अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुरः
॥ अथ चतुस्त्रिंशोऽध्यायः ॥
श्रीशुक उवाच—
अथ तर्ह्यागतो गोष्ठमरिष्टो वृषभासुरः ।
महीं महाककुत्कायः कम्पयन् खुरविक्षताम् ॥ १ ॥
पदरत्नावली
निजचरणैकशरणानां शिष्टानां विशिष्टारिष्टविनष्टिं त्वरया करोति हरिरित्यत्र निदर्शनतयाऽरिष्टाख्यबलिष्ठासुरसंहारलक्षणं कृष्णविक्रमं देवकार्याभिज्ञेन नारदेनोद्बोधितस्यासुरजातेः कंसस्य सज्जनोपद्रवोद्यमं च निरूपयत्यस्मिन्नध्याये ।
अथ शङ्खचूडवधानन्तरं दैत्यान्तरनिग्रहलक्षणकथाऽऽरभ्यते । ‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ’ इत्यमरः । शङ्खचूडं निहत्य यदा गोपस्त्रीभिः सह व्रजमागतः श्रीकृष्णस्तर्हि तदा वृषासुरो वृषभाकारोऽरिष्टाख्यासुरो महान्तौ ककुत्कायौ यस्य स तथा । खुरैर्विक्षतां विदारितां मही कम्पयन्
॥ १ ॥
सत्यधर्मीया
अरिष्टासुरविनष्टिं कृष्णकृतां तथा कृतान्तमुखं खलं कंसं यापयित्वा वासुदेव-सेवां विधित्सुर्विधिसुतः सर्वं वसुदेवादिकृतं कर्ममर्म शशंस । तेन च हिंसोद्योगं कंसश्चकारेत्यत्र प्रतिपाद्यते । तत्र गोपीपरिवृतो व्रजमुपव्रज्य किं कृतवान्भगवानिति परीक्षकपरीक्षिच्छङ्कां स्वयं दयया परिहरति शुक इति कवयति ॥ श्रीशुक इति । अथ शङ्खचूडाहननानन्तरम् । तर्हि तदेत्यव्यवधानं सूचयति । अथ मङ्गलसूचकं सत्प्रारम्भार्थे विक्रमान्तरमारभ्यत इति । महास्कन्धाङ्गः खुरविक्षतां महीं कम्पयन्नागतः । हे महि त्वमेवास्मद्धननमूलं न चेत्त्वत्प्रार्थने कुतोऽवतरेद्धरिर्नावतरेच्चेत्पूतनादि-घातः कुतो भवेदिति मतितस्तत्क्षितिसक्षतीकरणमसुरस्येति तात्पर्यम् । किञ्च स्वनासिकाछेदमपीह सोढ्वा खलो निरुन्धे खलु सत्प्रयाणमितिवत्स्वयं पशुत्वं सम्पाद्यापि लोकबाधा कर्तव्येति मनुतेऽयं दनुज इति दुर्जनस्वभावोऽसुर इत्यनेनासूचि ॥ १ ॥
सुमनोरञ्जिनी
कथान्तरप्रारम्भार्थोऽथशब्दः । तर्हि यदा शङ्खचूडं हत्वा व्रजमागतस्तदा नाम्ना अरिष्टः वृषभाकारोऽसुरः । महान्तौ ककुत्कायौ यस्य सः । खुरैः पादाग्रैर् विक्षताम् । महीं कंपयन् । गोष्ठं प्रत्यागत इति सम्बन्धः ॥ १ ॥
रवमाणः खरतरं पदा च विलिखन् महीम् ।
उद्यम्य पुच्छमभ्राणि विषाणाग्रेण चोद्धरन् ॥ २ ॥
पदरत्नावली
रवमाणः कर्कशध्वनिं कुर्वाणः । विलिखन् विदारयन् । उद्यम्य उन्नमय्य । विषाणाग्रेणाभ्राणि मेघानुद्धरन् उत्क्षिपन् । अनेन तावदौन्नत्यं ध्वन्यते ॥ २ ॥
सत्यधर्मीया
रवमाणो रवन् हम्भाध्वनिं कुर्वन्विषाणाग्रेण शृृङ्गप्रान्तेन चात्पुच्छेनाप्यभ्राणि मेघानुद्धरन् । अनेन तावदौन्नत्यं ध्वन्यते । कृष्णसावर्ण्यान्मेघा अपि मेघकारिण इति चोत्तुङ्गशृृङ्गो-द्धरणमिति ध्वनिः ॥ २ ॥
सुमनोरञ्जिनी
खरतरं क्रूरतरं यथा भवति तथा रवमाणः शब्दं कुर्वाणः । अभ्राणि मेघान्
॥ २ ॥
किञ्चित्किञ्चिच्छकृन्मुञ्चन् मूत्रयन् स्तब्धलोचनः ।
यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् ॥ ३ ॥
पतन्त्यकालतो गर्भाः स्रवन्ति स्म भयेन वै ।
निर्विशन्ति घना यस्य ककुद्यचलशङ्कया ॥ ४ ॥
पदरत्नावली
स्तब्धलोचनोऽनिमिषनयनः । निर्ह्लादितेन शब्देन । पञ्चमषष्ठयोः पातः । मासचतुष्टयात् प्राक् चेत् स्रावः । ‘आचतुर्थाद् भवेत् स्रावः पातः पञ्चमषष्ठयोः । अत ऊर्ध्वं तु नारीणां प्रसवः परिकीर्तितः’ इति स्मृतिः । ककुदि गलपृष्ठशृृङ्गे अचलशङ्कया ॥ ३,४ ॥
सत्यधर्मीया
शकृन्मलम् । स्तब्धलोचनः स्तब्धे लोचने यस्य सः । मदभावोऽयम् । निर्ह्रादितेन नादेन नृणां तद्योषितां नृणां निष्ठुरेण श्रवणासह्येनाकालतो गवां गर्भा इत्यन्वयः । आचतुर्थाद्भवेच्छ्रावः पातः पञ्चमषष्ठयोः । पञ्चमषष्ठयोः पातो, मासचतुष्टयात्प्राक् चेच्छ्राव इति विवेकः । ककुद्यचलशङ्कया पर्वतशङ्कया निर्विशन्ति । तावानायामः(?) ककुद इति भावः
॥ ३,४ ॥
सुमनोरञ्जिनी
स्तब्धे निश्चले लोचने यस्य सः । निष्ठुरेण क्रूरेण निह्रादितेन गर्जितेन । गर्भाः पतन्ति स्रवन्ति च । मासत्रयादर्वाक्तनाः स्रवन्ति । तदूर्ध्वाः पतन्ति । यस्य ककुदि घना अचलशङ्कया पर्वतसम्भावनया । निर्विशन्ति उपविशन्ति ॥ ३,४ ॥
तं तीक्ष्णशृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसुः ।
पशवो दुद्रुवुर्भीता राजन् सन्त्यज्य गोकुलम् ॥ ५ ॥
पदरत्नावली
तत्रसुर् बिभ्युः ॥ ५ ॥
सत्यधर्मीया
तीक्ष्णे क्रूरे शृृङ्गे यस्य सः ॥ ५ ॥
सुमनोरञ्जिनी
तत्रसुर् भीता आसन् ॥ ५ ॥
कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः ।
भगवानथ तद् वीक्ष्य गोकुलं भयविद्रुतम् ॥ ६ ॥
सत्यधर्मीया
तद्गोकुलं तत्स्थजनम् ॥ ६ ॥
सुमनोरञ्जिनी
भयेन विद्रुतं पलायनं कुर्वत् ॥ ६ ॥
मा भैष्टेति गिराऽऽश्वास्य वृषासुरमुपाह्वयत् ।
गोपालैः पशुभिर्मन्द त्रासितैः किमसत्तम ॥ ७ ॥
पदरत्नावली
मा भैष्ट भयं मा कार्ष्ट । आश्वास्य सान्त्वयित्वा । उपाह्वयद् आजुहाव । हे मन्द निर्भाग्य ॥ ७ ॥
सत्यधर्मीया
आश्वास्य समाधाय । मन्द दरिद्राज्ञ वा ॥ ७ ॥
सुमनोरञ्जिनी
सपालैः पालकसहितैः । पशुभिस् त्रासितैः किं किं कृतं भवेत् ॥ ७ ॥
बलदर्पहाऽहं दुष्टानां त्वद्विधानां दुरात्मनाम् ।
इत्यास्फोट्याच्युतोऽरिष्टं तलशब्देन कोपयन् ।
सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरिः ॥ ८ ॥
पदरत्नावली
आस्फोट्य करतलेन बाहुमाहत्य । भुज एवाभोगोऽहिदेहस्तं सख्युरंसे स्कन्धे प्रसार्यावस्थितः । अनेन तदलक्ष्यता ध्वन्यते ॥ ८ ॥
सत्यधर्मीया
बलं च दर्पश्च तौ हन्तीति स तथा । त्वद्विधानां तव विधा प्रकारो येषां ते तथा तेषामास्फोट्य तलेन बाहुं वोरू वाऽऽहत्य । तलशब्देन परस्परं तलध्वनिना । आभोगो हि कायो महान्भुजस्तदाकार इति भुजाभोगस्तम् । भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोरित्यमरः । सख्युरंसे प्रसार्यावस्थितः । अनेन तदलक्ष्यता ध्वन्यते ॥ ८ ॥
सुमनोरञ्जिनी
बलस्य यो दर्पो ऽहङ्कारस् तस्य अपहर्ता । आस्फोट्य बाहुं हस्तेन सशब्दं ताडयित्वा । भुजा भोगमिव भुजाभोगं सर्पाकारां भुजाम् । भुजाशब्दः स्त्रीलिङ्गोऽप्यस्ति । भुजाभोगं पुष्टवृत्तभुजमिति वा ॥ ८ ॥
सोऽप्येवं कोपितोऽरिष्टः खुरेणावनिमुल्लिखन् ।
उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णमुपाद्रवत् ॥ ९ ॥
पदरत्नावली
उद्यता ऊर्ध्वं गच्छता पुच्छेन भ्रमन्तो मेघा यस्मिन् स तथा ॥ ९ ॥
सत्यधर्मीया
उद्यत्पुच्छं बालस्तेन भ्रमन्तस्तस्मिन्वा मेघा येन सः ॥ ९ ॥
सुमनोरञ्जिनी
कोपितः कोपं प्रापितः । उद्यत्पुच्छेन भ्रमन्तो मेघा येन सः ॥ ९ ॥
अग्रन्यस्तविषाणाग्रः स्तब्धासृग्लोचनोऽच्युतम् ।
कटाक्षिप्याद्रवत् तूर्णमिन्द्रमुक्तोऽशनिर्यथा ॥ १० ॥
पदरत्नावली
अग्रे पुरोभागे न्यस्ते स्थापिते विषाणयोरग्रे येन स तथा । स्तब्धे निश्चले असृग्लोचने रक्तनेत्रे यस्य स तथा । कटी स्फिजौ आक्षिप्य प्रदर्श्य । ‘कटिप्रोथौ स्फिजौ कटी’ इत्यभिधानम् । अशनिर्वज्रः ॥ १० ॥
सत्यधर्मीया
अगे्रे विधाय स्वविषाणयुग्ममुग्रोऽच्युतं प्रत्यगमत्सहायम् । दोष्णा तदुत्पाटयतो मुरारेः कुर्वन् शिरोभारजिहीर्षयेवेत्याह ॥ अग्रन्यस्तेति ॥ अग्रे पुरोभागे न्यस्ते स्थापिते विषाणयोरग्रे प्रान्तभागे येन सः । स्तब्धे जडीकृते असृग्वद्रक्ते लोचने यस्य सः । कटाक्षिप्य कटाक्षगोचरं कृत्वा । इन्द्रमुक्तोऽशनिर्वज्रो विपे यथा तथा तूर्णमभ्यद्रवत् । अनेवं व्याख्याने निदर्शनमिदमप्रदर्शनीयं स्यात् । अर्थविपर्यासादिति मन्तव्यम् । यथैव वज्रो विपतौ वृथा भवेदिति भगवदुक्तेः ॥१०॥
दुर्घटभावदीपिका
कट्याक्षिप्येत्यस्य कटाक्षेणाक्षिप्य तिरस्कृत्येत्यर्थः । एतेन कटाक्षेणाक्षिप्येति वक्तव्यं कट्याक्षिप्येति कथनमयुक्तमिति चोद्यं पराकृतम् । कटाक्षेणाक्षिप्येति स्थिते छान्दसे क्षेणेत्यस्य लोपे अकःसवर्णे दीर्घ इति दीर्घे कट्याक्षिप्येति रूपं निष्पन्नमित्यङ्गीकारात् ॥ १० ॥
सुमनोरञ्जिनी
अग्रन्यस्तविषाणाग्रः पुरोभागे कृतविषाणाग्रः । स्तब्धे, असृग्वद् रुधिरवद् रक्ते लोचने यस्य सः । कटाक्षिप्य वक्रदृष्ट्या विलोक्य ॥ १० ॥
गृहीत्वा शृङ्गयोस्तं वा अष्टादशपदानि सः ।
प्रत्यपोवाह भगवान् गजः प्रतिगजं यथा ॥ ११ ॥
पदरत्नावली
तमरिष्टं शृङ्गयोस्तदग्रयोरेव गृहीत्वा वै निश्चयेन अष्टादशपदानि प्रत्यपोवाह प्रातिलोम्येन निनाय ॥ ११ ॥
सत्यधर्मीया
शृङ्गयोस्तदग्रयोस्तं गृहीत्वाऽष्टादशपदानि प्रत्यपोवाह पश्चात्प्रातिलोम्येन नीतवान् । प्रतिगजमित्युक्तिर्भगवद्यशोविशेषणार्थमिति मन्तव्यम् ॥ ११ ॥
सुमनोरञ्जिनी
स्तब्ध्वा अवष्टभ्य । अपोवाह तिर्यग्गमयामास ॥ ११ ॥
सोऽपविद्धो भगवता पुनरुत्थाय सत्वरः ।
आपतत् स्विन्नसर्वाङ्गो निःश्वसन् क्रोधमूर्च्छितः ॥ १२ ॥
पदरत्नावली
अपविद्धोऽपक्षिप्तः । आपतत् कृष्णोपरि पपात । स्विन्नानि स्वेदयुक्तानि सर्वाङ्गाणि यस्य स तथा ॥ १२ ॥
सत्यधर्मीया
स एवमपविद्धो घर्षणसमयेऽवनिजानुसमासज्जनेन पतितः पुनः सत्वर उत्थाय स्विन्नसर्वाङ्गो निःश्वसन् क्रोधमूर्छितश्चापतत्कृष्णोपर्यपतत् ॥ १२ ॥
सुमनोरञ्जिनी
अपविद्धस् तिर्यक्पातितः ॥ १२ ॥
तमापतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भूतले ।
निष्पीडयामास यथाऽऽर्द्रमम्बरं १कृंत्त्वा २विषाणे न जघान सोऽपतत् ॥१३॥
पदरत्नावली
अम्बरं वस्त्रम् । कृत्त्वा उत्कृत्य, विषाणयुग्ममिति शेषः । तं विषाणेन जघान ॥ १३ ॥
सत्यधर्मीया
यदुपतिर्मृदुहस्तेनोद्धृतं तस्य शृृङ्गं व्यसुमसुरमकार्षीत्तत्क्षणेनेति युक्तम् । अपि शिरसि धृतो यत्स्वीय एवान्तकाले करवशमुपयातः शत्रुतामेति शत्रोरित्याह ॥ तमिति । सन्ततं (सन्तमिति स्यादिति भाति । सन्तं वृषमित्यन्वयः) कथमपोथन्मधुमथन इत्यतो वा कथयति ॥ तमापतन्तमिति । तमायां रात्र्यां पतत्पततीति तमापतत्तम् । तमा तमसि गीयत इत्यनेकार्थ-ध्वनिपदमञ्जरी । तमे तमस्यापतन्तं तत्पातयोग्यमिति वा गतम् । अनेन गौर्न पदा स्पृष्टव्येति सामान्यतो गोमात्रपादस्पर्शेऽविहिते विहितवान् कथं धर्ममर्मविद्भगवानिति परास्तम् । शृृङ्गयोर्निगृह्य पदा समाक्रम्य भूतले निपात्यार्द्रमम्बरं वस्त्रं न यथा तथासृगार्द्रं यथा सम्यङि्नष्पीडयामास विषाणे शृृङ्गे कृन्त्वोत्कृत्य ताभ्यां जघान स चापतत् । विषाणं दन्तशृृङ्गयोरित्यमरः ॥ १३ ॥
सुमनोरञ्जिनी
आर्द्रमम्बरं वस्त्रं यथा तथा तं निष्पीड्य विषाणं कृत्वा तेन विषाणेन जघान ॥ १३ ॥
असृग् वमन् मूत्रशकृत् समुत्सृजन् क्षिपंश्च पादाननिमीलितेक्षणः ।
जगाम कृच्छ्रं निर्ऋतेरथ क्षयं पुष्पैः किरन्तो हरिमीडिरे सुराः ॥ १४ ॥
पदरत्नावली
कृच्छ्रं प्राणोत्क्रमणात्मकसङ्कटं जगाम । अथानन्तरं निर्ऋृतेर्मृत्योः क्षयं गृहं जगाम ॥ १४ ॥
सत्यधर्मीया
असृक् अश्यतेरौणादिके प्रत्ययेऽसृक्शब्दो बोध्यः । रक्तं वमन्नुद्गिरन् मूत्रेण सहितं शकृत्समुत्सृजन्पादांश्चतुरः समुत्क्षिपन्ननिमीलितेक्षणः सोत्कोचलोचनः कृच्छ्रं प्राणसङ्कटं जगाम । अथानन्तरं निर्ऋतेर्मृत्योः क्षयं गृहं जगाम च । सुराः पुष्पैः किरन्तः सन्तो हरिमीडिरे पूजयामासुः
॥ १४ ॥
सुमनोरञ्जिनी
असृक् रक्तम् । वमन् । मूत्रेण सहितं शकृत् । समुत्सृजन् । स्वपादान् विक्षिपन् इतस्ततो विक्षिपन् । अनिमीलितेक्षणः विवृतनेत्रः । निऋतेर्यमस्य क्षयं लोकम् । जगाम । अथ तद्धननानन्तरम् ॥ १४ ॥
एवं ककुद्मिनं हत्वा स्तूयमानः स्वजातिभिः ।
विवेश भगवान् १गोष्ठं गोपीनां नयनोत्सवः ॥ १५ ॥
पदरत्नावली
ककुद्मिनं वृषासुरम् ॥ १५ ॥
सत्यधर्मीया
ककुद्मिनं वृषभं स्वजातिभिर्गोपैर्देवैर्वा ॥ १५ ॥
सुमनोरञ्जिनी
ककुद्मिनं वृषभासुरम् । स्वजातिभिर् गोपैः ॥ १५ ॥
अरिष्टे निहते २गोष्ठे कृष्णेनाद्भुतकर्मणा ।
कंसाय प्राह भगवान् नारदो देवदर्शनः ॥ १६ ॥
पदरत्नावली
देवो नारायणस् तद्विषयं दर्शनं ज्ञानं यस्य स तथा । देवानां दर्शनं रहस्यं यस्य स इति च । देवकार्याभिज्ञ इत्यर्थः । यथा कंसहननं क्षिप्रमेव भवेत् तथा आहेति द्योतनार्थः प्रेत्युपसर्गः ॥ १६ ॥
सत्यधर्मीया
देवदर्शनो देवानां दर्शनं रहस्यं मतं यस्य स देवकार्याभिज्ञ इति यावत् । प्रेण यथा कंसस्याश्वासो भवेद्भवेच्च तेन कृष्णद्वेषस्तेन च तस्य हिंसा सत्वरं स्यात्तथा वचनस्य प्रकृष्टतां सूचयति ॥ १६ ॥
सुमनोरञ्जिनी
देवानां दर्शनं सिद्धान्तो ऽसुरनिग्रहलक्षणो यस्य सः । यद्वा दैवज्ञ इत्यर्थः
॥ १६ ॥
यशोदायाः सुतां कन्यां देवक्याः कृष्णमेव च ।
रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता ।
न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हताः ॥ १७ ॥
पदरत्नावली
किमाहेत्यत्राह यशोदाया इति । कन्यां दुर्गां यशोदायाः सुतां प्राहेत्यन्वयः । देवक्याः कृष्णमेव पुत्रं प्राह । बलरामकृष्णौ वसुदेवसुतौ चेत् कथं तौ व्रजगताविति तत्राह– बिभ्यतेति । याभ्यां रामकृष्णाभ्यां ते पुरुषा अरिष्टादयो हतास्तौ त्वत्तो बिभ्यता वसुदेवेन स्वमित्रे नन्दे न्यस्तौ स्थापितौ ॥ १७ ॥
सत्यधर्मीया
यशोदायाः सुतां प्राहेत्यन्वयः । कन्यां दुर्गाम् । कृष्णमेव सुतमित्यन्वयः । बिभ्यता त्वत्तो भीतेन स्वमित्रे नन्दे नन्दगोपे न्यस्तौ याभ्यां ते पुरुषा हताः । योषिदेकैव पूतनेति तदनुक्तिः । अपुरुषा हता इति छेदः । यो ऽस् तेन हतेत्यपि वदन्ति । पुरुषाश्च हता इत्या-वृत्त्याऽन्वयने तल्लाभ इति ज्ञेयम् । तौ स्थापितौ ॥ १७ ॥
सुमनोरञ्जिनी
कन्यां यशोदायाः सुताम् । देवक्याः सुतं कृष्णं, रोहिणीपुत्रं रामं प्राहेत्येकं वाक्यम् । बिभ्यता वसुदेवेन । स्वमित्रे नन्दे तौ स्थापितौ । याभ्यां कृष्णरामाभ्याम् । ते पुरुषास् त्वद्भृत्याः शकटतृणावर्त्तादयः हता इति च प्राहेत्यपरं वाक्यम् ॥ १७ ॥
निशम्य तद् भोगपतिः कोपात् प्रचलितेन्द्रियः ।
निशातमसिमादत्त वसुदेवजिघांसया ॥ १८ ॥
पदरत्नावली
प्रकर्षेण चलितानीन्द्रियाणि यस्य स तथा । निशातमुत्तेजितमसिं खड्गम्
॥ १८ ॥
सत्यधर्मीया
तन्नारदेरितम् । निशातमुत्तेजितम् ॥ १८ ॥
सुमनोरञ्जिनी
तन् नारदोक्तम् । निशातं निशितम् ॥ १८ ॥
निवारितो नारदेन तत्सुतौ मृत्युमात्मनः ।
ज्ञात्वा लोहमयैः पाशैर्बबन्ध सह भार्यया ॥ १९ ॥
सत्यधर्मीया
तत्सुतौ वसुदेवसुतौ । लोहमयैः कृष्णायोविकृतैः पाशैः सह भार्यया वसुदेवं बबन्ध ॥ १९ ॥
सुमनोरञ्जिनी
नारदेन निवारितः ॥ १९ ॥
प्रतियाते तु देवर्षौ कंस आशास्य केशिनम् ।
प्रेषयामास हन्येतां भवता रामकेशवौ ॥ २० ॥
पदरत्नावली
आशास्य सम्यक् शिक्षयित्वा ॥ २० ॥
सत्यधर्मीया
केशिनं तन्नामानं दनुजमाशास्य शिक्षयित्वा । तत्किंरूपं शासनमित्यतः शंसति । तौ रामकेशवौ भवताऽऽशास्येत्यप्यन्वेति । प्राक् प्रहारादिभिराशास्य हन्येतामिति प्रेषया-मास । एवमाशास्य मनस्यभिलाषं कृत्वेत्यर्थः ॥ २० ॥
सुमनोरञ्जिनी
केशिनं तन्नामकं दैत्यम् । रामकेशवौ हन्येतामिति आशास्य आज्ञाप्य
॥ २० ॥
ततो मुष्टिकचाणू१रशलतोसलकादिकान् ।
अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् ॥ २१ ॥
सत्यधर्मीया
हस्तिपान् इदानीमेव दानवारिभयत एकं वस्तु दृष्टमनेकधा भवतीति सूचयति बहुवचनम् । अवान्तराम्बष्टसहितमिति बहुवचनमिति वा । महामात्रेति चैकमात्रसम्बोधनात् । हस्तिपानितिवाग्वन् महामात्रशब्दस्वारस्याच्चेति ज्ञेयम् ॥ २१ ॥
सुमनोरञ्जिनी
मुष्टिकश् चाणूरः शलस् तोसलक एते आदिका येषां तान् ॥ २१ ॥
भोभो निशम्यतामेतद् वीर चाणूरमुष्टिकौ ।
नन्दव्रजे किलासाते सुतावानकदुन्दुभेः ॥ २२ ॥
सत्यधर्मीया
वीरेति चाणूरमुष्टिकोभयविशेषणम् । अनेनानयोरितरशलतोसलतो विशेषस्तत्रापि तन्मुख्यं ज्ञानशब्दयोरितिवच्चेन्द्रकामावित्यादिवत्तरतमभावो ध्वन्यते ॥ २२ ॥
रामकृष्णौ सुतौ मह्यं मृत्यू कालनिदर्शितौ ।
भवद्भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया ॥ २३ ॥
पदरत्नावली
मृत्यू मारकौ । कालेन यमेन नितरां दर्शितौ ॥ २३ ॥
सत्यधर्मीया
मृत्यू कालेन दुर्गारूपेण । यथोक्तमेकादशतात्पर्ये । हरिश्च प्रकृतिश्चेत्यारभ्य कालशब्दोदिताः क्रमादिति । निदर्शिताविति छत्रिन्यायेन क्वचिज्जात इत्येव तदुक्तेः ॥ २३ ॥
सुमनोरञ्जिनी
कालेन दैवेन निर्दर्शितौ ॥ २३ ॥
मञ्चाः क्रियन्तां विविधा मल्लरङ्गपरिश्रिताः ।
पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम् ॥ २४ ॥
पदरत्नावली
मञ्चा उत्तुङ्गस्तम्भादिरचितस्थानानि । मल्लरङ्गपरिक्षिता मल्लयुद्धस्थानस्य परितो वर्तमानाः । स्वैरसंयुगं योद्धृपरिश्रमसर्वस्वं सङ्ग्राममिति यावत् ॥ २४ ॥
सत्यधर्मीया
मल्लरङ्गं परितः श्रिताः । स्वैरं योद्धृपरिश्रमसर्वस्वं संयुगं पश्यन्तु ॥ २४ ॥
सुमनोरञ्जिनी
मल्लरंगं परितः श्रिताः स्थिता मञ्चा उन्नतस्थानानि । स्वैरं यथेच्छं क्रियमाणं संयुगं मल्लयुद्धम् ॥ २४ ॥
महामात्र निबोधेदं वचो मम महामते ।
गजः कुवलयापीडः प्रभिन्नकरटामुखः ॥ २५ ॥
पदरत्नावली
हे महामात्र हस्तिपाधिप । ‘महामात्रो महादेवे समृद्धे हस्तिपाधिपे’ इत्युत्पलमाला । निबोध शृृणु । प्रभिन्ने करटयोर्गण्डयोरामुखे मदधारानिस्सरणद्वारे यस्य स तथा
॥ २५ ॥
सत्यधर्मीया
हे महामात्र हस्तिपाधिप । महामात्रः समृद्धेऽथाप्यमात्ये हस्तिपाधिप इति विश्वः । मम वच इदं निबोध शृृणु । प्रभिन्ने करटयोर्गण्डयोरामुखे ईषन्मदोदकनिःसरणद्वारे यस्य सः । करटो गजगण्डे स्यात्कुसुम्भे कृच्छ्रजीविनीति । मुखं निःसरण इति च विश्वः ॥२५॥
सुमनोरञ्जिनी
महामात्र हस्तिपक कुवलयापीडस् तन्नामकः । प्रभिन्नं मदस्रावि करटामुखं गण्डतुण्डो यस्य सः गजः ॥ २५ ॥
संस्थाप्यो द्वारि रङ्गस्य करारोपितमुद्गरः ।
तेन ते तत्र हन्तव्यौ सुतावानकदुन्दुभेः ॥ २६ ॥
पदरत्नावली
करे शुण्डायामारोपिता मुद्गरो द्रुघणो यस्य स तथा ॥ २६ ॥
सत्यधर्मीया
करे शुण्डायामारोपितो मुद्गरो यस्य सः । ते त्वया ॥ २६ ॥
सुमनोरञ्जिनी
कुत इत्यतस्तत्प्रयोजनमाह । तेन गजेन मदस्रावि ते त्वया हन्तव्यौ । अन्तर्भावितणिजर्थोऽयं हनयितव्याविति यावत् ॥ २६ ॥
सोऽप्याकुलमतिः प्राह निहन्तव्यौ कथं मया ।
स्वस्रीयौ भोजराजस्य कंसस्य जगतीपतेः ॥ २७ ॥
पदरत्नावली
स्वस्रीयौ भगिनीपुत्रौ । जगतीपतेः राजप्रधानलोकभर्तुः । ‘जगती राजप्रधानलोकेऽपि’ इति हलायुधः ॥ २७ ॥
सत्यधर्मीया
महामत इति सम्बोधनयोग्यतां प्रकटयन्नाहेत्याह ॥ सोऽपीति । स्वस्रीयौ स्वसुः पुत्रौ गतं षष्ठे । भोजराजस्य तत्कुलपतेर्जगती पृथिवी तस्याः पत्युः कंसस्य तवेत्यन्वयः । कथं हन्तव्यावित्याकुलमतिरतिविह्वलबुद्धिस्तं प्रत्येवमाह । जगती रत्नगर्भा भूर्भूतधात्र्यब्धिमेखलेत्यमरः
॥ २७ ॥
सुमनोरञ्जिनी
सोऽपि हस्तिपकोऽपि । कंसस्य तव । स्वस्रीयौ कथं हन्तव्याविति तत्राह
॥ २७ ॥
इत्युक्तस्तेन कंसस्तु महामात्रेण दुर्मतिः ।
उवाच भूयो वचनं समेतान् श्रावयन् नृप ॥ २८ ॥
सत्यधर्मीया
स्वमातृदोषाविष्करणं न कार्यमिति मतिरहितत्वाद्दुर्मतिः । तदपि नैकान्त इत्याहेव नैकवारमित्यप्याह ॥ भूयो वचनं समेतांच्छ्रावयन्निति । मतिदौष्ट्योपोद्बलमिदमपीति ज्ञेयम्
॥ २८ ॥
सुमनोरञ्जिनी
समेतान् मिलितान् ॥ २८ ॥
कंस उवाच—
शृणुध्वमेतद् वचनं मयोदितं निशम्य सर्वे हृदि धारयन्तु तत् ।
येनाहमेतेष्वसुहृत्त्वमादितश्चरामि बन्धुष्वपि तस्य कारणम् ॥ २९ ॥
पदरत्नावली
एतेषु कृष्णादिषु बन्धुषु असुहृत्त्वं द्वेषितामादितः पूर्वतश्चरामि करोमि
॥ २९ ॥
सत्यधर्मीया
एतद्वचनमन्यदीयमेव मयोदितमनुभाषणमिषेण सर्वे यूयं शृृणुध्वम् । निशम्य श्रुत्वा च भवन्तो हृदि धारयन्तु येन कारणेनाहमेतेषु कृष्णादिषु बन्धुष्वसुहृत्त्वं द्वेषितामादितः प्राक्तश्चरामि करोमि तस्य कारणं शृृणुध्वमिति ॥ २९ ॥
सुमनोरञ्जिनी
असुहृत्वं शत्रुभावम् । एतेषु यादवेषु ॥ २९ ॥
माता मम महाभागा कदाचित् कमलेक्षणा ।
विचचार गृहोद्याने मन्दमारुतवीजिते ॥ ३० ॥
सत्यधर्मीया
महाभागेत्यमनःपूर्वकतां वक्ष्यमाणकर्मणः सूचयति ॥ कमलेक्षणेति ॥ द्रुमिलमनःकरणकारणोक्तिरिति ज्ञेयम् । गृहान्तर्गतलीलावने ॥ ३० ॥
प्रोत्फुल्लाशोकबकुलपूगपुन्नागशोभिते ।
भ्रमद्भ्रमरसङ्घाते कूजत्कोकिलसङ्कुले ॥ ३१ ॥
सत्यधर्मीया
प्रोत्फुल्लेत्यशोकादिविशेषणम् ॥ ३१ ॥
सुमनोरञ्जिनी
भ्रमतां चरतां भ्रमराणां सङ्घातः समुदायो यस्मिन् तस्मिन् ॥ ३१ ॥
नृत्यच्छिखण्डिनिवहे मर्कटाटोपसुन्दरे ।
वसन्तसमये रम्ये सालमण्डलमण्डिते ॥ ३२ ॥
चरन्ती तत्र मे माता चिन्तयामास सुव्रता ।
भर्तारं कामसन्तप्ता ऋतुस्नाता स्वलङ्कृता ॥ ३३ ॥
पदरत्नावली
सालानां सर्जवृक्षाणां मण्डलेन समूहेन मण्डिते । सुव्रता पतिव्रता
॥ ३२,३३ ॥
सत्यधर्मीया
सुव्रता पतिव्रता ॥ ३३ ॥
सुमनोरञ्जिनी
नृत्यतां शिखण्डिनां मयूराणां निवहः समूहो यस्मिन् । मर्कटानाम् आटोपेन सुन्दरे । सालानां सर्जानां मण्डलेन समूहेन मण्डिते ॥ ३२,३३ ॥
तत्रैव कश्चिद् गन्धर्वो द्रुमिलो नाम नामतः ।
चरन्नन्तर्हितः काले दृष्ट्वा तामेकचारिणीम् ॥ ३४ ॥
पदरत्नावली
नामतो द्रुमिल इति नाम प्रसिद्धः ॥ ३४ ॥
सत्यधर्मीया
नामतो द्रुमिलो, नाम प्रसिद्धम् । अन्तर्हितो मायया । एकैव चरतीत्येक-चारिणी ताम् ॥ ३४ ॥
सुमनोरञ्जिनी
नामतो द्रुमिल इति नाम प्रसिद्धः । अन्तर्हितो ऽदृश्यः ॥ ३४ ॥
विज्ञाय चिन्तितं तस्याः सर्वसत्त्वाशयार्थवित् ।
उग्रसेनवपुर्बिभ्रत् सस्मितालापवीक्षितम् ॥ ३५ ॥
पदरत्नावली
सर्वेषां सत्त्वानां प्राणिनामाशयेऽन्तःकरणे स्थिताश्च तेऽर्थाश्च तान् वेत्तीति सर्वसत्त्वाशयार्थवित् ॥ ३५ ॥
सत्यधर्मीया
सर्वेषां सत्त्वानां प्राणिनामाशयेऽन्तःकरणे स्थिताश्च तेऽर्थाश्च तान्वेत्तीति स तथेति तच्चिन्तितज्ञाननिदानाभिधानम् । उग्रसेनस्य वपुरिव विद्यमानं वपुः सस्मितालापवीक्षितं बिभ्रद्दधत् ॥ ३५ ॥
सुमनोरञ्जिनी
चिन्तितं चिन्ताविषयम् । सर्वसत्वानां सर्वप्राणिनाम् आशयार्थम् अभिप्रेतार्थं वेत्तीति तथोक्तः । परचित्तवृत्यभिज्ञत्वलक्षणसिद्धिमानिति यावत् । स्मितालापवीक्षितैः सहितं यथा भवति तथा ॥ ३५ ॥
तामाससाद कामार्तः कामयानां पतिव्रताम् ।
अजानमाना साऽभ्येत्य रेमे तेन समं वने ॥ ३६ ॥
सत्यधर्मीया
तामाससाद । अजानमाना पतीतर इत्यजानती ॥ ३६ ॥
सा तं विदित्वा रमणेतरं सती नितान्तखेदाविललोचनाशया ।
उवाच कस्त्वं कितवार्यगर्हितं दुरात्मना येन कृतं त्वयेदृशम् ॥ ३७ ॥
पदरत्नावली
नितान्तखेदेन गाढव्यथया आविलौ व्याकुलौ लोचनाशयौ नयनमानसे यस्याः सा तथा । हे कितव धूर्त । आर्यैर्गर्हितं निन्दितम् ॥ ३७ ॥
सत्यधर्मीया
सा मन्माता सती । रमणेन ग्राम्यकर्मणैवेतरं पतिभिन्नं नित्यानुभूतव्यत्यस्तैः ।
शङ्किता साऽभवत्पश्चात्तस्य गौरवदर्शनात् ।
सा तमाहोत्थिता नत्वं भीता मम पतिर्ध्रुवम् । इति हरिवंशोक्तेः ।
विदित्वा ज्ञात्वा नितान्तं गाढं खेदो यस्तेनाविलौ अनाच्छौ लोचनाशयौ नयनमानसे यस्याः । आर्यगर्हितं महद्विनिन्दितम् । कितव वञ्चक येन दुरात्मना दुष्टमनस्केन त्वयेदृशं कृतं त्वं क इत्युवाच ॥ ३७ ॥
सुमनोरञ्जिनी
रमणे रतिक्रियायां रतौ विषये वा । सा तं विदित्वा पत्युरन्यं ज्ञात्वा । नितान्तखेदेन अतिविषादेन आविलौ व्याप्तौ लोचनाशयौ यस्याः सा । हे कितव वञ्चक आर्याणां गर्हितं निन्दितम् ॥ ३७ ॥
इति ब्रुवन्तीं परिसान्त्वयन् शनैः स दीर्घबाहुर्द्रुमिलोऽभ्यभाषत ।
वयं हि गन्धर्वकुलोद्भवाः प्रिये गीर्वाणतुल्यामरवल्लभानुगाः ॥ ३८ ॥
पदरत्नावली
गीर्वाणैर्देवैस्तुल्या समाश्च तेऽमरवल्लभस्येन्द्रस्यानुगा अनुचराश्च ॥ ३८ ॥
सत्यधर्मीया
इति ब्रुवन्तीं दीर्घबाहुर्द्रुमिलस्तत्प्रसूत इति स्वस्य बलिष्ठतां सूचयितुमिदम् । परिसान्त्वयन् शनैरभाषत । महात्मसङ्गे जाते मोदः सम्पादनीयः खेदः कुत इति द्रुमिलो निजदुर्मिलतां ललनां प्रतिलपयति ॥ वयमिति ॥ हि यतः प्रिये वयं गन्धर्वकुलोद्भवा जात्या गन्धर्वाः किञ्च गीर्वाणैर्देवैस्तुल्याः समाश्च तेऽमरवल्लभ इन्द्रस्तस्यानुगा भृत्याश्च ते । या गीस्तया वाणतुल्या तामभाषतेत्यन्वयः ॥ ३८ ॥
सुमनोरञ्जिनी
अमराणां वल्लभानुगाः प्रियभृत्याः ॥ ३८ ॥
भवादृशीनां मनुजाङ्गनानां जानीहि भद्रे सुलभा वयं न च ।
जराविनाशाद्यखिलाधिभागिनां नृणां सुराणां महदन्तरं प्रिये ॥ ३९ ॥
पदरत्नावली
जरा च विनाशश्च तावादी येषां ते जराविनाशादयः, ते च तेऽखिलाधयश्च तान् भजन्ति तच्छीला इति जराविनाशाद्यखिलाधिभागिनस्तेषाम् । महदन्तरं महान् विशेषः
॥ ३९ ॥
सत्यधर्मीया
भवादृशीनां मनुजाङ्गनानां हे भद्रे वयं सुलभाः सुखलभ्या न चेति जानीहि । पुनर्भद्रे प्रिये वयं वयमित्युक्तिः पद्ममुखीसुमुखीकृत्या इति ज्ञेयम् । दुर्मिलता च त इति तां विलासयति । जरा च विनाशश्च तावादी येषां ते च तेऽखिलाधयश्च तान् भजन्ति तच्छीला इति तेषां नृणां, सुराणां निर्जराणां महदन्तरं महान्विशेष इति ॥ ३९ ॥
सुमनोरञ्जिनी
जरा च विनाशश्च तावेवादी येषामवस्थाविशेषाणां तथा अखिलानाम् आधीनां च भजितुं शीलं येषां तथाविधानां नृणां तद्विधुराणां सुराणां च महदन्तरं महातारतम्यमस्ति । अतो भवादृशीनां वयं न सुलभा इत्यन्वयः ॥ ३९ ॥
इति ब्रुवन्तं सा भूयः प्राह क्रोधाकुलेन्द्रिया ।
किं मां सान्त्वयसे १भूयः कृत्वेत्थं दुष्टचेष्टितम् ॥ ४० ॥
सत्यधर्मीया
जारारे विशेषोऽस्तु किमनेन न दोषः स्यादिति मतिमत्याह ॥ इति ब्रुवन्तमिति । सा क्रोधाकुलेन्द्रिया । कस्त्वमित्युक्तेः प्राग्भूय इत्युक्तिः । इत्थं दुष्टचेष्टितं दुर्व्यापारं कृत्वा मां भूयः किं सान्त्वयसे । मूढेति निरूढः पाठः । सान्त्वयसि समाधत्से ॥ ४० ॥
सुमनोरञ्जिनी
अस्तु, त्वं यथा तथा तथापि पातिव्रत्यभङ्गो मा भूदित्यभिप्रायेणाक्षिपति ॥ इतीति ॥ ४० ॥
इमानतिक्रम्य जलाग्निमेदिनीसमीरणाकाशनिशेशसूर्यान् ।
दिक्कालधर्मा१नवधीर्य येन दुरात्मनेत्थं मलिनीकृताऽहम् ॥ ४१ ॥
पदरत्नावली
अवधार्य निश्चित्य ॥ ४१ ॥
दुर्घटभावदीपिका
अवधार्येत्यस्य निश्चित्येत्यर्थः । एतेनावधार्येत्येतद्व्यर्थमिति दूषणं निरस्तम् । जलादयो वर्तन्त इति निश्चये विद्यमानेऽपि जलादीनतिक्रम्य मलिनीकृतेत्यर्थलाभार्थमवधार्येत्युक्त-मित्यभिप्रायात् ॥ ४१ ॥
सत्यधर्मीया
हे कान्ते एकान्ते यज्जातं जातं कोऽपि न वेत्तीतीयान् कोपः कुत इत्यतः सुकृतदुष्कृतसाक्षिण एत इति सा सारसाक्षी प्रोच्य तं तुच्छीकरोति ॥ इमानिति ॥ इः इच्छा तेनैव मम मं विषं येन स तत्सम्बुद्धिः । मासे च समये चन्द्रे यमे वेधसि मं विषमिति विश्वः । हे आनतिक्रम्य आनतिः सत्कार्यप्रवणता क्रम्या क्रमणीया क्षेप्या यस्य स तत्सम्बुद्धिः । जडेषु चेतनग्रहः समीरणो वायुरवधीर्य । धृङनादरे । विस्तृतं चैतद्युक्तिपादीयसुधास्थगौरवमनुरुध्य प्रयोजन-मवधीर्यतामिति वाक्यटिप्पणे । अवज्ञायातो नैकतरातिरेकः । वैशकलित्येनार्धयोरन्वय इति पदद्वयं वा । येन दुरात्मनाऽहं मलिनीकृता । च्विना प्रागित एतादृङ्मालिन्याभावः सूचित इति ज्ञेयम्
॥ ४१ ॥
सुमनोरञ्जिनी
इमान् जलाग्न्यादीन् । साक्षित्वेन स्थितान् निश्चित्यापि तान् अवधीर्य अवज्ञायेत्यर्थः । मलिनीकृता परपुरुषाभिगमनदोषवती कृता ॥ ४१ ॥
गजेनेव मदान्धेन पद्मिनी वनमध्यगा ।
विशृङ्खलेन विमला येनाहं मलिनीकृता ।
स त्वं किमिति मां भूयः सान्त्वयस्यमराधम ॥ ४२ ॥
पदरत्नावली
हे अमराधम देवैर्गर्हित । ‘अधमौ गर्हितन्यूनौ’ इति यादवः ॥ ४२ ॥
सत्यधर्मीया
वनमध्यगेति पद्मिनीपक्षे जलमध्यगेति पद्माक्षीपक्षे । वनमध्यमुद्यानमध्यं गच्छतीति सा तथेत्यर्थो ज्ञेयः । विशृृङ्खलेनोद्घाटितनिगडेन । अन्यत्र सन्मात्रमपहाय स्वैरेणेत्यर्थः । हे अमराधम देवैर्गर्हित एतत्ते कर्म तव, विदित्वा त्वां गर्हयेयुरिति भावः । अधमौ गर्हितन्यूनाविति च । अधमः कुत्सिते न्यून इति विश्वः । देवनीच वा ॥ ४२ ॥
सुमनोरञ्जिनी
अमरेषु अधम । तदेव सदृष्टान्तं विवृणोति ॥ गजेनेति ॥ विशृृङ्खलेन विधिनिषेधस्मरणलक्षणशृृङ्खलारहितेन । अन्यत्र स्पष्टम् । मदान्धेन उभयत्र समम् । अहमपि पद्मिनी । स्त्रीजातिविशेषः । तादृशी वनमध्यगा उपवने चरन्ती ॥ ४२ ॥
इति ब्रुवन्तीं प्रोवाच स भूयः शापशङ्कितः ।
अनुलोमः सरोजाक्षि मनुष्यासु दिवौकसाम् ॥ ४३ ॥
नराणां देवकान्तासु प्रतिलोमो हि सङ्गमः ।
जानीहि नाहमागस्कृत् तेन पङ्कजगन्धिनि ॥ ४४ ॥
पदरत्नावली
दिवौकसां देवानां मनुष्यासु सङ्गमोऽनुलोमो युक्तः । स्वभावतस्तेषामुत्तमत्वात् । देवकान्तासु नराणां सङ्गमः प्रतिलोमो विरुद्धः । शन्तन्वादीनां गङ्गादिषु सङ्गमो दृष्टचरोऽतः कथमेत-दित्यादिमन्दाशङ्कां तत्रापि वरुणस्य शन्तनुतयाऽवतारत्वादित्युभयोरपि देवत्वेन न दोष इति मानप्रसिद्धिद्योतकहिशब्देन परिहरति ॥ ४३,४४ ॥
सत्यधर्मीया
नाधर्मो मयाऽचारीति समाधत्ते ॥ इतीति । हे पङ्कजगन्धिनि पङ्कजस्य गन्धः सोऽस्या अस्तीति तत्सम्बुद्धिः । हे सरोजाक्षि मनुष्यासु दिवौकसां सङ्गमोऽनुलोमो युक्तः स्वभावतस्तेषामुत्तमत्वात् । देवकान्तासु नराणां सङ्गमः प्रतिलोमो विरुद्धः स न कार्यः । हिशब्देन तत्तज्जातित्वेनैवैतस्य विरुद्धता नावतारादिष्विति शन्तनुगङ्गादिव्यावृत्तिर्मानप्रसिद्धेरिति सूचयति । तेन हेतुनाऽहमागस्कृदपराधकर्ता न ॥ ४३,४४ ॥
सुमनोरञ्जिनी
मनुष्यासु मनुष्यस्त्रीषु । दिवौकसां देवानां सङ्गमो ऽनुलोमः युक्तः । अतो दोषावहो न भवति । प्रतिलोमः प्रतिकूलः । स्वोच्चदारपरिग्रहरूपत्वात् ॥ ४३,४४ ॥
तस्मात् ते जायते पुत्रो मद्वीर्यं न वृथा भवेत् ।
श्रीमान् धीमान् महोत्साहो न मे वाग् जायते मृषा ॥ ४५ ॥
सत्यधर्मीया
तस्माच्छ्रीमान्धीमान्महोत्साहः पुत्रो जायते मद्वीर्यं रेतो न वृथा भवेत् । मे वाक् च मृषा न जायते ॥ ४५ ॥
इत्येवं वादिनं क्रुद्धा माता मम यशस्विनी ।
प्राह सन्त्यज्य सन्तप्ता पातिव्रत्यं सुदुर्लभम् ॥ ४६ ॥
पदरत्नावली
पातिव्रत्यं सन्त्यज्यात एव सन्तप्ता ॥ ४६ ॥
दुर्घटभावदीपिका
यशस्विनी सन्तप्ता क्रुद्धा मम माता सुदुर्लभं पातिव्रत्यं सन्त्यज्य सम्यक् त्याजयित्वेति वादिनमेनं प्राहेति । एतेन तया पातिव्रत्यस्य त्यक्तत्वात् । सन्त्यज्येत्यनुपपन्नमिति चोद्यमपहस्तितम् । सन्त्यज्येत्यन्तर्णीत ण्यर्थ इत्यङ्गीकृत्य सन्त्यज्येत्यस्य सम्यक् त्याजयित्वेत्यर्थ इत्युक्तत्वात् ॥ ४६ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे चतुस्त्रिंशोऽध्यायः ॥ १०-३४ ॥
सत्यधर्मीया
सुदुर्लभं पातिव्रत्यं सन्त्यज्य स्थितेति क्रुद्धा मम मातैवं वादिनम् । निन्दा द्योत्यत इतिना इति प्राह ॥ ४६ ॥
सुमनोरञ्जिनी
पातिव्रत्यं सन्त्यज्य पातिव्रत्यत्यागेन सन्तप्तेति यावत् ॥ ४६ ॥
निस्सेतोर्भिन्नवृत्तस्य पापस्योन्मार्गवर्तिनः ।
क्रूरस्ते तनयो भूयात् साहसी निर्दयोऽघृणः ॥ ४७ ॥
पदरत्नावली
निस्सेतोर्निरस्तमर्यादस्य भिन्नवृत्तस्य नष्टस्वाचारस्य उन्मार्गवर्तिनो लोकवेद-प्रतिषिद्धाचारवर्तिनः पापस्य पापात्मनस्ते । अघृणो जुगुप्सारहितः । ‘घृणा जुगुप्साकृपयोः’ इति यादवः ॥ ४७ ॥
सत्यधर्मीया
निर्निर्मितः सेतुर्येन निर्जितराक्षसो रामस्तस्य सकाशाद्भिन्नं विलक्षणं वृत्तमाचारो यस्य । एकपत्नीव्रतरामविलक्षणवृत्तस्य व्यभिचारिण इति यावत् । उन्मार्गवर्तिनः पापस्य ते तव तनयः साहसी स्वबलमनवलोक्य कर्ता । निर्दयोऽदाताऽघृणः कृपाविकलोऽघृणो जुगुप्सारहितो निर्दयोऽघृण इति वा । घृणा जुगुप्साकृपयोरिति विश्वः । दया दानेति स्मृतेः । भूयाद्धीमांच्छ्रीमा-न्महोत्साहीति भावः ॥ ४७ ॥
सुमनोरञ्जिनी
निःसेतोर् निर्मर्यादस्य । भिन्नवृत्तस्य । भिन्नं भग्नं वृत्तं शीलं सात्विकस्वभावो येन । कुतः । उन्मार्गवर्तिनस्ते तनयः । साहसी हिंसकः, अघृणो ऽकृत्येषु जुगुप्सारहितः । घृणा जुगुप्साकृपयोरित्यभिधानात् ॥ ४७ ॥
नानुग्राह्यो देवतानां द्विजानां च तपस्विनाम् ।
इत्थं वदन्त्यां तस्यां स क्रुद्धायां शापशङ्कितः ।
तावकानां भवेच्छत्रु(स्तत्रैवा)रित्युक्त्वाऽन्तरधीयत ॥ ४८ ॥
पदरत्नावली
तर्हि तावकानां सतां त्वद्बन्धूनामेव ॥ ४८ ॥
सत्यधर्मीया
देवतानां तपस्विनां द्विजानां च नानुग्राह्यः । क्रुद्धायां तस्यामित्थं वदन्त्यां शापेन शङ्कितः सतीयं कुपिता सती यदि दद्याच्छापं तर्हि न सोऽन्यथा भवेदिति सन्देहग्रस्त-स्तावकानां सतां स्वकीयानां शत्रुर्भवेदित्युक्त्वा तत्रैव स्थितस्थान एवान्तरधीयतान्तर्हितोऽभूत्
॥ ४८ ॥
सुमनोरञ्जिनी
इत्थं वदन्त्यां सत्याम् । तावकानां भोजवृष्ण्यन्धकानाम् ॥ ४८ ॥
गते तस्मिन् महोद्यानान्माता मम तपस्विनी ।
केनाप्यज्ञातवृत्तान्ता गृहानेवाभ्यपद्यत ॥ ४९ ॥
सत्यधर्मीया
तस्मिन्गन्धर्वे ॥ ४९ ॥
ततः सा गर्भमालम्ब्य कालेनैव सुषाव माम् ॥ ५० ॥
पदरत्नावली
कालेनैव प्रसवकालेनैव ॥ ५० ॥
सत्यधर्मीया
ततस्तद्दिनप्रभृति गर्भमालम्ब्य काले दशमे मासि मां सुषावासूत ॥ ५० ॥
इति मे नारदः प्राह कदाचिद् भगवान् ऋषिः ।
ततः प्रभृत्यहं २द्वेष्मि तानेतान् बन्धुदुर्जनान् ॥ ५१ ॥
पदरत्नावली
बन्धवः स्वकीयाश्च ते दुर्जनाश्च बन्धुदुर्जनास्तान् ॥ ५१ ॥
सत्यधर्मीया
भगवानृषिरित्यन्यथाकथनहेतूक्तिः । ततः प्रभृति तद्दिनमादीकृत्यैतान् बन्धुदुर्जनान् बन्धवः स्वकीयाश्च ते दुर्जनाश्च तानहं द्वेष्मि द्वेषं करोमि । अनेन स्वैरसंयुगमित्यत्र (२४,श्लो) स्वैर् अ संयुगमिति पदत्रयम् । अनिमान इत्यत्रेव नञर्थस्याकारस्य स्वपदेनान्वयः । अस्वैर्न स्वकीयैः संयुगं पश्यन्त्विति वृत्त्यन्तरमादर्शि ॥ ५१ ॥
सुमनोरञ्जिनी
बन्धुभूतान् दुर्जनान् ॥ ५१ ॥
यूयं २तत्र प्रमाणं हि ३द्विषन्त्येतेऽपि मां सदा ।
उग्रसेनं च दुर्बुद्धिमाहुकं च दुराशयम् ॥ ५२ ॥
सत्यधर्मीया
तेऽपि मां सदा विद्विषन्ति । न केवलमहमेकल एवं कलयामि किन्तु यूयं सर्वेऽपि तत्र तन्मद्द्वेषे प्रमाणं साक्षिणो मद्विषये तद्द्वेषो युष्मत्साक्षिसिद्धो नाहं वितथकथ इति भावः । दुर्बुद्धिमुग्रसेनं दुराशयमाहुकं च ॥ ५२ ॥
सुमनोरञ्जिनी
तेषामनुभवमारोहयति ॥ यूयमिति ॥ हि यस्मादेवं तस्मादेतेऽपि मां सदा द्विषन्ति । तत्र यूयमेव प्रमाणं साक्षिणः ॥ ५२ ॥
वसुदेवं च कितवमन्यांश्च तदुपाश्रयान् ।
हत्वा न जायते दोषो मम गन्धर्वजन्म नः ॥ ५३ ॥
पदरत्नावली
उग्रसेनादीन् हत्वाऽपि न मे पितृहत्यादिदोषः स्यादित्यत्र हेतुमाह– गन्धर्वजन्मन इति ॥ ५३ ॥
सत्यधर्मीया
कितवं, पोतं तत्र प्रस्थाप्य कन्यामन्यायतो नीत्वा यात इति मायावीति कितवम् । हत्वा स्थितस्य मम दोषो न जायते । क्षेत्रमात्रस्वाम्युग्रसेनोऽतो गन्धर्वजन्म नो ममेति निर्लेपताया मार्गान्तरप्रदर्शनम् ॥ ५३ ॥
सुमनोरञ्जिनी
दोषः बन्धुहनननिमित्तः । कुतः । गन्धर्वजन्मनि, मम गन्धर्वजातत्वाद्बन्धुतैव नास्तीति भावः ॥ ५३ ॥
तेनादेक्ष्यामि १पुरुषं हन्येतामिति तावहम् ।
ताभ्यां हताभ्यां बालाभ्यां कुञ्जरेण बलीयसा ॥ ५४ ॥
सत्यधर्मीया
तेन हेतुना पुरुषं प्रस्तुतं केशिनं, तौ हन्येतां त्वयेत्यहमादेक्ष्याम्याज्ञापयामि । यथाकथञ्चिन्मुक्तौ चेत्केशिना बलीयसा कुञ्जरेण हताभ्याम् ॥ ५४ ॥
सुमनोरञ्जिनी
तेन कारणेन । पुरुषं भृत्यभूतं हस्तिपकम् ॥ ५४ ॥
कृत्वा पारत्रिकीं पूजां यान्तु तत्पदवीमिमे ।
वसुदेवोग्रसेनौ च २तथाऽन्यौ नन्ददेवकौ ॥ ५५ ॥
पदरत्नावली
पारत्रिकी पूजां मदभिप्रेतप्रेतक्रियारूपां परलोकसम्बन्धिपूजामित्यर्थः ॥५५॥
सत्यधर्मीया
पारत्रिकीं पूजां मदभिप्रेतप्रेतकार्यमिममुग्रसेनाद्या अपि तत्पदवीं मृत्युमार्गं यान्तु । तानपि घातयामीत्याशयः । वसुदेवश्चोग्रसेनश्च ताभ्यामन्यौ नन्ददेवकौ च ॥ ५५ ॥
गोपाला यादवाश्चैव ये चान्ये ताननुव्रताः ।
पश्यन्तु विवृतैर्नेत्रैर्हन्यमानौ स्वदारकौ ॥ ५६ ॥
पदरत्नावली
निभृतैर्वारिभृतैः, शोकाश्रुपूर्णैरित्यर्थः ॥ ५६ ॥
सत्यधर्मीया
गोपाला यादवाश्चेत्येते विगतं वृतमावरणं येषां विवृतास्तैर्नेत्रैः । वक्त्रनेत्रारण्यगाण्डीवानि नपुंसके चेति लिङ्गानुशासनसूत्रान्नेत्रशब्दः पुल्लिङ्गः । प्रकृते सङ्गमय्योक्तिरियमन्यथाऽपि निर्वाहादिति ज्ञेयम् । हन्यमानौ स्वदारकौ पश्यन्तु ॥ ५६ ॥
आहूयन्तां जनपदाः पश्यन्तु मम पौरुषम् ॥
महामात्र त्वया भद्र १रङ्गद्वार्यपनीयताम् ॥ ५७ ॥
सत्यधर्मीया
जनपदा देशस्था जनाः । हे महामात्र हे भद्र रङ्गद्वारि रङ्गकवाटेऽपनीयता-मुपनीयताम् । अपाश्रय इतिवदयम् । उपनीयतामित्यपि क्वचित्पाठः । इत उपनीयतामिति
॥ ५७ ॥
द्विपः कुवलयापीडो जहि तेन ममाहितौ ।
आरभ्यतां धनुर्यागश्चतुर्दश्यां यथाविधि ॥ ५८ ॥
सत्यधर्मीया
तेन द्विपेन ममाहितौ वैरिणौ जहि । रङ्गन्नेत्राभ्यां स्रवद्वारि पयो यथा भवति तथा जहीति वाऽन्वयः । यथाविधि चतुर्दश्यां धनुर्यागश्चारभ्यताम् ॥ ५८ ॥
सुमनोरञ्जिनी
रङ्गद्वारि कुवलयापीडो द्विपो ऽपनीयतां नीयताम् ॥ ५७,५८ ॥
विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे ।
इत्याज्ञाप्यार्थतत्त्वज्ञमाहूय यदुपुङ्गवम् ।
गृहीत्वा पाणिना पाणिं तत्राक्रूरमुवाच ह ॥ ५९ ॥
पदरत्नावली
मीढुषेऽभीष्टवर्षिणे भूतराजाय भैरवविग्रहधारिणे रुद्राय मेध्यान् शुद्धान् पशून् विशसन्तु सूदयन्तु । अर्थतत्त्वज्ञं प्रयोजनरहस्यज्ञम् ॥ ५९ ॥
सत्यधर्मीया
भूतराजाय मीढुषेऽभिलषितसेचकाय मेध्यान् शुद्धान्पशून्विशसन्तु सूदयन्त्विति महामात्रादीनाज्ञाप्यार्थतत्त्वज्ञं प्रयोजनरहस्यज्ञं यदुश्रेष्ठमाहूयाकारयित्वा पाणिना स्वहस्तेन तद्धस्तं गृहीत्वा तत्र तत्समयेऽक्रूरं कर्मणा शर्मणा चोवाच ॥ ५९ ॥
सुमनोरञ्जिनी
मीढुषे भक्ताभीष्टसेचकाय । भूतराजाय रुद्राय । अर्थस्य प्रयोजनस्य । तत्वज्ञं सम्यग्वेत्तारं, प्रयोजनसाधनविषये निपुणमिति यावत् ॥ ५९ ॥
भो भो दानपते मह्यं क्रियतां मैत्रमादृतः ।
नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु ॥ ६० ॥
पदरत्नावली
दानपते वदान्य । मैत्रं मित्रकृत्यम् । भोजेषु पितृवंश्येषु वृष्णिषु यादवेषु च ॥ ६० ॥
सत्यधर्मीया
भो भो दानपते दातृपते शुद्धिमदधिप वा । दानं गजमदे त्यागे पालनच्छेद-शुद्धिष्विति विश्वः । मह्यं मम मैत्रमादृत इत्युभयान्वयि । मयाऽऽदृतो मय्यादृत इति क्रियताम् । किं तावदाप्तता तव मयि त्वयि मम वेत्यत आह । त्वत्तोऽन्यो भोजवृष्णिषु हिततमोऽतिमित्रं न विद्यत इति ॥ ६० ॥
सुमनोरञ्जिनी
मैत्रं मित्रेण क्रियमाणं कर्म । हिततमः हितकृच्छ्रेष्ठः ॥ ६० ॥
अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम् ।
यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद् विभुः ॥ ६१ ॥
पदरत्नावली
सौम्य सुन्दर । ‘सौम्यो विप्रे सोमजीवे सुन्दरे सोमदैवते’ इत्यभिधानम् । कार्यगौरवसाधनं महत्कार्यसाधकम् । स्वार्थं स्वाभीष्टम् ॥ ६१ ॥
सत्यधर्मीया
सौम्य शान्त सुन्दर वा । सौम्यो विप्रे सोमजीवे सुन्दरे सोमदेवत इति । गौरवेण प्रभुगौरवेण साधनं येन स कार्यस्य गौरवसाधनस्तं त्वामाश्रितः । तत्र निदर्शनमिन्द्रो विष्णुमुपेन्द्रमाश्रित्य स्वार्थं बलिबलादिजयलभ्यमध्यगमत्प्राप । कार्येषु गौरवं यस्य कार्यस्य तस्यापि साधनं साधकमिति वा ॥ ६१ ॥
सुमनोरञ्जिनी
हे सौम्य सोमपानार्ह सुन्दरेति वा । सौम्ये विप्रे सोमजीवे सुन्दरे सोमदैवत इत्यभिधानात् ॥ कार्यगौरवस्य कार्यमहत्वस्य साधनं साधकम् । अवान्तरकर्तृकरणत्वोपचारः । त्वाम् आश्रितो ऽवलम्बमानः कार्यं साधयिष्यामीति यावत् । विभुरपीन्द्रः । विष्णुम् आश्रित्य । स्वार्थं स्वप्रयोजनम् ॥ ६१ ॥
गच्छ नन्दव्रजं तत्र सुतावानकदुन्दुभेः ।
आसाते ताविहानेन रथेनानय माचिरम् ॥ ६२ ॥
सत्यधर्मीया
स्तुतिरियती कुतः प्रस्तुतं किं किं शंसेत्यतः शंसति ॥ गच्छेति ॥ आनकदुन्दुभेः सुताविति तद्वञ्चनसूचनार्थम् । तत्र नन्दव्रजे आसाते । अनेन रथेन ताविहानय । नालस्यं विलास्यमित्याह ॥ मा चिरमिति ॥ ६२ ॥
सुमनोरञ्जिनी
अस्तु किमाज्ञापयसीति तत्राह ॥ गच्छेति ॥ माचिरं शीघ्रम् ॥६२॥
निसृष्टः किल मे मृत्युर्देवैर्वैकुण्ठसंश्रयैः ।
तावानय समं गोपैर्नन्दाद्यैः साभ्युपायनैः ॥ ६३ ॥
पदरत्नावली
निसृष्टः क्लृप्तः । वैकुण्ठो विष्णुः संश्रयो येषां ते वैकुण्ठसंश्रयास्तैर्देवैः । साभ्युपायनैर् अभ्युपायनसहितैः ॥ ६३ ॥
सत्यधर्मीया
भो भो राजन् कुतः कुतः कुमारमारणमिति न वदेति स्वयं हेतुमाह ॥ निसृष्ट इति । वैकुण्ठो हरिस्तत्संश्रयैर्देवैर्मे मृत्युर्हन्ता निसृष्टः क्लृप्तो मयैवाग्रे जाग्रता भाव्यमिति तावानयेत्युक्तिः । एको नाकार्यः कार्यः प्रकाशः स्यादिति ताविति नन्दाद्यैर्गोपैः सममिति च वचनम् । साभ्युपायनैर्देयदायसहितैः ॥ ६३ ॥
सुमनोरञ्जिनी
वैकुण्ठो विष्णुः संश्रयो येषां तैः । मृत्युस् तयोरन्यतरेण निसृष्टः क्लृप्तः । अभ्युपायनं राज्ञे दीयमानकरस् तेन सहितैः ॥ ६३ ॥
घातयिष्य इहानीतौ कालकल्पेन हस्तिना ।
यदि मुक्तौ ततो मल्लैर्घातये वैद्युतोपमैः ॥ ६४ ॥
पदरत्नावली
कालकल्पेन मृत्युसमेन । वैद्युतोपमैरशनितुल्यैः ॥ ६४ ॥
सत्यधर्मीया
इहानीतौ कालकल्पेन यमसमेन ततो हस्तिहस्ततो वैद्युतोपमैर्विद्युतो निर्गतो वैद्युताग्निस्तेनोपमा येषां ते तैर्मल्लैः । ते नेतरधृता इत्यप्याह ॥ अमल्लैरिति । मल्लो धारणं तन्नैषामित्यमल्लास्तैः । मलमल्लधारण इति स्मरणात् ॥ ६४ ॥
सुमनोरञ्जिनी
कालकल्पेन मृत्युसदृशेन । वैद्युतः विद्युतो निसृतोऽग्निः । अशनिरिति यावत् । तस्योपमा येषां तैः ॥ ६४ ॥
तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् ।
तद्बन्धून् निहनिष्यामि वृष्णिभोजदशार्हकान् ॥ ६५ ॥
पदरत्नावली
निहतयोः सतोस् तप्तान् ॥ ६५ ॥
सत्यधर्मीया
कुतो मनोरथे न्यूनता स्वप्ने च पयोन्नाशने कुतो द्रवतेति नीतेः सर्वं स्वाभिप्रेतं शंसति ॥ तयोरिति ॥ तप्तान् दुःखतः ॥ ६५ ॥
उग्रसेनं मत्पितरं स्थविरं राज्यकामुकम् ।
तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ ६६ ॥
ततश्चैषा मही मित्र भवित्री नष्टकण्टका ।
जरासन्धो मम २गुरुर्विविदो दयितः सखा ॥ ६७ ॥
पदरत्नावली
नष्टकण्टका नष्टशत्रुर्भवित्री भविष्यति । ननु कतिपयशत्रुवधेन कथं भूमिर्नष्टकण्टका स्याज् जरासन्धादिबलिष्ठपृथ्वीपतीनां सत्त्वादित्यत आह जरासन्ध इति । मम गुरुः श्वशुरः । ‘श्वशुरः पञ्चमो गुरुः’ इति स्मृतेः ॥ ६७ ॥
सत्यधर्मीया
उग्रसेनं मत्पितरं स्थविरं राज्यकामुकमिति मारणकारणनिकुरुम्बोक्तिः । तत इति एतद्धननानन्तरं मही नष्टक्षुद्रोपद्रवा भवित्री । स्वानुबन्धिनः कथयति ॥ जरासन्ध इति ॥ मम गुरुः श्वशुरः । श्वशुरः पञ्चमो गुरुरित्युक्तेः ॥ ६७ ॥
सुमनोरञ्जिनी
हे मित्र जरासन्धादीनां सत्वात्कथं निष्कण्टका भविष्यतीति तत्राह ॥ जरेति ॥ ६७ ॥
शम्बरो नरको बाणो मय्येव कृतसौहृदाः ।
तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ ६८ ॥
सत्यधर्मीया
बाण इति सरलः पाठः । वात इति । वात एव तन्नामा कल्पको वातापिर्वा । तैः सह सुरपक्षीयान्नृपान् हत्वा महीं भोक्ष्य इत्यन्वयः ॥ ६८ ॥
सुमनोरञ्जिनी
अन्ये सुरपक्षीयाः सन्तीत्यतस्तत्राह ॥ तैरिति ॥ ६८ ॥
एतज्ज्ञात्वाऽऽनय क्षिप्रं रामकृष्णाविहार्भकौ ।
धनुर्यागनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥ ६९ ॥
पदरत्नावली
आनयने निमित्तमाह धनुरिति । धनुर्यागलक्षणोत्सवनिरीक्षणार्थम् ॥ ६९ ॥
सत्यधर्मीया
एतज्ज्ञात्वाऽपदेशमुपादिशति ॥ धनुरिति ॥ यदुपुरश्रियं द्रष्टुं च ॥ ६९ ॥
सुमनोरञ्जिनी
आनय । मनसि गूढं निमित्तमुक्त्वा बाह्यं निमित्तमाह ॥ धनुर्यागेति
॥ ६९ ॥
अक्रूर उवाच—
राजन् मनीषितं १सम्यक् तव चावद्यमार्जनम् ।
सिद्ध्यसिद्ध्योः समं कुर्याद् दैवं हि फलभावनम् ॥ ७० ॥
पदरत्नावली
मनीषितं विचारितम् । अवद्यमार्जनं मरणं ज्ञात्वाऽपि परिहारप्रयत्नो न कृत इति यदवद्यमप्राबुद्ध्यं तस्य मार्जनम् । अन्तरङ्गतस्तु ममावद्यस्य पापस्य नाशनमिति । एतदान्तरङ्गिकभावसमुच्चायकश्चशब्द इत्यवसेयः । तथापि सिद्ध्यसिद्ध्योः फलसिद्धावसिद्धौ च समं यथा स्यात् तथा कर्म कुर्यात् । हि यतो दैवं फलं भावयत्युत्पादयतीति फलभावनम् । तस्माद् यत्नः सर्वथाऽनुष्ठेयः फलं त्वीश्वराधीनमिति यावत् ॥ ७० ॥
सत्यधर्मीया
श्रुततद्वचनश्चातुरीत आतुरं प्रति वक्ति ॥ राजन्निति ॥ मनीषितं सध््य्रक्सम्यगिति समीचीनौ पाठौ । अवद्यमार्जनमवद्यं मृत्युमेष्यन्तं ज्ञात्वा न यत्नं तेन इति यदवद्यमप्राबुद्ध्यं तस्य मार्जनम् । अन्तरङ्गतस्तु ममावद्यस्य पापस्य नाशनमिति । अत एव चशब्दोऽपि । सिद्धिश्चासिद्धिश्च तयोः समं यथा तथा कुर्यात् । कुतो न मदुक्तिसोत्कण्ठो भवति भवानसन्दिग्धेऽर्थे च कुतः सन्दिग्धे इत्यत आह ॥ हीति ॥ यतो दैवं फलं भावयत्युत्पादयतीति तत्तथेति । यत्नस्तु सर्वथाऽनुष्ठेयः फलं त्वीश्वरायत्तमिति तात्पर्यम् ॥ ७० ॥
सुमनोरञ्जिनी
हे राजन् अवद्यस्य मरणस्य मार्जनं परिहरणम् । मनीषितं कर्तुमिच्छाविषयीभूतम् । तत् सम्यगेव । सिध्यसिध्योः फलस्य । सिद्धावसिद्धौ च । मन इति शेषः । समं खेदमोदरहितम् । कुर्यात् । कुत इत्यतः फलस्य स्वप्रयत्नाविषयत्वादित्याह ॥ दैवमिति ॥ फलभावनं फलकारणम् ॥ ७० ॥
मनोरथान् करोत्युच्चैर्जनो दैवहतानपि ।
युज्यते हर्षशोकाभ्यां १तथाप्याज्ञां करोमि ते ॥ ७१ ॥
पदरत्नावली
जनो मनोरथानुच्चैर्दैवहतानपि करोति । कुर्वंश्च हर्षशोकाभ्यां युज्यते । न तु हर्षमात्रेण । यद्यपि फलसिद्धिरीश्वराधीना तथापि ते आज्ञां करोमि ॥ ७१ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे चतुस्त्रिंशोऽध्यायः ॥
सत्यधर्मीया
तर्हि यदर्हणं निष्फलं तुभ्यं न मदर्थितं रुरुच इत्यतः स्वावश्यकमिदमिति बाधकमुपन्यस्यापि किञ्चित्साशं कुर्वन्नाह ॥ मनोरथानिति ॥ जनो मनोरथान् दैवहतानपि करोति कुर्वंश्च हर्षशोकाभ्यां युज्यते । साहसमेवं न कार्यं चेदपि ते आज्ञां करोमि गच्छामीति यावत् । प्रभ्वाज्ञायाः प्राज्ञेनानुल्लङ्घ्यत्वादिति भावः ॥ ७१ ॥
सुमनोरञ्जिनी
सिध्यसिध्योः खेदमोदौ लोके दृष्टावित्याह ॥ मनोरथानिति ॥ दैवहतान् दैवप्रतिकूलान् । अथापि एवं सत्यपि । राजाज्ञाया अखण्डितत्वात् ते तवाज्ञां करोमीति ॥७१॥
श्रीशुक उवाच—
एवमादिश्य चाक्रूरं मन्त्रिणश्च विसृज्य सः ।
प्रविवेश गृहं कंसस्तथाऽक्रूरः स्वमालयम् ॥ ७२ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे चतुस्त्रिंशोऽध्यायः ॥
सत्यधर्मीया
गृहं कंसः प्रविवेश तथाऽक्रूरोऽपि स्वमालयं प्रविवेशेत्यन्वयः ॥ ७२ ॥
॥ इति श्रीमद्भागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे चतुस्त्रिंशोऽध्यायः ॥ १०-३४ ॥
सुमनोरञ्जिनी
विसृज्य प्रेषयित्वा ॥ ७२ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां (गूढकर्तृकायां)
सुमनोरञ्जन्यां चतुस्त्रिंशोऽध्यायः ॥ १०-३४ ॥