०७ द्वात्रिंशोऽध्यायः

एकदा देवयात्रायां गोपाला जातकौतुकाः

॥ अथ द्वात्रिंशोऽध्यायः ॥

श्रीशुक उवाच—

एकदा देवयात्रायां गोपाला जातकौतुकाः ।

अनोभिरनडुद्युक्तैः प्रययुस्तेऽम्बिकावनम् ॥ १ ॥

पदरत्नावली

मुकुन्दैकभक्त्या संसाराहिग्रासमोक्षो मोक्षहेतुविज्ञानरत्नं च लभ्यत इत्यत्र निदर्शनतया नन्दस्य सर्पान्मोक्षं, शङ्खचूडं निहत्य बलभद्राय तच्चूडारत्नदानं च निरूपयत्यस्मिन्नध्याये । तत्र प्रथमतो गोपानां यात्राप्रकारं कथयति एकदेति ॥ अम्बिकामाहात्म्यविषयां किंवदन्तीमाकर्ण्य जातकौतुका उत्पन्नकुतूहलबुद्धयः । अनडुद्युक्तैर्वृषभयुक्तैरनोभिः शकटैरम्बिकावनं दुर्गावासस्थानं वनं प्रययुः ॥ १ ॥

सत्यधर्मीया

कंसारिः संसारोरगग्रस्तमेवं मोचयतीति दिदर्शयिषुर्नन्दस्याहितो विहितं मोचनं तथा शङ्खचूडचूडारत्नहरणं तं मारयित्वा बलाय तद्वितरणं च कथयत्यस्मिन्नध्याये । तदादौ गोपानां यात्राप्रकारं निरूपयति ॥ एकदेति ॥ जातमुत्पन्नं कौतुकमभिलाष उत्सवो वा येषां ते तथा । कौतुकं चाभिलाषे स्यादुत्सवे नर्महर्षयोः । परम्परासमायातमङ्गले च कुतूहले । विवाहसूत्रगीतादि-भोगकामेषु च स्मृतमिति विश्वात्सम्भवद्विश्वार्थं तत्पदम् । अनडुद्भिर्वृषैर्युक्तैरनोभिः शकटैरम्बिकावनम् । अम्बिकाऽत्र पार्वती । देवं पशुपतिं प्रभुं, देवीं च नृपतेऽम्बिकामिति जनसभाजनतरतमभावस्य वक्ष्यमाणत्वात् ॥ १ ॥

सुमनोरञ्जिनी

भक्त्या प्रसन्नो भगवान् भक्तानामात्यन्तिकानिष्टं निवर्तयित्वा परमाभीष्टं प्रदास्यतीति द्योतयितुं नन्दस्य सर्पान्मोक्षं शङ्खचूडं हत्वा बलभद्राय तच्छिरोरत्नदानं च निरूप-यत्यस्मिन्नध्याये । तत्र पूर्वप्रवृत्तां कथामाह ॥ एकदेति । देवस्य पशुपतेर् यात्रायाम् ॥ १ ॥

तत्र स्नात्वा सरस्वत्यां देवं पशुपतिं प्रभुम् ।

आनर्चुरर्हणैर्भक्त्या देवीं च नृपतेऽम्बिकाम् ॥ २ ॥

पदरत्नावली

पशुपतिं देवाधिपम् । ‘पशवो देवताः स्मृताः’ इति छान्दोग्यभाष्योक्तेः । प्रकर्षेण भवनात् प्रभुस्तम् । ‘विभु प्रभु प्रथमं मेहनावत इति । स ह्येव प्राभवद् विविधोऽभवत्’ इति वारुणशाखायाम् । अर्हणैः पूजासाधनैः ॥ २ ॥

सत्यधर्मीया

तत्र सरस्वत्यां स्नात्वा पशुपतिं देवाधिपम् । पशवो देवताः स्मृता इति छान्दोग्यभाष्योक्तेः । नन्द्यधीशमिति वा । अर्हणैः पूजासाधनैर्भक्त्याऽऽनर्चुरपूजयन् । चात्तामम्बिका-मानर्चुरित्यन्वयः ॥ २ ॥

सुमनोरञ्जिनी

अर्हणैः पूजासाधनैः ॥ २ ॥

गावो हिरण्यं वासांसि मधु मध्वन्नमादृताः ।

ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयतामिति ॥ ३ ॥

पदरत्नावली

मधु क्षौद्रम् । मध्वन्नं मधुरान्नम् ॥ ३ ॥

सत्यधर्मीया

सर्वे रुद्रे ददुः । देवो वासुदेवो नः प्रीयतामिति । अयमेव कुतो नार्च्य इत्यतोऽप्याह ॥ देवोन इति । देवाद्वासुदेवादून इति । गा व इति छेदः । मधु क्षौद्रं मध्वन्नं मधुरमन्नं देवो वासुदेव इदं सर्वं वो युष्माकमिति ददुः । देवो वो युष्मदन्तर्गतो देवः प्रीयतामिति ददुः ॥ ३ ॥

सुमनोरञ्जिनी

गावः गाः । मधु क्षौद्रं मध्वन्नं मधुरान्नं ब्राह्मणेभ्यो ददुः । गावोऽप्यादृताः पूजिता इति वा ॥ ३ ॥

ऊषुः सरस्वतीतीरे जलं प्राश्य यतव्रताः ।

रजनीं तां महाभाग नन्दसन्नन्दकादयः ॥ ४ ॥

पदरत्नावली

तत्रोषुरवात्सुः ॥ ४ ॥

सत्यधर्मीया

जलं प्राश्य पीत्वा, यतव्रता इत्याभ्यां तीर्थोपोषणं गोपानां सूच्यते । तां रजनीं रात्रिं तत्रोषुरवात्सुः ॥ ४ ॥

सुमनोरञ्जिनी

तां रजनीं रात्रिम् । ऊषुः । कालाध्वनोरिति द्वितीया ॥ ४ ॥

कश्चिन्महानहिस्तस्मिन् विपिनेऽतिबुभुक्षितः ।

यदृच्छयाऽऽगतो नन्दं शयानमुरगोऽग्रसीत् ॥ ५ ॥

सत्यधर्मीया

तस्मिन्विपिने वने कश्चिन्महानुरगोऽतिबुभुक्षितो यदृच्छया हरीच्छयाऽऽगतः शयानं नन्दमग्रसीत् । तत्र निदर्शनमाह । कश्चिन्महानहिर्वृत्र इन्द्रमिवेति शेषः । यदावृणोत्तद्वृत्रस्य वृत्रत्वमित्यादेरिति । अहिर्वृत्रासुरे सर्प इति विश्वः । उरगः शापतोऽहिर्न विद्यते हिस्तत्त्वेन निश्चयो यस्य तज्जात्यवच्छिन्न इति यावदिति चोरगविशेषणम् । अतोऽपि न पुरोगतोरगतः पुनरुक्तिरिति ज्ञेयम् । हिर्ज्ञानं तन्न विद्यते यस्याहिरज्ञः । यथोक्तमृग्भाष्यटीकायाम् । हीति निश्चयवाची स्यादिति वचनात् हि गतौ ततो डिस्ततो नञ्समासोऽहयो ज्ञानविरोधिन इत्युभयपक्षे ॥ ५ ॥

सुमनोरञ्जिनी

तस्मिन् वने । कश्चिन् महानहिर् आसीत् । स उरगः यदृच्छया ईशेच्छया । शयानं नन्दं प्रत्यागतः । तमग्रसीत् ॥ ५ ॥

स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महानयम् ।

सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ॥ ६ ॥

पदरत्नावली

प्रपन्नं शरणागतम् ॥ ६ ॥

सत्यधर्मीया

स नन्दोऽहिना ग्रस्तो महानयं सर्पो मां ग्रसते ग्रसति तात मां परिमोचयेति चुक्रोश । सतीह त्वयीयं दशेति महानयं परमान्यायं यथा तथा ग्रसत इति वा । प्रपन्नापदविमोचनं महानयं महान्यायोपेतमतो मां परिमोचयेति वा ॥ ६ ॥

सुमनोरञ्जिनी

स नन्दः । प्रपन्नं शरणागतं सर्पास्यप्रपन्नं वा ॥ ६ ॥

तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः ।

ग्रस्तं च दृष्ट्वा सम्भ्रान्ताः सर्पं विव्यधुरुल्मुकैः ॥ ७ ॥

पदरत्नावली

सम्भ्रान्ता व्याकुलचित्ताः । उल्मुकैरलातैर्विव्यधुरताडयन् ॥ ७ ॥

सत्यधर्मीया

तस्य नन्दस्य । ग्रस्तमहिना । दृष्ट्वा चोल्मुकैर्विव्यधुरताडयन् ॥ ७ ॥

अलातैर्हन्यमानोऽपि नामुञ्चत् तमुरङ्गमः ।

तमस्पृशत् पदाऽभ्येत्य भगवान् सात्वतां पतिः ॥ ८ ॥

पदरत्नावली

दीप्यमानेन वपुषा स्थितम् ॥ ८ ॥

सत्यधर्मीया

अनुवादेनैव ग्रन्थकृदुल्मुकपदं स्वयं व्याकरोति ॥ अलातैरिति ॥ उरङ्गम-श्छान्दसः । तं नन्दं नामुञ्चन्न तत्याज । तदा सात्वतां पतिस्तमभ्येत्य पदाऽस्पृशत्पस्पर्श

॥ ८ ॥

सुमनोरञ्जिनी

विव्यधुस् ताडयामासुः ॥ ७,८ ॥

स वै भगवतः श्रीमत्पादस्पर्शहताशुभः ।

भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम् ॥ ९ ॥

सत्यधर्मीया

श्रीमान्यः पादस्तस्य स्पर्शेन हतमशुभं शापतो दुर्जन्मप्रापकं कर्म यस्य स संस्तत्सर्पवपुर्हित्वा विद्याधरार्चितं स्वं वपुर्भेजे ॥ ९ ॥

तमपृच्छद् हृषीकेशः प्रणतं समुपस्थितम् ।

दीप्यमानेन वपुषा पुरुषं हेममालिनम् ॥ १० ॥

सत्यधर्मीया

दीप्यमानेन वपुषा स्थितम् ॥ १० ॥

सुमनोरञ्जिनी

विद्याधरैरर्चितं रूपं देहम् ॥ ९,१० ॥

को भवान् परया लक्ष्म्या रोचतेऽद्भुतदर्शनः ।

कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवशः ॥ ११ ॥

पदरत्नावली

लक्ष्म्या कान्त्या । एतामाजगरी गतिम् ॥ ११ ॥

सत्यधर्मीया

लक्ष्मीः शोभा । गतिं योनिम् । अद्भुतदर्शनः परया लक्ष्म्या रोचते

॥ ११ ॥

सुमनोरञ्जिनी

जुगुप्सितां निन्दिताम् । एतां सर्पलक्षणां गतिं जन्म ॥ ११ ॥

सर्प उवाच—

अहं विद्याधरः कश्चित् सुदर्शन इति श्रुतः ।

श्रिया स्वरूपसम्पत्त्या १विमानेनाचरन् दिशः ॥ १२ ॥

पदरत्नावली

श्रिया सम्पदा । स्वरूपसम्पत्त्या सौन्दर्यातिशयेन ॥ १२ ॥

सत्यधर्मीया

को भवानिति भगवता पृष्ट आहाहिरित्याह ॥ सर्प इति ॥ अहं प्राक् सुदर्शन इति श्रुतः प्रसिद्धो विद्याधरः कश्चिदिति । यद्यपि श्रुतोयुक्तमिवाभाति तथाऽपि दर्पायातसर्पत्वः प्रागिति स्वाहन्ताशान्तिं प्रदर्शयितुं कश्चिदिति वदन्विपश्चिदिति मन्तव्यम् । श्रिया सम्पदा स्वरूपसम्पत्त्या सौन्दर्यातिशयेन विमानेन व्योमयानेन दिश आचरन् सञ्चरन् ॥ १२ ॥

ऋषीन् विरूपानङ्गिरसः प्राहसं रूपदर्पितः ।

तैरिमां प्रापितो योनिं प्रलब्धः स्वेन पाप्मना ॥ १३ ॥

पदरत्नावली

तपसा विरूपान् सौन्दर्यरहितान् । ‘सौन्दर्ये च स्वभावे च रूपशब्दं प्रचक्षते’ इत्यभिधानम् । अङ्गिरसः पुत्रा अङ्गिरसः । रूपदर्पितः सौन्दर्यगर्वितः । तैरङ्गिरोभिरिमां योनिं सर्पजन्म । प्रलब्धः विप्रलब्धः ॥ १३ ॥

सत्यधर्मीया

विरूपांस्तपसाऽङ्गिरसस्तन्नामकान्नृषीन् रूपदर्पितः सौन्दर्यसञ्जातदर्पोऽहसम् अहोऽमीषां रूपमिति । स्वेन पाप्मनैतदनर्थसाधनेन प्रलब्धो वञ्चितोऽहं तैरङ्गिरोभिरिमां सर्पयोनिं प्रापितो विकृताकृतिमतः स्वान्दृष्ट्वाऽहसदसाधुरिति कर्णविकलगूढपत्वादिविकृतिमदहिताप्रापणं समुचितमिति तथा शापं कोपादयूयुजन्निति भावः । कश्चिदितिवदृषींस्तैरित्यादिबहुवचनभावो विभाव्यः । (मुनिषु गौरवं सूचयति बहुवचनप्रयोगेण विद्याधर इति भावः) एतदुदंचकसञ्चितकर्मवञ्चित इमां दशां प्रापितस्तैरिति भावः ॥ १३ ॥

शापो मेऽनुग्रहायैव कृतस्तैः करुणात्मभिः ।

यदहं लोकगुरुणा १पादस्पृष्टो हताशुभः ॥ १४ ॥

पदरत्नावली

लोकगुरुणा भवता ॥ १४ ॥

सत्यधर्मीया

शापो यस्तैः करुणात्मभिः कृतः समनुग्रहायैव । कुतोऽनुग्रह इत्यत आह ॥ यदिति ॥ लोकगुरुणा त्वया पादेन स्पृष्टो हतमहिताप्रापकमशुभं यस्य स जातो यदतोऽनुग्रहाय कृत इत्यन्वयः ॥ १४ ॥

सुमनोरञ्जिनी

विरूपान् सौन्दर्यरहितान् । रूपं स्वभावे सौन्दर्ये चेत्यभिधानात् । प्राहसम् अपहासं कृतवान् । पाप्मना पापेन । प्रलब्धः वञ्चितः ॥ १३,१४ ॥

तं त्वाऽहं भवभीतानां प्रपन्नानां भयापहम् ।

आपृच्छे शापनिर्मुक्तः पादस्पर्शादमीवहन् ॥ १५ ॥

पदरत्नावली

आपृच्छे आज्ञां प्रार्थये । अमीवहन् दोषनाशन ॥ १५ ॥

सत्यधर्मीया

हे अमीवहन् । पीवमीवेति मीवतेर्घञि नञ्समासे नलोपो नञ इति नलोपे चामीवमिति रूपम् । कार्श्यप्रदत्वाद्दुःखममीवशब्देनोच्यत इति भावः । डुमिञ् प्रक्षेपे मीङ् हिंसायामित्यस्माद्वा धातोः शेवायह्वजिह्वाग्रीवाप्वमीवा इति स्त्रियामुणादिसूत्रवृत्तौ निपातितो बाहुलकाल्लिङ्गान्तरेऽप्यस्तीति तस्य वेदं रूपम् । यथोक्तं भागवत एव । यस्याखिलामीव हतिरिति । अमीवह वास्तोष्पत इत्येतत्परभाष्ये अमः रोग इत्यस्माद्व ईट्चेति व्याख्यातत्वादमीवं रोगं वेति वा । अमीवा दुःखं तं हन्तीति स तथा तत्सम्बुद्धिः । भवभीतानां संसारभीतिमतां प्रपन्नानां जनानां तद्भयापहं तं त्वां पादस्पर्शात्पापनिर्मुक्तोऽहमापृच्छे । आङि पृच्छयामित्यात्मनेपदता । गन्तुमाज्ञां प्रार्थये ॥ १५ ॥

सुमनोरञ्जिनी

आपृच्छे प्रार्थये । अमीवहन् दोषनाशन ॥ १५ ॥

प्रपन्नोऽस्मि महायोगिन् महापुरुष सत्पते ।

अनुजानीहि मां कृष्ण सर्वलोकेश्वरेश्वर ॥ १६ ॥

पदरत्नावली

अनुजानीहि आज्ञापय ॥ १६ ॥

सत्यधर्मीया

अनुजानीह्यनुज्ञां देहि ॥ १६ ॥

सुमनोरञ्जिनी

अनुजानीहि आज्ञापय ॥ १६ ॥

ब्रह्मदण्डाद् विमुक्तोऽहं सद्यस्तेऽ१च्युत दर्शनात् ।

यन्नाम गृह्णन्नखिलान् श्रोतॄनात्मानमेव च ।

सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते ॥ १७ ॥

पदरत्नावली

यस्य तव नाममात्रमेव गृह्णन् उच्चरन् पुमान् ॥ १७ ॥

सत्यधर्मीया

हे अच्युत ते दर्शनात्सद्यस्तत्क्षणं यन्नाम गृह्णंश्चाखिलान् श्रोतॄनात्मानं पुनाति हि यतस्तस्य ते पदा स्पृष्टोऽहं ब्रह्मदण्डाद्विमुक्त इति भूयो महत्किं न महदित्यर्थः । हे अच्युत ते दर्शनमतति गच्छति प्राप्नोतीति सः सद्यो विमुक्तो भवति यथा पूर्वमुर्वरितम्

॥ १७ ॥

श्रीशुक उवाच—

इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवाद्य च ।

सुदर्शनो दिवं यातः कृच्छ्रान्नन्दश्च मोचितः ॥ १८ ॥

पदरत्नावली

अनुज्ञाप्य अनुज्ञां गृहीत्वा । दाशार्हं कृष्णम् । नन्दश्च कृच्छ्रात् सर्पग्रासान्मोचितः ॥ १८ ॥

सत्यधर्मीया

दाशार्हं कृष्णमनुज्ञाप्यानुज्ञाप्रदानोन्मुखं कृत्वा परिक्रम्य तथाऽभिवाद्य सुदर्शनो विद्याधरो दिवं यातः कृच्छ्रान्नन्दश्च मोचितः ॥ १८ ॥

सुमनोरञ्जिनी

यस्य नाम गृह्णन्नुच्चरन् पुरुषः । तस्य ते ॥ १७,१८ ॥

निशाम्य कृष्णस्य तदात्मवैभवं व्रजौकसो विस्मितचेतसस्ततः ।

समाप्य तस्मिन् नियमं पुनर्व्रजं नृपाययुस्तत् कथयन्त आदृताः ॥ १९ ॥

पदरत्नावली

तदात्मवैभवं तत्स्वरूपभूतं माहात्म्यं निशाम्य दृष्ट्वा । तस्मिन्नम्बिकासन्निधौ । तत् कृष्णवैभवम् । व्रजमाययुः ॥ १९ ॥

सत्यधर्मीया

तदात्मवैभवं तत्स्वरूपभूतं माहात्म्यं व्रजौकसो निशाम्य दृष्ट्वा तस्मि-न्सरस्वतीतीरे नियमं व्रतदीक्षां समाप्य तद्वैभवमादृताः कथयन्तः सन्तः पुनर्व्रजमाययुः ॥१९॥

कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः ।

विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् ॥ २० ॥

सत्यधर्मीया

वने तत्रापि रात्र्यां व्रजयोषितां मध्यगौ विजह्रतुः ॥ २० ॥

सुमनोरञ्जिनी

निशाम्य दृष्ट्वा ॥ १९,२० ॥

उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः ।

स्वलङ्कृतानुलिप्ताङ्गौ स्त्रग्विणौ १विरजाम्बरौ ॥ २१ ॥

पदरत्नावली

विरजाम्बरौ धौताम्बरौ ॥ २१ ॥

सत्यधर्मीया

स्वलङ्कृतान्यनुलिप्तानि गन्धादिना चाङ्गानि ययोस्तौ । विरजोऽम्बराविति सरलः पाठः । विरजाम्बराविति गतम् ॥ २१ ॥

सुमनोरञ्जिनी

विरजाम्बरौ निर्मलवस्त्रौ ॥ २१ ॥

निशामुखं मानयन्तावुदितोडुपतारकम् ।

मल्लिकागन्धमत्तालिजुष्टं कुमुदवायुना ॥ २२ ॥

पदरत्नावली

मानयन्तौ सत्कुर्वन्तौ । मल्लिकागन्धेन मत्ता अलयो यस्मिंस्तत् तथा

॥ २२ ॥

सत्यधर्मीया

मल्लिकागन्धेन मत्ता अलयो भृङ्गास्तैर्जुष्टम् । जुष्टमिति शब्दानुशासनमित्यत्रत्य-शब्दशब्दवदुत्कृष्टं कुमुदवायुनेत्यनेनाप्यन्वेति । यद्वा मल्लिकागन्धेन मत्ता अलयो यस्मिंस्तदिति निशामुखविशेषणम् । जुष्टमिति वायुमात्रान्वयीति । उदित उडुपश्चन्द्रस्तारका नक्षत्राणि च यस्मिं-स्तन्निशामुखं प्रदोषं मानयन्तौ विजह्रतुरित्यतीतेनान्वयः । जगतुरित्युत्तरेण वाऽन्वयः ॥२२॥

सुमनोरञ्जिनी

कुमुदवायुना जुष्टम् ॥ २२ ॥

जगतुः सर्वभूतानां मनःश्रवणमङ्गलम् ।

तौ कल्पयन्तौ युगपत् स्वरमण्डलमूर्च्छनाम् ॥ २३ ॥

पदरत्नावली

जगतुरगायन् । युगपदेकस्मिन् क्षणे स्वरमण्डलानां सप्तस्वरसमूहानां मूर्च्छनामेकविंशतिलक्षणां कल्पयन्तौ । ‘क्रमात् स्वराणां सप्तानामारोहश्चावरोहणम् । मूर्च्छनेत्युच्यते ग्रामत्रये ता एकविंशतिः’ इति भरतः ॥ २३ ॥

सत्यधर्मीया

तौ युगपत्स्वरमण्डलस्य सप्तस्वरसङ्घस्य मूर्छनां कल्पयन्तौ । सा च सप्त-स्वरास्त्रयो ग्रामा एकविंशतिमूर्छना इति भरतभारत्या ज्ञेया । कल्पयन्तौ सर्वभूतानां मनः श्रवण-मङ्गलं यथा तथा जगतुः ॥ २३ ॥

सुमनोरञ्जिनी

स्वरमण्डलस्य मूर्च्छनाम् एकविंशतिसंरव्याकां कल्पयन्तौ जगतुर् गानं चक्रतुः

॥ २३ ॥

गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन् नृप ।

श्लथद्दुकूलमात्मानं स्रस्तकेशस्रजं ततः ॥ २४ ॥

पदरत्नावली

यतो मूर्च्छितास्तत इत्यन्वयः । नाविदन् नाज्ञासिषुः ॥ २४ ॥

दुर्घटभावदीपिका

एतेन तत इत्येतद्व्यर्थमिति दूषणं निरस्तम् । यत इत्यध्याहारेणार्थ-स्योक्तत्वात् ॥ २४ ॥

सत्यधर्मीया

तन्मूर्छनासहितं गीतमाकर्ण्य मूर्छिता मोहं प्राप्तास्तथा श्लथन्ति दुकूलानि यस्मात्स तं तथा स्रस्ताः केशाः स्रजश्च यस्मात्तं चात्मानं नाविदन्न व्यजानन् ॥ २४ ॥

एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत् ।

शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् ॥ २५ ॥

पदरत्नावली

धनदानुचरः कुबेरभृत्यः ॥ २५ ॥

सत्यधर्मीया

सम्प्रमत्ताविव सम्प्रमत्तवत्क्रीडतोः सतोः शङ्खचूड इति ख्यातः कुबेर-भृत्योऽभ्यगात् ॥ २५ ॥

सुमनोरञ्जिनी

आत्मानं स्वदेहम् । नाविदन् नाजानन् ॥ २४,२५ ॥

तयोर्निरीक्षतोरेव तन्नाथं प्रमदाजनम् ।

क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कितः ॥ २६ ॥

पदरत्नावली

तौ नाथौ यस्य सस् तन्नाथस्तम् । कालयामास व्यद्रावयत् ॥ २६ ॥

सत्यधर्मीया

निरीक्षतोर् निरीक्ष्यमाणयोस्तन्नाथं तौ नाथौ यस्य तं प्रमदाजनमुदीच्यां दिशि क्रोशन्तं कालयामास व्यद्रावयत् । स्वस्वामिस्वाम्यं यत्र तदुदीच्यामिति सम्भवि । अशङ्कितो निःसंशयः ॥ २६ ॥

सुमनोरञ्जिनी

तावेव नाथौ यस्य सस् तन्नाथः । कालयामास बलात्कारेण नेतुं चकर्षेति

॥ २६ ॥

क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम् ।

यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम् ॥ २७ ॥

पदरत्नावली

यथा दस्युना व्याघ्रेण ग्रस्ता गाः क्रोशन्ति तथा क्रोशन्तं स्वपरिग्रहं स्वस्त्रीजनं विलोक्य । ‘दस्यू तस्करशार्दूलौ’ इति यादवः ॥ २७ ॥

सत्यधर्मीया

स्वपरिग्रहं स्वस्त्रीजनं यथा दस्युना हिंसकेन व्याघ्रादिना ग्रस्ता गास्तथा शङ्खचूडान्मोचयितुं भ्रातरावन्वधावताम् । दस्यू तस्करशार्दूलाविति यादवः ॥ २७ ॥

सुमनोरञ्जिनी

दस्युना तस्करेण व्याघ्रेण वा ग्रस्ता गाः प्रति यथा तथा ॥ २७ ॥

मा भैष्टेत्यभयारावौ तालहस्तौ मनस्विनौ ।

आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् ॥ २८ ॥

पदरत्नावली

मा भैष्ट भयं मा प्राप्नुत । तालस्तृणराजो हस्ते ययोस्तौ तथा । मनस्विनौ विशिष्टमनोयुक्तौ । तरसा बलेन । ‘तरसी बलरंहसी’ इति यादवः । गुह्यकाधमं यक्षाधमम्

॥ २८ ॥

सत्यधर्मीया

तालो वाद्यविशेषस्तृणराजो वा हस्तयोर्ययोस्तौ । तं तरसा बलेन त्वरितं शीघ्रं गुह्यकाधममासेदतुः । तरो बले च वेगे चेति विश्वः ॥ २८ ॥

सुमनोरञ्जिनी

मा भैष्ट, भीता मा भवन्तु, भवतत्यभयशब्दवन्तौ । तालृवृक्षावेव हस्तयोर्ययोस्तौ ॥ २८ ॥

स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन् ।

विसृज्य स्त्रीजनं मूढः प्राद्रवज्जीवनेच्छया ॥ २९ ॥

पदरत्नावली

कालप्राप्तौ मृत्यू इवानुप्राप्तौ । उद्विजन् बिभ्यत् ॥ २९ ॥

सत्यधर्मीया

कालश्च मृत्युश्च ताविव । अकालमृत्युश्चेत्कथञ्चिन्मन्थरयितुं शक्योऽयं न तथेति कथयति ॥ कालमृत्यू इवेति । काले प्राप्तौ मृत्यू इवानुप्राप्तौ । शङ्खचूड उद्विजन् स्त्रीजनं विसृज्य मूढः परिहाराचतुरं स्वं न विद्वानिति मूर्खो जीवनेच्छया प्राद्रवत् ॥ २९ ॥

सुमनोरञ्जिनी

कालो यमः मृत्युदेवता । काले प्राप्तौ मृत्यू इवेति वा । प्राप्तौ तौ रामकृष्णौ समीक्ष्य । उद्विजन् बिभ्यन् ॥ २९ ॥

तमन्वधावद् गोविन्दो यत्र यत्र स धावति ।

जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन् स्त्रियो बलः ॥ ३० ॥

पदरत्नावली

बलो बलरामस्तु स्त्रियो रक्षन् तत्रैव तस्थौ ॥ ३० ॥

सत्यधर्मीया

यत्र यत्र स धावति तत्र तत्र गोविन्दस्तमन्वधावत् । शिरोरत्नं जिहीर्षुः शिरश्च तत्रत्यं रत्नं चेति वा । बलः स्त्रियो रक्षंस्तस्थौ ॥ ३० ॥

इवाविदूर अभ्येत्य शिरस्तस्य दुरात्मनः ।

जहार मुष्टिनैवाङ्ग सहचूडामणिं विभुः ॥ ३१ ॥

पदरत्नावली

अतिदूरेऽपि अविदूर इवाभ्येत्य ॥ ३१ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे द्वात्रिंशोऽध्यायः ॥

दुर्घटभावदीपिका

अविदूर इवेत्यस्यातिदूरे स्थितः पुरुष इवेत्यर्थः । एतेन भगवतः सर्वदा समीपस्थितत्वात् । अविदूर इव समीपे स्थितः पुरुष इवेति समीपस्थितपुरुषसादृश्याभिधानमयुक्तमिति चोद्यं परिहृतम् । अविदूर इत्यत्र विशब्दस्य नञर्थत्वम् । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायं चाश्रित्याविदूर इवेत्यनेनातिदूरस्थपुरुषसादृश्यमुच्यत इत्यभ्युपगमात् ॥ ३१ ॥

॥ इति श्रीभागवतटिप्पण्यां श्रीसत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे द्वात्रिंशोऽध्यायः ॥ १०-३२ ॥

सत्यधर्मीया

इवाविदूरेऽल्पसमीपेऽभ्येत्य तस्य दुरात्मनः शिरो मुष्टिनैव सहचूडामणिम् । नायममन्तः किन्तु बिन्द्वन्तः । अशनायां हि मृत्युः सर्वाशननेतेत्यर्थे बिन्दुरिति बृहद्भाष्योक्तेः । प्रशस्तचूडामणिशिर इत्यन्वयः । यः शिरस्तं सहचूडामणिमिति वाऽन्वयः । निचकर्त शिरान्द्रौणि-रित्यादेः । मुष्टिना सहैव जहार मुष्टेर्निःसरणे सह तेन शिर एव निःसृतमिति भावः । न विद्यते मणिर्यस्यां साऽमणिश्चूडा च साऽमणिश्च ताम् । विशेषणस्य परनिपातः । मणिरहितां चूडाम् । विभावयतीति विभुरिति वा । सह चूडामणिप्रभुरिति पाठस्तु निष्प्रयासान्वयः ॥ ३१ ॥

सुमनोरञ्जिनी

अविदूर इव समीप इव । सहचूडामणिम् । तस्य शिरो जहार अपहृतवान्

॥ ३०,३१ ॥

शङ्खचूडं १निहत्यैव मणिमादाय भासुरम् ।

अग्रजायाददात् प्रीत्या पश्यन्तीनां च योषिताम् ॥ ३२ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे द्वात्रिंशोऽध्यायः ॥

सत्यधर्मीया

भासुरं मणिमादाय प्रीत्याऽग्रजायाददात् । योषितां पश्यन्तीनां सतीनां ता अनादृत्य ॥ ३२ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे द्वात्रिंशोऽध्यायः ॥ १०-३२ ॥

सुमनोरञ्जिनी

अग्रजाय रामाय । प्रीत्या हर्षेण ॥ ३२ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां द्वात्रिंशोऽध्यायः ॥ १०-३२ ॥