०८ त्रयस्त्रिंशोऽध्यायः

गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः

॥ अथ त्रयस्त्रिंशोऽध्यायः ॥

श्रीशुक उवाच—

गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः ।

कृष्णलीलां प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ १ ॥

पदरत्नावली

स्त्रीणामुपासनाप्रकार ईदृश इति दर्शयितुं गोपीनां भगवल्लीलानुस्मरणं कथयत्य-स्मिन्नध्याये । तत्र प्रथमतस्तासां कृष्णे भक्तिलक्षणं वक्ति गोप्य इति ॥ प्रकृष्टगानेनादृतचेतस्त्वं भक्तेर्लक्षणं सूचयति ॥ १ ॥

सत्यधर्मीया

गतोदवसितासिताक्ष्यः कथमवसन्ननुभूतप्रभुसङ्गरुचय इत्यत एवं कृष्णकृतक्रीडाः क्रोडीकृत्य परस्परं तत्कीर्तनपरा अनितरप्रत्तावसरा वासराननयन्निति निरूप्यतेऽत्राध्याये । तत्रादौ तत्पारवश्यं दर्शयञ्छुक आहेत्याह ॥ श्रीशुक इति ॥ अनुद्रुतं चेतो यासां ता दुःखेन तद्विरहजं दुःखसहितं च तत्खं च सुखं लीलास्मरणजं च तेन वासरान् एकमहः । बहुवचनं च विरहदहनतो भानं तथेत्यर्थद्योतकम् । दुर्दुःखमिति सम्प्रोक्तं खं सुखं प्रोच्यते बुधैरिति तात्पर्यान्तरोक्तेः । केवलं दुःखमेव चेद्वनितानां तल्लीला स्मृतिः कथं स्यादिति वर्णयन्ति । द्वौ द्वौ श्लोकावेकैकस्या उक्तितया योज्यौ ॥ १ ॥

सुमनोरञ्जिनी

वेणुनादं वर्णयितुमयमध्यायः । तं कृष्णम् । अनुद्रुतम् अनुसृत्यैव गतं चेतो यासां ताः । वासरान् अहानि ॥ १ ॥

गोप्य ऊचुः—

वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पित२वेणुम् ।

कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः ॥ २ ॥

पदरत्नावली

द्वौद्वौ श्लोकावेकैकस्या उक्तितया योज्यौ । हे गोप्यः, शृणुतेति शेषः । वामबाहौ तन्मूले कृतोऽर्पितो वामकपोलो येन स तथा । वल्गिते नर्तिते भ्रुवौ यस्य स तथा । मुकुन्दो यत्र यदा कोमलाङ्गुलिभिराश्रितो मार्गो मूर्च्छनादिमार्गो यस्य तमधरे ओष्ठेऽर्पितं वेणुमीरयति वादयति तदा सिद्धैर्देवैः स्वभर्तृभिः सह वर्तमाना व्योमयानवनिता विमानस्था स्त्रियस्तद् वेणुगीतमुपधार्य श्रुत्वा विस्मिताः काममार्गणैः समर्पितं विद्धं चित्तं यासां ताः सलज्जा अपस्मृतनीव्यो मुच्यमानवस्त्रग्रन्थिस्मरणरहिताः कश्मलं मूर्च्छां ययुः ॥ २,३ ॥

सत्यधर्मीया

सम्मुग्धतया गोप्य ऊचुरिति प्रतिश्रुत्य तत्रैकाऽनेका गोपीः सम्बोध्य वक्तीति वक्ति ॥ वामबाह्विति ॥ शृृणुतेति तृतीयश्लोकादाकृष्य हे गोप्यः शृृणुतेत्यन्वेतव्यम् । वामो बाहुस्तस्मिन्कृतो वामः सव्य इत्युक्तेर्मनोहर इत्यप्यर्थः । कपोलो यस्य सः । भार्याभागो वाम इति प्रसिद्ध इत्युक्ते रमैव स्वद्वारं द्वारकानायकनायतामित्यादौ तद्भागं पुरस्कृत्यास्तुवन्निति तात्पर्यमवधेयम् । वल्गिते नर्तिते भ्रुवौ यस्य सः । अधरे ओष्ठेऽर्पितो वेणुर्येन सः ॥ वेणुमिति पाठस्तु ललितः ॥ कोमलाभिरङ्गुलिभिः । आश्रितो मार्गो मूर्छनादिमार्गो यस्य तं वेणुं मुकुन्दो यत्र यदा यदेरयति स्वपूरणेन प्रेरयति ॥ २ ॥

सुमनोरञ्जिनी

तल्लीलागानप्रकारं प्रदर्शयति ॥ वामेति ॥ तत्र काचिद् इतरगोपीः सम्बोधयन्ती इत्याह ॥ हे गोप्य इदं शृृणुतेत्याकृष्यते । वामबाहौ कृतं स्थापितमिति यावद् वामकपोलं येन स तथा । वल्गिता नर्तिता भ्रूर्येन स तथा । अधरोष्ठे अर्पितो वेणुर्येन सः । एवंभूतः सन् मुकुन्दः यत्र यदा कोमलैर् अङ्गुलिभिः । आश्रिता आच्छादिता मार्गाः श्वासनिर्गमरन्ध्रा यस्य तं वेणुम् ईरयति गायति ॥ २ ॥

व्योमयानवनिताः सह सिद्धैर्विस्मितास्तदुपधार्य सलज्जाः ।

काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः ॥ ३ ॥

सत्यधर्मीया

तदा व्योमयानवनिता विमानोपविष्टा योषित इति केचित् । व्योमयाना दिविषदस्तेषां योषित इत्यपरे । सिद्धैः श्रवणसन्नद्धैः सह विस्मितास्तद्गीतमुपधार्याकर्ण्य काममार्गणैः समर्पितं चित्तं यासां ताः सलज्जाः । अपस्मृतनीव्यो विस्मृतवस्त्रा वा तद्ग्रन्थिमत्यो वा कश्मलं मूर्छादिकं ययुः ॥ ३ ॥

सुमनोरञ्जिनी

तदा व्योमयानवनिता विमानस्थाः स्त्रियः । तद्गीतम् उपधार्य श्रुत्वा विस्मिताः । काममार्गणेन समर्पितं संलग्नं चित्तं यासां ताः । काममार्गणेन निमित्तेन समर्पितं श्रीकृष्ण एव संलग्नं चित्तं यासां ता इति वा । अपस्मृता नीवी वस्त्रग्रन्थिर्यासां ताः । मुच्यमानवस्त्रग्रन्थिस्मरणरहिताः । कश्मलं मूर्च्छां ययुरिति सम्बन्धः ॥ ३ ॥

हन्त चित्रमबलाः शृणुतेदं हारभास उरसि स्थितविद्युत् ।

नन्दसूनुरयमार्तजनानां शर्मदो यर्हि कूजितवेणुः ॥ ४ ॥

वृन्दशो १व्रजवृषो मृगगावो वेणुवाद्यहृतचेतस एत्य ।

दन्तदष्टकवला धृतकर्णा निद्रिता लिखितचित्रमिवासन् ॥ ५ ॥

पदरत्नावली

हे अबला हारभासो हारस्य भा येन तस्य कृष्णस्येदं चित्रं कर्म शृणुतेत्यन्वयः । हारहास इति पाठे हारवन्मुक्तावलीवच्छुभ्रो हासो यस्य स इति नन्दसूनुविशेषणम् । ‘हारो मुक्तावली’ इत्यमरः । उरसि स्थिता विद्युद् विशेषेण द्योतमानेति विद्युद् रमा यस्य स तथा । श्रीवत्साङ्क इत्यर्थः । आर्तजनानां शर्मदः सुखदोऽयं नन्दसूनुर्यर्हि यदा कूजितवेणुर्वादित-वेणुर्भवति तदा वृन्दशः सङ्घशो व्रजस्थवृषादयो वेणुवाद्येन हृतानि येषां ते एत्याभ्येत्य दन्तैर्दष्टा न तु चर्विताः कवलास्तृणग्रासा यैस्ते धृता उत्तम्भिताः कर्णा यैस्ते प्रचुरानन्दतुन्दिलतया निद्रिता इव लिखितचित्रमिव चित्रलिखितगोकुलमिव च निश्चेष्टा आसन् ॥ ४,५ ॥

सत्यधर्मीया

हे अबला हारभासो हारस्य भा यस्य, भा येन तस्य कृष्णस्येदं चित्रं कर्म शृृणुतेत्यन्वयः । हन्त हर्षः । हारहास इति पाठे हारवन्मुक्तासरवच्छुभ्रो हासो यस्य स इति नन्दनन्दनविशेषणम् । हारो मुक्तावली, हारो मुक्तावलीत्यमरविश्वौ । स्थिता विद्युद् विशेषेण द्योतमानेति विद्युद्रमा यस्य सः । तत्स्थानमाह ॥ उरसीति ॥ आर्तजनानां शर्मदः सुखदोऽयं नन्दसूनुर्यर्हि यदा कूजितवेणुस्तदा वृन्दशः सङ्घशो व्रजवृषो व्रजेन्द्रो नन्दसूनुरिति वा । मृगा गावश्च वेणुवाद्येन वेणुसम्बन्धिनादनयोग्यस्वरेण हृतं चेतो यासां ता एत्याभ्येत्य । दन्तैर्दष्टः कवलस्तृणग्रासो यासां ताः । धृताः कर्णा याभिरिति तत्स्वभावोक्तिः । निद्रया(निद्रिता आ)ऽऽनन्दतुन्दिलतया निद्रणं लिखितचित्रं चित्रलिखितगोकुलमिव निश्चेष्टा आसन् । अत एव तद्विरहं कथं हा(?) सहासह इति सर्वत्रान्वेतव्यम् ॥ ४,५ ॥

सुमनोरञ्जिनी

अपरा काचिदाह ॥ हन्तेति ॥ हारेण भासत इति हारभासं तस्मिन् । उरसि स्थिता, विद्योतत इति विद्युत् श्रीर्यस्यासौ तथाविधो नन्दसूनुः । यर्हि यदा । कूजितवेणु-र्भवति ॥ तदा एत्य समेत्य व्रजवृषादयः लिखितचित्रमिव निश्चेष्टा आसन्नित्यन्वयः । धृतकर्णा निश्चलकर्णाः । दन्तैर् दष्टानि कवलानि ग्रासा यैस्तैस्तथा । निद्रिताः कार्यान्तररहिताः । निद्रिता इव परमानन्दनिर्भराः सन्त इति वा ॥ ४,५ ॥

बर्हिणस्तबकधातुपलाशैर्बद्धमल्लपरिबर्हविडम्बः ।

कर्हिचित् सबल आलि स गोपैर्गाः समाह्वयति यत्र मुकुन्दः ॥ ६ ॥

तर्हि १भग्नगतयः सरितो वै तत्पदाम्बुजरजोऽनिलनीतम् ।

स्पृहयतीर्वयमिवाबहुपुण्याः प्रेमवेपितभुजा ३स्तिमितापाः ॥ ७ ॥

पदरत्नावली

हे आलि सखि । बर्हिणस्य मयूरस्य स्तबकैः पिच्छगुच्छैः, धातुभि-र्गैरिकादिभिः, पलाशैः पल्लवैः, बद्धश्चासौ मल्लानां परिबर्हो भूषाविशेषश्च तं विडम्बयत्यनुकरोतीति तथा । ‘मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक्’ इत्यमरः । कर्हिचित् कदाचित् सबलो बलरामसहितः स मुकुन्दो गोपैः सह यत्र यस्मिन् देशे वेणुना गाः समाह्वयति तर्हि तदा भुग्ना कुटिला गतिर्यासां ताः सरितो यमुनाद्याः पयसि स्वोदकेऽनिलनीतं तत्पदाम्बुजरज आमृशन् अस्पृशन्नतो बहुपुण्या बहूनि अनेकानि पुण्यानि यासां तास्तथा । ‘विपुलानेकयोर्बहु’ इति यादवः । प्रेम्णा वेपिताः कम्पिता भुजास्तरङ्गा यासां तास्तथा । हतवेगाः स्थिमितप्रवाहा आसन्नित्यर्थः

॥ ६,७ ॥

सत्यधर्मीया

भ्रान्तस्वान्तत्वात्कान्तानामनेकत्वेऽप्यालीत्येकवचनमिति मन्तव्यम् । हे आलि सखि बर्हिणो मयूरस्य स्तबकैः पिच्छगुच्छैर्धातुभिर्गैरिकादिभिः पलाशैः पल्लवैर्बद्धो यो मल्लपरिबर्हो मल्लभूषाविशेषस्तं विडम्बयत्यनुकरोति स तथा । बर्हिणस्तबकैरिति समस्तं वा । मयूरो बर्हिणो बर्हीत्यमरः । कर्हिचित्कदाचित्सबलो गोपैः सहितः स यत्र मुकुन्दो वेणुना गाः समाह्वयति तर्हि तदा भग्ना गतिर्यासां ताः सरित एतद्ध्वनिदन्धनीकृतस्पन्दना वयमिव ता अप्यबहुपुण्या महासुकृतहीनाः प्रेमवेपितभुजाः प्रेमविशेषकम्पिततरङ्गा अनिलनीतं वायुना नीतं तत्पदयोरम्बुजयो रजः परागं स्पृहयतीः काङ्क्षत्यः स्तिमिता आपो यासां ताः स्तिमितापा आसन् । वैशब्दोऽचेतनानां नदीनां यदेयं दशाऽस्माकं केति तद्भावसूचकः । स्तिमितापा इति पाठे समासान्तविधेरनित्यतया स्पृहयतीर्वयमिवाबहुपुण्याः प्रेमवेपितभुजाः स्तिमितापाः । आमृशन्पयसि वा बहुपुण्याः प्रेमवेपितभुजा हृतवेगा इति वा पाठः । पयसि स्वोदकेऽनिलनीतं तत्पदाम्बुजरज आमृशन्नस्पृशन्नतो बहुपुण्या हृतवेगाः प्रेमवेपितभुजा भग्नगतयो मन्दस्पन्दना आसन्नित्यर्थः ॥ ६,७ ॥

सुमनोरञ्जिनी

हे आलि कर्हिचित् कदाचित् । यत्र यदा यस्मिन्देशे स्थित्वा । गाः समाह्वयति । तर्हि तदा तस्मिन् देशे सरितस् तीरे पयसि वा । अनिलनीतं तत्पदांबुजरज आमृशन् अस्पृशन्नित्यन्वयः । कथम्भूतः । बर्हिणः मयूरस्य स्तबकैः पिच्छबन्धविशेषैः, धातुभिर् गैरिकादिभिः पलाशैः पल्लवैर् बद्धस्य मल्लपरिबर्हस्य मल्लपुरुषश्रेष्ठस्य विडम्बो ऽनुकारो यस्य स तथा । मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुगित्यमरः । बहूनि अनेकानि पुण्यानि यासां तास्तथा । विपुलानेकयोर्बहुरिति यादवः । प्रेम्णा कामोन्नतस्नेहेन वेपिताः कंपिता भुजास् तरंगलक्षणा यासां तास्तथा । अत एव हृतवेगा मन्दीकृतस्पन्दनलक्षणजवाः । अत एव भग्नगतयः स्तिमितप्रवाहा आसन्नित्यनुषङ्गः ॥ ६,७ ॥

अनुचरैः समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः ।

वनचरो गिरितटेषु चरन्तीर्वेणुनाऽऽह्वयति गाः स यदा हि ॥ ८ ॥

वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त इव पुष्पफलाढ्याः ।

प्रणतभारविटपा मधुधाराः प्रेमहृष्टतनवः ससृजुः स्म ॥ ९ ॥

पदरत्नावली

अनुचरैर्विरिञ्चादिभिः सम्यगनुवर्णितानि वीर्याणि यस्य सः समनुवर्णितवीर्यो ऽचला स्थिरा भूतिः श्रीर् यस्य स तथा । ‘भूतिः श्रीजन्मभस्मसु’ इति यादवः । वनचरो जलचर आदिपूरुषो नारायणो गिरितटेषु चतुर्मुखमुखेषु । ‘गिरिरद्रिविरिञ्चयोः’ इत्युत्पलमाला । ‘तटस्ती-रास्यशर्वेषु’ इति च । चरन्तीर्विद्यमाना गा वेदवाणीराह्वयति स्वप्रतिपादकत्वेन स्वीकरोति यथा तथाऽनुचरैर्गोपैः । समनुवर्णितवीर्यो ऽचलभूतिः स्थिरश्रीः, पर्वतगतविभूतिरूपश्च वनचरोऽरण्यचरः सः श्रीकृष्णो गिरितटेषु पर्वतप्रदेशेषु चरन्तीस् तृणभक्षणं कुर्वन्तीर् गा माहेयीर्वेणुना यदाऽऽह्वयति आकारयति तदाऽऽत्मनि स्थितं विष्णुं व्यञ्जयन्तो व्यक्तीकुर्वन्त इव पुष्पफलैराढ्याः प्रणतं प्रणमनं बिभ्रतीति प्रणतभाराः । क्तो भावे । प्रणतभारा विटपाः शाखा येषां ते तथा । प्रेम्णा हृष्टा रोमहर्षयुक्तास्तनवो यासां ताः, येषां ते च तथा । एवं विधा वनलतास्तरवश्च मधुधाराः ससृजुः । स्मेति विस्मये ॥ ८,९ ॥

सत्यधर्मीया

अनुचरैर्गोपैर्ब्रह्मादिभिश्च सम्यगनुवर्णितानि वीर्याणि यस्य सः । अचला स्थिरा विभूतिर्लक्ष्मीः सम्पद्वा यस्य सः । वनचरो जलं विजनं च तत्र चरतीति स तथा । आदिपूरुष इव श्रीनारायण इव । गिरितटेषु पर्वतप्रदेशेषु गिरिर्वायुर्मा तूक्ता प्राक् स एव तटाः । जातौ बहुवचनम् । तट इयदामननादित्यधिकारिपाररूपस्तस्मिंश्चरतीर्विद्यमाना अन्यत्र तृणादनं कुर्वतीर्गा वेदवाणीरन्यत्र सुरभीराह्वयति स्वप्रतिपादकत्वेन स्वीकरोति परत्राकारयति यदा । अनुचरैः सुग्रीवादिभिरचलभूतिश्चित्रकूटसम्पत्प्रद आदिपूरुष आदिनो रावणाद्यास्तेषां पुरि लङ्कायां पुरे लङ्कायै रुषा रोषो यस्य सः । हलन्तत्वाट्टाबन्तता । पुरे रुषा यस्य स आदिनां पुरुष इति न ऋक्पूरब्ध्विति समासान्ताकारप्रत्ययप्रसक्तिः । वनचरो यः कपिसङ्घो गिरितटेषु तं विद्यमानमाह्वयति तथेति वा । अचलभूतिः पर्वतगतविभूतिरूप इति वा कृष्णः । तदा वनलतास्तरवश्चात्मनि स्वान्तस्थितं व्यञ्जयन्तो व्यक्तीकुर्वन्त इव पुष्पफलैराढ्याः प्रणतं क्तो भावे प्रणतिं बिभ्रतीति ते विटपाः शाखा येषां ते । प्रेमहृष्टतनवो भक्ता आनन्दोदबिन्दूनिव मधुधारा रसप्रसरान्ससृजुः स्मेत्याश्चर्ये ॥८,९॥

सुमनोरञ्जिनी

अन्या काचिदाह ॥ आदिपूरुष इव मूलरूपी विष्णुरिव । अनुचरैः, सम्यगनुवर्णितं वीर्यं पराक्रमो यस्य सः । अन्यत्रानुचराः सनकादयः । अचलभूतिः स्थिरश्रीः । भूतिश्रीजन्मभस्मस्विति यादवः । एवंभूतो वनचरः स कृष्णः । यदा वेणुना वेणुस्वरेण गाः समाह्वयति तदा वने विद्यमाना लतास्तरवश्च पुष्पफलाढ्याः सन्तः । केषाञ्चिदशोकप्रमुखानां गीतात् पुष्पफलावाप्तिर्भवति । अत एव प्रणतभारविटपा भारनम्रशाखा मधुधाराः ससृजुः । तत्र हेतुः । प्रेमहृष्टतनव इति । तत्र दृष्टान्तः ॥ आत्मनि विष्णुं व्यञ्जयन्त इति । आत्मनि स्वहृदये । विष्णुं व्यंजयन्तो ऽपरोक्षीकृतवन्तो ज्ञानिन इवेति । अपरोक्षीकृतबिम्बाः प्रेमहृष्टतनवः सन्तो आनन्दजलधारां विसृजन्ति यथा तथेति ॥ ८,९ ॥

दर्शनीय (तिलको वनमाला) विकचोत्पलमालादिव्यगन्धतुलसीमधुमत्तैः ।

अलिकुलैरलघुगीतमभीष्टमाद्रियद् यर्हि सन्धितवेणुः ॥ १० ॥

सरसि सारसहंसविहङ्गाश्चारुगीतहृतचेतस एत्य ।

हरिमुपासत ते यतचित्ता हन्त मीलितदृशो धृतमौनाः ॥ ११ ॥

पदरत्नावली

यर्हि यदा सन्धितोऽधरे संयोजितो वेणुर्येन सः सन्धितवेणुः कृष्णो दर्शनीयानि विकचानि विकसितानि च यानि उत्पलानि कुवलयानि तेषां मालाया दिव्यगन्धाया दिव्यपरिमलायास् तुलस्याश्च मधुना मत्तैरलिकुलैर्मधुकरनिकरैरभीष्टं स्वाभीप्सितमलघु गम्भीरं गीतमाद्रियद् आर्चिचत् तदा सरसि सारसाश्च हंसाश्चेत्येतदादयो विहङ्गाश्चारुणा गीतेन हृतं चेतो येषां ते तथाभूता एत्य सम्भूय यतं विषयान्तरेभ्य आहृतं चित्तं यैस्ते यतचित्ता धृतमौनाः स्वजातिचापल्यरहिता मीलितदृशो ऽर्धनिमीलितनेत्रा हरिमुपासत अभजन्त ॥ १०,११ ॥

सत्यधर्मीया

यर्हि यदा सन्धितो वेणुरधरे येन सः । दर्शनीयतिलको दर्शनीयस्तिलकोऽलिके यस्य स दर्शनीयेषु सुन्दरेषु तिलको मुख्य इति वा वनमालाया दिव्यगन्धेन तथा तुलस्या मधुना च मत्तैः । दर्शनीयानि विकचानि विकसितान्युत्पलान्यस्मत्कचसम्बन्धरहितानीति तेषां मालाया इतरत्समम् । अलिकुलैर्भृङ्गसङ्घैरभीष्टं स्वाभीप्सितमलघु गम्भीरं गीतमाद्रियच्चार्चिचत् तदा सरसि सारसाश्च हंसाश्चेत्येतदादयो विहङ्गाश्चारु यद्गीतं तेन हृतं चेतो येषां ते सन्त एत्य समेत्य यतचित्ता धृतमौना मीलितदृशो हरिमुपासत हन्तेदं चित्रम् ॥ १०,११ ॥

सुमनोरञ्जिनी

यर्हि यदा सन्धितवेणुः स्वरेणेति शेषः । कृष्णः, दर्शनीयायाश् चक्षुः-प्रियायाः । विकचैर् उत्पलैर् नीलोत्पलैः कृताया मालाया दिव्यगन्धाया अमानुषपरिमलतुलस्याश्च मधुना पीतेन मत्तैर् अलिकुलैर् अभीष्टं गातुमुपक्रान्तम् । अलघु गम्भीरं गीतम् । आद्रियद् अर्चितम् । आदृतौ सादरार्चिताविति च । तदा सरसि विहरन्तो ये सारसहंसविहङ्गास् ते पक्षिण एत्य सम्भूय । चारुणा गीतेन हृतचेतस आकृष्टबुद्धयः । अत एव यतचित्ता एकाग्रकृतमानसा अर्धनिमीलितनेत्रा धृतमौनाः स्वजातिस्वररहिता हरिमुपासतेत्यन्वयः ॥ १०,११ ॥

सहबलः स्रगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः ।

आह्वयद् यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम् ॥ १२ ॥

महदतिक्रमणशङ्कितचेता मन्दमन्दमनुगर्जति मेघः ।

सुहृदमभ्यवर्षत् सुमनोभिश्छायया च विदधे १वितपत्रम् ॥ १३ ॥

पदरत्नावली

हे व्रजदेव्यो गोप्यः सहबलो बलरामसहितः स्रगवतं सविलासः स्रजा मालया अवतंसेन कर्णोत्पलेन च विलासो यस्य सः, क्षितिभृतो गोवर्धनगिरेः सानुषु प्रस्थेषु स्थितः सन् सन्यन्ते सेव्यन्ते मुनिप्रभृतिभिरिति सानवः पर्वतस्थसमभूभागाः । ‘षण सम्भक्तौ’ इति धातुः । लोकदृष्ट्या जातहर्षः प्रकटीकृतहर्षप्रकर्षः कृष्णो यर्हि यदा वेणुरवेण आह्वयद्, गा इति शेषः । विश्वं चेतनमात्रमुपरम्भति ऊर्ध्वमुखीकरोति । ‘उपरम्भस्तूर्ध्वमुखे प्रक्रमे निर्वृते तथा’ इत्यभिधानम् ॥ तदा मेघो महता स्वस्वरेणातिक्रमणमुल्लङ्घनं तेन शङ्कितं चेतो यस्य तथाभूतो मन्दं मन्दमनुगर्जति वेणुस्वरानुसारि यथा भवति तथा गर्जति । किञ्च सुमनोभिः पुष्पसदृशसलिलबिन्दुभिः श्यामवर्ण-साम्यात् सुहृदं मित्रमभ्यवर्षत् । किञ्च छायया वितपादातपात् त्रायत इति वितपत्रं विदधे चकार, हरेरिति शेषः । सितपत्रमिति पाठे श्वेतच्छत्रमित्यर्थः ॥ १२,१३ ॥

सत्यधर्मीया

हे व्रजदेव्यो गोप्यः सहबलो बलरामसहितः । स्रगवतंसविलासः स्रजावतंसेन कर्णोत्पलेन च विलासो यस्य स क्षितिभृतो भूभृतः सानुषु प्रस्थेषु स्थितो जातहर्ष इव जातश्च गा आह्वयत् । साधनभभिधत्ते ॥ वेणुरवेणेति । तदा च विश्वं चेतनमात्रमुपरम्भत्युत्तानाननं करोति । उपरम्भस्तूर्ध्वमुखे प्रक्रमे निर्वृते तथेति वचनात् । उपरम्भति नादेन पूरयतीत्यपरे । तदा बलाहका अपि धाटीमिमामाटीकमानाः काञ्चन सेवां देवस्याकुर्वन्नित्याह ॥ महदिति । महता स्वस्वरेणाति-क्रमणमुल्लङ्घनं तेन शङ्कितं चेतो यस्य स सन् मन्दं मन्दं मेघोऽनुगर्जति । अनु मुरलीस्वरानुसारि यथा तथा गर्जति । सुमनोभिः । उपमानवाचकपदादुपमेयं लक्ष्यते । कुसुमसमजलबिन्दुभिरनिमित्त-विश्वोपकारादनुकाराच्च वर्णेन सुहृदं कृष्णमभ्यवर्षत् । किञ्च स्वच्छायया वितपत्रं प्रतपत्रं विदधे सितपत्रमिति त्रयः पाठाः । तत्र द्वौ वितपात्प्रतपादातपात्त्रायत इत्येकार्थौ । अवेः सूर्यस्य तपात्त्रायत इति वा । तृतीये सितपत्रं श्वेतच्छत्रमित्यर्थः । विदधेऽकरोत् ॥ १२,१३ ॥

सुमनोरञ्जिनी

हे व्रजदेव्यः बलेन सहितः । स्रजा मालयाऽवतंसेन कर्णोत्पलेन च विलासः कान्तिविशेषो यस्य स तथा । यद्वा स्रगवतंसयोर्विलासो शोभा यस्मात्स तथा । आत्म-शोभाजनकत्वेन धृतयोः स्रगवतंसयोः शोभाजनक इत्यर्थः । क्षितिभृतो गिरेः सानुषु शिखरेषु स्थितः । लोकदृष्ट्या तदानीं जातहर्ष आविष्कृतानन्दविशेषः कृष्णो यर्हि यदा वेणुरवेण आह्वयत् । गा इति शेषः । विश्वं देहमाविश्य वर्तमानं प्राणिजातम् । उपरम्भति ऊर्ध्वमुखीकरोति आह्वयति वा नूतनं कर्तुमुपक्रमते वा । उपरम्भस्तूर्ध्वमुखे प्रक्रमे निर्वृते तथेति च । तदा मेघः, महतो हरेरुच्चैर् गर्जनेन । कर्णबाधिर्यजनकातिक्रमणमतिलङ्घनं स्यादिति शङ्कितमनाः । मन्दं मन्दम्, अनु वेणुरवानु-कूलं यथा भवति तथा गर्जति । किं च सुमनोभिः पुष्पसदृशजलबिन्दुभिः । श्यामवर्णसाम्यात्सुहृदं मित्रम् । अभ्यवर्षत् । किञ्च छायया । वितपत्रं वितपात् त्रायत इति वितपत्रम् । विदधे च । हरेरिति शेषः । सितपत्रमिति पाठे श्वेतच्छत्रमित्यर्थः । वेणुरवेण व्रजदेवीराह्वयदिति वा ॥१२,१३॥

विविधगोपचरणेषु विदग्धो वेणुवाद्यमधुरां निजशिक्षाम् ।

तव सुतः सति यदाऽधरबिम्बे दत्तवेणुरनयत् स्वरजातीः ॥ १४ ॥

सुमनसस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः ।

कवय आनतकन्धरगात्रा विस्मयं ययुरनिश्चिततत्त्वाः ॥ १५ ॥

पदरत्नावली

हे सति यशोदे विविधेषु गोपचरणेषु गोपक्रीडासु विविधानां गवां गीतध्वनीनां पतयो गन्धर्वास् तेषां चरणेषु गीतगतिषु च विदग्धः कुशलः वेणुवाद्यमधुरां वेणुवाद्ये माधुर्यावहां निजशिक्षामात्मीयगानशिक्षां तव सुतो यदाऽधरबिम्बे बिम्बाकारेऽधरे दत्तः स्थापितो वेणुर्येन सः दत्तवेणुः सन् स्वरजातीर् निषादर्षभादिस्वरजातीरनयत् प्रापयामास तदा तद् गानमुपधार्य सम्यगाकर्ण्य सुमनसो देवाङ्गनाः शक्रशर्वपरमेष्ठिपुरोगाः सुरेशाश्च कवयो गानपारज्ञज्ञानिनश्च आनतकन्धरगात्रा ईषन्नतकण्ठदेहावयवाः सुनिश्चिततत्त्वा अप्यनिश्चिततत्त्वा अभूतपूर्वगीतश्रवणात् साकल्येन तद्गीततत्त्वनिश्चयरहिता विस्मयं ययुः । कश्मलं ययुरिति पाठे मोहमापुरित्यर्थः ॥१४,१५॥

सत्यधर्मीया

तत्र गजयात्रां काञ्चित्काचिद्यशोदां विधाय सूत्वा त्वं सुतमेतमस्मदसुहरणं कृतवत्यसि सौभाग्यवति हेति मनसा कल्पयित्वा वदतीति वक्ति ॥ विविधेति ॥ तस्याश्वस्रा एतत्कूटघटने रसाभासप्राप्तेः पाक्षिक्यामागतावित्यवददिति वेति केऽपि । सति यशोदे विविधानां गवां गीतध्वनीनां पतयो हि गन्धर्वास्ततोऽपि चरणेषूत्तरानुत्तरीकृतिषु विदग्धः कुशलः । विविधानि गोपो गोपनं तदुपयुक्तानि चरणान्युपायरचनानि तेषु विदग्ध इति । वेणुवाद्ये माधुर्यावहामिति वेणुमधुरतां निजशिक्षां स्वयं कल्पिता नेतरजल्पिता तां शिक्षां तव सुतो यदाऽधरबिम्बे तन्मण्डले तत्सावर्ण्याद्बिम्बफले वा दत्तः स्थापितो वेणुर्येन स सन् स्वरजातीर्निषादादिस्वरजातीश्चानयत्प्रापयत् । अजातीरतद्योग्यजातिमतीः प्रजाः स्वः स्वर्गमनयदिति वा । तदा तद्गानं सुमनसः शुद्धमानसा देव्यो वा तथा सुरेशाः, शक्र इन्द्रः, शर्वः शिवः, परमेष्ठी प्रजापतिरित्येते पुरोगा येषां ते तथा ।

नन्वत्र नोत्तमक्रमोऽधमक्रमः कुत इति चेत् । सत्यम् । कश्मलोपगमस्तथा तत्त्वानिश्चय-श्चेतरा(रसुरा)सुरापेक्षया सहस्राक्षे तदपेक्षया त्र्यक्षे तदपेक्षया ब्रह्मणि च तरतमतया वर्तत इति द्योतनायैवं वचनमित्यवेहि । स्वराकर्णनक्रम एव इत्येवमुक्तिरिति वा । हस्ताभ्यां तद्ग्रहोऽनन्तरं गानमनःकरणं तदुपरि स्वरवेदं गर्भीकृत्य सरस्वतीविलास इति वा शक्रशर्वपरमेष्ठिपुरस्कार इति । कवयो गानगतिज्ञा इति कवयः(?) प्रकृतानुकूल्यात् । एतादृशा अप्यनिश्चितं तत्त्वं स्वरस्तालोऽयमियं स्वरमूर्छना चेयं विषमेति यैस्ते तथा । अनवधानेन तथेति नेति कथयति ॥ आनतकन्धरगात्रा इति ॥ आनता कन्धरा ग्रीवा येषां तानि गात्राणि येषां तेऽप्युपधार्याकर्ण्य कश्मलं मोहं ययुः । अतो न कन्धराबाध इति ज्ञेयम् । कन्धरा वारिवाहे स्याद्ग्रीवायामपि कन्धरेति विश्वः ॥१४,१५॥

सुमनोरञ्जिनी

यशोदान्तिक आहुः । हे सति यशोदे विविधेषु गोपानां चरणेषु वेणुगानाद्याचरणेषु विदग्धः पण्डितः । वेणुवाद्ये विषये मधुरां मनोहराम् । निजानाम् आत्मीयानां गोपानां शिक्षां गानकलाशिक्षामुद्दिश्य । अधरबिम्बे बिम्बफलवद्विद्यमानाधरोष्ठे । दत्तवेणुः सन् । तव सुतः स्वरजातीः षड्जादिस्वरभेदान् । अनयद् आनयामास । तदा सुमनसः कवयोऽपि गानकलाकुशला अपि । अनिश्चिततत्वाः । इदं गानमस्मदाकलितेष्वेवंजातीयमिति तत्वज्ञानहीनाः सन्तः । कश्मलं मोहं मनोव्याकुलतां ययुरित्यन्वयः ॥ १४,१५ ॥

निजपदाब्जदलैर्ध्वजवज्रनीरजाङ्कुशविचित्रललामैः ।

व्रजभुवः १प्रशमयन् खुरतोदं वर्ष्म धुर्यगतिरीरितवेणुः ॥ १६ ॥

व्रजमितेन वयं सविलासवीक्षणार्पितमनोभववेगाः ।

व्रजगतिं गमिता न विदामः कश्मलेन १कबरं वसनं वा ॥ १७ ॥

पदरत्नावली

ध्वजादीनि विचित्राणि ललामानि लाञ्छनानि भूषणानि वा येषां तानि तथा तैः । ‘ललामोऽस्त्री ध्वजे श्रेष्ठे भूषायां पुण्ड्रचिह्नयोः’ इति गोपालः । निजपदाब्जयोर्दलैरङ्गुलिरूपैर् व्रजभुवो व्रजभूमेः खुरतोदं गवां खुरजनितव्यथां प्रशमयन् प्रकर्षेण परिहरन् वर्ष्मधुर्यगतिर् वर्ष्मधुर्यस्य अतिसुन्दरमहावृषभस्य गतिरिव गतिर्यस्य सः श्रीकृष्णः । ‘कायेऽतिसुन्दरे वर्ष्म’ इत्यभिधानम् । यदा ईरितवेणुर्वादितवेणुर्भवति तदा तेन व्रजमितेन प्राप्तेन कृष्णेन सविलासवीक्षणेन विभ्रमोपेतवीक्षणेन अर्पितो मनोभवस्य कामस्य वेग उद्रेकलक्षणसंस्कारो यासु तास्तथा । रात्रिविशेषे वनाद् व्रजगतिं व्रजरूपमन्दिरं गमिताः प्रापिता वयं कश्मलेन मोहेन स्रस्तं कबरं केशवेषं वसनं वा न विदामः । कुजगतिं गमिता इति पाठे कुजा वृक्षास्तेषां गतिं प्रकारं निश्चेष्टतामित्यर्थः ॥ १६,१७ ॥

सत्यधर्मीया

यदा धुर्यगतिर्वृषभगमनः । व्रजभुवो व्रजभूमेः खुरतोदं गवादिखरखुर-जनितव्यथाम् । ध्वजो वज्रो नीरजं चाङ्कुशश्चेत्येतदादीनि विचित्राणि ललामानि चिह्नानि येषां तानि तैः । वज्रेति । वा पदान्तस्त्वसौ वक्त्र इत्युक्तेर् वज्रस्य पदान्तिमवर्णत्वान्न लाघवमिति पूर्वत्रोत्तरत्र ज्ञेयम् । ललामोऽस्त्री ध्वजे श्रेष्ठे भूषायां पुण्ड्रचिन्हयोरिति च । ललाम च ललामं च लाञ्छनध्वजवाजिषु । शृङ्गे प्रधाने भूषायां रम्ये वालन्धिपुण्ड्रयोरिति विश्वः । निजपदाब्जयो-र्दलैरङ्गुलिरूपैः शमयन्नीरितवेणुर्भवति तदा तेन व्रजमितेन प्राप्तेन । वयं, सविलासं विलाससहितं यद्वीक्षणं निरीक्षणं विलाससहितं यथा तथेति वा यद्वीक्षणं तेनैवार्पितो यो मनोभवस्तस्य वेग उद्रेको यासां ताः । ब्रह्मरात्र उपावृत्त इत्युक्तरीत्या व्रजगतिं तद्रूपं मन्दिरम् । तेन गमिताः । कश्मलेन विरहप्रवहन्मोहेन वसनं वस्त्रं कबरं केशवेषं वर्ष्मास्मच्छरीरमिदमिति च न विदामः । कश्मलः स्यात्पिपासा च कश्मलो मोह एव चेत्यनेकार्थध्वनिपदमञ्जरी । वर्ष्मणा कायेन धुर्यो महान् गजो वा वृषभो वा तद्वद्गतिर्यस्य स इति तत्रैवान्वयो वा ॥ १६,१७ ॥

सुमनोरञ्जिनी

निजपदाब्जदलैर् अङ्गुलीलक्षणैर् ध्वजादिचिन्हैश्च । व्रजभुवः खुरतोदं गवां खुरनिष्पातव्यथाम् । प्रशमयन् । वर्ष्मणा महता शरीरेण युक्तो धुर्यो वृषभस्तस्य गतिरिव गतिर्यस्य स वर्ष्मधुर्यगतिः । यद्वा वर्ष्मधुर्यो गजस् तद्गतिः । यदा ईरितवेणुः शब्दितवेणुर् यः कृष्णः । तेन पुनः सन्ध्याकाले । व्रजमितेन प्राप्तेन । सविलासवीक्षणेन अर्पितो यो मनोभवः कामस् तस्य वेगो यासां ताः । व्रजगतिं गोष्टस्थानम् । प्रापिता वयं कश्मलेन मनोऽनवस्थालक्षणेन मोहेन, स्रुतं कबरं केशभारम् । वसनं वस्त्रं स्थितिं वा न विदाम इत्यन्वयः ॥ कुजगतिमिति पाठे स्थावरस्वभावमित्यर्थः ॥ १६,१७ ॥

मणिधरः क्वचिदागमयन् गा मालया दयितगन्धतुलस्या ।

प्रणयिनोऽनुचरस्य कदांऽसे प्रक्षिपन् भुजमगायत यत्र ॥ १८ ॥

क्वणितवेणुमुप वञ्चितचित्ताः कृष्णमीयुरनु कृष्णगृहिण्यः ।

गुणगणार्णमनुगम्य हरिण्यो गोपिका इव विमुक्तगृहेशाः ॥ १९ ॥

पदरत्नावली

यत्र देशे कदा कदाचिन्मणिधरः कौस्तुभधारी क्वचित् स्थलविशेषे गा आगमयन् वनाद् व्रजमावर्तयन् दयितगन्धा अतिप्रियगन्धा तुलसी यस्यां सा तया मालया युतः प्रणयिनः स्नेहपात्रस्यानुचरस्यांसे स्कन्धे भुजं स्वं प्रक्षिपन् निदधत् कृष्णो यदाऽगायत तदा क्वणितो ध्वनितो वेणुर्येन तं गुणगणार्णं गुणगणसमुद्रं कृष्णं कृष्णगृहिण्यः कृष्णहरिणभार्या हरिण्यो वञ्चितचित्ता विमोहितान्तःकरणाः सत्यो विमुक्ताः परित्यक्ता गृहेशाः पतयो याभिस्ता विमुक्तगृहेशा गोपिका गोपाङ्गना इवानुगम्य उपान्वीयुरुपासतेत्यन्वयः ॥ १८,१९ ॥

सत्यधर्मीया

यत्र देशे कदा कदाचिन्मणिधरः कौस्तुभधारी क्वचित्स्थलविशेषे गा आगमय-न्नावर्तयन् । दयितो गन्धो यस्यां सा तुलसी यस्यां सा तया मालया युतः । षष्ठीपाठेऽपि दयित-गन्धतुलस्या मालयेत्यन्वयः । प्रणयिनः स्नेहपात्रस्यानुचरस्य भृत्यस्यांसे स्कन्धे भुजं स्वं प्रक्षिपन्न-गायत । तदा क्वणितो ध्वनितो वेणुर्येन तम् । गुणगणार्णं गुणगणसमुद्रं कृष्णं, विमुक्ताः परित्यक्ता गृहेशाः पतयो याभिस्ताः । कृष्णस्य गृहिण्यो भार्या वयमिव, गोपिका गावश्च पिकाश्च त इव हरिण्यो हरिणतरुण्यो वञ्चितचित्ता अनुगम्योपान्वीयुरुपासत । गोपिका अनुगम्येवान्वीयुरिति वाऽन्वयः । अनेन कृष्णगृहिण्य इत्यनेन हरिणीत्वलाभाद्धरिण्य इत्यतिरिक्तं विपर्ययो वेति परास्तम् । नारायणं निखिलपूर्णगुणार्णमित्यृग्भाष्यटीकाटिप्पणेषु तद्धिता इति बहुवचनज्ञापितो मत्वर्थे ड इत्यतिविशदमुक्ते-रयमर्णः समुद्रवाच्यर्णशब्द इति मन्तव्यम् । अर्णं वारिणि च प्रोक्तमर्णं स्यादक्षरेऽपि चेति विश्वः

॥ १८,१९ ॥

सुमनोरञ्जिनी

मणिधरः कौस्तुभरत्नधारी । दयितगन्धा प्राणप्रियगन्धा तुलसी यस्यां सा तथा । तया मालयोपलक्षितः । प्रणयिनः स्निग्धतमस्यानुवर्तमानस्य कस्यचिद्गोपस्य । अंसे भुजशिरसि । भुजं प्रक्षिपन् निदधानो गा आगमयन् वनाद्व्रजमावर्तयन् कृष्णः, कदाचित् कस्मिंश्चित्काले । यत्र यस्मिन् वने । अगायत् ॥ तदा वञ्चितचित्ताः प्रलोभितान्तःकरणाः । कृष्णगृहिण्यः कृष्णमृग-परिग्रहभूता हरिण्यः । गुणगणार्णं क्वणितवेणुं कृष्णमनुगम्य उपान्वीयुः । का इव । मुक्तगृहेशाः परित्यक्तनिजपतयः । उभयत्र समानं, गोपिका गोपांगना इव । अन्यत्र गोपनशीला इव

॥ १८,१९ ॥

कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम् ।

नन्दसूनुरनघे तव वत्सो नर्मदः प्रणयिनां विजहार ॥ २० ॥

मन्दवायुरुपवात्यनुकूलं मानयन् मलयजस्पर्शेन ।

बन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः ॥ २१ ॥

पदरत्नावली

हे अनघे यशोदे कुन्ददामभिः कुन्दकुसुममालाभिः कृतः कौतुकेनोत्सवेन वेषोऽलङ्कारो येन स तथा । ‘कौतुकं त्वभिलाषे स्यादुत्सवे नर्महर्षयोः’ इति यादवः । गोपैर्गोधनैश्च वृतः प्रणयिनां सखीनां नर्मदो नानाविनोदजनितानन्ददस् तव वत्सः पुत्रो नन्दसूनुर्यदा यमुनायां विजहार क्रीडति स्म तदा मलयजस्पर्शेन चन्दनगन्धदानेन कृष्णं मानयन्अनुकूलं यथा तथा मन्दवायुरुपवाति वीजयति । किञ्च ये उपदेवगणा गन्धर्वसङ्घास्ते बन्दिनो मङ्गलस्तुतिपाठकाः सन्तो वाद्यगीतबलिभिर् वाद्यैर्गीतैः पुष्पवर्षादिभिस् तं श्रीकृष्णं परिवव्रुः परित उपासत ॥ २०,२१ ॥

सत्यधर्मीया

हे अनघे यदा कुन्ददाम्ना धृतकुन्दमालया कृतं कौतुकमुत्सवो यस्य स वेषो यस्य सः । गतम् । कौतुकेन वेषो यस्येति वा । सुमनसस्तदुपधार्येत्यारभ्यैकोनविंशश्लोकपर्यन्तं यशोदां लक्ष्यीकृत्योक्तिरिति स्फोरयितुं पुनरनुक्तौ बहुसंविधानसापेक्षतया चेतश्चाञ्चल्यं स्यादिति नन्दसूनुरनघ इत्युक्तिरिति ज्ञेयम् । गोपैर्गोधनैश्च वृतो नन्दसूनुरित्युक्तावुदरान्तरज इति स्यादिति तव वत्स इत्युक्तिः । न धर्मादयः कुन्तीसूनव इवायमिति बोधयितुं नन्दसूनुरिति । प्रणयिनां नर्मदो विनोदजनितानन्ददो यमुनायां विजहार चिक्रीड । मलयजस्पर्शेन चन्दनपरागदानेन कृष्णं मानयन्ननुकूलं यथा तथा मन्दवायुरुपवाति वीजयति । ये उपदेवगणा गन्धर्वसङ्घास्ते बन्दिनः स्तुतिपाठका इव वाद्यैर्गीतैर्बलिभिः सह परिवव्रुः । एवं महापुण्यवती त्वमिति सूचयन्त्यनघ इत्यनेनेति मन्तव्यम्

॥ २०,२१ ॥

सुमनोरञ्जिनी

हे अनघे यशोदे कुन्ददाम्ना कुन्दपुष्पमालया कृतः कौतुकवेषो, विवाहकाले वरस्य हस्ते यत्सूत्रं बध्यते तत्कौतुकं, तद्विशिष्टो वेषो यस्य सः कुन्ददामकृतकौतुकवेषः कौतुकं विषयाभेदे हस्तसूत्रे कुतूहल इति यादवः । प्रणयिनां नर्मदः लीलावचनेनानन्ददः । तव वत्सः बालः नन्दसूनुर् यदा यमुनायां विजहार । तदा मलयजस्पर्शेन चन्दनगन्धदानेन । कृष्णं मानयन् वायुर्यथाऽनुकूलो भवति तथा मन्दं मन्दम् उपवाति वीजयतीत्यन्वयः । किञ्च तदा ये उपदेवगणा देवसमीपे वर्तमाना गन्धर्वा बन्दिनो वंदमाना यद्वा मङ्गलपाठकाश्च । वाद्येन गीतेन बलिना उपहारेण च । तं कृष्णं परिवव्रुः ॥ २०,२१ ॥

वत्सलो व्रजगवां यदगाधो वन्द्यमानचरणः पथि वृद्धैः ।

कृत्स्नगोधनमपोह्य दिनान्ते गीतवेणुरनुगोद्धृतकीर्तिः ॥ २२ ॥

उत्सवं श्रममपोह्य दृशीनामुद्वहन् खुररजश्छुरितस्रक् ।

दित्सयैति सुहृदाशिष एष देवकीजठरभूरुडुराजः ॥ २३ ॥

पदरत्नावली

व्रजगवां व्रजजनानां गवां च विषये वत्सलो वात्सल्यवान् यद् यस्माद-गाधोऽन्याविज्ञातानन्तमहिमा पथि मार्गे वृद्धैर्ज्ञानादिवृद्धैर्वन्द्यमानौ चरणौ यस्य स वन्द्यमानचरणः कृत्स्नगोधनं समस्तगोरूपधनं दिनान्ते सायङ्कालेऽपोह्य प्रत्यावृत्यानुगैर्ब्रह्मरुद्रादिभिरुद्धृता प्रकटीकृता कीर्तिर्यस्य स तथा । गीतो वेणुर्येन स तथा । वनपरिभ्रमणोत्पन्नं श्रममपोह्य निरस्य दृशीनां स्वद्रष्टृदृष्टीनामुत्सवं सुखातिशयमुद्वहन् सम्प्रापयन् खुराणां गोखुराणां रजोभिर्धूलिभिश्छुरिता मिश्रिता स्रङ् माला यस्य स खुररजश्छुरितस्रक् सुहृदामनिमित्तबन्धनाम् आशिष इष्टफलानि दित्सया दातुमिच्छया देवक्या जठरमेव भूर्व्यक्तिस्थानं यस्य स देवकीजठरभूरेष उडुराजश्चन्द्र इव एति अभियाति । लुप्तोपमेयम् । चन्द्रोऽपि व्रजगवामध्वगगवादीनां वत्सलस्तापापनोदकत्वेन स्निग्धः । ‘गोष्ठाध्वनिवहा व्रजाः’ इति यादवः । अगाधो ऽगस्यास्ताचलस्याधः पथि व्योममार्गे वृद्धैः सप्तर्षिभिर्वन्द्यमानचरणः स्तूयमानसञ्चारो दिनान्ते रात्रौ कृत्स्नगोधनं सकलकलासमेधितचन्द्रिकाख्य-धनमपोह्य परिपूर्य गीतः कविभिः संवर्णितो वेणुः स्ववंशो येन स गीतवेणुः । हरेः शशिवंशोद्भूतत्वात् तद्वंशवर्णनं मङ्गलावहमिति बोध्यम् । अनुगैरश्विन्यादिनक्षत्रैः सहोद्धृता ऊर्ध्वं धृता कीर्तिर्यस्य स तथा । श्रमं दिनमणिकिरणसंसर्गजमपोह्य निर्धूय दृशीनां लोकनेत्राणामुत्सवमुद्वहन् खुररजोभिर् गोखुरधूलिभिश्छुरिता मिश्रिता स्रक् किरणमाला यस्य स तथेति ॥ २२,२३ ॥

सत्यधर्मीया

व्रजगवां व्रजजनानां गवां च विषये वत्सलः स्निग्धो, यद्यतोऽगाधोऽनितरा-लोड्यः पथि अध्वनि वृद्धैर्ज्ञानादिवृद्धैर्वन्द्यमानौ चरणौ यस्य सः । कृत्स्नं समस्तं गोधनं दिनान्ते प्रदोषसमयेऽपोह्य प्रत्यावृत्त्यानुगैर्ब्रह्मादिभिरुद्धृता कीर्तिर्यस्य सः । गवां गमने मध्येमार्गमनुगैरुद्धृता कीर्तिः पङ्को यस्य स इति वा । उद्धृतेति पदमुद्धृतमेवमिति मन्तव्यम् । कीर्तिः प्रसादयशसोर्विस्तारे कर्दमेऽपि चेति विश्वः । गोखुरादि नीररजः सङ्गतो भवन्तं पङ्कं पादलग्नं पश्चादागच्छदनुगा उद्धरन्ति निष्कासयन्तीति तात्पर्यम् । गीतो वेणुर्येन स तथा । श्रमं स्ववियोगजमिव वनते(?) वनजं चापोह्य निरस्य दृशीनां द्रष्टृदृष्टीनामुत्सवमुद्वहन् प्रापयन्खुराणां गोखुराणां रजोभिर्धूलिभिश्छुरिता मिश्रिता स्रङ्माला यस्य स देवकीजठरभूरेषो देवक्या जठरादुद्भवतीति तथा ज्ञानितया देवकीजठरभूरिति सत्योऽभ्यधुः । इयं यशोदापरोक्ष्यदशायामुक्तिरिति वा । नो चेत्कुप्येदेताभ्यो राज्ञीति । यद्वा तस्याः श्रुतवत्या अपि प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मज इति गर्गानर्गलगिरं स्मृतवत्या न कोपो नापि ताप इति वा मन्तव्यम् । उडुराजश्चन्द्रः । लुप्तोपमेयम् । सुहृदाशिषः सुहृदभिलाषान् दातुमिच्छा दित्सा तयाऽभियाति । चन्द्रोऽपि भविष्यद्देवक्यदितिस्तद्भवो रूपान्तरेणेति । व्रजगवा-मध्वगगवादीनां वत्सलस्तापापनोदक इति स्निग्धोऽगस्यास्तगिरेरधो वृद्धैः सप्तर्षिभिः पथि च वन्द्यमानचरणो गगनाध्वनीनचरणः स्तुत्यसञ्चारो वा । दिनान्ते कृत्स्नं गोधनं किरणधनमपोह्योपसंहृत्य गीतवेणुः क्व रे चन्द्र इति वृद्धैरपटुचक्षुष्कैः पृष्टैः स्पष्टदृष्टिभिर्गीतो वेणुर्यस्य सः । अहो तत्र वेणुः शाखोपरि लसतीति गीतवेणुः । अनुगाभिरश्विन्यादिभिः सहोद्धृता भूस्तत ऊर्ध्वं धृता कीर्तिर्विस्तारो यस्य सः । अनुगं गगने उद्धृत इत्युच्चैः स्थित इति कीर्तिः कीर्तनं ज्योतिषकैर्यस्य स इति वा । श्रमं दिनमणिघृणिजमपोह्य दृशीनामुत्सवमुद्वहन् खुररजसाऽत्रत्येनैव छुरिता स्रक् किरणहारो यस्य स तावत्पर्यन्तमिदं रजो गतमिति भावः । यद्वाऽन्तर्गतकुरङ्गखुररजच्छुरितगोलोकस्य चन्द्रमण्डलादुपरितनत्वेन ततो गोविन्दाभिषेकार्थमागच्छत्सुरभ्यादीनां चरणरजच्छुरितस्रग्वा । शान्तिपर्ववचनं च प्रागुदाहृतम् । सुहृत्सुहृन्मनोनियम्यत्वेनास्यास्तीति स आशिषो दित्सयैतीत्युडुराजो देवकीजठरभूरिवेति चान्वेतव्यम् ॥ २२,२३ ॥

सुमनोरञ्जिनी

व्रजगवां वत्सलः प्रियः । अगाधः गम्भीरः, अन्याविज्ञातमहिमा । पथि वृद्धैर् वन्द्यमानचरणः स्तूयमानस्वरूपः । दिनान्ते सायं सन्ध्यायाम् । कृत्स्नं समस्तं गोधनमपोह्य व्यावर्त्य । अनुगैर् उद्धृता प्रकटिता कीर्तिर्यस्यासौ तथाविधः । गीतः ध्वनितो वेणुर्येन सः । व्रजगवां, खुरैः समुत्पन्नरजसा धूल्या च्छुरिता मिश्रिता स्रक् वनमाला यस्यासौ । एषः देवकीजठरभूर् देवकीजठराद् भवति व्यज्यत इति तथाविधः कृष्ण उडुराजश्चन्द्र इव । लुप्तोपमेयम् । दृशीनां नेत्राणां श्रमं सूर्यकिरणतापजन्यम् । अपोह्य अपोहयित्वा, णिजर्थोऽन्तर्णितः, उत्सवम् आनन्द-विशेषम् । उद्वहन् । सुहृदां बन्धूनाम् आशिषो ऽभीष्टानि । दित्सया दातुमिच्छया । एतीति

॥ २२,२३ ॥

मदविघूर्णितलोचन ईषन् मानदः स्वसुहृदां वनमाली ।

बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥

यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते ।

मुदितवक्त्र उपयाति दुरन्तं मोचयन् व्रजगवां दिनतापम् ॥ २५ ॥

तात्पर्यम्

‘मानवो बदरः सिंधुः शशिनस्तु त्रिनामकम् । यो वेद मुच्यते रोगै-र्विष्णुनाम्नेव संसृतेरि’ति स्कान्दे ॥

पदरत्नावली

ईषन्मदेन स्वद्रष्टृदृष्टीनां वैवश्यापादकेन नैसर्गिकमन्दहासेन विघूर्णिते गुणविशेषेण उद्भ्रान्ते लोचने यस्य स तथा । ‘मदो गर्वे सुहासे च कस्तूर्याम्’ इति गोपालः । स्वसुहृदां स्वसंसक्तस्वान्तानां मानदो ज्ञानप्रदः । ‘मानं ज्ञानं लयश्चैव मर्यादा चैव कथ्यते । उत्पादनं च सङ्ख्यानं बलं च क्वचिदुच्यते’ इति शब्दनिर्णये । बदरश्चन्द्रस् तद्वत् पाण्डु मनोरमं वदनं यस्य स तथा । तदुक्तमाचार्यैः– ‘मानवो बदरः सिन्धुः शशिनस्तु त्रिनामकम् । यो वेद मुच्यते रोगैर्विष्णुनाम्नेव संसृतेः ॥ इति स्कान्दे’ इति । ‘पाण्डुः कुन्तीपतौ रोगे पाण्डुरे च मनोरमे’ इत्युत्पलमाला । बदरफलवत् पाण्डुरं वदनमित्यपरेषामपव्याख्यानमपहसनीयपदमध्यास्ते । कनककुण्डलयोर्लक्ष्म्या दीप्त्या मृदू गण्डौ यस्मिंस्तद् वदनं मण्डयन् द्विरदराजवद् गजराजवद् विहारो यस्य स द्विरदराजविहारो यदुपतिरेष दिनान्ते यामिनीपतिः सुधांशुरिव व्रजगवां दुरन्तमपारं दिनतापं मोचयन् शमयन् मुदितवक्त्रः प्रसन्नवदन उपयाति । चन्द्रोऽपि द्विरदराजस्येव ऐरावतस्येव विहारो मन्दसञ्चारो यस्य स द्विरदराजविहारः । व्रजगवां दिनतापं मोचयन्निति समम् ॥ २४,२५ ॥

सत्यधर्मीया

मदविघूर्णितेति पद्ये बदरशब्दस्य विवक्षितार्थाप्रतीतेः स्वयं मानेन तदर्थमाह ॥ मानव इति ॥ मानवो बदरः सिन्धुरिति शशिनस्त्रिनामकं सार्थकं नामत्रिकमित्यर्थः । यो वेद स रोगान्मुच्यते मुक्तो भवति । तत्र दृष्टान्तमाचष्टे । विष्णुनाम्नोच्चारितेनाधिकारी संसृतेः संसारादिव यथा तथा मुच्यत इति ॥ ततश्चायं श्लोकार्थः ॥ काचित्कामिनी मधुनाथमधुनाऽपि द्वाभ्यां प्रस्तुतं स्तुत्वोपसंहरति ॥ मदेति ॥ ईषत्किञ्चिदपि मानदः स्वसुहृदामत्यावश्यककामिनीनां सः, मय्यविघूर्णिते अविचालिते अभ्रामिते इति यावद् लोचने यस्य स अतत्कटाक्षिताऽहमित्यर्थः । मदो हर्षविशेषस्तेन विघूर्णिते उद्भ्रान्ते लोचने यस्य स वा । वनमाली बलिध्वंसी । शिखादिरयम् । बदरेणोद्यच्चन्द्रेण पाण्डुवदनं यस्य सः । लपनोपरि परिपतितसान्द्रचन्द्रिकातस्तत्पाण्डुवदनं यस्येति वा । तत्र तन्त्रमाह । कनककुण्डललक्ष्म्या कनकात्मककुण्डलकान्त्येति । पडि गतौ ततो मृगव्यादिः कुः । पृषोदरादिदीर्घः । हरिणः पाण्डुरः पाण्डुरिति व्याख्यायां पाण्डुस्तु पीतभागार्धः केतकी धूलिसन्निभ इति शब्दार्णवः । पाण्डुः कुन्तीपतौ सित इति हैमः । त्रीणि पीतसंवलितशुक्लस्येत्युक्ते-श्चन्द्रिकाशौक्ल्यं कनककुण्डलपीततेति तयोः संवलनं ज्ञेयम् ।

मृदु यथा तथेति वा । मृदुश्चासौ गण्डश्च तं मण्डयन्नलङ्कुर्वन्द्विरदराजो गजराजस्तद्वद्विहारो यस्य सः । दिनान्ते यामिनीपतिश्चन्द्रो दिनान्त इव व्रजगवां दिनतापं मोचयन् दुरन्तमेतद्विनाऽ-न्यस्मादनन्तं मुदितवक्त्र उपयाति । वनमाली जलमाली । वनोपरिग इति तन्माली वा । दिनतापं मोचयन्निति समम् । वस्तुतो वियुक्तानां तन्मात्रानुरक्तानामङ्गस्मरणं नास्तीत्येतावता विना भगवन्त-मन्यत्र मनो मनागपि गच्छेदिति प्रक्रमानुसारेणैवोपसंहारस्य न्याय्यत्वान्नाप्रस्तुतस्तुत्योपसंहरणं मनोहरम् । विष्णुं शशिवर्णमित्युक्तेर्युक्तं तथा प्रदर्शनमिति वा । दैवं चामीकरं नाम प्रोद्यदादित्य-सन्निभमिति बृहद्भाष्योक्तेरादित्ये च । तदेतदादित्यस्य शुक्लं रूपमिति छान्दोगोपनिषदुक्तेः । कनककुण्डललक्ष्मीः शुभ्रेति बदरपाण्डुरतापीडितेति मन्तव्यम् । गोप्यः कृष्णे वनं यात इति कृष्णलीलां प्रगायन्त्य इति । तथा, एवं व्रजस्त्रियो राजन्कृष्णलीलानुगायतीः । रेमिरेऽहस्सु तच्चित्ता-स्तन्मनस्का महोदया इति शुक एव भगवत्स्तुतिं सम्पुटीमाटीकतेति करसम्पुटीं कृष्णायैव कुर्युः

॥ २४,२५ ॥

सुमनोरञ्जिनी

बदरपाण्डुवदनः मदविघूर्णितलोचन इति विशेषणद्वयसामर्थ्यादिदं पद्यं बलरामप्रशंसापरमिवाभाति । मदेन विघूर्णिते लोचने यस्य सः बदरश्चन्द्रस् तद्वत्पाण्डुवदनः । तदुक्तं तात्पर्ये । मानवो बदरश्चन्द्रः शशिनस्तु त्रिनामकमिति । स्वसुहृदां मानं बहुमानं ददातीति तथोक्तः । स्वसुहृदां स्त्रीणां मानं कामगर्वं द्यति खण्डयतीति तथोक्तः । कनककुण्डललक्ष्या मृदु गण्डं मण्डयन् अलङ्कुर्वन् । एककुण्डलत्वादेकवचनम् । द्विरदराजविहारः गजराजगतिर् एष यदुपतिर् बलभद्रः यामिनीपतिरिव चन्द्रमा इव । व्रजगवां दुरन्तं दिनजनिततापं मोचयन् । दिनान्ते सायंसमये । मुदितवक्त्रः सन् उपयातीति सम्बन्धः ॥ २४,२५ ॥

विरोधोद्धार— बदरेति । अस्य श्लोकस्य विजयध्वजतीर्थकृतावतारिकेयम् । जननसमये क्षीराब्धितीरवालुकासु नववीथिषु विक्रमं कुर्वन्तमुच्चैःश्रवसं प्रशस्य बलभद्रप्रशंसयोपसंहरतीति । अस्या-सङ्गतत्वं कैश्चिदुच्यते । अतोऽर्थ उच्यते । अत्रोच्यैःश्रवसशब्देन कृष्णाश्वौ गृह्येते । उभयत्र प्रातिस्विकत्वेनोपमेयत्वोपमानत्वेऽपि । उपमानचन्द्रपक्षे जननसमये जन्यतेऽमृतादिसारमनेनेति जननं मथनं तत्काल इत्यर्थः । नवा अभिनवा वीथयो जलोभयपार्श्वस्थानानि यासां तासु । क्षीराब्धितीर-वालुकासु विक्रमम् उत्पन्नरूपं पादविक्षेपं कुर्वन्तम् उच्चैःश्रवसम् ऊर्ध्वकर्णं सुराश्वमिवेति । उपमेयकृष्णपक्षे जननसमयेऽवतारकाले । प्रादुर्भावो हरेर्जनिरित्युक्तेः । क्षीराब्धितीरवद् वालुका वा तासु नववीथिषु यमुनाजलपार्श्वेषु विक्रमं पादविक्षेपं कुर्वन्तं सञ्चरन्तमित्यर्थः । उच्चैःश्रवसं महापुण्यश्लोकं श्रीकृष्णं प्रशस्य प्रशंस्य प्रशंसया संवर्ण्य बलभद्रप्रशंसयोपसंहरतीत्यवतारिकार्थः ॥ अथ श्लोकार्थः ॥ बदरवच् चन्द्रवत् पाण्डु गौरं वदनं यस्य सः । मानवो बदरः सिन्धुः शशिनस्तु त्रिनामकमिति वचनात् । मृदुगण्डमित्येकवचनं न प्राण्यंगत्वेन विवक्षितं किन्तु हलधरस्यैककुण्डलत्वेनैकगण्डस्यैव मण्डितत्वादिति ध्येयम् । अत एव कनककुण्डललक्ष्म्येत्यत्र कनककुण्डलस्येति षष्ठीतत्पुरुषसमासः द्वौ रौ रेफौ यन्नामि्न स द्विरः भ्रमरस् तेन दाय्यते शोध्यते स द्विरदः सुगन्धः । देप् शोधन इति धातुः । तेन राजन्ते शोभन्ते तानि द्विरदराजानि कमलानि तेषां विविधा विशिष्टा वा हारा माला यस्य स तथा । अत एव दिनान्तस्थसूर्यरक्तिमासहितचन्द्रदृष्टान्तो युज्यते । चन्द्रस्वच्छरामस्य रक्तकमलमालाद्युपेतत्वात् ॥ यद्वा ॥ द्विरदवत् कृष्णवर्णेन राजतेऽसौ द्विरदराजः कृष्णस् तेन सह विहारः क्रीडा यस्य स तथा । दिनान्ते । नामैकदेशग्रहणेन नामग्रहणममिति न्यायात् । दिनस्य दिनकरस्य अन्ते समीपे स्थितौ यामिनीपतिश् चन्द्र इव । लुप्तकान्तिरिति यावत् । दृश्यत इति शेषः । गजत्विट् कृष्णेन सह विहारात् ॥ विष्प्रभ इति भावः । तस्मात् श्लोकावतारिकयोः सङ्गत्यभावो नास्तीति ॥ २४ ॥

॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्याने श्रीपाङ्घरी श्रीनिवासाचार्यकृते

विरोधोद्धारे त्रयस्त्रिंशोऽध्यायः ॥ १०-३३ ॥

श्रीशुक उवाच—

एवं व्रजस्त्रियो राजन् कृष्णलीला नु गायतीः ।

रेमिरेऽहस्सु तच्चित्तास्तन्मनस्का महोदयाः ॥ २६ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे त्रयस्त्रिंशोऽध्यायः ॥

पदरत्नावली

एवं नु वेणुं विकल्प्य । ‘नु पृच्छायां विकल्पे च’ इत्यमरः । तच्चित्ताः कृष्णविषयकान्तःकरणाः । तन्मनस्काः कृष्णमाहात्म्यविशेषविषयकज्ञानसम्पन्नाः । ‘मनु अवबोधने’ इति धातुः । महानुदय उत्सवो यासां ता महोदयाः ॥ २६ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे त्रयस्त्रिंशोऽध्यायः ॥ १०-३३ ॥

दुर्घटभावदीपिका

तच्चित्तास्तन्मनस्का इत्यस्य तच्चित्तास्तद्विषयकान्तःकरणसंपन्नास्तन्मनस्का-स्तन्माहात्म्यविशेषविषयकज्ञानसंपन्ना इत्यर्थः । एतेन तच्चित्तास्तन्मनस्का इत्येतत्पुनरुक्तमिति दूषण-मपास्तम् । तन्मनस्का इत्यत्र मनःशब्दो मनु अवबोधन इत्यस्य रूपम् । अतो मनःशब्देन ज्ञान-मुच्यत इति स्वीकृत्य तन्मनस्का इत्यनेन भगवद्विषयकान्तःकरणं कार्यं यद्भगवन्माहात्म्यविशेषविषयकं ज्ञानं तद्वत्त्वमुच्यत इत्यभ्युपगमात् ॥ २६ ॥

॥ इति श्रीभागवतटिप्पण्यां श्रीसत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे त्रयस्त्रिंशोऽध्यायः ॥ १०-३३ ॥

सत्यधर्मीया

लीला नु गायतीरिति छेदः । ऐकपद्यं वा । कृष्णलीला अनुगायतीः कृष्ण-लीलानुगायन्त्योऽहस्सु तच्चित्ता मुनय इव तन्मनस्का महोदया इति समं रेमिरे चिक्रीडुः

॥ २६ ॥

॥ इति श्रीमद्भागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे त्रयस्त्रिंशोऽध्यायः ॥ १०-३३ ॥

सुमनोरञ्जिनी

एवं कृष्णलीला, सुपो लुक् । कृष्णलीलाम् । अनुगायतीः, पूर्वसवर्णादेशो ऽनुगायन्त्यः । व्रजस्त्रियः । अहस्सु । तच्चित्तास् तस्मिन् चित्तं मनो वाऽन्तरावृत्तिर्यासां ताः । तन्मनस्का अत एव । महान् उदयो यासां तास् तथाविधाः सत्यः रेमिरे । अनेन एतद्गीत-गायकानामपि महानुदयः फलमिति सूचितम् ॥ २६ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां त्रयस्त्रिंशोऽध्यायः ॥ १०-३३ ॥