०६ एकत्रिंशोऽध्यायः

इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः

॥ अथ एकत्रिंशोऽध्यायः ॥

श्रीशुक उवाच—

इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।

जहुर्विरहजं तापं तत्सङ्गोपचिताशिषः ॥ १ ॥

पदरत्नावली

मुकुन्दभक्तिरेवानन्दभुक्तिहेतुर्नान्यत् साधनमिति निरूपयितंु व्रजाङ्गनाव्रजै-स्तद्भक्तिप्रसन्नस्य माधवस्यालौकिकरासक्रीडां वर्णयत्यस्मिन्नध्याये । तत्रादौ गोपवराङ्गनानां हरिविरह-सन्तापोपशममाह इत्थमिति । सुपेशला अतिरुचिराः । तापत्यागे निमित्तमाह तत्सङ्गेति ॥ तत्सङ्गेन भगवदङ्गसम्बन्धेनोपचिताः समृद्धा आशिषोऽभिलाषा यासां तास्तथा ॥ १ ॥

सत्यधर्मीया

भक्तिरेवानन्दभुक्तिहेतुर्नान्यत्साधनं तत्रेति निरूपयितुं वल्लवीभिर्वल्लभस्य तद्भक्ति प्रसन्नस्य रासक्रीडां वर्णयति । तत्रादौ हरिगिरा तद्विरहतापोपशमः कामिनीनां जात इत्याह ॥ इत्थमिति ॥ सुपेशला अतिरुचिराः । पेशलो रुचिरे दक्ष इति विश्वः । वाचो बह्वर्थगर्भितत्वा-द्गोप्यः श्रुत्वा किञ्च तत्सङ्गोपचिताशिषस्तस्य सङ्गः सम्बन्धस्तेनोपचिताः सफला आशिषोऽभिलाषा यासां ताः सत्यो विरहजं तापं जहुः ॥ १ ॥

सुमनोरञ्जिनी

भक्त्या प्रसन्नेन भगवता गोपीनामानन्दातिशयजननाय प्रवर्तितां रासक्रीडां वर्णयत्यस्मिन्नध्याये । तत्रादौ श्रीकृष्णेन सह सल्लापं कुर्वन्त्यो गोप्यस्तद्विरहजं तापं जहुरित्याह ॥ इत्थमिति ॥ सुपेशला अतिमधुराः । तस्य कृष्णस्य संगेन उपचिताः पल्लविताः समृद्धा इति यावद् आशिषो मनोरथा यासां ताः ॥ १ ॥

तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः ।

स्त्रीरत्नैरन्वितः प्रीतैरन्योन्याबद्धबाहुभिः ॥ २ ॥

पदरत्नावली

तत्र समतलशोभनवनप्रदेशे । अन्योन्यमाबद्धा बाहवो यैस्तैरन्योन्याबद्ध-बाहुभिरिति रासक्रीडाप्रकारं दर्शयति । सा च ‘नटैर्गृहीतकण्ठीनामन्योन्यात्तकरश्रियाम् । नर्तकीनां भवेद् रासो मण्डलीभूय नर्तनम्’ इति भरतशास्त्रोक्ता ज्ञेया ॥ २ ॥

सत्यधर्मीया

अनुव्रतैः स्त्रीरत्नैर्योषिच्छ्रेष्ठैरन्योन्यमाबद्धा बाहवो यैस्तैः । सा च भरतशास्त्रोक्ता ज्ञेया लीला । शुकोऽप्यङ्गनामङ्गनामन्तरा माधवो माधवं माधवं चान्तरेणाङ्गना इत्याद्याह ॥ २ ॥

सुमनोरञ्जिनी

तत्र तस्यामवस्थायां रासक्रीडां राससंज्ञां क्रीडाम् । मध्ये एकं शंकुं संस्थाप्य तत्परितो वलयाकारेणान्योन्यं गृहीतहस्तैः क्रियमाणो नृत्यविशेष इति यावत् । तत्प्रकारं प्रदर्शयति सार्धश्लोकेन । अन्योन्याबद्धबाहुभिः । अन्योन्यम् आबद्धाः सम्यग् गृहीता बाहवो यैस्तैः स्त्रीरत्नैः सह आरभत ॥ २ ॥

रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः ।

योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः ।

प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः ॥ ३ ॥

पदरत्नावली

गोपीनां मण्डलेन वलयाकारेण स्थितसङ्घेन मण्डितोऽलङ्कृतः, सर्वाः स्त्रियोयं स्वनिकटं स्वसमीपवर्तिनं मन्येरन् तेन कृष्णेन कण्ठे च गृहीतानां तासां द्वयोर्द्वयोर्मध्ये प्रविष्टेन रासोत्सवः सम्प्रवृत्त इत्यन्वयः । एकस्यैवानेकासां मध्यगततादिसम्भावकमाह योगेश्वरेणेति

॥ ३ ॥

दुर्घटभावदीपिका

याः स्वनिकटं स्त्रियो भोगार्थं स्वसमीपं प्राप्य स्थिताः स्त्रियस्तासां सर्वासां स्त्रीणां मध्ये स्वेन कण्ठेन गृहीतानां गृहीतयोर्द्वयोर्द्वयोर्मध्ये प्रविष्टेन योगेश्वरेण कृष्णेन गोपीमण्डल-मण्डितो रासोत्सवः संप्रवृत्त इति । एतेन स्वनिकटं स्त्रिय इत्येतद्व्यर्थमिति दूषणं परास्तम् । तत्रागतानां सर्वस्त्रीणां समबहुमान एव कृतो न तु वैषम्यमिति वक्तुं स्वनिकटं स्त्रिय इत्युक्त-मित्यङ्गीकारात् । एतेनैव गृहीतयोरिति वक्तव्यमिति दूषणस्यानवकाशः । गृहीतानामिति षष्ठीबहुवचनं गृहीतयोरिति षष्ठीद्विवचनोद्देश इत्यभ्युपगमात् ॥ ३ ॥

सत्यधर्मीया

गोपीनां मण्डलं वलयाकारेण स्थितसङ्घस्तेन मण्डितोऽलङ्कृतस्तासां द्वयोर्द्वयोर्मध्ये प्रविष्टेन कण्ठे च गृहीतानां रासोत्सवः प्रवृत्तः । सर्वाः स्त्रियश्च यं स्वनिकटं स्वसमीपवर्तिनं मन्येरंस्तासामिति पूर्वेणान्वयः । एकस्यैवानेकासां मध्यगततादिसम्भावकमाह ॥ योगेश्वरेणेति ॥ ३ ॥

सुमनोरञ्जिनी

कृष्णेन रासोत्सवः संप्रवृत्तः संप्रवर्त्तित इति योजना । श्रीकृष्णः किमाज्ञा मात्रेण प्रवर्तक इत्यतो नेत्याह । तासां मण्डलाकारेण स्थितानाम् । द्वयोर्द्वयोर् मध्ये प्रविष्टेनेति ॥ एकस्य कथं द्वयोर्द्वयोर्मध्येऽवस्थानमित्यत उक्तम् ॥ योगेश्वरेणेति । योगैश्वर्येण बहुरूपतया प्रवेशो युक्त इति भावः । कीदृशेन । स्वनिकटवर्तिन्या स्त्रिया । कण्ठे कण्ठसमीपे अंसदेशे गृहीतेन ॥ ३ ॥

यन्मन्येरन् नभस्तावद् विमानशतसङ्कुलम् ।

दिवौकसां सदाराणामौत्सुक्यनिभृतात्मनाम् ॥ ४ ॥

पदरत्नावली

तावत् तदानी सदाराणां सभार्याणां दिवौकसामौत्सुक्येन निभृतः पूर्ण आत्मा मनो येषां ते औत्सुक्यनिभृतात्मानस्तेषां विमानशतैः सङ्कुलं सङ्कीर्णं नभो बभूव ॥ ४ ॥

सत्यधर्मीया

यद्यदा वा तावत्सदाराणां सभार्याणां दिवौकसामौत्सुक्येन निभृतः पूर्ण आत्मा मनो येषां ते तथा तेषाम् । विमानशतेन निर्मानविमानैर्नभो गगनं सङ्कुलं व्याप्तं बभूवेति शेषः । यन्मन्येत नभस्तावदिति पाठे व्यत्ययादिक्लेश इति प्राचीनटीकात एवावसीयते ॥ ४ ॥

सुमनोरञ्जिनी

यद् यदा रासोत्सवं मन्येत अमन्यत । व्यत्ययश्छान्दसः । अङ्गीचकारेति यावत् । तावत् तदा नभः, औत्सुक्येन निभृतं पूर्णम् आत्म मनो येषां तेषां दिवौकसाम् । विमानशतसङ्कुलम् । आसेति ॥ ४ ॥

ततो दुन्दुभयो नेदुः खात् पेतुः पुष्पवृष्टयः ।

जगुर्गन्धर्वपतयः सस्त्रीकास्तद्यशोऽमलम् ॥ ५ ॥

पदरत्नावली

ततः रासोत्सवप्रारम्भानन्तरम् । अमलं निर्दोषं तद्यशो यशोदानन्दनयशः

॥ ५ ॥

सत्यधर्मीया

तद्यशः कृष्णयशोऽमलं निर्दोषम् ॥ ५ ॥

सुमनोरञ्जिनी

खाद् आकाशात् । तस्य श्रीकृष्णस्य यशः ॥ ५ ॥

वलयानां नूपुराणां किङ्किणीनां च योषिताम् ।

सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले ॥ ६ ॥

पदरत्नावली

प्रियेण कृष्णेन सहिताः सप्रियास्तासां योषितां नानारत्नखचितप्रकोष्ठाभरणानां, नूपुराणां चरणाभरणानां किङ्किणीनां कटितटादिगतक्षुद्रघण्टिकानां रासमण्डले तुमुलः परस्परमेलनजः शब्दोऽभूत् ॥ ६ ॥

सत्यधर्मीया

सप्रियाणां पतिसहितानां योषितां वलयानां नूपुराणां चरणभूषणानां किङ्किणीनां कटितटादिगतक्षुद्रघण्टानां रासमण्डले तुमुलः परस्परमेलनजः शब्दोऽभूत् ॥ ६ ॥

सुमनोरञ्जिनी

नूपुराणां याः किङ्किण्यस् तासां, नूपुराणां किङ्किणीनां चेति वा ॥६॥

तत्रापि शुशुभे ताभिर्भगवान् देवकीसुतः ।

मध्ये मणीनां हैमानां महामरकतो यथा ॥ ७ ॥

पदरत्नावली

तत्रापि रासक्रीडायामपि यथा हैमानां सौवर्णानां मणीनां मध्ये महामरकतो शोभते तथा भगवान् न्यक्कृतेन्द्रनीलमणिकोटिकोटिप्रकाशो देवकीसुतस् ताभिर् ज्वलनविशोधित-स्वर्णवर्णवरवर्णिनीभिः शुशुभे बभाविति भाव्यम् ॥ ७ ॥

सत्यधर्मीया

तत्रापि तत्समयेऽपि ताभिराभीरमानिनीभिः सह देवकीसुतः शुशुभे । तत्र निदर्शनमाह ॥ मध्य इति ॥ हैमानां हेमसम्बन्धिनां तदगाराणामिति यावन् मणीनां मध्ये महा-मरकतो यथा तथेति । मृगमदतिलकादयः श्यामवर्णा मणयो योषितः स्वर्णसमाः । अयं हरिस्तु मरकतसम इत्यर्थः । हैमानां गतम् ॥ ७ ॥

सुमनोरञ्जिनी

तत्रापि तासां मध्येऽपि । हैमानां हेममयानाम् ॥ ७ ॥

पादन्यासैर्भुजविधुतिभिः १सुस्मितैर्भ्रूविलासैः

भज्यन्मध्यैश्चल२कुचतटैः कुण्डलैर्गण्डलोलैः ।

स्विद्यन्मुख्यः कबररशनाग्रन्थयः कृष्णवध्वो

गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः ॥ ८ ॥

पदरत्नावली

रासविलासप्रकारमुदीरयति पादेति । पादन्यासैश् चरणविक्षेपविशेषैः, भुजानां विधुतिभिर् योग्यकम्पनविशेषैः, भ्रूविलासैर् भ्रूभङ्गैः, भज्यन्तीव मध्यानि तैः, चलद्भिः कुचैश्च पटैश्च । चलकुचतटैरिति केचित् । गण्डेषु लोलानि तैः कुण्डलैः स्विद्यन्ति स्वेदयुक्तानि मुखानि यासां ताः स्विद्यन्मुख्यः, कबराणि केशपाशा रशना मेखलाश्च तास्वग्रन्थयो बन्धनाभावा यासां ताः, मुच्यमानकबरकाञ्च्य इत्यर्थः । ताः कृष्णवध्वः कृष्णसहिता गोपवनितास्तं कृष्णं गायन्त्यो मेघचक्रे मेघमण्डले तडित इव विद्युत इव विरेजुः । प्रकाशप्रकर्षप्रकाशनार्थं तडिन्निदर्शनम् । तडितो यथा क्षिप्रप्रकाशनतिरोधानशीलास्तथा गोपवनिता भुजपादपल्लवादिविक्षेपविशेषाणां क्षिप्रप्रकाशन-तिरोधानशीला विरेजुरिति चावसेयः ॥ ८ ॥

सत्यधर्मीया

रासविलाससारस्यं विशदयति । पादानां न्यासा विक्षेपास्तैर्भुजानां विधुतयो विधूननानि करपल्लवयोग्यकम्पनानि तैः । सुस्मितैरिति पाठः सुस्मिततावहः । सस्मितैरिति पाठे भ्रूविलासविशेषणता ज्ञेया । भ्रूविलासैर्भ्रूभङ्गैर्भज्यन्ति तथाभान्ति मध्यानि कुचभारेण कटितटानि । मध्यं न्यायेऽब्जकोशे च कट्यामिति विश्वः । तैः । चलानि कुचतटानि तैर्गण्डेषु लोलानि तैः कुण्डलैः कर्णभूषणैः । स्विद्यन्ति स्वेदसहितानि भवन्ति मुखानि यासां ताः । स्वाङ्गादिति ङीष् । कबररशनासु कबराणि केशपाशा रशनाः काञ्च्यश्च तास्वग्रन्थयो ग्रन्थ्यभावा यासां ताः श्लथद्ग्रन्थय इत्यर्थः । कृष्णवध्वस्तं गायन्त्यो मेघचक्रे मेघसमूहे । अनेन बहुनीरदसमवाये यादृशी कान्तिस्ता-दृश्यैकतमकृष्णाङ्गकान्तिरिति तदपि स्थूलदृश्वबुद्ध्यारोहार्थमुक्तमिति सूच्यते । तडित इव विद्युत इव विरेजुः । ध्वनिप्रकाशनमात्र एतन्निदर्शनम् । अल्पस्यापि प्रसिद्ध्यैव दृष्टान्तत्वं युज्यत इत्यृग्भाष्योक्तेः ॥ ८ ॥

सुमनोरञ्जिनी

नृत्यसमये गोपीनां स्वभावं वर्णयति ॥ पादेति ॥ पादन्यासैः । अन्यूना-नतिरिक्तदेशतया पादविक्षेपैः । भ्रूविलासैर् भ्रूचालनैः । भज्यन्मध्यैर् भज्यदिव प्रतीयमानमध्यप्रदेशैः। अनेन कटेर् अतिकार्श्यं नर्तनसमये नम्राङ्गता च ध्वनिता । चलन्ति कुचतटानि यासां ताः । गण्डलोलैश् चञ्चलैः कुण्डलैश्च विशिष्टाः । स्विद्यन्ति स्वेदयुक्तानि मुखानि यासां ताः । कबराः केशपाशा रशनाः काञ्चीदामानि तासामग्रन्थयोऽबन्धनानि यासां ताः । श्लथत्कबररशनाकांच्य इति यावत् । एतादृश्यः कृष्णवध्वः । तं कृष्णं गायन्त्यः । मेघचक्रे मेघसमुदाये । तटित इव विरेजुरिति सम्बन्धः । कृष्णरूपाणां मेघवर्णत्वात् । गोपीनां तटित्कान्तिमत्वादिति भावः ॥ ८ ॥

उच्चैर्जगुः कृतमदा रक्तकण्ठ्यो रतिप्रियाः ।

कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ ९ ॥

पदरत्नावली

रक्तो रञ्जकसुस्वरयुक्तः कण्ठो यासां तास्तथा । कृष्णस्याभिमर्शेन काम-कलोद्बोधकाश्लेषविशेषेण मुदिताः । यद्गीतेन यासां गीतेनेदं जगदावृतं व्याप्तम् ॥ ९ ॥

सत्यधर्मीया

यद्गीतेन यच्च गीतं च तेनेदं विश्वमावृतं व्याप्तं, कृतमदाः प्रमदा इत्यत एव नाम तासां रक्तकण्ठ््यो मनोहरकण्ठयुता रतिप्रिया इष्टसुरताः । कृष्णस्याभिमर्शः सङ्गस्तेन मुदितास्तुष्टा उच्चैस्तथा जगुरगायन् ॥ ९ ॥

सुमनोरञ्जिनी

कृतः मदः श्रोतृसुखं याभिस्ताः । रक्तकण्ठ्यः स्निग्धकण्ठगुणाः । अभिमर्शः स्पर्शविशेषः । यासां गीतेन । इदं जगत् । आवृतं व्याप्तम् ॥ ९ ॥

काचित् समं मुकुन्देन स्वरजातीरमिश्रिताः ।

उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ।

तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ १० ॥

पदरत्नावली

काचिद् गोपिका मुकुन्देन समम् अमिश्रिताः स्वरान्तरानन्तरिताः स्वरजातीः षड्जऋषभगान्धारमध्यमपञ्चमधैवतनिषादाख्यस्वरभेदान् उन्निन्ये ऊर्ध्वं निनाय । भरतशास्त्रानुगुण्येन मूर्च्छयामासेत्यवसेयम् । प्रीयता प्रीयमाणेन तेन कृष्णेन साधुसाध्विति पूजिताः सम्मानिता । कृष्णोऽपि तदेव गीतं ध्रुवं तन्नामकतालविशेषसहितमुन्निन्ये उत्कृष्टत्वेनोर्ध्वं निनाय । तस्यै समं गायन्त्यै मानमादरं बहु यथा तथा चादाद् विदधौ । मुकुन्दस्यैतत्समगानं तत्प्रशंसार्थमिति मन्तव्यम् । सकलशुभगुणशीलवनमालिनोऽलौकिकमञ्जुलगानकलालेशस्यैव नवनवसुविशेषानुपलभमानाः कमलाकमलासनादयोऽपि कौतूहलाब्धौ निमज्जन्ति किल । मुकुन्दगानसमानगानमेव काचिच्चकारेत्यन्ये गोविन्दगायनसाम्यज्ञानेनान्यथा व्याचख्युः । पूर्णगुणार्णवनारायणस्य गुणसाम्यादिज्ञानेनैतादृशव्याख्यानं स्वाज्ञानविजृम्भितमिति प्राज्ञैर्विज्ञेयम् ॥ १० ॥

सत्यधर्मीया

काचिद्गोपिका मुकुन्देन समं साकममिश्रिताः (स्वरान्तरैः) परस्परममिलिताः स्वरजातीः षड्जादिजातीरुन्निन्ये तावदूर्ध्वं निनाय । प्रीयता प्रीतिं प्राप्नुवता तेन साधु साध्विति सुसमीचीनं सुसमीचीनमिति पूजिता सत्कृता पुनर्नायकतोषविशेषं तद्दृष्ट्वा । तदित्यव्ययम् । तं स्वरमेव ध्रुवं यावत्तन्मूर्छनं भरतभारतीप्रमितं तावत्पर्यन्तमुन्निन्ये । या तस्यै मानं सत्क्रियां बहु यथा तथाऽदात्कृतवान् । मुकुन्दस्यैतत्समगानं तासामनुग्रहविशेषेणेति मन्तव्यम् । तदुन्नयनमेव ध्रुवं तन्नामकतालसहितं यथा तथैवोन्निन्य इति वा । स्वरजा विरजा तस्यास्तीरेण परेण मिश्रिताः सम्बद्धा एष्यन्नयेनारचय्योन्निन्ये ऊर्ध्वं वैकुण्ठं प्रति निन्य इत्यर्थः ॥ १० ॥

सुमनोरञ्जिनी

अमिश्रिताः स्वरान्तरासङ्कीर्णाः स्वरजातीरुन्निन्ये उच्चैर् जगौ । तेनोच्चैर्गानेन । प्रीयता तुष्टेन श्रीकृष्णेन । साधु साध्विति वाचा । पूजिता श्लाघिता । तदेव गीतम् अन्या ध्रुवम् अत्यन्तमुन्निन्ये पूर्वापेक्षया उच्चैर् जगौ । तस्यै च तस्या अपि । मानं, बहु अधिकम् ॥१०॥

काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः ।

जग्राह बाहुना स्कन्धं स्रवत्कबरमल्लिका ॥ ११ ॥

पदरत्नावली

स्रवन्त्यो विगलन्त्यः कबरान्मल्लिका यस्याः सा तथा ॥ ११ ॥

सत्यधर्मीया

काचिद्गोपी रासपरिश्रान्ता । पार्श्वस्थस्य स्वसमीपस्थितस्य । गदाभृतो गदाधरस्य श्रान्त्यादिप्रापकरोगाधारिणः । अनेन न स्वयमनवतीर्णनयावसर इति ध्वनयति । स्रवन्त्यो विगलन्त्यः कबरान्मल्लिका यस्याः सा । बाहुना स्कन्धं जग्राह ॥ ११ ॥

सुमनोरञ्जिनी

स्रवंत्यश् च्युताः कबरमल्लिका यस्याः सा ॥ ११ ॥

तत्रैका सङ्गतं बाहुं कृष्णस्योत्पलसौरभम् ।

चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ १२ ॥

पदरत्नावली

उत्पलानां सौरभं सौगन्ध्यं यस्य स उत्पलसौरभस्तम् । चन्दनेन आ समन्ताल्लिप्तम् । हृष्टानि पुलकितानि रोमाणि यस्याः सा तथा ॥ १२ ॥

सत्यधर्मीया

तत्र तत्समये सङ्गतं स्वस्कन्धस्थमुत्पलसौरभमुत्पलानां सौरभं सौगन्ध्यं यस्य स तं चन्दनेन मलयजेन आलिप्तं रूषितं च । स्वयमाघ्राय हृष्टरोमा हृष्टानि हृषितानि रोमाणि यस्याः सा । डाबुभाभ्यामिति डाप् । चुचुम्ब चुम्बितवती ॥ १२ ॥

सुमनोरञ्जिनी

उत्पलस्य सौरभमिव सौरभं यस्य तम् ॥ हृष्टरोमा सती ॥ १२ ॥

कस्याश्चिन्नाट्यविक्षिप्तकुण्डलत्विषभूषितम् ।

गण्डं गण्डे सन्दधत्या आदात् ताम्बूलचर्वितम् ॥ १३ ॥

पदरत्नावली

नाट्येन नृत्येन विक्षिप्तयोश्चञ्चलयोः कुण्डलयोस्त्विषेण प्रभया भूषितं गण्डं कपोलं गण्डे कृष्णकपोले कस्याश्चिद् गोपिकायाः सन्दधत्याः सत्याः संयोजयन्त्याः सत्याः, काचित् कृष्णस्य ताम्बूलचर्वितम् आदाज् जग्राह । त्विष इति ‘त्विष दीप्तौ’ इति धातोर् अच्प्रत्ययान्तः शब्दः । ‘अर्चिर्दीप्तिर्द्युतिर्ज्योतिस्त्विषो ज्वाला प्रभा त्विट्’ इत्युत्पलमाला ॥ १३ ॥

सत्यधर्मीया

नाट्येन विक्षिप्ताः सर्वत्र प्रसृताः कुण्डलयोस्त्विषाः कान्तयः । हलन्ततायाष्टाबन्तता । यस्मिन्स चासौ भूषितश्च तम् । मकरिकादिपत्राल्याः स्वगण्डं गण्डे कृष्णकपोले सन्दधत्याः कस्याश्चिद्गोपिकायाः पश्यन्त्याः सत्याः कृष्णस्य ताम्बूलचर्वितं या, बाहुं चुचुम्ब साऽऽदाद्गृहीतवतीत्यन्वयः । कुण्डलत्विषभूषितं गण्डं गण्डे सन्दधत्या इति चतुरस्रः पाठः । त्विष दीप्तावित्यस्मात्पचाद्यचि लघूपधगुणे त्विषेति निष्पत्तिरित्युक्तेः । नाट्येन विक्षिप्तं विक्षेपस्तेन त्विषं दीप्तिमदिति भूषितं तस्मिन् । गुणमात्रसंज्ञापूर्वकानित्यतेति विशेषः । गण्डखण्डे गण्डमण्डले समूहे मण्डले खण्डमाहुः शब्दविशारदा इत्युत्पलमाला । कृष्ण एव ताम्बूलचर्वितमादादिति सर्वेऽर्थात्सूचयन्ति । त्विषधातोः को वा भावे इगुपधलक्षणो वा घञर्थे क इति वा । तथा च त्विषेण कान्त्या भूषित इति पक्षद्वयेऽप्यन्वय इति वा ॥ १३ ॥

सुमनोरञ्जिनी

नाट्येन विक्षिप्तयोः स्थानाद् भ्रष्टयोः स्वकुण्डलयोस् त्विषेण कान्त्या भूषिते गण्डखण्डे कपोलैकदेशे । ताम्बूलचर्वितं स्वयमधात् स्थापयामास । अभिदधत्या देहीति वाचं ब्रुवत्याः ॥ १३ ॥

नृत्यन्ती गायती काचित् कूजन्नूपुरमेखला ।

पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताऽधात् स्तनयोः शिवम् ॥ १४ ॥

पदरत्नावली

कूजन्त्यो नूपुरे च मेखला काञ्ची च यस्याः सा तथा । अधान् निदधे । शिवं सुखदम् ॥ १४ ॥

सत्यधर्मीया

नृत्यती गायती नर्तनं गानं च कुर्वती तत एव कूजन्त्यो, नूपुरे च मेखला काञ्ची च, यस्याः सा । पार्श्वस्थाच्युतहस्ताब्जं करकमलं श्रान्ता सती स्तनयोरधाद्दधार । पार्श्व-स्थश्चासावच्युतश्चेति वा । स्वयं नृत्यन्ती कूजन्नूपुरमे कूजन्नूपुरा च साऽहं च तस्या मे काचिद्गायती पार्श्वस्था खला । नीचेऽधमे खल इति विश्वान्नीचा सपत्नी । अच्युतहस्ताब्जं गृह्णीयादिति श्रान्ता शिवं मङ्गलकरं करमधादिति वा ॥ १४ ॥

सुमनोरञ्जिनी

शिवं सुखकरम् ॥ १४ ॥

गोप्यो लब्ध्वाऽच्युतं कान्तं श्रिय एकान्तवल्लभम् ।

गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ १५ ॥

पदरत्नावली

एकान्तवल्लभम् अनन्यपतिम् । गृहीतकण्ठ्य आलिङ्गितकन्धराः । विजह्रिरे चिक्रीडुः ॥ १५ ॥

सत्यधर्मीया

श्रियो रमाया एकान्तवल्लभं मुख्यभर्तारमच्युतं कान्तं लब्ध्वा प्राप्य तद्दोर्भ्यां बाहुभ्यां गृहीताः कण्ठा यासां तास्तं गायन्त्यो विजह्रिरे चिक्रीडुः ॥ १५ ॥

सुमनोरञ्जिनी

काश्चिच्च गोप्यः । श्रिय एकान्तवल्लभमतिप्रियम् । तस्य कृष्णस्य दोर्भ्यां गृहीतकण्ठ्यो विजह्रिरे चिक्रीडिरे ॥ १५ ॥

कर्णोत्पलालकविटङ्ककपोलघर्मवक्त्रश्रियो वलयनूपुरघोषवाद्यैः ।

गोप्यः समं भगवता ननृतुः स्म केशस्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥१६॥

पदरत्नावली

कर्णोत्पलैः श्रोत्रावतंसैः कुवलयकुसुमैश्चालकविटङ्कैश् चूर्णकुन्तलालङ्कृतैः कपोलैश्च घर्मैः स्वेदबिन्दुभिश्च वक्त्राणां श्रीः शोभा यासां ताः कर्णोत्पलालकविटङ्ककपोल-घर्मवक्त्रश्रियो गोप्यो वलयनूपुरघोषवाद्यैः कटकमञ्जीरकिङ्किणीरूपैर्वादित्रैर्भगवता समं ननृतुः स्म । केशेभ्यः स्रस्ताः स्रजो यासां तास्तथा । भ्रमरा एव गायका यस्यां सा भ्रमरगायका, सा च सा रासगोष्ठी च भ्रमरगायकरासगोष्ठी तस्याम् ॥ १६ ॥

सत्यधर्मीया

कर्णेषु धृतान्युत्पलानि तैस्तथाऽलकाश्चूर्णकुन्तला एव विटङ्काः पुरः पाताद्वक्रदारुविशेषा इव तैर्युतास्ताः कपोला यस्य तत् । घर्मेण स्वेदोदकेन युतानि च तानि वक्त्राणि तेषां श्रीर्यासां ताः । घर्मः स्यादातपे ग्रीष्मे ह्युष्णस्वेदाम्भसोरपीति विश्वः । विटङ्कोऽलङ्कार इति वा । वलयाश्च नूपुराश्च घोषाः पादभूषणविशेषा एतैर्वाद्यैश्चैतद्रूपवाद्यैरिति वा । घोष इति गतम् । भगवता समं गोप्यो ननृतुः । केशेभ्यः स्रस्ताः स्रजो यासां ताः । भ्रमरा गाया एव गायकाः । ण्वुलन्तः । यस्यां सा च सा रासगोष्ठी तत्स्थानं तस्याम् । गोष्ठी गतम् ॥ १६ ॥

सुमनोरञ्जिनी

नर्तने सहकारिघटकं वाद्यादिकमाह ॥ कर्णेति । कर्णोत्पलैर् अलकानां विटंकैर् आश्रयैः कपोलैश्च तेषु यो घर्मः स्वेदबिन्दुसमुदायस् तेन च वक्तृश्रीर् विलक्षणमुखशोभा यासां ता गोप्यः । वलया नूपुराण्येव वाद्यानि । तद्घोषैः समं, भगवता च समम् । भ्रमरा एव गायका अनुस्वरदातारो यस्यां तथाविधरासगोष्ठ्यां रासक्रीडास्थाने ननृतुरित्यन्वयः ॥ १६ ॥

एवं परिष्वङ्गकराभिमर्शस्निग्धेक्षणोद्दामविलासहासैः ।

रेमे रमेशो व्रजकामिनीभि१र्यथा स्वतन्त्रः प्रतिघं विडम्बयन् ॥ १७ ॥

पदरत्नावली

यथा स्वतन्त्र ईश्वरः प्रतिघं प्रवृत्तिधर्मं विडम्बयन् अनुकुर्वन् रमते एवं परिष्वङ्ग आलिङ्गनं, कराभिमर्शः करपरिग्रहः, स्निग्धेक्षणानि सानुरागावलोकनानि, उद्दामाश्च ते विलासाश्च हासाश्चोद्दामविलासहासास्तैः रमेशोऽपि व्रजकामिनीभी रेमे । ‘विध्याद्यगोचरे कोपे प्रवृत्ते प्रतिघं विदुः’ इत्यभिधानम् ॥ १७ ॥

सत्यधर्मीया

यथा स्वतन्त्र ईश्वरः प्रतिघं प्रवृत्तिधर्मं विडम्बयन्नुन्मत्तादिवद्विध्याद्यगोचरम् । विध्याद्यगोचरे कोपे प्रवृत्ते प्रतिघं विदुरिति च । अनुकुर्वन्रमते । एवं परिष्वङ्ग आलिङ्गनं कराभिमर्शः करपरिग्रहः स्निग्धानि तत्रैवेक्षणानि चक्षूंषि च । उद्दामेति विलासहासविशेषणं तैः । रमेशोऽपि व्रजकामिनीभी रेमे । यथा स्वतन्त्रः कश्चित्पतिः । प्रतिघं कोपं तत्कोपप्रतिकोपं विडम्बयन्रमते तथेति । प्रतिघः प्रतिघाते स्यात्कोपेऽपि प्रतिघो मत इति विश्वः । स्वतन्त्रोऽपि प्रतिघं दन्त-प्रतिघातमिति वा । यथाऽर्भकः स्वप्रतिबिम्बविभ्रम इति पाठेऽर्भको बालो जलादर्शादि-प्रतिफलितस्वप्रतिबिम्बेन विभ्रमो विलासो यस्य स सन् यथा रमत एवं रेम इत्यर्थः ॥ १७ ॥

सुमनोरञ्जिनी

परिष्वङ्ग आलिङ्गनम् । उद्दाम उत्कृष्टः । रमेशो, व्रजकामिनीभिः । अस्वतन्त्रो यथा कामिनीपरतन्त्र इव रेमे । कुतः । प्रतिघं प्रवृत्तधर्मं विडम्बयन् अनुकुर्वन् ॥१७॥

तदङ्गसङ्गप्रमदाकुलेन्द्रियाः केशान् दुकूलं कुचपट्टिकां वा ।

त्यक्तुं पतिं वोढुमलं व्रजस्त्रियो विस्रस्तमाल्याभरणाः कुरूद्वह ॥ १८ ॥

पदरत्नावली

तस्य कृष्णस्याङ्गसङ्गेन यः प्रमद आनन्दस्तेनाकुलानि व्याप्तानीन्द्रियाणि यासां तास् तदङ्गसङ्गप्रमदाकुलेन्द्रिया विस्रस्तानि माल्यानि आभरणानि च यासां ता व्रजस्त्रियः केशान् दुकूलं वस्त्रंकुचपट्टिकां कुचकञ्चुकां वा त्यक्तुं, पतिं वोढुं वाऽलं समर्था आसन् । ‘नाञ्जः प्रतिव्योढुमलम्’ इति पाठस्त्वनर्थमूलः कल्पितः । भक्तेरवश्यकर्तव्यत्वद्योतनाय भगवतो भक्तिभामिनीलोलत्वं पश्येत्याशयेन विशिष्य सम्बोधयति कुरूद्वहेति ॥ १८ ॥

दुर्घटभावदीपिका

अलमित्यस्य समर्था नेत्यर्थः । एतेन केशादिकं वोढुं तदर्थं पतिं कृष्णमित्युक्तं वा त्यक्तुं च समर्था नेति वक्तव्यं सामर्थ्यार्थकालं शब्दप्रयोगोऽनुपपन्न इति चोद्यं परास्तम् । अलमित्यत्र काकुस्वरमङ्गीकृत्यालमित्यस्य समर्थानेत्यर्थ इत्युक्तत्वात् ॥ १८ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे एकत्रिंशोऽध्यायः ॥ १०-३१ ॥

सत्यधर्मीया

तस्य कृष्णस्याङ्गसङ्गजो यः प्रमद आनन्दस्तेनाकुलानि व्याप्तानीन्द्रियाणि यासां ताः । विस्रस्तमाल्याभरणा व्रजस्त्रियः केशान्दुकूलं वस्त्रं कुचेषु पट्टिका कञ्चुकादिकं वा त्यक्तुं तथा पतिं वोढुं वाऽलं समर्थाः । न द्वयं वोढुं शक्ता इत्यर्थः । हे कुरूद्वहेति महीमहन्मह एवमिति सूचयति । व्रजस्त्रियो अविस्रस्तमाल्याभरणा अः इति छेदः । स्त्रियः काञ्चित्सपत्नीं प्रति वदन्ति । अविस्रस्तमाल्याभरणा सती । उपलक्षणया केशादिग्रहः । यो अः साक्षान्नारायणस्तं त्वमुद्वह तथा कुरु व्रज इत्यवदन्निति वा । अविस्रस्तम् आलि आभरणा अः कुरु उद्वहेति आ सम्यगाभरणानि यस्याः सा हे आलि सखि त्वं तद्दुकूलादिकमविस्रस्तं कुरु । योऽस्तमुद्वह च व्रजेति तामपजहसुरिति वा । नाञ्जः प्रतिव्योढुमिति पाठोऽनर्थमूलः कल्पितो बहुकोशेष्वदृष्टः ॥ १८ ॥

सुमनोरञ्जिनी

तस्यांगसङ्गोत्पन्नेन प्रमदेन आकुलानि व्याकुलानि इन्द्रियाणि यासां ताः । तदङ्गसङ्गप्रमदार्थम् आकुलानि उत्सुकानि इन्द्रियाणि यासामिति वा । तदङ्गसङ्गवती या प्रमदा तया निमित्तया आकुलेन्द्रिया इति वा । कृष्णाङ्गसङ्गिनीमन्यां दृष्ट्वा व्याकुलेन्द्रिया इति भावः । केशान् केशबद्धभूषणानि कुसुमानि वा । दुकूलं कुचपट्टिकां वा त्यक्तुमलं शक्ता अभवन् । किमर्थं, पतिमलं वोढुं, सर्वाङ्गैर् वोढुम् । अत एव यद्विस्रस्तमाल्याभरणा आसन् तदपि अलं भूषणमेवासीदित्यलं शब्दमावृत्य योज्यम् । यद्वा दुकूलादीन् त्यक्तुम् । पतिं वोढुं वा अलं पर्याप्ताः शक्तिरहिता आसन् । पतिं वोढुं सर्वाङ्गैरोढुं दुकूलादि त्याज्यम् । तदपि त्यक्तुम् अलं शक्तिरहिता अभवन्निति वा । कुत आकुलेन्द्रियत्वात् ॥ १८ ॥

कृष्णविक्रीडितं वीक्ष्य व्यमुह्यन्त सुरस्त्रियः ।

कामार्दिताः शशाङ्कश्च सगणो विस्मितोऽभवत् ॥ १९ ॥

पदरत्नावली

सुधांशुनक्षत्रग्रहगणाश्चालौकिकरासलीलावलोकनेन यतोऽत्यन्तविस्मयवन्तस्ततः स्वस्वगतिमपि विस्मृत्य तत्तत्स्थानेष्वेव सुचिरं तस्थुः । अतो बहुदीर्घैषा निशा विशिष्य शुशुभे इति बोध्यम् ॥ १९ ॥

सत्यधर्मीया

कृष्णविक्रीडितं तत्क्रीडां च वीक्ष्य सुरस्त्रियः कामार्दिता व्यमुह्यन्त । सगण-श्चन्द्रश्च विस्मितोऽभवत् । नास्मदादिसाहितीसहितो मन्मथो वा धत्तेऽमुं तथाऽपीयं कथेति विस्मितोऽभवत्सोम इति भावः ॥ १९ ॥

सुमनोरञ्जिनी

शशाङ्कश्चन्द्रः । सगण उडुगणसहितः ॥ १९ ॥

कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।

रराम भगवांस्ताभिरात्मारामोऽपि लीलया ॥ २० ॥

पदरत्नावली

तावन्तं तावत्सङ्ख्यम् । यावतीर्यावत्सङ्क्याका अमन्दानन्दसान्द्रसुन्दर-स्वरूपोऽसौ नन्दनन्दनो निजमन्दसुन्दरीवृन्दानाममन्दानन्ददानायैवानिन्दनीयरमणं चकारेत्यर्थं ररामेति पदव्यत्ययेन सूचयति ॥ २० ॥

सत्यधर्मीया

गोपयोषितो यावतीर्यावत्यस्तावन्तं तत्सङ्ख्यमात्मानं कृत्वाऽऽत्मारामोऽपि लीलया ताभिः सह रराम । पदव्यत्यासेन तत्सुखार्थमेव रमणमिति भावः सूच्यते ॥ २० ॥

सुमनोरञ्जिनी

तावन्तं तावद्रूपवन्तम् ॥ २० ॥

तासां रतिविहारेण श्रान्तानां वदनानि सः ।

प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ २१ ॥

पदरत्नावली

भगवतो भक्तपारवश्यमवश्यमनिशं शंसनीयमित्याशयेन वरयोषिद्विषयककृपाविशेषं प्रकाशयति तासामिति । प्रामृजत् संमार्जयामास । शन्तमेन प्रचुरसुखकरेण ॥ २१ ॥

सत्यधर्मीया

रतिविहारेण सुरतक्रीडया । रतिविहारो मन्मथस्तेन तदुपद्रवेणेति वा । श्रान्तानां तासां गोपीनां वदनानि स्विन्नानि शन्तमेन पाणिना प्रेम्णा सः प्रामृजन्मार्जयामास

॥ २१ ॥

सुमनोरञ्जिनी

शन्तमेन अतीवसुखकरेण ॥ २१ ॥

गोप्यः स्फुरन्मकरकुण्डलकुन्तलत्विड्गण्डश्रिया सुरतहासनिरीक्षणेन ।

मानं दधत्य ऋषभस्य जगुः कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥ २२ ॥

पदरत्नावली

तस्य हरेः कररुहाणां नखानां स्पर्शेन स्मरोल्लासजनकलक्षणेन नखक्षतेनाभि-व्यक्तः प्रमोदः प्रकृष्टानन्दो यासां तास् तत्कररुहस्पर्शप्रमोदा गोप्यः स्फुरतोः सञ्चलतोर्मकरकुण्डलयोः कुन्तलानां च त्विट् कान्तिस्तद्युक्तौ गण्डौ तयोः श्रिया सुरतहासनिरीक्षणेन च सुरतोचितसुहास-सहितनिरीक्षणेन च मानं संमानं दधत्यः सत्य ऋषभस्य स्ववल्लभस्य पुण्यानि पुण्यप्रापकाणि कृतानि कर्माणि जगुः ॥ २२ ॥

सत्यधर्मीया

स्फुरतां मकराकारानुकाराणां कुण्डलानां तथा कुन्तलानां च । अथवा स्फुरन्मकराणां कपोललिखितपत्रालीनां कुण्डलानां वर्तुलानां च त्विट् कान्तिस्तद्युक्ता गण्डास्तेषां श्रिया शोभया । सुरतस्य तत्सम्बन्धि हाससहितं च तन्निरीक्षणं च तेन । तत्कररुहा नखास्तेषां स्पर्शेन प्रमोदो यासां ताः । मानं सत्कारं दधत्यो विदधत्यो ऋषभस्य स्वनाथस्य पुण्यानि तत्प्रापकाणि कृतानि जगुरगायन् ॥ २२ ॥

सुमनोरञ्जिनी

तस्य श्रीकृष्णस्य कररुहाणां नखानां स्पर्शेन उद्रिक्तः प्रमदो यासां ता गोप्यः। स्फुरतोर् मकरकुण्डलयोः कुन्तलानां च त्विट् ययोस्तयोर् गण्डयोः श्रिया । सुरतेन हासेन निरीक्षणेन साकूतकटाक्षवीक्षणेन च । ऋषभस्य । मानं बहुमानं दधत्यः विदधत्यः कुर्वन्त्य इति यावत् । तस्य मनोहराणि कृतानि कर्माणि । जगुरिति सम्बन्धः ॥ २२ ॥

ताभिर्ययौ श्रममपोहितुमङ्गसङ्गध्वस्तस्रजः सुकुचकुङ्कुमरञ्जिता याः ।

गन्धर्वपालिभिरनुद्रुत आविशद् वाः श्रान्तो गजीभिरिभराडिव भिन्नसेतुः

॥ २३ ॥

पदरत्नावली

वनक्रीडां निरूप्याधुना जलक्रीडां वक्तुमारभते ताभिरिति । याः कृष्णस्याङ्गसङ्गेन ध्वस्ताः स्रस्ताः स्रजो यासां ताः सुकुचानां कुङ्कुमैः रञ्जिताश्च ताभिर्गोपीभिः श्रममपोहितंु हापयितंु गन्धर्वपानां गन्धर्वपतीनामालिभिः पङ्क्तिभिरनुद्रुतो ऽनुसृतः सन् गजीभिः श्रान्तो भिन्नसेतुर्मदेन विदारिततट इभराडिव एः कामस्य भर इभरः, इभरेणाटतीतीभराट् कामातुरगजराज इव श्रान्तः श्रमकामादिदोषविदूरो भिन्नसेतुर्विशेषितलोकवेदमर्यादः कृष्णो वाः कृष्णाया वार्याविशदित्यन्वयः । ‘श्रान्तः शान्ते श्रमोपेते दोषदूरहरौ तथा’ इति गोपालः । ‘भेदो विशेषे दलने’ इति च ॥ २३ ॥

सत्यधर्मीया

रासविलासमुक्त्वेदानीं जललीलां लपितुमारभते ॥ ताभिरिति ॥ या अङ्गसङ्गध्वस्तस्रजोऽङ्गयोः परस्परं सङ्गकाले ध्वस्ता विगलिताः स्रजो यासां ताः । सुकुचेषु सुकुङ्कुमेन रञ्जिताश्च ताभिर्वनिताभिः श्रममपोहितुं हापयितुं वा यमुनानीरं ययौ । गन्धर्वाणाम् आलयः पङ्क्तयस्ताभिरनुद्रुतो याश्चाविशद्भिन्नसेतुर्मदेन भिन्नः सेतुः सिकतादिकृतो येन स इव । इभराट् एर्मन्मथस्य भर इभर इभरेणाटतीतीभराण्मदनातुर इव, सुरतकाले गजीभिः करेणुभिर्यथा पाथो विशति तथाऽविशदित्यन्वयः । गन्धर्वपा इव विद्यमाना अलयस्तैरिति वा भिन्नसेतुर्भिन्नमर्याद इति कृष्णपक्षेऽप्यन्वयः ॥ २३ ॥

सुमनोरञ्जिनी

जलक्रीडां वर्णयति । या अङ्गसङ्गेन ध्वस्ता निरस्ताः स्रजो यासां ताः सुकुचकुङ्कुमरञ्जिताश्च, ताभिर्गोपीभिः सह । तासां श्रममपोहितुं परिहर्तुं ययौ । कथंभूतः । गन्धर्वाणां गायकानां पालीभिः श्रेणीभिर् अनुद्रुतः । गच्छन्तं श्रीकृष्णमनुसृत्य अन्तरिक्षमार्गे गन्धर्वा अप्यनुगच्छन्ति स्मेति भावः । गतश्च वा यामुनोदकमाविशत् । तत्र दृष्टान्तः । भिन्नः प्रभिन्नः सेतुरिव सेतुर् गण्डस्थलं यस्य स इभराट् । यद्वा भिन्नमर्यादः मत्त इति यावत् । गजीभिः करेणुभिः सहेवेति ॥ २३ ॥

सोऽन्तर्जले युवतिभिः परिषिच्यमानः प्रेमेक्षितप्रहसिताभिरभिष्टुताङ्गः ।

वैमानिकैः कुसुमवर्षिभिरीड्यमानो रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः ॥२४॥

पदरत्नावली

अन्तर्जले जलमध्ये । प्रेमपूर्वकमीक्षितं प्रहसितं च यासां ताः प्रेमेक्षित-प्रहसितास्ताभिः । वैमानिकैर्देवैः । स्वेनैव रतिर्यस्य सः स्वरतिः स्वरमणः । अपारसुखसारसागर-स्वरूपस्य हरेस्तत्रतत्र वरवर्णिनीरमणनिरूपणं तु लोकमोहनायेति विज्ञेयम् ॥ २४ ॥

सत्यधर्मीया

गजेन्द्रलीलः स्वरतिः स्वरमणः । एतद्रमणीरमणं तु लोकमोहनायेति मन्तव्यम् । युवतिभिरन्तर्जले गतं जलमध्ये परिषिच्यमानः करनीरैर्दृतिद्वारा वा । प्रेमपूर्वकमीक्षितं प्रहसितं च यासां ताभिरभिष्टुतमङ्गं यस्य सः । वैमानिकैर्गगनगैर्देवैः कुसुमवर्षिभिश्चेड्यमानः स्वयं रेम इत्यन्वयः ॥ २४ ॥

सुमनोरञ्जिनी

प्रेम्णा ईक्षितं प्रहसितं च यासु ताः । वैमानिकैर् विमानस्थितैर्देवैः । स्वेनैव रतिर्यस्यासौ स्वरतिः ॥ २४ ॥

ततश्च कृष्णोपवने जलस्थलप्रसूनगन्धानिलजुष्टदिक्तटे ।

चचार भृङ्गप्रमदागणावृतो यथा मदच्युद् द्विरदः करेणुभिः ॥ २५ ॥

पदरत्नावली

ततो जलक्रीडानन्तरं जलस्थलप्रसूनानां कुवलयकमलमल्लिकाजातिमालती-चम्पकचाम्पेयादिनानासुमसमूहानां गन्धवाननिलो गन्धवाहस्तेन जुष्टाः परिमतिा दिक्तटा दिगन्ता यस्मिंस्तज् जलस्थलप्रसूनगन्धानिलजुष्टदिक्तटं तस्मिन् कृष्णाया यमुनाया उपवने भृङ्गाणां प्रमदानाञ्च गणैरावृतः संवृतो मदच्युन्मदजलस्रावी द्विरदः कुञ्जरः करेणुभिरिभीभिर्यथा चरति तथा चचार

॥ २५ ॥

सत्यधर्मीया

ततो जलविलासानन्तरम् । कृष्णाया उपवने यमुनोपवने । जलस्थलप्रसूनानि कमलादीनि । स्थलकमलस्यापि सत्त्वात् । उक्तेर्गीतगोविन्दमुक्तावल्यादौ । मल्लिकादिकानि वा तद्गन्धवाननिलो गन्धवाहस्तज्जुष्टानि दिशां तटानि यस्मिंस्तत्तस्मिन् । भृङ्गवद्विद्यमानाः प्रमदास्तासां गणेनावृतो, मदच्युन्मदस्रावी द्विरदो गजः करेणुभिर्यथा चरति तथा चचार ॥ २५ ॥

सुमनोरञ्जिनी

ततः जलविहारानन्तरम् । जलप्रसूनानां स्थलप्रसूनानां च गन्धो यस्मिन्ननिले तेन जुष्टाः सेविता दिक्तटा दिक्प्रान्ता यस्य तस्मिन् । कृष्णाया यमुनाया उपवने । करेणुभिर् गजस्त्रीभिर् मदच्युद्द्विरदः मदस्रावी गजः यथा चरति तथा भृङ्गाणां प्रमदानां च गणैर्वृतो हरिश्चचारेति सम्बन्धः । भृङ्गप्रमदा भृङ्गस्त्रियस् तासां गणैर् आवृत इति द्विरदस्य विशेषणं वा ॥ २५ ॥

एवं शशाङ्कांशुविराजिता निशाः स सत्यकामोऽनुरताबलागणः ।

सिषेव आत्मन्यवरुद्धसौभगः सर्वाः शरत्काव्यकथारसाश्रयाः ॥ २६ ॥

पदरत्नावली

उपसंहरति एवमिति । सर्वाः शरत्काव्यकथारसाश्रयाः शरदः शरदृतु-सम्बन्धिनः काव्यकथायामुक्ता ये रसाः शृृङ्गारादिरसास्तेषामाश्रयो यासु ताः शशाङ्कांशुभिर्विराजिताश्च नितरां शं सुखं यासु ता निशा रात्रीः । निशा इत्यत्यन्तसंयोगे द्वितीयया रजन्यां क्षणमात्रं रत्यविरतिं द्योतयति । आत्मनि स्वस्मिन्नेवावरुद्धं निरुद्धं सौभगं सौभाग्यं यस्य स स तथा । हरेरन्यत्र कुत्रापि न तादृक्सौभाग्यस्यावकाश इति यावत् । अनुरतोऽबलागणो यं सो ऽनुरता-बलागणः सः सत्यकामोऽप्रतिहतेच्छ एवं सिषेवे ॥ २६ ॥

सत्यधर्मीया

उपसंहरति ॥ एवमिति । सर्वाः शरत्काव्यकथारसाश्रयाः शरदनुसम्बन्धिनः काव्यकथायामुक्ता ये रसाः शृृङ्गारादिरसास्तेषामाश्रयो यासु ताः । शशाङ्कस्यांशवः किरणास्तैर्विराजिता निशा रात्रीरात्मनि स्वस्मिन्नेवावरुद्धं निरुद्धं सौभगं यस्य सः । नान्यत्र तादृक्सौभाग्यस्यावकाश इति भावः । अनुरतोऽबलागणो योषित्सङ्घो यं सः सत्यकामोऽप्रतिहतेच्छ एवं सिषेवे । निशा इति द्वितीयया क्षणमात्रं क्षपायां रत्यविरतिं द्योतयति । सतीष्वकामस्तदिच्छारहित इति रहोभावः

॥ २६ ॥

सुमनोरञ्जिनी

उपसंहरति । सत्यकामः सत्यसङ्कल्पः । अनुरतो ऽनुरक्तो ऽबलागणो यस्मिन्सः । आत्मन्येव अवरुद्धं नियतं सुरतमेव सौरतं यस्य सः । स्वरमण इति यावत् । एवम् उक्तप्रकारेण सर्वाः शरत् शरत्संज्ञाः सुपां सुलुगिति शसो लुक् । निशाः सिषेवे इति सम्बन्धः । अत एव काव्यकथानां ये रसा अभिप्रायविशेषास्तेषामाश्रया विषयाः काव्येषु वर्णनीया इति यावत् । कृष्णस्येदं विशेषणम् । रसाः शृृङ्गारादयः ॥ २६ ॥

राजोवाच—

संस्थापनाय धर्मस्य प्रशमायेतरस्य च ।

अवतीर्णो हि भगवानंशेन जगदीश्वरः ॥ २७ ॥

पदरत्नावली

विज्ञातशास्त्ररहस्यार्थोऽपि परीक्षिन् मन्दानां सन्देहप्रहाणाय पृच्छति संस्थापनायेति । इतरस्याधर्मस्य । ‘यदायदा हि धर्मस्य ग्लानिर्भवति भारत’ इत्यादिप्रसिद्धिद्योतको हिशब्दः ॥ २७ ॥

सत्यधर्मीया

भिन्नसेतुरित्याद्यसहमानः परीक्षिदप्राक्षीत्प्रेक्षावन्तमित्याह ॥ राजेति । धर्मस्य संस्थापनायेतरस्याधर्मस्य प्रशमाय नाशाय च जगदीश्वरो भगवानंशेन पद्मनाभकृष्णकेशेनावतीर्णः । हि प्रसिद्धमेतत् । यदा यदा हि धर्मस्य ग्लानिर्भवति भारतेत्यादौ ॥ २७ ॥

सुमनोरञ्जिनी

परीक्षिन् मन्दजनमनोगतां शङ्कां शुकमुखेन परिजिहीर्षुः पृच्छति ॥ संस्थापनायेति । इतरस्य अधर्मस्य ॥ २७ ॥

स कथं धर्मसेतूनां वक्ता कर्ताऽभिरक्षिता ।

प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम् ॥ २८ ॥

पदरत्नावली

धर्मसेतूनां श्रौतस्मार्तधर्ममर्यादानाम् । प्रतीपं प्रतिकूलम् ॥ २८ ॥

सत्यधर्मीया

धर्मसेतूनां तन्मर्यादानां वक्ताऽन्येषां कर्ता स्वयमभिरक्षिता च स कथमेतत्प्रतीपं विरुद्धं परदाराभिमर्शनमाचरच्चचार ॥ २८ ॥

सुमनोरञ्जिनी

धर्मसेतूनां धर्ममर्यादानाम् । प्रतीपं तद्विरुद्धम् । कर्म आचरदिति किं तदित्यत आह ॥ परेति ॥ २८ ॥

आत्मारामो यदुपतिः कृतवान् वै जुगुप्सितम् ।

किमभिप्राय एतं नः संशयं छिन्धि सुव्रत ॥ २९ ॥

पदरत्नावली

जुगुप्सितं लोकनिन्दितम् ॥ २९ ॥

सत्यधर्मीया

आत्मारामः स्वरमणो यदुपतिरेतज्जुगुप्सितं लोकनिन्दितं कृतवान् । कोऽभिप्रायो यस्य सः । हे सुव्रत नो मदादीनां संशयं छिन्धि भिन्धि ॥ २९ ॥

सुमनोरञ्जिनी

जुगुप्सितं निन्दितम् । कोऽभिप्रायो यस्य स किमभिप्रायः । एतद् एतं संशयम् ॥ २९ ॥

श्रीशुक उवाच—

धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।

तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥ ३० ॥

पदरत्नावली

निरन्तरं हरिचरितामृततरङ्गविहारनिरतानां स्मृतिविहितधर्मव्यतिक्रमो न दोषाय दृष्टः किमुत नित्यनिरस्तविधिनिषेधबन्धस्य हरेरित्याशयेन प्रश्नं परिहरति धर्मेति । ईश्वराणाम् अणिमाद्यैश्वर्यशालिनां धर्मव्यतिक्रमः शास्त्रविहिताचारविरुद्धाचारोऽजीगर्तस्य पुत्रविक्रयः, विश्वामित्रस्य श्वभक्षणप्रवृत्तिः, सप्तर्षीणां शवभक्षणोद्यम इत्यादिलक्षणो दृष्टः शास्त्रे, साहसं च चन्द्रेन्द्रसुग्रीवादीनां दृष्टं तथापि तेजीयसां भगवदनुग्रहोपयातप्रभाववतां दोषाय न भवति । ‘तेजो बले प्रभावे च’ ज्योतिष्यर्चिषि रेतसि’ इति यादवः । सर्वभुजो वह्नेर्यथाऽमेध्यादिदहनहेतुकदोषो न तथेति ॥३०॥

सत्यधर्मीया

यच्चरितामृतपायिनां न विहिताननुष्ठानं दुरितावहं का कथा धुतबन्धस्य मधुमथनस्येति समाधत्ते ॥ धर्मेति ॥ ईश्वराणामनीश्वराणामपीश्वरत्वेन तरतमभावेन भगवत्स्थापितानां धर्मव्यतिक्रमो दृष्टः । साहसं चन्द्रादीनां दृष्टम् । तेजीयसां भगवदनुग्रहोपयातप्रभाववतां दोषाय न भवति । सर्वभुजो वह्नेर्यथाऽमेध्यदहनहेतुकदोषो न तथेति ॥ ३० ॥

सुमनोरञ्जिनी

यत्प्रसादपात्राणामपि धर्मव्यतिक्रमो न दोषाय किमुत हरेरित्यभिप्रायेण शुकः परिहरति ॥ धर्मेति ॥ ईश्वराणामिन्द्रादीनां साहसः स्वेच्छया क्रियमाणः धर्मव्यतिक्रमो दृष्टः, इन्द्रादीनामहल्याजारत्वादिरूपः शास्त्रेषु, तथापि सः दोषाय पापादिलेपाय न भवति । कुत इत्यत उक्तम् ॥ तेजीयसामिति ॥ स्वभावसिद्धज्ञानाख्यतेजःशालिनामित्यर्थः । तत्र दृष्टान्तः । सर्वभुजः मेध्यामेध्यसर्वं दहतो वह्नेस्तत्कृताशुचित्वादिकं यथा नास्ति तथेति ॥ ३० ॥

नैतत् समाचरेज्जातु मनसाऽपि ह्यनीश्वरः ।

नश्यत्याश्वाचरन् मौढ्याद् यथा रुद्रोऽपिबद् विषम् ॥ ३१ ॥

पदरत्नावली

‘यद्यदाचरति श्रेष्ठः’ इत्यादिस्मृतेरीश्वराचरितत्वेनानीश्वरेणापि परावराचरण-प्रसङ्ग इत्यत आह नेति ॥ अनीश्वरो जातु कदाचिदपि मनसाऽपि एतत् शास्त्रनिषिद्धाचरणं न समाचरेत् । हिशब्देन ‘यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि । नो इतराणि’ इत्यादि-श्रुतिप्रसिद्धिं सूचयति । अत्र व्यतिरेकनिदर्शनं दर्शयति यथेति ॥ यथा रुद्रो विषमपिबदिति मौढ्यात् स्वयमाचरन् विषं पिबन् आशु नश्यत्येव ॥ ३१ ॥

सत्यधर्मीया

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तत इत्यादेरीश्वरचर्याऽवश्यमनीश्वरेण कार्येति सर्वैरेवं कर्तव्यमित्यायातमिति तत्राह ॥ नेति ॥ एतद्धरितदितरतेजीयैः कृतमनीश्वरो जातु कदाचिदपि मनसाऽपि नाचरेत् । यदि चाचरन्भवेत्तत्र तन्त्रं मौढ्यादिति । आशु नश्यति । नाशश्च बहुप्रकारः सहस्रभवत्वादेः प्रमितत्वात् । नश्यत्यादौ दोषयुक्तो भवति तदनन्तरं यथायथं भवतीति वा दोषयुक्तपुरुषे नष्टशब्दप्रयोगादित्युक्तेः । तत्र व्यतिरेकनिदर्शनं दर्शयति ॥ यथेति ॥ रुद्रो विषमपिबदिति स्वयमाचरंस्तद्भक्षयन्नश्येदेवेति । अरुद्रो रुद्रेतरो विषं, शिष्टं प्राग्वत् । यथा वायुरपिबदिति रुद्रो विषमपिबन्नीलगलत्वादिना नष्टश्चेत्यन्वयो वा । वायुरस्मा उपामन्थत्पिनष्टिस्मा कुनन्नमा । केशी विषस्य पात्रेण यद्रुद्रेणापिब-त्सहेत्यादि । स तत्पिबन् कण्ठगतेन तेन निपातितो मूर्छित आशु रुद्रः । नीलोऽस्य गलस्तदासी-दित्यादिश्रुतिस्मृत्यादिकमुदाहृत्याष्टमे स्फुटीकृतमस्माभिस्ततोऽनुसन्धेयम् । यथा रुद्रोऽब्धिजं विषमिति पाठो ललितान्वयः । हिशब्देन यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि । नो इतराणीति सुचरिताचरणाभ्यनुज्ञानप्रसिद्धिं सूचयति । यथा रुद्रो जह्नुरगस्त्यो वाऽब्धिजं विषं जलमपिबत्तथाऽऽचरन्नन्यो नश्येदतस्तथा नाचरेदिति वा । विषं तु गरले तोय इति विश्वः । यथा रुद्रः कोपी सञ्जह्नुरगस्त्यो वेति वा । रुद्रः क्रूरे महेश्वर इति नानार्थोक्तेः ॥ ३१ ॥

सुमनोरञ्जिनी

नैतावता यद्यदाचरति श्रेष्ठ इति स्मृत्याऽस्मदादिभिर्लौकिकैस्तथा चरितुं युक्तमित्याह ॥ नैतदिति । एतन् महतां धर्मव्यतिक्रमाचरणम् । मनसापि न समाचरेत् । कुतः । हि यस्मादनीश्वरो ऽसमर्थः । विपक्षे बाधकमाह ॥ नश्यतीति । मौढ्यात् स्वयमपि धर्मव्यतिक्रममाचरन्नाशु नश्यति । तत्र दृष्टान्तः ॥ यथेति । रुद्रो विषमपिबदिति । तथैवायं मर्त्यो यथा नश्यति तथेति । इतिशब्दतथाशब्दावध्याहृत्य योज्यम् ॥ ३१ ॥

ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।

तेषां यत् स्ववचोयुक्तं बुद्धिमान् नैतदाचरेत् ॥ ३२ ॥

पदरत्नावली

तर्हि आप्तत्वेनेश्वरोक्तमपि न ग्राह्यमिति सिद्धमित्यत आह ईश्वराणामिति ॥ सत्यं परमार्थत्वेनाभीष्टप्रापकम् । ‘परमार्थेऽर्थवत् सत्यम्’ इति यादवः । तद्वचनमेव सत्यं चेत् ‘कुर्याद् विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम्’ इति विधानं व्यर्थमिति तत्राह तथैवेति ॥ क्वचिदिति दैत्यमोहनव्यावृत्तये । अनुवर्तिनां वैदिककर्ममार्गप्रदर्शनार्थं यदाचरितं तदपि सत्यं फलदर्शनात् । स्ववचस ईश्वरवचसोऽयुक्तं विरुद्धं यदाचरितं बुद्धिमानेतन्नाचरेत् ॥ ३२ ॥

सत्यधर्मीया

तर्हि सदुक्तिर्नानुसर्तव्येत्यायातमिति तत्र व्यवस्थया शङ्कां दुरवस्थीकरोति ॥ ईश्वराणामिति ॥ सत्यमर्थप्रापकतया यथार्थम् । तथैव तेषामाचरितं च सत्यं, क्वचित्तेषामेव यत्स्ववचः स्वमात्रविषयकं यत्तदयुक्तम् । तामेवायुक्ततां विशदयति । बुद्धिमान्नैतत्तन्मात्रयुक्तं स्वायुक्तं नाचरेदाचरंश्च प्रत्यवेयादिति भावः । स्ववचः कलिङ्गनीत्यादिरूपमयुक्तं मोहनार्थत्वात् । तदुक्त-मेतन्नाचरेदिति वा । ईश्वराणां वचः सत्यं तथैवाचरितं सत्यम् । अन्यथा तेषां चित्क्व । न तद्वचनसत्यतायामेषा संविदुत्पत्तिमार्गाभावाच्चिज्ज्ञानं क्वेत्यपि योजना ॥ ३२ ॥

सुमनोरञ्जिनी

तर्हि तेषामेव यद्यदाचरति श्रेष्ठ इति वचनं शिष्टानामाचारश्चायथार्थः स्यादित्यतस्तत्तात्पर्यमाह ॥ ईश्वराणामिति ॥ ईश्वराणां वचः सत्यं यथार्थमेव । तेषामाचरितमपि तथैव सत्यं निर्दुष्टमेव तथापि क्वचित्तेषामेतदाचरितं स्ववचसः स्वमुद्दिश्य प्रवृत्तस्य विधिनिषेधात्मक- श्रुतिवचसो ऽयुक्तं विरुद्धं नाचरेदिति । तेषामाचरणं वेदविरुद्धं चेन्न कार्यमिति भावः । तथा च यद्यदाचरतीति स्मृतिः सत्कर्माचारमनुजानाति न त्वसत्कर्माचरणमिति भावः । तथा च श्रुतिः । यान्यस्माकं सुचरितानि । तानि त्वयोपास्यानि । नो इतराणीति । विधिनिषेधगोचत्वान्नान्यन्निषिद्धं कर्तव्यमित्युक्तं भवति ॥ ३२ ॥

कुशलाचरितेनैषामिह चार्थो न विद्यते ।

विपर्ययेण चानर्थो निरहङ्कारिणां प्रभो ॥ ३३ ॥

पदरत्नावली

शुष्कजलनारिकेलफलवन्निर्मुक्तशरीराभिमानानां दूरीकृतकुशलाकुशलानां प्राप्तफलत्वाद् धर्मव्यतिक्रमो न दोषायेत्याशयेनाह कुशलेति ॥ निरहङ्कारिणां ममताद्यभिमानहीनानां कुशलाचरितेनेह संसारे अर्थः प्रयोजनं न विद्यते । विपर्ययेणाकुशलाचरितेनानर्थो नरकाद्यनर्थोऽपि न विद्यते ॥ ३३ ॥

सत्यधर्मीया

पक्वभक्तिप्रतिपत्तियुक्तानां न सांसारिकं सुकृतं दुष्कृतं च फलोपलम्भकमिति कथयति ॥ निरहङ्कारिणां ममताद्यतिगानामिति । कुशलाचरितेनेह संसृतावर्थोऽभिनवो न हि विद्यते । विपर्ययेणाकुशलाचरितेनानर्थोऽक्लृप्तविच्छित्तिरूपो नरकाद्यनर्थोऽपि न विद्यते ॥ ३३ ॥

सुमनोरञ्जिनी

तर्हि विध्याद्यनुसारेण तैरपि किं न क्रियत इत्यतस्तेषां विधिनिषेधबन्धा-गोचरत्वात्तथा वर्तनं युक्तमित्याह ॥ कुशलेति ॥ एषाम् ईश्वराणां कुशलाचरणेन इह, चशब्दादमुत्र च । अर्थः प्रयोजनं स्वर्गादिकम् । विपर्ययेण निषिद्धाचरणेन । अनर्थो नरकादिः । तत्र हेतुर् निरहङ्कारिणामिति । कर्तृत्वाद्यभिमानशून्यानामित्यर्थः ॥ ३३ ॥

किमुताखिलसत्वानां तिर्यङ्मर्त्यदिवौकसाम् ।

ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ॥ ३४ ॥

पदरत्नावली

उपसंहरति किमुतेति । तिर्यञ्चश्च पक्ष्याद्याश्च मर्त्या नराश्च दिवौकसो देवाश्च तेषामखिलसत्वानामीशितव्यानां नियम्यानाम् । चः समुच्चये । ईशितव्यानामचेतनानां चेशितुर्नियामकस्य हरेः कुशलाकुशलान्यः पुण्यपापफललेपो नेति किमुत ॥ ३४ ॥

सत्यधर्मीया

ज्ञानिमात्रस्य यदैवं तदा तदादिसर्वेश्वरस्य हरेर्न पुण्यपापलेप इति किमालप-नीयमिति नृपं प्रति लपति ॥ किमिति । अखिलानि सत्त्वानि स्वभावादीनि तेषां तथा तिर्यञ्चश्च पक्ष्याद्याश्च मर्त्या नराश्च दिवौकसो देवाश्चेति तेषामीशितव्यानां प्रेर्याणाम् । प्रेरणा तरतमभावापेक्षया तिर्यगादिक्रमत उक्तिः । ईशितुः प्रेरकस्य हरेः कुशलाकुशलान्वयो नेति किमुत, न वाच्यमित्यर्थः

॥ ३४ ॥

सुमनोरञ्जिनी

यदा ज्ञानिनामेवैवं भावः किमु वक्तव्यं दूरीकृतविधिनिषेधबन्धस्य हरेरित्यत आह ॥ किमुतेति । तिर्यङ्मर्त्यदिवौकसां बहुवचनमाद्यर्थे । तिर्यङ्मनुष्यदेवप्रभृतीनामखिलसत्वाना-मीशितव्यानां जडानां चेशितुर् हरेः कुशलाकुशलयोः पुण्यपापयोर् अन्वयः लेपः किमुतेति ॥३४॥

यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धाः ।

स्वैरं चरन्ति मुनयोऽपि न नह्यमानास्तस्येच्छयाऽऽत्तवपुषः कुत एव बन्धः

॥ ३५ ॥

पदरत्नावली

परीक्षित्साक्षिसिद्धान् मुनीनुदाहृत्यापि कैमुत्यं द्रढयति यत्पादेति ॥ योगप्रभावेण विधुतो विध्वस्तोऽखिलकर्मबन्धो येषां ते तथा । न नह्यमाना न बध्यमानाः सन्तः । ‘णह बन्धने’ इति धातुः । इच्छयाऽऽत्तं परिगृहीतं वपुरप्राकृतमङ्गलमयशरीरं येन स तथा । कुत एव किं हेतुकः स्यात् ॥ ३५ ॥

सत्यधर्मीया

परीक्षित्साक्षिसिद्धान्मुनीन्निदर्शयित्वाऽपि कैमुत्यं द्रढयति ॥ यत्पादेति ॥ यस्य पादावेव पङ्कजे तयोः परागा रेणवस्तेषां निषेवा बोधो यस्य स तेन तृप्ता यत्पादपङ्कजपरागाणां निषेवा येषां ते यत्पादपङ्कजपरागनिषेवा अत एव तृप्ता इति वा । योगप्रभावेन विधुतोऽखिलः समस्तोऽनन्यनिबर्हणीय इति दृढः कर्मबन्धो यैस्ते तथा मुनयो गतम् । स्वैरं गतम् । चरन्ति । तत्र निमित्तमाह ॥ न हीति ॥ अमाना नेत्यभिमानवन्तस्ते ता नेति न न हि । अमाना द्वौ नञौ प्रकृतन्यायादत्यभिमानहीना निरहङ्कारिणां प्रभवित्यानुकूल्यमेवमन्वये ज्ञेयम् । अत एवेति निर्गतिका गतिः । तस्य तदधिपस्येच्छायत्तवपुषः श्रीकृष्णस्य बन्धः कुत एव किंहेतुकः स्यात्

॥ ३५ ॥

सुमनोरञ्जिनी

प्रकारान्तरेणोक्तं प्रमेयं द्रढयति ॥ यदिति ॥ योगस्तस्मिन्नेव मनोयोगः । तत्प्रभावेन तत्सामर्थ्येन विधुताखिलकर्मबन्धो येषां तैः । ननह्यमाना नसमासोऽयं, कर्मभिरबध्य-मानाः । विषयस्नेहेनाबध्यमाना वा । स्वैरं चरन्ति । इच्छया आत्तवपुषस् तस्य हरेस्तु बन्धः पुण्यपापबन्धः कुतः न कुतोऽपीति ॥ ३५ ॥

गोपीनां तत्पतीनां च सर्वेषामपि देहिनाम् ।

योऽन्तश्चरति सोऽध्यक्ष एष क्रीडनदेहभाक् ॥ ३६ ॥

पदरत्नावली

क्रीडनं क्रीडासाधनं देहं भजतीति क्रीडनदेहभाक् । अध्यक्षः साक्षी । अयं च बन्धाभावे हेतुः ॥ ३६ ॥

सत्यधर्मीया

परदारसंसर्गमभ्युपेत्य दोषो नेषदिति प्रागुक्तमेतर्हि न स इत्यावेदयति ॥ गोपीनामिति ॥ गोपीनां तासां पतयस्तत्पतयस्तेषां च किञ्च सर्वेषां देहिनां च योऽन्तश्चरति सोऽध्यक्षः सर्वसाक्षी । तर्ह्यत्र जन्म कुत इति तत्राह । एषः क्रीडनं क्रीडोपयुक्तं देहं भजतीति स तथेति । अनेन तत्र स्त्रीरूपी गोपेषु पुरुषरूपी सन्सन्निहित इति न साक्षात्तत्सम्पर्क इति सूच्यते । ई रमा च गोपीनामन्तश्चरति सः स्वयं च चरति तत्पत्नीनां सर्वेषां देहिनां चान्तश्चरति तयोरेव संसर्गो नाभीरभामिनीपरिरम्भादिरिति हृदयम् । ननु चतुर्थे तत्र सन्निहिता श्रीश्च यत्र सन्निहितो हरिः । नास्य सन्निधिमात्रेण रमा पत्नीत्वमाव्रजेत् । साक्षादेव तु साक्षाच्च हरेः सन्निधितः क्वचित् । गोप्यादिरूपा भवति विपरीतं न तु क्वचिदित्युक्तेर्गोपान्तर्गतभगवद्रूपस्य पत्नीत्वं रमा समाया-तीत्युक्तिर्बाधत इति चेत् । भावानवबोधात् । पुरुषाद्याविष्टविष्णुपत्नीत्वं न साक्षाद्रुक्मिण्यादिवदवताराया रमायाः कृष्णादिसाक्षाद्रूपस्य रमणं च सम्भवतीत्येतत्परत्वात्तत्तात्पर्यवचनस्य । यथा रमात्राविष्टाऽपि साक्षादवतीर्णहरिपत्नी भवति तथा हरिरप्यन्यत्राविष्टसाक्षादवतीर्णरमापतिः क्वचिद्भवति किं नेत्याह ॥ विपरीतमिति ॥ हरिरन्यत्राविष्टः साक्षादवतीर्णरमापतिः क्वचिदपि नैव भवतीत्यर्थ इत्यादिना विवृतमाचार्यैरनुसन्धेयम् ॥ ३६ ॥

सुमनोरञ्जिनी

क्रीडने क्रीडार्थं देहभाक् ॥ ३६ ॥

अनुग्रहाय भक्तानां मानुषं देहमाश्रितः ।

भजते तादृशीं क्रीडां यां श्रुत्वा तत्परो भवेत् ॥ ३७ ॥

पदरत्नावली

स्वेच्छाविग्रहस्वीकारे निःस्पृहस्य किं प्रयोजनमित्यत आह अनुग्रहायेति ॥ तादृशी मानुषदेहसदृशी क्रीडां लीलाम् । तत्परो भगवानेव परो यस्य स तथा । तस्मिन् तात्पर्ययुक्तो वा ॥ ३७ ॥

सत्यधर्मीया

नायव्ययौ कायस्वीकारतस्तिथ्यो(?)रथाऽपीतीरयति ॥ अनुग्रहायेति । भक्तानामुपर्यनुग्रहाय मानुषं देहमाश्रितः । तादृशीं तन्मानुषतनुसदृशीं क्रीडां लीलां भजते यां श्रुत्वा नरस्तत्परस्तदात्मको भवेदिति तदनुकृतिरिति भावः ॥ ३७ ॥

सुमनोरञ्जिनी

इच्छयापि किमर्थं देहं स्वीकरोतीत्यत आह ॥ अनुग्रहायेति ॥ मानुषं मानुषवत्प्रतीयमानं तादृशीं मानुषदेहोचिताम् । तत्परस् तदेकभक्तः ॥ ३७ ॥

नासूयन् नृप कृष्णाय मोहितास्तस्य मायया ।

मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ ३८ ॥

पदरत्नावली

तद्भर्तारस्ताः शयनेऽदृष्ट्वा किं चुक्रुधुरित्यत्राह नेति । कृष्णाय नासूयन् गुणेषु दोषान् नाविष्कृतवन्तः । ‘क्रुधद्रुेहेर्ष्यासूयार्थानां यं प्रति कोपः’ इति चतुर्थी ॥ ३८ ॥

सत्यधर्मीया

तत्पतयस्ता आस्तरणेऽदृष्ट्वा किं वाऽवदंश्चक्रुश्च किमित्यत आह ॥ नेति ॥ व्रजौकसो गोपाः स्वान्दारान्भार्यास्तस्य माययेच्छयैव मोहिताः स्वपार्श्वस्थान्मन्यमानाः कृष्णाय नासूयन्न दोषान्गुणेष्वाविष्कृतवन्त इत्यर्थः । क्रुधेति चतुर्थी ॥ ३८ ॥

सुमनोरञ्जिनी

परपुरुषाभिरतानां गोपीनां पतयः कृष्णाय कथं नाभ्यसूयन्निति तत्राह ॥ नेति । तस्य कृष्णस्य ॥ ३८ ॥

ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः ।

अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः ॥ ३९ ॥

पदरत्नावली

ब्रह्मरात्रे ब्राह्मे मुहूर्ते उपावृत्ते सम्प्राप्ते सति । भगवान् प्रियो यासां तास्तथा

॥ ३९ ॥

सत्यधर्मीया

किं ताः कान्ताः कान्तारेऽवतस्थिरे तथैव किं वा गता गेहमित्यत आह ॥ ब्रह्मरात्र इति ॥ ब्रह्मरात्रे ब्राह्मे मुहूर्ते । एकदेशपूर्वकत्वादच् । उपावृत्ते उपायाते वासुदेवेनानु-मोदिता गच्छतेतः परं सदनमित्यनुमोदिताः । अनिच्छन्त्यो विरहासहिष्णुतया । भगवान्प्रियो यासां ता भगवतः प्रिया इति वा स्वगृहान्ययुः । शरच्चन्द्रांशुसन्दोहेति श्लोकस्य व्याख्या द्वेधा प्रवृत्ता । तदनुरोधेन तद्दिने वा दिनान्तरे वा भगवन्मायायाः किमान्ध्यम् ॥ ३९ ॥

सुमनोरञ्जिनी

ब्रह्मरात्रे ब्राह्मे मुहूर्ते । उपावृत्ते प्राप्ते ॥ ३९ ॥

विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितोऽनुशृणुयादथ वर्णयेद् यः ।

भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः

॥ ४० ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे एकत्रिंशोऽध्यायः ॥

पदरत्नावली

संसारनिवृत्तिहेतुत्वादस्मिन् कृष्णविक्रीडिते श्रद्धादिकं कार्यमिति विधत्ते विक्रीडितमिति । परां साक्षादपरोक्षजनयित्री भक्तिं प्रतिलभ्य प्राप्य हृद्रोगं काममनिष्टमचिरेणापहिनोति परित्यजति । दुष्टकामत्यागे एव संसारनिवृत्तिः ॥ ४० ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे एकत्रिंशोऽध्यायः ॥

सत्यधर्मीया

एतद्रूपमेतस्य फलमिति निरूपणेनैतदाकर्णनं वर्णनं चावश्यं कार्यमिति विधत्ते ॥ विक्रीडितमिति ॥ विष्णोः कृष्णस्य व्रजवधूभिर्व्रजगजगामिनीभिः सहेदं च विक्रीडितं तच्चरितभरितां कथामिति यावत् श्रद्धान्वित आस्तिक्यबुद्धिरनुशृृणुयादथ स्वयं वर्णयेदन्यान्प्रति । परां साक्षादपरोक्षजनयित्रीम् । प्रतिलभ्य प्राप्य, कामहेतुको यो हृद्रोगस्तमाशु शीघ्रमपहिनोति त्यजति । अचिरेण त्वरया धीरो धिया ज्ञानेन ज्ञाने वा रमत इति स तथा भवति । आशु प्रतिलभ्य धीरो धृतिसहितोऽचिरेण कामं हृद्रोगमपहिनोतीत्यन्वयो वा ॥ ४० ॥

॥ इति श्रीभागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे एकत्रिंशोऽध्यायः ॥ १०-३१ ॥

सुमनोरञ्जिनी

फलमाह । विष्णोर् व्रजवधूभिः सह विक्रीडितं तथा इदं च त्वत्प्रश्नस्य मयोक्तं परिहरणं यः श्रुणुयादथ वर्णयेत् सः । प्रतिलभ्य प्राप्य । हृद्रोगं मनसो रोगमिव रोगं कामम् । आशु अपहिनोति त्यजति । न केवलमेतावत् किन्तु अचिरेण धीरः ज्ञानी च भवतीत्यर्थः

॥ ४० ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्याम् एकत्रिंशोऽध्यायः ॥ १०-३१ ॥