स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपुः
॥ अथ एकोनचत्वारिंशोऽध्यायः ॥
श्रीशुक उवाच—
स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपुः ।
भूयः समाहरत् कृष्णो नटो नाट्यमिवात्मनः ॥ १ ॥
पदरत्नावली
सर्वेश्वरो वासुदेवः शुभकर्मविषयकसम्भ्रमातिशयवतां सतां हर्षोत्कर्षवर्षकः, सकलसल्लोकहिंसनशीलानां निखिलखलकुलानामत्युत्कटनित्यकष्टप्रदश्चेत्यर्थमेतेषु द्वित्राध्यायेषु प्रकाशयति । तत्रादावक्रूरदृष्टभगवद्रूपस्यान्तर्धानमथ कृष्णाक्रूरयोः प्रश्नोत्तराभ्यां हरेरचिन्त्याद्भुतमाहात्म्यं च वक्ति स्तुवत इति । आत्मनो वपुः । नटो नाट्यं नाड्यार्हं हनुमदादिवेषं यथा तिरोधापयति तथेति ॥ १ ॥
सत्यधर्मीया
अक्रूरविलोकितं लोकेशरूपमवर्तत तथैव किं वा न्यवर्तताथ चाक्रूरकृष्णयोः कथा काऽभूदिति भूपतिशङ्कां शुकः परिहरतीतीरयति ॥ श्रीशुक इति ॥ स्तुवतस्तस्याक्रूरस्य जले वपुर्दर्शयित्वा भूयः पुनः कृष्णः समाहरदुपसञ्जहार । तत्र निदर्शनमाह ॥ नट इति ॥ नट आत्मनः स्वसम्बन्धि यन्नाट्यं वेषादिकं दर्शयित्वा तिरोधापयति तथेति ॥ १ ॥
सुमनोरञ्जिनी
भगवान् भक्तानामेव प्रसीदति नान्येषामिति द्योतयितुं श्रीकृष्णमवजानतो रजकस्य निग्रहं, तमेव भक्त्या बहुमानयतोः कुब्जासुदाम्नोर् अनुग्रहं च वक्तुमुत्तरकथामारभते ॥ स्तुवत इति ॥ नाट्यं नटसम्बन्धिवेषम् ॥ १ ॥
सोऽपि चान्तर्हितं वीक्ष्य जलादुन्मज्ज्य सत्वरः ।
कृत्वा चावश्यकं सर्वं विस्मितो रथमाविशत् ॥ २ ॥
पदरत्नावली
आवश्यकं नित्यकर्म ॥ २ ॥
सत्यधर्मीया
सोऽप्यक्रूरोऽप्यन्तर्हितं भगवन्तमीक्ष्य । जलादुन्मज्जनमत्र बहिर्निःसरणम् । सत्वरः, आवश्यकं नियमतः करणीयं कर्म कृत्वा विस्मितो दृष्टाकारस्मरणेन रथमाविशत् ॥२॥
सुमनोरञ्जिनी
सोऽपि अक्रूरोऽपि । उन्मज्य उत्थितः । आवश्यकं नित्यं मध्याह्ने कर्तव्यं कर्म । विस्मितः सञ्जाताश्चर्यः ॥ २ ॥
तमपृच्छद् हृषीकेशः किं ते दृष्टमिहाद्भुतम् ।
भूमौ वियति तोये वा तथा त्वां लक्षयामहे ॥ ३ ॥
पदरत्नावली
लोकमनुकुर्वन् श्रीकृष्णो विस्मिताननमक्रूरमज्ञात इव दययैवं पप्रच्छेत्याह तमिति । तथाऽद्भुतावलोककलोकवत् त्वां लक्षयामहे लक्षणैरनुमिनुमः ॥ ३ ॥
सत्यधर्मीया
अये दानपते सकलनिदानपते कां वा चर्यां दृष्टवानिव भासि त्वमिति सर्वविदपि लोकमनुकुर्वन् दयया तं पृच्छतीति वदति ॥ तमिति ॥ हृषीकेश इति सर्ववेदितृत्वहेतुः । ते त्वया किमद्भुतं दृष्टमिति सामान्यत उक्तं विशिनष्टि ॥ भूमाविति ॥ लोकरीत्या विकल्पित-पक्षद्वयेऽरुचिस्तृतीयं कल्पं पृच्छति ॥ तोये वेति ॥ तथाऽद्भुतावलोकक लोकद्वयं त्वां लक्षयामहे तर्कयामः ॥ ३ ॥
सुमनोरञ्जिनी
श्रीकृष्णो ज्ञातवृत्तान्त इव अक्रूरमपृच्छदित्याह ॥ तमिति ॥ ते त्वया । इहास्मिन्देशे, भूमौ, वियति आकाशे तोये वा । किमद्भुतं दृष्टम् । कुतः । त्वां दृष्टाश्चर्यवत् । लक्षयामहे लक्षणैस्तर्कयामः ॥ ३ ॥
अक्रूर उवाच—
अद्भुतानीह यावन्ति भूमौ वियति वा जले ।
त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ॥ ४ ॥
पदरत्नावली
भूमौ वियति जले वा यावन्त्यद्भुतानि सन्ति तानि विश्वात्मके विश्वरूपे इह त्वय्येव सन्तीति त्वां विपश्यतो मे किमदृष्टम्? सर्वं दृष्टमेव ॥ ४ ॥
दुर्घटभावदीपिका
यावन्ति भूतानीह प्रत्यक्षसिद्धायां भूमौ वियत्याकाशे जले । वाशब्दोऽनुक्त-समुच्चये । अन्यत्र यावन्ति भूतानि सन्ति तानि विश्वात्मके विश्वनियामके त्वयि सन्त्यतस्त्वां विपश्यतो विपश्यता मे मयाऽदृष्टमभूतं किमस्ति न किमपि । हे ब्रह्मन् । भूमौ वियति जले वा यानि सर्वाण्यद्भुतानि तानि यत्र यस्माद्भवन्ति तं त्वानुपश्यतोऽनुपश्यता मे मयाऽदृष्टमद्भुतं किमस्तीति । अनेन विश्वात्मक इत्यस्य विश्वनियामक इत्यर्थ उक्तो भवति । एतेन भगवतो विश्वैक्याभावाद्विश्वात्मके त्वयि सर्वाण्यद्भुतानि सन्तीति कथनमयुक्तमिति दूषणं परास्तम् । एतेनैव यत्रेति पद्यमद्भुतानीहेति पद्येन पुनरुक्तमिति चोद्यं पराकृतम् । यत्रेति पद्यस्याद्भुतानीहेति पद्यविवरणरूपत्वमित्यभ्युपगमात् ॥ ४,५ ॥
सत्यधर्मीया
भूमौ वियति जले वा यावन्त्यद्भुतान्याश्चर्याणि सन्ति तानि विश्वात्मके जगद्वितते इह त्वय्येव सन्तीति त्वां विपश्यतोऽवलोकयितुर्मम किमदृष्टं सर्वं दृष्टमेवेत्यर्थः ॥ ४ ॥
सुमनोरञ्जिनी
अक्रूरो गूढाभिसन्ध्या उत्तरमाह ॥ अद्भुतानीति ॥ भूम्यादौ यावन्ति अद्भुतानि सन्ति तानि विश्वात्मके विश्वान्तर्यामिणि इह अस्मिन् त्वयीति सामानाधिकरण्यम् । विपश्यतो मे किमदृष्टं भवेत् । सर्वमप्यद्भुतं दृष्टमेवेति । यद्वा इह लोके यान्यद्भुतानि तानि त्वयि विपश्यतो मे भूम्यादौ किं दृष्टं स्यात् । न किमपि भूम्यादावद्भुतं दृष्टम् । किं तु त्वय्येव दृष्टमिति भावः ॥ ४ ॥
यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले ।
तं त्वाऽनुपश्यतो १ब्रह्मन् किं मे दृष्टमिहाद्भुतम् ॥ ५ ॥
पदरत्नावली
उक्तमेव स्पष्टयति यत्रेति । हे ब्रह्मन् अचिन्त्यामितसद्गुणपरिपूर्ण । ‘ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते । असम्पूर्णाः परे यस्मादुपचारेण वा भवेत्’ ‘वासुदेवात् परः को नु ब्रह्मशब्दोदितो भवेत् । स हि सर्वगुणैः पूर्णस्तदन्ये तूपचारतः’ इत्यादेः । यत्र त्वयि सर्वाण्यद्भुतानि तं त्वा त्वामिहानुपश्यतो मेऽन्यत्र भूमौ वियति जले वा किमद्भुतं दृष्टम् । सर्वाश्चर्यनियामकेऽमिताश्चर्यरूपे त्वयि दृष्टे न क्वाप्यन्यदाश्चर्यं भवेदिति भावः ॥ ५ ॥
सत्यधर्मीया
ननु मदुपास्तेः प्रागेव प्रसन्नाननोऽसि तदधुना किं प्रयुक्तमुक्त्या प्रकटयेत्यतो वदति ॥ यत्रेति । भूमौ वियति जले वा यान्यद्भुतानि सर्वाणि च यत्र तं त्वां दूरतोऽनुपश्यतो मम किमद्भुतं न दृष्टम् । ब्रह्मन् ब्रह्मेति पाठौ युक्तौ । यत्र सर्वाण्यद्भुतानि तं त्वामनुपश्यतो मम भूमौ वियति जल इतीह किमद्भुतं दृष्टं स्यात् । आश्चर्याश्चर्यरूपे त्वयि दृष्टे कृष्ण न क्वाप्यन्यदाश्चर्यं भवेत् । ब्रह्मत्वस्य मुख्यपूर्णत्वस्याश्चर्यताप्रयोजकस्यान्यत्राभावान्नेतरदाश्चर्यकरमिति भावः ॥ ५ ॥
सुमनोरञ्जिनी
मय्यपि किमाश्चर्यं दृष्टमित्यतोऽभिसन्धिमुद्घाटयन्नाह ॥ यत्रेति । जल इत्यावर्तते । हे ब्रह्मन् भूम्यादौ यान्यद्भुतानि तानि सर्वाणि यत्र यस्मिंस्त्वयि सन्ति तं तादृशं सर्वाश्चर्यमयं त्वाम् । जले अनु पश्चात् । इह रथे पुनर्जले अनुपश्यतो मे अद्भुतं किमदृष्टं भवेत् । किं तु दृष्टमेवेति भावः । रथे स्थितस्यैव तदानीमेव जले दर्शनं पुनः रथे पुनर्जले तद्दर्शनम् । तदेवाद्भुतं दृष्टमिति भावः ॥ ५ ॥
श्रीशुक उवाच—
इत्युक्त्वा चोदयामास स्यन्दनं गान्दिनीसुतः ।
मधुरामनयद् रामं कृष्णं चैव दिनात्यये ॥ ६ ॥
पदरत्नावली
दिनात्यये अपराह्णे ॥ ६ ॥
सत्यधर्मीया
इत्युक्त्वा कृष्णं प्रति गान्दिनीसुतः स्यन्दनं चोदयामास । दिनात्ययेऽपराह्णे मधुरां रामं कृष्णं चानयत् ॥ ६ ॥
सुमनोरञ्जिनी
गान्दिनीसुतो ऽक्रूरः । दिनात्यये अपराह्णे । ततोऽपराह्णे इत्युत्तरवाक्यात्
॥ ६ ॥
विरोधोद्धार— इत्युक्त्वेति । अत्र दिनात्ययपदस्यास्तकालार्थत्वाङ्गीकारे ततोऽपराह्णे भगवान्कृष्णः संकर्षणान्वित इति वक्ष्यमाणश्लोकेऽपराह्णपदेन विरोधो भवेत् । अतोऽर्थान्तरम् । उदयात्पर्यावर्तनपर्यन्तं दिनवृद्धिः । आवर्तनादस्तपर्यन्तं दिनक्षयः । एतद्विवक्षया दिनात्यय इत्युक्तम् । मध्याह्नादूर्ध्वमित्यर्थः ॥ यद्वा ॥ दीयते क्षीणो भवति स दिनः । दीङ् क्षये दिवादिर् इण् सिञ् जि दीङिति नक् बाहुलकाद्ध्रस्वः । क्षयोन्मुखः कंस इत्यर्थः । द्यति खण्डयति देवकीषडपत्यानीति दिनः कंसः । दोऽवखण्डने । द्यतेः किनन् । तस्यात्ययः क्षयस् तस्मिन्विषये रामं कृष्णं च मथुरामनयदित्यर्थः ॥ ६ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्याने पाङ्घरी श्रीनिवासाचार्यकृते
विरोधोद्धारे एकोनचत्वारिंशोऽध्यायः ॥ १०-३९ ॥
॥ दशमस्कन्धपूर्वार्धः समाप्तः ॥
मार्गे ग्रामजना राजंस्तत्र तत्रोपसङ्गताः ।
वसुदेवसुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः ॥ ७ ॥
पदरत्नावली
दृष्टिं रामकृष्णार्पितां नाददुर् न प्रत्यावर्तयन् । चित्रलिखिता इव तस्थुरित्यर्थः
॥ ७ ॥
सत्यधर्मीया
मार्गे ग्रामजनास्तत्र तत्रोपसङ्गता वसुदेवसुतौ वीक्ष्य प्रीताः सन्तो दृष्टिं कृष्णार्पितां न चाददुर्न प्रत्यावर्तयन् ॥ ७ ॥
सुमनोरञ्जिनी
उपसंगता मिलिताः । वसुदेवसुतौ रामकृष्णौ । दृष्टिं तयोर् लग्नां दृष्टिं नाददुर् न प्रत्याजह्रुः । तावेव पश्यन्तोऽवतस्थिर इति भावः ॥ ७ ॥
तावद् व्रजौकसस्तात नन्दगोपादयोऽग्रतः ।
पुरोपवनमासाद्य प्रतीक्षन्तोऽवतस्थिरे ॥ ८ ॥
पदरत्नावली
प्रतीक्षन्तः प्रतीक्षमाणाः ॥ ८ ॥
सत्यधर्मीया
हे तात प्रकृतकृष्ण तातश्चासौ नन्दगोपश्च स आदिर्येषां ते तथेति वा । पुरोपवनमासाद्य प्रतीक्षन्तः प्रतीक्षमाणा एतदागमनमवतस्थिरेऽतिष्ठन् गतम् ॥ ८ ॥
सुमनोरञ्जिनी
नन्दगोपादयो व्रजौकसो गोपा अग्रतो गताः । पुरस्य उपवनम् आसाद्य लब्ध्वा । प्रतीक्षन्तः श्रीकृष्णागमनमाकाङ्क्षमाणास् तावत्पर्यन्तम् । अवतस्थिरे ॥ ८ ॥
तान् समेत्याह भगवानक्रूरं जगदीश्वरः ।
गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्निव ॥ ९ ॥
पदरत्नावली
प्रश्रितं नम्रम् ॥ ९ ॥
सत्यधर्मीया
तान्नन्दादीन् समेत्य भगवाञ्जगदीश्वरः पाणिना पाणिं गृहीत्वा प्रश्रितमक्रूरं प्रति प्रहसन्निवाह ॥ ९ ॥
सुमनोरञ्जिनी
तान् नन्दादीन् प्रति । समेत्य आगत्य ॥ ९ ॥
भवान् प्रविशतामग्रे सहयानः पुरीं गृहम् ।
वयं त्विहावमुच्याथ तावद् द्रक्ष्यामहे पुरीम् ॥ १० ॥
पदरत्नावली
भवान् सहयानः सहरथः पुरी तत्र स्वगृहमग्रे प्रविशताम् । वयं तु अवमुच्य शकटतो वृषभान् विमोच्य तावदस्तमयपर्यन्तं पुरी द्रक्ष्यामहे ॥ १० ॥
सत्यधर्मीया
भवानग्रे पुरीं प्रविशताम् । यानं स्थापयित्वा किमित्यत आह ॥ सहयानो व्रज गच्छेति । पुरीं प्रविशतामस्मदादीनामग्र इति वा वयं हि त्ववमुच्य शकटतो वृषभान्विमोच्य तावदस्तमयपर्यन्तं पुरीं द्रक्ष्यामहे ॥ १० ॥
सुमनोरञ्जिनी
भवानग्रे पुरीं प्रविशताम् । अतो व्रज । वयं तु अवमुच्य विश्राम्य
॥ १० ॥
अक्रूर उवाच—
नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मधुरां प्रभो ।
त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ॥ ११ ॥
सत्यधर्मीया
पुरीं पुरा विशेतीशेनोक्तोऽक्रूरः प्रतिवक्ति ॥ नेति ॥ भवद्भ्यां रहितो वर्जितो मधुरां न प्रवेक्ष्ये । हे भक्तवत्सल नाथ ते भक्तं मां त्यक्तुं नार्हसि ॥ ११ ॥
आगच्छ याम गेहान्नः सनाथान् कुर्वधोक्षज ।
साग्रजः सह गोपालैः सुहृद्भिश्च सुहृत्तम ॥ १२ ॥
सत्यधर्मीया
हे अधोक्षज नो गेहानवान्तरागाराणि येषां सन्ति ते गेहा निलयास्तान्याम आगच्छ । अस्मान्वा गेहानेव वा सनाथान्नाथोपेतान्कुरु । गेहेऽन्नं रात्रिभोक्तव्यमन्नं यस्य सः सन्सनाथानस्मान्कुर्विति वा । न केवलमेकल एवेति वदति । गोपालैः सह साग्रज इतरैः सुहृद्भिश्च सहेति ॥ १२ ॥
सुमनोरञ्जिनी
नो गेहान् प्रत्यागच्छ । नो ऽस्मान् । सुहृद्भिर् गोपालैर् नन्दाद्यैः
॥ १२ ॥
पुनीहि पादरजसा गृहान् नो गृहमेधिनाम् ।
यच्छौचेनातितृप्यन्ति पितरः साग्नयः सुराः ॥ १३ ॥
पदरत्नावली
गृहमेधिनां नित्यं गृहे पञ्चसूनापराणाम् । यच्छौचेन यदवनेजनेन ॥१३॥
सत्यधर्मीया
गृहमेधिनां गृहस्थानां नोऽस्माकं त्वत्पादरजसा गृहान् । गृहाः पुंसि च भूम््नयेवेत्यमरः । पुनीहि पवित्रय । यच्छौचेन यदवनेजनेन पितरः साग्नयः सुराश्च तृप्यन्ति ॥१३॥
सुमनोरञ्जिनी
गृहमेधिनां गृहेषु क्रियमाणा मेधा यज्ञाः पञ्चमहायज्ञा येषां गृहाश्रमिणां नो गृहान् । पादरजसा पुनीहि पवित्रीकुरु । यस्य त्वत्पादस्य शौचेन प्रक्षालनोदकेन ॥१३॥
अवनिज्याङ्घ्रियुगलमासीच्छ्लाघ्यो बलिर्मखे ।
ऐश्वर्यमतुलं लेभे गतिं चैकान्तिनां तु या ॥ १४ ॥
पदरत्नावली
अवनिज्य प्रक्षाल्य । एकान्तिनामेकान्तभक्तानां या क्लृप्ता गतिस्ताम्
॥ १४ ॥
सत्यधर्मीया
न केऽपि तद्धृतवन्तः किं त्वं काङ्क्षसीत्यत आह ॥ अवनिज्येति ॥ बलिर्मखेऽङ्घ्रियुगलमवनिज्य प्रक्षाल्य श्लाघ्य इह स्तुत्य आसीत् । अतुलं सुतले मन्वन्तरान्तस्वैश्वर्यं लेभे । एकान्तिनामेकान्तभक्तानां या क्लृप्ता गतिस्तामपि लेभ इत्यन्वयः ॥ १४ ॥
सुमनोरञ्जिनी
अवनिज्य प्रक्षाल्य । अतुलम् ऐश्वर्यम् ऐन्द्रपदम् । एकान्तिनां या गतिः क्लृप्ता तां गतिं च लेभे ॥ १४ ॥
आपस्तेऽङ्घ्र्यवने१जन्यस्त्रील्लोकान् शुचयोऽपुनन् ।
शिरसाऽधत्त याः शर्वः स्वर्याताः सगरात्मजाः ॥ १५ ॥
पदरत्नावली
अङ्घ्र्योरवनेजन्यः क्षालनसम्बन्धिन्य आपः । अपुनन् पवित्रयाञ्चक्रुः
॥ १५ ॥
सत्यधर्मीया
तवावनेजन्यो अवनेजनिसम्बन्धिन्य आपो ब्रह्मकमण्डलुगताः शुचयः साङ्घ्रिस्पर्शा इति शुद्धास्त्रिलोकान् । विशेषणसमासः । अपुनन्नशोधयन् । याः शर्वः शिरसाऽधत्त । सगरात्मजा भस्मीभूताः स्वः स्वर्गं क्रमान्मुक्तिं च याताः । स्वर्गसुषुप्तेरित्यस्य मुक्तेरपि समायात इति छान्दोग्यभाष्योक्तेः ॥ १५ ॥
सुमनोरञ्जिनी
ते अङ्घ्र्यवनेजन्यः पादप्रक्षालनसाधनीभूता आपः भागीरथीरूपास् त्रीन् लोकान् स्वर्गभूपातालाख्यान् । अपुनन् पवित्रयांचक्रुः । या अपः शर्वः महादेवः शिरसा अधत्त धारयामास । याभिः सगरात्मजाः स्वः स्वर्गं याताः प्राप्ताः ॥ १५ ॥
देवदेव जगन्नाथ पुण्यश्रवणकीर्तन ।
यदूत्तमोत्तमश्लोक नारायण नमोऽस्तु ते ॥ १६ ॥
सत्यधर्मीया
इयन्महीयस्त्वं तव साक्षान्नारायणत्वादेवेति परवान्वदति ॥ देवदेवेत्यादिना
॥ १६ ॥
सुमनोरञ्जिनी
पुण्यकरं श्रवणं कीर्तनं च यस्य सः । उत्तमश्लोक उत्तमकीर्ते ॥१६॥
श्रीभगवानुवाच—
आयास्ये भवतो गेहमहमार्यसमन्वितः ।
यदुवर्गद्रुहं हत्वा वितरिष्ये सुहृत्प्रियम् ॥ १७ ॥
पदरत्नावली
यदुवर्गाय द्रुह्यतीति यदुवर्गध्रुक् तं यदुवर्गद्रुहं कंसं हत्वा भवतो गेहमायास्ये सुहृत्प्रियं च वितरिष्ये दास्यामि ॥ १७ ॥
दुर्घटभावदीपिका
अहमादौ यदुवर्गद्रुहं कंसं हत्वा सुहृत्प्रियं वितरिष्ये । अनन्तरमार्यसमन्वितः सन् भवतो गेहमायास्य इति । एतेनास्मिंल्लोकेऽर्थद्वयं परस्परमनन्वितमिति दूषणं परिहृतम् । आदावनन्तरमिति पदयोः शेषं कृत्वाऽन्वयस्योक्तत्वात् ॥ १७ ॥
सत्यधर्मीया
एवमुक्तः किमुक्तवान्देव इत्यतो भगवान्वक्तीति वक्ति ॥ श्रीभगवानिति ॥ अहमार्यसमन्वितः सबलो यदुवर्गद्रुहं यदुवर्गाय द्रुह्यतीति स तथा तं हत्वा भवतो गेहमायास्ये सुहृत्प्रियं च वितरिष्ये दास्ये ॥ १७ ॥
सुमनोरञ्जिनी
आर्येण रामेण । यदुवर्गद्रुहं यदुवर्गद्रोहं कुर्वन्तं कंसम् । सुहृदां वसुदेवादीनां प्रियं सन्तोषं वितरिष्ये दास्ये ॥ १७ ॥
श्रीशुक उवाच—
एवमुक्तो भगवता सोऽक्रूरो विमना इव ।
पुरीं प्रविश्य कंसाय कर्मावेद्य गृहं ययौ ॥ १८ ॥
पदरत्नावली
कर्म रामकृष्णावानीताविति स्वकृतं कर्मावेद्य निवेद्य ॥ १८ ॥
सत्यधर्मीया
भगवतेत्याज्ञानवज्ञाने हेतूक्तिः । कर्म कृष्णागमनादिकमावेद्य निवेद्य गृहं स्वम् ॥ १८ ॥
सुमनोरञ्जिनी
कर्म कृष्णानयनलक्षणं कर्म । कंसाय । आवेद्य निवेदयित्वा ॥ १८ ॥
ततोऽपराह्णे भगवान् कृष्णः सङ्कर्षणान्वितः ।
मधुरां प्राविशद् गोपैर्दिदृक्षुः परिवारितः ॥ १९ ॥
सत्यधर्मीया
गोपैः परिवारितो मधुरां दिदृक्षुर्मधुरां प्राविशत् ॥ १९ ॥
सुमनोरञ्जिनी
मधुरां दिदृक्षुः ॥ १९ ॥
ददर्श तां स्फाटिकतुङ्गगोपुरं बृहत्स्फुरद्धेमकपाटतोरणाम् ।
ताम्रार१कोष्ठपरिखां दुरासदामुद्यानरम्योपवनालिशोभिताम् ॥ २० ॥
पदरत्नावली
स्फाटिकानि स्फटिकमयानि तुङ्गानि उन्नतानि च गोपुराणि पुरुद्वाराणि यस्यां सा तथा । बृहन्ति विशालानि स्फुरन्ति प्रकाशमानानि हेममयानि कपाटानि तोरणानि च यस्यां सा तथा । आरम् आरकूटम्, पित्तलमित्यर्थः । ताम्रमयान्यारकूटमयानि च कोष्ठानि धान्यादिधामानि यस्यां सा तथा । परिखाभिः परितः खाताभिर्दुरासदां दुर्गमाम् । उद्यानानां सर्वसाधारणवनानां रम्योपवनानां प्रमदावनानां चालिभिः पङ्क्तिभिः शोभिताम् । ‘द्वारप्राकारपरिखाफलपुष्पैः सुशोभिता । पञ्चधा नगरी रम्या सालङ्कारा च रूपिता’ इत्यादेः ॥ २० ॥
सत्यधर्मीया
कृष्णः स्फाटिकतुङ्गगोपुरां स्फटिकात्मोच्चपुरद्वारयुक्ताम् । बृहन्ति महान्ति स्फुरन्ति प्रकाशमानानि हेम्ना कृतानि कपाटानि यस्मिंस्तत्तोरणम् । तोरणोऽस्त्री बहिर्द्वारं पुरद्वारं तु गोपुरमित्यमराद्बहिर्द्वारं यस्याः सा ताम् । बृहत्स्फुरद्धेमकपाटतस्तेभ्यो निमित्तेभ्योऽरणां वैरिविरचितरणानर्हामिति वा । ताम्रैरारैर्लोहविशेषैर्निर्मिताः कोष्ठा धान्यादिधामानि । पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथेत्यमरः । तथा परिखास्तदात्मका यस्यां सा दुरासदां दुष्प्रवेशाम् । उद्यानानि दूरस्थवनानि रम्याणि रमणीयान्युपवनानि समीपवर्तिवनानि तेषामालयः पङ्क्तयस्ताभिः शोभिताम् । उद्याना ऊर्ध्वं यानं येषां ते रम्योपवनेष्वलयो भ्रमराश्च तैः शोभितामिति वा । दुरासदा च साऽऽमुदा यानं येषां तेऽलिनस्तैः शोभिता च तामिति पदमेकं वा । पुरीं ददर्शेत्यन्वयः
॥ २० ॥
सुमनोरञ्जिनी
श्री कृष्णदृष्टां मधुरां पुरीं वर्णयति ॥ ददर्शेति ॥ स्फाटिकानि स्फटिकनिर्मितानि तुंगानि उन्नतानि गोपुराणि पुरबहिर्द्वाराणि यस्यास्ताम् । स्फुरद्धेममयानि कपाटानि तोरणानि द्वारबहिःप्रदेशा यस्यां ताम् । ताम्रैर् आरैर् आरकूटैः पित्तलापरपर्यायैर् निर्मितानि कोष्ठानि प्राकाररक्षणाय यन्त्रस्थापनार्थं निर्मितानि कुट्टिमानि तैः । ताम्रमया अरास् तादृशकुट्टिमोपरि रचितानि दलानि तैरिति वा । आसमन्ताद्विद्यमाना परिखा । तया च दुरासदां शत्रुभिः प्राप्तुमशक्याम् । उद्यानानां वनानां रम्याणामुपवनानां च आलिभिः पङ्क्तिभिः शोभिताम् ॥ २० ॥
सौवर्णशृङ्गाटकहर्म्यनिष्कुटश्रेणीसभाभिर्भवनैरुपस्कृताम् ।
वैडूर्यवज्रामलनीलविद्रुमैर्मुक्ताहरिद्भिर्वलभीषु वेदिषु ॥ २१ ॥
पदरत्नावली
सौवर्णाः सुवर्णमयाः शृङ्गाटकाश्चतुष्पथा हर्म्याणि धनिनां धामानि निष्कुटा गृहोचिता आरामास्तैः । ‘निष्कुटस्तु गृहोद्याने’ इत्यभिधानम् । श्रेणीनामेकरूपशिल्पोपजीविनां सभाभिरुपवेशस्थानैरन्यैश्च भवनैर्भव्यसदनैरुपसंस्कृतामलङ्कृताम् । ‘भवनं भव्यसदने प्रासादे च प्रकीर्तितम्’ इत्युत्पलमाला । वलभीषु गृहपुरोभागस्तम्भविहिताच्छादनोपष्टम्भवक्रदारुषु वेदिषु वलभीनामधोदेशे विरचितासु अवष्टम्भवेदिकासु च वैदूर्यादिभिरुपस्कृतामित्यन्वयः । अमलाः स्फटिकाः । नीलो नीलमणिः । विद्रुमः प्रवालः । हरितो मरकताः ॥ २१ ॥
सत्यधर्मीया
सौवर्णानि सुवर्णविकृतानि शृङ्गाटकानि चतुष्पथानि हर्म्याणि धनिकगृहाणि निष्कुटा गृहारामास्तेषां श्रेणयः पङ्क्तयः सभाश्च ताभिः । शृृङ्गाटकचतुष्पथे, हर्म्यादिर्धनिनां वासो, गृहारामस्तु निष्कुटः, श्रेणी रेखास्तु राजय इति सर्वतश्चामरः । भवनैरुपसंस्कृतामलङ्कृतां गतम् । वैडूर्यवज्रामलनीलविद्रुमैर्मुक्ताहरिन्मणिभिरुपस्कृतामित्यन्वयः । जुष्टा जुष्टाश्च जुष्टाः पुमांस्त्रियेत्येकशेषेण जुष्टेष्वित्यन्वयो वा । वलभीष्वाच्छादकवक्रदारुषु वेदिषु वेदिकासु ॥ २१ ॥
सुमनोरञ्जिनी
सौवर्णे सुवर्णबद्धे शृृङ्गाटके चतुष्पथे विद्यमानानि हर्म्याणि धनिनां गृहाणि । निष्कुटा गृहारामाश्च तेषां श्रेणीभिः पङ्क्तिभिः । तत्र तत्रोपवेशनार्थं कृताभिः सभाभिः श्रेणीभिः समानाभिः सभाभिरिति वा । श्रेणीनां शिल्पोपजीविनां सभाभिरिति वा । श्रेणिः समाने शिल्पानां संहतिः श्रेणिरावलिरिति शाश्वतः । भवनैश्चोपस्कृतामलङ्कृतां शृृङ्गाटकचतुष्पथे इत्यमरः । हर्म्यादि धनिनां वास इति च । गृहारामस्तु निष्कुटा इत्यपि । अमलाः शाणोल्लीढाः । विद्रुमाः प्रवालाः । हरितो मरकताः । वैडूर्यादिरत्नैर्जुष्टेषु खचितेषु वलभीषु पुरोभागे वक्रदार्वाच्छादनेषु । वेदिषु गृहबहिः पार्श्वयोः रचितवेदिकासु ॥ २१ ॥
जुष्टेषु जालामुखरन्ध्रकुट्टिमेष्वाविष्टपारावतबर्हिनादिताम् ।
संसिक्तरथ्यापणमार्गचत्वरां प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम् ॥ २२ ॥
पदरत्नावली
जुष्टेषु योजितेषु जालामुखरन्ध्रकुट्टिमेषु जालानां गवाक्षाणामामुखरन्ध्रं मुखच्छिद्रमभिव्याप्य विद्यमानेषु कुट्टिमेषु मणिबद्धभूमिषु आविष्टैरुपविष्टैः पारावतैः कपोतैर्बर्हिभिर्मयूरैश्च नादितां नादयुक्ताम् । रथ्या रथमार्गाश्च आपणमार्गाः पण्यवीथिकामार्गाश्च चत्वराणि प्राङ्गणानि च रथ्यापणमार्गचत्वराणि । सुगन्धाम्भोभिः सम्यक् सिक्तानि रथ्यादीनि यस्यां सा तथा । परितः प्रकीर्णा माल्यादयो यस्यां सा तथा ॥ २२ ॥
सत्यधर्मीया
जुष्टेषु व्युप्तेषु जालानां गवाक्षाणामामुखरन्ध्रं तन्मुखछिद्रमभिव्याप्य विद्यमानाः कुट्टिमा निबद्धभूमयस्तेष्वाविष्टाः पारावता बर्हिणश्च तैर्नादिताम् । संसिक्ताश्चन्दननीरादिभी रथ्या रथमार्गा आपणमार्गः पण्यवीथिकामार्गश्चत्वराणि चतुष्पथा यस्यां सा ताम् । चत्वरं च पथाश्लेषे स्थण्डिलाजिरयोरपीति हैमः । चत्वरं चाङ्गणेऽजिर इत्यमरादङ्गणानीति वा । प्रकीर्णाः, माल्यानि पुष्पाण्यङ्कुरा लाजा भ्रष्टव्रीहयस्तण्डुलाश्च यस्यां सा ताम् ॥ २२ ॥
सुमनोरञ्जिनी
तथा जालामुखरन्ध्रेषु गवाक्षच्छिद्रेषु । कुट्टिमेषु बद्धभूमिषु । आविष्टैरुपविष्टैः पारावतैः, बर्हिभिर्मयूरैर् नादितां शब्दिताम् । सुगन्धोदकैर् आसिक्ताः संसेचिता रथ्या राजमार्गा आपणाः पण्यवीथयः मार्गास् तदन्यमार्गाश् चत्वरा अङ्गणानि च यस्याम् । प्रकीर्णानि माल्यानि यस्यां ताम् ॥ २२ ॥
आपूर्णकुम्भैर्दधिचन्दनोक्षितैः प्रसूनदीपावलिभिः सपल्लवैः ।
सवृन्तरम्भाक्रमुकैः सकेतुभिः स्वलङ्कृतद्वारगृहां १सपट्टिकाम् ॥ २३ ॥
पदरत्नावली
दध्ना चन्दनेन चोक्षितैः सिक्तैरापूर्णकुम्भैः प्रसूनानां दीपानाञ्चावलयो येषु तैः सपल्लवैः किसलयसहितैर् वृन्तैः प्रसवबन्धनैः सहिता रम्भाः कदल्यः क्रमुकाः पूगाश्च तैः सकेतुभिर्ध्वजसहितैः सपट्टिकैर् उपर्याततवितानवस्त्रसहितैः स्वलङ्कृतद्वाराणि गृहाणि यस्यां सा ताम्
॥ २३ ॥
सत्यधर्मीया
दधिचन्दनोक्षितैरापूर्णकुम्भैः प्रसूनदीपावलिभिः, सपल्लवैः सकिसलयैर्वृन्तैः प्रसवबन्धनैः सहिता रम्भाः, क्रमुकास्तैः सकेतुभिर्ध्वजसहितैः स्वलङ्कृतद्वाराणि गृहाणि यस्यां सा तां पट्टिकाभिरुल्लोचैः सहिता ताम् ॥ २३ ॥
सुमनोरञ्जिनी
दधिचन्दनाभ्याम् उक्षितैः सिक्तैः । आपूर्णकुंभैर् द्वारेषु उभयपार्श्वस्थापित-पूर्णकुम्भैः प्रसूनैः पुष्पैर् दीपावलिभिश्च । सपल्लवैः किसलयसहितैः । सवृन्तरंभाक्रमुकैः, वृन्तैः फलप्रसूनबन्धैः सहिता रम्भाः कदलीवृक्षाः क्रमुकाः पूगाश्च तैः । कीदृशैः सकेतुभिर् ध्वजसहितैः । एतैः सुष्ठु अलङ्कृतानि द्वाराणि येषां तानि तथा । स्वलङ्कृतद्वाराणि गृहाणि यस्यां सा । पट्टिकया उपर्याततवितानवस्त्रेण सहिताम् । एतादृशीं पुरीं ददर्शेति पूर्वेणान्वयः ॥ २३ ॥
तां सम्प्रविष्टौ वसुदेवनन्दनौ वृतौ वयस्यैर्नरदेववर्त्मना ।
द्रष्टुं समीयुस्त्वरिताः पुरस्त्रियो हर्म्याणि चैवारुरुहुर्नृपोत्सुकाः ॥ २४ ॥
पदरत्नावली
तामेवम्भूतां मधुरां वयस्यैः सखिभिर्वृतौ नरदेववर्त्मना राजमार्गेण सम्प्रविष्टौ वसुदेव- नन्दनौ द्रष्टुं त्वरिताः पुरस्त्रियः समीयुः सममेलिषुः । तथा हे नृप उत्सुकाः सत्यो हर्म्याणि चारुरुहुः
॥ २४ ॥
सत्यधर्मीया
तां मधुरां वसुदेवनन्दनौ वयस्यैर्वृतौ नरदेववर्त्मनैव प्रविष्टौ द्रष्टुं त्वरिताः पुरस्त्रियो हर्म्याण्युत्सुका आरुरुहुः ॥ २४ ॥
सुमनोरञ्जिनी
तामेतां पुरीं नरदेववर्त्मना राजमार्गेण सम्प्रविष्टौ । वयस्यैः सवयस्कैर् गोपैर्वृतौ वसुदेवनन्दनौ द्रष्टुमुत्सुकाः पुरस्त्रियः समीयुर् मिलिताः । हर्म्याणि उपरितनगृहाणि च । आरुरुहुः । नृपेति परीक्षित्सम्बोधनम् ॥ २४ ॥
काश्चिद् विपर्यक्कृतवस्त्रभूषणा विस्मृत्य चैकं युगलेष्वथापराः ।
कृतैकवस्त्रश्रवणैकनूपुरा नाङ्क्त्वा द्वितीयं त्वपराश्च लोचनम् ॥ २५ ॥
पदरत्नावली
विपर्यग् विपरीतं कृतानि धृतानि वस्त्रभूषणानि याभिस्तास्तथा । युगलेषु धार्येषु कुण्डलकङ्कणादियुग्मेषु एकं विस्मृत्य समीयुः । श्रवणे कर्णे एकनूपुरं श्रवणैकनूपुरम्, एकवस्त्रं च श्रवणैकनूपुरं चैकवस्त्रश्रवणैकनूपुरे, कृते धृते एकवस्त्रश्रवणैकनूपुरे याभिस्ताः कृतैकवस्त्रश्रवणैक-नूपुराः । चरणाभरणमेकं नूपुरमेककर्णोर्ध्वभागे धृतमिति यावत् । द्वितीयं स्वलोचनं नाङ्क्त्वा संसज्जितकज्जलमकृत्वा ॥ २५ ॥
दुर्घटभावदीपिका
काश्चिद्विपर्यक्कृतवस्त्रभूषणा विपर्येण वैपरीत्येन कृतानि धृतानि वस्त्रभूषणानि याभिस्ता विपर्यक्कृतवस्त्रभूषणाः सत्यः समीयुः । अथान्यच्च । अपरा युगलेष्वेकं विस्मृत्य । चशब्दोऽनुक्तसमुच्चये । एकं धृत्वा च समीयुरपराः कृतैकवस्त्रश्रवणैकनूपुरा एकं च तद्वस्त्रं चैकं च तन्नूपुरं चैकनूपुरम् । श्रवणे करणे एकनूपुरं श्रवणैकनूपुरमेकवस्त्रं च श्रवणैकनूपुरं चैकवस्त्रश्रवणैकनूपुरे कृते धृते एकवस्त्रश्रवणैकनूपुरे याभिस्ताः कृतैकवस्त्रश्रवणैकनूपुराः सत्यः समीयुः । अपर एकं स्वलोचनमङ्क्त्वा द्वितीयं स्वलोचनम् । तुशब्दोऽवधारणे । नांक्त्वा तु नांक्त्वैव समीयुरिति । एतेन श्रवणभूषणे त्विति वक्तव्यं श्रवणेति कथनमयुक्तम् । एकवस्त्रेत्येकशब्दश्रवणशब्देनैव नूपुरशब्देनापि सम्बन्धस्य सम्भवात् । एकनूपुरेत्येकशब्दो व्यर्थ इति दूषणं प्रत्युक्तम् । एकश्रवण-भूषणमेकं नूपुरं धृतमित्यर्थमित्यनङ्गीकृत्य पादाभरणमेकं नूपुरमेककर्णोर्ध्वभागे धृतमित्यर्थ इत्यङ्गीकारात्
॥ २५ ॥
सत्यधर्मीया
काश्चिद्योषितो विपर्यग्धृतवस्त्रभूषणा विपर्यग्विपरीतं धृतानि वस्त्राणि भूषणानि याभिस्ताः । युगलेषु प्रावरणौत्तरीयकर्णाभरणवलयकङ्कणमञ्जिरादियुग्मेषु । एकं विस्मृत्य । कृतैक-वस्त्रश्रवणैकनूपुरा एकं वस्त्रमेकं कर्णाभरणमेकं नूपुरं च यासां ताः । द्वितीयं स्वलोचनं नाङ्क्त्वाऽ-संसज्जितकज्जलं कृत्वा ॥ २५ ॥
सुमनोरञ्जिनी
तासामौत्सुक्यत्वराभ्यामापन्नां दशां वर्णयति द्वाभ्याम् ॥ काश्चिदिति ॥ विपर्ययेण व्यत्यासेन कृतानि वस्त्राणि भूषणानि च याभिस्ताः । परिधानीयमुत्तरीस्थाने । उत्तरीयं परिधानीयस्थाने । एवं करभूषणानि पादयोः पादभूषणानि करयोः कृत्वेति यावत् । अपराः काश्चिद् युगलेषु वस्त्राभरणादिषु एकं विस्मृत्य । आगता इति सम्बन्धः । तदेव विशदयति ॥ कृतैकेति ॥ कृतमेकमेव वस्त्रं श्रवणं कर्णभूषणं नूपुरं चरणाभरणं च याभिस्ताः । कृतैकपत्रेत्यपि पठन्ति । तत्पक्षे कृतमेकमेव पत्रं ताटङ्कं श्रवणे याभिस्ताश्च ता एकनूपूराश्चेत्यर्थः । अपराश्च स्वलोचनं द्वितीयं नाङ्क्त्वा अनंत्क्वा एकमेव लोचनमञ्जयित्वेति यावत् ॥ २५ ॥
अश्नन्त्य एकास्तदपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः ।
स्वपन्त्य उत्थाय निशम्य निःस्वनं निपाययन्त्योऽर्भमपोह्य मातरः ॥२६॥
पदरत्नावली
तद् भोजनमपास्य निरस्य । अभ्यज्यमानास्तैललेपनं कुर्वाणाः । अकृतोप-मज्जना न कृतमुप आधिक्येन मज्जनं याभिस्तास्तथा । काश्चित् स्वपन्त्यो निःस्वनं निशम्योत्थाय समीयुः । काश्चिन्मातरोऽर्भं बालं निपाययन्त्यः, स्तन्यमिति शेषः । तमर्भकमपाह्य तिरस्कृत्य
॥ २६ ॥
सत्यधर्मीया
अश्नन्त्यः काश्चिद्भोजनमपास्य निरस्य सोत्सवा उत्सवसहिता अभ्यज्यमाना-स्तैललेपनं कुर्वन्त्योऽकृतोपमज्जना अकृतनीरस्नानाः । बहुचिरन्तनकोशेऽकृतापमज्जना इति पाठो दृश्यते सोऽपि दृश्यः । अपां समूहो ह्यापं तेन मज्जनमापमज्जनमकृतमापमज्जनं याभिस्ता अकृतापमज्जना इति तत्रार्थः । काश्चित्स्वपन्त्यो निःस्वनं निशम्योत्थायाययुः । काश्चिन्मातरोऽर्भं बालं निपाययन्त्यः स्तनक्षीरमपोह्य तिरस्कृत्याययुः । यमुनायाः पारे पुर्याः सत्त्वात्सत्वाच्च कृष्णस्यान्तर्मातरस्तरपण्यं मा मास्त्वित्यायाता इति वा ॥ २६ ॥
सुमनोरञ्जिनी
एकाः स्त्रियो ऽश्नन्त्यः भुंजन्त्यस् तद्भोजनम् अपास्य त्यक्त्वा अभ्यज्यमानाः सखीहस्तेन क्रियमाणतैलाभ्यङ्गाः । अकृतोपमज्जना अकृतस्नानाः । मातरः स्तन्यं निपाययन्त्यः । अर्भम् अर्भकम् । अपोह्य निरस्य ॥ २६ ॥
मनांसि तासामरविन्दलोचनः प्रगल्भलीलाहसितावलोकनैः ।
जहार मत्तद्विरदेन्द्रविक्रमो दृशां २दधच्छ्रीरमणो महोत्सवम् ॥ २७ ॥
पदरत्नावली
प्रगल्भा मनोहरणसमर्था या लीलास्ताभिर्हसितानि अवलोकनानीक्षणानि च तैः । दृशां नेत्राणां महोत्सवं ददत् सन् ॥ २७ ॥
सत्यधर्मीया
अरविन्दलोचनः कृष्णः । प्रागल्भ्येन धार्ष्ण्येन लीलाहसितेन तदवलोकनेन चेत्येतैस्तासां मनांसि जहार स्वाविषयाणि चकार । श्रीरमणो मत्तद्विरदेन्द्रविक्रमो दृशां नेत्राणामुत्सवं दधत्सन् ॥ २७ ॥
सुमनोरञ्जिनी
श्रीरमणः । प्रागल्भ्ययुक्ता या लीलाः, हसितं स्मितम् अवलोकनम् अपाङ्गनिरीक्षणं च तैः । तासामुत्सवं दधत् । मनांसि जहारेति सम्बन्धः । गजेन्द्रस्य विक्रम इव पादविन्यासो यस्य सः ॥ २७ ॥
दृष्ट्वा मुहुः श्रुतमनुद्रुतचेतसस्तं ३तत्प्रेक्षितोत्स्मितसुधोक्षणलब्धमानाः ।
आनन्दमूर्तिमुपगुह्य दृशात्मलब्धं हृष्यत्त्वचो जहुरनन्तमरिन्दमाधिम् ॥ २८ ॥
पदरत्नावली
हे अरिन्दम राजन् मुहुः श्रुतं तमनुद्रुतचेतसस्तमनन्तं दृष्ट्वा तस्य श्रीकृष्णस्य प्रेक्षणं च उत्कृष्टं स्मितं च तत्प्रेक्षणोत्स्मिते, ते एव सुधा तस्या उक्षणेन सेचनेन लब्धो मानो याभिस्ता दृशा दृष्ट्याऽऽत्मलब्धमात्मनि मनसि लब्धं ध्यानाङ्कुरितमानन्दमूर्तिमुपगुह्य परिरभ्य हृष्यत्त्वचः रोमाञ्चाञ्चितास् तद्दर्शनाभावजनितामाधिं मनःपीडां जहुः ॥ २८ ॥
सत्यधर्मीया
मुहुः श्रुतं तमनुद्रुतचेतसस्तं दृष्ट्वा । तस्य प्रेक्षितं प्रेक्षणमुत्स्मितं मन्दहासस्स एव सुधाऽमृतं तया यदुक्षणं सेचनं तेन प्रतिलब्धो मानो याभिस्ताः । दृशा दृष्ट्याऽऽत्मलब्धमात्मनि मनसि लब्धं ध्यानाङ्कुरितमानन्दमूर्तिमुपगुह्यालिङ्ग्य हृष्यत्त्वचो रोमाञ्चनाञ्चिताः । हे अरिन्दम राजन् अनन्तमेतदितरापारमाधिं तद्दर्शनाभावजनितव्यथां जहुस्तत्यजुः । दमाधिं दमेनेन्द्रियनिग्रहेणाधिर्दमाधि-स्तत्प्रयोजको य आधिर्मनोव्यथा तमरिं तद्रूपारिं प्रकृतकार्यप्रतिबन्धकत्वात् । तं जहुः । यथेच्छं विहृतवत्य इत्यर्थः ॥ २८ ॥
सुमनोरञ्जिनी
मुहुर् वारं वारं श्रुतम् आकर्णितम् । कृष्णं दृष्ट्वा । अनुद्रुतचेतसः द्रवच्चित्ताः । तस्य कृष्णस्य प्रेक्षितम् उत्कृष्टं स्मितं च तल्लक्षणसुधया उक्षणेन सेचनेन लब्धो मानो याभिस्ताः स्त्रियः । दृशा नेत्रद्वारा । आत्मनि मनसि लब्धम् । आनन्दमूर्तिम् उपगुह्य आलिङ्ग्य । हृष्यत्वचः रोमाञ्चिता अनन्तमपारम् । आधिं तदप्राप्तिनिमित्तां मानसीं व्यथाम् । जहुस् तत्यजुः । अरिन्दमेति परीक्षित्सम्बोधनम् ॥ २८ ॥
प्रासादशिखरारूढाः प्रीत्युत्फुल्लमुखाम्बुजाः ।
अभ्यवर्षन् सौमनस्यैः प्रमदा बलकेशवौ ॥ २९ ॥
पदरत्नावली
प्रीत्या उत्फुल्लानि मुखाम्बुजानि यासां तास्तथा । सौमनस्यैः पुष्पराशिभिः
॥ २९ ॥
सत्यधर्मीया
सौमनस्यैः पुष्पराशिभिः सुमनसां भावा सौमनस्यानि तैश्च ॥ २९ ॥
सुमनोरञ्जिनी
प्रीत्या उत्पुल्लानि विकसितानि मुखाम्बुजानि यासां ताः । सौमनस्यैः पुष्पसमूहैः । प्रमदा अभ्यवर्षन् ॥ २९ ॥
दध्यक्षतैः सोदपात्रैः स्रग्गन्धैरभ्युपायनैः ।
तावानर्चुः प्रमुदितास्तत्र तत्र द्विजातयः ॥ ३० ॥
पदरत्नावली
सोदपात्रैः सजलकलशैः । आनर्चुः पूजयामासुः ॥ ३० ॥
सत्यधर्मीया
दधिभिरक्षतैश्च, सोदपात्रैर्मध्य आचमनाद्यर्थं सजलैः पात्रैः । स्रजश्च गन्धाश्च तैरभ्युपायनैः सम्मुखाभिगमनैरितरैः पूजासाधनैर्वा तत्र तत्र द्विजातयो ब्राह्मणा आनर्चुरपूजयन्
॥ ३० ॥
सुमनोरञ्जिनी
तत्र द्विजातयो ब्राह्मणादयः । दध्यक्षतादिभिस् तौ रामकृष्णौ । आनर्चुः पूजयामासुः ॥ ३० ॥
रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः ।
दृष्ट्वाऽयाचत वासांसि धौतान्यत्युत्तमानि च ॥ ३१ ॥
पदरत्नावली
रङ्गं वर्णं करोतीति रङ्गकारस्तम् ॥ ३१ ॥
सत्यधर्मीया
गदाग्रजः कञ्चिद्रङ्गकारं रङ्गं वर्णं करोति स तथा तं रजकं चायान्तं दृष्ट्वा धौतान्यत्युत्तमानि वासांस्ययाचत ययाचे । चशब्दाद्यभावेऽपि रङ्गकारोऽयमन्य इति चशब्दमध्याहृत्यान्वेतव्यम् । ततस्तु वापकः प्रीत इत्युत्तरग्रन्थानुकूल्यमन्यथा न स्यादिति ज्ञेयम्
॥ ३१ ॥
सुमनोरञ्जिनी
गदाग्रजः श्रीकृष्णः । रजकं वस्त्रनिर्णेजकम् । स एव, रङ्गं वस्त्राणां वर्णविशेषं करोतीति रङ्गकारः । तं दृष्ट्वा अयाचतेति सम्बन्धः ॥ ३१ ॥
देह्यावयोः समुचितान्यङ्ग वासांसि चार्हतोः ।
भविष्यति परं श्रेयो दातुस्ते नात्र संशयः ॥ ३२ ॥
सत्यधर्मीया
अङ्ग रजक आवयोः समुचितानि वासांसि देहि । दातुस्ते परं श्रेयो मङ्गलम् । न लाभो जीवनात्पर इत्युक्तेस्तल्लाभात्मकं श्रेय इति, भविष्यति । अत्र संशयो न नास्ति । राजार्हाणि वासांसि कथं देयानीति न वदेति वदति ॥ अर्हतोरिति । मातुलस्यैतानीत्यर्हतोर्योग्ययो-स्तद्भागिनेययोरित्यन्तर्बहिरङ्गतस्तु वासांसि धार्याणि केनचिदर्हतोरिति । तत्राप्येतन्मृतावर्हतोरिति चार्थो ज्ञेयः । अदातुस्तेनादाननिमित्तेन संशयः सम्यक् शयो हस्तो भविष्यति ताडयामीति यावत्
॥ ३२ ॥
सुमनोरञ्जिनी
याचनाप्रकारमाह ॥ देहीति । हे अङ्ग । समुचितानि वासांसि । उत्तमवस्त्रधारणे अर्हतोर् योग्ययोर् आवयोर् आवाभ्याम् । आवयोः समुचितानि योग्यानीति वा
॥ ३२ ॥
स याचितो भगवता परिपूर्णेन सर्वतः ।
साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः ॥ ३३ ॥
पदरत्नावली
रुषितः कुपितः साक्षेपं यथा तथा प्राह ॥ ३३ ॥
सत्यधर्मीया
सर्वतः सर्वप्रकारेणापि परिपूर्णेन भगवता याचितः स साक्षेपं सतिरस्कारं रुषितो रुष्टो राज्ञो भृत्यः सुदुर्मदो राजा यथा तथा भृत्य इति प्राह ॥ ३३ ॥
सुमनोरञ्जिनी
सर्वतः सर्वसमृध्या परिपूर्णेन भगवता याचितः । सु अत्यन्तम् । दुर्मदः रुषितः कुपितः ॥ ३३ ॥
ईदृशान्येव वासांसि नित्यं गिरिवनेचराः ।
परिधत्त किमुद्वृत्ता राजद्रव्याण्यभीप्सथ ॥ ३४ ॥
पदरत्नावली
उद्गतं वृत्तं मर्यादारूपं येभ्यस्ते उद्वृत्ताः, हे अतिक्रान्तमर्यादा इत्यर्थः । परिधत्त किमिति सम्भावनायां लोट् । राजद्रव्याण्यभीप्सथ प्रार्थयध्वम् ॥ ३४ ॥
सत्यधर्मीया
नित्यं गिरिवनेचरा यूयमीदृशान्येव वासांसि परिधत्त किमिति सम्भावनायां लोट् । उद्वृत्ता अतिक्रान्तमर्यादा राजद्रव्याण्यभीप्सथ प्रार्थयध्वम् । गिरि वाच्युद्वृत्ता इदं प्रष्टव्यं न प्रष्टव्यमिदमिति विमर्यादा इति वा ॥ ३४ ॥
सुमनोरञ्जिनी
आक्षेपवाक्यमाह ॥ ईदृशेति ॥ हे उद्वृत्ता यूयं नित्यं गिरौ वने चरन्तीति तथोक्ताः । ईदृशान्येव वासांसि परिधत्त किं परिधानीकुरुथ । येन यूयं राजद्रव्याणि राजयोग्यवस्त्ररूपाणि । अभीप्सथ अपेक्षध्वम् ॥ ३४ ॥
याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीविषा ।
बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राजकुलानि हि ॥ ३५ ॥
पदरत्नावली
हे बालिशा आशु यात पलायध्वम् । यदि जिजीविषा जीवितुमिच्छा तर्हि मैवं प्रार्थ्यम् । घ्नन्ति प्रहरन्ति । लुम्पन्ति च्छिन्दन्ति । राजकुलानि राजवंश्याः ॥ ३५ ॥
सत्यधर्मीया
यदि युष्माकं जिजीविषा जीवनेच्छा तर्हि हे बालिशा मूर्खा आशु यात । कुत इत्यत इत इत्याह । राजकुलानि राजसमूहा बध्नन्ति घ्नन्ति, ताडयन्ति, लुम्पन्ति लुठयन्ति । तत्र हेतुर्दृप्तमिति । यर्हि यतोऽत आशु यात । राजानश्च कुलानि तत्सजातीयाश्चेति वा । कुलं जनपदे गेहे सजातीयगणे गोत्र इति विश्वः ॥ ३५ ॥
सुमनोरञ्जिनी
हे बालिशाः । यूयम् आशु यात गच्छध्वम् । यदि जिजीविषा जीवितु-मिच्छाऽस्ति तर्हि भवद्भिरेवं मा प्रार्थ्यं न प्रार्थनीयम् । हि यस्माद् राजकुलानि राज्ञां समुदायाः । दृप्तं मत्तं पुरुषं बध्नन्ति निगडादिना । घ्नन्ति ताडयन्ति नाशयन्ति च । लुंम्पन्ति निधनं कुर्वन्ति अत इति संबन्धः ॥ ३५ ॥
इत्थं विकत्थमानस्य कुपितो देवकीसुतः ।
रजकस्य कराग्रेण शिरः कायादपाहरत् ॥ ३६ ॥
पदरत्नावली
विकत्थमानस्य विरुद्धमुच्चैर्जल्पतः ॥ ३६ ॥
सत्यधर्मीया
इत्थं विकत्थमानस्यासम्बद्धभाषिणः । देवकीसुतो राजानुबन्धमविगम्योक्त-वानिति विकत्थनतामनेन द्योतयति । कराग्रेण कायाद्विशिष्टाच्छरीराच्छिरोऽपाहरत् । येन दुर्व्यवहरणं हरणं तस्यैव न्याय्यम् । कोऽनुबन्धः कबन्धेनेति विहाय कायं जहार हरिः शिरस्तस्येत्यौत्प्रेक्षिकाः प्रेक्षावन्तो वदन्ति । तथा सर्वज्ञत्वेन भाविरजकविरोधं मनसि निधाय सर्वदा तज्जननिर्णेजनमस्मद्वस-नयोर्मेति पीतावरणक एको नीलाम्बरोऽभूदिवेति चोत्प्रेक्षयन्ति ॥ ३६ ॥
सुमनोरञ्जिनी
विकत्थमानस्य अश्लीलं ब्रुवतः ॥ ३६ ॥
तस्यानुजीविनः सर्वे वासःकोशान् विसृज्य वै ।
दुद्रुवुः सर्वतो मार्गे वासांसि जगृहेऽच्युतः ॥ ३७ ॥
पदरत्नावली
तस्य मुख्यरजकस्यानुजीविनो भृत्याः । वासःकोशान् वस्त्ररूपार्थौघान् । ‘कोशोऽस्त्री कुड्मले दिव्यशास्त्रेऽर्थौघे गृहे तनौ’ इति यादवः । सर्वतो मार्गं दुद्रुवुः ॥ ३७ ॥
सत्यधर्मीया
तस्यानुजीविनो भार्या भृत्याद्याः । यथोक्तं हरिवंशे । तं हतं पतिदेवत्यो भार्यास्तस्य विचुक्रुशुः । त्वरितं मुक्तकेश्यश्च जग्मुः कंसनिवेशनमिति । वासःकोशान्वस्त्ररूपार्थौघान् । कोशोऽस्त्री कुड्मले दिव्यशास्त्रेऽर्थौघे गृहे तनाविति यादवः । सर्वतो मार्गे दुद्रुवुः । अच्युतो वासांसि जगृहे ॥ ३७ ॥
सुमनोरञ्जिनी
तस्य रजकस्य । अनुजीविनः भृत्याः । वासःकोशान् वस्त्रग्रन्थीन् ॥३७॥
वसित्वाऽऽत्मप्रिये वस्त्रे कृष्णः सङ्कर्षणस्तथा ।
शेषाण्यादत्त गोपेभ्यो विसृज्य भुवि कानिचित् ॥ ३८ ॥
पदरत्नावली
आत्मप्रिये स्वयोग्ये वस्त्रे । कानिचिदवशिष्टानि भुवि विसृज्य वितत्य पादन्यासं कुर्वन्तौ गताविति यावत् । ‘शिष्टान्यास्तीर्य तत्र च पदं प्रणिधाय चागात्’ इति चाचार्यवचनम्
॥ ३८ ॥
सत्यधर्मीया
आत्मप्रिये स्वयोग्ये वस्त्रे कृष्णः सङ्कर्षणश्च वसित्वा शेषाणि गोपेभ्योऽदत्त । कानिचिदुर्वरितानि भुवि विसृज्य वितत्य पादन्यासं कुर्वन्तौ गताविति भावः । शिष्टान्यास्तीर्य तत्र पदं प्रणिधाय चागादित्याचार्योक्तेः । प्रायेण प्राहुणिकाः प्राप्तनूतनप्राहुणिकानां पादस्थापनार्थं स्थापयन्ति वासांसि कंसस्तु स्वयं न वेदितेति वयमेव कुर्म इति प्रचयार्थं चेमां कृतिमकृत देव इति ज्ञेयम् ॥ ३८ ॥
सुमनोरञ्जिनी
कृष्णस् तथा संकर्षणः । आत्मप्रिये वस्त्रे वसित्वा परिधाय । शेषाणि अवशिष्टानि । गोपेभ्य आदत्त ददतुरित्यर्थः ॥ ३८ ॥
ततस्तु १वापकः प्रीतस्तयोर्वेषमकल्पयत् ।
विचित्रवर्णैः २शैलेयैराकल्पैरनुरूपतः ॥ ३९ ॥
पदरत्नावली
वायकस्तन्तुवायविशेषः । वेषमलङ्कारमकल्पयत् । एतदेव विशदयति विचित्रेति ॥ विचित्रा नानाविधा वर्णा नीलरक्तादयो येषां ते विचित्रवर्णास्तैः शैलेयैर्गिरिभवैर्गैरिकादिभिराकल्पैर्भूषणैश्च ॥ ३९ ॥
सत्यधर्मीया
रजकेन सह रङ्गकारो दृष्टः कृष्णेनेत्युक्तम् । तत्र स कः किंकर्मा कां सेवां देवस्याकरोदथवा दुरात्मा चेत्किमतनोत्तं भगवानित्यतः स संस्तत्सेवा चेयं देवोऽप्येवं दयां ततान तदुपरीति परिकीर्तयति ॥ तत इति ॥ वापको नापिता ततः स्वेन सह दृष्टरजकभञ्जनानन्तरं वायकश्चैलेयैरिति पठित्वा वायकस्तन्तुवायविशेषः । चैलेयैर्वस्त्रमयैरिति व्याख्या । रजको वस्त्रनिर्णेजकः स एव वस्त्राणां रङ्गमपि कुर्वन्रङ्गकार इत्याकारया व्याख्यया न सख्यं भजते । किञ्च रजक एव रञ्जकश्चेन्मूले कृष्णदृष्टवतस्ततस्त्विति नानुवादः सम्भवति । अपि च न तान्तुवायिकव्यापारः स इत्युपेक्ष्या । उक्तं च–
ग्राह्यापहेयरहितैकचिदात्मसान्द्रस्वानन्दपूर्ववपुरप्ययशोषहीनः ।
लोकान्विडम्ब्य नरवत्समलक्तकाद्यैर्वप्त्रा विभूषित इवाभवदप्रमेयः । इति ।
तयो रामकृष्णयोर्वेषमकल्पयत् । प्रीत इति भक्ततोपोद्बलकम् । विचित्रवर्णैः शैलेयैर्गिरिभवै-र्गौरिकादिभिराकल्पैर्भूषणैश्चानुरूपतः स्वतदुचिततया ॥ ३९ ॥
सुमनोरञ्जिनी
वायकस् तन्तुवायकः वप्त्रा विभूषित इवाभवदिति निर्णयानुसारेण । वापक इति पाठे तु स्पष्टोऽर्थः । विशेषवेषमलङ्कारम् । कैरिति तत्राह ॥ विचित्रेति । शैलेयैः पर्वतोत्पन्नैर् धातुभिर् आकल्पैर् आभरणैः । चैलेयैरित्यपि पठन्ति । चैलं वस्त्रं तन्मयैर् आकल्पैर् उष्णीषादिभिरित्यर्थः ॥ ३९ ॥
नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः ।
स्वलङ्कृतौ बालगजौ पर्वणीव सितेतरौ ॥ ४० ॥
पदरत्नावली
नानालक्षणं नानावेषश्च ताभ्याम् । पर्वणि उत्सवविशेषे । सितेतरौ श्वेतश्यामौ
॥ ४० ॥
सत्यधर्मीया
नानालक्षणं नानावेषश्च ताभ्यां यथा सितेतरौ सितश्चेतरः प्रस्तुतेतरोऽसितश्च तौ । बालगजावलङ्कृतौ पर्वण्युत्सवविशेष विरेजाते तथा रामकृष्णौ विरेजतुः । दृष्टान्तद्वयं वा बालगजौ । सितेतराविव सितो रामोऽसितः कृष्णश्चेति तादृशगजाविव । यथा पर्वणी वेति छेदः । पौर्णिमामावास्ये व इव ते यथा सितेतरे शुक्लकृष्णौ रेजाते तथा रेजतुरिति ॥ ४० ॥
सुमनोरञ्जिनी
नाना लक्षणम् अङ्कं वेषम् अलङ्करणं ताभ्याम् । पर्वणि उत्सवे । सितेतरौ शुक्लकृष्णौ । यद्वा पर्वणीति प्रथमाद्विवचनान्तम् । पर्वणीव पौर्णिमामावास्यावत् । सितेतराविति पदरत्नावली ॥ ४० ॥
तस्य प्रसन्नो भगवान् प्रादात् सारूप्यमात्मनः ।
श्रियं च परमां लोके बलैश्वर्यस्मृतीन्द्रियम् ॥ ४१ ॥
पदरत्नावली
बलं शरीरशक्तिश्च ऐश्वर्यम् अणिमादिश्च स्मृतिर्भगवत्स्मरणं च इन्द्रियं तत्पाटवं च यस्य तदात्मनः सारूप्यमित्यन्वयः ॥ ४१ ॥
सत्यधर्मीया
तस्य वप्तुर्भगवान्प्रसन्नो लोके श्रियं च परमां, बलैश्वर्यस्मृतीन्द्रियं बलं चैश्वर्यं च स्मृतिं चेन्द्रियं तत्पाटवं च । एकवद्भावः । अन्ते चात्मनः सारूप्यं तद्रूपं मोक्षम् ॥४१॥
सुमनोरञ्जिनी
तस्य वायकस्य । इह लोके तु । बलं शारीरबलम् । ऐश्वर्यम् अणिमादिकं स्मृतिं भगवत्स्मृतिम् । इन्द्रियाणि च तानि प्रादात् ॥ ४१ ॥
ततः सुदाम्नो भवनं मालाकारस्य जग्मतुः ।
तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४२ ॥
सत्यधर्मीया
ततो वेषभूषणादिसम्पत्त्यनन्तरं सुदाम्नस्तन्नाम्नो मालां करोतीति माला-कारस्तस्य भवनं जग्मतुः । स सुदामा ॥ ४२ ॥
सुमनोरञ्जिनी
सुदाम्नः सुदामनामकस्य ॥ ४२ ॥
तयोरासनमानीय पाद्यं चाथार्हणादिभिः ।
पूजां सानुगयोश्चक्रे स्रक्ताम्बूलानुलेपनैः ॥ ४३ ॥
सत्यधर्मीया
पाद्यं चानीयेत्यन्वयः । अर्हणादिभिरुपचारैः स्रक्ताम्बूलानुलेपनैः पूजाञ्चक्रे
॥ ४३ ॥
सुमनोरञ्जिनी
पाद्यं पादप्रक्षालनार्थमुदकं च । आनीय । अर्हणं पूजासाधनं द्रव्यम् । आदिपदेन विनयवचनादिकम् । तैर् अनुलेपनं चन्दनम् ॥ ४३ ॥
प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो ।
पितृदेवर्षयो मह्यं तुष्टा ह्यागमनेन वाम् ॥ ४४ ॥
पदरत्नावली
पावितं पवित्रीकृतम् ॥ ४४ ॥
सत्यधर्मीया
वां युवयोरागमनेन नो जन्म सार्थकं कुलं च पावितं पितरश्च देवाश्च ऋषयश्च मह्यं मदुपरि तुष्टाः । प्रभो इत्युक्तवक्ष्यमाणगुणा मुख्याः कृष्ण एव बले तूपचार इति ध्वनयति
॥ ४४ ॥
सुमनोरञ्जिनी
आदिपदोक्तं सविनयवचनं दर्शयति ॥ प्राहेति । सार्थकं सफलम् । पावितं पवित्रीकृतम् ॥ ४४ ॥
भवन्तौ किल विश्वस्य जगतः कारणं परम् ।
अवतीर्णाविहांशेन क्षेमाय च भवाय च ॥ ४५ ॥
सत्यधर्मीया
भवन्तौ युवां वर्तमानकाल इत्यप्यर्थः । भवन्ति वर्तमानकाल इति कौमुदी । क्षेमाय, भवाय मङ्गलाय चावतीर्णौ ॥ ४५ ॥
दुर्घटभावदीपिका
नारायणस्यांशेनांशत्वेन युक्तौ विश्वस्य जगतः परं मुख्यं कारणं च भवन्तौ विश्वस्य जगतो भक्तिसम्पन्नसमस्तजगतः क्षेमाय भवाय मङ्गलाय च भूम्यामवतीर्णौ प्रादुर्भूतावित्ये-तत्किल प्रमाणप्रसिद्धमिति । एतेन कृष्णरामयोर्नारायणांशत्वात् । अंशाविति वक्तव्यमंशेनावतीर्णाविति कथनमनुपपन्नमिति दूषणमपास्तम् । अंशेनेति भावप्रधानो निर्देशः । नारायणस्य युक्तावित्यनयोः शेष इति चाङ्गीकृत्य नारायणस्यांशावित्यर्थ इत्यभ्युपगमात् ॥ ४५ ॥
सुमनोरञ्जिनी
विश्वस्य समस्तस्य जगतः परं स्वतन्त्रं कारणम् । कर्ताराविति यावत् । भवाय सौख्याय । सज्जनानामिति शेषः ॥ ४५ ॥
न हि वां विषमा दृष्टिः सुहृदोर्जगदात्मनोः ।
समयोः सर्वभूतेषु भजन्तं भजतोरपि ॥ ४६ ॥
पदरत्नावली
जगदात्मनोर्जगत्स्वामिनोः ॥ ४६ ॥
सत्यधर्मीया
समयोस्तत्तद्योग्यतामनुसृत्य समयोर्वां न हि विषमा दृष्टिर्जगदात्मनोर्जगत्स्वा-मिनोः सुहृदोर्बन्ध्वोः सुमनसोर्वा भजन्तं भजतोः फलदानेन ॥ ४६ ॥
सुमनोरञ्जिनी
रजकवधवायकानुग्रहाभ्यां युवयोर्न विषमदृष्टिता सम्भावनीयेत्याह ॥ न हीति ॥ जगदात्मनोर् जगत्स्वामिनोः । ननु फलवैषम्यदर्शनात्कथं समत्वमिति तत्रोक्तम् ॥ भजन्तमिति ॥ भजतोः फलदानेनानुग्रहं कुर्वतोर् अपिना भजन्तम् अभजतोरित्यपि लभ्यते । सेवानुरूपफलदानेन न वैषम्यमिति भावः ॥ ४६ ॥
शाध्याज्ञापय मां भृत्यं किमहं करवाणि वाम् ।
पुंसोऽत्यनुग्रहो ह्येष भवद्भिर्यन्नियुज्यते ॥ ४७ ॥
पदरत्नावली
शाधि शिक्षस्व ॥ ४७ ॥
सत्यधर्मीया
शाधीत्येकं प्रति, एकं प्रति आज्ञापयेतीति नैकतरवैय्यर्थ्यं वा सामान्य-विशेषकल्पं वेति ज्ञेयम् । भवद्भिर्भवदादिभिर्नियुज्यत इति यद्येष नियोगोऽत्यनुग्रहस्तद्रूपः । पुंस इत्यधिकारिणः ॥ ४७ ॥
सुमनोरञ्जिनी
मया किमप्यविहितमाचरितं चेत् शाधि शिक्षय । नो चेद् भृत्यं मां, त्वत्सेवाया माज्ञापय । यन्नियुज्यत यद् एषः नियोगो ऽनुग्रहो हि अनुग्रह एव ॥ ४७ ॥
इत्यभिप्रेत्य राजेन्द्र सुदामा प्रीतमानसः ।
शस्तैः सुगन्धैः कुसुमैर्माला विरचिता ददौ ॥ ४८ ॥
दुर्घटभावदीपिका
इत्यभिप्रेत्येत्यस्येति यद्वक्तव्यं तत्सर्वं कृष्णानुग्रहेण मनसा निश्चित्येत्यर्थः । एतेनेति प्राहेत्यनेन पूर्णत्वात् । अभिप्रेत्येत्येतद्व्यर्थमिति दूषणं परास्तम् । अन्यैरनुक्तं नः सार्थकं जन्मेत्यादि कृष्णराममाहात्म्यं सुदाम्ना कथमुक्तमित्याशङ्कापरिहारार्थमितीत्यतः परं वक्तव्यं तत्सर्वं कृष्णानुग्रहेण मनसेत्यस्य शेषमङ्गीकृत्वेत्यभिप्रेत्येत्यनेन यतः कृष्णानुग्रहेण कृष्णाय माहात्म्यं मनसा ज्ञातमतः कृष्णराममाहात्म्यमुक्तमित्युच्यत इत्यूरीकरणात् ॥ ४८ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे एकोनचत्वारिंशोऽध्यायः ॥ १०-३९ ॥
सत्यधर्मीया
गन्धो येषामस्तीति गन्धानि सुशोभनानि च तानि गन्धानि च तैः । अतो न गन्धस्येदुत्पूतिसुसुरभिभ्य इतीत्त्वप्रसक्तिः । कुसुमैर्विरचिता माला ददौ । एकवचनान्तपाठो दुर्लेखमूलः । ताभिर्मालाभिरित्युक्तेः ॥ ४८ ॥
सुमनोरञ्जिनी
इति प्राहेति पूर्वेणान्वयः । तदनन्तरमभिप्रेत्य तयोरभिप्रायं ज्ञात्वा । सुगन्धैः शोभना ये गन्धास्तैर्गुणैः । शस्तैः प्रशस्तैः ॥ ४८ ॥
ताभिः स्वलङ्कृतौ प्रीतौ कृष्णरामौ सहानुगौ ।
प्रणताय प्रपन्नाय ददतुर्वरदौ वरान् ॥ ४९ ॥
पदरत्नावली
प्रपन्नाय शरणागताय ॥ ४९ ॥
सत्यधर्मीया
प्रणताय प्रपन्नाय शरणागताय ॥ ४९ ॥
सुमनोरञ्जिनी
ताभिर् मालाभिः सुष्ठु अलङ्कृतौ । प्रपन्नाय शरणागताय ॥ ४९ ॥
सोऽपि वव्रेऽचलां भक्तिं तस्मिन्नेवाखिलात्मनि ।
तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ॥ ५० ॥
पदरत्नावली
अखिलात्मनि सकललोकस्वामिनि ॥ ५० ॥
सत्यधर्मीया
तस्मिन्नेवाखिलात्मन्यचलां भक्तिं वव्रे । तद्भक्तेषूत्तमेषु सौहार्दं भूतेषु स्वाधमेषु दयां चेति वव्रे ॥ ५० ॥
सुमनोरञ्जिनी
सोऽपि वव्र इत्यतस्तदाह ॥ सोऽपीति ॥ अखिलस्वामिनि तस्मिन् । भक्तिमेव वव्र इति सम्बन्धः ॥ ५० ॥
इति तस्मै वरं दत्वा श्रियं चान्वयवर्धिनीम् ।
बलमायुर्यशः कान्तिं निर्जगाम सहाग्रजः ॥ ५१ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे एकोनचत्वारिंशोऽध्यायः ॥
पदरत्नावली
अन्वयवर्धिनी वंशपरम्परातो वृद्धिमतीम् ॥ ५१ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे एकोनचत्वारिंशोऽध्यायः ॥
सत्यधर्मीया
अन्वयवर्धिनीं वंशपरम्परातो वृद्धिमतीम् । बलं यशः कान्तिं च तद्रूपं वरं दत्वाऽऽयुर्नित्यायुर्मोक्षं च दत्वा सहाग्रजो निर्जगाम तद्धामतः ।
माला अवाप्य च सुदामत आत्मन्तन्त्रस्तावक्षयोऽनुजगृहे निजपार्षदौ हि ।
पूर्वं विकुण्ठसदनाद्धरिसेवनाय प्राप्तौ भुवं मृजिनपुष्पकरौ पुराऽपीत्याचार्योक्तेः ॥ ५१ ॥
॥ इति श्रीमद्भागवतटिप्पण्यां सत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे एकोनचत्वारिंशोऽध्यायः ॥
सुमनोरञ्जिनी
इति तद्याचनाप्रकारेण । अन्वये वंशे वर्धिनीं दिने दिने वर्धिष्यमाणां श्रियं संपत्तिम् ॥ ५१ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्याम् एकोनच्वारिंशोऽध्यायः ॥