केशी तु कंसप्रहितः खुरैर्महीं महाहयो निर्दरयन् मनोजवः
॥ अथ पञ्चत्रिंशोऽध्यायः ॥
श्रीशुक उवाच—
केशी तु कंसप्रहितः खुरैर्महीं महाहयो निर्दरयन् मनोजवः ।
सटावधूताभ्रविमानसङ्कुलं कुर्वन् नभो ह्रेषितभीषिताखिलः ॥ १ ॥
पदरत्नावली
देवकार्याभिज्ञस्य नारदस्य वर्तमानवर्तिष्यमाणचरितमतिरासीदिति प्रमेयं प्रकाशयत्यस्मिन्नध्याये । तत्रादौ केशिदैत्यवधलक्षणं भगवद्विक्रमं वक्तुमुपक्रमते केशीति ॥ कंसेन प्रहितः प्रेषितो महाहयो महाश्वः सन् खुरैर्मही निर्दरयन् विदारयन् । मनस इव जवो वेगो यस्य स तथा । सटाभिः स्कन्धगतदीर्घरोमभिरवधूतानि इतस्ततः क्षिप्तान्यभ्राणि विमानानि च तैः सङ्कुलम् । ह्रेषितेनाश्वजातिशब्देन भीषितमखिलं येन स तथा । ‘हेष ह्रेषा च वाजिनाम्’ इति हलायुधः
॥ १ ॥
सत्यधर्मीया
नारदः स्वस्य वर्तमानवर्तिष्यमाणचरितमतिरस्तीति सूचयितुं तथाऽस्तौषीदिति प्रमेयं निरूप्यते । तत्रादौ कंसशंसितः केशी किं चकारेत्यत ईरयति ॥ केशी त्विति ॥ कंसेन प्रहित आदिष्टो महाहयस्तदाकारः खुरैर्महीं निर्दरयन्भिन्दन्मनोजव इवेत्यूहनाज्ज्ञातः सटाभिः स्कन्दगतरोमभिरवधूतान्यभ्राणि मेघा विमानानि च तैः सङ्कुलं नभो गगनं कुर्वन् ह्रेषितात्स्व-शब्दाद्भीषितमखिलं येन सः ॥ १ ॥
सुमनोरञ्जिनी
केशिवधलक्षणं भगवद्विक्रमं वक्तुमुपक्रमते ॥ केशीति ॥ केशी नामतः । कंसेन प्रहितः प्रेषितः । महाहयरूपी महीं खुरैर् निर्दरयन् नितरां दलयन् । निर्विद्येत्यादिवन् निरोऽपि नितरामित्यर्थकता युज्यते । नभः । सटाः स्कन्धगतरोमावलयः । ताभिरवधूतानि निरस्तानि अभ्राणि विमानानि च । तैः संकुलं निबिडं कुर्वन् । ह्रेषितेन अश्वजात्युचित्तेन गर्जनेन भीषितम् अखिलं येन सः ॥ १ ॥
विशालनेत्रो विकटास्यकोटरो बृहद्गलो नीलमहाम्बुदोपमः ।
दुराशयः कंसहितं चिकीर्षुर्व्रजं स नन्दस्य जगाम कम्पयन् ॥ २ ॥
पदरत्नावली
विकटं विकरालमास्यकोटरं मुखविवरं यस्य स तथा । ‘विकटः सुन्दरो श्रेष्ठे विशालविकरालयोः’ इत्युत्पलमाला । दुराशयः कृष्णजिघांसात्मकदुष्टाभिप्रायः ॥ २ ॥
सत्यधर्मीया
विशालौ नेत्रौ यस्य सः । विकटं विशालं विकरालं वाऽऽस्यं कोटरं गर्तं यस्य सः । विकटः सुन्दरे प्रोक्तो विशालविकरालयोरिति विश्वः । बृहद्गलः स्थूलगलप्रदेशः । नीलमहाम्बुदेनोपमा सादृश्यं यस्य सः । दुर्दुष्ट आशयोऽभिप्रायो यस्य सः । नन्दस्य नन्दगोपस्य व्रजं कम्पयन्नन्दस्य मुदो व्रजं कम्पयंश्चालयन्नित्यप्यर्थो जगाम ॥ २ ॥
सुमनोरञ्जिनी
विकटं विस्तृतम् आस्यकोटरं मुखगर्तं यस्य सः । दुराशयः दुष्टाभिप्रायः । व्रजं कंपयन् जगामेति सम्बन्धः ॥ २ ॥
तं त्रासयन्तं भगवान् स्वगोकुलं १स्वह्रेषितैर्बालविघूर्णिताम्बुदम् ।
आत्मानमाजौ मृगयन्तमग्रणीरुपाह्वयन्स व्यनदन् मृगेन्द्रवत् ॥ ३ ॥
पदरत्नावली
बालेन पुच्छेन विघूर्णिताः परिभ्रामिता अम्बुदा येन स तथा । आजौ सङ्ग्रामार्थमिति तादर्थ्ये सप्तमी । आत्मानं कृष्णं मृगयन्तमन्वेषयन्तमग्रणीस्तत्पुरस्सर आह्वयदाजुहाव । स वासुदेवो मृगेन्द्रवद् व्यनदज् जगर्ज ॥ ३ ॥
सत्यधर्मीया
स्वह्रेषितैर्गोकुलं त्रासयन्तं बालेन पुच्छेन विघूर्णिता अम्बुदा येन तमात्मानं स्वमाजौ युद्धविषये मृगयन्तमग्रणीस्तत्पुरःसर आह्वयन्स मृगेन्द्रवद्व्यनदन्ननाद ॥ ३ ॥
सुमनोरञ्जिनी
स्वह्रेषितैः स्वगोकुलं गोसमुदायं त्रासयन्तम् । बालेन पुच्छेन विघूर्णिताः सम्भ्रान्ता इतस्ततश्चालिता इति यावत् । अम्बुदा येन तम् । आजौ युद्धार्थम् । आत्मानं स्वं मृगयन्तम् । अग्रणीर् अभिमुखं गच्छन् । मृगेन्द्रवत् सिंहवत् । नदन् ध्वनिं कुर्वन् स कृष्ण उपाह्वयद् आह्वयामास ॥ ३ ॥
स तं निशम्याभिमुखो मुखेन खं पिबन्निवाभ्यद्रवदत्यमर्षणः ।
जघान पद्भ्यामरविन्दलोचनं दुरासदश्चण्डजवो दुरत्ययः ॥ ४ ॥
पदरत्नावली
तं कृष्णनादम् । अत्यमर्षणोऽत्यन्तक्रोधयुक्तः । दुरासदो ऽन्यैरासादितु-मभिभवितुमशक्यः । दुरत्ययं दुरतिक्रमः ॥ ४ ॥
सत्यधर्मीया
स केशी तं केशवनादं यो दुरत्ययस्तमरविन्दलोचनं पद्भ्यां जघानेत्यप्यन्वयः
॥ ४ ॥
सुमनोरञ्जिनी
स तं नादम् । नभस्थलं पिबन्निव मुखं व्यादायेति शेषः ॥ ४ ॥
तद् वञ्चयित्वा तमधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः ।
सावज्ञमुत्सृज्य धनुःशतान्तरे यथोरगं तार्क्ष्यसुतो व्यवस्थितः ॥ ५ ॥
पदरत्नावली
तत् पादहननम् । तं केशिनं दोर्भ्यां स्वहस्ताभ्यां निहन्तंु प्रसारितयोः पादयोः प्रगृह्य परिविध्य भ्रामयित्वा धनुश्शतान्तरे सावज्ञं सानादरं यथा तथोत्सृज्य प्रक्षिप्य व्यवस्थितः विशेषेण लीलयैवावस्थितः ॥ ५ ॥
सत्यधर्मीया
तत् पादहननम् । सावज्ञं सानादरं यथा तथा ॥ ५ ॥
सुमनोरञ्जिनी
तत् हननम् । वञ्चयित्वा सावज्ञम् अवज्ञया हेलनेन सहितं यथा भवति तथा । उत्सृज्य क्षिप्त्वा । तार्क्ष्यस्य कश्यपस्य सुतो गरुडः ॥ ५ ॥
स लब्धसञ्ज्ञः पुनरुत्थितो मुखं व्यादाय केशी तरसाऽऽपतद् हरिम् ।
सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन् प्रवेशयामास यथोरगं बिले ॥ ६ ॥
पदरत्नावली
मुखं व्यादाय विदार्य ॥ ६ ॥
सत्यधर्मीया
यद्व्यादायायतीकृत्य हरिं प्रत्यभ्यपतत् । स हरिरप्यस्य तस्मिन् वक्त्रे उत्तरं दक्षिणं (उत्तरशब्द उत्तमार्थः । उत्तमत्वं च वामदक्षिणयोर् दक्षिणस्यैव इत्यभिप्रायेणेयं व्याख्या । ‘‘उत्तरं प्रतिवाक्ये स्याद्वध्वोदीच्योत्तमेऽन्यवत्’’ इति विश्वः) स्म यन्निति पदच्छेदः । प्राप्तः प्रवेशयामास । यथा मन्त्रज्ञो बिले तत्कृतसुषिरे उरगं सर्पं प्रवेशयति तथेत्यनेन व्यथासामान्याभावं सूचयति ॥ ६ ॥
सुमनोरञ्जिनी
व्यादाय । मुखमिति शेषः । उत्तरं सव्यम् (सव्यशब्दः वामदक्षिणोभयार्थकः ‘‘सव्यं दक्षिणे । वामे च प्रतिकूले च’’ इति हेमकोशः) ॥ ६ ॥
दन्ता निपेतुर्भगवद्भुजस्पृशस्ते केशिन१स्तप्तमयस्पृशो यथा ।
बाहुश्च तद्देहगतो महात्मनो यथाऽऽमयः संववृधे उपेक्षितः ॥ ७ ॥
पदरत्नावली
केशिनः भगवद्भुजं स्पृशन्तीति तथा ते दन्ता निपेतुर् निर्मूलतया पेतुः । तप्तमयमतितप्तं लोहादि स्पृशन्तीति तप्तमयस्पृशो यथा निपतन्ति तद्वत् । उपेक्षितोऽचिकित्सित आगयो व्याधिर्यथा वर्धते तथेति ॥ ७ ॥
सत्यधर्मीया
ते भगवद्भुजस्पृशः केशिनो दन्ता निपेतुः । तप्तमग्नावयः स्पृशन्तीति स्पृशो यथा तथा पेतुः । क्वचिदेकसकारः पाठः । तत्र तप्तमयमतितप्तं लोहादि तत्स्पृश इवेत्यर्थः प्रवेशितः । ईशितुर्बाहुस्तद्देहगत उपेक्षितो रोगिणाऽऽमयो रोगो यथा वर्धते तथा ववृधे । विवक्षाभावात्सन्ध्यभावः ॥ ७ ॥
सुमनोरञ्जिनी
ते, व्यात्तमुखे दृश्यमाना दन्ता निपेतुः । तप्तम् अयोलोहं स्पृशन्तो यथा पतन्ति तथेति । बाहुश्च संववृधे स्थूलोऽभवत् । उपेक्षित आमयो व्याधिः ॥ ७ ॥
समेधमानेन स कृष्णबाहुना २निरुध्यवायुश्चरणांश्च विक्षिपन् ।
प्रस्विन्नगात्रः परिवृत्तलोचनः पपात ३लम्बं विसृजन् क्षितौ व्यसुः ॥ ८ ॥
पदरत्नावली
विक्षिपन् इतस्ततश्चालयन् । लम्बं शकृत् । ‘तुरगस्य शकृल्लम्बं लङ्काप्राकारकोशयोः’ इत्यभिधानम् । व्यसुर्विगतप्राणः ॥ ८ ॥
सत्यधर्मीया
समेधमानेन वर्धमानेन निरुद्ध्यमानवायुः प्रतिबद्धश्वासो लम्बं शकृत् । तुरगस्य । शकृल्लम्बं लङ्काप्राकारकोशयोरित्यभिधानम् । लेण्डमिति च पठन्ति स्फुटोऽर्थः । व्यसुर्निष्प्राणः ॥ ८ ॥
सुमनोरञ्जिनी
विक्षिपन् इतस्ततः प्रसारयन् । लम्बं शकृत् । तुरंगस्य शकृल्लंबं लङ्काप्राकारकोशयोरिति यादवः । व्यसुर् विगतप्राणः ॥ ८ ॥
तद्देहतः कर्कटिकाफलोपमाद् व्यसोरपाकृष्य भुजं महाभुजः ।
अविस्मितो१ऽयं निहतारिरुस्रियैः प्रसूनवर्षैर्ववृषद्भिरीडितः ॥ ९ ॥
पदरत्नावली
कर्कटिकाफलमुर्वारुकफलं हि पक्वमतिविदीर्णं भवति तदुपमात् तद्वद् विदीर्णात् । ‘द्विपादपुच्छपृष्ठार्धश्रवणैकाक्षिनासिके । केशिनस्ते द्विधाभूते द्वे त्वर्धे रेजतुः क्षितौ’ इति विष्णु-पुराणवचनम् । व्यसोर्विगतप्राणात् तद्देहतो महाभुजो भुजमपाकृष्य । उस्रियैर् देवैः । ‘उस्रिया ऋभवो देवा गीर्वाणा निर्जराः सुरा’ इत्युत्पलमाला । प्रसूनवर्षैः फलपुष्पवर्षैर्ववृषद्भिर् अववृषद्भिः, अल्लोपेन, अवकिरद्भिरित्यर्थः । वृषतो वर्षणादिति भाष्यप्रयोगान्न गुणः । ‘प्रसूनं फलपुष्पयोः’ इत्यभिधानम् ॥ ९ ॥
सत्यधर्मीया
व्यसोः, कर्कटिकाफलमुर्वारुकविशेषस्तदुपमात्तद्देहतो महाभुजो भुजमपाकृष्य स्वयमविस्मित उस्रियैर्देवैर्गतम् । प्रसूनवर्षैर्ववृषद्भिवर (?)वृषद्भिरल्लोपेनावकिरद्भिरित्यर्थः । वृषतो वर्षणादिति भाष्यप्रयोगान्न गुणः । ईडितः स्तुतः । प्रसूनं फलपुष्पयोरित्युक्तेः फलपुष्पवर्षैरित्यर्थः
॥ ९ ॥
देवर्षिरुपसङ्गम्य २भागवतप्रवरो नृप ।
कृष्णमक्लिष्टकर्माणं ३रहसीदमभाषत ॥ १० ॥
पदरत्नावली
भगवतां ज्ञानविज्ञानाद्यैश्वर्यविशेषशालिनां भृग्वादीनां मध्ये प्रवरः । ‘ऐश्वर्यादि-गुणैः षड्भिः सामग्र्यात् सर्वदेवताः । भगवच्छब्दवाच्याश्च साक्षात्तु भगवान् हरिः । निरपेक्षं तु सामग््रयं तस्य सर्वाधिकं यतः’ इति वैशेष्यवचनम् । भगं तपोविज्ञानादिमाहात्म्यमेषामस्तीति भगवन्तो भृगुवसिष्ठादिमहर्षयस्तेषु प्रवर इति वा । ‘भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु’ इत्यमरः
॥ १० ॥
दुर्घटभावदीपिका
रहस्येदमित्यस्य रहस्यं च तदिदं च रहस्येदमित्यर्थः । एतेन रहसीदमिति स्थिते अकः सवर्णे दीर्घे इति दीर्घे रहसीदमिति वक्तव्यं रहस्येदमिति वचनमयुक्तमिति चोद्यं परास्तम् । रहसीति पदच्छेद इत्यनङ्गीकारात् ॥ १० ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे पञ्चत्रिंशोऽध्यायः ॥ १०-३५ ॥
सत्यधर्मीया
कंसं प्रति शंसित्वा तद्धिंसकं प्रति प्रतिवक्तुमागतो नारदो विशारदमेव-मवोचदित्याह ॥ देवर्षिरिति ॥ भागवतप्रवरो देवर्षिरक्लिष्टकर्माणं कृष्णं रहस्युपसङ्गम्य देवगुह्यस्या-प्रकाश्यत्वाद्रहसीत्युक्तिः । इदं वक्ष्यमाणमभाषत ॥ १० ॥
सुमनोरञ्जिनी
कर्कटिकाफलोपमात् तद्वद्विदीर्णात् । प्रसूनं पुष्पसमुदायम् । ववृषद्भिः पौनःपुन्येन अतीव वर्षद्भिर् उस्रियैर् देवैः ॥ ९,१० ॥
कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर ।
वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥ ११ ॥
पदरत्नावली
अप्रमेयात्मन् अपरिच्छिन्नगात्र । साकल्येन प्रमाणाविषयत्वादप्रमेयेति च । ‘एषो ह्यात्माऽध्युद्गतो मानशक्तेस्तथाऽप्यसौ प्रमितिं याति वेदैः । पूर्णोऽचिन्त्यः सर्ववेदैकयोनिः सर्वाधीशः सर्ववित् सर्वकर्ता’ इत्यादिश्रुतेः । आत्मन् सर्वस्वामिन् । युज्यते योगिभिर्हृदि निरुध्यते इति योगस्तत्सम्बुद्धौ । ‘योगरन्धितकर्माणो हृदि योगविभाविते । योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम्’ इत्यष्टमस्कन्धोक्तेः । ई लक्ष्मीस्तस्याः शं सुखं यस्मात् स ईशस्तत्सम्बुद्धौ । सात्वतं हि पञ्चरात्रादिकम् । ततः ‘तत् करोति तदाचष्टे’ इति सूत्रेण णिचि कृते क्विप्प्रत्यये तयोर्लोपे च कृते टिलोपे च सति सात्वद् इति पदं निष्पद्यते । सात्वतं पञ्चरात्रादिकमाचक्षत इति सात्वतः पाञ्चरात्रादिविदस्तेषां प्रवरस्तत्सम्बुद्धौ । सात्वतां यादवानां प्रवर इति च ॥ ११ ॥
सत्यधर्मीया
अस्मन्मर्म कंसाय शंसितवान्किल कथमुत्तरत्रेति मुरमथनेनेश्वरे त्वयि दुश्चित्ततेति भावेन स्तौति ॥ कृष्ण कृष्णेति ॥ श्रुतिप्रतीकधृतिरिति श्लोकद्विके पुनरुक्तिरार्थिकी न दोषाय । एतेन कृतकृत्या इति न कृत्यविचारे मन आयासनीयम् । अप्रमेयात्मन् अपरिच्छिन्न-स्वामिन् अपरिच्छिन्नकाय वा । योगेश ज्ञानाद्युपायस्वामिन् हे योग सर्वयोजक । यथोक्तं पञ्चमतात्पर्ये । युज्यतेऽनेनेति योगो हरिरिति । ईश लक्ष्मीपते जगदीश्वर जगत्स्वामिन् प्राणपते वासुदेव । प्रवृत्तिनिमित्तमाह ॥ अखिलावासेति ॥ प्रकृते सात्वतां प्रवर यादववर । वस्तुतस्तु सात्वन्तो भक्ताः पाञ्चरात्रिकास्तत्प्रवर । प्रभो जगदुत्पादक । सात्वतां प्रवराणां प्रभो इति वा
॥ ११ ॥
सुमनोरञ्जिनी
अप्रमेयात्मन् अपरिच्छिन्नस्वरूप योगेश योगस्य मोक्षसाधनज्ञानरूपोपायस्य ईश फलप्रद अखिलावासत्वादेव वासुदेव वासनाद्वासुदेवोऽसीति वचनात् । सात्वतां भक्तानाम्
॥ ११ ॥
त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् ।
गूढो गुहाशयः साक्षी महापुरुष ईश्वरः ॥ १२ ॥
पदरत्नावली
सर्वभूतानामात्माऽन्तर्नियामकः । एकः प्रधानः । ‘एकः प्रधान उद्दिष्टो विष्णोः प्राधान्यदर्शनम् । ऐकात्म्यदर्शनं प्रोक्तं सर्वज्ञानोत्तमं च तत्’ इति त्रैकाल्यवचनम् । एधसां काष्ठानामन्तर्ज्योतिरिव मतिमथनलभ्यः । प्रसादमन्तरेण गूढः । हृदयगुहायामाशेत इति गुहाशयः । साक्षाद् देशकालादिव्यवधानेन विना ईक्षते इति साक्षी । ‘सर्वत्राव्यवधानेन द्रष्टृत्वात् सर्ववस्तुनः । आन्तरं बाह्यमित्येवं विशेषो नास्ति कश्चन’ इति तन्त्रभागवतवचनम् । महापुरुषः क्षराक्षर-पुरुषोत्तमः । नित्यैश्वर्यादीश्वरः । ‘नित्यैश्वर्यात् स ईश्वरः’ ‘ऐश्वर्याद् भगवान् विष्णुर्विरुद्धं घटयत्यसौ’ इत्यादेः ॥ १२ ॥
सत्यधर्मीया
सर्वभूतानामात्माऽन्तर्नियामक एको मुख्यः । एधसां काष्ठानां मध्ये ज्योति-रग्निरिव मतिमथनलभ्यः । गुहाशयो हृदयगुहायामाशेत इति सः । गूढः प्रसादं विना । साक्षी कृतसुकृतासुकृतसाक्षाद्द्रष्टा । महापुरुषः क्षराक्षरपुरुषोत्तमः । ईशेभ्यो वर ईश्वरः । श्रुतय एतन्मूलभूताः षष्ठादौ प्रदर्शिता विमृश्याः ॥ १२ ॥
सुमनोरञ्जिनी
त्वमेक एव । आत्मा स्वामी । न राजादिवद्बहिः स्थित्वा नियमनमात्रेण किन्तु गुहाशयः हृदयगुहायां निविष्टः । एधसां काष्ठानां मध्ये ज्योतिरिव अग्निरिव । गूढः । न केवलमेतावत् किन्तु सर्वेन्द्रियेषु स्थित्वा साक्षादीक्षत इति साक्षी । महापुरुष उत्तमपुरुषः । कुतः । यत ईश्वर ईशेभ्योऽपि वरः श्रेष्ठः ॥ १२ ॥
आत्मन्नात्माश्रयः पूर्वं मायया सृजसे गुणान् ।
तैरिदं सत्यसङ्कल्पः सृजस्यत्स्यवसीश्वरः ॥ १३ ॥
पदरत्नावली
पूर्वमादौ आत्मना परप्रेरणामन्तरेण स्वेनैव मायया उपादानभूतया प्रकृत्या गुणान् महदादीन् सृजसे । तैः स्वसृष्टैर्गुणैरिदं जगत् सृजसि अवसि पालयसि अत्सि संहरसि च । कुलालस्य शालाद्यधिष्ठानदर्शनादस्य किमधिष्ठानमिति तत्राह आत्माश्रय इति । ‘स भगवान् कस्मिन् प्रतिष्ठित इति स्वे महिमि्न’ इति श्रुतिः ॥ १३ ॥
सत्यधर्मीया
साक्षादधोक्षज एव भवान्भुव्येतदर्थमवतीर्ण इत्याह ॥ आत्मन् सर्व-स्वामिन्निति । पूर्वमादौ मायया स्वेच्छया निमित्तभूतया मायया प्रकृत्योपादानभूतया गुणांस्त्रीन्सृजसे सृजसि । तैः स्वसृष्टैर्गुणैरिदं जगत्सृजस्यवस्यत्सि भक्षयसि च । ईश्वर इत्येतत्सम्भावकं नान्याश्रय इत्याह ॥ आत्माश्रय इति । स्वाश्रयः स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नीति श्रुतिः । आत्मनेति पाठे स्वेनैव प्रेरकव्यतिरेकेण । यद्वाऽऽत्मनां चेतनानां नात्मनां जडानां चाश्रय इत्यर्थः । प्रतिज्ञाप्रतिहतिर्नास्तीति सत्यसङ्कल्प इति ॥ १३ ॥
सुमनोरञ्जिनी
आत्मना परपे्ररणामन्तरेण आत्मैवाश्रयो यस्यासौ । अनेनाधिष्ठानानुपपत्ते-श्चेत्येतदस्मत्पक्षे नास्तीति सूचितम् । मायया प्रकृत्या । गुणान् सत्वादीन् । तैः सत्वादिभिः । इदं जगत् ॥ १३ ॥
स त्वं भूभारभूतानां दैत्यप्रमथरक्षसाम् ।
अवतीर्णो विनाशाय साधूनां रक्षणाय च ॥ १४ ॥
सत्यधर्मीया
तत्रावनानवनेऽधिकार्यानुगुण्येन कर्तुं विश्वभर्तुस्तवावतार इत्याह ॥ स इति ॥ स भगवद्रूपस्त्वं गोपरूपो भूभाररूपदैत्यप्रमथरक्षसां विनाशाय साधूनां रक्षणाय चावतीर्णोऽसि
॥ १४ ॥
दिष्ट्या ते निहतो दैत्यो लीलयाऽयं हयाकृतिः ।
अस्य ह्रेषितसंत्रस्तास्त्यजन्त्यनिमिषा दिवम् ॥ १५ ॥
पदरत्नावली
दिष्ट्या अस्माकं महानानन्दः । ते त्वया । अनिमिषा देवाः ॥ १५ ॥
सत्यधर्मीया
मुने नाधुना मया तदनुष्ठितमिति न वदेति कृतं किञ्चिदुदाहृत्य भाविनं व्यापारमपारविदाह ॥ दिष्ट्येति ॥ अयं हयाकृतिर्दैत्यो दैत्यस्वरूपो लीलया ते त्वया हत इति दिष्ट्या सुखं जातम् । किं तन्महत्त्वमित्यत आह ॥ अस्येति ॥ ह्रेषितात्सन्त्रस्ता अनिमिषा दिवं त्यजन्ति । तद्भीस्तावत्पर्यन्तम् । स्वरभीरभूदिति भावः ॥ १५ ॥
सुमनोरञ्जिनी
दैत्यौ निहतावित्येतद् दिष्ट्या परमानन्दकरम् ॥ १५ ॥
चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिपान् ।
कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥ १६ ॥
पदरत्नावली
भाविनमर्थं दिव्यचक्षुषोपलभ्य हरेर्भूभारहरणसुजनरक्षणप्रकारमभिष्टौति चाणूर-मित्यादिना । ते त्वया ॥ १६ ॥
सत्यधर्मीया
स्वयं यत्पीठिकां दृढीकृत्यायातस्तमर्थमाह ॥ चाणूरमिति ॥ मुष्टिकोक्तिस्तु बलोऽप्युपलतुलस्त्वमेव तत्र स्थित्वा हंसीति ध्वनयितुमिति ज्ञेयम् । तोषपारवश्येन कथापौर्वापर्यमिति तात्पर्यं ज्ञेयम् । अन्यांस्तोसलादीन् हस्तिपांस्तदादीन्परश्वोऽहनि कंसं च निहतं द्रक्ष्ये पश्यामि । न च स्वोक्ताधिकरणदिनापेक्षया चतुर्थेति जातस्य कंसहिंसनस्य ‘कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते’ इति परश्वो दर्शनोक्तिर्नास्य निर्युक्तिकेति वाच्यम् । परश्व इत्यस्य पराभ्यां स्वोत्तराभ्यां तिथिभ्यां सहितं श्व इति विग्रहकरणे विवक्षितस्य चतुर्थस्याह्नो लाभसम्भवात् । यद्वा ते त्वां परश्वो मधुरायां द्रक्ष्येऽहनि तदितरेऽहनि निहतं कंसं च द्रक्ष्य इति योजनायामभिलषितसिद्धेः । अथवा पर श्व इति भिन्नलाभे तच्च योग्यतया चतुर्थमेवाह्नो गृहीतुं शक्यत्वात् ॥ १६ ॥
सुमनोरञ्जिनी
ते त्वया ॥ १६ ॥
तस्यानु शङ्खयवनमुराणां नरकस्य च ।
पारिजातस्य हरणमिन्द्रस्य च पराजयम् ॥ १७ ॥
पदरत्नावली
तस्य कंसस्य वधमनु अनन्तरं शङ्खः पञ्चजनासुरो यवनः कालयवनो मुरस्तेषां नरकस्य च संहारं द्रक्ष्ये ॥ १७ ॥
सत्यधर्मीया
तस्यानु तमनु शङ्खः पञ्चजनासुरो यवनः कालयवनो मुरस्तेषाम् । नरकस्य भूमिजस्य । पारिजातस्य हरणं द्वारकां प्रति । इन्द्रस्य च पराजयम् ॥ १७ ॥
उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् ।
नृगस्य मोक्षणं पापाद् द्वारकायां जगत्पते ॥ १८ ॥
पदरत्नावली
वीराणां भीष्मकादीनां या कन्या रुग्मिण्यादयस्तासां वीर्यशुल्कादिलक्षणं वीर्यशुल्कं कन्यामूलद्रव्यं तदेवादिर्यस्य लक्ष्यवेधादेस्तदेव लक्षणं चिह्नं यस्य स तमुद्वाहं द्रक्ष्य इत्यन्वयः । ‘अङ्कश्चिह्नमभिज्ञानं लाञ्छनं लक्ष्म लक्षणम्’ इति हलायुधः ॥ १८ ॥
सत्यधर्मीया
हे वीर कन्यानां प्रत्याहृतानाम् । वीराणां कन्यास्तासामिति वा । रुक्मिण्यादीनाम् । वीर्यशुल्कादिलक्षणं वीर्यशुल्कं कन्यामूलद्रव्यं तदेवादिर्यस्य लक्ष्यवेधादेस्तदेव लक्षणं चिह्नं यस्य स तमुद्वाहं द्रक्ष्य इत्यन्वयः । हे जगत्पते द्वारकायां तत्रापि गर्ते नृगस्य कृकलासस्य मोक्षणम् ॥ १८ ॥
सुमनोरञ्जिनी
तस्य कंसहननस्य । अनु पश्चात् । शङ्खादीनां हननमिति वाक्यशेषः । द्वितीयान्तानां सर्वेषां द्रक्ष्यामीत्युत्तरेणान्वयः । शङ्खः पञ्चजनाऽसुरः । यवनः कालयवनः । वीर्यशुल्कादिलक्षणं चिह्नं नाम वा यस्य तम् ॥ १७,१८ ॥
स्यमन्तकस्य च मणेरादानं सह भार्यया ।
मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः ॥ १९ ॥
पदरत्नावली
भार्यया जाम्बवत्या ॥ १९ ॥
सत्यधर्मीया
भार्ययेति भाविभावोक्तिः । कान्त्या श्रेष्ठेति वा । स्यमन्तकस्य मणेः सत्राजितः सकाशादादानम् । ब्राह्मणस्य सान्दीपनेः स्वमातुश्च तथा तृणावहस्य च मृतपुत्राणामुपादानं तत्समीपे दानम् । स्वधामत एकत्र यमलोकः स्वधामापरत्रानन्तासनमिति विवेकः । पुत्रोऽपि, न तत्क्षणे मृत्वा स्थितो न देहः परीक्षित्तत्रासून्निवेशयामासेत्यपि नेत्याह ॥ स्वधामत इति ॥ स्वधाकारः पितॄणामित्यादेः स्वधया मतः सत्कृतः पितृवर्गप्रविष्टो यस्तस्य पुत्रस्योपादानं ज्ञेयमिति स्वगेहादित्यनुक्त्वा स्वधामत इत्युक्त्याऽसूचयदिति ज्ञेयम् । द्विजदारकान्मयोपनीता द्विजात्मजा इति तद्बहुत्वाद्दिनबाहुविध्याज्जातो जात इत्युक्तेश्च स्वधायोग्यत्वात्तथोक्तिर्वेति मन्तव्यम् । स्वधायामस्मत्कर्मिकायां मतः सम्मतो यस्तत्पुत्रोपादानमिति वा ॥ १९ ॥
सुमनोरञ्जिनी
भार्यया जाम्बवत्या सह । ब्राह्मणाय स्वगुरवे सान्दीपिनिनामकाय ॥१९॥
पौण्ड्रकस्य वधं पश्चात् काशिपुर्याश्च दीपनम् ।
दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ ॥ २० ॥
पदरत्नावली
दीपनं ज्वालनम् । महाक्रतौ युधिष्ठिरराजसूये ॥ २० ॥
सत्यधर्मीया
पौण्ड्रकस्य त्वज्ज्येष्ठभ्रातुः । काशिपुर्याः करवीरनगर्या दीपनं दाहम् । दन्तवक्रस्य चैद्यस्य च महाक्रतौ धर्मराजसूये ॥ २० ॥
सुमनोरञ्जिनी
महाक्रतौ पाण्डवैः क्रियमाणराजसूययागे ॥ २० ॥
यानि चान्यानि वीर्याणि द्वारकामावसन् भवान् ।
कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥ २१ ॥
पदरत्नावली
कर्ता करिष्यति । वीर्याणामवश्यज्ञेयत्वमाह गेयानीति ॥ भुवीति विशेषणेन वीर्याणां संसारनिवृत्त्यर्थमेव कृतत्वं सूचयति ॥ २१ ॥
सत्यधर्मीया
यानि चान्यानि तव वीर्याणीति साम्मुग्ध्याऽभिधानं यादृशतादृशानि तानी-त्यौदासीन्येन न किन्तु कंसाद्यायुरल्पमवशिष्टं कृष्णेन गन्तव्यमागन्तव्यमक्रूरेणेति तद्दृष्ट्येति मन्तव्यम् । भुवि द्वारकायामावसन् भवान् कर्ता तानि द्रक्ष्यामि । कविभिर्गेयानि ते च मुक्ता अमुक्ताश्चेति ज्ञेयम् ॥ २१ ॥
सुमनोरञ्जिनी
भुवि गेयानीत्यनेन श्रवणमननकीर्तनादिभिर्भवापवर्गायैव त्वयेमानि चरित्राणि कृतानीति सूचयति ॥ २१ ॥
अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै ।
अक्षोहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथेः ॥ २२ ॥
पदरत्नावली
अथ भारतयुद्धे अमुष्य भूभारस्य क्षपयिष्णोः क्षयं कर्तुकामस्य वै निश्चयेन कालरूपस्य । ‘कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः’ इत्युक्तेः । अर्जुन-सारथेस्ते सकाशादक्षोहिणीनां निधनं द्रक्ष्यामि ॥ २२ ॥
सत्यधर्मीया
सञ्जिहीर्षाया परमिकायाः कार्यमुदीर्य पुनर्भगवत्त्वेन स्तुवन्नुपसंहरति ॥ अथ त इत्यादिना ॥ कालरूपस्य संहाराकारस्वीकारिणः क्षपयिष्णोरमुष्येत्यर्जुनसारथिपदसमस्तार्जुनपदेन योग्यतयाऽन्वेति । कौरवबलं क्षपयिष्णोः संहर्तुकामस्यामुष्यार्जुनस्य सारथिस्तस्य । यद्वा कालरूपस्यापेक्षितवितरणकल्पतरोः क्षपयिष्णोः संहर्तुमिच्छोरर्जुनसारथेरमुष्य तव सकाशादक्षौहिणी-नामष्टादश सङ्ख्यानां निधनं द्रक्ष्यामीति ॥ २२ ॥
सुमनोरञ्जिनी
अथ अनन्तरम् । क्षपयिष्णोः संहर्तुकामस्य कालरूपस्य ते सकाशात् । जायमानं त्वदिच्छया जायमानमिति यावत् । अक्षोहिणीनाम् अष्टादशसंख्यानां निधनम् ॥ २२ ॥
विशुद्धविज्ञानघनं स्वसंस्थया समाप्तसर्वार्थममोघवर्तिनम् ।
स्वतेजसा नित्यनिवृत्तमायागुणप्रवाहं भगवन्तमीमहि ॥ २३ ॥
पदरत्नावली
उपास्यरूपं विशिनष्टि विशुद्धेति । विशुद्धं विज्ञानं विशिष्टज्ञानं तेन घनं सान्द्रम् । स्वसंस्थया अपराधीनस्वस्थित्या समाप्तसर्वार्थं सम्प्राप्तसमस्तप्रयोजनम् । केचिद्धरेर्वृत्ति-र्मायामयीति सङ्गिरन्ते तत्राह अमोघवर्तिनमिति ॥ कुत एतत् कथ्यते इति चेदत्राह नित्येति ॥ नित्यं निवृत्तो मायागुणानां प्रकृतिगुणानां प्रवाहो येन स तथा । नन्वेतन्मुक्तानामप्यस्तीति तत्राह तेजसेति । तेजसा स्वप्रभावेन । ‘तेजो बले प्रभावेऽन्ने’ इति यादवः । भगवन्तमीमहि शरणं प्रपद्येमहि ॥ २३ ॥
सत्यधर्मीया
विशुद्धं विज्ञानं विशिष्टज्ञानं तेन घनं निबिडं तद्रूपमिति यावत् । स्वसंस्थया ॥ स्वस्थित्या समाप्ताः प्राप्ताः सर्वेऽर्था येन यं वा स्वकर्तृक्या संस्थया मृतिरूपिण्या समाप्ताः समापिताः स्वस्वकारणनिविष्टा अर्था येन स तम् । अमोघवर्तिनमव्यर्थं यथा तथा वर्तत इति तम् । स्वतेजसा स्वसामर्थ्येनैव नित्यं निवृत्तो मायागुणानां प्रकृतिगुणानां प्रवाहो येन स तं भगवन्तमीमहि शरणमिति शेषः ॥ २३ ॥
सुमनोरञ्जिनी
एवमुक्त्वा पुनः स्तौति ॥ विशुद्धेति । विशुद्धं जडामिश्रम् । विज्ञानघनं विज्ञानैकस्वरूपम् । स्वसंस्थया स्वस्वभावेनैव । सम्यक् प्राप्तसर्वार्थम् आप्तकाममिति यावत् । अनेन पूर्णानन्दतामाह । अमोघवर्त्तिनम् अमोघा वर्तिर्वर्तनं प्रवृत्तिरिति यावद् यस्यासौ तथोक्तः । अनेनाप्रतिबद्धशक्तिमत्तामाह । स्वतेजसा स्वप्रभावेन नित्यं निवृत्तः मायागुणानां प्राकृतगुणानां सत्वादीनां प्रवाहः कार्यपरंपरा यस्य तम् । ईमहि शरणमिति शेषः ॥ २३ ॥
त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम् ।
क्रीडार्थमाद्यन्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्त्वताम् ॥ २४ ॥
तात्पर्यम्
‘आदिनो राक्षसाः प्रोक्तास्तदन्तत्वाज्जनार्दनः । आद्यन्त इति विज्ञेयः परेशो ब्रह्मणीशनादि’ति ब्राह्मे ॥ २४ ॥
पदरत्नावली
आ सम्यक् मांसमदन्तीति आदिनो राक्षसाः, तदन्तत्वात् तन्नाशकत्वा-दाद्यन्तः । उक्तं च ब्राह्मे ‘आदिनो राक्षसाः प्रोक्तास्तदन्तत्वाज्जनार्दनः । आद्यन्त इति विज्ञेयः परेशो ब्रह्मणीशनात्’ इति । चतुर्मुखब्रह्मण्यपि विषये ईशितृत्वात् परेश इत्युच्यते इत्येवमीश्वर-शब्दार्थोऽप्यसूचि । हे आद्यन्त राक्षसकुलनाशक ईश्वरं चतुर्मुखमुखादिनियन्तारं त्वां नतोऽस्मीत्यर्थः । ईश्वरत्वं समर्थयते स्वाश्रयमित्यादिना । स्वयमेवाश्रयो यस्य तं स्वाश्रयं ‘स्वे महिमि्न प्रतिष्ठितः’ इति श्रुत्युक्तप्रकारेण अनन्याधारम् आत्ममायया स्वेच्छया आत्माधीनया प्रकृत्या च विनिर्मिता अशेषविशेषा महदाद्यास्तेषां कल्पनं क्लृप्तिर्येन तम् । ‘कल्पनं छेदने क्लृप्तौ’ इत्यभिधानम् । क्रीडार्थं मनुष्यवद् विग्रहो यस्य स तम् । यादवाश्च वृष्णयश्च सात्त्वताः सत्त्ववन्तश्च तेषां धुरं भारं वहतीति धुर्यस्तम् । ‘सत्त्वं तु शोभनत्वं स्यात् तद्युक्ताः सात्त्वतां मताः’ इत्यध्यात्मवचनम्
॥ २४ ॥
सत्यधर्मीया
त्वामीश्वरं स्वाश्रयमिति श्लोके आद्यन्तेति पदमर्श आद्यच्युत्पत्तिनाशवत्परमिति भ्रमभ्रंशं मानेन तनोति ॥ आदिन इति । आदिन आ सम्यगदोऽदनं येषामस्ति त इत्यादिनो राक्षसा णिनिर्वा । तदन्तत्वात्तन्नाशकत्वादाद्यन्त इति विज्ञेयः । ब्रह्मणि चतुर्मुखे स्थित्वा प्रेरणादीशनात्परेश इति विज्ञेयः । अनेन परस्येशनं तस्मादिति व्युत्पत्तिः सूचिता । अथ मूलार्थः ॥ स्वाश्रयमीश्वरमात्ममायया स्वेच्छयैव विनिर्मितमशेषाणां ये विशेषाः सत्याधिपत्यादयस्तेषां कल्पनं येन तम् । अशेषाश्च ते विशेषाश्चेति वा विनिर्मिता निर्मितविरुद्धा नित्या अशेषा ज्ञानादयस्तेषां विशेषमहिम्नेति कल्पनमानन्द आनन्दीति यस्मिंस्तं वा । क्रीडार्थमाद्यन्तमनुष्यविग्रहम् । अनेनाकर्मनिर्मिततां तद्विग्रहस्याभिप्रैति । यदुवृष्णिसात्वतां धुर्यं वर्यं नतोऽस्मीत्यन्वयः । आद्यन्तश्चासौ मनुष्यविग्रहश्च तं मनुष्यवद्विग्रहो यस्याद्यन्तमनुष्यविग्रहम् ॥ २४ ॥
सुमनोरञ्जिनी
तर्हि जगत्सृष्ट्यादिव्यापारः कथमित्यत आह ॥ त्वामिति ॥ आत्माधीनया मायया प्रकृत्या । विनिर्मिता अशेषविशेषकल्पना अवान्तरभेदकल्पना येन तम् । क्रीडार्थं लीलार्थं, मनुष्यविग्रहवत्प्रतीयमानविग्रहो यस्य तम् । तदुक्तम् । आदिनो राक्षसा इत्यादि । धुर्यं, धुरं वहतीति धुर्यः, सर्वाभीष्टसाधकम् । ईमहीति पूर्वेणान्वयः ॥ २४ ॥
श्रीशुक उवाच—
एवं यदुपतिं कृष्णं १भागवतप्रवरो मुनिः ।
प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः ॥ २५ ॥
पदरत्नावली
तस्य दर्शनेनोत्सव उत्कृष्ट आनन्दो यस्य स तथा ॥ २५ ॥
सत्यधर्मीया
पूर्वत्रात्र च भागवतप्रवर इति वर्णाधिक्यं न वैकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्यामित्युक्तेर्न छन्दश्छेदकम् । तद्दर्शनोत्सवस्तस्य केशवकृतचाणूरकंसादिहिंसाकर्मणो दर्शने उत्सवो यस्य सः । चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिपान् । कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभाविति प्रार्थनानुकूल्यात् ॥ २५ ॥
सुमनोरञ्जिनी
तद्दर्शनेन कृष्णदर्शनेन उत्सव आनन्दो यस्य सः ॥ २५ ॥
भगवानपि गोविन्दो हत्वा केशिनमाहवे ।
पशूनपालयत् पालैः प्रीतैर्व्रजसुखावहः ॥ २६ ॥
सत्यधर्मीया
प्रीतैः पालैः सह ॥ २६ ॥
सुमनोरञ्जिनी
पशून् चारयन्तः ॥ २६ ॥
एकदा ते पशून् पालाश्चारयन्तोऽद्रिसानुषु ।
चक्रुर्निलायनक्रीडां चोरपालापदेशतः ॥ २७ ॥
पदरत्नावली
निलायनं नाम अपहृतस्य तिरोधापनं तद्रूपां क्रीडाम् । चोरपालापदेशतः मेषवदाचरितान् पशूनपहृत्य ये निलीनास्ते चोराः, नयनाच्छादनानन्तरमपहृतपशूनामन्वेषका ये ते पालास्तेषामपदेशतो ऽभिनयात् ॥ २७ ॥
सत्यधर्मीया
निलायनक्रीडां नयनाच्छादनानन्तरमेकेन गन्तव्यं नेयाः पशवस्तेन तन्मार्गणं कर्तव्यमिति चोरपालापदेशतस्तद्व्याजतः क्रियमाणा निलयनक्रीडा ताम् ॥ २७ ॥
सुमनोरञ्जिनी
निलायनक्रीडां निलीयहरणलक्षणक्रीडाम् । चोराणां पालानां च अपदेशः सङ्केतः । तस्मात् ॥ २७ ॥
तत्रासन् कतिचिच्चोराः पालाश्च कतिचिन्नृप ।
मेषायिताश्च तत्रैके विजह्रुरकुतोभयाः ॥ २८ ॥
पदरत्नावली
मेषायिता मेषवदाचरिताः । न कुतश्चिद् भयं येषां ते अकुतोभयाः
॥ २८ ॥
सत्यधर्मीया
मेषायितास्ताननुकुर्वन्तः ॥ २८ ॥
सुमनोरञ्जिनी
तदेवाह ॥ तत्रेति । मेषायिता मेषवद्वर्तमानाः ॥ २८ ॥
मयपुत्रो महामायो व्यामो गोपालरूपधृक् ।
मेषायितानपोवाह प्रायश्चोरायितो बहून् ॥ २९ ॥
पदरत्नावली
स्वयं प्रायश्चोर एव तद्वदाचरन् । अपोवाह अपहृत्य निनाय ॥ २९ ॥
सत्यधर्मीया
व्योमो नाम्ना गोपालरूपधृक् स्वयं चोरायितो मेषायितान्बहून्गोपानपोवाहापा-जहार ॥ २९ ॥
सुमनोरञ्जिनी
व्योमो नामतः । चोरायितश् चोरवद्वर्तमानः । अपोवाह निन्ये ॥ २९ ॥
गिरिदर्यां विनिक्षिप्य नीतंनीतं महासुरः ।
शिलया पिदधे द्वारं चतुःपञ्चावशेषिताः ॥ ३० ॥
पदरत्नावली
गिरिदर्यां पर्वतगुहायाम् । पिदधे आच्छादयामास ॥ ३० ॥
सत्यधर्मीया
नीतं नीतं मेषरूपगोपं गिरिदर्यां निक्षिप्य शिलया द्वारं पिदधे आच्छादया-मास । अवशेषितसङ्ख्यामाह ॥ चतुःपञ्चावशेषिता इति ॥ चत्वारः पञ्च वा चतुःपञ्चावशेषिता उर्वरिताः ॥ ३० ॥
सुमनोरञ्जिनी
गिरिदर्यां पर्वतगुहायाम् । पिदधे आच्छादयामास ॥ ३० ॥
तस्य तत् कर्म विज्ञाय कृष्णः शरणदः सताम् ।
गोपान् नयन्तं जग्राह वृकं हरिरिवौजसा ॥ ३१ ॥
पदरत्नावली
हरिः सिंहः ॥ ३१ ॥
सत्यधर्मीया
सतां शरणदस्तस्य तत्कर्म वीक्ष्य हरिः सिंहो वृकं श्वापदमिव जग्राह
॥ ३१ ॥
सुमनोरञ्जिनी
शरणदो ऽभयप्रदः । हरिः सिंहः ॥ ३१ ॥
स निजं रूपमास्थाय गिरीन्द्रसदृशं बली ।
इच्छन् विमोक्तुमात्मानं नाशक्नोद् ग्रहणातुरः ॥ ३२ ॥
पदरत्नावली
ग्रहणेनातुरः पीडितः ॥ ३२ ॥
सत्यधर्मीया
वेषमुन्मुच्य निजं रूपम् । गुरुणा महताऽऽत्मानं विमोक्तुं मोचयितुमिच्छन्नपि नाशक्नोच्छक्तो नाभूत् ॥ ३२ ॥
सुमनोरञ्जिनी
गुरुणा महता । हरिणा । गृहीतः ॥ ३२ ॥
तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले ।
पश्यतां दिवि देवानां पशुमारममारयत् ॥ ३३ ॥
पदरत्नावली
पशून् मारयति त्यक्तप्राणान् करोतीति पशुमारस्तम् ॥ ३३ ॥
सत्यधर्मीया
पशुमारममारयत्पशुमारं यथा हिंसितवान् । उपमाने कर्मणि चात्कर्तरि चेत्युक्तेः । पशुवदमारयत् । णमुलन्तः शब्दः ॥ ३३ ॥
सुमनोरञ्जिनी
पशुमारम् पशोर्मारणक्रिया यथा भवति तथा ॥ ३३ ॥
गुहापिधानं निर्भिद्य गोपान् निस्सार्य कृच्छ्रतः ।
स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम् ॥ ३४ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे पञ्चत्रिंशोऽध्यायः ॥
पदरत्नावली
कृच्छ्रतो व्योमासुरकृतसङ्कटाद् गोपान् निस्सार्य ॥ ३४ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे पञ्चत्रिंशोऽध्यायः ॥
सत्यधर्मीया
गुहापिधानं निर्भिद्य कृच्छ्रतो व्योमकृतकष्टाद्गोपान्निःसार्य निष्कासयित्वा गोपैः सुरैश्च स्तूयमानः स्वगोकुलं प्रविवेश ॥ ३४ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां दशमस्कन्धपूर्वार्धे पञ्चत्रिंशोऽध्यायः ॥
सुमनोरञ्जिनी
कृच्छ्रतः कष्टात् । निःसार्य मोचयित्वेत्यपि सम्बन्धः ॥ ३४ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां सुमनोरञ्जिन्यां पञ्चत्रिंशोऽध्यायः ॥