१३ अष्टत्रिंशोऽध्यायः

एवं दृष्ट्वा तमक्रूरः प्रसन्नहृदयेन्द्रियः

॥ अथ अष्टत्रिंशोऽध्यायः ॥

श्रीशुक उवाच—

एवं दृष्ट्वा तमक्रूरः प्रसन्नहृदयेन्द्रियः ।

तुष्टाव पुण्डरीकाक्षं भक्त्याऽवनतकन्धरः ॥ १ ॥

पदरत्नावली

अक्रूरस्य कृष्णस्तुतिव्यपदेशेन विद्वदधिकारयोग्यं भगवदुपासनाप्रकारं निरूपय-त्यस्मिन्नध्याये ॥ १ ॥

सत्यधर्मीया

अक्रूरस्तुतिव्याजतोऽव्याजभजकैरेवं देवोपासनं कर्तव्यमिति निरूप्यते । तत्रादौ दृष्ट्वा कृष्णं किं चकाराक्रूर इति किञ्चिच्चलच्चित्तं विदित्वा तदा तु स्वयमेव शुक उक्त्या स्थिरयतीतीरयति ॥ श्री शुक इति ॥ प्रसन्नं हृदयं प्रसन्नानीतराणि चेन्द्रियाणि यस्य सः । अवनता कन्धरा यस्य सः ॥ १ ॥

अक्रूर उवाच—

नतोऽस्म्यहं त्वाऽखिल१हेतुभूतं नारायणं पूरुषमादिमव्ययम् ।

यन्नाभिजातादरविन्दकोशाद् ब्रह्माऽऽविरासीद् यत एष लोकः ॥ २ ॥

पदरत्नावली

अखिलहेतुतया सदा भूतं सन्तं पूरुषं पूर्णषड्गुणम् । यतो विरिञ्चादेषः मानप्रमितः ॥ लोकोऽभूत् स च यस्य तव नाभिजातादरविन्दकोशादाविरासीत् तं नारायणम् ॥ २ ॥

सत्यधर्मीया

साक्षात्कृतोऽयं साक्षाल्लक्ष्म्यध्यक्ष इति तल्लक्षणान्युक्त्वा नमस्यति ॥ नतोऽस्मीति । अहं त्वा नतोऽस्मीत्यन्वयः । अखिलस्य हेतुभूतः कारणतया सदा संस्तम् । नावान्तरकारणमित्यप्याह ॥ अखिलेति । खिलो दुर्बलो नेत्यखिलः स चासौ हेतुश्च तद्रूप इति तम् । पूरुषमादिमिति पदम् । पूरुषोऽक्षरपुरुषश्चासौ मा रमा च तस्या आदिम् उपजीव्यमुत्तममिति यावत् ।

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।

उत्तमः पुरुषस्त्वन्यः परमात्मेत्यादेः । पूरुषं पूर्णषड्गुणं सर्वशरीरशायिनं वा । आदिम् अ न विद्यते आदिरुत्पादको यस्य स आदिः । अ निषेध इति विश्वः । निपात एकाजित्यादि त्वार्षतया नेति ज्ञेयम् । तर्हि प्रागभाववन्निवृत्तिः किं न स्यादित्यत आह ॥ अव्ययमिति ॥ नाशरहितम् । प्रातर्ध्यातोऽप्ययमित्याह ॥ अविं सूर्यमयते गच्छति स इति तदन्तर्गतमिति । अवयः शैलमेषार्का इत्यमरः । अविः शैले रवौ मेष इति विश्वः । ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायण इत्युक्तेर्नारायणमिति सुलग्नं चैतत्पक्षे । स्रष्टृत्वसंहर्तृत्वे नान्यगते इत्यप्याह ॥ आदि-मव्ययमिति ॥ आदिमः सर्वादिभवश्चासौ विशेषेणायो गतिर्निवृत्तिर्यस्मात्स चेति । पूरुषो मा रमा साक्षादादिमा यस्य जगतस्तस्य व्ययोऽत्यन्तसामीप्यरूपश्च यतयश्च(?) यस्मात्स तथा तम् । विधातृविश्वविधायकताऽप्येवमित्याह ॥ यदिति ॥ नाभिजातादरविन्दकोशाद्ब्रह्मा यतो धातुः सकाशादेषः मानप्रमित आसीत्सोऽप्याविरासीत्तं नारायणम् । एवमाद्यविरुद्धगुणाश्रयत्वात्तदभिधानमिति विभवादुक्तवक्ष्यमाणानि लक्षणानि ज्ञेयानि । तथाऽनेकवाक्यमूलानीति यत्र दैवाल्लब्धा सङ्गतिर्भवतु नान्यत्र मन आयासनीयम् । अखिलहेतुहेतुमिति पाठे कारणीभूतप्रकृत्यादिकारणमित्यर्थः ॥२॥

सुमनोरञ्जिनी

अक्रूरकृतस्तवनानुवादव्याजेनाधिकारिभिर्यथायोग्यं स्वयोग्यगुणोपसंहारपूर्वकं कर्तव्यमन्तर्बहिः सर्वगतत्वेनेत्युपासनात्रयं सूचयन् सर्वजगत्स्रष्टृत्वरमाब्रह्मादिभिरपि दुरधिग-ममहित्वादिमाहात्म्यं निरूपयत्यस्मिन्नध्याये । यद्यपि पूर्वाध्यायान्ते अस्तौषीदित्युक्तं तथापि पुनस्तुष्टावेत्युक्तिः श्रोतॄणामादरजननाय । आचार्यैस्तथोपदेशात् । तदनुवादस्तुतिप्रकारमेवाह ॥ नतोऽस्मीति ॥ अहं त्वां नतोऽस्मीत्यन्वयः । अन्यान् विहाय मन्नमने को हेतुरित्यत उक्तम् ॥ नारायणमिति ॥ अरविरुद्धत्वान्नारा गुणास् तेषामयनं गुणपूर्णमित्यर्थः । अन्यत्राविद्यमानं गुणपूर्णत्वं कथमुक्तमित्यतस्तत्र सम्भावकं लक्षणमाह ॥ अखिलेति ॥ अखिलस्य जगतः कारण-भूतम् । ननु जगत्सृष्टौ कारणान्तरमस्ति न वा । नेति पक्षे सृष्ट्यनुपपत्तिः । उपादानमन्तरा तदसम्भवात् । अस्ति चेल्लक्षणमतिव्याप्तमित्यत उक्तम् । अखिलेषु जगद्धेतुषु भूतं स्थितम् । तत्र तत्र स्थितो विष्णुस्ततच्छक्तीः प्रबोधयन्नित्यादि । तथा च मुख्यं कारणत्वं तस्यैवेति भावः । अस्यैव जगत्कारणत्वे किं प्रमाणमित्यत उक्तम् । पूरुषं पुरुषशब्दवाच्यम् । अनेन पुरुषसूक्तं प्रमाणमुक्तं भवति । तेन च तद्व्याख्यानभूताः सर्वे वेदाः प्रमाणमिति लभ्यते । ब्रह्मणः पुरुषशब्दवाच्यत्वात्तद्व्यावर्तनायादित्वेन विशिनष्टि । पुराणपुरुषमित्यर्थः । अत एवाव्ययं नाशरहितम् । ननु लोके चतुर्मुखस्यैव स्रष्टृत्वेन प्रसिद्धेः कथं विष्णोः कारणत्वमित्यतः सोऽप्यस्मादेव जात इत्याह । यतश्चतुर्मुखादेष लोकः सुरनरतिर्यगादिर् आविरासीत् स ब्रह्माऽपि यस्य विष्णोर्नाभिजाता-दरविन्दकोशादाविरासीदित्यन्वयः । यतः यस्मिन् नाभिपद्मे । एष लोकः समुदायैकवचनं भुवनानि तिष्ठन्तीति वा । यस्मिन्विश्वानि भुवनानि तस्थुरिति श्रुतेः ॥ २ ॥

भूस्तोयमग्निः पवनः खमादिर्महानजादिर्मन इन्द्रियाणि ।

सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः ॥ ३ ॥

तात्पर्यम्

तवाङ्गेभ्यो भूताः ॥ ३ ॥

पदरत्नावली

अत्र भूरादिविबुधान्तानामङ्गभूता इत्येवमङ्गतादात्म्यमुच्यत इति भ्रमभ्रंशनाय विग्रहं प्रदर्शयन्त्याचार्यास् तवाङ्गेभ्यो भूता इति । ‘पद्भ्यां भूमिः’ ‘अम्भस्तु यद्रेतः’ ‘मुखादिन्द्र-श्चाग्निश्च’ ‘प्राणाद् वायुरजायत’ ‘नाभ्या आसीदन्तरिक्षम्’ इत्यादिश्रुतिभ्यः । ततश्चायं श्लोकार्थः । भूरादीनि पञ्चभूतानि, आदिभूतादिरहङ्कारः, महान् महत्तत्त्वम्, अजा चादिश्च अजादिः प्रकृतिरूपं कारणं, मनः पञ्चवृत्तिमत्, इन्द्रियाणि इतराणि, सर्वे च ते इन्द्रियार्थाः शब्दाद्या विषयाः, विबुधा एतदभिमानिनः सर्वेऽपि देवा ये जगतो हेतवो हेतुत्वेन सम्प्रतिपन्नास्ते तवाङ्गभूता ओभ्यो जाता इति ॥ ३ ॥

सत्यधर्मीया

भूस्तोयमग्निरिति श्लोके भूरादिविबुधान्तानामङ्गभूता इत्यङ्गतादात्म्यमुच्यत इति भ्रमं विग्रहं प्रदर्श्य भ्रंशयति ॥ तवाङ्गेभ्यो भूता इति ॥ पद्भ्यां भूमिरित्यादेः । भूता जाताः ॥ ततश्चायं श्लोकार्थः ॥ भूः पद्भ्यां तोयमापो रेतसोऽम्भस्तु यद्रेत इत्यादेः । अग्निर्मुखात्पवनः प्राणात्खं नाभ्याम् । नाभ्या आसीदन्तरिक्षमित्यादेः । आदिर्भूतादिरहङ्कारः स्वस्यादिरहङ्कार इति वा । महान्महत्तत्त्वम् । अजा चादिश्च प्रकृतिरूपं कारणमिति । मनः पञ्चवृत्तिमदिन्द्रियाणीतराणि । सर्वे च ते इन्द्रियार्थाः शब्दाद्या विषयाः । विबुधा एतदभिमतिमन्तो ब्रह्मादयो देवा ये जगतो हेतवो हेतुत्वेन सम्प्रतिपन्नास्ते सर्वे ते तवाङ्गभूता ओभ्यो जाताः । मुख्यहेतुत्वं तव, तेषां त्ववान्तरकारणत्वमिति भावः । हा ईतव इति छेदः । या रमायास्तवः प्रकाशो यस्मादितीतवस्तस्य सम्बुद्धिः । विस्तृतं च तवस्तरमिति व्याख्यावसरे ॥ ३ ॥

सुमनोरञ्जिनी

न केवलं जगत्स्रष्टृत्वेन प्रसिद्धो ब्रह्मैव एतस्माज्जातः किं तु ये ये जगत्कारणतया श्रुत्यादौ प्रसिद्धास्ते सर्वेऽपि त्वदंगसंभूता इत्याह ॥ भूरिति ॥ भूरादिपञ्चभूतानि । तेषामादिः कारणीभूतम् । तामसम् अहङ्कारतत्वम् । महान् महत्तत्वम् । अजा प्रकृतिः । मनः, इन्द्रियाणि तदतिरिक्तानि श्रोत्रादीनि । मनस इन्द्रियत्वेऽपि प्राधान्यात्पृथगुक्तिः । आदिर् इन्द्रियकारणीभूतं तैजसाहंकारतत्वम् । इदमुपलक्षणम् । देवतादेहकारणवैकारिकाहङ्कारतत्वमपि ग्राह्यम् । यद्वा अजेति सम्बुद्धिः । द्वितीयादिशब्देनैव महत्तत्वकारणीभूता त्रिगुणा प्रकृतिर् ग्राह्या । प्रथमादि-पदेन त्रिविधमप्यहङ्कारतत्वं ग्राह्यमिति । सर्वेन्द्रियाणामर्था विषयाः शब्दादयः । न केवलं भूरादयो जडा एव अपि तु विबुधास्तत्तदभिमानिनो देवा अपि ये जगतो हेतवस्ते सर्वे । ते इत्यावर्तते । ते तव अङ्गभूता ओभ्यो जाता इत्यर्थः । अत्रैव तवाङ्गभूता अवयवभूता इति भ्रमं निराकर्तुम् आचार्यचरणैस् तवांगेभ्यो भूता इति व्याख्यातम् ॥ ३ ॥

नैते स्वरूपं विदुरात्मनस्ते अजादयोऽन्यात्मतया गृहीताः ।

अजोऽनुबद्धः स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ४ ॥

तात्पर्यम्

अन्यात्मतया गृहीताः । मत्तोऽन्ये जीवात्मान् एत इति भगवता गृहीताः । ‘अहं परो हि मद्भिन्ना जीवात्मानोऽल्पबुद्धयः । मद्वशाः सर्व एवेति ब्रह्मादी-न्मन्यते हरिरि’ति स्कान्दे ॥ ‘‘यथा हरिः स्वमात्मानं वेद तद्वद्रमापि न । ब्रह्मा च कुत एवान्ये विदन्त्येव तथापि त्वि’ति माहात्म्ये ॥ ४ ॥

पदरत्नावली

जगतो हेतवोऽप्येतेऽजादयः प्रकृत्यादय आत्मनो जगत्स्वामिनस्ते स्वरूपं साकल्येन न विदुः । भगवताऽन्यात्मतया मत्तोऽन्ये जीवात्मान एत इति गृहीता ज्ञाताः । अजो ब्रह्माऽपि सोऽजायाः प्रकृतेर्गुणैरनुबद्ध इति हेतुगर्भविशेषणम् । ततो गुणात् परं प्राकृतगुणातीतं ते स्वरूपं न वेद । अन्ये च कुत एव विद्युः । तथाऽपि तु स्वस्वयोग्यतानुसारेण जानन्ति । तदुक्तम् ‘अहं परो हि मद्भिन्ना जीवात्मानोऽल्पशक्तयः । मद्वशाः सर्व एवेति ब्रह्मादीन् मन्यते हरिः’ इति स्कान्दे । ‘यथा हरिः स्वमात्मानं वेद तद्वद् रमाऽपि न । ब्रह्मा च कुत एवान्ये विदन्त्येव तथाऽपि तु’ इति माहात्म्ये इति ॥ ४ ॥

सत्यधर्मीया

नैते स्वरूपं विदुरात्मन इति श्लोकेऽन्यात्मतया गृहीता इति पदमप्रतीतार्थमिति तदनूद्य स्वयं व्याकृत्य तद्द्रढिम्ने मानं चोदाहरति ॥ अन्यात्मतया गृहीता इति । अन्यपदं साकाङ्क्षितमिति विवक्षितं पूरयति ॥ मत्त इति । अन्ये च त आत्मानो जीवाश्च तेषां भावस्तत्ता । तत्त्वेन गृहीता इति मूलार्थं मनसि निधाय जीवात्मान एत इति भगवता गृहीता ज्ञाता इत्युक्तम् । अहं परोऽन्यो मदिति व्यस्तं समस्तं च जीवात्मनः । तत्र हेतुरल्पशक्तय इति । कदाचित्तथाऽन्यदा त्वन्यथेति नेत्याह ॥ सर्वदैवेति । इति । ब्रह्मादीन्हरिर्मन्यत इति । हरिर्यथा स्वं वेद तथा रमाऽप्यात्मानं नो वेद ब्रह्मा च न वेदाऽन्ये च कुत एव विद्युः । तथाऽपि तु योग्यतानुसारेण जानन्ति ॥ ततश्चायं श्लोकार्थः ॥ एतेऽजादयो ब्रह्मादय आत्मनो जगत्स्वामिनः स्वरूपं न विदुः । ते त्वया अन्यात्मतयाऽन्ये मत्त आत्मान इति गृहीता ज्ञाताः । अजो ब्रह्माऽपि सोऽजायाः प्रकृतेर्गुणैरनुबद्ध इति हेतुगर्भम् । ततो न वेदेति । तर्हि नैतद्बद्धेति जानाति जनार्दनं साकल्येन किमित्यतोऽप्याह ॥ अजा येति । ते स्वरूपं वा याऽजा साऽपि ते गुणात्परं तदतीतं स्वरूपं न वेद । गुणात्परं यथा तथा सत्यपीत्यपि योजना । ज्ञानाभावः सर्वस्येत्युक्ते रमाऽपि साकल्येन न जानाति जानन्ति च यथा स्वयोग्यं ते सर्वेऽपीति तदर्थमुपासना सार्थकीति तात्पर्यम् । सनकादयो जानन्ति किमित्यतो नेत्यप्याह ॥ अजाया इति । न विद्यते जाया येषां तेऽजायाः । अनित्यत्वान्न निङ् । अर्शआद्यजन्तो वा ॥ ४ ॥

सुमनोरञ्जिनी

ननु जगत्कारणत्वं यथा श्रुतिबलाद्विष्णोरङ्गीक्रियते तथा हिरण्यगर्भः समवर्ततेत्यादिश्रुतिबलादन्येषामपि स्यात् । न च द्वयोः स्वातन्त्र्येण कारणत्वं विरुद्धम् । ऐक्याङ्गीकारेणोपपत्तेरित्यतस्तत्राह ॥ नैत इति । एते अजादयः ब्रह्मादय आत्मनः सर्वस्वामिनस् ते स्वरूपं स्वरूपभूतं जगत्स्रष्टृत्वादिमाहात्म्यं न विदुर् न प्राप्नुवन् । ननु कुतो न प्राप्नुवन्ति । अजादीनां भगवदभेदेन तत्स्वरूपभूतमहिम्नोऽपि प्राप्तिसंभवादिति चेत्कालत्रयेऽपि भेदग्राहि-प्रत्यक्षविरुद्धोऽभेदो न युक्त इत्यभिप्रायेण भेदविषये ईश्वरप्रत्यक्षं प्रमाणयति ॥ अन्यात्मतयेति ॥ एते जीवात्मानो मत्तोऽन्ये इति भगवता गृहीता इत्यर्थः । तदुक्तमाचार्यचरणैः । मत्तोऽन्ये जीवात्मान एत इति भगवता गृहीताः ।

अहं परो हि मद्भिन्ना जीवात्मानोऽल्पशक्तयः ।

मद्वशाः सर्व एवैते ब्रह्मादीन् मन्यते हरिः ॥ इति स्कान्द इति ।

स्पष्टोऽर्थः । भेदे प्रत्यक्षं प्रमाणमुत्क्वा अनुमानमपि वक्तुं यदा श्रुत्यादौ देशकालाभ्यां भगवता समत्वेन प्रसिद्धा रमापि तत्स्वरूपं साकल्येनावगन्तुमशक्ता तदा कुतो ब्रह्मादीनां तदवगमः कुतस्तरां तदैक्यं युक्तमिति भावेनाह ॥ अजेति ॥ यथातथाशब्दावध्याहार्यौ । भवानिति शेषः । भवान् ते तव स्वरूपं यथा वेद साकल्येन जानाति तथा या श्रुत्यादौ प्रमिता सा अजा रमापि ते स्वरूपं न वेद साकल्येनेति शेषः । यदा च रमापि तव स्वरूपं साकल्येन जानाति तदा किमु वक्तव्यं ब्रह्मा न जानातीति । सः प्रकृतेर् गुणैः सत्वादिभिर् अनुबद्धः बद्धः हेतुगर्भविशेषणम् । अजः ब्रह्मा गुणात् सत्वादिगुणसमुदायात् परम् । दूरीकृतगुणत्रयमित्यर्थः । ते स्वरूपं न वेद न जानातीति किमु इति योजना । अजादीनां प्रकृतत्वेऽपि अजमात्रस्य ग्रहणं कैमुत्यद्योतनाय । यदाऽजस्यैवं भावः किम्वन्येषामिति । अनेन भगवतः ब्रह्मादिभ्योऽभेदे गुणबद्धत्वगुणातीतत्व-सार्वज्ञ्याल्पज्ञत्वादिरूपविरुद्धधर्माधिकरणत्वानुमानं प्रमाणमुक्तं भवति । एवमेवाभिप्रेत्योक्तं तात्पर्ये ।

यथा हरिः स्वमात्मानं वेद तद्वद्रमापि न ।

ब्रह्मा च कुत एवान्ये विदन्त्येव तथापि तु ॥

इति माहात्म्य इति । अयमर्थः । हरिर् यथा स्वमात्मानं वेद साकल्येन जानाति तद्वद्रमापि न वेद । ब्रह्मा च ब्रह्मा तु कुतः । अन्ये तु कुत एव । कुतस्तरां विदन्तीत्यर्थः । यदि सर्वथा सर्वेषां भगवज्ज्ञानं नास्ति तर्हि साधनानुष्ठानं व्यर्थमापद्येतेत्यत आह ॥ तथापि त्विति ॥ यद्यप्येवं तथापि तु यथायोग्यं विदन्ति । अतो न साधनानुष्ठानवैफल्यमिति भावः ।

इदं पाठान्तरम् (ननु) कुतो न प्राप्नुवन्ति । अजादीनां भगवदभेदेन तत्स्वरूपभूतस्यापि महिम्नः प्राप्तिसंभवादित्यतो न ब्रह्मादीनां भगवता अभेदोऽस्ति । भेदेनैव गृहीतत्वादित्याह ॥ अन्यात्मतयेति । भगवतेति शेषः। एते जीवात्मानः मत्तोऽन्ये इति भगवता गृहीता निश्चिता इत्यर्थः । अनेन जीवेश्वरयोर्भेदे ईश्वरप्रत्यक्षं प्रमाणमित्युक्तं भवति । एतदेवाभिप्रेत्योक्तमाचार्यचरणैः ।

मत्तोऽन्ये जीवात्मानो एत इति भगवता गृहीताः ।

अहं परो हि मद्भिन्ना जीवात्मानोऽल्पशक्तयः ।

मद्वशाः सर्व एवेति ब्रह्मादीन् मन्यते हरिः ॥

इति स्कान्दे इति सप्रमाणकं व्याख्यातम् । स्पष्टमिदम् । इतश्च नाभेदो युज्यत इत्याह ॥ अज इति ॥ स प्रकृतो ऽजो ब्रह्मा । अजायाः प्रकृतेर् गुणैः सत्वादिभिर् अनुबद्धः भगवदिच्छानुसारेण बद्धः । अतो गुणात्परं गुणातीतं दूरीकृतगुणत्रयमित्यर्थः । ते तव स्वरूपं न जानातीति योजना । अत्र अजादीनां प्रकृतत्वेऽपि अजमात्रग्रहणं यदा प्रतिभातपरावरस्यैवं भावस्तदाऽन्येषामेवंभावः स्वतः सिद्ध इत्यभिप्रायेण । ननु मास्तु गुणबद्धस्य ब्रह्मणः गुणातीत-भगवत्स्वरूपज्ञानं तत् तस्य भगवदभेदोऽपि मास्तु । रमादेव्यास्तु सर्वथा गुणबद्धत्वाभावेन तस्या-स्तदस्तु इत्याशङ्काया अपि इदमेवोत्तरम् ॥ अजाया इति ॥ या गुणाबद्धत्वेन देशकालाभ्यां च भगवता समत्वेन प्रसिद्धा सा अजापि रमापि ते स्वरूपं न वेदेति । तस्य सर्वथा भगवद्ज्ञानाभावे सर्वज्ञा सैषा बन्धिका प्रकृतिरिति श्रुतिविरोध इत्यस्यापीदमेवोत्तरम् ॥ वेदेति ॥ यद्वा किं रमादीनां सर्वथा भगवत्स्वरूपज्ञानं नास्ति । नेत्याह ॥ वेदेति ॥ भवानिति शेषः । यथा तथेत्युपस्कर्तव्यम् । भवान् यथा ते स्वरूपं वेद साकल्येन जानाति तथा अजा अजोऽपि न जानातीति । रमादयः साकल्येन न जानन्तीति भावः । अनेन गुणबद्धत्वगुणातीतत्वअल्पज्ञत्वसर्वज्ञत्वादिरूपं भेदसाधकमभेदे बाधकं चेदमुक्तं भवति । एतदेवाभिप्रेत्योक्तमाचार्यचरणैः ।

यथा हरिः स्वमात्मानं वेद तद्वद्रमापि न ।

ब्रह्मा च कुत एवान्ये विन्दन्त्येव तथापि तु ॥ इति ।

ब्रह्मा च न वेदेत्यन्वयः । यदि सर्वथा भगवद्ज्ञानमन्येषां नास्ति तर्हि ज्ञानार्थं साधनानुष्ठानं व्यर्थं स्यादित्यत उक्तम् ॥ तथापीति ॥ तथापि तु यथायोग्यं विन्दन्त्येव । अतो न वैयर्थ्यमिति भावः ॥ ४ ॥

त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् ।

साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ५ ॥

तात्पर्यम्

‘स्थितो ब्रह्मादिदेवेषु खादिभूतेषु चेश्वरः । आत्मशब्दोदितनरेष्वपि यस्माज्जनार्दनः । साध्यात्मः साधिभूतश्च साधिदैवेति चोच्यत’ इति अध्यात्मे ॥ ५ ॥

पदरत्नावली

भगवतोऽधिष्ठानविशेषमाह साध्यात्ममिति । अधिकत्वेनात्मसु नरेषु विद्यमानमध्यात्मं रूपं तेन सहित इति साध्यात्मस्तम् । पञ्चभूतेषु अधिकतया विद्यमानं यद् रूपं तदधिभूतं तेन सहित इति साधिभूतस्तम् । देवेषु ब्रह्मादिषु अधिकतया विद्यमानं रूपमधिदैवं तेन सहित इति साधिदैवस्तम् । तत्तदुपासनार्थं तत्तदधिष्ठानेषु तत्तद्गुणप्रबोधकत्वेन तत्तदधिकत्वेन सन्निहितमिति यावत् । तदुक्तमध्यात्म्ये ‘स्थितो ब्रह्मादिदेवेषु खादिभूतेषु चेश्वरः । आत्मशब्दोदित-नरेष्वपि यस्माज्जनार्दनः । साध्यात्मः साधिभूतश्च साधिदैवेति चोच्यते’ इति ॥ ५ ॥

सत्यधर्मीया

त्वां योगिनो यजन्त्यद्धेति पद्येऽधिकेनात्मना सहितं तथाऽधिकेन भूतेन सहितमधिकेन दैवेन सहितमिति कृष्णस्य स्वोत्कृष्टात्मसहितता प्रतीयते तां निरसितुं मानेन तच्छब्दं निरुच्य हरिवाचकतां वर्णयति ॥ स्थित इति । ब्रह्मादिदेवेषु खादिषु चात्मशब्दोदिताश्च तेषु च यस्मादीश्वरो जनार्दनः स्थितस्तस्मादधिकतया देवेषु विद्यमानं रूपमधिदैवं तेन सहित इति सर्वत्र विग्रहो ज्ञेयः । साधिभूत इति साध्यात्म इत्युच्यते । क्रमव्यत्यस्त्युक्तिश्चैतत्त्रित-याधिष्ठातृरूपाणां विशेषाभावसूचनार्थेति ज्ञेयम् । पाठक्रमादर्थक्रमो गरीयानित्येवमुक्तिरिति परे । अपरे चोत्पत्तिक्रमसंहारक्रमविवक्षयोक्तिरित्युक्तवन्तः । अधिदैव इत्यधिदैवेति समस्तं पदम् । अतोऽधिदैव इति वक्तव्यमिति निरस्तम् । सम्बुध्यन्तं चेति केचित्केचिदविभक्तिको निर्देश इति व्याचक्रुः ॥ अथ मूलार्थः ॥ साधवो योगिनो महापुरुषमीश्वरं साध्यात्ममधिकत्वेनात्मसु विद्यमानमध्यात्मं रूपं तेन सहित इति साध्यात्मस्तम् । एवमितरत्रापि ज्ञेयम् । साधिभूतं साधिदैवं चाद्धा यजन्ति । आत्मस्वध्यात्मम् । अनश्चेति टच् ॥ ५ ॥

सुमनोरञ्जिनी

सर्वोपास्यत्वाच्च त्वमेव वन्द्य इत्याह ॥ त्वामिति ॥ योगिन उपायज्ञाः । साधवो ऽध्यात्मनिष्ठाः । साध्यात्ममित्यादि । अध्यात्माद्यनुष्ठानसहितम् । अत एव महापुरुषं महांश्चासौ पूर्णषड्गुणश्च । ईश्वरं निरवधिकैश्वर्ययुक्तम् । त्वां यजन्ति उपासते । मुमुक्षवो ज्ञानोपायैः श्रवणमननादिभिर् अध्यात्माद्यधिष्ठानेषु त्वामुपासत इति भावः ॥ ५ ॥

त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः ।

यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥ ६ ॥

तात्पर्यम्

‘सर्वदेवेष्वपि हरिः सर्वदेवनियामकः । नामवान्सर्वदेवानां सर्वपूजां तथाऽत्त्यसावि’ति च ॥ ६ ॥

पदरत्नावली

योगिनो यजन्त्यद्धेति विशेषणात् केचिदन्यथा यजन्तीति ध्वनितमर्थमाह त्रय्येति । वैतानिका याज्ञिका द्विजास् त्रय्या विद्यया कर्मकाण्डमय्या वेदविद्यया विततैर्विस्तीर्णैः शतसंवत्सरान्तैर्नानाविधैर्यज्ञैर्नानाविधानि रूपाणि येषां ते तेषाममराणामाख्यया त्वां वै यजन्ते । ‘सर्वदेवेष्वपि हरिः सर्वदेवनियामकः । नामवान् सर्वदेवानां सर्वपूजां तथाऽत्त्यसौ’ इत्यध्यात्मे

॥ ६ ॥

सत्यधर्मीया

त्रय्या च विद्यया केचित्त्वां वा इति श्लोके नानारूपामराणामाख्यया यजन्त इत्युच्यते । तत्र तदाख्या च नाभेदं विना मुख्यतः सम्भवतीति तदात्मकतैवेति प्रतीयत इति तामध्यात्मवचनेन निराकरोति । सर्वदेवेष्विति । सर्वेषु हरिः सर्वदेवनियामक इति सर्वदेवानां नामवान्यतस्तत्तन्नामकस्ततः सर्वपूजां चासावत्ति भक्षयति । तदधीनत्वादर्थवत् । स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् । यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । नामानि सर्वाणि । यो देवानां नामधा एक एवेत्यादेस्तत्तन्नाम्ना दत्ताहुतीस्तत्तदन्तर्गतो मुख्यतो भगवानत्तीति भावः ॥ ततश्चायं श्लोकार्थः ॥ योगिन इत्युक्त्या तदितरेऽन्यथा यजन्तीति सूचितम् । तान् सकृत्यानाह ॥ त्रय्येति ॥ त्रय्या विद्यया वेदविद्यया कर्मप्रधानया वैतानिका वितानो यज्ञः । वितानो यज्ञ-विस्तारोल्लोचेषु क्रतुकर्मणि । वृत्तभेदावसरयोर्वितानं तुच्छमन्दयोरिति विश्वः । तत्कृताः । विततैर्यज्ञैर्नानारूपामराख्यया नाना नानाविधानि रूपाणि चतुर्मुखत्र्यक्षत्वाद्याकारा येषां ते च तेऽमराश्च देवाश्च तेषां नानारूपाख्या तया यजन्ते पूजयन्ति । नानारूपेति योग्यतयाख्यापदेनान्वेति । नानारूपेण सुवर्णादिसाधनेन वा । बहुरूपं च पुरटमिति काठकभाष्योक्तेः । अत एव तुच्छं वितानं तत्कर्मसम्बन्धिन इति वैतानिकाः । त्रैविद्या मां सोमपाः पूतपापाः क्षीणे पुण्ये मर्त्यलोकं विशन्तीत्यादेः ॥ ६ ॥

सुमनोरञ्जिनी

कर्मिणामुपासनाप्रकारमाह ॥ केचिद्वैतानिका यज्ञादिकर्मनिष्ठा द्विजास् त्रय्या विद्यया वेदविद्यया । विततैर् यज्ञैस् त्वां वै त्वामेव यजन्ते । नन्विन्द्रादिदेवोद्देशेनैव यागः प्रतीयते । तत्कथमुक्तं त्वामेव यजन्त इति तत्राह ॥ नानेति ॥ नानारूपा नानाविधाकृतयो येऽमरा देवा इन्द्रादयस् तेषामाख्यया नाम्ना त्वामेव यजन्त इत्यन्वयः । इन्द्रादिनामभिरपि त्वामेव जानन्तो यजन्तीति भावः । तदुक्तम् । सर्वदेवेष्वपि हरिः सर्वदेवनियामकः । नामवान् सर्वदेवानां सर्वपूजां तथाऽत्त्यसाविति ।

ननु कथमिन्द्रादिनामभिर्भगवन्तं जानन्ति । इन्द्राय वज्रपाणय इत्यादि तत्तदसाधारणधर्मोक्तेरित्यत उक्तम् ॥ नानारूपेति ॥ अस्मिन्पक्षे नानारूपेति सम्बुद्धिः । यस्मात्त्वं नानारूपोऽसि अतो वज्रपाणित्वपाशहस्तत्वादिकमपि इन्द्राद्यन्तर्यामिणि त्वय्येव जानन्तीति भावः । इन्द्रादीनां बहुत्वेऽपि समुदायाभिप्रायेण आख्ययेत्येकवचनम् । विप्राणां भोजनमितिवत् । नानारूपामराणाम् आख्या यस्यास् तयेति विद्याया विशेषणं बोध्यम् ॥ ६ ॥

एके त्वखिलकर्माणि सन्न्यस्योपशमं गताः ।

ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥ ७ ॥

पदरत्नावली

प्रवृत्तिकर्ममार्गमुक्त्वा निवृत्तकर्मप्रवर्तनाप्रकारमाह एक इति ॥ एके एकान्तिनः । तुशब्देन एषां मुख्यत्वं द्योतयति । उपशमं भगवन्निष्ठाम् ॥ ७ ॥

सत्यधर्मीया

प्रवृत्तिकर्ममार्गमुक्त्वा निवृत्तकर्मप्रवर्तनाप्रकारमीरयति ॥ एक इति ॥ एक एकान्तिनोऽखिलकर्माणि सन्न्यस्य त्वयि समर्प्योपशमं त्वन्निष्ठां गता ज्ञानिनो ज्ञानयज्ञेन ज्ञानविग्रहं ज्ञानानन्ददेहं यजन्ति ॥ ७ ॥

सुमनोरञ्जिनी

भक्तियोगिनां ज्ञानिनामुपासनामाह ॥ एके त्विति ॥ तुशब्देन पूर्वोक्तेभ्यो विशेषं द्योतयति । तमेव विशेषमाह ॥ अखिलेति । अखिलान्यपि लौकिकानि वैदिकानि च कर्माणि । सन्न्यस्य त्वय्येव समर्प्य । त्वत्कर्तृकत्वेन त्वत्पूजारूपत्वेन चानुसन्धायेति यावत् । पूर्वे तु वैदिकान्येव समर्पयन्तः । एते त्वखिलानीति विशेष इति भावः । उपशमम् उपे सर्वोत्तमे शमं हरौ निष्ठां भगवति भक्तिमिति यावत् । ज्ञानयज्ञेन ज्ञानाख्येन यज्ञेन । ज्ञानविग्रहं त्वां यजन्तीति सम्बन्धः ॥ ७ ॥

अन्ये तु संस्कृतात्मानो विधिना विहितेन वै ।

यजन्ति त्वन्मयास्त्वां वै बहुमूर्त्यैकमूर्तिकम् ॥ ८ ॥

पदरत्नावली

संस्कृतात्मानो गुरुशिक्षितबुद्धयः । विहितेन विधिना पञ्चधा कथितेन कालेन । ‘पञ्चकालपरायणैः’ इति वचनात् । ‘विधिर्विधाने काले च’ इत्यभिधानम् । त्वन्मयास् त्वमेव मयः सर्वोत्तम इति बुद्धिर्येषां ते तथा ॥ ८ ॥

सत्यधर्मीया

अन्ये तु संस्कृतात्मानो गुरुशिक्षितमनस्कास्तीर्थस्नानादिपवित्रदेहाः । विधिना कालेन । विधिर्विधाने नियतौ विधिः काले विधातरीति विश्वः । पञ्चधा प्रपञ्चितेन पञ्चकालपरायणै-रितीरणात्त्वन्मयास्त्वं मयः प्रधानो येषां ते तथा बहुमूर्त्यैकमूर्तिकमिच्छागृहीतानेकाकारं तथैकमूर्तिकम् । पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यत इत्यादेः ॥ ८ ॥

सुमनोरञ्जिनी

अन्तरुपासनाप्रकारमाह ॥ अन्ये त्विति । विधिना वेदेन विहितेन कर्मणा तदनुष्ठानेनेति यावत् । संस्कृतात्मानः शुद्धान्तःकरणाः । त्वन्मयास् त्वत्प्रधानकाः । मयं प्रधान-मुद्दिष्टमिति वचनात् । बहुमूर्त्यां स्थितम् एकमूर्तिकम् । नवनारीकुंजरादिवद्बहुमूर्तिसमाहारात्मकबिम्ब-संज्ञमित्यर्थः । इयमेवोपासनाऽस्मत्परमगुरुचरणजैः प्रपञ्चिता षोडशरत्नाख्ये ग्रन्थे ॥ ८ ॥

त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् ।

बह्वाचार्यविभेदेन भगवन् समुपासते ॥ ९ ॥

पदरत्नावली

ननु शैवागमेषु शिवस्य यष्टव्यत्वेनोक्तत्वात् सर्वे त्वामेव यजन्तीति कथं युज्यत इति तत्राह त्वामेवेति ॥ शिवोक्तेन मार्गेण मोहकसमयरूपेण शिवे रुद्रे रूपं नियामक-मस्यास्तीति शिवरूपिणं शिवान्तर्यामिणम् । बह्वाचार्यविभेदेन दधीच्यादिकृतमतभेदेन । ‘त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय’ ‘दधीच्याद्यैश्च कारय’ इत्यादेः ॥ ९ ॥

सत्यधर्मीया

पाशुपताद्यागमा अन्यथाऽवगमयन्ति तत्कथं सर्वे त्वां यजन्तीति मन्दाशङ्कां परिहरति ॥ त्वामिति ॥ शिवोक्तेन मार्गेण मोहकसमयरूपेण शिवरूपं शिवान्तर्यामिणं बह्वाचार्य-विभेदेन । त्वं च रुद्र महाबाहो मोहशास्त्राणि कारयेत्युक्तेर्दधीच्यादयो ये बहव आचार्यास्तत्कृतमत-विभेदेन । दधीच्याद्यैश्च कारयेत्युक्तेः । तेऽधिकारिणस्त्वामेव समुपासते । नानारूपामराख्ययेत्युक्तं विशदयति ॥ त्वामिति वा । नानारूपामराख्ययेत्युक्त्यनन्तरमतादृगाशङ्कानुन्मेषात् ॥ ९ ॥

सुमनोरञ्जिनी

ननु शिवाद्युपासकानामपि सत्वात्कथं सर्वोपास्यत्वं भगवत इत्यत आह ॥ त्वामेवेति ॥ अन्ये पाशुपताद्याः । शिवरूपिणं शिव एव रूपं प्रतिमा यस्य तथाविधं शिवान्त-र्यामिणमित्यर्थः । एवं बह्वाचार्यविभेदेन बहूनामाचार्याणां दधीचिबृहस्पत्यादीनां भेदेन उपदेशभेदेन उपासनां कुर्वन्तोऽपि त्वामेवोपासते ॥ ९ ॥

सर्व एव यजन्ति त्वां सर्वदेवमहेश्वरम् ।

येप्यन्यदेवताभक्ता यद्यप्यन्यधियः प्रभो ॥ १० ॥

पदरत्नावली

उपसंहरति सर्व इति ॥ हे प्रभो ये इन्द्रादिनानादेवतानां भक्ताः, अत एव तत्प्रसादप्राचुर्यप्राप्त्यर्थमन्यस्मिन् त्वद्भिन्ने धीर्येषां ते अन्यधियो यद्यपि तथापि ते सर्वेऽपि सर्वेषां देवानां महेश्वरं त्वामेव यजन्ति । ‘येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते’ इति भगवदुक्तेः ॥ १० ॥

सत्यधर्मीया

उपसंहरति ॥ सर्व इति ॥ हे प्रभो येऽप्यन्यदेवताभक्ता यद्यप्यन्यधियोऽ-न्यस्मिंस्त्वद्भिन्ने देवे धीर्येषां तथा सर्वदेवमहेश्वरं सर्वेषां देवानां महेश्वरं परमस्वामिनं ते सर्वेऽपि त्वामेव भजन्ते ।

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।

तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ।

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव ।

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते । इति भगवद्वचनात् ॥ १० ॥

सुमनोरञ्जिनी

ननु यदि पाशुपताद्या अपि शिवादिरूपिणं भगवन्तमेवोपासते भगव-दुपासनाफलमेव किं न लभन्त इत्यत आह ॥ सर्व एवेति । यद्यपि ये अन्यदेवताभक्तास्ते सर्वेऽपि सर्वदेवमहेश्वरं सर्वदेवोत्तमं त्वामेव यजन्ति अपि तथापि तेऽन्यधियस् त्वत्तोऽन्यस्मिन् शिवादिरूपे अधिष्ठान एव पूज्यत्वं मन्वाना अयं शिव एवास्माभिः पूज्यत इति ज्ञानिनो न तु तदन्तर्यामिणि हरौ पूज्यत्वबुद्धिमन्त इति यावत् । तस्मादेव भगवदुपासनाफलं न लभन्त इति भावः । अन्या विलक्षणा धीर्येषामिति वा । वैलक्षण्यं चेदृशमेव बोध्यम् । प्रभो इति सम्बोधनम् । प्रभाविति सप्तम्यन्तपाठे प्रभौ त्वयि विषये । अन्या विलक्षणा शिवाद्यभेदावगाहिनी धीर्येषामित्यर्थः

॥ १० ॥

यथाऽद्रिप्रभवा नद्यः पर्जन्यापूरिता विभो ।

विशन्ति सर्वतः सिन्धुं तद्वत् त्वां गतयोऽन्ततः ॥ ११ ॥

पदरत्नावली

एतदेव विशदयति यथेति ॥ अद्रिभ्यः प्रभवन्त्युत्पद्यन्ते इति अद्रिप्रभवा नद्यः पर्जन्येन गर्जन्मेघेन आपूरिताः सर्वतः सिन्धुं समुद्रं विशन्ति । तद्वदन्ततो गतयस् तत्तच्छाखोत्पाद्यज्ञानानि त्वामेव विशन्ति । ‘सर्वे वेदा युक्तयः सुप्रमाणा ब्राह्मं ज्ञानं परमं त्वेकमेव । प्रकाशयन्ते न विरोधः कुतश्चिद् वेदेषु सर्वेषु तथेतिहासे,’ ‘आकाशात् पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छति’ इत्यादिश्रुतिस्मृतिभ्यः ॥ ११ ॥

सत्यधर्मीया

अद्रिप्रभवा अद्रिभ्यः प्रभवन्तीति तास्तथा नद्यः पर्जन्येन ध्वनद्घनेना-पूरितास्तद्वृष्टजलैः पूर्णाः सर्वतः सिन्धुं समुद्रं विशन्ति । तद्वदन्ततः सर्वसुपर्वगतयोऽर्चनमार्गास्त्वामेव विशन्ति । आकाशात्पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रतिगच्छतीत्यादेः । गतयस्तत्तन्मतमूलश्रुतिसम्पादितज्ञानानि त्वामेव विशन्ति त्वद्रूपैकविषयिण्यो भवन्तीति यावत् ॥ ॐ गतिसामान्यात् ॐ ॥

सर्वे वेदा युक्तयः सप्रमाणा ब्राह्मं ज्ञानं परमं त्वेकमेव ।

प्रकाशन्ते न विरोधः कुतश्चिद्वेदेषु सर्वेषु तथेतिहासे ।

इति श्रुतेर्गतेर्ज्ञानस्य साम्यमेवेत्यादेः ॥ ११ ॥

सुमनोरञ्जिनी

सर्वदेवतापूजापि भगवत्पूजैव भवतीत्येतत्सदृष्टान्तमाह ॥ यथेति ॥ अद्रिभ्यः प्रभव उत्पत्तिर्यासां ताः । पर्जन्येन मेघेन आपूरिताः । सर्वतः सर्वदेशात् । सर्वा इति नदीविशेषणं वा । सिन्धुं समुद्रं तद्वद् गतयः गतिसाधनीभूता उपासना अन्ततस् त्वां विशन्तीति त्वद्विषयिण्यो भवन्तीति । यद्वा नानारूपामराख्ययेत्यादिना यत्सर्वनामवत्वं भगवतोऽभिसंहितं तत्र प्रमाणमाह ॥ यथेति ॥ अनेन हन्तैतमेव सर्वाणि नामान्यभिवदन्ति । यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रमभिविशन्तीति श्रुतिमुपादत्ते । गतयः गतिसाधनानि सर्वाणि नामानि अन्ततः मुख्यया वृत्त्या त्वां विशन्तीत्यर्थः ॥ ११ ॥

सत्त्वं रजस्तम इति १भवतः प्रकृतेर्गुणाः ।

तेषु हि प्राकृताः प्रोता आब्रह्म स्थावरादयः ॥ १२ ॥

पदरत्नावली

मिथो मतवैचित्र्ये निमित्तमाह सत्त्वमिति । तेषु सत्त्वादिगुणेषु ब्रह्मपर्यन्ताः स्थावरादयः प्रोताः सम्यक् स्यूतास्ततः प्राकृताः । हिशब्दः ‘कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः’ इत्यादिमानसूचकः ॥ १२ ॥

सत्यधर्मीया—त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।

मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ।

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैरित्यादेर् बह्व्यो हि बुद्धयो मतभेदाल्लोकानामित्याह ॥ सत्त्वं रज इति । भवतः प्रकृतेस्त्वदुत्तेजितशक्तिरिति त्वत्सम्बन्धिन्याः सत्त्वं रजस्तम इति नामानो गुणाः । तेषु हि यतः स्थावरादय आब्रह्मपर्यन्तं प्रोताः सम्यक् स्यूतास्ततः प्राकृता अतो वैचित्र्यमुपपद्यत इति भावः ॥ १२ ॥

सुमनोरञ्जिनी

ननु सर्वैः क्रियमाणमुपासनादिकमन्ततो भगवद्विषयकमित्युक्तम् । तर्हि फलभेदः किंनिबन्धन इत्यतोऽन्यधिय इत्यनेन बुद्धिवैलक्षण्यं निमित्तमित्युक्तम् । तदपि कुत इत्यतस्तत्र निमित्तमाह ॥ सत्वमिति ॥ प्रकृतेर् जडप्रकृतेः कार्यभूता गुणाः सत्वादयः भवतस् त्वत्तः, जाता इति शेषः । तेषु सत्वादिषु स्वावरादयस् तृणादय आब्रह्म ब्रह्मपर्यन्तं विद्यमानाः स्थावरं तृणमारभ्य ब्रह्मपर्यन्ताः पदार्था इति यावत् । तेषु सत्वादिषु प्रोता अनादितः सम्बद्धा इत्यर्थः । अत एव प्राकृताः । हि प्रमितमेतत् । अतो बुद्धिवैलक्षण्यं युक्तमिति । अयं भावः । जनास्त्रिविधाः सात्विका राजसास् तामसाश्चेति । सात्विकानामन्तःकरणं सत्वगुणोपबृंहितं सम्यग्ज्ञानमेव जनयति । राजसानां मिश्रम् । तामसानां तमोगुणोपबृंहितं विपरीतज्ञानमेव जनयतीति गुणत्रयसम्बन्ध एव बुद्धिवैलक्षण्ये निमित्तम् । तत्सम्बन्धस्यानादित्वान्न तत्र निमित्ताकाङ्क्षेति

॥ १२ ॥

तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे ।

गुणप्रवाहोऽयम२विद्ययाऽसकृत् प्रवर्तते देवनृतिर्यगात्मसु ॥ १३ ॥

तात्पर्यम्

अविद्यया भगवदिच्छया ॥ १३ ॥

पदरत्नावली

ते त्वत्प्रसादार्थमेव तुभ्यं नमोऽस्तु । कथम्भूताय? अविषक्तदृष्टये अविषक्ता सत्त्वादिगुणेभ्योऽलिप्ता दुष्टिर्ज्ञानात्मिका मूर्तिर्यस्य तस्मै सर्वात्मने सर्वस्वाम्यादिगुणयुक्ताय सर्वधियां साक्षिणे सर्वमनोवृत्तिप्रेरकाय च । ‘स हि सर्वमनोवृत्तिप्रेरकः समुदाहृतः’ इत्यादेः । ततस्तस्मात् त्वदन्यस्य सर्वस्यापि तवानन्यनियामकत्वादयं गुणप्रवाहस् त्रिगुणप्रवाहरूपः संसारो ऽविद्यया त्वदिच्छयैव देवनृतिर्यगात्मसु देवनरतिर्यगादिजीवेषु प्रवर्तते । ‘महामायेत्यविद्येति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते’ इत्यादेः ॥ १३ ॥

सत्यधर्मीया

तुभ्यमिति श्लोके गुणप्रवाहोऽयमविद्ययेत्याविद्यकता प्रपञ्चस्योच्यत इति प्रतीतिं निवारयितुमविद्ययेत्यनूद्य

महामायेत्यविद्येति नियतिर्मोहिनीति च ।

प्रकृतिर्वासनेत्येवं तवेच्छानन्त कथ्यते ।

इत्यन्यत्र स्वयं मानमुदाहृतवन्त इति स्ववचनतो विवृण्वन्ति ॥ अविद्यया भगवदिच्छयेति ॥ अस्याकारवाच्यस्य विष्णोर्विद्ययेति केचित् । तन्न । प्रामाणिकक्रमानानुगुण्यात् । ननु तर्हि भगव-त्पादोदितं भगवदिति निरवनिकमिति चेन्न । अध्याहृततच्छब्दसङ्गमनीययच्छब्दार्थत्वात् । मानिक-ध्यानतापददृष्ट्या भगवदिति रूढावेव नैर्भर्यात् । माने च तवेत्येतन्न सरसान्वयीति दिगिति केचित् ॥ ततश्च श्लोकव्याकृतिः ॥ अयं गुणप्रवाहो यस्य भगवतोऽविद्ययेच्छया देवनृतिर्यगात्मसु देवाश्च नरश्च तिर्यञ्चश्चेत्यतदात्मसु जीवेष्वसकृत्प्रवाहतः प्रवर्तते । तुभ्यं तस्मै । अविषक्ता क्वाप्यप्रतिबद्धा तथा शुभाशुभफलसम्बद्धा दृष्टिर्ज्ञानं यस्य तस्मै । कुतोऽयं विलुप्तावबोध इत्यत आह ॥ सर्वात्मन इति ॥ सर्वस्वाम्यादिगुणयुक्ताय सर्वधियां साक्षिणे च नमोऽस्तु । नैवमन्यस्मै कृता नतिरुन्नतिदेति तुभ्यं ते इव नमस्तुभ्यमस्तु नान्यस्मा इत्यन्वयस्तच्छब्देनेवार्थकेन द्योत्यते । गतम् । हे त आनन्दमूर्त इति वा ॥ १३ ॥

सुमनोरञ्जिनी

ननु ब्रह्मादिष्विव चेतनत्वाद्भगवत्यपि गुणकार्यपरंपरा किं न स्यादित्यतो गुणप्रवाहस्य तदिच्छाधीनत्वात्कथं प्रेक्षावान् गुणप्रवाहरूपेण बन्धेन स्वयं बद्धो भूयादिति वदन् प्रणमति ॥ तुभ्यमिति । यद्वा ब्रह्मादिस्थावरान्तेषु सत्वादिगुणसम्बन्धेऽपि किं निमित्तमित्यतस्तत्र निमित्तं वदन् प्रणमति ॥ तुभ्यमिति । यस्य भगवतोऽविद्यया इच्छया । तदुक्तम् । अविद्यया भगवदिच्छयेति । अन्यत्रापि

महामायेत्यविद्येति नियतिर्मोहिनीति च ।

प्रकृतिर्वासनेत्येवं तवेच्छानन्त कथ्यत ॥ इति च ।

देवनृतिर्यगात्मसु देवनृतिर्यक्शब्देन उत्तममध्यमाधमा गृह्यन्ते । एतद्रूपेषु आत्मसु चेतनेषु अयं गुणप्रवाहः गुणानां सत्वादीनां प्रवाहः ज्ञानादिरूपकार्यपरंपरा । असकृत् प्रतिकल्पं प्रवर्तते । तत्तादृशे तुभ्यं नमोऽस्त्विति सम्बन्धः । कीदृशाय । अविषक्तदृष्टये । अविषक्ता अप्रतिबद्धा दृष्टिर्यस्येति तस्मै । तत्र हेतुः सर्वात्मन इति । सर्वस्वामिने इत्यर्थः । स्वानधीनं हि प्रतिबन्धकं स्यादिति भावः । सर्वधियां साक्षिणे साक्षादीक्षित्रे ॥ १३ ॥

अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिशः श्रुतिः ।

द्यौः कं सुरेन्द्रास्तव बाहवो१ऽर्णवं कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १४ ॥

तात्पर्यम्

त्वयैव प्रकल्पिताः । ‘विष्णोरङ्गसमुद्भूता विष्णोरङ्गानि देवताः । उच्यन्ते सर्ववेदेषु स्वरूपा भेदिनोऽपि त्वि’ति च ॥ १४ ॥

पदरत्नावली

विधिशर्वपूर्वसर्वसुपर्वसपर्या हरावेव पर्यवस्यतीत्येतद्दार्ढ्याय प्रागुक्ताङ्गभूता इति प्रपञ्चयन्नाह अग्निर्मुखमिति । अग्निस्ते मुखम् । ‘मुखादिन्द्रश्चाग्निश्च’ इत्यादेः । अवनिर्भूत-स्तेऽङ्घ्रिः । ‘पद्भ्यां भूमिः’ इति श्रुतिः । सूर्य ईक्षणम् । ‘चक्षोः सूर्योऽजायत’ इति श्रुतिः । नाभिर्नभः । ‘नाभ्या आसीदन्तरिक्षम्’ इति श्रुतेः । श्रुतिर्दिशः । ‘दिशः श्रोत्रात्’ इति श्रुतेः । कं द्यौः । ‘शीर्ष्णो द्यौः समवर्तत’ इति श्रुतेः । सुरेन्द्रा लोकपालास्तव बाहवः । ‘बाहू राजन्यः कृतः’ इत्यादेः । अर्णवाः समुद्राः कुक्षिः । मरुद् वायुः प्राणबलं प्राणो बलं च । ‘प्राणाद् वायुरजायत’ इति श्रुतेः । अग्न्यादिकं सर्वं त्वयैव प्रकल्पितमुत्पन्नम् ॥ १४ ॥

दुर्घटभावदीपिका

मरुत्प्राणबलं प्रकल्पितमित्यस्य मरुद्वायुःप्राणबलं प्राणो बलं चाग्निर्मुख-मित्यादिनाऽग्न्यादीनां भगवन्मुखाद्यैक्यमुक्तमिति भ्रमं वारयितुमग्निर्मुखमित्यादि स्ववाक्यस्याभिप्रायं स्वयमेवाह ॥ प्रकल्पितमिति ॥ अग्न्यादिकं सर्वं त्वन्मुखादिभ्यः प्रकल्पितमुत्पन्नमित्येतदग्नि-र्मुखमित्यादिनोक्तमित्यर्थः । प्राणादुत्पन्नस्य वायोरूपविशेषबलादुत्पन्नत्वान्मरुद्बलं चेत्युक्तम् ॥ ता. अर्थः ॥ त्वयैव प्रकल्पिता इत्यनेन प्रकल्पितमित्यस्य ताप्तर्यार्थ उक्तः । अत्र प्रकल्पितमित्य-नेनोत्पन्नत्वमेवोक्तं न तु कल्पितमित्यभिप्रेत्य भगवदङ्गोत्पन्नत्वाद् देवानां भगवदङ्गैक्यं पुराणादिषूच्यत इत्यस्मिन्नर्थे प्रमाणमाह ॥ विष्णोरिति । विष्णोरङ्गसमुद्भूतास्तु । तुशब्द एवार्थे । मुखाद्यङ्गोत्पन्न-त्वादेव स्वरूपाद्भगवत्स्वरूपमुखाद्यङ्गात्तु भेदिनोऽपि देवता अग्न्यादिदेवताः सर्ववेदेषु । उपलक्षणमेतत् । सर्वपुराणादिषु चेत्यपि द्रष्टव्यम् । सर्ववेदपुराणादिषु विष्णोरङ्गानि मुखाद्यङ्गानी-त्युच्यन्त इति ॥ १४ ॥

॥ इति श्रीभागवतटिप्पण्यां श्रीसत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे अष्टत्रिंशोऽध्यायः ॥ १०-३८ ॥

सत्यधर्मीया

अग्निर्मुखं त इत्यादिश्लोकत्रिके लोकाः सपालाः प्रकल्पिता इति मिथ्याभूता आरोपिता इत्यन्यथाप्रतीतिं वारयितुं त्वयीत्यस्य तृतीयात्वमभ्युपेत्यान्वयं प्रदर्श्य मानेन तत्तात्पर्यमाह ॥ त्वयैव प्रकल्पिता इति ॥ प्रकर्षेणोत्पादिता यतो विष्णोरङ्गेभ्यः समुद्भूतास्ततो देवता विष्णोरङ्गान्युच्यन्ते । स्वरूपाद्भेदिनो भेदवन्तश्चेदपि सर्ववेदेषु ब्राह्मणोऽस्य मुखमासीदित्यादिषु । यस्माद्यज्जायते चाङ्गाल्लोकवेदादिकं हरेः । तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखमित्यादेः । कार्यकारणशब्दसाङ्कर्याद्देवा अङ्गानीत्यङ्गानि देवा इत्यप्यर्थः ॥ ततः श्लोकार्थः ॥ सर्वसुपर्वसपर्या त्वय्येव पर्यवस्यतीत्येतत्स्थेम्ने प्रागुक्ताङ्गभूता इति विवृण्वन्नाह ॥ अग्निर्मुखमिति ॥ तेऽग्निर्मुखम् । मुखादिन्द्रश्चाग्निश्चेत्यादेः । अवनिर्भूस्तेऽङ्घ्रिः । पद्भ्यां भूमिरिति श्रुतिः । एकवचनं च परस्परं कार्यकरत्वादिति ज्ञेयम् । ईक्षणं सूर्यः । चक्षोः सूर्योऽजायत । नभो नाभिः । नाभ्या आसीदन्त-रिक्षम् । श्रुतिर्दिशः श्रोत्रात् । एकवचनं चोक्तगतिकम् । एवं सजातीये सर्वत्र ज्ञेयम् ।

कं द्यौः शीर्ष्णो द्यौः । सुरेन्द्रा इन्द्राद्यस्तव बाहवः । बाहू राजन्यः कृतः । श्रुतेर्बाहुद्वितय-मात्रार्थकत्वभ्रमं भ्रंशयितुं बाहव इति तद्विवरणं कृतमिति अवधेयम् । सत्यलोकपालो ब्रह्माऽग्निः कुबेरो निर्ऋतिश्चेतान्विहायेतरे बाहुजाः । अग्निर्मुखमिति पृथग्गृहीत इति वचनबाहुजः । यथोक्तम् । बाहवो लोकपालानां प्रायशः क्षेमकर्मणामिति श्लोकतात्पर्ये द्वितीयस्कन्धे ब्राह्मणवैश्यादीन् वर्जयितुं प्रायश इतीति । सत्यादिलोकपालेषु ब्रह्माऽग्नी ब्राह्मणौ, कुबेरो वैश्यो, नैर्ऋतिः शूद्र एतेषां बाहुजत्वं परिहर्तुमिति यादुपत्योक्तेः । विस्तरः क्वचिव्द्यत्यासश्च कल्पभेदसमाधेयश्च द्वितीयाज्ज्ञेयः । अर्णवं समुद्रः कुक्षिस्त्वदुदरभवस्तदाश्रितश्च । अर्णव इत्यपि पाठोऽस्ति सोऽक्लेशिष्ठार्थः । मरुत्प्राणः प्राणाद्वायुः प्राणेन सहितं बलं तत्र विद्यमानसामर्थ्यं च । एवमेव सर्वत्रापि पूर्वोक्तेरग्न्यादौ पाचनादि-शक्तयो ग्राह्या इति ध्येयं परिवर्तनं वा । इत्येतत्सर्वं प्रकल्पितं त्वयैवोत्पादितं त्वयैव तदाश्रितत्वेन च प्रकृतमित्यर्थः । अर्णवमिति पाठोऽपि विना शेषमशेषहर्षविदः । तथा ह्युक्तमनुव्याख्यानसुधयोः ।

तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयगुणार्णवम् ।

वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखिलोत्तमम् ।

अर्णव इवाचरतीति क्विपि कृतेऽर्णवतेः पचाद्यचि कृतेऽर्णवशब्दः स्त्रीलिङ्गः साधुरिति ॥१४॥

सुमनोरञ्जिनी

संक्षेपविस्तराभ्यां च कथयन्ति मनीषिणः । बहुवारस्मृतेस्तस्य फलबाहुल्य-कारणादित्युक्तदिशा भगवद्गुणानां पुनः पुनः स्मरणस्य फलबाहुल्यकारणतां मन्वानोऽक्रूरस् तवाङ्गभूता इति संक्षिप्योक्तं प्रमेयं किञ्चित्प्रपञ्चयति ॥ अग्निरिति । अग्निस्ते मुखं मुखाज्जातो मुखमित्युच्यते । मुखादिन्द्रश्चाग्निश्चेति श्रुतेः । अवनिर् भूमिस् तवाङ्घ्रिर् अङ्घ्रिजातत्वादङ्घ्रिशब्दोक्ता । एवं सर्वत्र । ईक्षणं चक्षुः । नभोऽन्तरिक्षम् । दिशः दिगभिमानिनः । श्रुतिः श्रोत्रम् । द्यौर् द्युलोकः । कं शिरः । कं शिरोऽम्बुनोरित्यमरः । सुरेन्द्रा लोकपाला बाहवः । यद्वा सुरेन्द्रा वाय्वाद्याः क्षत्र-जातीया बाहवः । बाहूराजन्यः कृत इति श्रुतेः । तासां दिशां वत्समिति च । अर्णवः समुद्रः । मरुत् तव वायुः । प्राणबलं प्राणसहितं बलं मुख्यप्राणात् श्वासाद् बलाच्च जात इत्यर्थः । अग्न्यादिकं सर्वं तवाङ्गेभ्यो न स्वत एव जातम् । किन्तु ते त्वया प्रकल्पितं सृष्टमित्यन्वयः ॥ १४ ॥

रोमाणि वृक्षौषधयः शिरोरुहा मेघाः परस्यास्थिनखानि तेऽद्रयः ।

निमेषणं रात्र्यहनी प्रजापतिर्मेढ्रं तु वृष्टिस्तव वीर्यमिष्यते ॥ १५ ॥

पदरत्नावली

निमेषणं निमेषोन्मेषौ । प्रजापतिर्दक्षः । वीर्यं रेतः ॥ १५ ॥

सत्यधर्मीया

वृक्षाश्चौषधयश्च रोमाणि श्मश्व्रादीनि, शिरोरुहाः केशा मेघास्ते परस्यास्थि-नखान्यद्रयः । नखोऽस्त्री नखरोऽस्त्रियामित्यमरः । निमेषणं निमेषोन्मेषौ रात्र्यहनी । प्रजापतिर्दक्षो मेढ्रं शिश्नो वृष्टिस्तव वीर्यं रेत इष्यते प्रामाणिकैः सर्वत्रान्वेति ॥ १५ ॥

सुमनोरञ्जिनी

वृक्षा रसालादय ओषधयः नीवारादयस् तव रोमाणि । मेघास् तव शिरोरुहाः । शिरसि स्थितशिखापरपर्यायरोमभ्यो जाताः । अद्रयः परस्य ते अस्थिनखानि । निमेषणं निमेषोन्मेषौ रात्र्यहनी । निमेषः मुकुलीभावः रात्रिः । उन्मेषः विकसनम् अहरिति विवेकः । प्रजापतिर् दक्षस् तव मेढ्रं, वृष्टिस् तव वीर्यं रेतः । इष्यते प्रामाणिकैरिति शेषः ॥ १५ ॥

त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः ।

यथा जले सञ्जिहते जलौकसोऽप्युदुम्बरे वा मशका मनोमये ॥ १६ ॥

पदरत्नावली

हे अव्ययात्मन् त्वयैव प्रकल्पिता उत्पादिता बहुजीवसङ्कुलाः सपाला लोका मनोमये ज्ञानस्वरूपे पुरुषे अव्ययत्वादिगुणपूर्णे त्वय्येव सञ्जिहते संहतास्तिष्ठन्ति । यथा जले जलौकसो मत्स्यादयो यथा वा उदुम्बरे जन्तुफले मशकाः कीटविशेषाः सञ्जिहते तथेति । ‘अग्निर्मुखं ते’ इत्यादिश्लोकत्रये यतः सपाला लोकास्त्वयि प्रकल्पिता आरोपितास्त्वत्तः पृथक्स्वरूपेण न सन्त्यतोऽग्न्यादेर्विष्ण्वभेद उच्यत इत्यन्यथाप्रतीतिनिरासाय आचार्यैरध्यात्मवचनमत्रोदाहारि– ‘विष्णोरङ्गसमुद्भूतेर्विष्णोरङ्गानि देवताः । उच्यन्ते सर्ववेदेषु स्वरूपे भेदिनोऽपि तु’ इति ॥ १६ ॥

सत्यधर्मीया

हे अव्ययात्मन् तस्मिन्पुरुषे त्वयि त्वया बहुजीवसङ्कुलाः सपाला लोकाः कल्पिता उत्पादिता ओभ्यः । तत्रैव तिष्ठन्ति चेत्यत्र निदर्शने आह ॥ यथा जल इति ॥ जलौकसो मत्स्याद्यास्तत्र जले सञ्जिहते सञ्जायन्ते तदोकसश्च परस्परमज्ञातायां चोदुम्बरे मशकाः कृमिविशेषास्तत्रैवोत्पद्यन्ते । परस्परमज्ञाश्च । तथा मनोमये ज्ञानात्मकेऽहं प्रकल्पितं पश्यामीत्यन्वयः

॥ १६ ॥

सुमनोरञ्जिनी

किं बहुना । बहुजीवसंकुलाः सपाला लोका भूरादयः । हे अव्ययात्मन् त्वयैव प्रकल्पिताः सृष्टास् त्वय्येव स्थिताश्चेत्यर्थः । अत्र त्वय्येव प्रकल्पिता आरोपिता इति भ्रमं निवारयितुं प्रवृत्तं तात्पर्यं त्वयैव प्रकल्पिता इति । प्रकल्पिता इत्यस्य सृष्टा इत्यर्थः । ननु तर्हि सृष्टेः कर्तृसापेक्षत्वेन त्वयीत्यधिष्ठानोक्तिरसङ्गतेत्यत उक्तम् ॥ त्वयेति ॥ तथा च त्वयेत्यध्याहारो वा । ते इत्यस्यैव विपरिणामो वाऽङ्गीकार्य आरोपिता इत्यर्थे वक्ष्यमाण-दृष्टान्तानुपपत्तेः । न हि जले जलौकसो उदुम्बरे मशका वा आरोपिता इति भावः । तत्र दृष्टान्तमाह ॥ यथेति ॥ सञ्जिहन्ते उत्तिष्ठन्ते जायन्त इति यावत् । उदुम्बरे मशकाः सूक्ष्मा मक्षिकाः । मनोमये ज्ञानस्वरूपे ॥ १६ ॥

यानियानीह रूपाणि क्रीडनार्थं विभर्षि हि ।

तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १७ ॥

तात्पर्यम्

‘भृतामेव विभर्तीशो ह्यवतारतनुं सदा । विभर्तीत्युच्यतेऽथापि मोहाय व्यक्त्यपेक्षये’ति तत्त्वनिर्णये ॥ १७ ॥

पदरत्नावली

पुरुषसूक्तोक्तभगवद्रूपविशेषं स्तुत्वा मत्स्याद्यवतारान् स्तोतुमुपक्रमते यानीति ॥ अत्र यानियानि रूपाणि क्रीडनार्थं बिभर्षीति वर्तमानकालमात्रवाचिलट्प्रयोगाद् रामकृष्णाद्यवताराणां कादाचित्कत्वं प्रतीयते । तदयुक्तम् । ‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे’ इत्यादिनिरवकाश-प्रमाणेन हर्यवताराणां सदातनत्वस्य प्रतिपादितत्वेन तद्विरोधः स्यादित्यतः प्रमाणेनैव तत्तात्पर्यमाह ‘भृतामेव बिभर्तीशो ह्यवतारतनुं सदा । बिभर्तीत्युच्यतेऽथापि मोहाय व्यक्त्यपेक्षया’ इति तत्वनिर्णये’ इति । असुराणां मोहाय अभिव्यक्त्यपेक्षया च शास्त्रेषु बिभर्तीत्युच्यत इति लडुपपद्यत इत्यर्थः । आमृष्टा मार्जिताः शुचो येषां ते तथा ॥ १७ ॥

सत्यधर्मीया

यानि यानीहेति पद्येऽवताराणां कादाचित्कता प्रतीयते । सा च मय्यनन्त-गुणेऽनन्ते गुणतोऽनन्तविग्रह इत्यवतारसन्तताप्रतिपादकागमबाधितेति प्रमाणेन व्याकरोति ॥ भृतामिति ॥ सदा भृतामेवावतारतनुमीशो बिभर्ति । तथाऽप्यसुराणां मोहाय व्यक्त्यपेक्षया बिभर्तीत्युच्यत इति लडुपपद्यत इत्यर्थः । ततश्चायं श्लोकार्थः ॥ यानियानि पदमेकम् । क्रीडनार्थं बिभर्षि तैस्तैः । तैरिति द्वितीयस्य शेषः । विस्तृतं स्कन्धान्तरे ते ते पिबन्तु जिह्वयेत्येतद्भाष्यटीकाद्युदाहृत्य ततोऽनु-सन्धेयम् । आमृष्टा मार्जिताः शुचो येषां ते लोका मुदा ते यशो दिक्षु व्याप्तं कीर्तिविशेषं गायन्ति

॥ १७ ॥

सुमनोरञ्जिनी

एतावता विशिष्टत्वेन नम्यत्वमुक्त्वा इष्टत्वाच्च नम्य इति भावेनेष्टत्वमुपपादयति ॥ यानि यानीति ॥ इह लोके यानि यानि रूपाणि अवतारान् बिभर्षि धारयसि प्रकटीकरोषि तैस्तैरवतारैर् लोकाः सज्जना आमृष्टशुच आमृष्टा परिमार्जिता परिहृतेति यावत् शुक् शोको येषां तादृशाः सन्तो मुदा ते यशो गायन्तीति योजना । अवतारग्रहणेन किं स्वप्रयोजनमित्यत उक्तम् ॥ क्रीडनार्थमिति ॥ लीलार्थमेव न स्वप्रयोजनापेक्षयेति भावः । अत्र बिभर्षीति वर्तमानव्यपदेशेन इतः पूर्वमवतारग्रहणं नास्तीति प्रतीयते । तां निवारयितुं प्रवृत्तं तात्पर्यम् ।

भृतामेव बिभर्तीशो ह्यवतारतनुं सदा ।

बिभर्तीत्युच्यतेऽथापि मोहाय व्यक्त्यपेक्षया ॥

इति तत्वनिर्णय इति । ईशो यद्यपि सदा भृतामेव अवतारतनुं बिभर्ति । अवतारस्य सदात्वे बिभर्तीति वर्तमानार्थकलकारप्रयोगः कुत इत्यत आह ॥ अथापीति । व्यक्त्यपेक्षया व्यक्त्यभिप्रायेण यद्बिभर्तीत्युच्यते तदयोग्यजनानां मोहार्थम् । अन्यथाज्ञानजननार्थमेवेति योजना ॥ १७ ॥

नमः कारणमत्स्याय प्रलयाब्धिचराय च ।

हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १८ ॥

पदरत्नावली

कारणमत्स्याय मन्वादिरक्षणं निमित्तीकृत्य मत्स्यरूपधारिणे । असुरमदं स्यति नाशयतीति मत्स्यः ‘षो अन्तकर्मणि’ इति धातुः । मधुकैटभमृत्यवे केशवाय ॥ १८ ॥

सत्यधर्मीया

यानि यानीह रूपाणीति साम्मुग्ध्येनोक्तानीदानीमाविष्टानाविष्टरूपाणि किञ्चिच्चरितसहितानि सङ्गृह्य स्तौति ॥ नम इति । कारणमत्स्याय सत्यव्रतादिरक्षणं निमित्तीकृत्य मत्स्यरूपयुताय । प्रलयोऽवान्तरस्तत्कालिकोऽब्धिः समुद्रस्तत्र चरतीति स तथा तस्मै हयशीर्ष्णे तुभ्यं नमः । मधुकैटभावादिदैत्यौ तन्मृत्यवे । मत्स्यहयाननविशेषणं वा । स्वातन्त्र्येण केशवाये-त्यध्याहृतविशेष्यपदेनान्वयो वा ॥ १८ ॥

सुमनोरञ्जिनी

कानि तान्यवताररूपाणीत्यतो लेशेन दर्शयन् प्रणमति ॥ नम इति ॥ कारणमत्स्याय । कारणेन मन्वादिरक्षणनिमित्तेन मत्स्यवेषधारिणे । प्रलयाब्धिचरायेत्यनेन तदानीं सत्यव्रतं प्रति कृतस्तत्वोपदेशो लक्ष्यते । हयशीर्ष्णे चेति चशब्दान्वयः । मधुकैटभमृत्यवे केशवायेति पदरत्नावल्याम् ॥ १८ ॥

अकूपाराय बृहते नमो मन्दरधारिणे ।

क्षित्युद्धारविहाराय नमः सूकरमूर्तये ॥ १९ ॥

पदरत्नावली

अकूपाराय कूर्मरूपाय । ‘कूर्मे चाब्धावकूपारः’ इत्यभिधानम् । बृहते नित्यपूर्णाय ॥ १९ ॥

सत्यधर्मीया

अकूपाराय कूर्मराजाय । अकूपारः समुद्रे च कूर्मराजेऽपि कीर्तित इति विश्वः । बृहते पूर्णाय मन्दरगिरेर् धारिणे । सूकरस्य मूर्तिर्यस्य सः । क्षित्युद्धारविहारायेति कृत्योक्तिः । अवतारदशकमात्रवचननैर्भर्यं नेति द्योतयितुं समुद्रचरतास्मृतहयाननग्रहणमिति मन्तव्यम् ॥ १९ ॥

सुमनोरञ्जिनी

अकूपाराय कूर्माय । कूर्मे चाब्धावकूपार इत्यमरः । मन्दरधारिणे इत्यनेन अमृतार्थं मथनसमये निमज्जन्मन्दरं वीक्ष्य खिन्नानां सुराणां शोकपरिहारः सूचितः । एवमुत्तरत्रापि । अनेनैव मन्दरमुपरि धृत्वा मथनं कुर्वदजितनामकं रूपमपि संगृहीतं बोध्यम् । बृहते नित्यपूर्णाय । क्षितेर् भूमेर् उद्धाररूपो विहारो यस्य तस्मै ॥ १९ ॥

नमस्तेऽद्भुतसिंहाय साधुलोकभयापह ।

वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ २० ॥

पदरत्नावली

अद्भुतत्वं स्तम्भसम्भूतत्वेन द्वैरूप्येण च । साधुलोकानां बल्यादीनां प्राप्तं भयमपहन्तीति तथा । क्रान्तं त्रिभुवनं येन स तस्मै त्रिविक्रमाय ॥ २० ॥

सत्यधर्मीया

अद्भुतत्वं च स्तम्भसम्भूतत्वेनेव द्वैरूप्येणापीति ज्ञेयम् । साधुलोकाः प्रल्हादाद्यास्तद्भयापह । साधुलोका बल्याद्या इति वामनविशेषणं वा । क्रान्तं त्रिभुवनं येन स तस्मै । न मस्तेऽद्भुतसिंहायेति छेदः । मस्तकावच्छेदेनाद्भुतसिंहाय न सूकरमूर्तय इव ॥ २० ॥

नमो भृगूणां पतये दृप्तक्षत्त्रवनच्छिदे ।

नमस्ते रघुवर्याय रावणान्तकराय च ॥ २१ ॥

सत्यधर्मीया

भृगूणां पतये षष्ठ्या अलुक् आक्रोशे, आक्रोशश्च निरवध्यधिकस्य भार्गव-मात्रपतित्वविषय इति ज्ञेयम् । दृप्तक्षत्रवनच्छिद इत्यनेन कठोरकुठारायुधताऽपि ध्वन्यते । रावणान्तकराय रघुवर्याय ते नमः ॥ २१ ॥

सुमनोरञ्जिनी

अद्भुतसिंहाय आश्चर्यसिंहाय । आकारद्वयोपेतत्वेन आश्चर्यता नरसिंहायेति यावत् । हे साधुलोकस्य प्रह्लादादेर् भयापह भयपरिहारक ते नम इत्यन्वयः । क्रान्तं पादत्रयेणाक्रान्तं त्रिभुवनं येन तस्मै त्रिविक्रमायेत्यर्थः । भृगूणां भृगुवंशजानाम् । परशुरामायेत्यर्थः । दृप्तं मत्तं क्षत्रवनं छेत्तीति तथाविधस् तस्मै ॥ २०,२१ ॥

नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।

प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ २२ ॥

तात्पर्यम्

‘प्रद्युम्ने चानिरुद्धे च बलदेवे च केशवः । सन्निधानं विशेषेण करोति जगतां पतिः । तत्र कृष्णः स्वयं विष्णुः परमानन्दलक्षणः । पाराशर्यश्च भगवान्स्वयमेव जनार्दन’ इति च ॥ ‘तत्तद्गतस्यैव हरेस्तत्तन्नामानि चाञ्जसा । औपचारिकनामानि तदन्येषामिति स्थितिरि’ति शब्दनिर्णये ॥ २२ ॥

पदरत्नावली

बलदेवान्तर्गताय सङ्कर्षणाय । कृष्णपुत्रप्रद्युम्नान्तर्गताय प्रद्युम्नाय । प्रद्युम्नपुत्रे-ऽनिरुद्धे अन्तर्गतायानिरुद्धाय । अत्र वासुदेवसहपाठात् सङ्कर्षणादीनामपि साक्षाद्विष्णुरूपत्वं प्रतीयते । नात्र स्वरूपभूतवासुदेवादिचतूरूपपरतया व्याख्येयम् । किन्तु सात्वताम्पतप इति विशेषणस्य चतूरूपेष्वपि समानत्वात्, सात्वतकुलेऽवतीर्णरूपाण्येवात्र ग्राह्याणीत्याशयेन मानमुदाहरन्त्याचार्याः– ‘प्रद्युम्ने चानिरुद्धे च बलदेवे च केशवः । सन्निधानं विशेषेण करोति जगतां पतिः । तत्र कृष्णः स्वयं विष्णुः परमानन्दलक्षणः । पाराशर्यश्च भगवान् स्वयमेव जनार्दनः’ इति च । ‘तत्तद्गतस्यैव हरेस्तत्तन्नामानि चाञ्जसा । औपचारिकनामानि तदन्येषामिति स्थितिः’ इति शब्दनिर्णये’ इति

॥ २२ ॥

सत्यधर्मीया

नमस्ते वासुदेवायेति श्लोके वासुदेवसहपाठात्सङ्कर्षणादयोऽपि साक्षाद्विष्णुरूपा इति भ्रान्तिर्भवति तां निरसितुं मानमुदाहरति ॥ प्रद्युम्ने चेति ॥ नात्र तरतमभावक्रमविवक्षा । अनिरुद्धे तत्पुत्रे बलदेवे सङ्कर्षणे जगतां पतिः केशवो विशेषेण सन्निधानं करोति । तर्ह्येतत्सहोक्त्या वासुदेवोऽपि तथा किमित्यत आह ॥ तत्रेति । परमानन्द एव लक्षणं व्यावृत्तिकृल्लक्षणं यस्य सः । पाराशर्यश्च वेदव्यासश्च । तत्रैवं सहपाठे सत्यपि(?) चात्स्यात्ताच्छील्याल्लोकविलक्षणत्वाल्लोक-वन्मुख्यता समायात इति तत्राह ॥ तत्तद्गतस्यैवेति । तदन्येषां प्रद्युम्नानि नामानि । इति स्थितिरिति शब्दनिर्णयवचनादयमेवार्थः । पाराशर्यग्रहणं प्रसङ्गादिति ज्ञेयम् । ननु सङ्कर्षणादीनामपि साक्षाद्रूपाणां सत्त्वात्तत्परतायां नानुपपत्तिरिति नाचार्यैः पराक्रमणीयमिति चेत् । सत्यम् । नमस्ते वासुदेवायेत्यादावुक्त्वाऽन्ते च सात्वतां पतय इति सम्पुटीकरणात्तद्व्यूहो यदि नम्यस्तर्हि पृथगेव वदेत् । न च तथोवाचेति सङ्कर्षणादिभ्रमः स्यादेवेति तं च्यावयितुमाचार्यैराचारविवरणमिति विद्धि । सात्वतां पतय इत्यव्यवधानेनाभिधानादुद्बुद्धस्य कृष्ण एवौचित्यात्सम्पुटता ॥ ततश्च मूलार्थः ॥ वासुदेवाय गतम् । सङ्कर्षणाय शेषान्तर्गताय । अस्य सङ्कर्षणमात्रोपासकत्वान्निरन्तरं तन्मात्रदृष्टेस्तस्य च साक्षादधोक्षजत्वमिति वक्तव्यमेवेति तत्सहपठितप्रद्युम्नाद्या अप्येत इति वक्तव्यत्वाद्वेति ज्ञेयम् । प्रद्युम्नाद्यन्तर्गताय सात्वतां यादवानां पत्ये नमः ॥ २२ ॥

सुमनोरञ्जिनी

सङ्कर्षणायेति । बलदेवाय तत्र सन्निहिताय हरय इत्यर्थः । अत्र मत्स्या-दीनामिव सङ्कर्षणादीनामपि साक्षाद्भगवदवतारत्वभ्रमं वारयितुं प्रवृत्तं तात्पर्यम् ।

प्रद्युम्ने चानिरुद्धे च बलदेवे च केशवः ।

सन्निधानं विशेषेण करोति जगतां पतिः ।

तत्र कृष्णः स्वयं विष्णुः परमानन्दलक्षणः ।

पाराशर्यश्च भगवान् स्वयमेव जनार्दन इति ।

पाराशर्यः पराशरात्मजो वेदव्यास इति तत्वनिर्णय इति पूर्वेण सम्बन्धः । ततश्च सङ्कर्षणादिषु भगवतो विशेषसन्निधानादेव अवतारेषु गणनं न साक्षाद्भगवदवतारत्वेनेति भावः । तर्हि सङ्कर्षणायेत्यस्य सङ्कर्षणस्थितायेत्यर्थः स्यात् तर्हि मञ्चाः क्रोशन्तीत्यादिवल्लाक्षणिकः प्रयोगो भवति । तथाविधशब्दप्रयोगे किं निमित्तमित्याशङ्कायामाह ॥ तत्तदिति ।

तत्तद्गतस्यैव हरेस्तत्तन्नामानि चांजसा ।

औपचारिकनामानि तदन्येषामिति स्थितिः ॥ इति शब्दनिर्णये ।

तत्तन्नामानि तत्तद्गतस्य हरेरेव । अञ्जसा मुख्यया वृत्या । प्रतिपादकानीति शेषः । कथमन्येषु व्यवहार इत्यत उक्तम् । औपचारिकेति । न चौपचारिकत्वम् उपचाराख्यवृत्तिमत्वं किन्तु परममुख्यवृत्यतिरिक्तमुख्यवृत्या अर्थप्रतिपादकत्वं बोध्यम् । तथा च परममुख्यवृत्या भगवद्वाचकत्वात्सर्वनाम्नां न लाक्षणिकतापत्तिरित्याशयः ॥ २२ ॥

नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने ।

म्लेञ्छप्रायक्षत्त्रहन्त्रे नमस्ते कल्किरूपिणे ॥ २३ ॥

पदरत्नावली

म्लेञ्छप्रायाणि क्षत्त्रियाणि तद्धन्त्रे ॥ २३ ॥

सत्यधर्मीया

बुद्धाय दैत्यदानवमोहिने । अनेन प्रत्यवेयादिति न तत्तद्योग्यतानुसारेण बोधनान्न दोष इत्याह ॥ शुद्धायेति । म्लेञ्छप्रायाणि क्षत्राणि तद्धन्त्रे ॥ २३ ॥

सुमनोरञ्जिनी

दैत्यदानवमोहिने । वेदाप्रामाण्यप्रतिपादनेनेति शेषः । तर्हि विप्रलंभकत्वेन सदोषः स्यादित्यत उक्तम् ॥ शुद्धाय निर्दुष्टायेति । अयोग्यजनव्यामोहनं न दोष इति भावः । म्लेञ्छप्रायं म्लेञ्छसदृशम् । नमः कारणमत्स्यायेत्यारभ्यैतत्पर्यन्तेन बहिरुपासना सूचिता ज्ञेया

॥ २३ ॥

भगवन् जीवलोकोऽयं मोहितस्तव मायया ।

अहं ममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ॥ २४ ॥

सत्यधर्मीया

कंसारे संसार एतन्मूल इत्याह ॥ भगवन्निति । जीवलोकोऽयं तव मायया मोहितः । असन्ग्राहोऽज्ञानं यस्य स कर्मवर्त्मसु तन्मार्गेषु भ्राम्यते तथैव ॥ २४ ॥

सुमनोरञ्जिनी

अखिलहेतुभूतमित्यनेन सर्वजगत्स्रष्टृत्वेन तथा यानीत्यादिना स्वसृष्टलोकस्य तदा तदा प्राप्तभयपरिहारादिना पालकत्वेन च स्तुत्वा इदानीं बन्धमोक्षज्ञानादिप्रदत्वेन स्तुवन् प्रणमति ॥ भगवन्नित्यादिना ॥ माययेत्यावर्तते । तव मायया इच्छया त्वदधीनया प्रकृत्या च विमोहितः सन् । कर्मवर्त्मसु स्वस्वात्मीयरक्षणोपयुक्तकर्माख्यमार्गेषु । कोऽयं मोह इत्यतस्तद्दर्शयन् जीवलोकं विशिनष्टि ॥ अहमिति ॥ शरीरे अहमिति दारापत्यादिषु ममेति असन् ग्राहोऽभिमानो यस्य सः । देहादिषु अहंममेत्यभिमान एव मोह इति भावः ॥ २४ ॥

अहं चात्मात्मजागारदारार्थस्वजनादिषु ।

भ्रमामि स्वप्नकल्पेषु मूढः सुखधिया विभो ॥ २५ ॥

पदरत्नावली

आत्मा देहः, आत्मजाः पुत्राः, आगारं गृहम्, दारा भार्या, अर्थो हिरण्यादिः, स्वजना बान्धवा आदयो येषां विषयाणां तेषु अस्थिरतया स्वप्नकल्पेषु ॥ २५ ॥

सत्यधर्मीया

ते भवन्तु भ्रान्ता न भवांस्तथेति न वद देवेति वदति ॥ अहं चेति ॥ आत्मा देह आत्मजाः पुत्रा दारा भार्या अर्थो द्रव्यं स्वजना आदयो येषां विषयाणां तेषु स्वप्नकल्पेष्वस्थिरतया तत्समेषु । अत्रैव सुखमिति धीस्तया भ्रमामि । एतद्दृढमूलतां श्लथयितुं तवैव सामर्थ्यमिति तथा सम्बोधयति विभाविति ॥ २५ ॥

सुमनोरञ्जिनी

न केवलं जीवलोकः किन्तु मूढो विचित्तोऽहं च स्वप्नकल्पेषु अनित्येषु । आत्मजादिषु आत्मा देह आत्मजाः पुत्रा आगारं गृहम् । अर्थो धनम् । स्वजनो बन्धुजनादिः । एवमादिषु सुखासाधनेषु । सुखधिया सुखसाधनत्वबुध्द्या । भ्रमामीति सम्बन्धः ॥ २५ ॥

अनित्यानात्मदुःखेषु विपर्ययमतिर्ह्यहम् ।

द्वन्द्वारामस्तमोनिष्ठो न जाने त्वां जगत्पते ॥ २६ ॥

पदरत्नावली

अनित्येषु नित्यताया अनात्मन्यात्मताया दुःखे सुखताया इति विपर्ययेण मतिर्यस्य स विपर्ययमतिः । द्वन्द्वेषु सुखदुःखेष्वेव आरामो यस्य स तथा ॥ २६ ॥

सत्यधर्मीया

अनित्येषु नित्यताया अनात्मन्यात्मताया दुःखे सुखताया इति विपर्ययेण मतिर्यस्य स द्वन्द्वारामस्तमोनिष्ठोऽज्ञानवान् जगत्पते त्वां न जाने ॥ २६ ॥

सुमनोरञ्जिनी

देहादिषु सुखसाधनत्वज्ञानं कथं भ्रम इत्यतस्तदुपपादयन्नाह ॥ अनित्येति ॥ अनित्येषु नश्वरेषु । अनात्मसु जडेषु अस्वाभाविकेषु वा । दुःखेषु दुःखसाधनेषु । विपर्यया मतिः स्थायित्वसुखसाधनत्वादिबुद्धिर्यस्य सः । द्वन्द्वेषु शीतोष्णादिरूपेषु विषयेषु रममाणः । तमोविष्टस् तमसा ॥ २६ ॥

यथाऽबुधो जलं हित्वा प्रतिच्छन्नं तदुद्भवैः ।

अभ्येति मृगतृष्णां वै हित्वाऽहं त्वा पराङ्मुखः ॥ २७ ॥

पदरत्नावली

तदुद्भवैः सरित्तीरोत्पन्नतरुभिः । मृगतृष्णां मरीचिकाजलम् । त्वा त्वां हित्वाऽहं पराङ्मुखः सन् मृग्यन्त इति मृगा विषयास्तेषु तृष्णां स्पृहामभ्येति ॥ २७ ॥

सत्यधर्मीया

यथाऽबुधोऽज्ञस्तदुद्भवैः शैवालादिभिश्छन्नं जलं नेति हित्वा मृगतृष्णामभ्येति तथा त्वां हित्वाऽहं पराङ्मुखः ॥ २७ ॥

सुमनोरञ्जिनी

अज्ञानेन विष्ट आविष्टः सन् तत्रैव स्थितं त्वां न जाने तत्र दृष्टान्तमाह यथाऽबुधो मूर्खस् तदुद्भवैर् जलोद्भवैः शैवालादिभिः प्रतिच्छन्नं जलं हित्वा । मृगतृष्णां मरुमरीचिकाम् । अभ्येति तथा त्वा त्वां हित्वा । पराङ्मुखः बहिर्मुखः ॥ २७ ॥

नोत्सहेऽहं कृपणधीः कामकर्महतं मनः ।

रोद्धुं प्रमाथिभिः१ स्वाक्षैर्ह्रियमाणमितस्ततः ॥ २८ ॥

पदरत्नावली

कृपणा विषयवासनायुक्ता धीर्यस्य सोऽहं कामकर्महतं मनः प्रमाथिभिः प्रकर्षेण मथद्भिर्बलिष्ठैरक्षैरिन्द्रियैरितस्ततो ह्रियमाणं रोद्धुं नोत्सहे न शक्नोति ॥ २८ ॥

सत्यधर्मीया

उपासनया तदसनं कुर्वक्रूरेत्यत आह ॥ नेति । कृपणधीरहं कामकर्महतं मनः प्रमाथिभिः प्रमथनशीलैः स्वाक्षैः स्वेन्द्रियैरितस्ततो ह्रियमाणं रोद्धुं नोत्सहे न शक्नुयाम् । मनो वृत्तिवैचित्र्ययुतमिति स्वाक्षैर् ह्रियमाणमिति सम्भवति ॥ २८ ॥

सुमनोरञ्जिनी

कामकर्महतं कामकर्मभ्यां हतं दुष्टम् । प्रमाथिभिः प्रमथनशीलैः स्वाक्षैश् चक्षुरादिभिरिन्द्रियैर्द्वारभूतैः । इतस्ततो विषयेषु, ह्रीयमाणम् आकृष्यमाणं मनः । रोद्धुं विषयपराङ्मुखं कर्तुम् । नोत्सहे न शक्तोऽस्मीति योजना ॥ २८ ॥

सोऽहं तवाङ्घ्य्रुपगतोऽस्म्यसतां दुरापं यच्चाप्यहं भवदनुग्रहमीश मन्ये ।

**पुंसो भवेद् यर्हि संसरणापवर्गस्त्वय्यब्जनाभ सदुपासनया२ऽऽमतिः स्यात् **

॥ २९ ॥

पदरत्नावली

योऽशक्तः सोऽहं तवाङ्घ्र्युपगतोऽस्मि । अङ्घ्री उपगतौ येन स तथा । अपिशब्द एवार्थे । यच्च तवाङ्घ्र्युपगमनं चासतां दुरापं दुष्प्रापं तद् भवदनुग्रहं त्वदनुग्रहहेतुकं मन्ये । हे अब्जनाभ यर्हि यदा सतामुपासनया त्वयि मतिर्मननबुद्धिः स्यात् तर्हि पुंसोऽधिकारिवर्गस्य संसरणात् संसारादपवर्गो मोक्षो भवेत् ॥ २९ ॥

सत्यधर्मीया

प्रयत्नोऽपि न मद्यत्नसाध्यः सर्वोऽपि सर्वेश तवानुग्रहहेतुक इत्याह ॥ सोऽह-मिति ॥ योऽशक्तः सोऽहमसतां दुरापं तैर्दुष्प्राप्यं तवाङ्घ्री चरणावुपगतोऽङ्घ्री उपगतौ यमिति येनेति वाऽङ्घ्र्युपगतोऽस्मीति तदुपगमनं मयीश भवदनुग्रहं तद्धेतुकं मन्ये । हे अब्जनाभ यर्हि सदुपासन-याऽऽमतिः समीचीना बुद्धिः स्यात्तर्हि पुंसोऽधिकारिवर्गस्य संसरणादपवर्गो भवेत् । संसारनिवृत्तौ सन्निहितायां तत्साधनीभूतसदुपासनतः सद्बुद्धिरुदेतीति भावः ॥ २९ ॥

सुमनोरञ्जिनी

यद्येवं त्वं पराङ्मुखस्तर्हि मद्दर्शनादिकं कथं तवेत्यत आह ॥ सोऽहमिति ॥ चशब्दोऽवधारणे । अपिशब्दः सोऽपीति सम्बध्यते । अहं सोऽपि मनोनिरोधायाशक्तः सन् विषयलोलुपोऽपि । यत् तवांघ्य्रुपगतोऽस्मि तद् भगवतोऽनुग्रहमेव अनुग्रहनिमित्तमेवेति अहं मन्ये । नान्यत्साधनमस्तीति सम्बन्धः । नन्वस्त्वेवं भवद्विषये । त्वदन्यजीवलोकस्य संसारादपवर्गो दुर्घट एवेत्यतस्तत्साधनं वदन् भगवतो मोक्षप्रदत्वं तत्साधनज्ञानप्रदत्वं च सूचयन्नाह ॥ पुंस इति ॥ एवंविधस्यापि पुंसः योग्यजनस्य । यर्हि यदा । अब्जनाभस्य या सती योग्या उपासना तया । मतिर् अपरोक्षज्ञानं स्यात् तर्हि तदा संसरणात्संसारादपवर्गो मोक्षो भवेदिति योजना । ननु सत्यं स्वयोग्याब्जनाभोपासनाजन्यापरोक्षेण मोक्षो भवतीति । सैव कथं लभ्या भगवद्गुणज्ञानाभावाद् इत्यस्येदमेवोत्तरम् ॥ सदुपासनयेति ॥ हे अब्जनाभेति सम्बोधनम् । सतां महताम् उपासनया शुश्रूषया । सद्गुरूपदेशेनेति यावत् । मतिर् उपासनोपयुक्तं भगवद्गुणज्ञानं स्यादिति । ननु तर्हि सत्समागम एव कथं लभ्य इत्यस्यापीदमेवोत्तरम् ॥ पुंस इति ॥ इतिशब्दोऽध्याहार्यः । पुंसोऽधिकारिणः संसरणापवर्गः स्यादिति यर्हि यदा पुंसः परमपुरुषस्य मतिरिच्छा स्यात्तदैवेति । एनं मोचयामीति यदा भगवदिच्छा तदैवेति भावः । मतिबुद्धिपूजेति सूत्रे मतिशब्दस्य इच्छार्थत्वान् मतिरिच्छेति युक्तम् ॥ २९ ॥

नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे ।

पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ ३० ॥

पदरत्नावली

विज्ञानमात्राय विज्ञानस्वरूपाय । सर्वप्रत्ययहेतवे सर्वज्ञानकारणाय । पुरुषेशयोर्विरिञ्चिशङ्करयोः प्रधानाय ॥ ३० ॥

सत्यधर्मीया

विज्ञानमात्राय विज्ञानात्मकाय । सर्वेषां प्रत्ययो ज्ञानं तस्य हेतवे । पुरुषो ब्रह्मा चेशश्च रुद्रश्च तयोः श्रेष्ठाय । ब्रह्मणेऽनन्तशक्तये सर्वसम्भावकमिदम् ॥ ३० ॥

सुमनोरञ्जिनी

नम इति । विज्ञानमात्राय विज्ञानमेव विज्ञानमात्रम् । विज्ञानात्मकायेति यावत् । सर्वप्रत्ययानां हेतवे सर्वमनोवृत्तिप्रेरकायेत्यर्थः । पुरुषेशयोर्विरिञ्चिशङ्करयोः प्रधानाय उत्तमाय । अनन्ता अपरिच्छिन्ना शक्तिर्यस्य तस्मै ॥ ३० ॥

नमस्ते वासुदेवाय सर्वभूतक्षयाय च ।

हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ ३१ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे अष्टत्रिंशोऽध्यायः ॥

पदरत्नावली

सर्वभूतक्षयाय सर्वभूतनिवासाय ॥ ३१ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे अष्टत्रिंशोऽध्यायः ॥

सत्यधर्मीया

सर्वभूतक्षयाय च प्रलयकाले वासुदेवाय ते नमः । हृषीकेश तुभ्यं नमः । किं पुनः पुनर्नमसि मनःस्थितं वदेत्यत आह ॥ प्रपन्नं मां पाहीति । न तवान्ध्यमिदं कियदिति वक्ति ॥ प्रभविति ॥ ३१ ॥

॥ इति श्रीमद्भागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे अष्टत्रिंशोऽध्यायःः ॥ १०-३८ ॥

सुमनोरञ्जिनी

वासुदेवायेत्यस्यैव विवरणं सर्वभूतक्षयाय सर्वभूतनिवासाय । क्षि निवास-गत्योरिति धातोः । हृषीकाणामिन्द्रियाणाम् ईश प्रेरक । प्रपन्नं शरणागतम् । प्रभो समर्थ ॥३१॥

॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां सुमनोरञ्जिन्याम् अष्टत्रिंशोऽध्यायः ॥