१२ सप्तत्रिंशोऽध्यायः

सुखोपविष्टः पर्यङ्के रामकृष्णानुमोदितः

॥ अथ सप्तत्रिंशोऽध्यायः ॥

श्रीशुक उवाच—

सुखोपविष्टः पर्यङ्के रामकृष्णानुमोदितः ।

लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ॥ १ ॥

पदरत्नावली

‘अहरहः सन्ध्यामुपासीत’ इत्यादिश्रुतिविहितनित्यकर्मनिरतानां भक्तानां सर्वमनोरथानपि पूरयति हरिरित्यर्थं प्रतिपादयितुमक्रूरविषये भगवत्कृतानुग्रहविशेषो वर्ण्यतेऽस्मिन्नध्याये । मनोरथान् चकार दध्यौ । ‘करणं कारणे काले साधनेऽनुव्रतादिषु । स्पष्टाद्युच्चारणाभेदे ध्यान-पद्मासनादिषु’ इति यादवः ॥ १ ॥

सत्यधर्मीया

पर्यंके मञ्चे सुखं यथा तथोपविष्टो रामकृष्णाभ्यामनुमोदितः सत्कृतः सोऽकूरः पथि मार्गे यान् मनोरथान् कृष्णेन कर्तव्यत्वेनाकरोत्तान्सर्वांल्लेभे लब्ध्वा चकार दध्याविति वा । करणं कारणे काले साधनेऽनुव्रतादिषु । स्पष्टाद्युच्चारणाभेदे ध्यानपद्मासनादिष्विति यादव इति पूर्वे । रामकृष्णोरुमानित इति पाठोऽप्युरुमानितः ॥ १ ॥

सुमनोरञ्जिनी

भक्तानुकंपी भगवान् स्वभक्तमनोरथान् सत्यानेव करोति नान्यथेत्येतमर्थं सूचयत्यस्मिन्नध्याये ॥ सुखेति ॥ रामकृष्णाभ्यामनुमोदितः सन् पर्यङ्के सुखेनोपविष्टः सोऽक्रूरः पथि यान् मनोरथान् चकार तान् सर्वान् मनोरथान् लेभे प्राप्तवान् ॥ १ ॥

किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने ।

तथापि तत्परा राजन् नैव वाञ्छन्ति किञ्चन ॥ २ ॥

पदरत्नावली

ननु मुख्यमनोरथो मोक्षः सोऽनेन न लब्धः संसारानिवृत्तेरित्यत्राह किमलभ्य-मिति । तत्परा मुख्यभागवतास्तत्प्रसादमन्तरेणान्यन्नाकाङ्क्षन्त इति भावः ॥ २ ॥

सत्यधर्मीया

मध्ये तदुभयकथं कथमक्रूरचिन्तितं सर्वमभूदिति चेतश्चित्रयन्तं परीक्षितं प्रति शुकोऽपि परवशः सन्नेदमाश्चर्यमिति वक्ति ॥ किमिति ॥ श्रीनिकतने श्रिय आश्रये भगवति प्रसन्ने सत्यलभ्यं दुर्लभं किं न किमपि । तथाऽपि तत्परा हर्यासक्ता राजन् किञ्चनापि न वाञ्छन्ति न काक्षन्ति ॥ २ ॥

सुमनोरञ्जिनी

नन्वक्रूरो भगवत्प्रसादमन्तरा किमप्यैहिकमामुष्मिकं वा फलं कुतो नाकाङ्क्षी-दित्यत एकान्तभक्तानामयं स्वभाव इत्याह ॥ किमिति । भगवति हरौ प्रसन्ने सति किमलभ्यं भवेत् सर्वमपि लभ्यमेव । तथापि तत्परास् तदेकान्तभक्ताः । तत्प्रीतिमन्तरा किञ्चन ऐहिकमामुष्मिकं वा ॥ २ ॥

सायन्तनाशनं कृत्वा भगवान् देवकीसुतः ।

सुहृत्सु वृत्तिं कंसस्य पप्रच्छान्यच्चिकीर्षितम् ॥ ३ ॥

पदरत्नावली

सायन्तनाशनं रात्रिभोजनम् । ‘सायं प्रातर्द्विजातीनां भोजनं श्रुतिचोदितम्’ इति याज्ञवल्क्यस्मृतेः । सुहृत्सु वसुदेवादिषु वृत्तिं वर्तनम्, आजीवलक्षणम् । ‘वृत्तिर्ग्रन्थाजीवयोश्च’ इति यादवः ॥ ३ ॥

सत्यधर्मीया

पुनः कृष्णाक्रूरप्रवृत्तं वृत्तं कथयति ॥ सायन्तनेति । सायन्तनमशनं भोजनं कृत्वा रागतः प्राप्तेऽपि भोजने स्मृतिकारैर्नियमितत्वात् । तथा हि । सायं प्रातर्द्विजातीनामशनं स्मृतिचोदितमिति । इमां स्मृतिं स्मृतिपथमानेतुमशनमिति जगदे जगदेकगुरणा । सुहृत्यु कंसस्य वृत्तिमन्यद्यच्चिकीर्षितं कर्तुं वाञ्छितं तत्पप्रच्छाप्राक्षीत् ॥ ३ ॥

सुमनोरञ्जिनी

सुहृत्सु वसुदेवादिषु विषये । वृत्तिं प्रवृत्तिम् । चिकीर्षितं कर्तुमिच्छाविषयम् ॥ अन्यच्च पप्रच्छेति । अस्मद्बन्धुविषये कंसः कथं प्रावर्तत । उत्तरत्र वा किं कर्तुं वाञ्छतीति कंस-वृत्तान्तम् । अन्यच्च तदतिरिक्तं च वर्णयेति पप्रच्छेति भावः ॥ ३ ॥

पृष्टो भगवता सर्वं वर्णयामास माधवः ।

वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ ४ ॥

यत्सन्देशो यदर्थे वा दूतः सम्प्रेषितः स्वयम् ।

यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः ॥ ५ ॥

श्रुत्वाऽक्रूरवचः कृष्णो बलश्च परवीरहा ।

प्रहस्य नन्दं पितरं राज्ञाऽऽदिष्टं विजज्ञतुः ॥ ६ ॥

पदरत्नावली

माधवः मधुकुलोद्भवः । यस्य कंसस्य सन्देशो यस्य स तथा । यस्य कंसस्यार्थे दूतः स्वयं सम्प्रेषितस् तस्य कंसस्य यदुषु वैरानुबन्धं वैरेण सन्ततदोषभावं वसुदेववधोद्यमं च वर्णयामास । ‘अनुबन्धो दोषभावे प्रकृत्यादौ विनश्वरे । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने’ इत्यभिधानम् । आनकदुन्दुभेः सकाशात् स्वजन्म कृष्णजन्म यन्नारदेनास्य कंसस्योक्तं तत् सर्वं वर्णयामासेत्यन्वयः । परवीरहेत्युभयविशेषणम् । परान् स्वप्रतिकूलान् वीरान् हन्तीति तथा । विजज्ञतुर् विज्ञापयामासतुः ॥ ४-६ ॥

सत्यधर्मीया

माधवो मधुकुलजोऽकूरो यदुषु वैरानुबन्धं वसुदेववधोद्यमं च वर्णयामास ॥ यस्य सन्देशो यस्य सः । यस्यार्थे प्रयोजन इति यदर्थे वा दूतः स्वयं प्रेषितः । आनकदुन्दुभेः सकाशात्स्वजन्मेति नारदेन यदुक्तं तदक्रूरवचः कृष्णो बलश्च श्रुत्वा । परवीरहेत्युभयविशेषणम् । प्रहस्य राज्ञा कंसेनादिष्टं पितरं नन्दं प्रति विजज्ञतुर्विज्ञापयामासतुः ॥ ४-६ ॥

सुमनोरञ्जिनी

माधवः मधुकुलोद्भवोऽक्रूरः । यदुषु वैरानुबन्धं वैरस्य अनुबन्धमनुवर्तनम् । वसुदेववधे उद्योगम् । कंसकृतो यश्च सन्देशः धनुर्मखार्थमागन्तव्यमित्यादिरूपा आज्ञा । यदर्थं यत्प्रयोजनार्थम् । स्वयमक्रूरः दूतः सन् प्रेषितः । तत्सर्वं कंसवृत्तान्तम् । तथा अन्यदपि । अस्य कंसस्य नारदेन यदुक्तं तदपि । वर्णयामासेत्यन्वयः । किं नारदोक्तमित्यतस्तदाह ॥ स्वजन्मेति ॥ स्वस्य कृष्णस्य तव जन्म । आनकदुन्दुभेर् वसुदेवादभूदित्येवंरूपमित्यर्थः । परे शत्रुभूता ये वीरास् तान् हन्तीति तथोक्तः । बलः बलरामः कृष्णश्चेत्येतौ । राजादिष्टं राज्ञा कंसेनादिष्टम् आज्ञप्तं विजज्ञतुर् विज्ञापयामासतुः ॥ ४-६ ॥

गोपान् समादिशत् सोऽपि गृह्यतां सर्वगोरसः ।

उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥ ७ ॥

सत्यधर्मीया

सोऽपि नन्दोऽपि सर्वगोरसो गवां रसो गोरसः सर्वश्चासौ गोरसश्च गृह्यताम् । सर्वासां गोरस इति योग्यतयालापने गोरतद्धितलुकीति न टच्प्रसङ्गः । उपायनानि पूजोपयुक्तानि वस्तूनि । शकटान्यनांसि युज्यताम् ॥ ७ ॥

यास्यामः श्वो मधुपुरीं दास्यामो नृपते रसान् ।

द्रक्ष्यामः सुमहत् पर्व यान्ति जानपदाः किल ॥ ८ ॥

एवमाघोषयत् क्षत्रा नन्दगोपः स्वगोकुले ।

गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिताशयाः ॥ ९ ॥

रामकृष्णौ पुरीं नेतुमक्रूरं व्रजमागतम् ।

काश्चित् तत्कृतहृत्तापश्वासम्लानमुखश्रियः ॥ १० ॥

पदरत्नावली

रसान् सुवर्णादिकरान् । ‘रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे । रेतस्यास्वादने हेमि्न निर्यासे रसशब्दयोः’ इत्यभिधानम् । पर्व उत्सवम् । ‘पक्षसन्धावुत्सवे च ग्रन्थौ पर्व विदुर्बुधाः’ इति दत्तः ॥ क्षत्त्रा सूतेन । ताः श्रीकृष्णैकजीवना गोप्यस्तत् तदा ॥ अक्रूरं रामकृष्णौ पुरी नेतुमागतमुपश्रुत्य व्यथिताशया बभूवुः । तेन श्रवणेन कृतो यो हृत्तापस्तेन यः श्वासस्तेन म्लाना मुखश्रीर्यासां तास्तथा ॥ ८-१० ॥

सत्यधर्मीया

रसान्सुवर्णादिकरान् । रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे । रेतस्या-स्वादने हेमि्न निर्यासे रसशब्दयोरिति च । सुमहत्पर्व धनुरुत्सवं द्रक्ष्यामः । न केवलं वयमेवोद्युञ्जामहे किन्तु जानपदा देशस्था यान्ति किल । पक्षसन्धावुत्सवे च ग्रन्थौ पर्व विदुर्बुधा इति दत्तः । पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे । दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपीति विश्वः ॥ क्षत्रा सूतेन । एवं श्वो गन्तव्यमित्याघोषयत् । याः कृष्णसङ्गतास्ता गोप्यस्तद्धोषणमुपश्रुत्य व्यथिताशया बुभूबुः ॥ पुरीं मधुराम् । तत्कृताभ्यां गमनवार्ताश्रवणकृताभ्यां हृत्तापश्च श्वासश्च ताभ्यां म्लानं क्षीणहर्षं यन्मुखं तस्य श्रीरिति विपर्यासोक्तिर्यासां ताः । म्लाना मुखश्रीर्यासामिति वा

॥ ८-१० ॥

सुमनोरञ्जिनी

सोऽपि नन्दोऽपि गोपान् समादिशद् आज्ञापयामास । किमित्यतस्तदाह ॥ गृह्यतामिति ॥ सर्वगोरसः सर्वासां गवां रसः क्षीरादिः । उपायनानि उत्तमवस्तूनि गृह्णीध्वम् । शकटानि युज्यन्ताम् । अनडुद्भिरिति शेषः । नृपतेः रसान् गोरसान् दास्यामः । रसशब्दच्छलेनेदं सूचयति । रसान् विषान् दास्याम इति । रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रव इत्यभिधानात् । पर्व धनुर्मखोत्सवम् । पक्षसन्धावुत्सवे च ग्रन्थौ पर्व विदुर्बुधा इत्यभिधानात् ॥ एवमुक्तरीत्या क्षत्रा । व्रजरक्षार्थमधिकृतेन । आघोषयत् । ताः कृष्णैकमनस्का गोप्यः । तद् आघोषणम् । उपश्रुत्य, आघोषणे किं बीजमिति चिन्तायाम् । रामकृष्णौ पुरीं मधुरापुरीं प्रतिनेतुं व्रजं प्रत्यागतमक्रूरं च । व्यथितः सञ्जातव्यथ आशयोऽन्तःकरणं यासां तथाविधा बभूवुः । व्यथाचिह्नानि निदर्शयति ॥ काश्चिदिति । तेन श्रवणेन कृताभ्यां हृत्तापश्वासाभ्यां, तत्कृतो यो हृत्तापः हृदः मनसः सन्तापस् तेन यः श्वासस् तेनेति वा, म्लाना मुखश्रीर्यासां ताः ॥ ७-१० ॥

स्रंसद्दुकूलवलयकेशग्रन्थ्यश्च काश्चन ।

अन्याश्च तदनुध्याननिवृत्ताशेषवृत्तयः ॥ ११ ॥

नाभ्यजानन्निमं लोकमात्मलोकं गता इव ।

स्मरन्त्यश्चापराः शौरेरनुरागस्मितेरिताः ॥ १२ ॥

पदरत्नावली

तस्य कृष्णस्यानुध्यानेन निवृत्ता अशेषाश्चक्षुरादिवृत्तयो यासां तास्तथा ॥ इमं लोकं देहम् । आत्मलोकं मोक्षम् । अनुरागपूर्वकस्मितेन ईरिताः प्रेरिताः ॥ ११,१२ ॥

दुर्घटभावदीपिका

आत्मलोकमात्मनः प्राज्ञनामकपरमात्मनो लोकं देहं गताः प्राप्ताः सुप्ता इवेमं लोकं देहं नाभ्यजानन्निति ॥ ११ ॥

सत्यधर्मीया

स्रंसन्त्यो दुकूलवलयकेशग्रन्थ्यो ग्रन्थयो यासां ताः । काश्चन तस्य कृष्णस्यानुध्यानेन निवृत्ता अशेषा वृत्तयो यासां ताः ॥ इमं लोकं देहमात्मलोकं मोक्षं गता इव नाभ्यजानन् । शौरेरनुरागश्च स्मितं च ताभ्यामीरिताः ॥ ११,१२ ॥

सुमनोरञ्जिनी

काश्चन स्रंसद्दुकूलवलयकेशग्रन्थ्यः । दुकूलानि वलयानि केशग्रन्थयश्च । स्रंसन्तः दुकूलवलयकेशग्रन्थयो यासां ताः । अन्याश्च तस्य कृष्णस्य अनुध्यानेन अनुचिन्तनेन । निवृत्ता अशेषा वृत्तयः प्रवृत्तयो ऽशेषेन्द्रियवृत्तयो वा यासां तथाविधाः सन्त्यः ॥ ११ ॥

हृदिस्पृशश्चित्रपदा गिरः संमुमुहुः स्त्रियः ।

गतिं सुललितां चेष्टां स्निग्धहासावलोकनम् ॥ १३ ॥

शोकापहानि नर्माणि प्रोद्दामचरितानि च ।

चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः ॥ १४ ॥

समेताः सङ्घशः प्रोचुरश्रुमुख्योऽच्युताशयाः ॥ १५ ॥

पदरत्नावली

हृदिस्पृशो हृदयङ्गमाः । चित्राणि पदानि यासु तास्तथा । गिरः स्मरन्त्यः संमुमुहुः । चेष्टां समाश्लेषादिरूपाम् । स्निग्धो यो हासस्तद्युक्तमवलोकनम् ॥ अश्रूणि मुखेषु यासां तास्तथा । अच्युत एवाशयश्चित्तं यासां तास्तथा ॥ १३,१५ ॥

सत्यधर्मीया

हृदिस्पृशो हृदयङ्गमाश्चित्राणि पदानि यासां ता गिरः स्मरन्त्यः स्त्रियः सम्मुमुहुः । सुललितां गतिं सुललितां चेष्टां स्निग्धहासावलोकनं स्मरन्त्य इत्यन्वयः ॥ शोकापहानि नर्माणि प्रोद्दामचरितानि च चिन्तयन्त्यो भीता अक्रूराद्विरहकातराः समेताः सङ्घशोऽच्युताशया अश्रुमुख्यः प्रोचुः । न च्युतो माधवध्यानादाशयो यासां ता इति वा ॥ १३-१५ ॥

सुमनोरञ्जिनी

इमं लोकं देहम् । नान्वजानन् । आत्मलोकं मोक्षं गता मुक्ता इवेति । अपराः स्त्रियः शौरेः कृष्णस्य । गिरो वाक्यानि । स्मरन्त्यः संमुमुहुरित्यन्वयः । कथंभूताः । अनुरागस्मितपूर्वकमीरिता अत एव हृदिस्पृशः हृदयङ्गमा मनोहरा इत्यन्वयः । चित्राणि नानाविध-श्लेषयुक्तानि पदानि यासु ताः । गतिं गमनम् । सुललिताम् अतिमनोहराम् । चेष्टां शृृङ्गारचेष्टाम् । स्निग्धः स्नेहसहितो यो हासः, तद्युक्तम् अवलोकनम् । शोकापहानि शोकपरिहारकाणि । नर्माणि विनोदवचनानि । प्रोद्दामानि उत्कृष्टानि चरितानि केशिवधादीनि । चिन्तयन्त्यो ध्यायन्त्यः । मुकुन्दस्य । विरहेण कातराः । सङ्घशः समेताः प्रोचुरित्यन्वयः । अश्रुमुख्यो ऽश्रूणि मुखेषु यासां ताः । अच्युते आशयश् चिन्ता यासां ताः ॥ १२-१५ ॥

गोप्य ऊचुः—

अहो विधातस्तव न क्वचिद् दया संयोज्य मैत्र्या प्रणयेन देहिनः ।

तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थकं १विचेष्टितं तेऽर्भकचेष्टितं यथा ॥ १६ ॥

पदरत्नावली

ब्रह्मावेशयुक्तत्वादक्रूरस्य तं ब्रह्माणमधिक्षिपन्ति अहो विधात इति । हे विधातस्तव क्वचिदपि दया नास्ति । प्रणयेन स्नेहेन मैत्र्या मित्रभावेन देहिनः प्राणिनः संयोज्य योजयित्वा तान् संयुक्तान् अकृतार्थान् कृतः पर्याप्तोऽर्थो येषां ते कृतार्थास्ते न भवन्तीत्यकृतार्थास्तान् । ‘पर्याप्ते विहिते कृतम्’ इत्यभिधानम् । वियुनङ्क्षि वियुक्तान् करोषि अहो । अतस्ते विचेष्टितमपार्थकं निरर्थकम् । अत्र निदर्शनमाहुर् अर्भकचेष्टितमिति ॥ १६ ॥

सत्यधर्मीया

विधिमधिक्षिपन्ति ॥ अहो इति । हे विधातो धातस्तव क्वचिदपि दया नेति न द्रवद्धृदयः । कुत एवं वचनमित्यत उदञ्चयन्ति ॥ संयोज्येति ॥ प्रणयेन स्नेहेन मैत्र्या मित्रतया देहिनः प्राणिनः संयोज्य योजयित्वा तान् संयुक्तानकृतार्थान्कृतः पर्याप्तोऽर्थो येषां ते कृतार्थास्ते न भवन्तीत्यकृतार्थास्तान् । कृतं युगे च पर्याप्ते विहिते हसिते फल इति विश्वः । आप्राप्तभोगानिति विवरणं संयोज्येत्युक्तिबाधितम् । वियुनङ्क्षि वियुक्तांस्तनुषे । मम तेन प्रयोजनं वियोजनेनेति न वदेति वदन्ति । अपार्थकं निरर्थकमिति । तत्र निदर्शनं यथाऽर्भकचेष्टितमिति । मार्तिकीं काञ्चन पुत्तलिकां कृत्वा स तां स्वयमेव मर्दयन्निर्दयो मृदं तनोति तथा ते क्रीडितम् । यतो हे अर्भक भगवद्बालक चतुर्मुख ते विधा प्रकार एवम् । ततोऽतस्तवन अतं गतं स्तवनं यस्य स तत्सम्बुद्धिः । ते चिज्ज्ञानं दया च क्व न ते उभे त्वयि वर्तेते इति भावः । ते चेष्टितं यथा सम्यग्विक्रीडितमित्यन्वयो वा । मैत्र्या संयोज्याप्रणयेनास्नेहेन हेतुना वियुनङ्क्षीत्यन्वयो वा । विक्रीडितं विक्रीडनं वियुनङ्क्षीत्यकृतार्थान्विधातः कुर्वन्नभूरिति ते यथा सम्यगर्भकचेष्टितमिति वा

॥ १६ ॥

सुमनोरञ्जिनी

किमिति प्रोचुरिति तत्राह ॥ अहो इति । हे विधातस् तव । क्वचिदपि विषये दया नास्ति । कुतः । त्वं प्रणयेन स्नेहेन । देहिनः जन्तून् । मैत्र्या मित्रभावेन । संयोज्य परस्परं मैत्रीमुत्पादयित्वेति यावत् । तान् देहिनः । अकृतार्थानेव अप्राप्तमनोरथानेव । अपार्थकं व्यर्थं वियुनङ्क्षि वियोजयसि । अतस्ते तव । विक्रीडितं चेष्टितम् अपार्थकं निष्फलम् । अर्भकानां बालानां चेष्टितं यथा तथेति । बाला यथा स्वयमेव किञ्चिदुत्पाद्य निर्मितं स्वयमेव नाशयंति तथेति भावः ॥ १६ ॥

यस्त्वं प्रदर्श्यासितकुन्तलावृतं मुकुन्दवक्त्रं सुकपोलमुन्नसम् ।

शोकापनोदस्मितलेशसुन्दरं करोषि पारोक्ष्यमसाधु ते कृतम् ॥ १७ ॥

पदरत्नावली

यस्त्वमसितकुन्तलैरावृतं शोभनौ कपोलौ यस्मिन् तत् सुकपोलम् उन्नता नासिका यस्मिन् तदुन्नसं शोकमपनुदतीति शोकापनोदः, स चासौ स्मितलेशश्च शोकापनोदस्मित-लेशस्तेन सुन्दरं मुकुन्दवक्त्रं प्रदर्श्य अपरोक्षविषयं कारयित्वा पुनः पारोक्ष्यम् अदृश्यत्वं करोषि अतस्ते त्वया कृतं कर्मासाधु अमङ्गलम् ॥ १७ ॥

सत्यधर्मीया

परेषां देहिनां संयोगवियोगदाने कोदरशूला कामिन्यो भवद्धिषयो नानयो मयाऽचारि लोकवार्तया कुतः कृशीभवनं भवतीनामित्यतस्ते वयमेवेति कैश्चित् श्लोकैर्वदन्ति ॥ य इति ॥ यस्त्वमसितकुन्तलावृतं सुकपोलमुन्नसमुन्नता नासिका यस्य तत् । शोकस्यापनोदो येन स शोकापनोदः स्मितस्य लेशो यस्तेन सुन्दरं मुकुन्दवक्त्रं प्रदर्श्यापरोक्ष्यविषयं कारयित्वा पारोक्ष्यं करोषीति यत्ते कृतं कर्मासाध्वमङ्गलं ते त्वयाऽसाधु कृतमिति वा । यद्वाऽन्तरङ्गत एका वदति ॥ असेति ॥ असा धुता इकृतमिति छेदः । न सा असा सा मधुरा स्थिता इना कामेनेच्छयेति यावद् गतं कृतमिति । असा तद्भिन्नाऽहं धुतेत्यर्थः ॥ १७ ॥

सुमनोरञ्जिनी

न केवलमपार्थकं किन्तु निन्दितमपीत्याहुः । यद्वा अस्तु लोके यथा तथा । भव(द्भिः)तां कोऽपराधः कृत इति तत्राह ॥ य इति ॥ यस्त्वं मुकुन्दवक्त्रं प्रदर्श्य पुनस् तस्य पारोक्ष्यं दृष्ट्यगोचरतां करोषि । अतस्ते कृतं कर्म असाधु निन्दितमित्यन्वयः । कीदृशं मुकुन्द-वक्त्रमित्यतस्तद्विशिनष्टि ॥ असितेत्यादि ॥ असितैर् नीलैः कुन्तलैर् आवृतम् । सु समीचीने कपोले यस्य तत् । उन्नसम् उन्नतनासिकम् । शोकमपनुदति परिहरतीति शोकापनोदः । स चासौ स्मितलेशः मन्दहासस् तेन सुन्दरं मनोहरम् ॥ १७ ॥

क्रूरस्त्वमक्रूरसमाख्यया स्मृतश्चक्षुर्हि दत्तं हरसे बताज्ञवत् ।

येनैकदेशेऽखिलसर्गसौष्ठवं तदीयमद्राक्ष्म वयं मधुद्विषः ॥ १८ ॥

पदरत्नावली

हे विधातस्त्वमक्रूरसमाख्यया कठिनो नेत्यन्वर्थनाम्ना पूर्वं स्मृतः । अधुना क्रूर इति स्मर्यसे । हि यतो येन चक्षुषा मधुद्विषः कृष्णस्यैकदेशे मुखाद्येकैकावयवे तदीयं तत्सम्बन्धि अखिलसर्गसौष्ठवं समग्रसृष्टिसौन्दर्यमद्राक्ष्म तत् त्वया दत्तं चक्षुरज्ञवद् हरसे बत कष्टम् ॥१८॥

दुर्घटभावदीपिका

क्रूरस्त्वमक्रूरसमाख्यया स्मृत इत्यस्याक्रूरान्तर्यामी त्वं क्रूरोऽथाऽप्यक्रूर-समाख्यया स्मृत इत्यर्थः । एतेनाकठिनेत्यादिशब्दान्तरपरित्यागेनाक्रूरेति शब्दग्रहणे निमित्तं नास्तीति शङ्काऽनवकाशः । चक्षुर्हरणादावक्रूरस्य स्वातन्त्र्यं नास्ति किं त्वक्रूरान्तर्गतस्य तवैव स्वातन्त्र्यमिति ज्ञापनार्थमक्रूरसमाख्ययेत्युक्त इत्यभ्युपगमात् ॥ १८ ॥

सत्यधर्मीया

हे विधात इदानीं क्रूरः, कठिणो नेति त्वमन्वर्थनाम्ना पूर्वं स्मृतः गुणानुगुण्येन । येन चक्षुषा मधुद्विष एकदेशे एकैकदेशेऽखिलं सर्गसौष्ठवं तव सृष्टिसौष्ठवम् । तर्हि तद्रचने चातुर्यं सम्मतं किमित्यत आहुः ॥ तदीयमिति ॥ त्वयि स्थित्वा स एव कारयितेति भावः । वयमद्राक्ष्म । तद्दत्तं चक्षुरज्ञवन्मन्दमिव मन्दमतिवद्धरसे हरसि । एतद्धरणफलं तवैवास्त्विति द्योतयितुमात्मनेपदप्रयोगः । स्वरितञितः कर्त्रभिप्राये क्रियाफल इति स्मृतिः । विस्तृतं चैतच्चक्रे शास्त्रमित्यनुव्याख्याव्याख्यासुधायाम् । बत खेदोऽतोऽक्रूरसमाख्ययाऽक्रूरनाम्ना क्रूरः स्मृतः स्मर्यसे । अखिलसर्गसौष्ठवं निसर्गसुष्ठुतां तदीयं तत्सम्बन्धं वाऽद्राक्ष्मेति वा ॥ १८ ॥

सुमनोरञ्जिनी

इतश्च तव कर्म निन्दितमित्याहुः । त्वया दत्तं चक्षुस्त्वमेव हरसे अपहरसे अज्ञवन् मूढवत् । दत्तापहारित्वं तव प्राप्तमिति भावः । भवतामनुपयोगित्वात्तदपहारो नात्यन्तदोषावह इत्यत आह ॥ येनेति । येन त्वद्दत्तेनैव चक्षुषा । मधुद्विषः श्रीकृष्णस्य एकदेशे मुखाद्येकावयवे । एकदा कदाचिद् ईशे श्रीकृष्णे इति वा । त्वदीयं त्वया निर्मितम् । अखिलसर्गसौष्ठवम् अखिलसर्गे समस्तसृष्टौ यत्सौष्ठवं सौन्दर्यं तद् अद्राक्ष्म । सकलसौन्दर्यसारभगवन्मुखादिदर्शनसाधनत्वा-दत्युपकारकमस्माकमिति भावः । श्रीकृष्णवियोजने चक्षुर्जन्योपकाराभावादनुपकारकम् अपहृतप्रायमेवेति भावः । तर्ह्यक्रूर एवापाहार्षीन्नाहमित्यत आहुः ॥ क्रूरस्त्वमिति ॥ नात्राक्रूरनामा यादवः समागतः किन्तु क्रूरस्त्वमेवाक्रूरसमाख्यया स्मृतः सन्नागत इत्यर्थः । अक्रूरनामकः सन् त्वमेवागत इति भावः । अत्र तदीयम् इति पाठोऽपि दृश्यते । तस्य तव सम्बन्धीत्यर्थः । यद्वा अक्रूरं कटाक्षीकृत्यैवैतद्वचनम् । तथा हि । हे अक्रूर त्वं वस्तुतः क्रूरः । अक्रूर इति समाख्यया नाम्ना स्मृत इत्यर्थः । त्वं नाममात्रेणाक्रूरः स्वभावतस्तु क्रूर एवेत्यर्थः । हि यस्माद् ब्रह्मणा अस्मदुपकाराय दत्तं चक्षुस् त्वम् अज्ञवत् हरसे । बत कष्टम् । अतः कोऽयमुपकारस्तेन चक्षुषेत्यत उक्तम् ॥ येनेति ॥ येन चक्षुषा मधुद्विष एकदेशे मुखाद्येकावयवे । तदीयं ब्रह्मनिर्मितमखिल-सर्गसौष्ठवम् । वयम् अद्राक्ष्मेति योजना । यद्वा तदीयं श्रीकृष्णसम्बन्धि । अखिलं पूर्णं सर्गसौष्ठवं निसर्गसौष्ठवम् । स्वाभाविकसौन्दर्यमिति पदरत्नावल्युक्तरीत्येत्यर्थः । अतः सकलसौन्दर्यसारश्रीकृष्ण-मुखसन्दर्शनरूपास्मदिष्टविघातितया त्वं क्रूर एवेति भावः । यद्वा त्वदीयमिति पाठे कृष्णं कटाक्षीकृत्येयमुक्तिः । हे कृष्ण त्वं, अक्रूरः पेशलो दक्ष इत्यादौ अक्रूरसमाख्यया स्मृतोऽपि क्रूर एव । कुतः । हि यस्मात् त्वयैव दत्तं चक्षुर् अज्ञवत् त्वमेव हरसे । अतः येन चक्षुषा । मधुद्विषस्तवैकदेशे अखिलसर्गसौष्ठवं सम्पूर्णस्वाभाविकसौन्दर्यं वयमद्राक्ष्मेति दृष्ट्वा सुखिनः स्म इति । त्वयि मधुरां पुरीं गते सति त्वत्संदर्शनाभावेन चक्षुषः साफल्याभावात् स्थितमप्यपहृतप्रायमिति भावः ॥ १८ ॥

न नन्दसूनुः क्षणभङ्गसौहृदः समीक्षते नः स्वकृतातुरा अपि ।

विहाय गेहान् स्वजनान् सुतान् पतीन् स्वदास्यमद्धोपगता नवप्रियः ॥१९॥

पदरत्नावली

इदानी कृष्णं कटाक्षीकृत्य वदन्ति नेति । स्वकृते कृष्णमुद्दिश्यातुरा क्लिष्टा गेहादीन् विहायाद्धा अञ्जसा स्वदास्यमुपगता अपि नोऽस्मान् न समीक्षते न चिन्तयति यत् तस्मान् नन्दसूनुः क्षणमात्रेणैव भङ्गो यस्य तथाभूतं सौहृदं यस्य सः क्षणभङ्गसौहृदो नवा नूतना एव प्रिया यस्य स नवप्रियश्च ॥ १९ ॥

सत्यधर्मीया

किमक्रूरे एव शब्दः सखि, सखाऽपि चञ्चलाक्षि बहुचञ्चल इति सुदती वदति ॥ न नन्दसूनुरिति ॥ क्षणेन भङ्गो यस्य तत्सौहृदं यस्य स नन्दसूनुः कृष्णः । स्वकृते स्वनिमित्तमातुराः क्लिष्टाः । गेहानि सन्ति येषाम् । तान समीक्ष्यते न पश्यति । कुतः । नवप्रियो नूतनप्रियः । अनेन नगरनारीजनरन्तृतां कटाक्षयन्तीति ध्वन्यते । अयं नन्दसूनुर्न सखि किन्तु स हरिरित्यन्तरङ्गोऽर्थः । समीपसंस्थानस्मांश्च नेक्षत इति । सूनुरेतत्कुमारो मारश्च क्षणभङ्गसौहृदो ननन्द तुतोष, एताः शरतो मारयामीति वा ॥ १९ ॥

सुमनोरञ्जिनी

काश्चित्सखीः प्रति एवमाहुरित्याह ॥ नेति ॥ यदुक्तम् अक्रूरः श्रीकृष्णं मधुरां नेष्यतीति तन् न, किं तु नन्दसूनुरेव । नवप्रियः नवं नवं प्रियं यस्य स तथाविधः । अद्धा सत्यम् । एवं सत्यक्रूरः किं कुर्यात् । स्वस्यैव नूतनप्रियत्वात्स्वयं गच्छतीति भावः । ननु चिरकालप्राप्तं सौहृदं कथं त्यजेदित्यत उक्तम् ॥ क्षणभङ्गसौहृद इति । क्षणे भङ्गो यस्य तत् क्षणभङ्गम् । अस्थिरमित्यर्थः । तादृशं सौहृदं यस्य स तथोक्तः । स्वभाव एव तस्य तादृश इति भावः । तत्र किं ज्ञापकमित्यतो न ज्ञापकान्तरमन्वेषणीयमिदमेव पश्यतेत्याहुः ॥ समीक्षत इति ॥ नेत्यनुवर्तते । स्वकृते स्वनिमित्तमेव आतुराः क्लिष्टाः, स्वेन कृतेन मन्दहासादिना आतुराः परवशाः, मन्मथातुरा इति वाऽर्थः । एतादृशीरपि नो ऽस्मान् न समीक्षते नावलोकते । इदम् अद्धा प्रत्यक्षमेव । किं च गेहान् स्वजनान् सुतान् पतीनपि विहाय । स्वदास्यमेवोपगताः प्राप्ता अपि न समीक्षते न चिन्तयति । सर्वमपि परित्यज्य स्वदास्यं प्राप्ता इत्येतदपि न गणयतीति भावः । अद्धा प्रत्यक्षसत्ययोरिति पदरत्नावली ॥ १९ ॥

सुखं प्रभाता रजनीयमाशिषः सत्या बभूवुः पुरयोषितां ध्रुवम् ।

याः सम्प्रविष्टस्य मुखं व्रजस्पतेः पश्यन्त्यपाङ्गोत्कलितस्मितासवम् ॥ २० ॥

पदरत्नावली

इतो मधुरां गतस्य भगवतो दर्शनादिकं सम्प्राप्य तत्रत्यनूतनवनिताः कृतार्था भविष्यन्तीत्याशयेनाहुः सुखमिति । पुरयोषितामियं प्रभाता प्रातःकालरूपा रजनी सुखं यथा तथा बभूव । तथा तासामाशिषः कामाश्च सत्या बभूवुः । यतो याः पुरयोषितः पुर्यां सम्प्रविष्टस्य व्रजस्पतेः श्रीकृष्णस्य । सुडागमश्छान्दसः । अपाङ्गेन कटाक्षवीक्षणेनोत्कलितमुज्जृम्भितं स्मितमेवासवोऽमृतरसो यस्मिंस्तन्मुखं पास्यन्तीति ॥ २० ॥

सत्यधर्मीया

नूतनवनिताप्रीतिमत्त्वान्निवारितोऽपि परिवारित एतैर्गच्छेदेव देवस्ततश्च ता एवं भवन्तीतीर्ष्यया वदन्ति ॥ सुखमिति ॥ पुरयोषितां नगरनारीणामियं रजनी रात्रिः सुखं यथा तथा प्रभाता प्रभामरुणसम्बन्धिनीमततीति सा तथाऽऽशिषस्तदभिलाषाः सत्या बभूवुर्ध्रुवं निश्चयः । कुत इत्यत आह ॥ या इति ॥ सम्प्रविष्टस्य पुरमिति शेषः । व्रजस्पतेर्व्रजनाथस्य । पारस्करादिः सुडार्षो वा । अपाङ्गोत्कलितस्मितासवमपाङ्गेन कटाक्षवीक्षणेनोत्कलितमुज्जृम्भितं च तत्स्मितं हसितं तदेवासवोऽमृतसमो रसो यस्मिंस्तन्मुखं पश्यन्तीति । अपाङ्गो ह्यनङ्ग उत्कलितश्छिन्नो येन तच्च स्मितं तदेवासवमसुतर्पकं यस्मिंस्तदिति वा । अस्मदवस्थैव शृृणु सखीति काश्चित्कान्तां वदन्ति । या रमाया येन सुखं तदपाङ्गोत्कलितस्मितासवं मुखं याः पश्यन्ति तासां रजनी सुप्रभाता व्रजस्पतेः प्रभाता गतेति । न इत्यनुवर्तते । नो विषये यमाशिषाः, एताः स्मरशरतो दारयित्वा नयामि संयमिनीमिति यमस्याभिलाषाः सत्या बभूवुर्ध्रुवमिति । रमणविरहतो भवेदेव मरणमिति तात्पर्यम् ॥ २० ॥

सुमनोरञ्जिनी

पुरयोषितां मधुरापुरस्त्रीणाम् । इयं रात्रिः सुखप्रभाता सुखकरप्रभातसमया । कुतः । तासामाशिषः मनोरथा वाञ्छाः सत्याः सफला बभूवुः । तदेव विवृणोति ॥ या इति ॥ याः स्त्रियः संप्रविष्टस्य पुरीं प्रविष्टस्य । व्रजस्पतेर् गोकुलनायकस्य श्रीकृष्णस्य अपांगेन तासां कटाक्षवीक्षणेन उत्कलितमुत्पन्नम् उज्जृम्भितं वा स्मितमेवासवममृतं यस्मिन् तन् मुखं संपश्यन्तीति पदरत्नावलीरीत्या योजना द्रष्टव्या । यद्वा अपाङ्गेन उत्कलितं संमिश्रं स्मितासवं यस्मिन् तत् । अपांगस्मिताभ्यां सहितमिति यावत् । अपाङ्गोऽनङ्गः मन्मथस् तेन उत्कलितम् उज्जृंभितं स्मितासवं यथा स्यात्तथेति क्रियाविशेषणं वा । श्रीकृष्णस्यागमनवार्तयोद्रिक्तमन्मथाः, तेन स्मयन्त्यः सत्यः । श्रीकृष्णमुखं सादरं पश्यन्तीति भावः ॥ २० ॥

तासां मुकुन्दो मधुमञ्जुभाषितैर्गृहीतचित्तः परवान् मनस्व्यपि ।

कथं पुनर्नः प्रतियास्यतेऽबला ग्राम्या अलज्जाः स्मितविभ्रमद्भ्रुवः ॥ २१ ॥

पदरत्नावली

मनस्वी महामना अपि मुकुन्दस्तासां मधुराङ्गनानां मधुमञ्जुभाषितैर् मधुरकोमलवचनैर्गृहीतचित्तो वशीकृतचेता अत एव परवान् तदधीनः । ‘परवांस्तु पराधीनो निघ्नः परवशः स्मृतः’ इति हलायुधः । ग्राम्या ग्रामीणा अलज्जा लज्जारहिताः स्मितेन विभ्रमन्त्यो भ्रुवो यासां ताः स्मितविभ्रमद्भ्रुवोऽबला नोऽस्मान् प्रति कथं प्रतियास्यते प्रत्येष्यति ॥ २१ ॥

सत्यधर्मीया

मनस्वी सन्नपि तासां पुरतरुणीनां मधुमञ्जुभाषितैर्मधुनो मनोहरादपि मञ्जूनि मञ्जुलानि च तानि भाषणानि च तैर्गृहीतं चित्तं यस्य सः । परवान्, परवांस्तु पराधीनो निघ्नः परवशः स्मृत इति हलः । परवशो ग्राम्या ग्रामीणा अलज्जाः स्मितविभ्रमद्भ्रुवः स्मितेन विभ्रमन्त्यो भ्रुवो यासां तास्तासामित्यन्वयः । पुनः कथम् । नोऽबलाः प्रतियास्यते आगच्छति । ग्राम्या व्यवायधर्ममर्मज्ञा वाऽश्लीलशीला वा ॥ २१ ॥

सुमनोरञ्जिनी

ननु भवतु नाम उत्सवदर्शनानन्तरं पुनरागमिष्यति । नन्दादिभिरार्यैः सह गतस् तान् विसृज्य कथं तत्रैव स्थास्यतीत्याशङ्क्याहुः ॥ तासामिति ॥ मुकुन्दः यद्यपि महामनाः, परवान् आर्यवान् आर्याधीनः, अपि तथापि तासां पुरस्त्रीणाम् । मधुमञ्जुभाषितैर् मधुवन् मंजुभिर् मनोहरैः स्नेहमाधुर्याभ्यां सहितैरिति यावत् । भाषितैर् वचनैः । गृहीतचित्तः वशीकृतचित्त आकृष्टचित्तः । अत एव परवान् पराधीन इति वा । परवांस्तु पराधीन इति हलः । पुनः नो ऽस्मान् प्रति । कथं प्रतियास्यति प्रत्येष्यति । न कथमपीत्यर्थः । स्त्रीणां लज्जालुत्वात्कथं सहसैव परपुरुषवशीकरणं सुरतसंकेतादि तासां संभाव्यत इत्यत आहुः ॥ ग्राम्या इति ॥ इदमावर्तते । हे अबला ग्राम्या ग्रामीणाः स्त्रियः, ग्रामीणा विषयलोलुपा अत एव अलज्जाः । स्मितेन विभ्रमन्त्यो भ्रुवो यासां ताः । स्मितसहितभ्रूविलासैः स्वयं झडित्येव पुरुषं वशीकुर्वन्त्यः सुरतं सङ्केतयन्तीति भावः ॥ २१ ॥

अद्य ध्रुवं तत्र दृशां महोत्सवो दाशार्हभोजान्धकवृष्णिसात्वताम् ।

महोत्सवं श्रीरमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ॥ २२ ॥

पदरत्नावली

तत्र मधुरायां दाशार्हादीनां दृशां नेत्राणां महोत्सवः, भवितेति शेषः । ये च जना अध्वनि मार्गे महोत्सवं तद्रूपं श्रीरमणं रमापतिं गुणानामास्पदं देवकीसुतं द्रक्ष्यन्ति तेषां दृशां च महोत्सवो भवितेत्यन्वयः ॥ २२ ॥

सत्यधर्मीया

दाशार्हभोजान्धकवृष्णिसात्वतां दृशां नेत्राणां तत्र मधुरायामद्य महोत्सवो ध्रुवं भविता ये च जना अध्वनि मार्गे देवकीसुतम्, स क इत्यतो वदन्ति महोत्सवं तद्रूपं महानुत्सव-स्तद्यस्मिंस्तमिति वा । गुणानामास्पदं स्थानम् । नित्यनपुंसकलिङ्ग आस्पदशब्दः । आस्पदं प्रतिष्ठायामिति निपातनात् । श्रीरमणं रमापतिं द्रक्ष्यन्ति तेषां दृशां महोत्सव इति सम्बन्धः

॥ २२ ॥

सुमनोरञ्जिनी

तत्र मधुरायां दाशार्हादीनां दृष्टयो या दृशस् तासां महोत्सवो भविष्यतीति शेषः । महोत्सवे किं कारणमित्यतस्तदाह ॥ देवकीसुतं द्रक्ष्यन्तीति ॥ कीदृशं महोत्सवम् । महानुत्सव आह्लादविशेषो यस्मात्तं श्रीरमणं श्रियोऽपि रमणं सुखं यस्मात्तथाविधं किमुतान्येषामिति भावः । गुणानामानन्दादीनामास्पदमाश्रयम् । न केवलं दाशार्हादीनामेवोत्सवः किं नाम ये च जना अध्वनि मार्गे देवकीसुतं द्रक्ष्यन्ति तदीयनेत्राणामपि अद्य महोत्सवो भवितेति योजना ॥२२॥

मैतद्विधस्याकरुणस्य नाम भूदक्रूर इत्येतदतीवदारुणः ।

योऽसावनाश्वास्य सुदुःखितं जनं प्रियात् प्रियं नेष्यति पारमध्वनः ॥ २३ ॥

पदरत्नावली

अक्रूरं शपन्त्य आहुर् मैतद्विधस्येति । एषा श्रीकृष्णहरणरूपा विधा विधानं कर्म यस्य स एतद्विधस्तस्याकरुणस्य अक्रूर इत्येतन्नाम मा भूत् । य•ेऽसावक्रूरः सुदुःखितं जनं गोपीजनमनाश्वास्य असान्त्वयित्वा प्रियात् प्राणादपि प्रियं श्रीकृष्णमध्वनः पारमस्मद्दृगगोचरं देशं नेष्यतीत्यतीव दारुणः ॥ २३ ॥

सत्यधर्मीया

यदागतिरेतद्गतिदाऽस्माकं हेति तमक्रूरं निन्दन्ति ॥ मेति ॥ एतद्विधस्यैषा विधा यस्य स एतद्विधस्तस्याकरुणस्य न विद्यते करुणा यस्य स तथा तस्य । अकूर इत्येतन्नाम मा च भूद्योऽसावक्रूरः सुदुःखितं जनं गोपीजनं, परमपुरूषाङ्गसङ्गभङ्गेऽस्माकमपि पुरुषप्रायतैवेति ध्वनयितुं जनमिति वचनम् । अनाश्वास्यासमाधाय प्रियात्प्रियं सर्वप्रीतिपात्रपदार्थात्प्रियमध्वनो मार्गस्य पारं दूरमस्मद्दृगगोचरं देशं नयतीत्यतीवदारुणो बहुकठिनः ॥ २३ ॥

सुमनोरञ्जिनी

इदानीम् अक्रूर इति नाम कैः सङ्केतितं वा । तदतीवायुक्तमित्यक्रूरं शपन्ति ॥ मैतदिति ॥ यो ऽतीव दारुणः क्रूरः । एतद्विधस्य एतादृशस्य अत एवाकरुणस्याक्रूर इति यन्नाम तन्मा भून् न सङ्केतनीयमिति भावः । किं कृतं तेन । येनाकरुणत्वं सम्भाव्यत इत्यत उक्तम् ॥ असाविति ॥ प्रियविश्लेषशङ्कया सु अत्यन्तं दुःखितं जनं गोपीजनम् । अनाश्वास्यैव स्थितं प्रियात्प्रियं कृष्णं, अध्वनः पारं सीमानं ग्रामान्तरमिति यावत् । नेष्यति यतोऽत इति योजना ॥ २३ ॥

अनार्द्रधीरेष समास्थितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः ।

गोपा अनोभिः स्थविरैरुपेक्षितं दैवं च नोऽद्य प्रतिकूलमीहते ॥ २४ ॥

पदरत्नावली

अनार्द्रा अस्निग्धा धीर्यस्य स तथा । दुर्मदाः पूर्वोत्तरकार्यान्धताप्रापकमदयुताः । स्थविरैः कुलवृद्धैः ॥ २४ ॥

सत्यधर्मीया

स्वमनोरथमसिद्धं च तमनु रथं निरीक्ष्य तत्रास्थितं गच्छन्तं कृष्णमपि च गोपानपि कोपादविवेकयन्ति ॥ अनार्द्रधीरिति ॥ एषः कृष्णोऽनार्द्राऽद्रवन्ती धीर्यस्य सः । अनाश्वास्येत्याकृष्यात्रापि योज्यम् । रथमास्थित इति तमनु चामी गोपा अनोभिस्त्वरयन्ति । दुर्मदाः पूर्वोत्तरकार्यान्धताप्रापकमदयुताः । स्थविरैरप्युपेक्षितं नोभयथाऽपि ते प्रोचुरिति । तेऽपि किं कुर्युः । अद्य नो दैवं भागधेयं प्रतिकूलं विरुद्धमीहते चेष्टते । दैवेऽनुकूले सर्वमनुकूलं तस्मिंश्चैवं प्रतिकूले कं प्रति वदामः किं कुर्मो हेति ताः प्रालपन्निति भावः ॥ २४ ॥

सुमनोरञ्जिनी

किमन्यान् प्रति अन्यथाभाषणेन । दैवमेवास्माकं प्रतिकूलम् । अतः कोऽप्यस्माकमनुकूलो न भवतीत्याह ॥ अनार्द्रधीरिति ॥ एषः कृष्णो ऽनार्द्रधीर् द्रवच्चित्तो न भवति । अमी गोपा अपि दुर्मदा हिताहितज्ञानरहिताः । तं कृष्णम् अनु अनुसृत्य । अनोभिः शकटैर्युक्तास्त्वरयन्ति । स्थविरैर् वृद्धैश्च उपेक्षितम् । यतोऽतः दैवमेव प्रतिकूलं यथा स्यात्तथा ईहते चेष्टते चेष्टयते । तत्र किमस्माभिः कार्यमिति ॥ २४ ॥

निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन् कुलवृद्धबान्धवाः ।

मुकुन्दसङ्गान्निमिषार्धदुस्त्यजाद् दैवेन विभ्रंशितदीनचेतसाम् ॥ २५ ॥

पदरत्नावली

नः किमकरिष्यन् किं करिष्यन्ति । मुकुन्दसङ्गाद् विभ्रंशितानि वियोजितान्यत एव दीनानि चेतांसि यस्यां तास्तासाम् ॥ २५ ॥

सत्यधर्मीया

इममेकं पक्षमेका निश्चित्य तत्र प्रतिभातं दोषं स्वयमेव प्रमोषयन्ती भाषते ॥ निवारयाम इति ॥ समुपेत्य गत्वा माधवं निवारयामः । वृद्धाः, व्यभिचारिण्य इति भवेयुरुदीर्णकोपा इत्यत आहुः । कुलवृद्धा बान्धवाश्च किमकरिष्यन् कुर्युः । किमनिष्टं मरणं शरणीकृतवतीनां किं तत्कृत्यमितोऽधिकमिति वदन्ति ॥ मुकुन्दसङ्गादिति ॥ निमिषार्धदुस्त्यजाद्दैवेन तेनैव विभ्रंशितं विभ्रंशनं तेन दीनं चेतो यासां तासामस्माकमिति ॥ २५ ॥

सुमनोरञ्जिनी

एवमपि स्वयमेव प्रयताम इत्याहुः ॥ निवारयाम इति ॥ तर्हि कुलवृद्धा बान्धवाश्च कथं सहेयुरित्यत आह ॥ किमिति ॥ नो ऽस्माकं किमकरिष्यन् किं कुर्युः । किमपि न कुर्वन्तीति भावः । कुत इति तत्राह ॥ मुकुन्देति ॥ मुकुन्दसङ्गाद् विभ्रंशितं विभ्रंशस् तेन दीनचेतसाम् । विभ्रंशितानाम् अत एव दीनचेतसामिति वा । अस्मद्व्यथां ज्ञात्वा कृतमप्यक्रमं सहन्त एवेति भावः ॥ २५ ॥

यस्यानुरागललितस्मितवल्गुमन्त्र

लीलावलोकपरिरम्भणरासगोष्ठ्याम् ।

नीताः स्म नः क्षणमिव क्षणदा विना तं

गोप्यः कथं न्वतितरेम तमोऽदुरन्तम् ॥ २६ ॥

पदरत्नावली

हे गोग्यः यस्य अनुरागेण ललितं स्मितं च वल्गुमन्त्रः सुमधुररहस्यसङ्केतवार्ता च लीलावलोकश्च परिरम्भणं च यस्यां सा रासगोष्ठी तस्यां नोऽस्माभिः क्षणदा रात्रयः क्षणमिव नीतास्तं श्रीकृष्णं विना दुरन्तमपारं तमो विरहदुःखं कथं न्वतितरेम ॥ २६ ॥

सत्यधर्मीया

स्वसाहसं न पारमियादिति मतिमत्यः काश्चित्प्रतिवदन्ति ॥ यस्येति ॥ अनुरागेण ललितं स्मितं वल्गुश्च मन्त्रो लीलावलोकश्च परिरम्भणं च यस्यां सा रासगोष्ठी तस्याम् । क्षणदा रात्रयः क्षणमिव नीता नोऽस्माभिस्तं विना दुरन्तमपारं तमो दुःखं कथं न्वतितरेमोपायान्तरा-पायात् । हे गोप्यस्ता एव क्षणदास्तमो ग्लानिमनन्तरमन्तं नाशमदुर्दत्तवत्यः क्षणत्वेन नयनकोपतस्ता एव नो नाशयन्तीति तात्पर्यं वा ॥ २६ ॥

सुमनोरञ्जिनी

अनुरागयुक्तानि ललितस्मितादीनि यस्यां तस्यां रासगोष्ठ्याम् । नोऽस्माभिः क्षणदा रात्रयः । क्षणमिव क्षण इव । नीताः । इदानीं तासु रात्रिषु । तं श्रीकृष्णं विना स्थिता वयं दुरन्तम् अपारं तमो दुःखं कथमतितरेमेति योजना । अनुरागस्य नित्यसापेक्षत्वात्समासोपपत्तिः

॥ २६ ॥

योऽह्नः क्षये व्रजमनन्तसखः परीतो गोपैर्विशन् खुररजश्छुरितालकस्रक् ।

वेणुं क्वणन् स्मितकटाक्षनिरीक्षणेन चित्तं क्षिणोति तमृतेऽम्ब कथं भवेम

॥ २७ ॥

पदरत्नावली

योऽनन्तसखो बलदेवसखः गोपैः परीतो वेष्टितो ऽह्नः क्षये सन्ध्यासमये गवां खुररजोभिश् छुरिता सम्मिश्रा अलकाः स्रजश्च यस्य सः व्रजं विशन् वेणुं क्वणन् वादयन् स्मितपूर्वकं यत् कटाक्षनिरीक्षणं तेन नश्चित्तं क्षिणोति सम्मोहयति । अम्बेति आदरातिशयात् सखीसम्बोधनम् । तं श्रीकृष्णमृते विना कथं भवेम जीवेम ॥ २७ ॥

सत्यधर्मीया

अह्नः क्षये सायंसमयेऽनन्तस्य बलस्य सखा स मुक्तसख इति स गोपैः परीतो व्रजं विशन् खुररजसा छुरिताः सम्मिश्रा अलकाः स्रजो यस्य सः । वेणुं क्वणन्रणयन्स्मितं कटाक्षनिरीक्षणेन च नश्चितं क्षिणोति निवासयति । यस्तमृते विना । अम्बा गोप्य इति पूर्वमुदीरणा-दम्बेत्येकवचनं गात्रास्मृतेरिति मन्तव्यम् । कथं भवेम जीवेम । स्वयमेवोत्तरं वदन्ति ॥ अम्ब कथमिति ॥ अम्बः कृष्णकर्तृकः शब्दस्तदनुसारिणी कथा यस्मिन्कर्मणि तद्यथा भवति तथा भवेमेत्यनेनान्वयः ॥ २७ ॥

सुमनोरञ्जिनी

यः कृष्णो ऽह्नः क्षये सन्ध्याकाले । अनन्तसखः बलरामेण सहितः । खुररजोभिश् च्छुरिता मिश्रिता अलकाः स्रजश्च यस्य सः । स्मितसहितेन कटाक्षनिरीक्षणेन चित्तं क्षिणोति अपहरति । तं कृष्णम् ऋते विना कथं भवेम स्थास्यामः । अम्बेति सखीसम्बोधनम्

॥ २७ ॥

श्रीशुक उवाच—

एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णनिषक्तमानसाः ।

विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति ॥ २८ ॥

सत्यधर्मीया

एवं ब्रुवाणा भृशं विरहेणातुरा व्रजस्त्रियः कृष्णनिषक्तमानसा लज्जां विसृज्य गोविन्द दामोदर माधवेति सुस्वरं रुरुदुः । हे धव, मा व्रजेति रुरुदुः ॥ २८ ॥

सुमनोरञ्जिनी

कृष्णे नितरां सक्तं मानसं यासां ताः ॥ २८ ॥

स्त्रीणामेवं रुदन्तीनामुदिते सवितर्यथ ।

अक्रूरश्चोदयामास कृतमैत्र्यादिको रथम् ॥ २९ ॥

पदरत्नावली

कृतमैत्र्यादिकः कृतसूर्यमण्डलाधिष्ठितनारायणोपासनादिक्रियः ॥ २९ ॥

सत्यधर्मीया

स्त्रीणामेवं रुदतीनां ता अनादृत्य सवितरि सूर्ये उदिते सत्यक्रूरः, कृतं मैत्र्यमादिर्यस्य तद्यस्य स कृतसूर्योपस्त्यादिरथ रथं चोदयामास ॥ २९ ॥

सुमनोरञ्जिनी

कृतमैत्र्यादिकः कृतं मैत्र्यादिकं गायत्रीमन्त्रजपसूर्यमण्डलस्थनारायणोपा-सनादिकं येन सः । रथं चोदयामास ॥ २९ ॥

गोपास्तमन्वसज्जन्त नन्दाद्याः शकटैस्ततः ।

आदायोपायनं भूरि कुम्भान् गोरससम्भृतान् ॥ ३० ॥

पदरत्नावली

अन्वसज्जन्त अनुययुः ॥ ३० ॥

सत्यधर्मीया

तं रथमनु असज्जन्त सन्नद्धा अभवन् । तमक्रूरमन्विति वा । भूरि महदुपायनं, भूरि सुवर्णरूपमुपायनं वा गतम् ॥ ३० ॥

सुमनोरञ्जिनी

अन्वसज्जन्त अनुसृत्य सन्नद्धा बभूवुः । गोरसैः क्षीरघृतादिभिः सम्भृतान् पूर्णान् ॥ ३० ॥

गोप्यश्च दयितं कृष्णमनुव्रज्यानुरञ्जिताः ।

प्रत्यादेशं भगवतः काङ्क्षन्त्यश्चावतस्थिरे ॥ ३१ ॥

पदरत्नावली

अनुरञ्जिताः कृष्णेन परावृत्य निरीक्षणादिभिः किञ्चिदानन्दिताः । प्रत्यादेशं प्रतिवचनम् ॥ ३१ ॥

सत्यधर्मीया

प्रत्यादेशं स्वाभिमुखीभूय तिष्ठताऽहमप्यल्पेनानेहसा गमिष्यामीत्येवमाज्ञारूपं वचनम् । प्रति प्रतिविधौ वीप्सालक्षणादौ प्रयोगतः । मात्रार्थे चाभिमुख्ये च प्रतिदानादिषु प्रतीति विश्वः । यद्वनितास्तथा तप्यतीर्वीक्ष्येति । अवतस्थिरे ॥ ३१ ॥

सुमनोरञ्जिनी

गोप्यश्च गोप्योऽपि । अनुरञ्जिताः समुत्पन्नानुरागाः । अङ्गरागैः कुङ्कुमादिभिर् अनुरञ्जिता वा । प्रत्यादेशं शीघ्रमेवायास्ये भवद्भिरित एव निवर्तितव्यमित्यादिरूपं वचनम् ॥ ३१ ॥

तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तमः ।

सान्त्वयामास १सम्प्रेष्यैरायास्य इति २दौत्यकैः ॥ ३२ ॥

पदरत्नावली

आयास्ये शीघ्रमागमिष्यामीति दौत्यकैर् दूतद्वारा प्रेषितैर्वाक्यैः ॥ ३२ ॥

सत्यधर्मीया

स्वप्रस्थाने स्वप्रयाणे प्रस्तुते तथा तप्यतीस्तापमुपाप्नुवाना यदूत्तमो वीक्ष्य रथारोहात्पश्चादभिमुखः सन् वीक्ष्य सम्प्रेष्यैः स्वतद्रहस्यविदस्त इति सम्प्रेष्यास्तैः । दौत्यपदार्थैक-देशदूतपदार्थान्वयि । सम्यक् प्रेष्यैर्दूतसम्बन्धिभिर्वचनैरिति तदर्थः । दूत्यकैरित्यपि सुपठम् । आयास्येऽहमिति सान्त्वयामास । सप्रेमैरिति पाठोऽपि प्रेमास्पदः । नान्तोऽप्ययं महिशब्द-वदकारान्तः । दौत्यकैर्दूतसम्बन्धिभिः सम्प्रेष्यैस्ताः प्रति प्रेषणार्हैर्वचनैरिति वा ॥ ३२ ॥

सुमनोरञ्जिनी

स्वस्य प्रस्थाने प्रयाणे सक्ते सति । तथा पूर्वोक्तप्रकारेण । संप्रेष्यैः स्वमुखप्रेष्यैः । दौत्यकैर् दूतकर्मनिरतैर् जनैः । यद्वा दौत्यकैः कर्तृभिर् आयास्य इत्यादिरूपैः संप्रेष्यैर् आज्ञारूपैर् वचनैः सांत्वयामासेति ॥ ३२ ॥

विरोधोद्धार— तास्तथेति । अत्रायास्य इति भगवत्प्रतिज्ञा मोघेव दृश्यते । व्रजं प्रत्यनागमनादिति चेन्न । यतः संप्रेष्यैः सम्यक् प्रेषणार्हैर् दौत्यकैः सन्देशहरोद्धवहलधरसम्बन्धि-वाक्यैः । तद्रूपेणेति यावत् । न तु स्वस्वरूपेणेति विशिष्यायास्य इत्युक्तम् । तस्मान्न प्रतिज्ञा प्रतियात इति भावः । उद्धवे सन्देशहरत्वं दूतत्वं च युज्यते । श्रूयतां प्रियसन्देशो भवतीनां सुखावहः । यमादायागतो भद्रा अहं भर्तुर्हि किंकर इत्युक्तेः । न च स्वरूपतोऽनागमने वाक्यानि प्रेषयिष्यामीति वक्तव्यम् । आयास्य इति तु कथं तत्र स्वरूपस्यैव युक्तत्वादिति वाच्यम् । भगवतस्तत्क्रियाणां च नेह नानास्ति किञ्चनेति श्रुतेर्भेदाभावात् । वाक्यानि तु भवतीनां वियोगो मे इत्यादीनि । तत्रास्मच्छब्दसद्भावेन भगवद्वाक्यत्वमवगम्यते । आगमिष्यत्यतिदीर्घेण कालेन व्रजमुच्यतः साक्षाद्व्रजमागमिष्यतीत्यस्य दर्शनात्पुनः पूर्वशङ्कातादवस्थ्यमिति चेन्न । अत्राच्युतशब्देन रामाविष्ट-शुक्लकेशभगवद्रूपग्रहणस्य विवक्षितत्वात् । हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम् । यदाह वः समागम्य कृष्णः सत्यं करोति तत् । इति नन्दं प्रत्युद्धववाक्ये कृष्णवाक्यसत्यकरणकथनस्य का गतिरिति चेत् । तात्कालिकमिदं वाक्यम् । यात यूयं व्रजं यात । वयम् । चस्त्वर्थे । सुहृदां वसुदेवादीनां सुखमविधाय स्नेहदुःखितानपि ज्ञातीन् गोपान् द्रष्टुं नो एष्यामः । इत्यर्थकस्ववाक्यस्य कृष्णेन सत्यत्वसंपादनमेव हि कृतं दृश्यते । हन्त तर्हि नोऽस्माकमित्यादि विजयध्वजीयव्याख्यानविरोधः स्यादिति चेन्न । एष्याम इत्यस्य कर्मत्वेन विवक्षितं श्यमन्तपञ्चकक्षेत्रमिति शेषाङ्गीकारे विरोधगन्धाभावात् । तस्मान्नात्रायुक्तं किञ्चित् ॥ ३२ ॥

॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्याने श्रीपाङ्घरी श्रीनिवासाचार्यकृते

विरोधोद्धारे सप्तत्रिंशोऽध्यायः ॥ १०-३७ ॥

यावदालक्ष्यते केतुर्यावद् रेणू रथस्य च ।

अनुप्रस्थापितात्मानो लेख्यानीवोपतस्थिरे ॥ ३३ ॥

पदरत्नावली

आलक्ष्यते दृश्यते । केतुर्ध्वजः । श्रीकृष्णमनुप्रस्थापिता आत्मानो मनांसि याभिस्तास्तथा । लेख्यानीव भित्तिचित्रितपुत्तलीका इव ॥ ३३ ॥

सत्यधर्मीया

यावत्केतुर्ध्वजो रथस्य रेणुश्च यावदालक्ष्यते दृश्यतेऽनुप्रस्थापिता आत्मानो मनांसि याभिस्ताः । लेख्यानीव भित्तिचित्रितपुत्तलिका इवोपतस्थिरे । उपाच्चेत्यकर्मकात्तिष्ठते-रात्मनेपदता ॥ ३३ ॥

सुमनोरञ्जिनी

रथस्य केतुर् ध्वजः । रथस्य रेणुर् धूलीपटलम् । यावद् यावत्कालपर्यन्तम् । आलक्ष्यते तावत्पर्यन्तम् । अनुप्रस्थापितः श्रीकृष्णमनुसृत्यैव प्रेषित आत्मा मनो यासां ताः । तदेकमनस्का इति यावत् । गोप्यः लेख्यानीव चित्रलिखितप्रतिमा इव । उपतस्थितरे ॥३३॥

ता निराशा निववृतुर्गोविन्दविनिवर्तने ।

विशोका अहनी निन्युर्गायन्त्यः प्रियचेष्टितम् ॥ ३४ ॥

पदरत्नावली

गोविन्दस्य विशेषेण मधुपुरीगमनौन्मुख्यं विनैव निवर्तने निराशा निववृतुर् न्यवर्तन्त । प्रियस्य कृष्णस्य चेषितं गायन्त्यस्तेनैव विशोका विगतशोका अहनी निन्युः । श्रीकृष्णस्य रात्रिचरित्रगानेन रात्रिं, दिवसचरित्रगानेन दिनमिति विशेषं द्योतयितुमहनी इति द्विवचननिर्देशः ॥ ३४ ॥

सत्यधर्मीया

गोविन्दविनिवर्तने व्रजमाव्रज स्वामिन्निति निवर्तने निराशाः स्वयं निववृतु-र्निववृतिरे । नारदेन, (अक्रूरेण) कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभाविति दिनद्वयव्यवहतिः कंसहतेरुक्तेत्यहनी नारद(अक्रूर)गमनानन्तरं द्वे इत्येवमुक्तिः । अहनी (अहानि) इति वक्तव्ये, दिनद्वयकालहरणं कर्तव्यमित्याभाणकानुसरणेनोक्तिर्वा । प्रियचेष्टितं गायन्त्यो विशोका निन्युर्गमयामासुः

॥ ३४ ॥

सुमनोरञ्जिनी

गोविन्दस्य विनिवर्तने प्रत्यावर्तने विषये । निराशाः सत्यः निववृतुः । स्वस्वगृहान् प्रतीति शेषः । प्रियस्य श्रीकृष्णस्य चेष्टितं गायन्त्यः स्वत एव विशोकाः सत्यो अहनी अहानि दिनद्वयं वा । कानिचिद्दिनानीति यावत् । निन्युर् नीतवत्यः ॥ ३४ ॥

भगवानपि सम्प्राप्तो १रामाक्रूरौ तथा नृप ।

रथेन वायुवेगेन कालिन्दीमघनाशिनीम् ॥ ३५ ॥

सत्यधर्मीया

रामाक्रूरौ च सम्प्राप्तावित्यन्वेति ॥ ३५ ॥

सुमनोरञ्जिनी

रामाक्रूरावपि तथा संप्राप्तावित्यर्थः । कालिन्दीं यमुनाम् ॥ ३५ ॥

तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् ।

२वृक्षखण्डमुपव्रज्य सरामो रथमाविशत् ॥ ३६ ॥

पदरत्नावली

मृष्टं स्वच्छम् । मणेरिन्द्रनीलस्येव प्रभा यस्य तत् तथा । वृक्षषण्डं वृक्षसमूहम्

॥ ३६ ॥

सत्यधर्मीया

मणेरिन्द्रनीलस्य प्रभा यस्य तत् । वृक्षाणां खण्डं सङ्घमुपव्रज्य तद्युत-मार्गेणोपव्रज्य सरामो रथमाविशत् ॥ ३६ ॥

सुमनोरञ्जिनी

तत्र कालिन्द्याम् । उपस्पृश्य आचम्य । उपस्पर्शस्त्वाचमनमित्यमरः । मणेरिन्द्रनीलस्य प्रभेव प्रभा यस्य तत् । वृक्षखण्डं वृक्षषण्डं वृक्षैकदेशं वा ॥ ३६ ॥

अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि ।

कालिन्द्या ह्रदमागम्य स्नानं विधिवदाचरन् ॥ ३७ ॥

पदरत्नावली

उपामन्त्र्य अनुज्ञाप्य । स्नानं माध्याह्निकम् ॥ ३७ ॥

सत्यधर्मीया

स्नानं माध्याह्निकम् । ह्रदं ब्रह्मसंज्ञम् ॥ ३७ ॥

सुमनोरञ्जिनी

तौ रामकृष्णौ प्रति । उपामन्त्र्य स्नानार्थं गच्छामीति निवेदयित्वा

॥ ३७ ॥

निमज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् ।

तावेव ददृशेऽक्रूरो रामकृष्णौ समन्वितौ ॥ ३८ ॥

पदरत्नावली

सनातनमपौरुषेयतया नित्यं ब्रह्म अघमर्षणसूक्तम् । ‘ब्रह्म वेदस्तपस्तत्त्वम्’ इत्यभिधानम् । समन्वितौ मिलितौ ॥ ३८ ॥

सत्यधर्मीया

तस्मिन् ह्रदोदके निमज्य । सनातनमपौरुषेयतया नित्यं ब्रह्माघमर्षणसूक्तं जपन् सनातनं ब्रह्म नारायणाख्यं जपन्निति वा समन्वितौ मिलितौ ॥ ३८ ॥

सुमनोरञ्जिनी

ब्रह्म प्रणवं, जपन् उपांशु उच्चरन् । ‘यतश्वासो निमज्याप्सु प्रणवेन समाहितः’ इति स्नानविधावाचार्यवचनात् । तावेव यौ स्वेन रथोपरि निवेशितौ तावेवेत्यर्थः ॥३८॥

तौ रथस्थौ कथमिह सुतावानकदुन्दुभेः ।

तर्हि स्वित् स्यन्दने न स्त इत्युन्मज्य व्यचष्ट सः ॥ ३९ ॥

पदरत्नावली

इह ह्रदे । स्यन्दने रथे । न स्तः स्विन् न विद्येते किम्? इति वितर्क्य उन्मज्ज्य व्यचष्ट दृष्टवान् ॥ ३९ ॥

सत्यधर्मीया

रथस्थौ तावानकदुन्दुभेः सुताविह ह्रदे कर्हिचित्स्यन्दने रथे न स्तः किमित्युन्मज्योन्मज्जनमुत मज्जनं कृत्वा वार्युपरि मुखं कृत्वा सोऽक्रूरो व्यचष्टापश्यत् ॥ ३९ ॥

सुमनोरञ्जिनी

रथस्थौ तौ रामकृष्णौ । इह सलिले कथं स्तः । यदि च इह स्तस् तर्हि स्यंदने रथे । न स्तःस्विन् न स्तः किम् । इत्यालोच्य उन्मज्य ॥ ३९ ॥

तत्रापि च यथापूर्वमासीनौ पुनरेव सः ।

न्यमज्जद् दर्शनं १मेने मृषा किं सलिले तयोः ॥ ४० ॥

पदरत्नावली

तत्रापि रथेऽपि यथापूर्वमासीनौ व्यचष्टेति पूर्वेणान्वयः । ततश्च पुनरेव पुनश्च सोऽक्रूरो न्यमज्जत् । तत्र हेतुमाह दर्शनमिति । सलिले मे मम कर्तृभूतस्य तयोः कर्मभूतयोर्यद् दर्शनं तत् किं मृषेति सन्दिहानः ॥ ४० ॥

सत्यधर्मीया

तत्रापि रथेऽपि यथापूर्वमासीनौ व्यचष्टेत्यन्वेति । निमज्य यत्तयोर्दर्शनं तन्मृषा किमिति मेने सन्दिग्धे ॥ ४० ॥

सुमनोरञ्जिनी

तत्रापि रथेऽपि । यथापूर्वं पूर्ववदेव आसीनौ । एषः व्यचष्ट अवलोकित-वान् । पुनः निमज्य निमज्जन् सन् । सलिले तयोर्दर्शनं किं मृषा इति मेने । मुखं व्यादाय स्वपितीति समानकालेऽपि क्त्वाप्रयोगः । निमज्जनकाले एवं मेन इति भावः ॥ ४० ॥

भूयस्तत्रापि सोऽद्राक्षीत् स्तूयमानमहीश्वरम् ।

सिद्धैर्भुजङ्गपतिभिरसुरैर्नतकन्धरैः ॥ ४१ ॥

पदरत्नावली

भुजङ्गपतिभिर्वासुकिप्रमुखैः । असून् रमयन्ति हर्षयन्तीत्यसुरास्तत्त्वाभिमानि-देवास्तैः ॥ ४१ ॥

सत्यधर्मीया

भूयः प्रमाभ्रमताभ्रंशनाय सिद्धैर्भुजङ्गपतिभिर्नतकन्धरैरित्युभयान्वयि । असुरैः साधुभिः । असुरा अपि साधवः सन्तीति सुधाभिधानात् । असुरूप इत्याचार्योक्तेः सद्विकृताकृतियुत-राक्षसादिभिर्वा ॥ ४१ ॥

सुमनोरञ्जिनी

भूयोऽपि पुनरपि । तत्र सलिले । अद्राक्षीत् । किमद्राक्षीदिति तदाह ॥ स्तूयमानमिति ॥ नतकन्धरैः सिद्धादिभिः स्तूयमानम् । अहीश्वरं शेषम् । तत्र असुरैर् योग्यैः । असुरा अपि योग्याः सन्तीति सुधोक्तेः ॥ ४१ ॥

सहस्रशिरसं देवं सहस्रफणमौलिनम् ।

नीलाम्बरं बिसश्वेतं शृङ्गैः श्वेतमिव स्थितम् ॥ ४२ ॥

पदरत्नावली

सहस्रफणेषु मौलयः किरीटान्यस्य सन्तीति तथा । बिसवत् श्वेतपद्मनाल-तन्तुवत् श्वेतं धवलम् । शृङ्गैः शिखरैः श्वेतं रजताद्रिमिव स्थितम् ॥ ४२ ॥

सत्यधर्मीया

सहस्रं शिरांसि यस्य तम् । सहस्रं च फणास्तेषु मौलयः किरीटान्यस्य सन्तीति स तम् । मौलिः किरीटे धम्मिल्ले केकलिद्रुमचूडयोरिति विश्वः । व्रीह्यादिर्नान्तः शब्दः । बिसवन्नालीकनालतन्तुवच्छ्वेतं नीलमम्बरं यस्य तम् । शृृङ्गैःकूटैः श्वेतं तन्नामानमचलन्निव स्थितम्

॥ ४२ ॥

सुमनोरञ्जिनी

सहस्रं फणा मौलयो मुकुटान्यस्य सन्तीति तथोक्तम् । प्रशंसार्थे इनिः । बिसवत् श्वेतपद्मवत् शुक्लम् । शृृङ्गैः सहितम् । श्वेतमिव श्वेतनामानं पर्वतमिव ॥ ४२ ॥

तस्योत्सङ्गे घनश्यामं पीतकौशेयवाससम् ।

पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम् ॥ ४३ ॥

पदरत्नावली

तस्य शेषस्योत्सङ्गे उत्सङ्गवद् विद्यमाने मण्डलीकृताङ्गे । घन इव नीलमेघ इव श्यामम् । पद्मपत्रवत् प्रान्ते अरुणे ईक्षणे यस्य तम् ॥ ४३ ॥

सत्यधर्मीया

तस्य शेषस्योत्सङ्गे उत्सङ्गवद्विद्यमानमण्डलीकृताङ्गे देवताविवक्षया तत्सङ्गो मुख्यः । एकादशश्लोकस्थविलोक्येत्यनेनान्वयः ॥ ४३ ॥

सुमनोरञ्जिनी

तस्य शेषस्य उत्संगे शरीरे । चतुर्भुजं, पुरुषं पूर्णषड्गुणम् । हरिं विलोक्येति वक्ष्यमाणेनान्वयः ॥ ४३ ॥

चारुप्रसन्नवदनं चारुहासनिरीक्षणम् ।

सुभ्रून्नसं चारुकर्णं सुकपोलारुणाधरम् ॥ ४४ ॥

पदरत्नावली

शोभने भ्रवौ उन्नता नासिका च यस्य सः सुभ्रून्नसस्तम् ॥ ४४ ॥

सत्यधर्मीया

सुभ्रुवौ उन्नासिके च यस्य सुभ्रून्नसस्तम् ॥ ४४ ॥

सुमनोरञ्जिनी

चारुणी हासनिरीक्षणे यस्य तम् । सु समीचीने भ्रुवौ यस्य सः सुभ्रूः । स चासौ उन्नसश्च तम् ॥ ४४ ॥

प्रलम्बपीवरभुजं तुङ्गांसोरःस्थलश्रियम् ।

कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् ॥ ४५ ॥

बृहत्कटितटश्रोणिकरभोरुद्वयान्वितम् ।

चारुजानुयुगं चारुजङ्घायुगलसंयुतम् ॥ ४६ ॥

पदरत्नावली

प्रलम्बा आजानुलम्बिनः पीवराः पुष्टाश्च भुजा यस्य सस् तम् । तुङ्गावुन्नतौ अंसौ स्कन्धौ यस्य, स चासौ उरःस्थले श्रीर्यस्य स च तुङ्गांसोरःस्थलश्रीस् तम् । वलिमत् त्रिवलिमत् पल्लववत् किसलयवत् कोमलमुदरं यस्य तम् ॥ बृहद्भ्यां कटितटश्रोणिभ्यां करभसदृशोरुद्वयेन चान्वितम् । ‘मणिबन्धादाकनिष्ठं करस्य करभो बहिः’ इत्यमरः ॥४५,४६॥

सत्यधर्मीया

पीवराः पुष्टाः । तुङ्गावंसौ स्कन्धौ यस्य स चासावुरस्थले श्री रमा यस्य तं वलिमत्त्रिवलिमत्पल्लववत्किसलयवत्कोमलमुदरं यस्य सः । बृहत्कटितटं तथा बृहती श्रोणी नितम्बौ यस्य तच्च तत्करभवत्करिशुण्डावत्कनिष्ठामूलवद्विद्यमानौ च तावूरू च तयोर्द्वयेनान्वितम्

॥ ४५,४६ ॥

सुमनोरञ्जिनी

प्रलम्बाः पीवराः पुष्टा भुजा यस्य तम् । तुंगयोर् अंसोरुरःस्थलयोः श्रीर्यस्य तम् । तुङ्गौ अंसौ यस्य स चासौ उरःस्थले श्रीर्यस्य स इति वा । कम्बुवद् रेखात्रयोपेतकण्ठो, निम्ना गम्भीरा नाभिर्यस्य तम् । वलयस् त्रिवलयोऽस्य सन्तीति वलिमत् । तथाविधं च तत् पल्लववन् मृदु उदरं यस्य स तथा । बृहता कटितटेन श्रोण्या च तथाविधया । करभवत् कनिष्ठिकामूलवद् अलोमं मांसुलं च यद् ऊरुद्वयं तेन चान्वितम् ॥ ४५,४६ ॥

तुङ्गगुल्फारुणनखव्रातदीधितिभि१र्वृतम् ।

नवाङ्गुल्यङ्गुष्ठदलैर्विलसत्पादपङ्कजम् ॥ ४७ ॥

पदरत्नावली

तुङ्गावीषदुन्नतौ गुल्फौ अरुणनखानां व्राताः समूहाश्च तेषां दीधितिभिः कान्तिभिः । नवा अङ्गुल्यो ऽङ्गुष्ठौ च त एव दलानि तैः ॥ ४७ ॥

सत्यधर्मीया

तुङ्गौ किञ्चिदुदञ्चितौ गुल्फावरुणनखाश्च तेषां व्रातः । क्रतुपुरुषकपोलगुल्फ-मेधाभिधानीति लिङ्गानुशासनसूत्रात्पुल्लिङ्गो गुल्फशब्दः । हस्तकुन्तान्तव्रातदूतधूर्तक्षतमुहूर्ताः पुंसीत्युक्तेर्व्रातशब्दश्च, सङ्घस्तस्य दीधितयः प्रकाशास्ताभिर्वृतम् । नवा नूतन्योऽङ्गुलयश्चाङ्गुष्ठौ च त एव दलानि तैः । कल्पभेदेन गङ्गाजनकत्वं द्वयोरस्तीति विशेषतो विशिष्याङ्गुष्ठेति ग्रहणमिति मन्तव्यम् ।

वाराहे वामपादं तु तदन्येषु तु दक्षिणम् । पादं कल्पेषु भगवानुज्जहार त्रिविक्रम इति पञ्चम-तात्पर्योक्तेः । लक्षणशास्त्रे । गूढगुल्फो गूढजत्रुर्महापूरुष उच्यते । नीतिकृताऽपि । पादौ श्लिष्टाङ्गुली वेत्यारभ्य गूढगुल्फौ जङ्घे च । व्यासगद्ये च निगूढगुल्फायेति चेत्युक्तेः । कथं तुङ्गता गुल्फयोरिति चेन्न । मध्यतुङ्गताया अक्षुण्णत्वात् । गुल्फैर्युक्ता अरुणाश्च ते नखाश्च । तुङ्गाश्च ते गुल्फारुणनखा इति विग्रहे न तव दुराग्रहः कार्यकारी । उत्तुङ्गरक्तविलसन्नखचक्रवालेत्यादेः । तस्य तद्भूषत्वादिति । पङ्कजस्य युक्ता दलतेतीत्यर्थमुक्तिः ॥ ४७ ॥

सुमनोरञ्जिनी

तुंगयोर् गुल्फयोः । अरुणस्य नखव्रातस्य दीधितिभिः कान्तिभिः । नवैर् अङ्गुल्यङ्गुष्ठाख्यैर् दलैः । विलसती पादपङ्कजे यस्य तम् ॥ ४७ ॥

महार्हमणिविभ्राजत्किरीटकटकाङ्गदैः ।

कटिसूत्रब्रह्मसूत्रहारनूपुरकुण्डलैः ॥ ४८ ॥

पदरत्नावली

अङ्गदं केयूरम् । ‘केयूरमङ्गदं प्रोक्तम्’ इति हलायुधः । कटिसूत्रं काञ्ची

॥ ४८ ॥

सत्यधर्मीया

महार्हैर्बहुमूल्यैर्मणिभिर्विभ्राजन्ति किरीटानि । किरीटमुकुटललाटेत्यादिलिङ्गानु-शासनात् । कटकान्यङ्गदानि च गतं यस्य सः । कटिसूत्रं काञ्ची ब्रह्मसूत्रं यज्ञोपवीतं हारनूपुर-कुण्डलानि च तैर्भ्राजमानमित्यन्वयः ॥ ४८ ॥

सुमनोरञ्जिनी

महार्हमणिभिर् विभ्राजन्तो ये किरीटकटकाङ्गदास् तैः । कटिसूत्रादिभिश्च भ्राजमानम् ॥ ४८ ॥

भ्राजमानं पद्मकरं शङ्खचक्रगदाधरम् ।

श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥ ४९ ॥

पदरत्नावली

पद्मं करे यस्य तम् ॥ ४९ ॥

सत्यधर्मीया

पद्मं करे यस्य तम् ॥ ४९ ॥

सुमनोरञ्जिनी

पद्मं करे यस्य तम् ॥ ४९ ॥

सुनन्दनन्दप्रमुखैः पार्षदैः सनकादिभिः ।

सुरेशैर्ब्रह्मरुद्राद्यैर्नवभिश्च द्विजोत्तमैः ॥ ५० ॥

पदरत्नावली

‘मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुर्वसिष्ठो दक्षश्च इति नवभिर्द्विजोत्तमैः ॥ ५० ॥

सत्यधर्मीया

नवभिर्द्विजोत्तमैर्मरीच्यादिभिः ॥ ५० ॥

सुमनोरञ्जिनी

नवभिर् द्विजोत्तमैः कश्यपादिभिः । वसुर् वसुराज एतैः कर्तृभिः ॥५०॥

प्रह्लादनारदवसुमुखैर्भागवतोत्तमैः ।

स्तूयमानं पृथङ्मार्गैर्वचोभिरमलात्मभिः ॥ ५१ ॥

पदरत्नावली

पृथङ्मार्गैर् वैदिकतान्त्रिकमार्गविषयैः ॥ ५१ ॥

सत्यधर्मीया

वसवोऽष्टौ वोपरिचरो वा । प्रल्हादश्च नारदश्च वसवश्च वसुश्च वा मुखं येषां ते तैः पृथङ्मार्गैर्वैदिकैस्तान्त्रिकैर्वचोभिरमलात्माभिर्निर्दोषमनस्कैः स्तूयमानम् ॥ ५१ ॥

सुमनोरञ्जिनी

पृथङ्मार्गैर् ज्ञानकर्मादिभिर् नानामार्गविषयैर् वैदिकतान्त्रिकमार्गविषयैर्वा वचोभिः करणैः स्तूयमानम् । यद्वा पृथङ्मार्गैरिति प्रह्लादादीनामेव विशेषणम् । भक्तियोगज्ञानयोगाद्यनेकमार्ग-निरतैरित्यर्थः ॥ ५१ ॥

श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयाऽजया ।

विद्ययाऽविद्यया शक्त्या मायया च निषेवितम् ॥ ५२ ॥

पदरत्नावली

इलया भूम्या । अविद्यया दुर्गया । सर्वाण्यपि रमारूपाणि ॥ ५२ ॥

दुर्घटभावदीपिका

भावपरिक्लिन्नात्मलोचन इत्यस्यात्माऽन्तःकरणं च लोचने चात्मलोचनानि भावेन भक्त्या परिक्लिन्नान्यात्मलोचनानि यस्य स्वभावपरिक्लिन्नात्मलोचन इत्यर्थः । अन्तःकरणस्य परिक्लिन्नत्वं नाम द्रवीकृतत्वम् । लोचनद्वयस्य परिक्लिन्नत्वं नामानन्दाश्रुजलस्नातत्वमिति द्रष्टव्यम् । एतेन परिक्लिन्नलोचन इत्यनेनैव पूर्णत्वादात्मेति पदं व्यर्थमिति चोद्यं परिहृतम् । अन्तःकरणलाभार्थ-मात्मेत्युक्तमित्यङ्गीकारात् ॥ ५२ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे सप्तत्रिंशोऽध्यायः ॥ १०-३७ ॥

सत्यधर्मीया

इलया भूम्याऽजयाऽविद्यया । तमो हि दुर्गेत्यादेर्दुर्गारूपिण्या, सर्वाण्यपि रमारूपाणि ॥ ५२ ॥

सुमनोरञ्जिनी

श्रियादिभिः शक्तिभिः । अजयेति पदच्छेदः ॥ ५२ ॥

विलोक्य सुभृशं प्रीतो भक्त्या परमया युतः ।

हृष्यत्तनूरुहो भावपरिक्लिन्नात्मलोचनः ॥ ५३ ॥

पदरत्नावली

आत्मा अन्तःकरणं च लोचने च आत्मलोचनानि, भावेन सत्स्वभावेन परिक्लिन्नान्यार्द्राणि आत्मलोचनानि यस्य स तथा । ‘भावः स्वभावेऽभिप्राये’ इत्यभिधानम् ॥५३॥

सत्यधर्मीया

विलोक्य सुभृशं प्रीतः परमया भक्त्या युतः । भावेन सत्स्वभावेन । भावः स्वभावाभिप्रायेत्यादिविश्वः । परिक्लिन्नान्यात्मा मनश्च लोचने च यस्य सः ॥ ५३ ॥

सुमनोरञ्जिनी

भावेन भक्त्या परिक्लिन्ने आत्मलोचने यस्य सः । आत्मा मनःसत्वं धैर्यम्

॥ ५३ ॥

गिरा गद्गदयाऽस्तौषीत्सत्त्वमालम्ब्य सात्त्वतः ।

प्रणम्य मूर्ध्नाऽवहितः कृताञ्जलिपुटः शनैः ॥ ५४ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे सप्तत्रिंशोऽध्यायः ॥

पदरत्नावली

सत्त्वं धैर्यम् ॥ ५४ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे सप्तत्रिंशोऽध्यायः ॥

सत्यधर्मीया

सत्त्वं धैर्यम् । सात्वतो भक्तो गतम् । सात्वछ्वफल्कजत्वात् । मूर्ध्ना प्रणम्यावहितः सावधानमनसः कृताञ्जलिपुटः शनैर्गद्गदया गिराऽस्तौषीत् ॥ ५४ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे सप्तत्रिंशोऽध्यायः ॥

सुमनोरञ्जिनी

सत्वं स्वभावं वा ॥ ५४ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां सप्तत्रिंशोऽध्यायः ॥ १०-३७ ॥