वा च्छायां पश्येत् तदप्येवमेव विद्यात्’ इत्यादिश्रुतेः ॥ २६,२७ ॥

दुर्घटभावदीपिका

दर्पणादिषु प्रतिरूपेषु प्रतिबिम्बेषु सत्स्वपि स्वशिरसः स्वशिरःप्रतिबिम्बस्या- दर्शनं जातम् । द्वितीये विरोधिनि द्वितीयपुरुषेऽसत्यपि द्वितीयं चाचष्ट । तथा ज्योतिषां चन्द्रादि-ज्योतिषां द्वैरूप्यं द्वित्वमाचष्टेति । एतेन द्वितीयचन्द्रादेः कदाऽपि सत्वाभावात् । द्वितीये चन्द्रादौ ज्योतिष्यसत्यपीति कथनमनुपपन्नमिति दूषणं परास्तम् । द्वितीय इत्यावृत्तिमर्थवशाद्द्वितीयामिति विपरिणाममाचष्टेत्यनेनान्वयं चाङ्गीकृत्यासत्यपि द्वितीयपुरुषे द्वितीयपुरुषमाचष्टेत्यर्थस्योक्तत्वात्

॥ २६ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे चत्वारिंशोऽध्यायः ॥ १०-४० ॥

सत्यधर्मीया

तान्येव वितत्य वक्ति ॥ अदर्शनमिति ॥ प्रतिरूपेषु छायालक्षणप्रतिबिम्बेषु सत्स्वपि स्वशिरसोऽदर्शनम् । द्वितीये चन्द्रेऽसत्यपि वस्तुतद्द्वैरूप्यं चन्द्रयोः । तथा ज्योतिषां श्रवणादिद्वयदर्शनम् । छायायां सुषिरप्रतीतिः । प्राणघोषस्य कराभ्यां कर्णयोः पिधाने वायुकृत-प्रणवनादानुपश्रुतिरश्रवणम् । तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिवेत्यादि । तद्भाष्ये च ।

प्राणसंस्थः स वै विष्णुः प्राणाग्नौ संव्यवस्थितः ।

स्पर्शेन दृश्यते चाग्निस्तद्दृष्टिरिव सा ततः ।

स प्राणः स्तौति तं विष्णुं सा श्रुतिः श्रूयते सदा ।

कर्णौ पिधाय तद्विद्वान्दिव्यचक्षुः सुकीर्तिमान् ।

मुक्तो भूत्वा भवेद्यस्मादुपासीतैव सन्ततम् । इति सत्तत्त्वे ।

इत्युक्तेर्मृतिरासन्ना चेदयं न श्रूयत इति प्राणघोषानुपश्रुतिरिति । वृक्षेषु स्वर्णप्रतीतिस्तद्वर्ण-प्रतिभानम् । रजस्वलायामपि भूमौ स्वपदानां तल्लाञ्छनानामदर्शनम् ॥ २६,२७ ॥

सुमनोरञ्जिनी

तान्येवाह । प्रतिरूपेषु छायादिषु । सत्स्वपि सत्वेन प्रतीयमानेष्वपि । तत्र स्वशिरसः शिरश्छायाया अदर्शनम् । ज्योतिषां चन्द्रादीनां मध्ये । द्वितीये चन्द्रादौ असत्यपि तत्र द्वैरूप्यं द्विरूपतादर्शनम् । तथा ज्योतिषां सूर्यादीनां मध्ये । छायायां प्रतिबिम्बे च छिद्रप्रतीतिः सुषिरप्रतीतिः । प्राणघोषानुपश्रुतिः । कर्णे पिहिते । अन्तःप्राणेन मुख्यप्राणेन क्रियमाणो यो घोषः श्रूयते जनैस् तस्याश्रवणम् । वृक्षे स्वर्णवर्णप्रतीतिः । कर्दमादिस्थले स्वपदानां स्वपाद-लाञ्छनानामदर्शनम् ॥ २६,२७ ॥

स्वप्ने प्रेतपरिष्वङ्गः खरयानं बिसादनम् ।

यायान्नलदमाल्येकस्तैला१भ्यङ्गो दिगम्बरः ॥ २८ ॥

पदरत्नावली

प्रेतैर्मृतैः परिष्वङ्ग आलिङ्गनम् । खरमारुह्य यानम् । बिसादनं कमल-नालभक्षणम् । नलदमाली रक्तपुष्पमाली यायादिति यत् तदप्येकं दुर्निमित्तम् । ‘बिसानि भक्षयति पुण्डरीकं धारयति खरैर्वराहैर्युक्तैर्याति कृष्णां धेनुं कृष्णवत्सां नलदमाली दक्षिणामुखो व्राजयति’ इति चैतरेयश्रुतिः ॥ २८ ॥

सत्यधर्मीया

जागरित ईरयित्वा स्वप्नेऽप्याह ॥ स्वप्न इति । प्रेतपरिष्वङ्गः शवालिङ्गनम् । खरयानं खरोपर्युपविश्य गमनम् । बिसादनं कमलबीजभक्षणम् । नलदमाली पद्मविशेषसंज्ञा ।

पद्ममालां शिरः कृत्वा यो गच्छेद्दक्षिणामुखः ।

एवं पश्यन्निशि स्वप्ने तत्क्षणान्मृत्युमेष्यति । इति स्वप्ननिदर्शन इति ।

तदमृणालं चाभयं नलदं सेव्यममृणालं जलाशयमित्यमरः । अथवा जपाकुसुममालावान्रक्तकरवीरं नलदमित्यपरे । तैलस्याभ्यङ्गं यस्य स तथा । दिगम्बरश्च यायाच्चेदपशकुनमित्यर्थः ॥ २८ ॥

अन्यानि चेत्थम्भूतानि स्वप्नजागरितानि च ।

पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥ २९ ॥

सत्यधर्मीया

इत्थम्भूतान्येतत्सजातीयानि मरणसूचकानि स्वाप्नजागरितानि च पश्यन्मरणात् त्वरया भविष्यतः सन्त्रस्तो भीतश्चिन्तयैवं सञ्चिन्तया निद्रां न लेभे । तत्रोभयथा जागरितस्वप्नविभेदत उभयेत्यप्यर्थः सम्भवतीति ज्ञेयम् ॥ २९ ॥

सुमनोरञ्जिनी

जागरितान्युत्क्वा स्वाप्नान्याह ॥ स्वप्न इति ॥ प्रेतस्य कुणपस्य परिष्वङ्ग आलिङ्गनम् । खरयानं खरमारुह्य गमनम् । बिसस्य कमलनालस्य अदनं भक्षणम् । विषादनमिति केषाञ्चित्पाठकल्पनं मध्वश्नाति बिसानि भक्षयतीति ऐतरेयश्रुत्यनालोचनमूलम् । नलदमाली नलदपुष्पाणां रक्तकरवीरपुष्पाणां मालाधारी यायादिति यत् तद् इत्येतानि दुर्निमित्तानि ज्ञेयानीति शेषः ॥ २८,२९ ॥

व्युष्टायां निशि कौरव्य सूर्ये १चाभिसमुत्थिते ।

कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ॥ ३० ॥

पदरत्नावली

निशि व्युष्टायां निवृत्तायाम् । अभिसमुत्थिते, उदयाचलादिति शेषः ॥३०॥

सत्यधर्मीया

निशि व्युष्टायां तत्प्रातरादिभागे चेत्यर्थः । सूर्ये चाद्भ्यः समुत्थित इति पाठे, य उदगान्महतोऽर्णवाद्विभ्राजमानः सलिलस्य मध्यात् । समावृषभो लोहिताक्षः सूर्यो विपश्चिन्मनसा पुनात्विति श्रुतेरद्भ्यः समुत्थितत्वं सूर्यस्य ज्ञेयम् । अभिसमुत्थित इति पाठेऽप्युदयपर्वतादित्यप्यर्थः ॥ ३० ॥

सुमनोरञ्जिनी

निशि व्युष्टाव्यां निवृत्तायाम् । अभिसमुत्थिते अभ्युदिते ॥ ३० ॥

**आनर्चुः पुरुषा रङ्गं तूर्यभेर्यश्च जघि्नरे । **

मञ्चाश्चालङ्कृताः स्रग्भिः पताकाचैलतोरणैः ॥ ३१ ॥

पदरत्नावली

पणवानकगोमुखादिकं तूर्यम् । जघि्नरे वादयाञ्चक्रिरे ॥ ३१ ॥

सत्यधर्मीया

तूर्येण सहिता भेर्यो भेरीर्जघि्नरे । चैलतोरणैर्वस्त्रकृततोरणैरलङ्कृताः ॥३१॥

तेषु पौरा जानपदा ब्रह्मक्षत्त्रपुरोगमाः ।

यथोपजोषं विविशू राजानश्च कृतासनाः ॥ ३२ ॥

पदरत्नावली

ब्रह्मक्षत्त्रपुरोगमा ब्राह्मणक्षत्त्रियप्रधानाः । यथोपजोषं यथासुखम् । महोत्सवदर्शनार्थे कृतानि दत्तानि आसनानि सिंहासनानि येषां ते कृतासनाः ॥ ३२ ॥

सत्यधर्मीया

ब्रह्माणि ब्राह्मणाः क्षत्राणि तज्जातय एतानि पुरोगमानि येषां ते पौरा जानपदाश्च यथोपजोषं यथेच्छं यथासुखं वा गतम् । विविशुः । कृतासना राजान इतरे पूर्वं कृतमासनं कंसेन येषां त एतर्ह्युत्सवदर्शनार्थे कृतान्यासनानि येषां त इति वा ॥ ३२ ॥

सुमनोरञ्जिनी

रङ्गं रङ्गस्थानम् । तूर्याणि गोमुखादिवाद्यानि । जघि्नरे वादिताः । पताकाभिश् चैलतोरणैर् वस्त्रमयतोरणैः । ब्रह्मक्षत्रं च पुरोगमं मुख्यं येषां ते । यथोपजोषं यथासुखम् । राजानो मण्डलेश्वराः ॥ ३२ ॥

कंसः परिवृतोऽमात्यै राजमञ्च उपाविशत् ।

मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ॥ ३३ ॥

पदरत्नावली

राजमञ्चे अखण्डमण्डलेश्वरोपवेशयोग्ये मञ्चे । विदूयता तप्यमानेन हृदयेन

॥ ३३ ॥

सत्यधर्मीया

राजमञ्चे राज्ञोऽयमिति क्लृप्तो मञ्चो राजमञ्चस्तस्मिन्नुपाविशत् । मण्डलेश्वराः खण्डाधीशास्तेषां मध्यस्थो, विदूयता तप्यमानेन हृदयेन ॥ ३३ ॥

सुमनोरञ्जिनी

राजमञ्चं राजयोग्यं मञ्चम् उन्नतं मञ्चमिति । विदूयता तप्यमानेन हृदयेन युक्तः ॥ ३३ ॥

वाद्यमानेषु तूर्येषु मल्लतालोत्तरेषु च ।

मल्लाः स्वलङ्कृता दृप्ताः १स्वोपाध्यायाः २समाविशन् ॥ ३४ ॥

पदरत्नावली

मल्लानां तालाः स्वबाहुमूलास्फाला एवोत्तरा येषां तानि मल्लतालोत्तराणि तेषु तूर्येषु । उपाध्याया मल्लशिक्षाचार्यास्तै सहिताः ॥ ३४ ॥

सत्यधर्मीया

मल्लानां तालाः करास्फाला एवोत्तरा येषां तानि तूर्याणि । तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च सम्मिते । गीतकालक्रियामाने तालः खड्गादिमुष्टिषु । द्रुमभेदे करास्फाले तालं तु हरितालक इति विश्वः । मल्लानां तालो गीतकालक्रियामानं स एवोत्तरो येषामिति वा स्वोपाध्यायाः स्वस्वाचार्यसहिताः स्वलङ्कृता दृप्ताः समाविशन् ॥ ३४ ॥

सुमनोरञ्जिनी

मल्लानां तालशब्द उत्तर उच्चैः श्रूयमाणो येषु तूर्येषु ते तथा । दृप्ता गर्विताः । उपाध्याया मल्लविद्याशिक्षकास् तैः सहिताः ॥ ३४ ॥

चाणूरो मुष्टिकः कूटश् छलः कोसल एव च ।

त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिताः ॥ ३५ ॥

पदरत्नावली

कांश्चिन्महामल्लान् नाम्ना निर्दिशति चाणूर इति । ‘छलः कोसल एव च’ इति पाठः । ‘कूटश्च कोसल उत छलनामधेयः’ इति चाचार्यवचनम् । तस्मात् ‘शलस्तोशल एव च’ इति पाठः प्रामादिकः । उपस्थानं मल्लरङ्गोचितभूमिम् ॥ ३५ ॥

सत्यधर्मीया

कोसलस्तोसलो वा न नामकरणकालिका वयमिति नायव्ययौ । वल्गुवाद्यप्रहर्षिताः सरोमाञ्चा उपस्थानं रङ्गसमीपस्थलमासेदुः प्रापुः ॥ ३५ ॥

सुमनोरञ्जिनी

मल्लेषु मुख्यान्निर्दिशन्नाह ॥ चाणूर इति । चाणूरादयो ये ते वल्गुवाद्यैर् मनोहरवाद्यैः प्रहर्षिताः । उपस्थानं रङ्गसमीपम् । आसेदुः प्राप्ताः ॥ ३५ ॥

नन्दगोपादयो गोपा भोजराजसमाहुताः ।

निवेदितोपायनास्त एकस्मिन् मञ्च आविशन् ॥ ३६ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे चत्वारिंशोऽध्यायः ॥

पदरत्नावली

भोजराजेन समाहुताः समाहूताः । निवेदितान्युपायनानि यैस्ते निवेदितोपायनाः

॥ ३६ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे चत्वारिंशोऽध्यायः ॥

सत्यधर्मीया

कंसेन समाहूता विवृतैर्नेत्रैः पश्यन्त्विति प्राक् स्वोक्तरक्षणार्थमेवाह्वानं दुरात्मन इति ज्ञेयम् । निवेदितान्युपायनानि स्वानिव राजदृष्टिविषयवस्तूनि यैस्ते एकस्मिन्मञ्चे आविशन् ॥ अनेन नातिप्रसिद्धो नन्दः पुरेति द्योत्यते ॥ ३६ ॥

॥ इति श्रीमद्भागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे चत्वारिंशोऽध्यायः ॥

सुमनोरञ्जिनी

भोजराजेन समाहुताः समाहूताः । निवेदितोपायना दत्तदार्शनिकाः । राजदर्शने दीयमानं फलादिकं दार्शनिकम् ॥ ३६ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां चत्वारिंशोऽध्यायः ॥