०४ एकोनत्रिंशोऽध्यायः

जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा साधु तत्र हि

॥ अथ एकोनत्रिंशोऽध्यायः ॥

गोप्य ऊचुः—

जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा साधु तत्र हि ।

दयित दृश्यतां १त्वां दिदृक्षतां त्वयि धृतासवस्त्वा२ विचिन्वते ॥ १ ॥

पदरत्नावली

निश्चलामलभक्त्यैकलभ्यो भगवान् वासुदेव इत्यर्थं प्रतिपादयितुं यमुनापुलिने गोपीभिः कृतं गीतं वर्ण्यतेऽस्मिन्नध्याये । गोपवराङ्गना निजनिर्मलान्तःकरणेषु प्रतिबिम्बितं कृष्णं सम्बोध्यैवमगायन्नित्याह जयतीति ॥ हे दयित प्रेष्ठ कृष्ण ते जन्मना प्रादुर्भावेन व्रजो गोकुलमधिक-मत्यन्तं जयति उत्कर्षेण वर्तते । अत्र हेत्वन्तरं चाहुः श्रयत इति ॥ तत्र व्रजे, ‘इदि परमैश्वर्ये’ इति धातोर् इन्दिम् ऐश्वर्यं राति ददातीति नित्यैश्वर्यरूपत्वादिन्दिरा श्रीः श्रयते आश्रयते हि यस्मात् तस्माच्चेत्यर्थः । प्राणादिभ्योऽपि त्वयि प्रेमप्राचुर्ययुक्तानां भक्तानां भवता दृग्गोचरणं भवितव्यमिति निवेदयन्ति दृश्यतामिति ॥ यस्मात् त्वयि गतासवः समर्पितप्राणास् त्वा त्वां विचिन्वते मृगयन्ते तस्मात् त्वां दिदृक्षतां द्रष्टुकामानां नः दृश्यतां त्वया दृग्विषयत्वमाप्यतामित्यर्थः ॥ १ ॥

सत्यधर्मीया

बिम्बाधराश्चित्ते प्रतिबिम्बितं सम्बोध्यैवमगायन्गोविन्दमित्याह ॥ गोप्य ऊचूरिति ॥ हे दयित प्रेष्ठ कृष्ण ते जन्मना प्रादुर्भावेन व्रजो गोकुलं गतम् । अधिकमत्यन्तं जयति उत्कर्षेण वर्तते । जन्मापि न कर्मायत्तमित्याहुः । जन्म लोकवज्जन्म न आव्रजः स्वेच्छयाऽऽगतवानसीति । तत्र तन्त्रमाहुः । अधिकं चतुर्मुखे । विभक्त्यर्थेऽव्ययीभावः । अग्भावो गौणं चाधिकरणत्वम् । प्रार्थनार्थं प्राप्तवति सति त्वमाव्रज इति जन्मना व्रजो जयतीत्यप्यन्वयो वेति । जिः प्राप्त्यर्थकस्तु धनजिते स्वर्जित इत्याद्यावेदिताः । यतस्ततस्तत्र साधु इन्दिरा रमा श्रयते । त्वा दिदृक्षतां द्रष्टुमिच्छतां जनानां भवान्दृश्यतां प्रत्यक्षीभवतु । ते च कीदृशा इत्यत ईदृशा इति मृगदृशो दर्शयन्ति ॥ त्वयीति ॥ त्वयि धृता असवः प्राणा येषां ते त्वां विचिन्वते मार्गयन्ति । अतस्तत्प्रत्यक्षीभवनं भवतो युक्तं तत्कुर्विति भावः । दिदृक्षतामिति पुंस्त्वेन, त्वां विचिन्वत इति परोक्षनिर्देशेन ताः स्वदेवताभावं ध्वनयामासुरिति ज्ञेयम् । परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष इत्यादेः । अनङ्गवशतोऽङ्गस्मरणाभावात्का त्वं चिकीर्षसि वने मुनिवर्य शैल इत्यादिवदुक्तिर्वा । दिदृक्षन्त्यश्च दिदृक्षन्तश्चेत्येकशेषेण स्वत्वादिकं सङ्गृह्य प्रोचुरिति वा । पुमांस्त्रियेत्येकशेषः । कार्यतोऽकामिनीप्राया वयमित्येवमवदन्निति वा । हे तत्र त्रायत इति तत्रेति सम्बोधनं वा । एकतकारद्वितकारयोः श्रवणे विशेषाभावादिति ज्ञेयम् । विस्तृतं चैतद्भाष्य-दीपिकायुक्तिवात्यायामस्मत्कृतायां भाष्यकैय्यटशेखराद्युदाहृत्यानुसन्धेयम् ।

हे ज अस्मज्जयशालिन् । ज यतिता इधिकं जन्म न व्रज आ इन्दिरा साधु तत्रेति पदानि । जो जेतरीति विश्वः । जगज्जनकेति वा । जनकस्यात्ययो जातिरित्यादेः । ननु विरक्तस्य मम किमासक्त्येत्यत आहुः । ते यतिता सन्यासित्वं नेति । इधिकम् इर्विधिर्वा कामो वा धीयतेऽस्मिन्निति गर्भे तद्वच्छ्रीतत्त्वं रमाऽस्यामिति वा । अधिकरणे किः । गर्भधिमित्यादिवत् । तेन तया वा कं सुखं तस्य तस्या वा कं सुखं यस्मात्तं त्वा दिदृक्षतामित्यन्वयः । ते जन्म मुख्यं न किन्तु त्वमेवेच्छयाऽव्रज इन्दिरया प्रविष्टयाऽन्तरधुतेनातिरस्कृत्या सहित इति इन्दिरासाधुतोऽयं स्त्रीजनस्तं त्रायत इति तत्सम्बोधनम् । सत्सु लसत्सु मल्लुलोकयिषा योषाणां कुत इत्यतोऽप्याहुः । भवान्दृश्यतां सुन्दरतां श्रयते हि यतस्तत इति । इन्दिरा च धृतासवः प्राणायामादिपराः, धृता आसवा यज्ञा येन सोऽपि आव्रजो निवासत्वेनास्तीति स तज्जनश्च त्वां विचिन्वत इत्यप्यन्वयः । प्रायः प्रतिपाद-मनुप्रासोत्तरा प्रथमाक्षरप्रासश्च ज्ञेयम् । तदवबादीनां सावर्ण्यान्न प्रासभङ्ग इति च मन्तव्यम् । त्रिष्टुप्छन्दस्येकादशाक्षरवृत्तेषु नगणरगणद्वयलघुगुरुकवृत्तमेतन्नामेति नोक्तं तदाकर इदं निबन्धनेन हरिवृत्तदुर्ज्ञेयतां ध्वनयतीति मन्तव्यम् । मध्ये लघू र इत्युक्ते रगणसाजात्यं मध्यलाघवस्त्रीगणस्यापि । किञ्च रोऽग्निरित्युक्तेरयमपि विरहानलव्यापिकलेवर इतीदानीं दानवारिः सर्वप्रकारेण लाघवं स्वादर्शनाभिमर्शनतो ददौ तस्येति, च प्रसादे सति लघुभूतस्यापि तस्य दास्यति गोविन्दो गौरवमिति ध्वनयितुं ग्रन्थकृन्नगणरगणद्वयलघुगुरुयुक्तवृत्तविशेषतो गीतविशेषं न्यभांत्सीदिति भावः ॥ १ ॥

सुमनोरञ्जिनी

(अत्र सुमनोरञ्जिनीव्याख्यायां कतिचनभागः नोपलब्धः)

विरोधोद्धारः— जयतीति । हे ॥ दयित । प्रिय । त्वा दिदृक्षतां नस्त्वया दृश्यतां दृग्विषयीभवितव्यम् इति यथाश्रुतयोजनायाम् अत्र न इति अस्मच्छब्दादेशेन गोपीनामेव विवक्षितत्वाद् दिदृक्षतामिति पुल्लिङ्गं बाधितं स्त्रियां तु दिदृक्षतीनामिति भवेत् । तथा च त्वयि धृतासव इत्यत्रापि वयमिति विशेष्यं न युज्यते । विचिन्वत इत्यस्योत्तमपुरुषत्वाभावात् । तस्मादियं सामान्योक्तिः । ये ये त्वयि धृतासवः सन्तस्त्वां विचिन्वते तेषाम् । त्वा दिदृक्षतां त्वां प्रति दृष्टुकामानाम् । त्वया दृश्यतां दृग्गोचरणं भतिव्यमिति न विशेषतो गोपीनां ग्रहणम् । न च तत्कृतस्तोत्रप्रयासो वृथा स्यादिति शङ्क्यम् । सामान्यवाक्येन गोपीनामपि दृष्टुकामत्वस्य सद्भावेन निवेशयोग्यत्वात् । यद्वा । ते तव । जन्म । अधिकं सर्वाधिकं कं सुखरूपम् । अतः । जयति सर्वोत्कर्षेण वर्तते । अधिकृतम् अधिकारानुसारि कं सुखं यस्य तादृशरमामुक्तामुक्तब्रह्मादिचेतनगणं जयति । जित्वा तिष्ठति । तत्र हेतुमाहुः । हि यस्मात् । यत्तदोर्नित्यसम्बन्धेन तत्रेति बलाद्यत्रेति लभ्यते । यत्र पद्मालयादिषु । ते इन्दिरा आस्ते तत्र त्वम् । न आव्रजः न गतवानसि । व्रज गताविति हि धातुः । इदं साधु युक्तम् । रमाया अन्वेषणकर्तृत्वाभावादिति भावः । तथाऽपि त्वयि धृतासवस्त्वत्सान्निध्येनैव प्राणधारकाः सन्तः । त्वाम् । विचिन्वते अन्विष्यन्ति । त्वा त्वाम् । दिदृक्षतां दृष्टुकामानाम् । ये ये दर्शनार्थिनस्तेषां त्वम् । दृश्यतां दृष्टिविषयत्वम् । श्रय अङ्गीकुरु । अन्वेषके दर्शनदाना-भावेऽप्रशस्यतापातेन जन्मोत्कर्षवर्णनस्य वैय्यर्थ्यादिति भावः ॥ १ ॥

व्रजजनार्तिहन् वीर योषितां निजजनस्मयध्वंसनस्मित ।

भज सखे भवे किङ्करीः स्म नो जलरुहाननं चारु दर्शयन् ॥ २ ॥

पदरत्नावली

व्रजजनानामार्तिं क्लेशं हन्ति नाशयतीति व्रजजनार्तिहा तत्सम्बुद्धौ व्रज-जनार्तिहन् । वीर विगत ईरः प्रेरको यस्य स तथा । विशिष्टा इरा इच्छानुरूपं सुखं यस्य स तथेति च । ‘इच्छानुरूपं तु सुखमीरेत्येव प्रकीर्तितम्’ इत्यैतरेयभाष्ये । निजजनानामस्माकं स्मयो गर्वस्तस्य ध्वंसनं नाशकं स्मितं यस्य स तथा । हे सखे योषितामस्माकं चारु सुन्दरं जलरुहं पद्मं तत्सदृशमाननं दर्शयन् किङ्करीर्दासीर्नः स्म पत्यपत्यादीन् विहायार्धरात्रे वनं प्राप्ता इति स्मृत्वा भवे अस्मद्भद्रार्थं भज सेवस्व । भवे इति तादर्थ्ये सप्तमी ॥ २ ॥

सत्यधर्मीया

हे वीर गरुडारूढ समर्थ विगत ईरः प्रेरको यस्येति स तत्सम्बुद्धिः । वीराश्च योषितोऽस्वैरिण्यो वयं च तासामित्येकं पदं वा । व्रजजन आर्तिहन्निति छेदः । हे व्रजजन गोकुलज व्रजे जनो जननं यस्य तत्सम्बुद्धिः । वीर वीरयोषिताम् आर्तिहन् हे ज गतम् । योषितां वीरयोषितामार्तिहंश्च न व्रज एवमुपेक्ष्य क्षपायां न गच्छेति वा । अलमेतल्लीलयेति लपन्ति । निजजनानामस्माकं स्मयो गर्वस्तस्य ध्वंसनं येन तत्स्मितं यस्य, ध्वंसयतीति तद्वा तत्सम्बुद्धिः । भवे भाविमङ्गलार्थं हे सखे जलरुहवद्विद्यमानमाननं, जलरुहस्याननं चेष्टा यस्मात्तद्रूपं चारु दर्शयन्सन् किङ्करीरिति नः स्मृत्वा भज सेवस्व पालयेति यावत् । इतरेण धुनानमब्जमित्युक्तेः । विपरीतं चेच्चारु रुचा चारु भविष्यति ॥ २ ॥

शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा ।

सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥ ३ ॥

पदरत्नावली

शरदुदाशयेसाधुजातसत्सरसिजोदरश्रीमुषेत्येकं पदम् । सप्तम्या अलुगवसेयः । शरदुदाशये शरत्कालसम्बन्धिसरोवरे साधु यथाभवति तथा जातमुत्पन्नं सत्सरसिजं श्रेष्ठसहस्रपत्रं तस्योदरे गर्भे या श्रीस्तां मुष्णातीति तया शरदुदाशयेसाधुजातसत्सरसिजोदरश्रीमुषा दृशा कटाक्षेण सुरतनाथ रमणसमर्थ वरद स्वजनमनोरथपूरक अशुल्कदासिका अविक्रीतदासीर्नो निध्नतो मारयतस्ते तवेह वधो किं न भवति ? त्वच्चरणैकशरणरमणीनामस्माकं त्यागे खड्गादेरप्यधिकवधो भवेदेवेति यावत् ॥ ३ ॥

सत्यधर्मीया

शरदुदाशयेसाधुजातसत्सरसिजोदरश्रीमुषेति पदम् । शरदो ऋतो-स्तत्सम्बन्ध्युदाशयः सरस्तस्मिन्साधु यथा तथा जातं सत्सरसिजं कमलं तस्य श्रियं शोभां मुष्णाति चोरयतीति सा तया दृशा कटाक्षेण । सप्तम्या अलुगसंज्ञात्वेऽपि ज्ञेयः । हे सुरतनाथ रमणसमर्थ वरद अशुल्कदासिका अविक्रीतदासीः । अनेन स्वाभाविकता दास्यस्य सूच्यते । निघ्नतो दूरीभूततया हतवतस्तवेह वधो न किं, न शरादिः कथं कथयत । कामिन्योऽयं युष्मद्वध आयुष्मत्य इति न वद वधदृगेव तादृगिति तात्पर्यम् । असाधुजातसत्सरसिजोदरश्रीमुषा असाधूनां जातं समुदाय-स्तस्य तथा सन्ति रक्तिम्ना समीचीनानि सरसिजस्य कमलस्योद्गतान्यराणि दलानि च तेषां च या श्रीस्तां मुष्णातीति सा तया दृशा । हलन्तत्वाट्टाबन्तः शब्दः । दृगेव भवति । शरदुदाशये शरवदाचरतीति स शरद् उद्गतोऽस्मय आशयो यस्य तस्मिन्सति । सुरत शाश्वतरतिमन् । किञ्च हे शुल्कद असिश्च कश्च पावकश्चासिकौ आ सम्यगसिकौ यस्यां सा सति वा यम एव यस्यां त्वद्वियुक्तानां सैव खड्गाग्निरूपिणीति यावत् । (असिका, दृशा इत्यन्वयः । त्वद्वियुक्तानाम् अस्माकं त्वद्दृष्टिरेव खड्गाग्निरूपिणी इत्यर्थ इति भाति) को ब्रह्माऽनिलार्केषु शमने सर्वनामि्न च । पावके च मयूरे चेति विश्वः । हे वरद निघ्नतो निघ्ना अधीना नाथते एता मद्विषया भवन्त्वित्याशास्त इति ते सकाशादिह वधो न किं यथान्यासमन्वयो वा । हे सुरतनाथ ते आनन्दं तीति वै वदेदित्यादेरानन्दमूर्ते या अशुल्कदासिका वरदनिघ्नतो वरदाधीनानामस्माकं ते दृशेत्यादिकमादिवद् वधो नेह किमिति वा योजना । एतत्पक्षे सति शरदुदाशयपदेन लसति सरसिपदं सरसि, साधुजातपदं सत्पदमित्येकतरमतिरिक्तं चेति परास्तमिति मन्तव्यम् । आशिषिनाथ इत्यात्मनेपदता । अधीनो निघ्न आयत्त इत्यमरः । वरं ददातीति प्रागिदानीं वरं द्यतीति वरदेति ज्ञेयम् । दोऽवखण्डन इति स्मरणात् । शरवन्मण्डवदाचरदुदं समुद्रोदकं तत्राशेते यः स तस्मिन्निति वा । विना द्रढिमानं वारो धारणायोगात् । तद्यदपां शर आसीत्तत्समहन्यत । शरो मण्ड इति प्रोक्त इत्यादेः । अधिकरणे शेतेरित्यच् । हे नेह न विद्यत ईहेच्छा यस्याक्लिष्टकर्तः कृष्ण हे सुरत अथैवं वने वनितात्यजनानन्तरं न किं वध इत्यन्वयो वा । हे साधुजात साध्वर्थं तद्रक्षार्थमिति यावज् जात प्रादुर्भूत साधोर्नन्दगोपाज्जात तव पिता नैतादृश इति भावः । सद् यत्सरसिजं तस्योदर-मावासस्थानं यस्याः सा च सा श्री रमा तां मुष्णाति स्वविषयीकरणमेव तन्मोषणं तयेति वा का कथाऽस्माकमिति भावः। तर्हि तदा कृतदन्तनखक्षतापेक्षयाऽयमधिकृत्किं किङ्कर्य इति न वदेति च वदन्ति । रदनिघ्नतो रदैर्निघ्नंस्तस्य ते सकाशाद्वधो व वध इव किं नेति वा । इवार्थे वशब्दो वाशब्दो वा बोध्य इत्युक्तेः ॥ ३ ॥

विषजलाशयाद् व्यालराक्षसाद् वर्षमारुताद् वैद्युतानलात् ।

वृषमयाद् भयाद् विश्वतोमुखाद् वृषभ ते वयं रक्षिता मुहुः ॥ ४ ॥

पदरत्नावली

यथा पूर्वमनेकवारं महाविपद्भ्योऽस्मानरक्षीस् तथाऽधुनापि त्वद्विरहानल-परितप्तानां नो रक्षणमाशु दिशेत्याशयेन स्तुवन्ति विषेति ॥ विषजलाशयाद् विषयुक्तयमुनाह्रदात् । व्यालराक्षसाद् व्यालः क्रूरो राक्षसस्तृणावर्तस्तस्मात् । ‘व्यालः सर्पे नृपे क्रूरे श्वापदे दुष्टदन्तिनि’ इत्युत्पलमाला । वर्षयुक्तमारुतात् । वैद्युतानलादशनिपातजाग्नेः । वृषमयाद् वृषेण वत्सासुरेण मय्यते गम्यते प्राप्यत इति तस्माद् भयात् । ‘मय गतौ’ इति धातुः । किं बहुना? हे वृषभ वृषं धर्मं बिभर्तीति तथा । विश्वतोमुखाद् भयात् ते त्वया मुहुर्वयं रक्षिताः । ‘धर्मे श्रेष्ठे बले वृषः’ इत्यभिधानम् ॥ ४ ॥

दुर्घटभावदीपिका

व्यालराक्षसादित्यस्य सर्पलक्षणराक्षसादित्यर्थः । यद्यपि व्यालराक्षसा-न्नन्दगोपमोचनं भावि तथाऽपि कृष्णप्रसादान्नन्दगोपमोक्षणं ज्ञात्वा निश्चितत्वाभिप्रायेण व्यालराक्षसा-द्रक्षिता इत्यतीतप्रयोगः कृतः । एष्यत्तु निश्चितं यत्तदतीतत्त्वेन भण्यत इति वचनात् । अतो व्यालराक्षसाद्रक्षिता इत्युक्तिरुपपन्नेति द्रष्टव्यम् ॥ ४ ॥

सत्यधर्मीया

हे वनिताः । नावनं कदाऽपि मया कृतमिदानीं कुत एवमर्थनेति न स्वामिन्वद । वदामः सर्वजनीनं त्वद्रक्षणं क्षणं दिशेति शंसति ॥ विषेति ॥ विषात्मकाज्जलाशयो यमुनाह्रदस्तस्माद्व्यालः क्रूरो राक्षसस्तृणावर्तस्तस्मात् । व्यालो भुजङ्गमे क्रूरे श्वापदे दुष्टदन्तिनीति विश्वः । विषं जलाशयं यमुनाह्रदमातयति गमयति प्रापयतीति स तथा स चासौ व्यालः कालियस्तेन सहितो राक्षसस्तृणावर्तो वा बको वा तस्मादिति वा । वर्षं वृषकृतं तेन सहितस्तत्प्रहित एव मारुतस्तस्मात्तदा त्वयैव तत्प्रेरिताद्विद्युदग्नेः । वृषेण वत्सासुरेण मय्यते गम्यते प्राप्यत इति तस्माद्भयात् । अयवयपयमयचयतयणयगताविति स्मरणात् । तद्रूपादेव भयात् । यद्वा वृषश्च वत्सश्च तेन सहितो मयो जन्यजनकशब्दसाङ्कर्यान्मयपुत्रो व्योमस्तस्मादिति केचित् । वृषमयाद्भयादिति पदमेकम् । वृषश्च मयाच्च मयपुत्रो वृषमयातौ ताभ्यां भयं तस्मादिति वा । मुखं निःसारणे वस्त्र इति विश्वात्सर्वतो मुखं निःसरणं यस्य तस्माद्दवादिति शेषः । हे वृषभ ते त्वया । एवं मुहुर्वयं रक्षिता अत एतर्ह्यपि रक्षेति भावः । न च वाच्यं स्युरुत्तरपदे व्याघ्रपुङ्गवसुरर्षभकुञ्जराः सिंहशार्दूल-नागाद्याः पुंसि श्रेष्ठार्थवाचका इति किञ्चित्पदोत्तरं सतां व्याघ्रादिपदानां श्रेष्ठार्थवाचकत्ववचनात्पुंव्याघ्र इत्याद्युदाहरणात्कथं केवलवृषशब्दः श्रेष्ठवाचीति । वृषभः पुङ्गवे वृष इति नानार्थरत्नमालोक्ते रूढ्या श्रेष्ठोऽप्यर्थः । यथोक्तं तिग्मेन वृषभेण पुरोभिदित्यृग्भाष्यटीकाटिप्पणेषु । अभिनद्वृषेण प्राणेन वृषभेण वृषेण जीवश्रेष्ठेन प्राणेन वृषभः पुङ्गवे वृष इति नानार्थरत्नमालोक्तेः श्रेष्ठोऽपि वाच्य इति भाव इति । यद्वा वर्षयिताऽभिलषितमिति वृषभः । यद्वा वृष सेचनेऽस्मादभजित्यनुवृत्तौ ऋषिवृषिभ्यां किदित्यनेन (अभच्प्रत्ययः सच कित्) तस्य कित्त्वाद्गुणाभावे च निष्पन्नो वृषशब्दो योगेन वर्षयितार-माह । इदमप्युक्तं त्वमग्रे वृषभः पुष्टिवर्धनः । वृषभो वर्षणस्य कर्तेति । वृषं धर्मं बिभर्तीति वा तत्सम्बुद्धिः । वृषो धर्मे वृषः श्रेष्ठे वृषो गौर्मूषको वृषः । वृषो बलं वृषः कामो वृषलो वृष उच्यत इति नानार्थध्वनिपदमञ्जर्युक्तेर्योग्यभर्तृत्वाद्वृषभ इति वा । वृषभत इति पदमेकं वा वृषभस्य मान्धातुर्वाहनत्वे वृषभरूपेन्द्रस्य तिर्येन वायुर्वृषभरूपेणेत्युक्तेर्वायोर्वा तिर्येनेति तत्सम्बुद्धिर्वा ॥ ४ ॥

स खलु गोपिकानन्दनो भवानखिलदेहिनामन्तरात्मदृक् ।

विखनसार्चितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले ॥ ५ ॥

पदरत्नावली

गोप्यः स्वतत्त्वज्ञानं विज्ञापयन्ति स इति ॥ हे सखे सात्वतां यदूनां कुले उदेयिवान् उदयं प्राप्तः स भवान् गोपिकानन्दनः खलु यशोदासुतो न भवति । ‘निषेधे वागलङ्कारे वीप्सनेऽनुनये खलु’ इत्यभिधानम् । अत्र हेतुमुदीरयन्ति अखिलेति ॥ अखिलदेहिनामन्तरात्मा सन् पश्यतीति स तथा । विश्वगुप्तये जगद्रक्षार्थं विखनसा ब्रह्मणा अर्चितः सम्प्रार्थितः । न खल्वित्यपि पाठः ॥ तत्र खलु वाक्यालङ्कारे ॥ ५ ॥

सत्यधर्मीया

न वयमज्ञा इति विज्ञापयन्ति ॥ स इति ॥ स भवान्गोपिकाया यशोदाया नन्दनः सुतः खलु न । निषेधे वागलङ्कारे वीप्सनेऽनुनये खल्विति च । विश्वोऽपि प्रागुदाहृतः । गोपिका अस्मानानन्दयतीति स तथा स खलु इदानीं नेति वा । कुतो न यशोदासुत इत्यत आहुः । अखिलदेहिनामन्तरात्मा तम्पश्यतीति स तथा । हेत्वन्तरमाहुः ॥ विखनसार्चित इति ॥ विखना ब्रह्मा तेनार्चितः सम्प्रार्थितस्तेनेति यावत् । प्रयोजनमाहुः ॥ विश्वगुप्तय इति ॥ जगद्रक्षार्थम् । हे सखे सात्वतां यादवानां कुले भवानुदेयिवानुदयं प्राप्तः स भवान्गोपिकानन्दनः खलु निश्चय इति वा । न खल्वित्यपि पाठस्तत्र खलु वाक्यालङ्कारे । योऽखिलदेहिनां खिलो नेत्यखिलो देहः स्वरूपदेहो येषामस्ति तेषामन्तरात्मदृक् विखनसाऽर्चितश्च । खन् अवदारणेऽस्मादसुनि विगतं खनोऽवदारणं यस्य विखना अखनाश्मसम इति यावत् । तेन ब्रह्मणा । सखः सुखपूर्ण इति वा । समं खं ब्रह्मणा येन स सख इति । कं ब्रह्म खं ब्रह्मेति श्रुतेः । खं प्रकाशस्वरूपत्वात्पुनः खं सुखरूपतः । ख्यातत्वाच्चैव तत्खं स्याद्रौहिणेयस्तथाऽवददिति बृहदारण्यभाष्योक्तम् । सशब्दस्य समार्थकता प्रागुक्त्वोपपादिताऽनुसन्धेया । हे आत्मदृक् मदपरोक्षज्ञानिन् त्वं भवांस्तरेति विश्वगुप्तये सात्वतां कुले उदेयिवान् । मे चाखिलदेहिनामम् अखिलदेहिनो विध्यादयस्तेषां नामः प्रणामो यस्य सकलनमस्कृतम् । नो गोपिकाऽस्मद्यशोदा आनन्द बबन्ध स त्वं खलु नामन्तरेत्यत्र न यतिभङ्गः शङ्क्यः । तस्य क्षुद्रकाव्याभव्यताहेतुत्वात् । अर्थान्तरवर्णने सुतरामदोषत्वात् । स्पष्टं चैतत्प्रमेयदीपिकादिषु । स भवान्गावश्च पिकाश्चोपलक्षणया सन्तोषणीयसर्वग्रहास्तानानन्दयति । आकरणानुकरणादिभिः । अखिलदेहिनां मध्ये भवानन्तरा विना । आद्यर्थे बहुवचनम् । संसारादि-दुरिष्टं, सखः शुभेन्द्रियसहितः सन्नुदेयिवानिति वा । हे अखिल पूर्ण हे गोपिकानन्दन नामं प्रह्वणं भावे घञ् । नस्तरेति तर वितर पुनर्मदो न यथोदंचेत्तथा कुर्विति भावः । आत्मदृक् स्वप्रकाशः

॥ ५ ॥

विरचिताभयं वृष्णिवर्य ते शरणमीयुषां संसृतेर्भयात् ।

करसरोरुहं कान्त कामदं शिरसि धेहि नः श्रीकरग्रहम् ॥ ६ ॥

पदरत्नावली

शिष्टानां विशिष्टाभीष्टप्रदं प्रियतमं स्वाभीष्टप्राप्त्यर्थमभिष्टुवन्ति विरचितेति । हे कान्त कमनीय वृष्णिवर्य संसृतेर्भयात् ते शरणमीयुषां प्राप्तानां विरचिताभयं विरचितमभयं येन तत् तथा । कामदमभीष्टदं श्रियः करं गृह्णातीति श्रीकरग्रहं करसरोरुहं करकमलं नः शिरसि धेहि निधेहि ॥ ६ ॥

सत्यधर्मीया

स्वाभीष्टमिष्टं प्रति बोधयन्ति ॥ विरचितेति । हे कान्त कमनीय पते वा । वृष्णिवर्य । धुर्येत्यपि पठन्ति । स च वृषभपर्याय इति श्रेष्ठार्थकः । ते तव, संसृतेः सत्सङ्गरूपसंसारात्तामुद्दिश्य तथा भयादितरस्माच्छरणमीयुषां प्राप्तानां विरचिताभयं विरचितमभयं येन तत्कामदमपेक्षितदं कामो मारस्तं द्यति खण्डयतीति तत्तथेति वा । श्रीकरग्रहं गृह्णातीति ग्रहं श्रियः करस्य पाणेर्ग्रहं करस्य ग्रहो यस्य तदिति वा करसरोरुहं करकमलं नः शिरसि धेहि । संसृतेर्भयादित्यन्वयस्तु प्रस्तुतार्थानस्तुङ्कार इति ज्ञेयम् । पारमार्थिकोक्तिरयं संसार एव नेति वा । हे श्रीकर सम्पत्कर । श्रीर्विषमिदानीं करे यस्य स तत्सम्बुद्धिः । श्रीर्विषे वेषसम्पदोरिति रत्नकोशः । नो मध्ये का कामिनी मदं ग्रहं तदात्मकं पिशाचं यायादिति शेष इति वा । श्रीर्वाणीलक्ष्मीलवङ्गेषु विषे बिल्वेऽप्यथो त्रिष्विति नानार्थरत्नमाला ॥ ६ ॥

प्रणतदेहिनां पापकर्शनं तृणचरानुगं श्रीनिकेतनम् ।

फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७ ॥

पदरत्नावली

प्रणतदेहिनां शरणागतानां पापकर्शनं पापनाशकं तृणचरास्तृणभक्षका गावस्ता अनुगच्छतीति तृणचरानुगस्तं श्रीनिकेतनं रमानिवासभूतं फणिनः कालीयस्य फणास्वर्पितं ते पदाम्बुजं नः कुचेषु कृणु निधेहि । हृच्छयं कामं कृन्धि च्छिन्धि ॥ ७ ॥

सत्यधर्मीया

किञ्च प्रणतदेहिनां पापं कर्शयत्यपकर्षतीति तत्तथा । पापस्य कर्शनं यस्मादिति वा । तृणचरास्तृणभक्षकास्तत्सञ्चारिणो वा पशवस्ताननुगच्छतीति तत्तथा । श्रीनिकेतनं शोभावद्वा लक्ष्मीनिवासभूतं वा । अनेनाटनं नटनमिति ध्वन्यते । फणिफणार्पितं प्राक् शेषशीर्षार्पितमे-तर्हि कालियफणिफणार्पितम् । नः कुचेषु कृणु । अनेन फणिफणार्पणमर्पणमस्मत्कुचेषु चासङ्गस्य तव सममिति ध्वनयन्ति । किञ्च स च कञ्चुकमोचकस्तत्सङ्गेन त्वमपि तथा भवेत्यपि तेन च हृच्छयो हृदि शेत इति हृच्छयो हृच्छ्रयत इति वा हृच्छयस्तं कृन्धि हिंसय । यो नः कुचेषुनः कुचेषूनरविन्दादीषु इन्नयति प्रापयतीति स तथा तं हृच्छयमित्यावृत्त्याऽन्वय-नेनानागस्कृदनङ्ग-भङ्गप्रार्थनेत्यर्थविशेषः सूचितो भवतीति मन्तव्यम् ॥ ७ ॥

मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण ।

विधिकरीरिमा वीर मुह्यती१रथरसीधुनाऽऽप्याययस्व नः ॥ ८ ॥

पदरत्नावली

पुष्करेक्षण शतपत्रनेत्र वीर प्रेरकान्तररहित बुधानां ज्ञानिनां मनोज्ञया हृद्यया वल्गूनि मनोहरणि वाक्यानि यस्यां सा तया मधुरया सुश्राव्यया गिरा वाण्या मुह्यतीर्मोहं प्राप्नुवतीर् विधिकरीः किङ्करीरिमा नोऽस्मानधरसीधुना अधरामृतेन आप्याययस्व सञ्जीवय ॥ ८ ॥

सत्यधर्मीया

वल्गूनि मनोहराणि वाक्यानि यस्यां सा तया । मधुरया स्वयं मनोहर्त्र्या गिरा वाण्या जारनारीणामेव मनोहरता न गीरितीरयन्ति । बुधमनोज्ञया विद्यावद्धृद्यया । पुष्करेक्षण पद्मनेत्र पुष्करं पुष्कलमीक्षणं ज्ञानं वा पुष्कलानीक्षणानि नयनानि यस्य तत्सम्बुद्धिर्वा । हे वीर प्रेरकान्तररहित शूर वा । विधिकरीर्विधिमाज्ञां कुर्वन्ति तच्छीला इति विधिकर्यस्ताः । कृञो हेतुताच्छील्यानुलोम्येष्विति कृञष्टः । टित्त्वान्ङीप् । दासीर्मुह्यतीरिमाः । अधरसीधुना तद्गतरसरूप-मद्येन । मैरेयमासवं सीधुरित्यमरः । न आप्याययस्व वर्धय । स्फायी ओप्यायी वृद्धाविति स्मरणात् । प्रथमाष्टकषष्ठाध्यायद्वाविंशतिवर्गगताप्यायस्व समेतु त इत्यृग्व्याख्यावसरे वर्धस्वेति विवृतत्वात् । सेचयेत्यादि व्याख्यानं धात्वनेकार्थत्वात्सम्भवति । मुरलि मुररिपुप्रिये त्वमप्याययेत्यन्त-रङ्गतः कटाक्षयन्ति ॥ विधिकरीरिमेति ॥ विधिकरीरो हि विधिनिर्मितब्रह्माण्डघटः सोऽस्या अस्तीति विधिकरीरिणी । घटः करीरः कलश इत्यमरः । सा मा सम्पद्यस्याः सा त्वं मुरलि । तव यः स्वनस्तेन न आप्याययेति वा ॥ ८ ॥

तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् ।

श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ते भूरिदा जनाः ॥ ९ ॥

पदरत्नावली

तप्तान् जीवयतीति तं तप्तजीवनं कविभिर्ज्ञानिवरेण्यैरीडितं स्तुतं कल्मषापहं दुरितपरिहारकं श्रवणयोर्मङ्गलं येन तत् श्रीमत् समृद्धिमदाततं विस्तृतं तव कथामृतं भुवि ये जना गृणन्ति सङ्कीर्तयन्ति ते भूरिदा हिरण्यादिप्रदाः, भवन्तीति शेषः । ‘भूरि स्वर्णं जातरूपं हिरण्यं राः कल्याणं हेम रुग्मं सुवर्णम्’ इत्यभिधानम् ॥ ९ ॥

सत्यधर्मीया

ये तव, तप्तान्संसारतो, जीवयतीति, तप्तानां जीवनं येनेति वा । किञ्च कविभिरीडितं स्तुतम् । कवयो गृणन्तीत्यादेः । कल्मषापहं पापपरिहारकं श्रवणेन मङ्गलं यस्माच्छ्रवणयोर्मङ्गलं येनेति तत् । श्रीमत्समृद्धियुतमाततं विश्वविततम् । हे भूरिद सकलपुरुषार्थप्रद गृणन्ति ते । जनः पामर इति विश्वः । अजना अपामरा महान्त इति भावः । भूरि स्वर्णं जातरूपं हिरण्यं राः कल्याणं हेम रुक्मं सुवर्णमित्यभिधानम् । भूरिर्ब्रह्माच्युतेशेषु भूरिप्राज्यसुवर्णयोरिति विश्वः। तवाजना जीवन्मुक्ता इति वा ॥ ९ ॥

प्रहसितं प्रिय प्रेमवीक्षितं विहरणं च ते ध्यानमङ्गलम् ।

रहसि संविदो या हृदिस्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ १० ॥

पदरत्नावली

तर्हि कथामृतेनैव सन्तृप्यतां किमर्थमधरामृतप्रार्थनमिति चेत् तव सुहासविलासादिक्षुभितमानसा वयं तवाधरसीधुं प्रार्थयामह इत्याशयेनाहुः प्रहसितमिति । प्रिय हृद्य कुहयते विस्मापयत इति कुहक लोकविलक्षणनानाविलासप्रदर्शनादिना विस्मयावहेति यावत् । ‘कुह विस्मापने’ इति धातुः । ते प्रहसितं प्रकृष्टहासः प्रेम्णा वीक्षणं ध्यानेनापि मङ्गलं यस्मात् तद् विहरणं विहारः हृदिस्पृशो हृदयङ्गमा रहसि याः संविदः सम्भाषणादयो हि यस्मान्नोऽस्माकं मनः क्षोभयन्ति तस्मादधरसीधुनाऽऽप्याययस्वेति पूर्वेणान्वयः । ‘संविद् युद्धे प्रतिज्ञायां सङ्केताचार-नामसु । सम्भाषणे क्रियाकारे विज्ञाने तोषणेऽपि च’ इति वचनात् सम्भवदर्थोऽत्रावगन्तव्यः

॥ १० ॥

सत्यधर्मीया

अधरसीधुनाप्याययस्वेत्यनन्तरमेव प्रहसितमित्यादि कथनीयम् । मध्ये मद्विरहदहने उज्वलति कथमुज्वलाङ्ग्य इयल्लवं जीवनं युष्माकमित्यतः पारोक्ष्येण तव कथामृत-मित्याद्युक्त्वा तेनैवास्मदवस्थानमित्यर्थात् सूचयित्वा पुरा रचितमच्युताधरसुधाया अवितरणे क्षोभक-मिदमिति वदन्ति । हे कुहक प्रणयकोपेन कुहकेत्युक्तिरित्यन्तःप्रतिबिम्बितसम्बोधनम् । अन्तरर्थस्तु नो कुहकेति । प्रहसितं ते हासः । प्रेमवीक्षितं स्नेहपूर्वकमीक्षणं ध्यानमङ्गलमित्यविपरिणतं, विपरिणतं सद्यथायथमन्वेति । विहरणं क्रीडा । हृदिस्पृशो हृदयङ्गमाः । हृद्युभ्यामित्यलुक् । रहसि याः संविदः सम्भाषणानीत्येतदादयो हि यतो नोऽस्माकं मनः क्षोभयन्ति । संविद्युद्धे प्रतिज्ञायां सङ्केताचारयामसु । सम्भाषणे क्रियाकारे विज्ञाने तोषणेऽपि चेत्युक्तेस्सम्भवदर्थो ग्राह्यः । क्षुभ सञ्चलने । चालयन्त्यन्यथाकुर्वन्तीति यावत् । ततोऽधरसीधुनाप्याययस्वेत्यन्वयः ॥ १० ॥

चलसि यद् व्रजाच्चारयन् पशून् नलिनसुन्दरं नाथ ते पदम् ।

तृणशिलाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥ ११ ॥

पदरत्नावली

स्वतोऽतिप्रियत्वात् कान्तस् तत्सम्बुद्धौ कान्त । ‘हृदयं प्रियमुच्चित्कं कान्त-मित्यभिधीयते’ इत्यभिधानम् । ‘तदेतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरं यदयमात्मा’ इत्यादिश्रुतेः । हे नाथ यद् यदा पशूंश्चारयन् व्रजाच्चलसि तदा नलिनसुन्दरं कोमल-कमलादप्यतिशोभनं ते पदं शिलतृणाङ्कुरैः शिलाशकलैरिषीकादितृणाङ्कुरैश्च सीदति विशीर्णं भवतीति नो मनः कलिलतां क्षुभिततां गच्छति ॥ ११ ॥

सत्यधर्मीया

ज्ञातत्वत्स्वतन्त्रत्वानामस्माकमपि प्रेमविशेषप्रसरान्मन एवं भवति । त्वं तत्त्वतोऽकुहकोऽपि नटयसि तत्त्वमिति सुदत्यो वदन्ति ॥ चलसीति । यद्यदा व्रजात्पशूंश्चारयंश्चलसि हे नाथ ते नलिनसुन्दरं कमलकोमलं तदपेक्षयाऽपि सुन्दरं वा पदं, तृणशिलाङ्कुरैस्तत्स्पर्शेन सीदति विशीर्णं भवतीति नो मनः कलिलतां व्यग्रतां गच्छति । मम युष्माकं च कोऽनुबन्ध इति न वदेति वदन्ति ॥ कान्त रमणेति । इदानीं कृतं किं मयेत्यामयो युष्माकमित्यतोऽप्याहुः । पशूनिवास्मांश्चारयन्वनं वनं व्रजादस्मात्सङ्घाच्चलस्यन्यत्रेति । कान्त कस्य सुरतसुखस्यान्तो येन तत्सम्बुद्धिः ।

कान्तः स एव यः स्थैर्यधैर्यसौन्दर्यसागरः ।

सुखस्यान्तकरं कान्तमपरं तर्कयामहे इत्युक्तेः ।

अन्ततो गत्वा मम स्वभावोऽयमिति न गद गदाग्रजेत्याहुः । कस्य स्वरूपसुखस्याप्यन्तो निर्णयो येन तत्सम्बुद्धिः कान्तेति । अतः कौहक्यं दर्शयसीति कुहकेत्युक्तमिति भावः । हे मनःकान्त मनः कान्तोऽश्मरूपं यस्य सो भवांश्चलसीति कलिलतां गच्छत्यस्मद्व्रज इति वा । कान्तोऽश्मनि प्रिय इति विश्वः । निवृत्ताः किल ललना इति न लप यदुपेत्यप्याहुः । नो मनः कलिना तन्नामकद्रुमेण सहिता लता माधवी तदादिकमेव मार्गणार्थं पुनर्गच्छतीति वा । लता कस्तूरिकायां तु माधवीद्रुमयोरपीति विश्वः । भूतावासः कलिद्रुम इत्यमरः । मनःकान्त मनोहर यदा व्रजात्पशूंश्चारयंश्चलसि तदा तथाऽपि ते पदं नलिनसुन्दरमेव । नः पदन्तु तृणशिलाङ्कुरैः सीदतीति भवान्कलिलतां न गच्छतीति वा कुहकेति । कलिं स्वभावतो लान्त्याददत इति कलिला-स्तेषां भावस्तां नाथ भवान्गच्छतीति कुहकेति वा । यद्यनुप्रासनैर्भर्यं तर्हि शिलतृणेति पाठस्तत्र शिलाः सन्त्यमीष्वित्यर्श आद्यचि शिलानि तृणानि चाङ्कुराश्च तैरित्यर्थः । हे कान्त नो मनः, कलिलानां स्वीकृतकलहानां भावस्तां गच्छतीति वा । कलिः स्यात्कलहे शूर इति विश्वः । ते पदं मम मनो नाथते आशास्ते । आशिषि नाथ इति वाच्यमिति वार्तिकादात्मनेपदता ॥११॥

दिनपरिक्षये नीलकुन्तलैर्वनरुहाननं बिभ्रदावृतम् ।

वनरजस्वलं दर्शयन् मुहुर्मनसि नः स्मरं वीर यच्छसि ॥ १२ ॥

पदरत्नावली

हे वीर दिनपरिक्षये सन्ध्याकाले, वनादागच्छन्निति शेषः । नीलकुन्तलै-र्नीलालकैरावृतं वनरुहाननं मधुकरनिकरावृतसरसीरुहवद् विद्यमानमाननं बिभ्रद् वनरजस्वलं वनभूमौ यद् गोरजस्तद्युक्तं च दर्शयन् नो मनसि स्मरं कामं मुहुर्वारंवारं यच्छसि ॥ १२ ॥

सत्यधर्मीया

कलिलमन्यत्रागच्छन्नो मनस्त्वत्कृतस्मृतिमदिति त्वमित्थं तनोषि स्मृत इति वदन्ति ॥ दिनपरिक्षय इति ॥ सायंसमये । नीलकुन्तलैर्नीलालकैः । एत एव त्वद्विरहे रहः कुन्तहस्तवद्विद्यमाना इति ध्वनयितुं श्यामलालकैरित्यनभिदधाना अभ्यधुः कुन्तलैरिति मन्तव्यम् । कुन्तलः केशपर्यायः कुन्तहस्तवच्च कुन्तल इत्यनेकार्थध्वनिपदमञ्जरी । नैल्यं लोहमयत्वात्तत्रापि सम्भवि । आवृतं वनरुहाननं बिभ्रत् । वनानां यत्तद्भूमौ गोरजस्तद्युतम् । हे वीर दर्शयन्मुहुर्नो मनसि स्मरं यच्छसि । मुहुरित्यत्रापि योज्यम् ॥ १२ ॥

प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदि ।

चरणपङ्कजं शन्तमं च ते रमण नः स्तनेष्वर्पयाधिहन् ॥ १३ ॥

पदरत्नावली

आधिहन् मनोव्यथापनोदक रमण प्रणतानामनन्यशरणानां कामदमभीष्टदं पद्मजार्चितं ब्रह्मणाऽऽराधितं धरणिमण्डनं भूमिभूषणं सर्वापदि ध्येयं शन्तमं कल्याणतममतिसुखजनकञ्च ते चरणपङ्कजं नः स्तनेष्वर्पय निधेहि ॥ १३ ॥

सत्यधर्मीया

हे रमण आधिहन्मनोव्यथामथन पद्मजार्चितम् । धरणिमण्डनं धरणी धरणिर्महि महीति द्विरूपकोशः । तदलङ्काररूपम् । आपदि आ सम्यग्व्यक्तं पदि धूल्यङ्किते पादे दृष्टे सति ध्येयमिति वा । यथोक्तं पुरस्तात् । पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः । लक्ष्यन्त इत्यादि । अनेनापद्येवेति निरस्तं भवति । ध्येयं, शन्तममतिसुखम् । स्वित्यानन्दः समुद्दिष्टो वरिति ज्ञानमुच्यते । मुक्तिदानेन तद्दानात्सुवरस्य पदद्वयमिति बृहद्भाष्योक्तेः । चरणपङ्कजं नः स्तनेष्वर्पय । यद्यपि ते पदाम्बुजं, कृणु कुचेषु नः कृन्धि हृच्छयमिति प्रागस्यार्थस्य प्रार्थितत्वात्पुनरर्थनमादरा-द्वाऽनेकासां कामिनीनां मेलनात्तत्र कासाञ्चिदत्र कासाञ्चिदिति वा ज्ञानदातृत्वोपाधिना तत्रैकमानन्द-दातृत्वोपाधिनाऽत्रैकमत एव शन्तममित्युक्तमिति वा युक्तम् । एवमुत्तरत्रापि ज्ञेयम् । नः स्तनेष्वस्मच्छब्देषु चरणपङ्कजमर्पय तत्स्तुतिरतमस्मच्छब्दं कुर्विति तात्पर्यमिति ॥ १३ ॥

विरोधोद्धारः— प्रणतकामदमिति । अत्र प्रासभङ्गो न शङ्क्यः । प्रायः सर्वत्र चतुश्चरणानां द्वितीयाक्षरस्यैकत्वेऽपि ग्रन्थकर्त्रे श्रीवेदव्यासायात्र तृतीयाक्षरैक्येन प्रासानां विवक्षितत्वात् । न चाद्यपादे तदभावः । प्र शब्दे वर्णद्वयाङ्गीकारेण णस्य तृतीयत्वसिद्धेः । नाप्याद्यचरणे वर्णाधिक्यप्रसङ्गः । छन्दोविषये प्रस्यैकवर्णत्वेनाङ्गीकारात् । अत्र परस्परं विशेषणासङ्गतिस्तु गोप्य उचुरित्यनेन गोपीनां बाहुल्यात्कयाचित्प्रणतकामदमित्युक्तम् । अन्यया पद्मजार्चितमिति । अपरया धरणिमण्डनमिति । इतरया ध्येयमापदीति पृथक् पृथगुक्तत्वात् । उत्तरार्धस्य न इत्यनेन सर्वाभिर्मिलित्वाऽभिहितत्वान्न । दोषावहा ।

यद्वा । त्वया त्रेधा निहितमपि पदं लोकानां ध्यानास्पदं जातम् । परंत्वाधुनिकसुखास्पदं नास्तीति भावेनाहुः ॥ प्रणतकामदमिति ॥ ते तव । चरणपङ्कजम् । धरणीमण्डनं गयां स्थितत्वेन भूमिशोभाकरमेकम् । द्वितीयं प्रणतकामदम् । प्राय विष्णवे नताः प्रह्वा इन्द्रादयः । अकयप्रविसम्भूम-सखहा विष्णुवाचका इत्यभिधानम् । नस्य णत्वं तु छान्दसम् । प्रणतानाम् इन्द्रादीनां कामः स्वर्गराज्यभोगरूपस् तं ददातीति तत् । अनेनान्तरिक्षगमनमिति सूचितम् । सत्यलोके ब्रह्मणा प्रक्षालनादिना पूजितम् । अनेन दिविष्ठम् । एतत्त्रिविधमपि पदम् आपदि ध्येयम् । न तु सुखकारकम् । दूरस्थत्वेन परोक्षत्वात् । अतः स्वपदस्य सुखकारकत्वापेक्षा तवास्ति चेत् । चरणपङ्कजं नः स्तनेष्वर्पय । तदा शन्तमम् अतिसुखकारकम् । भवेत् ।

यद्वा । आपदि आ निकटे पदानि सप्तदशपदानि सन्त्यस्येति आपदि । इति गयास्थविष्णुपद-विशेषणम् । प्रत्युत ध्येयत्वमप्यशक्यम् । दृष्टस्यैव ध्यानगोचरत्वेनास्य दूरस्थत्वेनादृष्टतया मानसाविषयत्वात् । तस्मादश्रुपातयोग्यत्वेन नः स्तनयोर्नेत्र सन्निहितत्वाद्दर्शनयोग्यत्वेन ध्यानस्यापि सुशकत्वमिति भावः ।

यद्वा । स्तनमर्दने करस्यापेक्षितत्वेऽपि चरणप्रार्थने केचिदाख्यायिकाकथनपूर्वकमर्थमाहुः । स इत्थम् । स्वभर्तरि हरदग्धे सति रतिस्तस्य सुगत्यर्थं गोपीमाविश्य स्तनरूपौ पिण्डौ भगव-त्पादेऽर्पयितुमियं प्रार्थना । न चात्र पिण्डत्रयस्य विहितत्वेऽपि पिण्डद्वयदानं कथमिति शङ्क्यम् । मदनस्य विष्णुपुत्रत्वेन विष्णोश्च पितृभावात्तृतीयपिण्डस्यापि निरधिकारित्वात्तदसमंजसम् । स्त्रियो न्युब्जत्वं विना स्तनपदसम्बन्धानुपपत्तेः । न्युब्जत्वस्य चरतिकाले स्त्रीणां निषिद्धत्वात्स्तना-नामधिकरणत्वस्य चरणाम्बुजस्याधेयत्वेन कथनाच्च । अत इत्थं योजना । स्वशरीरे हरेण दग्धे कामो नीचाश्रयो न कर्तव्यः कर्तव्यो महदाश्रय इति न्यायं स्मृत्वाऽनुतप्तो योनिरूपं स्वस्य नीचं स्थानं विसृज्य गोपीनां स्तनमण्डरूपमुन्नतस्थानं दृष्ट्वा तत्रस्थो भूत्वा गोपीरपीडयत् । तदा गोप्यस्तत्पीडिताः सत्यस्तदुच्चाटनोपायं विमृशन्त्यो भगवच्चरणस्पर्शेन शकटात् शकटासुरस्य ह्रदात्कालीयस्योच्चाटनं वीक्ष्य तच्चरणस्पर्शेन कामापगमे वयं निष्कामत्वेन सुखं प्राप्स्याम इत्याशयेन स्वस्तनेषु तच्चरणस्पर्शं प्रार्थयन्ते ।

यद्वा । सुरतासनेषु स्त्रिया पुंकटौ स्वपादाभ्यां बद्धायां पुंसा स्त्र्यूरुबहिष्ठात्कृतपादयोरुरसिस्थानरूपं पाशासनमाकाङ्क्षमाणा आहुः । चरणपङ्कजस्यैकवचनत्वात्तस्मिन्नेवासने एकं पादं निधाय । शन्तमम् अतिसुखकारकम् । करं च प्रार्थयन्त इति वा । किंवा ।

शन्तमञ्चेति कृष्णसम्बोधनम् । शं सुखं तनोति विस्तारयतीति शन्तस् तादृशो मञ्चः पर्यङ्को यस्य स तथेत्यर्थः । अथवा । हे आधिहन् कामजन्यमनोव्यथानिवारक । भवच्चरणे सर्वैः पुष्पसमर्पणं कार्यम् । त्वया तु देवाय पुष्पसमर्पणं न क्रियते । अतस्तव पुष्पलाभः कथं स्यात् । अतः शम्भोर्लिङ्गाकारेष्वस्मत्स्तनेषु स्वचरणलक्षणकमलपुष्पार्पणं कुरु । चकारात्पुष्पजन्मसुखलिङ्गार्पणं च कुर्विति प्रार्थना । तेन तव शुक्लपुष्पलाभः स्यादिति भावः ॥ १३ ॥

॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्याने श्री पाङ्घरी श्रीनिवासाचार्यकृते

विरोधोद्धारे एकोनत्रिंशोऽध्यायः ॥ १०-२९ ॥

सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् ।

इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् ॥ १४ ॥

पदरत्नावली

तवाधरामृतवितरणमन्तरेणैतत्कामानलज्वालोपशमनं न भवेदेवेत्याशयेनाहुः सुरतेति । हे वीर सुरतवर्धनं सु शोभनं रतं निधुवनानन्दं वर्धयतीति तथा शोकनाशनं भवदुःखापनोदकं स्वरोऽस्य सञ्जात इति स्वरितः स चासौ वैणुश्च तेन स्वरितवेणुना विविधसुस्वर-युक्तवेणुनेत्यर्थः । सुष्ठु चुम्बितं नृणामितररागविस्मारणम् इतरप्रियविषयविषयकस्नेहविस्मारकं तेऽधरामृतं नोऽस्माकं वितर देहि । ‘विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्’ इति गोपालः ॥ १४ ॥

सत्यधर्मीया

सुरतवर्धनं व्यवायः सुरतं, स्वरितवेणुना स्वरोऽस्य सञ्जात इति स्वरितः स चासौ वेणुश्च तेन चुम्बितम् । सुष्ट्वित्यनेन यदा कदाचिन्नः, तस्य तु सदेत्यसूचयन् । इतरराग-विस्मारणमितरविषयासक्तिविस्मारकम् । नृणामिति द्रष्टृमात्रग्रहणम् । अनुभवित्रीणां तु का कथेति ध्वन्यतेऽनेन । वीर नस्तेऽधरामृतं वितर । अनेन पूर्वोक्तसीधुशब्दं मूलकृद्व्याचख्याविति ध्येयम् । विश्राणनं वितरणं स्पर्शनं प्रतिपादनमिति हलः ॥ १४ ॥

अटति यद् भवानह्नि काननं त्रुटि युगायते त्वामपश्यताम् ।

कुटिलकुन्तलं श्रीमुखं च ते जडवदीक्षतां पक्ष्मनुद्दृशाम् ॥ १५ ॥

पदरत्नावली

हे कान्त सन्ततं त्वत्सञ्चिन्तनमन्तरा व्यापारान्तरो नेष्यत इत्याशयेनाहुर् अटतीति । यद् यदा भवानह्नि दिवा काननं प्रत्यटति तदा त्वामपश्यतामस्माकं गोपीजनानां त्रुटि त्रुटिरपि युगायते युगानीवाचरति । त्रुटीति प्रातिपदिकग्रहणेन विभक्त्यन्तं पदं लक्षयति । परमाणुद्वयलक्षणो द्व्यणुकः । द्व्यणुकत्रयलक्षणस् त्रसरेणुः । त्रयस्त्रसरेणवस्त्रुटिः । तादृश-लेशकालावयवः । ‘अणुर्द्वौ परमाणु स्यात् त्रसरेणुस्त्रयः स्मृतः । जालार्करश्म्यवगतः खमेवानुप-तन्नगात् ॥ त्रसरेणुत्रिकं भुङ्क्ते यः कालः सा त्रुटिः स्मृता । तत्त्रिभागस्तु वेदः स्यात् तैस्त्रिभिस्तु लवः स्मृतः । निमेषस्त्रिलवो ज्ञेय आन्मातास्ते त्रयः क्षणः’ इत्यादि तृतीयस्कन्धद्वादशाध्यायवचनम् । युगं तु दिव्यद्वादशसहस्रसंवत्सरात्मकः कालः । कुटिलाः कुन्तला यस्मिंस्तत् श्रीमन्मुखं निमीलनोन्मीलनाभावाज्जडवदीक्षतामीक्षमाणानां पक्ष्माणि नेत्रच्छदरोमाणि नुदन्ति व्यथयन्तीति पक्ष्मनुदस्तादृश्यो दृशो यासां ताः पक्ष्मनुद्दृशस्तासामनिमिषाक्षीणाम् ॥ १५ ॥

सत्यधर्मीया

न गोपीनामस्माकमन्यो व्यापारोऽपारमहिमंस्त्वच्चिन्तनादिति विज्ञापयन्ति ॥ अटतीति ॥ यद्यदा भवानह्नि दिवा काननं वनमटति तदा त्वामपश्यताम् । पुंप्राया इत्यपश्यता-मित्युक्तिः । अस्माकं गोपीजनानां त्रुटिः । न लोपः प्रातिपदिकान्तस्येत्यादिवत्प्रातिपदिकनिर्देशः । त्रुट छेदने इगुपधात्कितीन् । स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणव इत्यमरः । लेशोऽपि कालो, युगानीवाचरति युगायते । युगं तु दिव्यद्वादशसहस्रवत्सरात्मकः कालः । कुटिलं कुन्तलं श्रीमुखं च जडवन्निमीलनोन्मीलनाभावमात्रेण तद्वदित्युक्तिः । अन्यथेक्षतामिति विक्षतं स्यादिति ज्ञेयम् । ईक्षमाणानां दृशां तत्सम्बन्धिनयनानां पक्ष्मनुत्पक्ष्माणि तल्लोमानि नुदति व्यथयतीति तत्तथा । पक्ष्मकृदिति पाठे पक्ष्माणि करोतीति स चतुराननो जडवन्मूर्खवदेवेत्यर्थ इति केऽपि । यद्यदाऽह्नि भवानटति यत्र कुत्रापि तदा नं नियन्तारं त्वाऽस्मदितरा नारी न आम नान्वगच्छत् । सा काऽपि त्रुटियुगा त्रुटिर्युगं यस्याः सा सती । पश्यताम् पश्यो जीवोऽस्यास्तीति स जीवस्तत्त्वमयते गच्छति न काऽपि । याऽयते पश्यतां सा केति तां पश्य तादृङ्मृगदृङ्नास्तीत्यर्थः । पश्यत इति व्याख्या-वेलायां पश्यतीति पश्यो जीव इति तत्त्वप्रकाशिकाद्युक्तेः । ईक्षतां दृशामजडवत्पण्डितवद्युगं त्रुटियुग्मवदाचरतीत्यपि त्रुटियुगायत इत्यावर्त्यार्थो ज्ञेयः । एवं चेन्न वृत्तविच्छित्तिस्त्रुटिर्युगायत इति पठतामिव नापि प्रातिपदिकताश्रयणक्लिष्टता च भवतः । स्यात्त्रुटिः संशये लेशे सूक्ष्मैलाकालमान-योरिति विश्वः । यद्वाऽर्धर्चादित्वान्नपुंसकलिङ्गता । न च काशिकायामर्धर्चगोमयेत्यारभ्य शकलान्त-शब्देषु त्रुटेरग्रहीतेः कथं तत्त्वेन नपुंसकतेति वाच्यम् । ओष्ठे इत्यृग्भाष्यटीकायामर्धर्चादित्वादोष्ठशब्दो नपुंसकलिङ्ग इत्युक्तस्य तत्रोपसङ्ख्यानत्वादित्युक्तेराकृतिगणतामजिज्ञपन् युगेत्येकदेशा ग्रन्थकृत इति । काऽत्र कथन्ता लिङ्गमशिष्यमिति भाष्याद्वा नपुंसकता ॥ १५ ॥

पतिसुतान्वयभ्रातृबान्धवानतिविलङ्घ्य ते ह्यच्युतागताः ।

गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि ॥ १६ ॥

पदरत्नावली

हरिविहारसहस्रसंस्मरणविवशा गोप्यो दयितं देवकीसुतं प्रणयकोपेनाधिक्षिपन्ति पतीति ॥ अच्युत सर्वेशत्वाद्यशेषैश्वर्यात् कदापि न च्यवत इति तथा । ‘शाश्वतं शिवमच्युतम्’ इत्यादिश्रुतेः । पतीन् सुतानन्वयान् तदनुबन्धिनो भ्रातॄन् बान्धवांश्चातिविलङ्घ्यातिक्रम्य हि यतस्ते सकाशमागतास्तस्माद् हे कितव अपूर्वमोहोत्पादक । ‘कितवो मत्तधत्तूरद्यूतकृन्मोहकृत्सु च’ इत्युत्पलमाला । गतिविदो विवशीकरणलक्षणगानज्ञस्य तवोत्कृष्टवेणुगीतेन मोहिता योषितो निशि कस्त्यजेत् ॥ १६ ॥

सत्यधर्मीया

स्वस्थितिमिव तत्स्थितिमपि नर्ममर्म वध्वो बोधयन्ति ॥ पतीति । पतिर्भर्ता च सुताः पुत्राश्चान्वयास्तदनुबन्धिनो भ्रातरो बान्धवा इतरे च तानतिविलङ्घ्यातिक्रम्य ते त्वां प्रत्यागता हि यतोऽच्युत । गतिविद इति प्रथमा षष्ठी च । गतिविदोऽस्मद्गतिज्ञस्य तवोद्गीतेन मोहिता गतिविदश्चागता योषितो निशि कस्त्वदन्यस्त्यजेन्न त्यजेदतः कितवेति सम्बोध्य इति भावः

॥ १६ ॥

रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् ।

बृहदुरःश्रियो १धाम वीक्ष्य ते मुहुरतिस्पृहा मुह्यते मनः ॥ १७ ॥

पदरत्नावली

किं बहुना? तेऽलौकिकदिव्यसौन्दर्यसौकुमार्यादिना परममोहिता वयमिति विज्ञापयन्ति रहसीति । रहसि संविदमतिचमत्कृतिपूर्वकसम्भाषणं, हृच्छयस्य कामस्योदयो यस्मात् तत् हृच्छयोदयं तत् प्रकृष्टं हसितं यत्र तथाभूतमाननं प्रेम्णा वीक्षणं च बृहदुरसि स्थिताश्च ताः श्रियश्च ता वीक्ष्य नो मनो मुहुर्वारंवारमतिस्पृहा अतिशयितस्पृहया मुह्यते । विभक्तिव्यत्ययश्छान्दसः

॥ १७ ॥

सत्यधर्मीया

या वयं रहसि संविदं गतम् । हृच्छयोदयमिति सम्भवद्विशेषणम् । प्रहसिताननं प्रेमवीक्षणं च । बृहद्विशालं श्रियो रमाया धाम गृहरूपमुरश्च ते वीक्ष्य चाच्छ्रुत्वा संविदं चातिस्पृहा इति नो मनो मुह्यते मोहयुतं भवति । हे अतिस्पृह अतिक्रान्तः स्पृहाम् इति तत्सम्बुद्धिः । नो मनो मुहुरामुह्यत इति वा । बृहदुरः श्रियो वीर वीक्ष्येति पाठे बृहदुरसि स्थिताश्च ताः श्रियश्च ता वीक्ष्य । एकाऽपि सापत्न््नयेर्ष्यातोऽनेकीभूय भासत इति श्रिय इत्युक्तिर्युक्तेति वा ॥ १७ ॥

व्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम् ।

भज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥ १८ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे एकोनत्रिंशोऽध्यायः ॥

पदरत्नावली

अनन्यशरण्यरमणवरेण्यस्य ते चरणाश्रयणं यदि न स्यात् तर्हि दारुणारण्येऽ-स्मिन् मरणमेवापद्येत तस्मादस्मान् दयया रमयेति विज्ञापयन्त्य उपसंहरन्ति व्रजेति । हे अङ्ग ते तवेयं व्यक्तिरवतारलक्षणा व्रजौकसो गोपादयो वनौकसो मुन्यादयश्च तेषामलमल्यन्तं वृजिनहन्त्री दुःखनाशिनी । स्वजनहृद्रुजां स्वजनहृन्निष्ठचिन्तासन्तापादिरोगाणां निषूदनं विनिवर्तकं यद् विश्वमङ्गलं रूपं तत् त्वत्स्पृहात्मनां त्वयि स्पृहा यस्य सस् त्वत्स्पृह आत्मा यासां तासां नोऽस्माकं मनागीषद् भज दर्शयेत्यर्थः ॥ १८ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे एकोनत्रिंशोऽध्यायः ॥

दुर्घटभावदीपिका

हे अङ्ग । यद्यस्मात्ते व्यक्तिर्व्रजवनौकसामलं सम्यक् व्रजिनं हन्ति विश्व-मङ्गलं समस्तमङ्गलकरणं च स्वजनहृद्रुजां स्वजनहृन्निष्ठचिन्तादिरोगाणां निषूदनं नाशकारणम् । तस्माच्च त्वत्स्पृहात्मनां त्वयि स्पृहा यस्य सस् त्वत्स्पृह आत्माऽन्तःकरणं यासां तासां नोऽस्माकं दुःखादिपरिहारार्थं मनागीषद्व्यक्तिर्व्यक्तिं भजेति । एतेन त्वत्स्पृहात्मनामित्येतदनन्वितमिति दूषणं पराकृतम् । दुःखादिपरिहारार्थमित्यस्य शेषं व्यक्तिरित्यर्थवशाद्विपरिणामेन द्वितीयैकवचनान्तत्वं चाङ्गीकृत्यान्वयस्योक्तत्वात् ॥ १८ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे एकोनत्रिंशोऽध्यायः ॥ १०-२९ ॥

सत्यधर्मीया

वयं सर्वथा नाथ त्वया दयनीया इति विज्ञापयन्त्य उपसंहरन्ति ॥ व्रजेति ॥ व्रजौकसो वनौकसश्च तेषामङ्ग स्वजन अत्यन्तमुत्पत्तिरहित विश्वव्याप्त ते व्यक्तिरवतारोऽलं वृजिनहन्त्री पापनाशिनी । यत्त्वत्स्पृहात्मनां तुभ्यं स्पृहा यस्य स आत्मा मनो येषामस्मदादीनां हृद्रुजां मनआमयानां निषूदनं परिहारकं तन्मङ्गलं रूपं मनागीषद्भज सेवस्व दर्शयेति यावत् । विश्वमङ्गलं सर्वश्रेयो नो विषये भज । अथवा मनागीषद्भज दर्शनं वो देहीति वा ॥ १८ ॥

**॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां **

दशमस्कन्धपूर्वार्धे एकोनत्रिंशोऽध्यायः ॥ १०-२९ ॥