इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा
॥ अथ त्रिंशोऽध्यायः ॥
श्रीशुक उवाच—
इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा ।
रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ॥ १ ॥
पदरत्नावली
सर्वान्मायैकवेद्यहरिसङ्कीर्तननिरतगोपीनां मनोरथसिद्धिरिव सतामपि गुणगण-संस्मरणादिसाधनसामग््रया परमाभीष्टप्राप्तिर्भवतीति प्रतिपाद्यतेऽस्मिन्नध्याये । तत्रादौ श्रीशुको रोदनादिक-मपि भक्त्युद्रेकलक्षणमिति दर्शयितुं गोपीनां रोदनप्रकारं कथयति इतीति । चित्रधा नानाविध्येन । सुस्वरं श्रोतृसुखकरनिनादं कुर्वन्त्यो रुरुदु । सौस्वर्यं स्वाभाविकं न तु बुद्धिपूर्वकमिति बोध्यम्
॥ १ ॥
सत्यधर्मीया
यथा नक्तं व्यक्तो भक्त्या तुष्टः सन्गोपीगोपनं ततान तथाऽन्यानप्यवतीश्वर इति प्रतिपादयत्यस्मिन्नध्याये । तत्रादौ रौति नृत्यतीत्याद्युक्तभक्त्युद्रिक्ततां तासु दर्शयन्रोदनादिकं कथयति ॥ इतीति ॥ कृष्णदर्शनतृष्णा गोप्य इति सुस्वरं यथा तथा गायन्त्यः स्वरतेस्तु स्वरो विष्णुरिति छान्दोग्यभाष्योक्तेस्तं विष्णुमुद्दिश्यैव सुगायन्त्य इत्यन्वयः । चित्रधा प्रकारप्रकारेण । सुस्वरं श्रोतृकरुणाकरं वा प्रलयन्त्यश्च सुस्वरं सु अत्यन्तं स्वरा वायवः श्वासा इति यावत् । अस्मिन्कर्मणि यथा तथा । स्वे विष्णौ रमते यस्मात्स्वरो वायुरुदीरित इति तद्भाष्योक्तेः । रुरुदू रोदनं चक्रुः ॥ १ ॥
तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः ।
पीताम्बरधरः स्त्रग्वी साक्षान्मन्मथमन्मथः ॥ २ ॥
पदरत्नावली
भक्त्युद्रेकोद्भूतरोदनफलमाह तासामिति । स्मयमानं मुखाम्बुजं यस्य सः स्मयमानमुखाम्बुजः । स्रग्वी अम्लानवनमाली । ‘अस्मायामेधास्रजो विनिः’ इति सूत्रेण विनिः । मनो मथ्नाति विकरोतीति मन्मथः । पचाद्यच् । पृषोदरादित्वात् साधुः । ‘मनो मथ्नाति सर्वेषां पञ्चबाणैश्च कामिनाम् । तन्नाम मन्मथस्तेन प्रवदन्ति मनीषिणः’ इति ब्रह्मवैवर्तवचनम् । साक्षात् प्रत्यक्षसिद्धसर्वाङ्गसुन्दरो देवेन्द्रतुल्यः कामस्तस्यापि मनो मथ्नातीति तथा । अनेनैवंविधभगव-दुपासनासामर्थ्यात् समुद्भूतोऽयं मङ्गलमयसौन्दर्यसागरः कामजनक इत्यवगन्तव्यः ॥ २ ॥
सत्यधर्मीया
तत्फलमालपति ॥ तासामिति । स्मयमानमुखाम्बुजः स्रग्वी । अस्मायेति विनिः । साक्षादिति सर्वप्रत्यक्षसिद्धतां मन्मथमन्मथत्वस्य दर्शयति । मन्मथं मथ्नातीति मन्मथ-मत्प्रमथनाथस्तस्य नारायणीरूपेण मथः स तथा । यरोऽनुनासिक इत्यनुनासिकः । एतन्मुरारिः । अनेन तादृङ्नगदृग्भवनसमर्थस्य (तादृगङ्गनाभवनसमर्थस्येति स्यादिति भाति । स्वतः रुद्रादि-मोहकस्त्रीरूपधारणसमर्थस्य इत्यर्थः स्याद्वा) नैतदाभीरनारीवाञ्छया प्रादुर्भाव इति दुर्भावः कार्यः किन्तु तद्दयात एवोदय इति सूच्यते । साक्षान्मुख्यतो मन्मथो मन्मथो येन स इति वा काम-कामत्वप्रदः । एतेन न तद्बाधा माधवस्येति द्योत्यते । मथ विलोडने मथतीति मथो मनसो मथो मन्मथः । पचाद्यच् । स्वजनकस्यापि स्ववैर्यागारत्वाद्विलोडनं युक्तमिति ज्ञेयम् । मनो रुद्र उदाहृत इत्यादेः । मित्रचन्द्रानुबन्धस्तु दूरोत्सारित इति सन्तोष्टव्यम् । चन्द्रमा मनसो जात इत्यादेः । मननं मच्चेतनम् । सम्पदादिक्विप् । गमादीनां क्वाविति नलोपः । ह्रस्वस्य पिति कृतीति तुक् । मन्मथो मनोमथक इतरत्पूर्ववदिति वा ॥ २ ॥
तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः ।
उत्तस्थुर्युगपत् सर्वास्तन्वः प्राणमिवागतम् ॥ ३ ॥
पदरत्नावली
तन्वः करचरणादयः ॥ ३ ॥
दुर्घटभावदीपिका
तन्वः प्राणमिवागतमित्यस्यागतं प्राप्तमित्यागतं प्राणम् । निमित्तीकृत्येति यावत् । तन्व इव तन्वो यथोत्थिता भवन्तीत्यर्थः । एतेनागतं प्राणमित्येतदनन्वितमिति दूषणं परास्तम् । निमित्तार्थकप्रतीत्यध्याहारेणान्वयस्योक्तत्वात् ॥ ३ ॥
सत्यधर्मीया
प्रेष्ठं तमालोक्य प्रीत्युत्फुल्ला दृशो यासां ता अबलास्तन्वः शरीराणि । आगतं प्राणा यथोत्तिष्ठन्ति तथेति सर्वा युगपदेकदेवोत्तस्थुः ॥ ३ ॥
काचित् कराम्बुजं शौरेर्जगृहेऽञ्जलिना मुदा ।
काचिद् दधार तद्बाहुमंसे चन्दनरूषितम् ॥ ४ ॥
पदरत्नावली
भक्त्यैकलभ्यो भगवानित्यत्र निदर्शनतया गोपवराङ्गना यथाकामं हरिकरकमलादिक- मादाया विजह्रिरे इत्याह काचिदित्यादिना । अंसे स्कन्धे चन्दनेन रूषितं लिप्तं तस्य प्रियतमस्य बाहुं काचिद् दधार ॥ ४ ॥
सत्यधर्मीया
अंसे चन्दनरूषितं बाहुं काचिद्दधार ॥ ४ ॥
काचिदञ्जलिनाऽगृह्णात् तन्वी ताम्बूलचर्वितम् ।
एका तदङ्घ्रियुगलं सन्तप्तस्तनयोरधात् ॥ ५ ॥
पदरत्नावली
अञ्जलिना संहतहस्तद्वयेन । ताम्बूलचर्वितं भक्षितताम्बूलोच्छिष्टमित्यर्थः । अधाद् दधार ॥ ५ ॥
दुर्घटभावदीपिका
काचित्तन्व्यञ्जलिना संहतहस्तद्वयेन ताम्बूलचर्वितं भक्षितताम्बूलोच्छिष्ठम-गृण्हात् । एका तन्व्युत्तानतया शायितत्त्वादङ्घ्रियुगलं कृष्णाङ्घ्रियुगलं सन्तप्तस्तनयोरधादिति । एतेन स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचीक्लृपन्नासनमात्मबन्धवे । तत्रोपविष्टो भगवान्सर्वेश्वरो योगेश्वरान्तर्हृदि कल्पितासन इत्यनेन यदा स्त्रीभिरासनं दत्तं तदा कृष्ण उपविष्टवान् । इति वक्ष्यमाणत्वेनासन-दानात्पूर्वमनुपविष्टत्वात् । काचित्तदङ्घ्रियुगलं सन्तप्तस्तनयोरधादित्यर्थस्योक्तत्वात् ॥ ५ ॥
सत्यधर्मीया
ताम्बूलचर्वितं काचित्तन्वी कोमलाङ्ग्यञ्जलिना सम्पुटितपाणिद्वयेनैका काचित्तदङ्घ्रियुगलमेकैककरेणोन्नमय्य स्वयं च प्रवणा सन्तप्तस्तनयोरधाद्दधार । अधुनाऽनुपवेशादुद्धृत्येति पूरणीयम् । यद्वक्ष्यति स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचीक्लृपन्नासनमात्मबन्धवे तत्रोपविष्ट इति
॥ ५ ॥
एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला ।
प्रत्यवैक्षत् कटाक्षेण निर्दष्टदशनच्छदा ॥ ६ ॥
पदरत्नावली
प्रेमसंरम्भविह्वला प्रणयकोपाकुलिता भ्रुकुटिं भ्रूकुटिमाबध्य कुटिलीकृत्य निर्दष्टदशनच्छदा सन्दष्टोष्ठपुटा कटाक्षेण प्रत्यवैक्षत् ॥ ६ ॥
सत्यधर्मीया
एका तु प्रेमसंरम्भविह्वला भ्रुकुटिं भ्रकुटीमाबद्ध्य ग्रन्थीकृत्य निर्दष्टो दशनच्छदोऽधरोष्ठो यया सा कटाक्षेण प्रत्यवैक्षत्प्रैक्षत् ॥ ६ ॥
अपराऽनिमिषं दृग्भ्यां जुषाणा तन्मुखाम्बुजम् ।
आपीतमपि नातृप्यत् सन्तस्तच्चरणं यथा ॥ ७ ॥
पदरत्नावली
जुषाणा कृष्णचरणारविन्दे सेवमाना अपराऽनिमिषं यथा भवति तथा दृग्भ्यां तन्मुखाम्बुजमापीतमपि नातृप्यत् । अत्र दृष्टान्तमाह सन्त इति । सन्तो भक्तसत्तमा यथा तस्य वासुदेवस्य चरणं मङ्गलमयकोमलपादकमलं पौनः पुन्येन सेवमाना अपि न तृप्यन्ति तथेति ॥७॥
दुर्घटभावदीपिका
अपरा दृग्द्वयमनिमिषं यथा भवति तथा दृग्भ्यामापीतमपि तच्चरणं तस्य कृष्णस्य चरणं पुनः पुनर्जुषाणा न तृप्यन्तीति । एतेनानिमिषत्वस्य दृङ्निष्ठत्वेन पानक्रियानिष्ठत्वा-भावाद् अनिमिषं यथा भवति तथाऽऽपीतमित्येतदनुपपन्नमिति दूषणं परिहृतम् । चक्षुर्निष्ठानिमिषत्व-सम्पादकत्वं पानक्रियाविशेषणमित्यूरीकरणात् ॥ ७ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे त्रिंशोऽध्यायः ॥ १०-३० ॥
सत्यधर्मीया
अपराऽनिमिषं यथा तथा दृग्भ्यां भ्रमराभ्यां तन्मुखाम्बुजमापीतमपि जुषमाणाः सन्तस्तच्चरणं दृग्भ्यां जुषाणाः पश्यन्तो यथा न तृप्ता भवन्ति तथा तेन पानेन नातृप्यन्न तृप्ताऽभूत्
॥ ७ ॥
तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च ।
पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दनिर्भरा ॥ ८ ॥
पदरत्नावली
काचिन्नेत्ररन्ध्रेण तं कृष्णं हृदिकृत्य अमलहृत्कमले संस्थाप्य नयनं निमील्योप- गुह्यालिङ्ग्य च योगीवानन्दनिर्भरा परमानन्दतुन्दिला पुलकाङ्गी रोमाञ्चितगात्राऽऽस्ते ॥ ८ ॥
सत्यधर्मीया
काचिन्नेत्ररन्ध्रेण हृदि कृत्य साक्षात्प्रभृतीनि चेत्यस्याकृतिगणतया हृदीत्यस्य कृञा योगे सत्यां गतिसंज्ञायां कुगतीति समासे वत्वो ल्यपि हृदिकृत्येति भवति । चक्षुर्निमील्योप-गुह्यालिङ्ग्य च योगीवानन्दनिर्भरा पुलकाङ्गी रोमाञ्चितशरीराऽऽस्ते ॥ ८ ॥
सुमनोरञ्जिनी
तं कृष्णं हृदि कृत्वा प्रविष्टं ध्यात्वा । नेत्रे निमील्य तमुपगुह्य मनसा आलिङ्ग्य । आनन्दनिर्भरा सती । पुलकाङ्गी रोमाञ्चितगात्रा । आस्ते स्मेति ॥ ८ ॥
सर्वास्ताः केशवालोकपरमोत्सवनिर्वृताः ।
जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनः ॥ ९ ॥
पदरत्नावली
जनः पामरः प्राज्ञं ज्ञानिनं प्राप्य सांसारिकशोकं यथा जहाति । यद्वा दिवा चिन्तासन्तापादिसन्तप्तो जनो रजन्यां प्राज्ञं तन्नामकभगवन्तं प्राप्य जाग्रत्कालिकाशेषक्लेशान् जहाति तथेति । ‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्’ ‘प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद् याति’ इत्यादिश्रुतेः ॥ ९ ॥
सत्यधर्मीया
केशवालोकपरमोत्सवनिर्वृतास्ताः सर्वाः प्राज्ञं पण्डितं प्राप्य यथा जनः पामरस्तापं सांसारिकं जहाति तथा विरहजं तापं जहुः । जनो जाग्रत् तापं दिवा जातं प्राज्ञं भगवन्तं प्राप्यालिङ्ग्य जहाति तथेति वा । प्राज्ञेनात्मना सम्परिष्वक्त इत्यादेः ॥ ९ ॥
सुमनोरञ्जिनी
केशवस्यालोको ऽवलोकनं, तल्लक्षणोत्सवेन तदुद्भूतोत्सवेन वा निर्वृताः सन्तुष्टाः । विरहजं कृष्णवियोगजनितं तापं जहुस् तत्यजुः । जनो ऽज्ञजनः । प्राज्ञं ज्ञानिनम् । प्राप्य यथा तापं सांसारिकं जहाति तथेति । प्राज्ञं परमात्मानं सुषुप्तौ प्राप्य यथा जनस् तापं जागृदाद्यवस्थासम्भवमिति वा ॥ ९ ॥
ताभिर्विधूतशोकाभिर्भगवानच्युतो नृप ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ १० ॥
पदरत्नावली
पुरुषो विष्णुः शक्तिभिः श्रीभूदुर्गादिभिः । ‘स्वदृष्टान्तो हरेर्भवेत्’ इति ऋग्भाष्यवचनम् ॥ १० ॥
सत्यधर्मीया
विधूतः शोको याभिस्ताभिः सहितो यथा शक्तिभिः स्वभार्याभिः श्रीभूदुर्गादिभिः पुरुषो हरी रोचते । शक्यत्वाच्छक्तयो भार्या इति गतम् । तथा भगवानच्युतः कृष्णो व्यरोचत । स्वदृष्टान्तो हरेर्भवेदित्यृग्भाष्योक्तेः पुरुषो यथेति युक्तम् ॥ १० ॥
सुमनोरञ्जिनी
भगवानच्युतः विधूतशोकाभिर् गोपीभिर् अधिकं व्यरोचत । यथा पुरुषः पूर्णषड्गुणो विष्णुः शक्तिभिर् लक्ष्मीविभूतिभिस् तथेति ॥ १० ॥
ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः ।
विकसत्कुन्दमन्दार१सुरतानिलषट्पदम् ॥ ११ ॥
पदरत्नावली
विकसद्भिः कुन्दैर्मन्दारैः सुरभिर्योऽनिलस्तस्मात् षट्पदा भ्रमरा यस्मिन् तत् तथा ॥ ११ ॥
सत्यधर्मीया
ताः समादाय । अनेन सन्तोषभरेण तासां गमनसामर्थ्यं स्वतो नेति ध्वन्यते । पुलिनं निर्विश्य । तत्स्वरूपं निरूपयति ॥ विलसदिति ॥ विलसन्तः कुन्दमन्दारा यस्मिन्स तद्वा । सुरतस्य तत्सम्बन्धी तदुपयोगी मन्दोऽनिलोऽज्ञं कुर्वन्तश्च षट्पदा यस्मिन्स तद्वा स चासौ स च तच्च तत्तच्चेति वा । नलिनपुलिनेति लिङ्गानुशासने द्विलिङ्गताभिधानात् । विलसत्कुन्दमन्दारेषु सुरतानिलषट्पदा यस्मिन्निति पक्षेऽनिलस्य निर्भरं तदुपर्यागतिरेव सुरततेति मन्तव्यम् । विकसत्कुन्दमन्दारुलताभिः सहिता अनिलषट्पदा यस्मिन्निति वा । सुरभ्यनिलेति पाठस्तु सुलभार्थः
॥ ११ ॥
सुमनोरञ्जिनी
विकसत्कुन्दमन्दारेषु सुष्ठु रताः सम्बद्धा अनिला वायवः, षट्पदा भ्रमरा यस्मिन् तत् । यद्वा विकसत्कुन्दमन्दाराः, सुष्ठु रतं रतिः सुखं यस्मात्तादृशः सुखावह इत्यर्थो ऽनिलो वायुः षट्पदाश्च यस्मिंस्तदिति ॥ ११ ॥
शरच्चन्द्रांशुसन्दोहध्वस्तदोषातमः शिवम् ।
कृष्णाया हस्ततरलाचितकोमलवालुकम् ॥ १२ ॥
पदरत्नावली
शरदः शरत्कालीनस्य चन्द्रस्तस्यांशवः किरणास्तेषां सन्दोहास्तैर्ध्वस्तं निरस्तं दोषातमो निशान्धकारो यस्मिंस्तत् तथा । शिवं सुखकरं कृष्णस्येहया चेष्टयाऽऽयस्ता आयासं प्राप्तास्तरला लघुतरङ्गास्तैराचिता इतस्ततः प्रसारिताः कोमला वालुकाः सिकता यस्मिंस्तत् तथा । ‘अणुस्तरङ्गो लोलः स्यात् तरलः कुरलस्तथा’ इति गोपालः ॥ १२ ॥
सत्यधर्मीया
शरदश्चन्द्रः शरत्कालिकश्चन्द्रस्तस्यांशवः किरणास्तेषां सन्दोहः समूहस्तेन ध्वस्तं दोषा रात्रिस्तत्तमोऽन्धकारो यस्मिन्स चासौ शिवश्चेति पुल्लिङ्गतापक्षे । द्वितीयपक्षेऽनेकताया-मेकतायां पदस्य नायव्ययौ । ननु गत्वा वनाद्वनं चन्द्रज्योत्स्ना यावद्विभाव्यते । तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रिय इति प्रागुक्तेर्न हि चन्द्रास्तमयानन्तरं पुनस्तद्दिने शरच्चन्द्रांश्वित्याद्युक्तिः कथमिति चेत् । अबलाश्रान्त्यसहिष्णुः कृष्णस्तमःसृष्टिं सति शीतांशौ ततानानन्तरं चेदं वचनमिति सम्भवात् । प्रविष्टपदस्वारस्यात् । पुनश्चन्द्रसृष्टेरिति वा । कृष्णाया यमुनाया हस्तास्तद्रूपास्तरलास्तरङ्गास्तैराचिता इतस्ततः प्रसारिताः कोमलवालुकाः सिकता यस्मिंस्तन्निर्विश्य व्यरोचतेत्यतीतेनान्वयः । विशेषकम् । कृष्णेहायस्ततरलाञ्चितेति पाठे कृष्णस्येहा चेष्टा तयाऽऽयस्ता आयासं प्राप्तास्तरला लघुतरङ्गास्तैः पूर्ववदुर्वरितम् । कृष्णे या ईहा प्रवाहस्तयेति वा । अणुस्तरङ्गो लोलः स्यात्तरलः कुरुलस्तथेति गोपालः ॥ १२ ॥
सुमनोरञ्जिनी
शरच्चन्द्रस्यांशुसन्दोहेन किरणसमूहेन ध्वस्तं दोषातमो रात्र्यंधकारो यस्मिंस्तत् । ननु पूर्वं वनाद्वनं गत्वा चन्द्रज्योत्स्ना यावद्विभाव्यते तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रिय इति चन्द्रास्तमयमुक्त्वा पुनस्तस्यामेव रात्रौ शरच्चन्द्रस्य कथं पुनः? । न च दिनान्तरविषयमेतत् । तथाऽप्रतीतेः । किञ्च तमःप्रविष्टमालक्ष्येति रात्रौ चन्द्रास्तमयोक्त्या शुक्लपक्षत्वं शरच्चन्द्रेत्यनेन शुक्लपक्षे असम्भावितचन्द्रांशुध्वस्ततमस्त्वोक्त्या कृष्णपक्षता लक्ष्यते । अतः कथमेतत्सर्वं समंजसमिति चेत् । शुक्लपक्षे चन्द्रास्तमयानन्तरमपि पुनः कृष्णे क्रीडाप्रसक्तौ तत्सेवार्थं पुनश्चन्द्रस्यागमनेन वा । शरच्चन्द्र इव अंशुसन्दोहो यस्य कृष्णस्य सः शरच्चन्द्रांशुसंदोह इत्यर्थमङ्गीकृत्य श्रीकृष्णकान्त्यैव तमोनिवारणाङ्गीकारेण वा उपपत्तेः । वस्तुतस्तु पूर्वश्लोकस्य विद्यमानापि चन्द्रज्योत्स्ना श्रीकृष्णमायया गोपीनां नादृश्यतेति तात्पर्यम् । गोप्यस्तु तमः प्रविष्टमित्यालक्ष्य ज्ञात्वा निववृतुरिति इतिशब्दा-ध्याहारेण योजना ज्ञेया । इत्थं च न काप्यनुपपत्तिः । कृष्णाया यमुनाया ईहया चेष्टया । आयस्ता मन्दीभूतास् तरलास् तरङ्गास् तैर् अंचितं सिक्तं कोमलवालुकं यस्मिन् तत् । कृष्णस्य ईहा चेष्टा क्रीडालक्षणा तदर्थमिति वा ॥ १२ ॥
तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः ।
स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचीक्लृपन्नासनमात्मबन्धवे ॥ १३ ॥
पदरत्नावली
तद्दर्शनाह्लादविधूतहृद्रुजो विष्णुविषयीकरणलक्षणदर्शनेन तदभिमानिनामभिव्यक्तो य आह्लादस्तेन विधूता निरस्ता दुर्वादिवर्गकपोलकल्पिता विपरीताभिप्रायरूपा हृद्रुजो हृदयरोगा यासां ता मनोरथानां मनोगतीनामन्तं निर्णयं श्रुतयो वेदा यथा यान्ति तथा तस्य प्राणकान्तस्य दर्शनेनावलोकनेन जातो य आह्लाद अनन्दोद्रेकस्तेन विधूता हृद्रुजा मदनाधीनमनोव्याधयो यासां ता मनोरथान्तं प्रार्थितसुरताद्यर्थपूर्तिं ययुः । कुचकुङ्कुमाङ्कितैः स्वैरुत्तरीयैः प्रावणवस्त्रैरात्मबन्धवे प्राणनाथायासनं कमनीयकोमलपीठमचीक्लृपन् कल्पयामासुः ॥ १३ ॥
सत्यधर्मीया
तद्दर्शनाह्लादेन विधूता हृद्रुजस्तद्दर्शनाभिमर्शनजा आमया यासां ताः । अन्यत्र तद्दर्शनेन तद्विषयीकरणहेतुना व्यक्त आह्लादस्तदभिमानिद्वारा तासां तेन विधूता हृद्रुजो, स्वरहस्यार्था ननु वर्णनकरणका रोगा यासां ता मनोरथान्तं प्रार्थितसुरताद्यर्थपूर्तिम् । अन्यत्र मनोरथो मनोगति-स्तस्यान्तमित उत्तरं गम्यं नास्तीति निर्णयं श्रुतयो वेदा यथा यान्ति तथा ययुः । पक्ष द्वयेऽप्यतृप्तिरेव भूषणमिति । अमनोरथान्तमिति विभजनेनार्थस्तु । यतो वाचो निवर्तन्ते । नातृप्यन्नित्यादे रसविशेषद इति रसिकौर्महः(?) । कुचकुङ्कुमाङ्कितैः स्वैरुत्तरीयैः प्रावरणवस्त्रैरात्मबन्धवे आत्मनः स्वकीयस्य पितुर्बन्धुर्जामाता तस्मै स्वप्राणनाथाय वाऽऽसनमचीक्लृपन्कल्पयामासुः । तदुपरि तमुपवेशयामासुः
॥ १३ ॥
सुमनोरञ्जिनी
तस्य श्रीकृष्णस्य दर्शने य आह्लादस् तेन विधूता हृद्रुजो मनोव्यथा यासां ताः । मनोरथस्य मानस्यमनोभिलाषस्य वा । अन्तं पारम् । ययुः । प्राप्ताभीष्टाः सत्यस् तुष्टा बभूवुरिति भावः । तन्निदर्शयति ॥ श्रुतयो यथेति । मोक्षार्थं प्रवृत्ताः श्रुतयस् तत्साधनभगव-दपरोक्षार्थं श्रवणादीन् विदधत्यः स्वनियोज्यस्य यावन्न भगवतो दर्शनं तावदकृतार्था इव विद्यमानास्तिष्ठन्ति । यदा तु भगवान् प्रसन्नः सन् भक्ताय स्वस्वरूपमाविष्करोति तदा श्रुतयस्तस्य भगवतो दर्शनेन य आह्लादस् तेन विधूतहृद्रुजः स्वमनोरथान्तं यथा गच्छन्ति तथेति भावः । कुचकुङ्कुमेन अङ्कितैर् लिप्तैः स्वैः स्वकीयैर् उत्तरीयैः प्रावरणवस्त्रैः । आत्मनो बन्धवे प्रियाय । आत्मनो वायोर्बन्धवे इति वा । आसनम् अचीक्लृपन् चक्रुः ॥ १३ ॥
तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हृदि कल्पितासनः ।
चकास गोपीपरिषद्गतोऽर्चितस्त्रैलोक्यलक्ष्म्यैकपदं वपुर्दधत् ॥ १४ ॥
पदरत्नावली
योगेश्वराणां महायोगिनामन्तर्हृदि हृत्कमलमध्ये तैः कल्पितमासनं यस्य सस् तथाभूतः स भगवानीश्वरस्तत्र गोपिकोत्तरीयपरिकल्पितपीठे उपविष्टो गोपीपरिषद्गतो गोपिकामण्डल-मध्यवर्ती ताभिरर्चितश्च त्रिलोक्या इमास्त्रैलोक्या या लक्ष्म्यः शोभास्तासामेकपदं मुख्याधिकरणं वपुर्दधद् बिभ्राणश् चकास अदीप्यत ॥ १४ ॥
सत्यधर्मीया
तत्र तत्कल्पितासने उपविष्टः स भगवानीश्वरो योगेश्वराणां महायोगिनामन्त-र्हृदि । विभक्त्यर्थेऽव्ययीभावः । तृतीयासप्तम्योर्बहुलमिति नाम्भावः । हृदय इत्यर्थः । हृदयान्तः कल्पितं तैरासनं यस्य स सोऽपि तत्रोपविष्ट इति कारुण्यं तासु ध्वन्यते । इदं नटनमिति वा । गोपीपरिषद्गतस्ताभिरर्चितश्च । त्रैलोक्यलक्ष्म्यैकपदम् । त्रिलोक्या इमास्त्रैलोक्यास्ता लक्ष्म्यः शोभास्तासामेकपदं मुख्याधिकरणं वपुः शरीरं दधच्चकास चकासे शुशुभे ॥ १४ ॥
सुमनोरञ्जिनी
योगेन ईश्वरा योगप्रभावलब्धैश्वर्यवन्तो ये योगिनस् तेषां हृद्यन्तः कल्पितासनः स ईश्वरः । तत्र गोपीजनपरिकल्पितवस्त्रासने उपविष्टः । गोपीनां परिषदि समूहे गतः मध्यगतः । त्रैलोक्यलक्ष्म्यास् त्रैलोक्यसम्बन्धिन्याः शोभाया एकपदं मुख्याश्रयं वपुर् दधत् । चकास शुशुभे
॥ १४ ॥
सभाजयित्वा तमनङ्गदीपनं सहासलीलेक्षणविभ्रमद्भ्रुवः ।
संस्पर्शनोत्काङ्ककृताङ्गहृच्छयं संस्तभ्य ईषत्कुपिता बभाषिरे ॥ १५ ॥
पदरत्नावली
हासलीलाभ्यां सहितं यदीक्षणं सहासलीलेक्षणं तेन विभ्रमन्त्यौ भ्रुवौ यासां ता गोप्योऽनङ्गं कामं दीपयत्युद्दीपयतीत्यनङ्गदीपनस्तमनङ्गदीपनं तं प्राणकान्तं सभाजयित्वा सम्पूज्य संस्पर्शनेनोत्पन्ना उत्का उत्कण्ठा सैवाङ्को लक्षणं तेन कृतोऽङ्गो यस्य स चासौ हृच्छयः कामश्च संस्पर्शनोत्काङ्ककृताङ्गहृच्छयस्तं संस्तभ्य सन्निरुध्य । प्रचुरसुन्दरकरचरणाद्यङ्गस्पर्शनेनाभिव्यक्तं कामं निरुध्येति यावत् ॥ १५ ॥
सत्यधर्मीया
सहासलीलेक्षणविभ्रमद्भ्रुवो हासश्च लीला च ताभ्यां सहितं सहासलीलमीक्षणं तेन विभ्रमन्त्यो भ्रुवो यासां ता विभ्रमन्त्यौ भ्रुवाविति वा गोप्यः । अनङ्गं दीपयतीति स तं सभाजयित्वा सम्पूज्य संस्पर्शनेनोत्पन्नोत्कोत्कण्ठा सैवाङ्को लाञ्छनं तेन कृतोऽङ्गो गतिर्यस्य स चासौ हृच्छयः कामश्च तमन्तरङ्कूरितं संस्तभ्य सन्निरुध्य । विवक्षाविरामात्सन्ध्यभावः । ईषदित्युभयान्वयि । कुपिता बभाषिरे ऊचुः । हृच्छयं प्रति संस्तभ्य स्तम्भनीय इतीषत्कुपिता बभाषिर इति वा । पोरदुपधादिति यत् ॥ १५ ॥
सुमनोरञ्जिनी
अनङ्गं कामं दीपयतीत्यनङ्गदीपनम् । सहासेन मन्दहाससहितेन लीलेक्षणेन लीलया यदीक्षणं तेन लीलाकारीक्षणेनेति वा विभ्रमन्त्योऽनुदिशं चलन्त्यो भ्रुवो यासां ताः । संस्पर्शने श्रीकृष्णांगसंस्पर्शने उत्का उत्कण्ठा सैव अंकं यस्य सः संस्पर्शनोत्कांकः । स चासौ, कृत ओ शरीरे उत्पन्नः हृच्छयः कामस् तम् । संस्तभ्य निरुध्य । श्रीकृष्णांगसंस्पर्शनोत्कंठाजनकं कामं निरुध्येत्यर्थः । यद्वा संस्पर्शनेनोत्पन्ना या उत्केति वा । तदा श्रीकृष्णाङ्गसंस्पर्शनाभिव्यक्तं कामं निरुध्येति भावः । यद्वा कृष्णस्यैवेदं विशेषणम् । स्वसंस्पर्शनार्थं या उत्का उत्कण्ठा तस्या अङ्कानि चिह्नानि उत्पुलकत्वादीनि यस्य तादृशश्चासौ कृताङ्ग उत्पादितो हृच्छयो येन तं श्रीकृष्णं संस्तभ्य क्षणमस्मद्वचः श्रुणुहीति वचनेन स्तम्भयित्वेति । अथवा ईषत्कुपितेत्युक्ते कोपाविष्करणाय सहासलीलेक्षणविभ्रमद्भ्रुवः संस्तभ्य भ्रुकुटीमाबध्येति यावत् । कृष्णं बभाषिर इति योज्यम् ॥ १५ ॥
गोप्य ऊचुः—
भजतोऽनु भजन्त्येक एक एतद्विपर्ययम् ।
नोभयांश्च भजन्त्यन्य एतन्नो ब्रूहि साधु भोः ॥ १६ ॥
पदरत्नावली
सुरतोत्सवावसरेऽपि भगवन्मुखकमलादेव तत्त्वविशेषपीयूषलिप्सया प्रणयकोपेनैवं पृच्छन्ति भजत इति । एके केचन भजतः सेवमानान् अनुभजन्ति सेवानुकूलफलसमर्पणेन सेवन्ते । एके केचिदेतद्विपर्ययं कुर्वन्ति स्वानभजतोऽपि स्वयं फलं वितरन्तः सेवन्ते । अन्ये उभयान् भजतश्चाभजतश्च न भजन्ति, उदासत इत्यर्थः । भोः कृष्ेण यदेतत् पक्षत्रयं तत्र साधु निर्दोषपक्षं नोऽस्माकं ब्रूहि विविच्य कथयेत्यर्थः ॥ १६ ॥
सत्यधर्मीया
इयन्तमायासमनुभूयायताक्ष्यः स्वयं विकल्प्य श्रीमन् त्वं तत्त्वं जल्प किं कल्पमध्य इति निष्प्रकाशितस्वाशयाः परोक्षतः पृच्छन्ति ॥ भजत इति । एके केचन भजतः सेवमानान्भजन्ति तदनुसवनसेवानुसारिफलोपलम्भकतया सेवन्ते । एके चैतद्विपर्ययं स्वानभजतोऽपि स्वयं फलं वितरन्तः सेवन्ते । भजतोऽभजत इत्युभयानपि केचन न भजन्ति उदासत इति यावत् । एतत्कल्पत्रये किं साधु सम्यग्भो आत्मन्ब्रूहि । अनेन विवेकः कृतश्चेत्कृतघ्नता तवाविर्भवतीति भामिन्यो ध्वनयन्ति स्मेति तात्पर्यम् । एक एतद्विपर्ययम् इत्यस्माद्व्याख्यासङ्ख्यं भजन्त्यभजतो ये वै करुणा इत्युत्तरत्रोत्तरे भजत इति युक्ता ॥ १६ ॥
सुमनोरञ्जिनी
गोप्यः श्रीहरेरकृतज्ञत्वमारोप्य तन्मुखेन संवादयितुं पृच्छन्ति ॥ भजत इति । एके जना भजतः सेवमानान् अनु तदिच्छानुसारेण फलदानेन । भजन्ते । एके केचित् । एतद्विपर्ययो व्यत्यासः यथा स्यात्तथा भजन्ते । अभजतोऽपि जनान् तद्योग्यफलदानेनोपकुर्वन्तीति भावः । अन्ये जना नोभयान् भजन्ति सेवमानानसेवमानानपि न फलदानेन प्रत्युपकुर्वन्तीत्यर्थः । एतस्मिन् एतत्पक्षत्रये यत्साधु निर्दुष्टं तद् ब्रूहि । लोके जनास्त्रिविधाः । केचिदुपकारमुपेक्ष्य प्रत्युपकुर्वते । अन्ये तूपकारमनपेक्ष्यैवोपकर्तारः सुहृत्पदाभिधेयाः । अपरे तु उपकारिणामनुपकारिणां च न समर्पयन्ति । एते तु द्विधा सम्भाव्या अकृतघ्ना उदासीनाश्चेति । तत्र भवान् अकृतघ्नेषु वा उदासीनेषु वा प्रविशति । यतोऽनन्यभक्त्या भजमानानां विजने त्यजनं कृतवानिति यतोऽत इति भावः ॥ १६ ॥
श्रीभगवानुवाच—
मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते ।
न तत्र सौहृदं धर्मः स्वार्थं तद् वित्त नान्यथा ॥ १७ ॥
पदरत्नावली
स्वचरणरेण्वनुरक्तहरिणाक्षीः प्रति हरिरुत्तरमुदीरयितुमारभते मिथ इति । हे सख्यः ये मिथो, भजतोऽनुभजन्ति ते स्वार्थे स्वप्रयोजने एव एकान्तो नियत उद्यमो यत्नो येषां ते स्वार्थैकान्तोद्यमा हि यतस्ततस्तत्र तेषु सौहृदमनिमित्तस्नेहलक्षणो धर्मो न नास्ति किन्तु स्वार्थमेव मिथो भजन्तीति तद् वित्त जानीध्वम् । अन्यथा नेति वित्तेत्यन्वयः ॥ १७ ॥
सत्यधर्मीया
एवं सारसाक्षीभिरधिक्षिप्तः स्वयमुत्तरं वक्तुमारभते ॥ मिथ इति । परस्परं भजतोऽनुभजन्ति ये हे सख्यस्ते स्वार्थैकान्तोद्यमाः स्वार्थ एवोपकृतोपकारप्राप्त्यर्थ एकान्तो नियत उद्यमो यत्नो येषां ते तथा । हि यतस्ततस्तत्र तेषु सौहृदमनिमित्तस्नेहरूपो धर्मो न नास्ति स्वार्थं तदित्यन्यथा नेति च वित्त । यद्वा स्वार्थैकान्तोद्यमा हे सख्य इति सामानाधिकरण्यम् । ते यूयमित्यन्वयः । त इति निर्देशेनाग्निपुत्रत्वं तासां द्योत्यते । हिते हितादिविषये वा । तत्र सौहृदं धर्मो न किन्तु स्वार्थमेव परस्परं भजन्तीति तद्वित्त । अन्यथा नेति वित्तेत्यन्वयः । अतो न स्वार्थैकान्तोद्यमाः स्वार्थं वित्तेत्यनयोः पौनरुक्त्यमिति मन्तव्यम् ॥ १७ ॥
सुमनोरञ्जिनी
सत्यमेवं चतुर्विधा जना इति । तथापि नाहं गणनीय इति भावेन परिहरति ॥ मिथ इति ॥ हे सख्यः ये जना मिथः परस्परं भजन्ति उपकारप्रत्युपकारलक्षणां सेवां कुर्वन्ति ते स्वार्थैकान्तोद्यमाः स्वप्रयोजनमात्रनियतोद्योगाः । तत्र तेषु सौहृदम् अनिमित्तस्नेहो नास्ति । मास्तु स्नेहो ऽपि तु परोपकरणं पुण्यसाधनं भवत्वित्यत उक्तम् ॥ धर्मोऽपि न भवतीति ॥ किन्तु तेषां तद् उपकारप्रत्युपकारलक्षणं कर्म स्वार्थं स्वप्रयोजनार्थमिति वित्त जानीत । वेतनसेवावत् । अत्र मिथ इत्युक्त्या इदं ध्वन्यते । यदि फलाकांक्षयाऽस्मान्भजत तर्हि यूयमपि स्वार्थमात्रोद्यमा इति गतं युष्मास्वपि सौहृदमिति ॥ १७ ॥
भजन्त्यभजतो ये वै करुणाः पितरो यथा ।
धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः ॥ १८ ॥
पदरत्नावली
ये अभजतः स्वानसेवमानान् भजन्ति ते यथा पितरस् तोकसेवामनपेक्ष्य तत्त्राणकरणशीलास्तथा करुणाः कृपणप्राणिनो दृष्ट्वा करुणयन्तीति ते तथा । अत्रैतादृशेषु जनेषु धर्मो निरपवादो निर्दोषः सौहृदं च निरपवादम् । उत्तमाधिकारिलक्षणमेतत् ॥ १८ ॥
सत्यधर्मीया
अभजतः स्वानसेवमानान्ये भजन्ति ते यथा पितरः पुत्रसेवामनपेक्ष्य तत्त्राणकर्तारस्तथा करुणाः करुणयन्तीति ते तथा । अत्रैतादृशेषु जनेषु हे सुमध्यमाः शोभनमध्यप्रदेशयुता वामाक्ष्यो धर्मश्च निरपवादो निर्दोषः सौहृदं च निरपवादमिति विपरिणतमन्वेति । उत्तमाधिकारिलक्षणमिदम् ॥ १८ ॥
सुमनोरञ्जिनी
हे सुमध्यमाः । ये करुणाः करुणयन्ति प्राणिनो दृष्ट्वा द्रवीभूतहृदया भवन्तीति तथोक्ता जनाः, अभजतोऽपि भजन्ति फलदानेनोपकुर्वन्ति । तत्र दृष्टान्तः पितरो यथेति ॥ अभजतोऽपि बालान् पितरो यथोपकुर्वन्ति तथेत्यर्थः । अत्र एषु जनेषु । निरपवादो ऽप्रतिषिद्धः निरुपाधिको वा धर्मः सौहृदं चास्तीति वित्तेति पूर्वेणान्वयः ॥ १८ ॥
भजतोऽपि न वै केचिद् भजन्त्यभजतः कुतः ।
आत्मारामा ह्याप्तकामा ह्यकृतज्ञा गुरुद्रुहः ॥ १९ ॥
पदरत्नावली
तृतीयकल्पे द्विविधाधिकारिलक्षणमाह भजतोऽपीति । केचित्तु भजतोऽपि फलकामनया सेवमानानपि न भजन्ति । अभजतो न भजन्तीति कुतो वाच्यम् । ते चात्मारामा आत्मनि परमात्मन्येवारमन्त इत्यसम्प्रज्ञातसमाधिस्था आप्तकामाः पूर्णकामाः । आत्मारामत्वेन अन्यभजनादिबाह्यज्ञानशून्यत्वमाप्तकामत्वेनान्यभजनादिना स्वप्रयोजनाभावश्चासूचि । तस्माद् भजतोऽभजतश्च न भजन्तीति यावत् । केचित्तु स्वशरीरपोषणपरायणा भजतोऽपि स्वान् सेवमानानपि न वै भजन्ति । अभजतो न भजन्तीति कुतो वाच्यम् । ते च कृतं परकृतमुपकारं न जानन्तीत्यकृतज्ञा गुरुभ्यो महात्मभ्यो द्रुह्यन्तीति गुरुद्रुहश्चेत्युच्यन्ते । आद्यहिशब्दो हेतौ, द्वितीयहिशब्द उक्तार्थे लोकप्रसिद्धिप्रकाशकः ॥ १९ ॥
सत्यधर्मीया
तृतीयकल्पे द्वयमधिकारिण इत्याह ॥ भजत इति । भजतो जनानपि न भजन्ति । अभजतो न भजन्तीति कुतो वाच्यम् । ते चात्मारामा आत्मनि भगवत्यारमन्त इत्यसम्प्रज्ञातसमाधिस्था आप्तकामा इत्यभजने पूर्णकामनाहेतुमाह । द्वितीयकोटिमाह । केचिद्भजतोऽपि न भजन्ति वै । अभजतो नेति कुतो वक्तव्यम् । ते च किंरूपा इत्यतो निरूपयति । कृतं परकृतमुपकारं न जानन्तीति ते तथा । गुरुद्रुहो गुरुभ्यो महात्मभ्यो द्रुह्यन्तीति ते तथा हि प्रायेणैवमेव जन इति प्रसिद्धौ । यतो न भजन्ति तत आत्मारामा आप्तकामाः पुनर्यतो भजतोऽपि न भजन्त्यतोऽकृतज्ञा गुरुद्रुह इति वा । विपर्ययेण यत आत्मारामाद्या यतश्चाकृत-ज्ञाद्यास्ततश्च भजतोऽपि न भजन्तीति वा ॥ १९ ॥
सुमनोरञ्जिनी
नोभयांश्च भजन्त्यन्य इत्यनेनोक्ता अपि द्विविधा इत्याह ॥ भजतोऽपीति ॥ केचिद् भजतोऽपि प्रत्युपकारेच्छया भजमानानपि जनान्न भजन्ति, अभजतस्तु भजन्तीति कुतः । ते के इत्यत आप्तकामा मुक्ता इति भावेनाह ॥ आत्मारामा इति । आत्मन्येव रमन्त इत्यात्मारामा बाह्यविषयेष्वनासक्ता इत्यर्थः । तदपि कुतः । यत आप्तकामा अवाप्तपरमानन्दाः । न केवलं ज्ञानिनस्तथाभूताः किन्तु अकृतज्ञाश्च तथाविधा इत्याह ॥ अकृतज्ञा इति ॥ १९ ॥
नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तयो यथा ।
तथैव मत्तः फलसम्पदः स्युरुच्चावचाः कल्पतरोरिवार्थिनाम् ॥ २० ॥
पदरत्नावली
नाहमेतेष्वेकतमः किन्त्वियं लौकिकी रीतिरित्यात्मनो लोकवैलक्षण्यविशेषं प्रकाशयति नाहमिति । तुशब्दो हरेर्लोकवैलक्षण्यविशेषप्रकाशकः । हे सख्योऽहं भजतोऽपि जन्तून् न भजामि । तदानीमेव फलदाने मदादिनाऽधःपतनं नानुभवेदिति भावेन तदिच्छया तत्काले फलं न ददामीत्युक्तम् । ‘यमेवैष वृणुते तेन लभ्यः’ इति श्रुतिः । न केनचिदप्यन्येन पूर्णकामस्य मे प्रयोजनमस्ति किन्तु तत्तज्जनानुजिघृक्षयैवेति यावत् । नानासेवानां फलं निश्चितमेवेत्याशयेनाह अमीषामिति । अमीषां नानाजनानामनुवृत्तयः सेवा यथायथा स्युस्तथातथा मत्त उच्चावचास्तत्तद्योग्यतानुसारेणानेकप्रकाराः फलसम्पदः स्युरेव । अर्थिनां फलयोग्यानामधिकारिणां कल्पतरोरिव अर्थिभ्यः प्रयोजनरहितात् कल्पवृक्षाद् यथा फलानि भवेयुस्तथेति ॥ २० ॥
सत्यधर्मीया
नाहमेतेष्वेकतमः किन्त्वियं लौकिकी रीतिरिति ताः प्रति स्वस्थितिं कथयति ॥ नाहमिति ॥ हे सख्योऽहं भजतोऽपि जनान्न भजामि मदो भवेदिति तत्काले न भजामीति वचनम् । क्रमादभजनं तज्जनानुजिघृक्षयैव । फलं तु निश्चितमिति वदति ॥ अमीषामिति ॥ अमीषां यथाऽनुवृत्तयः सेवाः स्युस्तथा मत्त एव फलसम्पद उच्चावचाः स्युरेव । तत्र व्यतिरेकं निदर्शनमाह ॥ नार्थिनां कल्पतरोरिवेति । स च योग्यतायोग्यताविचाररहितः स्वार्थिजनमनः-सङ्कल्पितमेव यच्छति न त्वसङ्कल्पितमहं तु न तथेति । उच्चावचास्तत्तद्योग्यतानुसारेणानेकप्रकाराः ।
तथा च नीतिकारः । ‘‘सौन्दर्यं भुवनत्रयेऽपि विदितं सम्भूतिरम्भोनिधेर्वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः । इत्थं दातृगुरोर्गुणास्सुरतरोः सर्वेऽपि लोकोत्तराः स्यादर्थिप्रकरार्थतर्पणविधावेको विवेको यदि’’ इति । न भजामि ततः प्रत्युपकृतिं न वाञ्छामि तत्रान्वयनिदर्शनं वा । कल्पतरुर्नार्थिभ्यः स्वयं किञ्चिदपेक्षत इति ॥ २० ॥
सुमनोरञ्जिनी
अहं तु भजतः फलार्थितया सेवमानान् । अपिशब्दादभजतोऽपि जन्तून् न भजामि स्वप्रयोजनोद्देशेन न तदिच्छानुसारिफलं दास्यामि । अपि तु अमीषामनुवृत्तयः सेवा यथा तथैव मत्त उच्चावचाः फलसंपदः स्युः । सेवानुरूपं तदधिकारियोग्यमेव फलं दास्यामीति भावः । तत्र दृष्टान्तः ॥ अर्थिनां कल्पतरोरिवेति । यादृशी भावना यस्य सिद्धिर्भवतीति भावः
॥ २० ॥
यथाऽधनो लब्धधने विनष्टे तच्चिन्तयाऽन्यं निभृतं न वेद ।
एवं मदर्थार्पितलोकवेदस्वानां हि वा मय्यनुवृत्तयोऽबलाः ॥ २१ ॥
मया परोक्षं भजता तिरोहितं १सासूयितुं नार्हथ मां प्रियं प्रियाः ॥ २२ ॥
पदरत्नावली
भगवान् गोपीनां सेवास्तवनव्याजेन स्वोपासनाप्रकारं दर्शयति यथेति । यथा अधनः प्राग् दरिद्रो दैवाल्लब्धधने तस्करादिद्वारा विनष्टे तच्चिन्तयाऽन्यं निभृतं पुरोवर्त्यन्यद् वस्तु न वेद, तथा मदर्थार्पितलोकवेदस्वानां मदर्थं मामुद्दिश्य अर्पिते लोकवेदस्वे लौकिककर्मवैदिक-कर्मलक्षणसर्वस्वे यासां तास्तासां वोऽनुवृत्तयः सेवालक्षणा उपासनाद्या मयि मय्येव स्युः । हिरवधारणे ॥
तर्हि किमर्थमन्तर्धानमिदमित्याशङ्क्याभिधत्ते मयेति । मया किञ्चिद्व्यवधानेन परोक्षं भजता परोक्षमुपकारं कुर्वता तिरोहितं तिरोधाय स्थितम् । हे प्रियाः प्रियं मां सासूयितुम् असूयासहितं कर्तुं नार्हथ । सासूयितुमित्यत्र ‘मयूरव्यंसकादयश्च’ इत्यनेन समासः ॥ २१,२२ ॥
सत्यधर्मीया
स्वतिरोधानमेतदर्थमिति ताः प्रति प्रोच्य स्वोपास्तिरेवं कर्तव्येत्यर्थात्सूचय-न्स्तावयितुं लौकिकीं काञ्चिद्घाटीमाटीकमानः सत्सम्माननं कुर्वन्नेवेश्वर ईरयति ॥ यथेति ॥ अधनः प्राग्दरिद्रो दैवाल्लब्धधने प्राप्तद्रव्ये पुनर्विनष्टे चोरादिद्वारा तच्चिन्तया जनोऽन्यन्निभृतं धनभिन्नं क्षीरादिपूर्णकलशादिकं न वेद तदितरत्रादरादिति भावः । तथा हि तत्त्वनिर्णयटीकायाम् । यो हि यत्रादरवांस्तस्यैव तद्वस्तु विद्यमानमपि स्फुरति न त्वत्रानादरवतोऽन्यत्रादरवतश्चेत्यनुभवसिद्धमिति । निभृतं स्वगृहीतमेवं तथा मदर्थार्पितलोकवेदस्वानां मद्रूपेऽर्थे विषयेऽर्पिताः समर्पिता लोको लौकिको वेदो वैदिकः स्वं द्रव्यं ज्ञातयो वा याभिस्तासां वो युष्माकमनुवृत्तय उपासनाद्या मयि मय्येवाबला अन्यत्रापरिवर्तमाना नष्टधनस्य धनचिन्तया तस्य यथा नान्यज्ज्ञानं तथा भवदनुवृत्तयोऽपि मत्तोऽबलाः । सत्येवं तिरोधानं माधव कुत इत्यतोऽभिधत्ते ॥ मयेति ॥ मया किञ्चिद्व्यवधानेन परोक्षमेवं भजता तिरोहितम् । परोक्षमपि मां भजतेति । अतिरोहितमीषत्तिरोहितमिति वा । सासूयितुमसूयासहितं कर्तुम् । सुप्सुपेति वा मयूरव्यंसकादित्वाद्वा समासः । हे प्रियाः प्रियं मां नार्हथ । भार्यामीर्ष्यति मैनामन्योऽद्राक्षीदित्यादिवद्यं प्रतीत्यविवक्षणाद्द्वितीया । सासूयितुं माऽर्हथ तत्प्रियं प्रिया इति पाठस्तु स्फुटार्थः । समसूयितुं सासूयितुं वेति केचित् । सर्वा अपि मिलित्वेति तदर्थः ॥ २१,२२ ॥
सुमनोरञ्जिनी
एवं चेद्भवान् किमस्माभिर्भवत्सेवैव न कृता । यतस्त्वयाऽन्तरधायीत्यतो नेति भावेन तदीयसेवां स्तुवन्नन्तर्धाने निमित्तमाह ॥ यथेति । लब्धधने विनष्टे तच्चिन्तया अन्यन् निभृतमत्यन्तं न वेद न जानाति । युष्मदनुवृत्तयः मद्विषयाः सेवा अपि । एवम् अनन्यविषया इत्यर्थः। कुत इत्यत उक्तम् ॥ मदर्थेति । मदर्थे मद्रूपेऽर्थे । अर्पितं समर्पितं लोकवेदस्वं लौकिक-वैदिकसर्वस्वं यासां तासाम् ॥ एवं चेदन्तर्धाने किं निमित्तमित्यतस्तदाह ॥ मयेति । परोक्षम् अव्यक्तत्वम् । भजता भजनशीलेन । ताच्छीलिकोऽयं प्रत्ययः । तिरोहितम् अन्तर्हितम् । मम परोक्षस्वभावत्वादन्तर्धानमिति भावः । अतः हे प्रियाः प्रियं मां सासूयं मन्तुं नार्हथेत्यन्वयः
॥ २१,२२ ॥
न पारयेऽहं निरवद्यसंयुजां सुसाधुकृत्यं विबुधायुषाऽपि वः ।
यो मां भजेद् दुर्जरदेहशृङ्खलाः संवृश्च्य वृद्धिं प्रतियाति सोऽधुना ॥ २३ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे त्रिंशोऽध्यायः ॥
पदरत्नावली
दिव्यज्ञानभक्तिपरागभरितनिजनिर्मलहृत्कमलमालाभिः स्वपादपद्मपूजनलोलुपानां गोपीनां विषयेऽनुग्रहविशेषं प्रकाशयति नेति । विबुधानामायुषाऽप्यहं निरवद्यसंयुजां निर्दुष्टमनोयोगवृत्तीनां वः सुसाधुकृत्यं समुचितप्रत्युपकारकृत्यं कर्तुं न पारये न शक्नोमि । न केवलं प्रियासु युष्मास्वनुग्रहविशेषः, कस्मिंश्चिन्निर्व्याजभक्त्या भजमानेऽपि स्यादेवेत्यभिधत्ते यो मामिति ॥ यो जनः पुरुषः स्त्रीजनो वा मां भजेन् मामुद्दिश्य निर्व्याजभक्त्या उपासीत सो जनोऽधुनाऽस्मिन् जन्मन्येव दुर्जरदेहशृङ्खला भक्तिज्ञाने विना जरयितुं शिथिलीकर्तुमशक्यान् लिङ्गशरीरलक्षणनिगडान् संवृश्च्य सञ्छिद्य । ‘ओ व्रश्चू च्छेदने’ इति धातुः । वृद्धिं स्वरूपानन्दोद्रेकलक्षणां प्रतियाति । ‘तस्य तावदेव चिरम्’ इत्यादिश्रुतेः । यद्वा दिह्यते उपनीयत इति देहः स्नेहः । ‘देहः कलेवरे
स्नेहे’ इत्युत्पलमाला । दुर्जरा दुरुच्छेदाः कलत्रपुत्रमित्रादिनिबद्धस्नेहलक्षणाः शृङ्खलाः संवृश्च्य यो मां भजेत् सेवेत सोऽधुना सद्य एव भक्तिज्ञानादिसाधनसामग्रीलक्षणां वृद्धिं प्रतियातीत्यन्वयः ॥२३॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे त्रिंशोऽध्यायः ॥
सत्यधर्मीया
रतिसमयत्वात्ताः प्रोत्साहयति ॥ नेति । निरवद्यसंयुजां निरवद्यं यथा संयुजन्त इति निरवद्यसंयुजस्तासामकुटिलसंयोगवतीनां वो विबुधायुषाऽपि सु साधुकृत्यं न पारये भवत्कृतं प्रतिकृत्वा न पारयितुं शक्तः । यो जनः सत्यो वा मर्त्यो वेति जनो मां भजेत्सो दुर्जरा जरयितुं रीत्यन्तरेणासुसाधादेहरूपशृृङ्खला निगडान्संवृश्च्य । वो वृश्चू छेदने । सञ्छिद्याधुना सद्य एव वृद्धिं स्वरूपानन्दाद्यां प्रतियाति । तस्य तावदेव चिरमिति श्रुतेः । दुर्जरदेहो दिह्यत उपनीयत इति देहः स्नेहस्तद्रूपशृृङ्खलाः संवृश्च्य यो भजेत्सोऽधुनैव वृद्धिं मुक्तिं प्रयातीति वा । एष्यन्निश्चयादेवमुक्तिः । आन्तरङ्गिको भावस्तु भगवतो वो विबुधायुषाऽपि दैवात्प्राप्तेन तेनापि यत्कृत्यं कर्म तन्निरवद्यस्य मम संयुजाम् । सम्पदादित्वात्क्विप् । बहुवचनमाद्यर्थे । सङ्गादीनां सु साधु सम्यक् साध्विति पर्याप्तमिति वक्तुं न पारये न शक्नोमि । अल्पीयसी सत्कृतिः फलमनल्पमिति । मद्भजनस्यायमाजनीनः स्वभाव इत्याह ॥ य इति ॥ २३ ॥
॥ इति श्रीभागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे त्रिंशोऽध्यायः ॥ १०-३० ॥
सुमनोरञ्जिनी
निरवद्यसंयुजां निर्दुष्टानां संयुजां सखीनाम् । निर्दुष्टमनोयोगवतां वा । वः युष्माकम् । साधुकृत्यं प्रत्युपकारलक्षणं कर्तुम् । विबुधानां देवानामायुषापि न पारये न शक्नोमीत्यनेन परमानुग्रहः सूचितः । एवमेव यः पुरुषः मां भजेत् स दुर्जरदेहः जरयितुमशक्यदेहः शृृङ्खला लिङ्गशरीरलक्षणाः । संवृश्च्य छित्वा परमां वृद्धिं मौक्तानन्दवृद्धिं प्रतियाति । न केवलमामुष्मिकीं किन्तु अधुनापि ऐहिकीमपि वृद्धिं प्रतियातीति ॥ २३ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्यां त्रिंशोऽध्यायः ॥ १०-३० ॥