अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः
॥ अथ षट्त्रिंशोऽध्यायः ॥
श्रीशुक उवाच—
अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः ।
उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ॥ १ ॥
पदरत्नावली
अमलभक्तिद्वारा भगवत्प्रसादेनैव दुरितप्रवाहनिवृत्तिरभीष्टप्रवाहप्राप्तिश्च भवत्ये-वेत्यवधारणाय श्वफल्कजस्य भक्त्युद्रेकः प्रतिपाद्यतेऽस्मिन्नध्याये । यस्यां रात्रौ कंसेनादिष्टस्तां रात्रिम्
॥ १ ॥
सत्यधर्मीया
इतोऽप्यधिकारी संसारकारागारबन्धं ध्वंसयितुं समीहमानः स्वयमक्रूरवद्भक्तिं कुर्यादिति दिदर्शयिषुरक्रूरस्य क्रूराज्ञातो गोकुलगमनं तत्र मनोरथकरणं तत्फललाभश्चेत्येतदेतदध्याये प्रतिपाद्यते । तत्रादौ तदाज्ञप्तः किं तत्क्षणे निष्क्रान्तः किं वा तां क्षणदां तत्रैव स्थित्वा प्रातरिति प्रथममनभ्युपगमेन द्वितीयमभ्युपगमेन समाधत्त इत्यभिधत्ते ॥ श्रीशुक इति । तां कंसशंसित-वासरशर्वरीम् ॥ १ ॥
सुमनोरञ्जिनी
मधुपुर्यां मधुरायाम् ॥ १ ॥
गच्छन् पथि महाभागो भगवत्यम्बुजेक्षणे ।
भक्तिं परामुपगत १एवमेतदचिन्तयत् ॥ २ ॥
पदरत्नावली
महान् भागो भाग्यं यस्य स महाभागः ॥ २ ॥
सत्यधर्मीया
महान् भागो दैवं यस्य सः । एतद्वक्ष्यमाणं प्रमेयं नानाप्रकारेणाचिन्तय-च्चिन्तयामास ॥ २ ॥
सुमनोरञ्जिनी
एतद् वक्ष्यमाणम् । एवं प्रकारेणैव ॥ २ ॥
अक्रूर उवाच—
किं मयाऽऽचरितं भद्रं किं तप्तं परमं तपः ।
किं वाऽथाप्यर्हते दत्तं यद् द्रक्ष्याम्यद्य केशवम् ॥ ३ ॥
पदरत्नावली
भद्रं मङ्गलम् । अथापि अयोग्यसहवासे सत्यपि । अर्हते योग्याय ॥ ३ ॥
सत्यधर्मीया
मया किं भद्रं मङ्गलमाचरितं पुरा । परमं किं तपस्तप्तं कृतम् । अर्हते योग्याय किं वा दत्तम् । अथाऽप्ययोग्यसहवासे सत्यपि यद्येन केशवं द्रक्ष्यामि । ओति न दवीयःपदवी मधुरागोकुलयोरिति सूचयति ॥ ३ ॥
सुमनोरञ्जिनी
भद्रं पुण्यकर्म यागादि । किं किं जातीयमाचरितं स्यात् । अर्हते योग्याय । विष्णुभक्त्यादिगुणसंपन्नाय । यद् येन कारणेन ॥ ३ ॥
ममैतद् दुर्लभं मन्ये उत्तमश्लोकदर्शनम् ।
विषयात्मनो यथा ब्रह्मकीर्तनं शूद्रजन्मनः ॥ ४ ॥
पदरत्नावली
उत्तमैर्ब्रह्मादिभिरपि श्लोक्यते संस्तूयत इति उत्तमश्लोकस्तस्य दर्शनम् । विषयेषु लौकिकेषु आत्मा मनो यस्य स विषयात्मा तस्य । ब्रह्मकीर्तनं वेदाध्ययनम् । ‘श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणम् । अध्ययने जिह्वाच्छेदः । अर्थावधारणे हृदयविदारणम्’ इत्यादेः
॥ ४ ॥
सत्यधर्मीया
शूद्रजन्मनस्तज्जातिजातस्य ब्रह्मकीर्तनं वेदाध्ययनं यथा दुर्लभम् । श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणमध्ययने जिह्वाच्छेद इत्यादेः । तथा विषयात्मनो विषयेषु लौकिकेष्वात्मा मनो यस्य तस्य ममोत्तमश्लोकस्य ब्रह्माद्युत्तमस्तुत्यस्य दर्शनं दुर्लभं मन्ये ॥ ४ ॥
सुमनोरञ्जिनी
विषयेष्वेवात्मा मनो यस्य तस्य शूद्रजन्मनः । ब्रह्मकीर्तनं वेदाध्ययनम्
॥ ४ ॥
मैवं मामवमंस्यामि स्यादेवाच्युतदर्शनम् ।
ह्रियमाणः कालनद्या क्वचित् तरति कश्चन ॥ ५ ॥
पदरत्नावली
दैवं देवो विजानाति नावजानामि मामहमित्याशयेनाह मैवमिति । अहमेवमच्युतदर्शनं दुर्लभमिति मां मावमंस्यामि नावजानामि । कुत इत्यत्राह स्यादिति । कथमेतत् सम्भवतीत्यत्राह ह्रियमाण इति । कश्चन विष्णुभक्तिमान् ॥ ५ ॥
सत्यधर्मीया
दैवं देवो विजानाति नावजानामि मामहमिति ससम्भावनमावेदयति ॥ मैवमिति ॥ एवमहं मां नावमंस्यामि सर्वथा योग्य इति न घटते घटनेति नावजानामि । अच्युतदर्शनं स्यादेव । कालनद्या ह्रियमाणः कश्चिद्विपश्चित्तरति न सर्वः सर्वदेति कश्चन क्वचिद्भ्यां ध्वनयति । प्रायेण सर्वं योषिन्मूलमिति ध्वनयितुं कालनद्येत्युक्तिः ॥ ५ ॥
सुमनोरञ्जिनी
मम दुर्लभमित्यश्लीलकीर्तनभीरुः पुनराह ॥ मैवमिति ॥ अहं, एवम् उत्तमश्लोकदर्शनं दुर्लभमिति माऽवमंस्यामि नावजानामि । अश्लीलं न कीर्तयामीति यावत् । स्यादे-वेत्यत्र सम्भावकमाह ॥ कश्चिदिति ॥ कालाख्यनद्या ह्रियमाण ऊह्यमानः । यथा प्रसिद्धनद्यामूह्य-मानोऽपि कश्चित्तुंबावलंबादिसामग्रीमान् तरति तथेति ॥ ५ ॥
ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः ।
यन्नमस्ये भगवतो योगिध्येयाङ्घ्रिपङ्कजम् ॥ ६ ॥
पदरत्नावली
भवो जन्म । ‘ज्ञानं तु योगशब्दोक्तं युज्यतेऽनेन यत् सुखम् । क्वचिद् योग उपायः स्यात् क्वचिच् चित्तनिरोधनम्’ इत्युक्तेर् योगो विशिष्टज्ञानादिकमेषामस्तीति योगिनः सनकादयस्तैर्ध्येयमङ्घ्रिपङ्कजम् । ‘सनकाद्या ज्ञानयोगा भक्तियोगास्तु देवताः । मानुषाः कर्मयोगाश्च त्रिधैते योगिनः स्मृताः’ इत्युक्तेः ॥ ६ ॥
सत्यधर्मीया
अद्य ममामङ्गलं सर्वं नष्टं ध्वस्तम् । ममैव ममतैवाद्यं यस्य तदमङ्गलमिति पदमेकं वा । ततो मे भवो जन्म फलवान्सफलः । योगिभिरुपायवेदितृधात्रादिभिर्ध्येयमङ्घ्रिपङ्कजं नमस्य इति । यद्योगिभिः सनकादिभिर्वा ॥ ६ ॥
सुमनोरञ्जिनी
भवो जन्म । योगिभिः सनकादिभिः ॥ ६ ॥
कंसो बताद्याकृत मेऽत्यनुग्रहं द्रक्ष्येऽङ्घ्रिपद्मं प्रहितोऽमुना हरेः ।
कृतावतारस्य दुरत्ययं तमः पूर्वेऽतरन् यन्नखमण्डलत्विषा ॥ ७ ॥
पदरत्नावली
बत आश्चर्यम् । अद्य कंसो मेऽत्यनुग्रहम् अधिकानुग्रहमकृत सोऽत्यनु-ग्रहमिति पाठान्तरम् । प्रहितो ऽङ्घ्रिपद्यं विशिनष्टि कृतावतारस्येति । पूर्वेऽमरादयो यस्याङ्घ्रिपद्मस्य नखानां मण्डलस्य त्विषा तेजसा दुरत्ययं तमोऽघं शुचं चातरन् तीर्णवन्तः ॥ ७ ॥
सत्यधर्मीया
अन्येषु सत्सु सान्निध्ये तान्विहाय मामाज्ञापयद्राजा मय्यनुग्रहं महान्तं कृतवानिदंप्रयोजनयोजकत्वादिति चेतस्यालोच्य तुष्यन् भाषते ॥ कंस इति ॥ कंसो मे मदुपर्य-द्यात्यनुग्रहमकृत । बताश्चर्ये । येनामुना प्रहितोऽहं हरेः कृतावतारस्याङ्घ्रिपद्मं द्रक्ष्ये । पूर्वे आद्या यन्नखमण्डलत्विषा यस्य नखसमूहस्य महसा यद्दुरत्ययं तमोऽज्ञानं वा ग्लानिं वाऽतरंस्तस्य
॥ ७ ॥
सुमनोरञ्जिनी
कंसोऽपि मे मयि । अत्यनुग्रहम् । अकृत अकरोत् । बतेत्याश्चर्ये कथम् । यतो ऽमुना कंसेन प्रहितः प्रेषितः । कृतावतारस्य कृष्णात्मनाऽवतीर्णस्य हरेर् अङ्घ्रिपद्मं द्रक्ष्ये अत इत्यन्वयः ॥ तद्दर्शनफलं पुराकल्परूपार्थवादेन प्रशंसति ॥ कृतावतारेति । कृतो ऽवतार आविर्भावो येन तस्य । भक्तान् प्रति आविर्भूतस्वरूपस्य । नखमण्डलत्विषा दृष्ट्या । दुरत्ययं तमः । अतरद् अत्यवर्तत । अहं तु समग्रमङ्घ्रिपद्मं द्रक्ष्ये । अतः । अत्यर्थमनुग्रहमकृतेत्यन्वयः
॥ ७ ॥
यदर्चितं ब्रह्मभवादिभिः सुरैः श्रिया च देव्या मुनिभिः १ससात्विकैः ।
गोचारणायानुचरै२श्चरद् वने यद् गोपिकानां कुचकुङ्कुमाङ्कितम् ॥ ८ ॥
पदरत्नावली
यदङ्घ्रिपद्मम् । ससात्वतैः पाञ्चरात्रिकसमेतैः । यच्च गोचरणाय गवां तृणखादनार्थमनुचरैर्गोपैः समं वने चरद् भवति । यच्च वने गोपिकानां कुचकुङ्कुमेनाङ्कितं मुद्रितं तदङ्घ्रिपद्मं द्रक्ष्य इति पूर्वेणान्वयः ॥ ८ ॥
सत्यधर्मीया
ब्रह्मभवादिभिः सुरैरङ्घ्रिपद्मं देव्या श्रिया च ससात्विकैः पाञ्चरात्रिकसमेतै-र्मुनिभिश्चार्चितम् । अनुचरैर्गोपैः समं वने गोचारणाय गवां सञ्चारणार्थम् । तृणखादनार्थं वा । गोपिकानां कुचकुङ्कुमेनाङ्कितं यदेतीति यत्तदङ्घ्रिपद्मं द्रक्ष्य इति पूर्वेण वा द्रक्ष्यामीत्युत्तरेण वाऽन्वयः
॥ ८ ॥
सुमनोरञ्जिनी
अङ्घ्रिपद्मं विशिनष्टि ॥ यदिति ॥ ससात्वतैः पाञ्चरात्रिकैः सहितैः । वने सञ्चरत् । यच्च गोपिकानां कुचकुङ्कुमाङ्कितं तदद्य द्रक्ष्य इति पूर्वेणान्वयः ॥ ८ ॥
द्रक्ष्यामि नूनं सुकपोलनासिकं स्मितावलोकारुणकञ्जलोचनम् ।
मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः ॥ ९ ॥
पदरत्नावली
शोभनौ कपोलौ नासिका च यस्मिंस्तत् तथा । स्मितावलोकेन सहिते अरुण-कञ्जे इव विद्यमाने लोचने यस्य तत् तथा । गुडालकावृतं कुटिलकुन्तलावृतम् । दर्शननिश्चये शकुनं वक्तिं प्रदक्षिणमिति ॥ ९ ॥
सत्यधर्मीया
मुकुन्दवदनं द्रक्ष्यामि न चेदेवं शकुनसम्पन् न स्यादित्याह ॥ द्रक्ष्यामीति ॥ सु शोभने कपोलनासिके यस्य तत् । स्मितावलोकेन सहिते अरुणकञ्जे इव विद्यमाने लोचने यस्य तत् । गुडालकावृतं गुडवदिक्षुविकृतवत्स्निग्धैरलकैश्चूर्णकुन्तलैरावृतम् । गुडः स्याद्गोलके हस्तिसन्ना-हेक्षुविकारयोरिति विश्वः । मृगादयः प्रदक्षिणं प्रचरन्ति । ये गरुडादयस्ते प्रदक्षिणं प्रगतदक्षिणं वामभागमित्यप्यर्थः । यैर्यैर्यथा यथा गन्तव्यं ते तथा चरन्तीति भावोऽवसेयः ॥ ९ ॥
सुमनोरञ्जिनी
स्मितसहितावलोको ययोस्ते च ते अरुणकंजवल्लोचने यस्य तत् । गुडा अङ्गुलिकास् तद्वलयीकृता गुडवत् स्निग्धा वा अलकास् तैर् आवृतम् । मुकुन्दस्य मुखं नूनं निश्चयेन द्रक्ष्ये । कुतः । वै यस्मान् मृगाः प्रदक्षिणं चरन्तीति ॥ ९ ॥
अप्यद्य विष्णोर्मनुजत्वमीयुषो भारावताराय भुवो निजेच्छया ।
लावण्यधाम्नो भवितोपलम्भनं मह्यं ननु स्यात् फलमद्य सन्दृशः ॥ १० ॥
पदरत्नावली
ईयुषः प्राप्तवतः । निजेच्छया स्वरूपभूतेच्छया । लावण्यधाम्नो निरतिशय-सौन्दर्याश्रयस्य हरेरुपलम्भनं दर्शनं भविता भविष्यति । अद्य मह्यं मम संदृशः सन्दर्शनसाधननेत्रस्य फलं स्यान्ननु स्यादेव । ‘ननु प्रश्नेऽवधारणे’ इति हलायुधः ॥ १० ॥
सत्यधर्मीया
भुवो भारावताराय मनुजत्वं मनुष्यतामीयुषो गतवतो भगवतो निजेच्छया स्वरूपभूतेच्छया लावण्यधाम्नः सौन्दर्याश्रयस्य मह्यं ममोपलम्भनं भविता दर्शनं भविष्यति । अद्या-द्येत्यादरातिशयादुक्तिः । पृथक् पृथगन्वयो वा । मह्यं मम संदृशः फलं स्यान्ननु निश्चयः । समिति सामीचीन्यस्य योग्यतया फलपदार्थेऽन्वयः । दृशोरिति वक्तव्ये यद्दृश इत्युक्तं तेन ज्ञानस्यापि सफलतां सूचितवानिति । ननु स्यात्फलमञ्जसा दृश इत्यसदृशः पाठः ॥ १० ॥
सुमनोरञ्जिनी
ईयुषः प्राप्तवतः । उपलम्भनं दर्शनं भविता भविष्यति । संदृशः सम्यक् पश्यतीति, समीचीना दृक् ज्ञानं यस्येति वा व्युत्पत्या संदृशो ऽपरोक्षज्ञानिनः यत्फलं विलक्षणसन्तोषोद्रेकरूपं तत् । मह्यम् अद्य स्यादित्यर्थः । यद्वा मह्यं मम दृशः नेत्रस्य सं समीचीनं फलं स्यान्ननु स्यादेव । समभेदे समीचीन इति च । प्रश्नावधारणैतिह्यसमीहानुमते नन्विति च । संदृश इत्येकं वा पदम् । नसंदृश इत्येकं वा पदम् । (?) नसंदृशे तिष्ठतीति श्रुतिः । सन्दर्शनसाधनस्य नेत्रस्येत्यर्थः ॥ १० ॥
य ईक्षिताऽहंरहितोऽप्यसत्सतोः स्वतेजसाऽपास्ततमोभिदाभ्रमः ।
स्वमाययाऽऽत्मन् रचितेषु तत् सन् प्राणादिभिर्जन्तुषु भाति चित्रधा ॥११॥
तात्पर्यम्
तत्सन् तथैव सन् ॥ ११ ॥
पदरत्नावली
यश्चाहंरहितोऽभिमानरहितो जन्तुभिरनुष्ठीयमानयोरसत्सतोर् अशुभकर्मशुभ-कर्मणोरीक्षिता साक्षी स्वतेजसा स्वसामर्थ्येन अपास्ता दूरोत्सारितास् तमश्चाज्ञानं भिदा चान्यथाज्ञानं भ्रमो भवश्चेति तमोभिदाभ्रमा येन स तथा । अथवा तमो ग्लानिर्भिदा निजगुणकर्मसु भेदो भ्रमो रोगविशेषश्चेत्येतेऽपास्ता येनेति । ‘भ्रमोऽम्बुनिर्गमे भ्रान्तौ भवरोगविशेषयोः’ इत्यभिधानम् । यद्वा स्वभक्तसत्तमानामप्यपास्तो निरस्तस् तमोभिदाभ्यामज्ञानान्यथाज्ञानाभ्यामुत्पन्नो यो भ्रमोऽनवस्थानं येन स तथा । ‘भ्रमु अनवस्थाने’ इति धातोः । स्वमायया स्वेच्छया आत्मन् आत्मनि आत्मा-धारतया रचितेषु जन्तुषु तत् तथैवाविकृत एव सन् वर्तमानः प्राणादिभिः सह चित्रधा सुरनर-तिर्यगादिनानात्मना भाति । अत्र तच्छब्दस्य वैयर्थ्याशङ्कानिरासायाचार्यैस् तच्छब्दस्याव्ययत्वम-व्ययानामनेकार्थत्वं चाभिप्रेत्य तथैवेत्युक्तम् । सर्वे शब्दाः सावधारणमिति न्यायेन तथैवेत्येवकार इत्यवसेयः ॥ ११ ॥
सत्यधर्मीया
स्वमाययाऽऽत्मन्रचितेषु तत्सन्निति श्लोके सन्विद्यमान इत्येतावताऽन्वयपूर्तौ तदित्यनावश्यकमित्यतोऽनूद्य तदर्थमाह ॥ तत्संस्तथैव सन्निति । तदित्यव्ययम् । तथैवा-विकारेणैवेत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ योऽहमित्यहङ्कारवाच्यव्ययम् । अभिमानरहितः । जन्तुभिरनुष्ठीयमानयोरसत्सतोरशुभशुभयोः कर्मणोः । यद्यपि सदसतोरिति वक्तव्यं तथाऽप्यसुरा बहुला यस्मादित्यादेस्तदसद्बाहुल्यादसत्पुरस्करणमिति मन्तव्यम् । स्वतेजसा स्वसामर्थ्येन । अनेन मुक्ताव्यक्तव्युदासः । अपास्तस्तमश्चाज्ञानं भिदा चान्यथामतिस्ताभ्यां जातो यो भ्रमोऽनवस्थानं येन सः । तमो ग्लानिर्भिदा गुणकर्मभेदो भ्रमश्चेत्येतेऽपास्ता येनेति वा । तमश्चाभिदाभ्रमोऽभेदभ्रमश्च येनेति वा । आत्मन्नात्मनि स्वाधारत्वेन स्वमायया स्वेच्छया निमित्तभूतयोपादानभूतया प्रकृत्या च रचितेषु जन्तुषु तत्तथैवाविकृत एव सन्वर्तमानः प्राणादिभिः सहेक्षिता साक्षी चित्रधा नानात्मना भाति ॥ ११ ॥
सुमनोरञ्जिनी
नायं साधारणः कश्चन किन्तु एको देवः सर्वभूतेषु गूढ इति श्रुतिप्रतिपाद्यं ब्रह्मैव यदुकुलेऽवतीर्णमित्याह ॥ य इत्यादिना ॥ य इति यच्छब्दः । स चावतीर्ण इति तच्छब्देनान्वेति । यः स्वमायया स्वाधीनया प्रकृत्या स्वेच्छया च । आत्मन् आत्मनि स्वाधारतया आत्मना स्वेनेति वा । प्राणादिभिर् इन्द्रियादिभिः सह । रचितेषु सृष्टेषु जन्तुषु तत्सन् तथैव । तत्तदाकारेण तत्तत्क्रियानुकूल्यक्रियां कुर्वन्नेव विद्यमानः । चित्रधा भोक्तृभोग्य–सेव्यसेवक–भावादिना भाति । ज्ञानिनामिति शेषः । तदुक्तम् । तत्सन् तथैव सन् इति । स्वसृष्टाशेषजन्तुषु तत्त-च्छरीरेन्द्रियादिषु तत्तदाकारेण विद्यमानस् तदनुकूलाः क्रियाः कुर्वन्नेव ज्ञानिनां पूज्यपूजकतया तत्साधनतया भोक्तृभोज्यतत्तत्साधनतयेत्यनेकप्रकारेण भातीति भावः । तर्हि शरीराद्याकारेण विकारः प्राप्त इत्यतोऽप्याह ॥ तत्सन्निति ॥ तथैव सन् अविकार एव सन्नित्यर्थः । तर्हि शरीरसम्बन्ध-कृतशुभाशुभफललेपः स्यादित्यत उक्तम् । सदसतोः शुभाशुभयोर् जीवभोग्ययोर् ईक्षिता साक्षीभूता एव न तु तत्कृतनीचोच्चतादिमानिति । तत्र हेतुर् अहंरहित इति । अभिमानरहित इत्यर्थः । तत्कुत इत्यत उक्तम् । स्वतेजसा स्वरूपसामर्थ्येन । अपास्तौ निरस्ते तमोभिदाभ्रमौ अज्ञानमिथ्या-ज्ञाने यस्य सः । यद्वा दह्यमानगेहगतयोरुभयोरपि दाहवदेकशरीरे जीवेन सह स्थितस्य परस्यापि शुभाशुभफललेपः स्यादेवेत्यतो नेत्याह ॥ स्वतेजसा स्वसामर्थ्येन सदसतोः सदसद्भ्यां शुभाशुभाभ्यां रहित इति । एकगेहगतयोरपि यथाग्निस्तंभवतोऽन्यतरस्य दाहाभावस्तथेश्वरस्येति भावः । अत एव अहम् । हन्नामा हन्यमानत्वादिति वचनानुसारेण हं जीवस् तद्विलक्षणत्वादहं जीवविलक्षण इत्यर्थः ॥ ११ ॥
यस्याखिलामीवहभिः सुमङ्गलैर्वाचो विमिश्रा गुणकर्मजन्मभिः ।
प्राणन्ति शुम्भन्ति पुनन्ति वै जगद् यास्तद्विरक्ताः स्युरशोभना मताः
॥ १२ ॥
तात्पर्यम्
शुम्भन्ति शोभयन्ति । ‘शुम्भनं शोभनं शुम्भं शुभपर्यायवाचका’ इत्यभिधानम् ॥ १२ ॥
पदरत्नावली
अखिलानां ब्राह्मणादिश्वपचान्तानाममीवानि पापानि घ्नन्तीत्यखिलामीवहानि तैः । शोभनानि मङ्गलानि येभ्यस्तैः सुमङ्गलैर्गुणकर्मजन्मभिर्विमिश्राः सङ्कलिताः कृष्णकृष्णाप्रमेयात्म-न्नित्यादिलक्षणा वाचः जगत् प्राणन्ति जीवयन्त्याह्लादयन्ति शुम्भन्ति शोभयन्ति पुनन्ति पवित्रयन्ति चेत्यन्तर्भावितण्यर्थनिर्देशः । ‘शुम्भ भाषणे भासने हिंसायां च’ इति शुम्भधातोरनेकार्थत्वादत्रोक्त-माचार्यैः– ‘शुम्भन्ति शोभयन्ति । ‘शुम्भनं शोभनं शुम्भं शुभपर्यायवाचकाः’’ इत्यभिधानम्’ इति । यास्तु वाचस् तद्विरक्तास्तैर्हरिर्गुणकर्मादिभी रहिताः स्युस्ताः सतामशोभना इति मताः ॥ १२ ॥
सत्यधर्मीया
यस्याखिलामीवहभिरिति श्लोके शुभशुम्भ भाषणे हिंसायां चेति धात्वनेकार्थताया अत्राभिप्रेतार्थोऽयं तथाऽन्तर्णीतणिजर्थ इति तदनूद्य व्यातनोति ॥ शुम्भन्ति शोभयन्तीति ॥ तत्र प्रमाणं च पठति शुम्भनं शोभनं शुम्भं शुभं चेति शब्दाः पर्यायवाचका इत्यर्थः । शुभशुम्भशोभार्थ इति मणिना शुम्भमाना इत्यृक्टीकाटिप्पणोक्तं चानुसन्धेयम् ॥ ततश्चायं मूलार्थः ॥ यस्यामीवहभि-रमीवानि पापानि घ्नन्तीति तैः । अमीवेति गतम् । गुणाश्चानन्दादयश्च कर्माणि गजगर्जनमोचनादीनि प्रस्तुतानि च जन्मानि स्तम्भादित इति तैः । सुमङ्गलैश्चिन्तयितृमङ्गलप्रदैर्मिश्रा वाचः कृष्ण कृष्णाप्रमेयात्मन्नित्याद्या जगत्प्राणन्ति जीवयन्ति शुम्भन्ति शोभयन्ति शुभवत्कुर्वन्ति वा । पुनन्ति पवित्रयन्ति । प्रसिद्धमिति वैकारो द्योतयति । यास्तद्विरक्ता गुणकर्मजन्मभिस्तै रहिताः स्युस्ता अशोभना मताः ॥ १२ ॥
सुमनोरञ्जिनी
या इति वक्ष्यमाणमत्रापि सम्बध्यते । या वाचः, अखिलानाम् अमीवानि पापानि घ्नन्तीत्यखिलामीवहानि । तैर् अखिलान्यमीवानि घ्नन्तीति वा । अत एव सुमंगलैर् मङ्गलप्रदैः । यस्य हरेर् गुणकर्मजन्मभिर् गुणाः पूर्णानन्दादयः, कर्माणि जगत्सर्जनादीनि, जन्मानि मत्स्याद्यवतारास् तैः । विमिश्राः प्रतिपाद्यप्रतिपादकभावसम्बन्धेन सङ्कलितास् तत्प्रतिपादिका इति यावत् । ता वै ता एव । जगत् प्राणन्ति प्राणयन्ति आह्लादयन्ति । णश्च निर्वृतिवाचक इत्यभिधानात् । जीवयन्तीति वा । शुभन्ति । व्याख्यातमेतद्भगवत्पादैः । शुम्भन्ति शोभयन्ति । शोभनं शुंभनं शूनं(?) शुभपर्यायवाचकमित्यभिधानमिति । शुभयुक्तं कुर्वन्तीत्यर्थः । पुनन्ति पवित्रयन्ति । या वाचस् तद्विरक्ता भगवद्गुणकर्माद्यप्रतिपादकाः स्युस् ता अशोभना इति अमङ्गला इति मताः संमता इत्यर्थः ॥ १२ ॥
स चावतीर्णः किल सात्वतान्वये स्वसेतुपालामरवर्यशर्मकृत् ।
यशो वितन्वन् व्रज आस्त ईश्वरो गायन्ति देवास्तदशेषमङ्गलम् ॥ १३ ॥
पदरत्नावली
चशब्द एवार्थे । य एवंविधमाहात्म्यो भगवान् स एव सात्वतान्वये यादवकुले श्रीकृष्णरूपेणावतीर्णः किल । स्वसेतुपालाः स्वकृतमर्यादारक्षका येऽमरवर्या देवेन्द्रादयस्तेषां शर्म सुखं करोतीति तथा । यद् यशो वितन्वन् विस्तारयन् ईश्वरो व्रजे आस्ते । यशो विशिनष्टि अशेषेति । अशेषाणां मङ्गलं श्रेयस्करं तद् यशो देवा विरिञ्चादयो गायन्ति ॥ १३ ॥
सत्यधर्मीया
एतावतोक्तं पर्यवसाययति ॥ स चेति ॥ स च स एव सात्वतान्वये । अकारान्तः सात्वच्छब्दपर्यायः सात्वतशब्दः । तेषामन्वयेऽवतीर्णः । स वाऽवतीर्ण इति न पठन्पठंश्च स चेति सुखेनावतीर्णो न देवाद्यवतारवदंशांशिसुखानुसन्धानादिव्यत्यस्त्यवतार इति द्योतयामासुः । इन्द्र इद्धर्योः स चासंमिश्ल इत्यृग्भाष्ये स चा सुखेनेत्युक्तेः । षच समवाये, धात्वादेः षः सः । सम्पदादित्वात्क्विपि तृतीयैकवचनम् । धात्वनैकार्थ्यात्सुखार्थता । स चेति निपातपक्षे न कोऽपि क्लेशः । यथोक्तं माधवेन । स चेत्यस्य निपातत्वपक्षे स्फुटमाद्युदात्तत्वमिति । स्वसेतुपालाः स्वमर्यादा रक्षका येऽमरवर्यास्तेषां शर्म सुखं तत्करोतीति कृत् । सु अत्यन्तमसेतुपाला अमरेभ्यो वर्या अग्रतो जाताः पूर्वदेवास्तेषां शर्म कृन्ततीति स तथेति वा । यद्यशो वितन्वन्विस्तारयन्नीश्वरो व्रजे आस्ते तद्यशोऽशेषमङ्गलं देवा गायन्ति स च मूलरूपेण समवेतः सन्नेवावतीर्ण इति । स्वश्चासौ सेतुपश्च तं न लान्ति नाददत इति न तत्त्वेन स्वीकुर्वन्तीति उर्वरितं पूर्ववत् । अमरा भवतेति वरो येषामस्ति तेऽमरवरिणः स्वसेतुपालाश्च तेऽमरवरिणश्च तेषां (न) शर्मकृत्सुखदातेति वा
॥ १३ ॥
सुमनोरञ्जिनी
य एवंविधमहिमोपेतः स च स एव ईश्वरः । सात्वतां यदूनाम् अन्वये वंशे अवतीर्णः सन् । यशः स्वमाहात्म्यं वितन्वन् विस्तारयन् व्रजे आस्ते किलेत्यन्वयः । कस्मै प्रयोजनायेति तत्राह ॥ स्वसेतुपालेति ॥ स्वेन कृतः सेतुर् मर्यादा आज्ञारूपा तां पालयन्ति रक्षन्ति अनुवर्तन्त इति यावत् । ते च तेऽमरवर्याश्च तेषां शर्मकृत् सुखकृत् । देवकार्यायेति भावः । यद्यशो वितन्वन्नास्ते, अशेषाणां मङ्गलं मङ्गलप्रदं तद्यशः देवा अपि गायन्ति । किमु मादृशा इत्यर्थः ॥ १३ ॥
तं त्वद्य नूनं महतां गतिं गुरुं त्रैलोक्यकान्तं दृशिमन्महोत्सवम् ।
रूपं दधानं श्रिय ईप्सितास्पदं द्रक्ष्ये ममासन्नुषसः सुदर्शनाः ॥ १४ ॥
पदरत्नावली
महतां गतिं प्राप्यं गुरुं तेषामुपदेष्टारं त्रैलोक्ये कान्तं मनोहरं दृशिर्दृष्टिस्तद्वतां महानुत्सवो येन तत् तथा । श्रियो लक्ष्म्या ईप्सितं वाञ्छितमास्पदमाश्रयभूतं रूपं दधानं बिभ्राणं तं तु तमेवाद्य नूनं द्रक्ष्ये । ममाद्य उषसः प्रभातकालावयवाः क्षणादयः सुदर्शनाः सर्वजगत्पूज्य-भगवद्दर्शनप्रदा आसन्नित्यर्थः ॥ १४ ॥
सत्यधर्मीया
महतां गतिं प्राप्यं तेषां च गुरुं त्रैलोक्ये कान्तं मनोहरम् । दृशिमन्महोत्सवं दृशो लोचनानि सन्ति येषां ते दृशिमन्तस्तेषां चक्षुष्मतां महानुत्सवो येन तत् । श्रियो रमाया ईप्सितं काङ्क्षितमास्पदं गतम् । वक्षःस्थलं यस्मिंस्तद्वपुर्दधानमद्य द्रक्ष्ये नूनं निश्चयः । ममोषसः षष्ठी, सम्बन्धिनः क्षणादयः प्रातः सुदर्शनाः सम्यग्दर्शनं येषां ते दृश्या आसन् । मम आ आसन्निति पदानि । आ उषसः सुदर्शनमुपलम्भो येषां ते शकुनविशेषा आसन्निति वा । दर्शनं नयनस्वप्न-बुद्धिधर्मोपलब्धिष्विति विश्वः ॥ १४ ॥
सुमनोरञ्जिनी
अस्त्वेतादृशमहिमा भगवान् व्रज आस्त इति । तावता तव किमायातमित्यत आह ॥ तं त्विति ॥ तं तु तमेव । अद्य द्रक्ष्ये पश्ये । अतः मम । उषसः प्रभातकालक्षणाः, सुदर्शना भाविमङ्गलसूचकवस्तुदर्शनयुक्ता आसन् । अद्य प्रभातसमये कस्यापि मङ्गलसूचकस्य वस्तुनो दर्शनं ममासीन्नूनम् । येनेदृशं भगवन्तमद्य द्रक्ष्य इत्यन्वयः । कीदृशम् । महतां ब्रह्मादीनां, गम्यत इति गतिः प्राप्य इत्यर्थः । गुरुं महिदासादिरूपेणोपदेशकम् । त्रैलोक्ये कान्तं कमनीयम् । दृशिमतां चक्षुष्मतां महोत्सवम् । एतादृशं रूपं दधानम् । श्रियः महालक्ष्म्या ईक्षितास्पदम् अभीष्टास्पदमिति ॥ १४ ॥
अप्यङ्घ्रिमूले पतितस्य मे विभुः शिरस्यधास्यन्निजहस्तपङ्कजम् ।
दत्ताभयं कालभुजङ्गरंहसा प्रोद्वेजितानां शरणैषिणां नृणाम् ॥ १५ ॥
पदरत्नावली
नियामकत्वेन विविधभवनाद् विभुः । ‘विभु प्रभु प्रथमं मेहनावत इति । स ह्येव प्राभवद् विविधोऽभवत्’ ‘सोऽकामयत बहु स्यां प्रजायेयेति’ इत्यादिश्रुतेः । अधास्यदपि धास्यत्येव । हस्तपङ्कजं विशिनष्टि दत्ताभयमित्यादिना । कालाख्यभुजङ्गस्य रंहोलक्षणविषेण
॥ १५ ॥
सत्यधर्मीया
अङ्घ्रिमूले पतितस्य । प्रणतस्येत्यनुक्त्वोक्त्वा च पतितस्येति स्वाहन्ताशान्त्यै पतितदूतत्वात्तत्प्रायस्यापि मम शिरसि विभुः पतितोद्धरणसमर्थो निजहस्तपङ्कजं स्वकरकमलमधास्यदपि धारयेत् किम्? तन्महत्त्वं किमित्यत आह । कालभुजङ्गः कालियस्तद्रंहो वेगस्तेन प्रोद्विजितानां गोपानां यथेदानीं दत्ताभयं तथा कालाख्यो भुजङ्गस्तस्य रंहो वेगस्तेन प्रोद्विजितानां शरणैषिणां रक्षककामानाम् । नृणामिति सदुपलक्षणम् । तेषां दत्तमभयं येन तदिति ॥ १५ ॥
सुमनोरञ्जिनी
अक्रूरः स्वमनसि एवं वितर्कयतीत्याह ॥ अप्यङ्घ्रीति ॥ विभुः, कालाख्यस्य भुजंगस्य रंहसा वेगेन । प्रोद्वेजितानां भीतानाम् । अत एव शरणैषिणां रक्षकमिच्छताम् । शरणं गृहरक्षित्रोरित्यमरः । नृणां दत्ताभयं, दत्तमभयं येन तत् । एतादृशं निजहस्तपङ्कजम् । अङ्घ्रिमूले पतितस्य मे शिरसि अधास्यत् स्थापयेत्किमिति योजना ॥ १५ ॥
समर्हणं यत्र निधाय कौशिकस्तथा बलिश्चाप जगत्त्रयेन्द्रताम् ।
यद् वा विहारे व्रजयोषितां श्रमं स्पर्शेन सौगन्धिकगन्ध्यपानुदत् ॥ १६ ॥
पदरत्नावली
कौशिक इन्द्रः । ‘कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमप्रभम् । लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान्’ इति हरिवंशोक्तेः । यत्र हस्तपङ्कजे सम्यक् अर्ह्यते पूज्यते येन तत् समर्हणं सर्वस्वदानसङ्कल्पपूर्वकार्घ्यजलं निधाय समर्प्य जगत्त्रयेन्द्रतामाप । बलिश्च वैरोचनिरपि तथा इन्द्रवत् । यद् हस्तपङ्कजं सौगन्धिकानां कह्लाराणामिव गन्धोऽस्यास्तीति सौगन्धिकगन्धि । अपानुदत् परिजहार । वाशब्दोऽवधारणे । ‘स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः’ इत्यमरः ॥१६॥
सत्यधर्मीया
कौशिक इन्द्रः । आतू न इन्द्रकौशिकेत्यृग्भाष्ये मात्रा कुशैर्गृहीतत्वादित्युक्तेः कुशगृहीतत्वात्कौशिकः । कौशिको नकुले व्यालग्रहे गुग्गुलशक्रयोरिति विश्वः । यत्राङ्घ्रौ समर्हणं निधाय विधाय महाबलिश्च यत्र हस्तपङ्कजे समर्हणं धारोदकदानादिपूजां निधाय दत्वा जगत्त्रयेन्द्रता-माप । किञ्च विहारे तत्समये योषितां श्रमम् । सौगन्धिकगन्धि सौगन्धिकानां कल्हाराणामिव गन्धो यस्य । उपमानाच्चेतीत्वम् । स्पर्शेनापानुदत्पर्यहर्षीद्यत्तदधास्यत्किम् ॥ १६ ॥
सुमनोरञ्जिनी
अङ्घ्रिमूले पतितस्य मे शिरसि प्रायशो हस्तं स्थापयेदिति सम्भावयति ॥ समर्हणमिति ॥ यत्र यस्मिन्पादमूले समर्हणम् अभिवन्दनादिना पूजाम् । विधाय कौशिक इन्द्रः महाबलिश्च । जगत्त्रयेन्द्रतां त्रैलोक्यस्वामिताम् । आप । यज्ञेन यज्ञमयजन्तेति श्रुतिः । यद्वा यच्च पादमूलं सौगन्धिकस्य कल्हारस्य गन्धो यस्मिन् तत् । विहारे क्रीडायाम् । स्वस्पर्शेन व्रजयोषितां श्रमं त्रिविधमपि । अपानुदन् निराकरोत् । तस्मिन्नङ्घ्रिमूले पतितस्येति पूर्वेणान्वयः । यस्मादङ्घ्रिमूले पतिताः स्वस्वाभिलषितं प्रापुस् तस्मादहमपि स्वाभिलषितं प्राप्स्य इति भावः । पदरत्नावल्यां तु यच्छब्दद्वयं हस्तपङ्कजपरतया व्याख्यातम् ॥ १६ ॥
न मय्युपैत्यप्रियबुद्धिमच्युतः कंसस्य भृत्यः प्रहितोऽपि विश्वदृक् ।
योऽन्तर्बहिश्चेतस एतदीहितं क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा ॥ १७ ॥
पदरत्नावली
ननु किं तव बहुलप्रलापेन । यतस्त्वं लोककण्टककंसभृत्यस् तत्प्रहितश्च । अतस्त्वय्यप्रियबुद्धिं कुर्यादच्युत इत्यादिमन्दसन्देहसन्दोहं परिहरन्नाह न मयीति । मय्यप्रियबुद्धिं नोपैत्येवेत्यत्र हेतुमाह विश्वदृगिति । विश्वदृक्त्वमेव विवृणोति य इति । योऽन्तर्बहिश्च व्याप्य स्थितः क्षेत्रज्ञशब्दवाच्यो भगवान् विष्णुश् चेतस एतदीहितं चेष्टितममलेन चक्षुषा ईक्षति । ‘इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः । क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ इति स्मृतेः क्षेत्रज्ञो भगवान् विष्णुरिति बोध्यम् ॥ १७ ॥
दुर्घटभावदीपिका
यः क्षेत्रज्ञः परमेश्वरश्चेतोऽन्तर्बहिश्च स्थितः सन् एतदीहितमेत्यस्य चेतस ईहितं चेष्टितममलेन चक्षुषेक्षतीति । एतेन चेतस ईहितमीक्षतीत्यनेन पूर्णत्वादन्तर्बहिरेतदिति पदत्रयं व्यर्थमिति दूषणस्यानवकाशः । स्थित इति शेषपूरणेन चेतसोऽन्तर्बहिश्च स्थितः सन् चेतस ईहितमीक्षतीत्यर्थस्योक्तत्वात् ॥ १७ ॥
सत्यधर्मीया
दुराशीस्तव प्रादुरासीदरेऽक्रूरारेः क्रूरस्य निदेशत एतद्देशमायात इति मतिमान्न दययेद्यदुनाथ इति मन्दसन्देहसन्दोहं परिहरन्नाह ॥ न मयीति । अच्युतः । अनेन कंसच्युति-रहितस्य मदहितप्रहितता किं तान्तिकर्त्रीति भावो ध्वन्यते । कंसस्य भृत्यस्तेन प्रहित इति मय्य-प्रियबुद्धिं नोपैति । मम मनः सद्वासद्वेति न परमुखविचार्यप्रमेय इत्याह । विश्वदृक् यश्चेतसोऽन्त-र्बहिश्चेहितं चेष्टितममलेन चक्षुषा क्षेत्रज्ञः क्षेत्राणि जानातीति स तथेक्षतीक्षते । इदं शरीरं कौन्तेय क्षेत्रभित्यभिधीयते । क्षेत्रज्ञं चापि मां विद्धीत्यादेः । ईक्षत्यमलेनचक्षुषेति पदमेकम् । ईक्षतेर्ना-शब्दमितिवद्धातुनिर्देशः । तेन तदर्थ ईक्षणं लक्ष्यते । ईक्षणसाधनं यदमलं तदीक्षत्यमलं तच्च तदिनयुक्तं सूर्यसहितं यच्चक्षुस्तेनैव यः क्षेत्रज्ञोऽपरोक्षीकृतसकलक्षेत्र इति फलितार्थ इति वा । अमलेतीनविशेषणं वा । अ ईषन्मलं यस्य सोऽमलश्चन्द्रश्चेनः सूर्यश्च ताभ्यां सहितं यच्चक्षुरिति वा । हेमसारङ्गलीलेत्यादेः । किञ्चित्सञ्चितमलस्यापि चन्द्रस्य चक्षुरन्तःस्थापनं दययैवेति मामपि तथैव दयास्पदं तनुयादेवेति ध्वनयति । अनेन लोकसाक्षित्वेनेक्षतेर्लक्षितलक्षणातो ज्ञानसाधनतया तदाश्रयौ तावेव, तद्युक्तचक्षुषा, षष्ठे सूर्योऽग्निः खं मरुद्भावः सोम इत्याद्युदाहृत्य स्फुटीकृतमनुसन्धेयम् ॥ १७ ॥
सुमनोरञ्जिनी
ननु सत्यमेवैतत् । यदिन्द्रादयो देवा भगवच्चरणारविन्दसेवासमासादितमहासंपद इति । परन्तु त्वं कंसभृत्यस्तेन प्रेषितश्चेति त्वय्यप्रीतिमानेव स्यादित्याशङ्क्य नैवं स्यादित्याह ॥ न मयीति ॥ यद्यपि अहं कंसभृत्यस् तेन प्रहितः प्रेषितश्च अपि तथापि अच्युतः श्रीकृष्णः मयि अप्रियबुद्धिम् अयमप्रिय इति बुद्धिं नोपैति न प्राप्नोति । कुतः । यतो विश्वदृक् सर्वसाक्षी मम मनोनैर्मल्यं जानातीत्यर्थः । तदेव विवृणोति ॥ य इति ॥ यो ऽन्तर्बहिश् चेतसः स्वरूपमनसो बाह्यमनसश्च । ईहितं व्यापारम् । अमलेन निर्दुष्टेन चक्षुषा ईक्षति पश्यति । अत एव क्षेत्रज्ञः क्षेत्रम् इदं शरीरं साकल्येन जानातीति तथोक्तः ॥ १७ ॥
अप्यङ्घ्रिमूले पतितं कृताञ्जलिं मामीक्षते सस्मितमार्द्रया दृशा ।
सपद्यपध्वस्तसमस्तकिल्बिषो वोढा मुदं वीतविशङ्क ऊर्जिताम् ॥ १८ ॥
पदरत्नावली
अपीति सम्भावनायाम् । आर्द्रया कृपामृतवर्षिण्या दृशा सस्मितं यथा भवति तथा मामीक्षते । ईक्षणफलमाह सपदीति । अपध्वस्तानि विनष्टानि समस्तानि किल्पिषाणि पापानि यस्य स तथा । वीता विगता विविधाः शङ्का यस्य स तथा । ऊर्जितामुद्रिक्तां मुदं वोढा वहिष्यामि
॥ १८ ॥
सत्यधर्मीया
कृताञ्जलिमङ्घ्रिमूले पतितं मां सस्मितं यथा तथाऽऽर्द्रयाऽऽनन्दोदकक्लिन्नया दृशेक्षतेऽपि स्वित्, सपदि तत्क्षणेऽपध्वस्तसमस्तकिल्बिषः सन्वीतविशङ्कोऽपगतमहासंशय ऊर्जितामुद्रिक्तां मुदं वोढा भविष्यामि ॥ १८ ॥
सुमनोरञ्जिनी
आर्द्रया दयार्द्रया दृशा । सस्मितं यथा भवति तथा अपीक्षते ईक्षते किम्? येनेक्षणेन अहं सपदि सत्वरम् । अपध्वस्ता अपास्ताः समस्ताः किल्बिषा यस्य स तथाविधः सन् । वीता विशङ्का यस्य सः वीतविशङ्को निःसंशयः । ऊर्जितां मुदं वोढयिष्यामीत्यन्वयः
॥ १८ ॥
सुहृत्तमं ज्ञातिमनन्यदैवतं दोर्भ्यां बृहद्भ्यां १परिरभ्यतेऽथ माम् ।
आत्मा हि तीर्थीक्रियते तदैव मे बन्धश्च कामात्मक २उच्छ्वसित्यतः ॥१९॥
पदरत्नावली
अथशब्दो मङ्गलार्थे । न विद्यते यस्मादन्यद् दैवतमुपास्यं यस्य स तथा । मां परिरप्स्यते आलिङ्गिष्यति तदैव आत्मा शरीरं तीर्थीक्रियतेऽतिपवित्रीकरिष्यते । अत एव मे कामात्मको विषयतृष्णालक्षणो बन्धश्च उच्छ्वसिति विच्छिन्नो भवति ॥ १९ ॥
सत्यधर्मीया
सुहृत्तमं तथा ज्ञातिं वंशसम्भवमनन्यदैवतं न विद्यतेऽन्यद्दैवतमुपास्यं यस्य तम् इति परिरम्भणकारणोदीरणम् । बृहद्भ्यां दोर्भ्यां यद्यात्मा स्वामी परिरभ्यते । अथानन्तरमात्मा शरीरं तीर्थीक्रियते तदैव मे मम कामात्मको विषयाभिलाषरूपो बन्धश्चातः परिरम्भणादेवोच्छ्वसिति स्रस्तो भवति । अतो देहादिति वा । अथेत्यनेन तदैवेत्यनेन च तदानन्तर्यप्रतीतेरतः परिरम्भणादित्यवक्तव्यमिति वदन्ति ॥ १९ ॥
सुमनोरञ्जिनी
अथ ईक्षणानन्तरम् । अनन्यदैवतं न विद्यतेऽन्यद्दैवतम् इष्टप्रदं यस्य तम् । सुहृत्तमं बन्धुं ज्ञातिं च माम् । बृहद्भ्यां दीर्घाभ्यां दोर्भ्याम् । यदा परिरभ्यते आश्लिषति । तदैव । अतः भगवदङ्गसङ्गाद्धेतोः । मे आत्मा देहो मनो वा तीर्थीक्रियते पवित्रीक्रियते । कामात्मकः विषयतृष्णालक्षणः बन्धः बन्धको वैरी । उच्छ्वसति विनश्यदवस्थां प्राप्नोतीत्यर्थः । निर्वीर्यो भवतीति यावत् । सर्वथा निर्वृतिस्तु योग्यापरोक्षानन्तरमिति भावः ॥ १९ ॥
लब्धाङ्गसङ्गं प्रणतं कृताञ्जलिं मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवाः ।
तदा वयं जन्मभृतो महीयसा नैवादृतो यो धिगमुष्य जन्म तत् ॥ २० ॥
पदरत्नावली
उरुश्रवा महाकीर्तिर्मां हे अक्रूर हे तत वत्सेति च यदा वक्ष्यते तदा वयं जन्मभृतः सफलीकृतजन्मानो भविष्यामः । ‘हेत्वनन्तरवत्सेषु ततःशब्दः प्रकीर्तितः’ इत्यभिधानम् । यस्तु महीयसा महत्तमेन भगवता नैवादृतोऽमुष्य तज्जन्म धिक् निन्द्यं निष्फलत्वादित्यर्थः ॥२०॥
सत्यधर्मीया
उरुश्रवा महाकीर्तिरेवं लब्धाङ्गसङ्गकृताञ्जलिं प्रणतं मां हे अक्रूर तत तात । तातेति वक्तुं जिह्वा जिह्रेतीति ततेत्युक्तिः । तातस्तत इति द्विरूपकोशोक्तेः । वक्ष्यते चेत्तदा वयं जन्मभृतः सार्थकीकृतजन्मानो महीयसाऽतिमहता कृष्णेन यो नैवादृतोऽमुष्य तस्य तज्जन्म धिक् निन्द्यमित्यर्थः ॥ २० ॥
सुमनोरञ्जिनी
उरुश्रवा उत्कृष्टकीर्तिः । यदा माम् । हे अक्रूर हे तत हे तातेति वक्ष्यते सम्बोधयति तदा वयं जन्मभृतः जन्मसाफल्यं प्राप्ता इति यावत् । नो चेन्नेत्याह ॥ महीयसेति ॥ महीयसा महात्मना यः पुमान् नादृतः प्रियसम्बोधनादिना आदृतो न भवति । अमुष्य पुंसः यज्जन्म तद् धिगेव निन्दितमेवेत्यर्थः ॥ २० ॥
न तस्य कश्चिद् दयितः सुहृत्तमो न १वाऽप्रियो द्वेष्य उपेक्ष्य २एव च ।
तथापि भक्तान् भजते यथा यथा ३सुरद्रुमो यद्वदुपाश्रितार्थदः ॥ २१ ॥
पदरत्नावली
तत्तत्स्वभावानुसारेण निग्रहानुग्रहकर्तुर्हरेः रागद्वेषाद्यशेषदोषदूरत्वमावेदयति नेति ॥ यथायथा स्वस्वयोग्यफलदानेन । वनस्पतिः कल्पतरुर्यवद् यथा उपाश्रितानां भक्तानामर्थद-स्तद्वत् । ‘वनस्पतिर्वृक्षमात्रे कल्पादौ पुष्पवर्जिते’ इत्युत्पलमाला ॥ २१ ॥
सत्यधर्मीया
देवदेवस्वभावमावेदयति ॥ नेति । तस्य कस्यचिद्योग्यतामतिक्रम्येति सर्वत्र ज्ञेयम् । सुहृत्तमोऽतिप्रियोऽप्रियोऽपि न वा नैव द्वेष्यो द्वेषपात्रमुपेक्ष्योऽपि नास्ति । तथाऽपि यथा यथा योग्यतामनुसृत्य भक्तान् भजतः स्वयमपि फलदानेन भजते विभज्य फलं ददातीति यावत् । तत्र निदर्शनमाह । सुरद्रुमः कल्पतरुरुपाश्रितार्थदो यद्वत्तद्वदिति । वनस्पतिरिति पाठे वनस्पतिर्वृक्षमात्रे कल्पादौ पुष्पवर्जित इत्युत्पलमालोक्तेर्वनस्पतिः सुरतरुरित्येवार्थः ॥ २१ ॥
सुमनोरञ्जिनी
वस्तुतस्तु अहं सुहृद् अहं प्रिय इत्यादिबुद्धिर्वृथैव । भक्तप्रियो भगवान् भक्त्यनुरूपमेव फलं प्रयच्छति नान्यथेत्येवंरूपामक्रूरचिन्तामाह ॥ नेति ॥ दयितः प्रेमास्पदः । सुहृत्तमः बन्धुर् अनिमित्तोपकारी वा । अप्रियो ऽप्रियकारी । द्वेष्यो द्वेषविषयः । तथापि भक्तान् यथा यथा तत्तद्योग्यतामनतिक्रम्य सेवानुसारिफलं दत्वेति । तत्र दृष्टान्तः वनस्पतिरिति । कल्पवृक्ष इत्यर्थः ॥ २१ ॥
किञ्चाग्रजो माऽवनतं यदूत्तमः स्मयन् परिष्वज्य गृहीतसञ्चितौ ।
गृहं प्रवेश्याप्तसमस्तसत्कृतं २सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु ॥ २२ ॥
पदरत्नावली
बलभद्रमुद्दिश्यापि कृतामक्रूरचिन्तां वक्ति किञ्चेति । कृष्णस्याग्रजो बलरामो गृहीतसञ्चितौ गृहीतपशुपादबन्धनरज्जौ स्वस्मिन्नवनतं मा मां तथा यदूत्तमः कृष्णश्च गृहीता जन्मान्तरगृहीता सञ्चितिः पुण्यसञ्चयो येन स तस्मिन् मयि दृष्टे सति स्मयन् सन् परिष्वज्यालिङ्ग्य गृहं प्रवेश्य आप्तानि समस्तानि सत्कृतानि सत्कारा येन स तं स्वबन्धुषु वसुदेवादिषु कंसकृतं कर्म सम्प्रक्ष्यते सम्प्रश्नं करिष्यति । ‘पादबन्धनपाशं तु पशूनां सञ्चितिं विदुः’ इति वररुचिः । ‘गृहीतमञ्जलौ’ इति परपाठस्त्वर्थाप्रतिभानमूलः कल्पितः ॥ २२ ॥
दुर्घटभावदीपिका
किं चान्यच्च यदूत्तमोऽग्रजः कृष्णस्याग्रजो बलरामो गृहीतसञ्चितौ गृहीतपशुपादबन्धनरज्जौ स्वस्मिन्नवनतं मा स्मयन्सन् परिष्वज्याप्तसमस्तसत्कृतं गृहं प्रविश्य स्वबन्धुषु कंसकृतं संप्रेक्ष्यत इति । एतेन गृहीतसञ्चितावित्यस्याग्रज इत्येतद्विशेषणत्वाद्गृहीतसञ्चितिरिति वक्तव्यं गृहीतसञ्चिताविति कथनमनुपपन्नमिति दूषणं निरस्तम् । गृहीतसञ्चितावित्यस्याग्रज इत्यनेनान्वयमनङ्गीकृत्याध्याहृतेन स्वस्मिन्नित्यनेनान्वय इत्यभ्युपगमात् ॥ २२ ॥
सत्यधर्मीया
इयता कृष्णकृतचिन्तामुक्त्वेदानीं बलराममुद्दिश्यापि कृतामक्रूरचिन्तां वक्ति ॥ किञ्चेति ॥ अग्रजो यदूत्तमो गृहीतसञ्चितौ गृहीता हस्ते या सञ्चितिः पशुपाशस्तस्यां सत्यामप्य-वनतं मां स्मयन्परिष्वज्यलिङ्ग्य गृहं प्रवेश्य, आप्तं समस्तं सत्कृतं सत्कारो येन स तम् । स्वबन्धुषु स्वो कृष्णः स्वयं च बन्धवो वसुदेवाद्यास्तेषु कंसकृतं कंसेन करिष्यमाणं कृतं कर्म सम्प्रक्ष्यते पृच्छेत्किम् । पदबन्धनपाशं तु पशूनां सञ्चितिं विदुरिति वररुचिः । गृहीतमञ्जलाविति पाठोऽर्था-प्रतिभानमूलः कल्पितः । गृहीता जन्मान्तरगृहीता सञ्चितिः पुण्यसञ्चयो येन तस्मिन् मयि दृष्टे स्मयन्निति वा । गृहीतमानन इति सुगमः पाठः । यद्वाऽग्रजो रामो यदूत्तमो कृष्णः पृथक् पृथगन्वयात्सम्प्रक्ष्यत इत्याद्युपपन्नम् । इति सञ्चिन्तयन्कृष्णमित्युपसंहारानुसारस्वारस्यमत्र ज्ञेयम्
॥ २२ ॥
सुमनोरञ्जिनी
इदानीं बलभद्रमुद्दिश्य कृतामक्रूरचिन्तामाह ॥ किञ्चाग्रज इति ॥ हस्ते गृहीता सञ्चितिः पशुपादबन्धनरज्जुर्येन स तथोक्तः । तथाविधे सति कृष्णे पशुबन्धनादिकार्यान्तरासक्त इति यावत् । पादबन्धनपाशन्तु पशूनां सञ्चितिं विदुरिति वररुचिः । अवनतं मां यदूत्तमो ऽग्रजो रामः । स्मयन् स्मितं कुर्वन् । परिष्वज्य गृहं प्रवेश्य च । आत्ता स्वीकृता समस्तसत्कृतिर्येन तथाविधं मां प्रति । स्वबन्धुषु वसुदेवादिविषये कंसकृतं कंसेन क्रियमाणं संप्रक्ष्यते किमित्यन्वयः । कृष्णे कार्यान्तरासक्ते सति अग्रजो रामो वा मां गृहं प्रवेश्य सत्कारं कृत्वा स्वबन्धुवृत्तांतं सम्प्रक्ष्यते वा न वेति भावः ॥ २२ ॥
श्रीशुक उवाच—
इति सञ्चिन्तयन् कृष्णं श्वफल्कतनयोऽध्वनि ।
रथेन गोकुलं प्राप्तः सूर्यश्चास्तगिरिं नृप ॥ २३ ॥
सत्यधर्मीया
अध्वनि निःशब्दं यथा तथा चिन्तयन्सूर्यश्चात्प्राप्त इत्यन्वय इति सूचयति
॥ २३ ॥
सुमनोरञ्जिनी
इति एवं प्रकारेण । अध्वनि मार्गे । कृष्णमुद्दिश्य सञ्चिन्तयन् श्वफल्कतनयोऽक्रूरः रथेन गोकुलं प्राप्तः । सूर्यश्चास्तं गिरिं प्राप्तो ऽस्तंगत इत्यर्थः ॥ २३ ॥
पदानि तस्याखिललोकपालकिरीटचूडामणिपादरेणोः ।
ददर्श गोष्ठे क्षितिकौतुकानि विलिक्षितान्यब्जयवाङ्कुशाद्यैः ॥ २४ ॥
पदरत्नावली
अखिललोकपालानां हिरण्यगर्भभर्गादीनां किरीटेषु चूडामणय इव देदीप्यमाना पादरेणवो यस्य तस्य वासुदेवस्य क्षितिकौतुकानि भूमेर्मङ्गलकराणि अब्जादिभिर्विलक्षितानि लाञ्छितानि पदानि गोष्ठे ददर्श । ‘विवाहहस्तसूत्रे च मङ्गले कौतुकं विदुः’ इत्यभिधानम् ॥ २४ ॥
सत्यधर्मीया
अखिललोकपालानां किरीटेषु मुकुटेषु चूडामणय इव विद्यमानाः पादरेणवो यस्य तस्य गोष्ठे क्षितिकौतुकानि क्षितेः कौतुकं मङ्गलं यैस्तानि गतम् । अब्जयवाङ्कुशाद्यै-र्विलक्षितानि चिह्नितानि पदानि ददर्श ॥ २४ ॥
सुमनोरञ्जिनी
अखिला ये लोकपाला इन्द्रादयस् तेषां किरीटचूडामणिषु पादरेणवो यस्य । किरीटेषु चूडामणिवद्विद्यमानाः पादरेणवो यस्येति वा । तस्य श्रीकृष्णस्य पदानि पादाङ्कानि । कीदृशानि क्षितिकौतुकानि क्षितेर् भूमेः कौतुकानि मङ्गलकराणि । अब्जयवांकुशाद्यैः । आद्यशब्देन ध्वजवज्रादयः । तैर् विशेषेण लक्षितानि चिह्नितानि । इतरपदविलक्षणतया ज्ञातानीति वा
॥ २४ ॥
तद्दर्शनाह्लादविवृद्धसम्भ्रमः प्रेम्णोत्थरोमाऽश्रुकलाकुलेक्षणः ।
रथादवस्कन्द्य स तेष्वचेष्टत प्रभोरिमान्यङ्घ्रिरजांस्यहो इति ॥ २५ ॥
पदरत्नावली
तेषां पादानां दर्शनेन जनितो य आह्लादस्तेन विवृद्धः सम्भ्रमो भक्त्युद्रेको यस्य स तथा । उत्थानि उदञ्चितानि रोमाणि यस्य स तथा । अश्रुकलाभिश्चाकुले ईक्षणे यस्य स तथा । उभयत्रापि हेतुः प्रेम्णेति । रथादवस्कन्द्य अवप्लुत्य अहो प्रभोर् जगदीशितुरिमानि अजभवादिभ्राजत्किरीटमणिलोचनगोचराण्यङ्घ्रिरजांसीति विजानन् तेष्वचेष्टत विलुलोठ ॥ २५ ॥
सत्यधर्मीया
तद्दर्शनेन जनिताल्हादस्तेन विवृद्धः सम्भ्रम आदरो यस्य सः । उत्था रोमाञ्चा यस्य स चासावश्रुकलाभिश्चाकुले ईक्षणे यस्य स च । उभयत्रापि हेतुः प्रेम्णेति । प्रेमा । क्वचित्प्रेमोत्थेति पाठः । स प्रेमावहः । रथात्स्वोपविष्टादवस्कन्द्य तत्र पारवश्यमनेन ध्वन्यते । प्रभोरिमान्यङ्घ्रिरजांसि अहो इति । तेषु रजस्सु अचेष्टत व्यलुण्ठत् । प्रेमोर्ध्वरोमा इति पाठोऽपि रोमहर्षदः । अहो इति तद्दौर्लभ्यं विभावयति ॥ २५ ॥
सुमनोरञ्जिनी
तेषां पादचिह्नानां दर्शनेन जनितो य आह्लाद आनन्दस् तेन विवृद्धः सम्भ्रम उत्सवविशेषो यस्य सः । प्रेम्णा भक्त्या उत्थानि रोमाणि यस्य सः । रोमाञ्चितविग्रह इत्यर्थः । अश्रुकलाभिर् अश्रुबिन्दुभिर् आकुले ईक्षणे यस्य स तथोक्तः सो ऽक्रूरः रथादवस्कन्द्य अवप्लुत्य । इमानि प्रभोः श्रीकृष्णस्य अङ्घ्रिरजांसि । अहो इत्यास्वादने । इति मन्वानस् तेषु । अचेष्टत अलुंठत ॥ २५ ॥
ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ ।
पीतनीलाम्बरधरौ १शारदाम्बुरुहेक्षणौ ॥ २६ ॥
पदरत्नावली
स्वभक्तसर्वेप्सितदोहदक्षतां सन्दर्शयितुमग्रजेन सह गोदोहनकर्मणि स्थितं जगदेकगुरुं निजप्रभुमक्रूरः पश्यतीत्याह ददर्शेति । गोदोहनं गोदोहनव्यापारं गतौ ॥ २६ ॥
दुर्घटभावदीपिका
कृष्णं राममित्यनयोर्ददर्शेत्यनेनान्वयमुक्त्वा व्रजे गोदोहनं गतावित्यादीनां बलकेशवावित्यनेनान्वयमुक्त्वा बलकेशवावित्यस्य ददृशेत्यनेनान्वयो वक्तव्यः । एतेन व्रजे गोदोहनं गतावित्यादिद्विवचनान्तशब्दानां कृष्णं राममित्येकवचनान्तशब्दाभ्यामनन्वय इति शङ्का परास्ता । रामं कृष्णं ददर्शेत्युक्त्वा तद्विवरणं व्रजे गोदोहनं गतावित्यादिना क्रियत इत्यभ्युपगमात् ॥ २६ ॥
सत्यधर्मीया
गोदोहनं तत्स्थानं गतौ प्राप्तौ गोदोहनं क्षीरक्षारणव्यापारं गताविति वा । पीतं च नीलं चेत्यम्बरयोर्धरौ ॥ २६ ॥
सुमनोरञ्जिनी
गोदोहनमुद्दिश्य व्रजे गोष्ठे गतौ विद्यमानौ कृष्णं रामं चेत्येतौ । ददर्शेत्यन्वयः । क्रमेण पीतनीलाम्बरधरौ ॥ २६ ॥
किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ ।
सुसुखौ सुन्दरवरौ बालद्विरदविक्रमौ ॥ २७ ॥
पदरत्नावली
श्रीनिकेतौ अतिकान्तिमन्तौ ॥ २७ ॥
सत्यधर्मीया
श्यामलश्च श्वेतश्च वर्णतस्तौ । श्रीरेकत्र रमा परत्र शोभावन्तौ नासत्येद्या-श्रयणाच्छ्रिय ईरितेत्यादेर्वारुणी वा रेवती वा तन्निकेतौ ॥ बलमूलरूपविवक्षातो विषं श्रीस्तन्निकेत इति वा गतम् ॥ २७ ॥
सुमनोरञ्जिनी
किशोरौ तद्वयस्कौ शामलश्वेतौ कृष्णः शामलः रामः श्वेतः । श्रियः शोभाया निकेतौ आश्रयौ । बालद्विरदवत् करिण्योतवद् विक्रमः पराक्रमः पादविन्यासो वा ययोस्तौ । गजराजगती इत्यर्थः ॥ २७ ॥
ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्व्रजम् ।
शोभमानौ महात्मानौ सानुक्रोशस्मितेक्षणौ ॥ २८ ॥
पदरत्नावली
अनुक्रोशेन दयया स्मितेन च सहितमीक्षणं ययोस्तौ तथा ॥ २८ ॥
सत्यधर्मीया
सानुक्रोशानि सदयानि सस्मितानि विकसितानीक्षणानि ययोस्तौ शोभमानौ शोभयन्तौ ॥ २८ ॥
सुमनोरञ्जिनी
शोभमानौ शोभयन्तौ । अनुक्रोशो दया स्मितं च ताभ्यां सहितमीक्षणम् अवलोकनं ययोस्तौ ॥ २८ ॥
उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ ।
पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ ॥ २९ ॥
पदरत्नावली
उदारा महती रुचिरा मनोरमा क्रीडा ययोस्तौ तथा । ‘उदारो महति ख्याते दक्षिणे दानशौण्डके’ इति यादवः । स्रग्विणौ रत्नमालाधरौ । पुण्येन श्रेष्ठेन गन्धेनानुलिप्तान्यङ्गानि ययोस्तौ तथा ॥ २९ ॥
सत्यधर्मीया
उदारा महती रुचिरा मनोज्ञा क्रीडा ययोस्तौ । इदानीमक्रीडौ न विद्यते क्रीडा ययोस्तौ । गोदोहनं गतावित्युक्तिस्वारस्यात् । तावुदाररुचिर्ददर्शेत्यन्वयः । स्रग्विणौ इतरसरसरसौ । वनमालिनौ आपादपद्मं लसतीं वनमालां विदुर्बुधा इति वचनाद्वनमाला ययोर्वनमालामुद्दिश्यायाता आ अलिनो भ्रमरा भ्रमन्तो ययोस्ताविति वा । विरजवाससौ गतम्
॥ २९ ॥
सुमनोरञ्जिनी
उदारा उत्कृष्टा रुचिरा क्रीडा ययोस्तौ । स्रग्विणौ वनमालातिरिक्तमुक्ता-मालादिमन्तौ । पुण्यगन्धेन मनोहरचन्दनादिना । पुण्यं वल्गु मनोहरमित्यमरः । विरजवाससौ निर्मलाम्बरौ ॥ २९ ॥
प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती ।
अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ॥ ३० ॥
तात्पर्यम्
वैन्यपार्थबलेशादावाविष्टं पुरुषोत्तमम् । अपेक्ष्य तद्गुणाः सर्वे तज्जीवा-नामभाविनः । अप्युच्यन्ते पुराणेषु विशेषात्सन्निधिर्यत’ इति माहात्म्ये ॥ ३० ॥
पदरत्नावली
प्रधानौ स्वतन्त्रौ च तौ पुरुषौ पुरुः पूर्णः षः प्रणेतृत्वं व्याप्तत्वं च ययोस्तौ च प्रधानपुरुषौ । ‘आततत्वं सर्वगुणैर्देशतः कालतस्तथा । आत्मशब्दोदितं तच्च षशब्देनाभिधीयते । ष इत्याक्रियमाणत्वं प्रणेतृत्वं च पूर्णता’ इत्यैतरेयभाष्योक्तेः । आद्यौ सृष्टेः पूर्वं विद्यमानौ । जगद्धेतू जगन्निमित्तभूतौ । जगत्पती जगत्स्वामिनौ । जगत्यर्थे विश्वम्भराया भारापनोदनाय स्वांशेन शुक्लकेशेन कृष्णकेशेन बलकेशवौ सन्ताववतीर्णौ । न चात्र बलरामकृष्णयोः साम्यं सिद्धमिति चोद्यम् । निरवधिकस्वातन्त्र्यादिगुणा बलरामेऽविद्यमाना अपि तस्मिन् विष्णोर्विशेषसन्निधानज्ञापनाय बलरामाविष्टविष्णुगुणकथनमिदमित्यवधेयम् । तदुक्तं माहात्म्ये– ‘वैन्यपार्थबलेशादावाविष्टं पुरुषोत्तमम् । अपेक्ष्य तद्गुणाः सर्वे तज्जीवानामभाविनः । अप्युच्यन्ते पुराणेषु विशेषात् सन्निधिर्यतः’ इति
॥ ३० ॥
सत्यधर्मीया
प्रधानपुरुषावित्यत्र प्रधानपुरुषत्वाद्यत्वाद्यं साम्येन केशवरामयोः शंसितमिव भाति । इदं कथमित्यतो मानेन तद्वास्तवार्थं दर्शयति ॥ वैन्यपार्थेति ॥ वैन्यः पृथुः । पार्थः पृथासुतोऽर्जुनो बलस्तु प्रस्तुत ईशः शिव एत एवादयो यस्य वासवादिस्तस्मिन्नाविष्टं पुरुषोत्तमं भगवन्तमपेक्ष्य तद्गुणास्तज्जीवानां वैन्यदिजीवेष्वभाविनोऽविद्यमाना अपि पुराणेषु विशेषाद्यतस्तेषु सन्निधिस्तत उच्यन्त इत्यन्वयः । इति माहात्म्ये तन्नामग्रन्थे ॥ अथ मूलार्थः प्रधानपुरुषावाद्यौ सर्वादिभावौ । जगद्धेतू जगन्निमित्तभूतौ । तथा तत्स्वामिनौ जगत्यर्थे भूप्रार्थनातस्तदर्थे स्वांशेन कृष्णेन शुक्लेन केशेन च ॥ ३० ॥
सुमनोरञ्जिनी
प्रधानपुरुषौ उत्तमपुरुषौ । जगत्या भूम्या अर्थे प्रयोजनाय । बलकेशव-नामानौ भूत्वा अवतीर्णौ । ननु कथं बलभद्रे प्रधानपुरुषत्वादयो भगवतो गुणा उच्यन्ते । तस्य शेषावतारत्वेन तदयोग्यत्वादिति चेदत्रोक्तं भगवत्पादैः ।
वैन्यपार्थबलेशादावाविष्टं पुरुषोत्तमम् ।
अपेक्ष्य तद्गुणाः सर्वे तज्जीवानामभाविनः ।
अप्युच्यन्ते पुराणेषु विशेषात्सन्निधिर्यतः । इति माहात्म्य इति । वैन्यः पृथुः । पार्थोऽर्जुनः । बलो बलभद्रः । ईशो रुद्रः । तेषु आविष्टं पुरुषोत्तमम् । अपेक्ष्यैव तज्जीवानामभाविनः भवितुमयोग्या अपि तस्य हरेर् गुणाः पुराणेषूच्यन्ते । अतो न विरोध इत्यर्थः । तज्जीवानामयोग्या अपि भगवद्गुणास् तदाविष्टभगवद्विवक्षयैवोच्यन्त इति भावः । यद्यन्तर्गतभगवद्विवक्षया भगवद्गुणास्तेषूच्यन्ते तर्ह्यन्यत्रापि तद्गुणाः किं नोच्यन्ते । सर्वत्रान्तर्यामितया भगवतः सन्निधानादित्यत उक्तम् ॥ विशेषादिति ॥ विशेषसन्निधानमेव तत्र निमित्तमिति भावः ॥ ३० ॥
दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया ।
यथा १मरकतः शैलो रौप्यश्च २कनकान्वितौ ॥ ३१ ॥
पदरत्नावली
मारकत इन्द्रनीलमणिमयः शैल इन्द्रनीलाख्यपर्वतः, रौप्यो रूप्यमयः शैलः कैलासपर्वतश्च यथा कनकाचितौ सुवर्णव्याप्तौ विरजेते तथा स्वया असाधारण्या प्रभया दश दिशो वितिमिराः कुर्वाणौ कनकाचितौ सौवर्णाभरणसम्बद्धौ नीलवर्णं कृष्णं धवलवर्णं रामं च ददर्श । ‘यदेतदादित्यस्य कृष्णं रूपम्’ इति छान्दोग्योक्तेर् यथा आदित्यस्य कृष्णप्रभा तिमिरापहा तथा मरकतकृष्णप्रभाऽपि दिशो वितिमिराः करोतीति युक्तम् । तस्मात् कृष्णस्य कृष्णप्रभायाः कृष्णवर्णतिमिरनिरासकत्वं कथमिति मन्दाशङ्का दूरोत्सारिता ॥ ३१ ॥
दुर्घटभावदीपिका
हे राजन् । स्वया प्रभया दिशो वितिमिरा विगतान्धकाराः कुर्वाणौ कनका-चितौ सौवर्णाभरणसंपन्नौ बलकेशवौ ददर्शेति पूर्वेणान्वयः । बलकेशवयोर्मध्ये केशवो यथा कनकाचितौ कनकाचितः कनकसम्बन्धो मरकतः शैलस्तथा । तत्सदृशः । बलो यथा कनकाचितौ रौप्यः शैलस्तथा तत्सदृश इति । एतेन मरकत इत्यादि प्रथमैकवचनान्तशब्दानां बलकेशवाविति द्वितीयाद्विवचनान्तशब्देनानन्वयः कथमिति चोद्यं निरस्तम् । बलकेशवावित्यस्यार्थवशाद्बलकेशवयोरिति विपरिणामं कनकाचितावित्यस्य कनकाचित इति विपरिणाममावृत्तिं च मध्य इत्यादीनां शेषं चाङ्गीकृत्य मरकत इत्यादिशब्दानामन्वयस्योक्तत्वात् ॥ ३१ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे षट्त्रिंशोऽध्यायः ॥ १०-३६ ॥
सत्यधर्मीया
वितिमिरा निरन्धकारा मरकतः शैल इन्द्रनीलपर्वतस्तथा कृष्णो रौप्यो रूप्यं रजतं तन्मयश्च कैलासादिस्तद्वदुभावपि । कनकान्वितावकराकरत्वात्तथा तथेति । कृष्णकृष्णप्रभापि तमोनिवारयित्री तदेतदादित्यस्य कृष्णं रूपमिति छान्दोग्योक्तेस्तद्यथा तमःपरिहारकृत्तथेति मन्तव्यम् । न श्यामलताभ्राष्ट्रवत्किन्त्विन्द्रनीलकान्तिरप्यन्तःशुभ्रेति तमोहृतिः सम्भवतीत्येके । अत्र कनकाभरण-सम्बद्धावित्यर्थः ॥ ३१ ॥
सुमनोरञ्जिनी
वितिमिरा विगतान्धकाराः । मरकतः मरकतमणिमयः । रौप्यः रजतमयः । इत्येतौ शैलौ कनकांचितौ कनकालंकृतौ यथा तथेति भावः ॥ ३१ ॥
रथात् तूर्णमवप्लुत्य सोऽक्रूरः स्नेहविह्वलः ।
पपात चरणोपान्ते दण्डवद् रामकृष्णयोः ॥ ३२ ॥
सत्यधर्मीया
अवप्लुत्यावस्कन्द्य । स्नेहो भक्तिस्तेन विह्वलश्चलत्कलेवरः ॥ ३२ ॥
सुमनोरञ्जिनी
स्नेहविह्वलः भक्तिपरवशः । सोऽक्रूरः । रथात् तूर्णं शीघ्रम् अवप्लुत्य अवरुह्य । रामकृष्णयोश् चरणोपान्ते पादसमीपप्रदेशे दण्डवत् पपात । साष्टाङ्गं प्रणनामेति योजना
॥ ३२ ॥
भगवद्दर्शनाह्लादबाष्पपर्याकुलेक्षणः ।
पुलकाङ्कित औत्कण्ठ्यात् स्वाख्याने नाशकन्नृप ॥ ३३ ॥
पदरत्नावली
स्वाख्याने स्वनामादिकथने ॥ ३३ ॥
सत्यधर्मीया
औत्कण्ठ््यादुत्कण्ठायाः । उत्कण्ठोत्कलिके सम इत्यमरः । व्याख्यातु-मक्रूरोऽहं भो अभिवादयामीति भाषितुं नाशकत्समर्थो न बभूव ॥ ३३ ॥
सुमनोरञ्जिनी
भगवद्दर्शनोत्थाह्लादेन यद्बाष्पं तेन पूर्णे आकुले चंचले ईक्षणे यस्य सस् तथोक्तः । पुलकैर् अङ्कितम् अङ्गं यस्य सः । औत्कण्ठ््यात् । व्याख्यातुं सम्भाषणं कर्तुं नाशकत्
॥ ३३ ॥
भगवांस्तदभिप्रेत्य रथाङ्गाङ्कितपाणिना ।
परिरेभेऽभ्युपाकृष्य प्रीतः प्रणतवत्सलः ॥ ३४ ॥
पदरत्नावली
तद् भक्तिभारपारवश्येनाव्याहरणम् । रथाङ्गेन सुदर्शनचक्रेणाङ्कितो यः पाणिस्तेन
॥ ३४ ॥
सत्यधर्मीया
रथाङ्गं चक्रं तेनाङ्कितश्चासौ पाणिर्हस्तश्च तेन । तत्स्नेहपारवश्येनाव्याहरणं हरिरभिप्रेत्य ज्ञात्वाऽभि स्वप्रमुखमुपाकृष्य प्रीतः प्रणतवत्सलः परिरेभे आलिलिङ्गे ॥ ३४ ॥
सुमनोरञ्जिनी
भगवान् श्रीकृष्णस् तत्, आह्लादातिशयेन स्वागमनकारणं वक्तुमशक्त इत्येतद् अभिप्रेत्य ज्ञात्वा । रथाङ्गं चक्रम् । तेन अङ्कितेन पाणिना । अभ्युपाकृष्य आभिमुख्येन समीप-मानीय । परिरेभे आलिङ्गितवान् ॥ ३४ ॥
सङ्कर्षणश्च प्रणतमुपगुह्य महामनाः ।
गृहीत्वा पाणिना २पाणिमनयत् सानुजो गृहम् ॥ ३५ ॥
पदरत्नावली
उपगुह्य परिरभ्य ॥ ३५ ॥
सत्यधर्मीया
सङ्कर्षणश्च प्रणतमक्रूरं महामना उपगुह्यालिङ्ग्य पाणिना पाणिं गृहीत्वा सानुजो रामो गृहमनयत् ॥ ३५ ॥
सुमनोरञ्जिनी
सङ्कर्षणश्च बलरामोऽपि । प्रणतमक्रूरमुपगुह्य आलिङ्ग्य । पाणिना स्वपाणिना पाणिम् अक्रूरस्य पाणिं गृहीत्वा । सानुजः सन् । गृहमनयत् ॥ ३५ ॥
पृष्ट्वाऽथ स्वागतं तस्मै निवेद्य परमासनम् ।
प्रक्षाल्य विधिवत् पादौ मधुपर्कार्हमाहरत् ॥ ३६ ॥
पदरत्नावली
मधुपर्कसहितमर्हमर्हणम् आहरत् समार्पयत् । ‘मधुपर्कं च सक्षौद्रं दधि प्रोक्तं मनीषिभिः’ इति वचनाद् दधिमधुसंसृष्टं मधुपर्कमित्यवधेयम् ॥ ३६ ॥
सत्यधर्मीया
स्वागतं पृष्ट्वा तस्मै परमासनं परममासनं वा निवेद्य विधिरतिथिसत्कार-बोधकसमयसहितं यथा तथा पादौ प्रक्षाल्य मधुपर्कार्हं मधुपर्करूपमर्हणसाधनमहरदानिनाय । मधुपर्कं च सक्षौद्रं दधि प्रोक्तं मनीषिभिरिति वचनात्तदर्थो ज्ञेयः । दधि मध्विति संसृज्य कांस्येन वर्षीयसा पिधाय कूर्चाभ्यां प्रतिगृह्य मधुपर्क इति प्राह । त्रिवृतमेकं घृतं च प्राङ्क्तमेकधानाः सक्तुश्चेति गृह्यसूत्राद्दधिमधुसंसृष्टं मधुपर्कः । पयो वा मधुसंसृष्टमभाव उदकमिति धर्मसूत्राच्च तत्प्रकारो ज्ञेयः
॥ ३६ ॥
सुमनोरञ्जिनी
अथ अनन्तरम् । तस्मै अक्रूराय । परमासनं निवेद्य दत्वा । स्वागतं पृष्ट्वा । विधिवत्पादौ प्रक्षाल्य । मधुपर्कार्हं मधुपर्कपूजाम् । आहरद् दत्तवान् ॥ ३६ ॥
निवेद्य गां चातिथये संवाह्य श्रान्तमादृतः ।
अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद् विभुः ॥ ३७ ॥
पदरत्नावली
संवाह्य पादसंवाहनं कृत्वा । मेध्यं पवित्रं बहुगुणं षड्रसोपेतम् ॥ ३७ ॥
सत्यधर्मीया
संवाह्य पादौ । मेध्यं पवित्रं बहुगुणं षड्रसोपेतम् ॥ ३७ ॥
सुमनोरञ्जिनी
तदङ्गत्वेन गां च अतिथये निवेद्य । आदृत आदरेण युक्तः । संवाह्य पादाविति शेषः । बहुविधं षड्रसोपेतमन्नम् उपाहरद् आनीय समर्पितवान् ॥ ३७ ॥
तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित् ।
मुखवासैर्गन्धमाल्यैः परां प्रीतिं व्यधात् पुनः ॥ ३८ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे षट्त्रिंशोऽध्यायः ॥
पदरत्नावली
मुखवासैरेलालवङ्गकर्पूरताम्बूलादिभिः ॥ ३८ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे षट्त्रिंशोऽध्यायः ॥
सत्यधर्मीया
मुखवासैरेलालवङ्गजातीफलाद्यैर्गन्धमाल्यैश्च पुनः परां प्रीतिं व्यधादकरोत्
॥ ३८ ॥
॥ इति श्रीभागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे षट्त्रिंशोऽध्यायः ॥ १०-३६ ॥
सुमनोरञ्जिनी
रामः, परमधर्मविद् बन्धुदर्शनानन्तरं कर्तव्यक्रियमाणकुलाचाराभिज्ञः । भुक्तवते तस्मै अक्रूराय । मुखवासैर् एलालवङ्गादियुक्तताम्बूलादिभिः । गन्धैः पुष्पैश्च । प्रीतिम् आनन्दम् ॥ ३८ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां (गूढकर्तृकायां)
सुमनोरञ्जिन्यां षट्त्रिंशोऽध्यायः ॥ १०-३६ ॥