अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः
॥ अथ अष्टाविंशोऽध्यायः ॥
श्रीशुक उवाच—
अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः ।
अतप्यंस्तमचक्षाणाः करिण्य इव यूथपम् ॥ १ ॥
पदरत्नावली
अतिप्रियहरिविरहेण परितप्तचित्तानां कृष्णसम्बन्धिविशिष्टचेष्टानुस्मरणैकशीलानां गोपवराङ्गनानां भक्त्युद्रिक्तता निरूप्यतेऽस्मिन्नध्याये । तत्रादौ गोपीनामनुतापप्रकारमीरयति शुको ऽन्तर्हित इति ॥ अचक्षाणा अपश्यन्त्यः । यूथपं गजेन्द्रम् ॥ १ ॥
सत्यधर्मीया
कान्तारन्तः कान्तान्तर्धानानन्तरमनन्तमार्गणं कामिनीनां तथाऽऽसां भक्त्युद्रिक्ततां च वर्णयत्यस्मिन्नध्याये । तत्रादौ हरिमनिरीक्ष्य हरिणाक्षीणामनुतापं तापसो वक्तीति वक्ति ॥ श्रीशुक इति । भगवति सहसाऽनालोच्यैवान्तर्हितेऽदृश्ये सति । करिण्य इव यूथपं गजम-चक्षाणा अपश्यन्त्यो यथा तप्ता भवन्ति तथा तमचक्षाणा अतप्यन् । तत्रापि नैकलोऽगच्छत्किन्तु कन्तुबाधया कान्तामेकामेकान्तं निनायैव नायकः, सैका सहसा सहसैवं, वयं त्वेवमिति मनसि चक्रुरिति तात्पर्यमवधेयम् । अन्तरङ्गे रङ्गेशेन सह गतामङ्गनां सम्बोध्य व्रज तवापि दशेदृशी भवेदेव देवस्य चाञ्चल्यादित्यप्यङ्गनाः कटाक्षयामासुरिति च ॥ १ ॥
सुमनोरञ्जिनी
श्रीकृष्णदर्शनेन निरस्ताहंमतीनां गोपीनां श्रीकृष्णे स्नेहपारवश्यस्य परां काष्ठां प्रदर्शयत्यस्मिन्नध्याये । तत्रादौ श्रीकृष्णान्तर्धाने गोपीनामवस्थां निरूपयति ॥ अन्तर्हित इत्यादिना ॥ भगवति श्रीकृष्णे सहसा अन्तर्हिते अदृश्ये सति । तमचक्षाणा अपश्यन्त्यो ऽतप्यन् सन्तप्ता बभूवुः । यूथपं गजेन्द्रमचक्षाणाः करिण्य इवेति ॥ १ ॥
गत्याऽनुरागस्मितरञ्जितेक्षितैर्मनोरमालापविहारविभ्रमैः ।
आक्षिप्तचित्ताः प्रमदा रमापतेस्तास्ता विचेष्टा जगृहुस्तदात्मिकाः ॥ २ ॥
पदरत्नावली
गत्या बालसिंहखेलनगमनेन । अनुरागस्मितैः स्नेहविशेषपूर्वकमन्दहासैः रञ्जितानि यानीक्षितानि निरीक्षणानि तैः । मनोरमौ मनोहरौ च तौ आलापविहारौ च मनोरमालाप-विहारौ, तयोर्विभ्रमैर् विलासैर् आक्षिप्तचित्ता आकृष्टहृदयास् तस्मिन् कृष्णे एवात्मा मनो यासां तास्तदात्मिका रमापतेस्तास्ता विचेष्टा विशिष्टचरितानि जगृहुर् न्यरूरुपन् ॥ २ ॥
सत्यधर्मीया
गत्या गमनेनानुरागः स्नेहविशेषस्तत्पूर्वकं यत्स्मितं मन्दहासस्तेन रञ्जिता-नीक्षितानीक्षणानि तैर्मनोरमो मनोहरो य आलापः सौरतसल्लापो विहारः क्रीडा च तयोर्विभ्रमा विलासास्तैराक्षिप्तं चित्तं यासां ताः प्रमदा योषाः प्रकृष्टो मदः प्राग्यासां ता इदानीं प्रगतो मदो यासां ता इति चान्तरङ्गिको भावः । तदात्मिकास्तस्मिन्नात्मा मनो यासां ता रमापतेर्विचेष्टा विशिष्टाश् चेष्टाश्चरितानि जगुः । एकैकां जगुरिति यावत् ॥ २ ॥
सुमनोरञ्जिनी
गत्या गमनेन इङ्गितज्ञतया वा । अनुरागस्मितरंजितेक्षितैः । अनुरागेण स्मितेन च रंजितानि ईक्षितानि अपांगनिरीक्षणानि तैश्च । अनुरागयुक्तस्मितेनेति वा । मनोहरैर् आलापैर् वचनैर् विहारैः क्रीडाभिर् विभ्रमैः शृृङ्गारचेष्टाभिः । मनोहरालापविहारलक्षणैर् विभ्रमैरिति वा । आक्षिप्तानि आकृष्टानि चित्तानि यासां ता गोप्यः । तदात्मकास् तस्मिन्नेवात्मा मनो यासां तथाविधाः सत्यः, तास्ताः पूर्वमनुभूताश्चेष्टाः श्रीकृष्णचरितानि जगृहुर् न्यरूरुपन् । धातूनामनेकार्थत्वात् ॥ २ ॥
गतिस्मितप्रेक्षणभाषणादिषु प्रियाः प्रियस्य प्रतिरूढमूर्तयः ।
असावहं न्वित्यबलास्तदात्मिका नावेदिषुः कृष्णविहारविभ्रमाः ॥ ३ ॥
पदरत्नावली
तदात्मिका वासुदेवसंसक्तचित्ताः कृष्णविहार एव हरिरिहास्माभिर्विहरतीति विभ्रमो भ्रान्तिर्यासां ताः कृष्णविहारविभ्रमाः कृष्णस्य प्रिया अबला गोपाङ्गनाः प्रियस्य कृष्णस्य गत्यादिषु प्रतिरूढा ध्यानेनानुकृता मूर्तिराकारो यासां ताः, परस्परं कृष्ण इति भावनशीला इत्यर्थः । असावहं नु इति विकल्पं नावेदिषुर् नाज्ञासिषुः । ‘प्रश्ने विकल्पे नु स्विच्च’ इति यादवः
॥ ३ ॥
दुर्घटभावदीपिका
कृष्णस्य प्रियास्तदात्मकाः कृष्णान्तःकरणाः प्रियस्य कृष्णस्य गतिस्मित-प्रेक्षणभाषणादिषु च चित्तं स्थापयित्वा कदाचित्प्रतिरूढमूर्तयो निश्चेष्टशरीराः कदाचित्कृष्णविहारे विभ्रमाः कृष्णक्रीडाविलासवत्क्रीडाविलासविशिष्टा अबला अहमसाविति नावेदिषुरित्येतन्नु निश्चितमिति । एतेन गतिस्मित प्रेक्षणभाषणादिष्वेत्येतदनन्वितमिति दूषणं परिहृतम् । चित्तं स्थापयित्वेत्यस्य शेषं स्वीकृत्यान्वयस्योक्तत्वात् । एतेनैव प्रतिरूढमूर्तय इत्यनेन निश्चेष्टशरीरत्वमुक्त्वा कृष्णविहारविभ्रमा इति चेष्टाकथनं व्याहतमिति चोद्यं परास्तम् । कालभेदेन निश्चेष्टत्वसचेष्टत्वे उच्येते । इत्यभ्युपगमात्
॥ ३ ॥
सत्यधर्मीया
अनन्तस्मरणादनङ्गस्मरणास्ता इति चर्यां चेरुरिति वदति ॥ गतीति ॥ गतिर्गमनं स्मितं हासो वीक्षणं कटाक्षमोक्षणं भाषणं चादिर्येषां ते तेषु । स्मितप्रेक्षणं स्मितभाषणमिति वा । प्रिया गोप्यः । प्रियस्य कृष्णस्य प्रतिरूढा ध्यानेनानुकृता मूर्तिराकारो यासां ताः परस्परं कृष्ण इत्यङ्कूरितधिषणा इति यावद् असावहं न्विति विकल्पं नावेदिषुर्न व्यजानन् । तत्र तन्त्रं तदात्मकाः कृष्णविहारभ्रमा इति ॥ कृष्णविहार एव अधुना मधुनाथः क्रीडत्यस्माभिरिति विभ्रमो भ्रान्तिर्यासां ताः । प्रश्ने विकल्पे नु स्विच्चेति यादवः । नु प्रश्ने च विकल्पार्थ इति विश्वः
॥ ३ ॥
सुमनोरञ्जिनी
किञ्च अबला गोप्यस् तदात्मकास् तन्मनस्काः सत्यः,पार्श्वस्थायामसौ इति, स्वस्मिन्नहमिति व्यवस्थितविकल्पे नुशब्दः । नावेदिषुरिति सम्बन्धः । कुत इत्यतस्तदात्मकत्वं विवृण्वन्नाह ॥ प्रतिरूढमूर्तय इति ॥ प्रतिरूढा मनसि संलग्ना मूर्तिः श्रीकृष्णस्य मूर्तिर्यासां तास् तदैकध्यानपरा इति यावत् । तदपि कुतः । प्रियस्य श्रीकृष्णस्य गत्यादिषु प्रियाः प्रीतियुक्ताः । कृष्णविहारे विभ्रमो मनोविलासो यासां ताः । श्रीकृष्णविहारमेव पुनः पुनः स्मरंत्य इति यावत् । असौ श्रीकृष्णः । नु उत अहम् इति स्वात्मानं नावेदिषुरिति वा ॥ ३ ॥
गायन्त्य उच्चैरमुमेव सङ्गता विचेरुरुन्मत्तकवद् वनाद् वनम् ।
पप्रच्छुराकाशवदन्तरं बहिर्भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ ४ ॥
पदरत्नावली
सङ्गता मिलिताः । आकाशवद् भूतेषु बहिरन्तरं सन्तं बाह्याभ्यन्तरदेशयो-र्वर्तमानं पुरुषं नारायणम् । ‘अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’ इत्यादेः ॥४॥
सत्यधर्मीया
सङ्गता मिलिता अमुमेवोच्चैर्गायन्त्यो वनाद्वनमुन्मत्तकवद्धत्तूरादनवन्मनुज-वद्विचेरुः । आकाशवदन्तर्बहिरपि भूतेषु सन्तम् । ॐ अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्चेति । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित इत्यादेः । पुरुषं वनस्पतीन् पप्रच्छुः । ये गन्धर्वा अप्सरसश्च देवीरेषु वृक्षेषु वनस्पतीष्वासते नैय्यग्रोधौदुम्बराश्वत्थप्लक्ष इतीध्मो भवति । एते वै गन्धर्वाप्सरसां गृहा इति मन्त्रब्राह्मणोक्तेः । कान्ताभिर्भ्रान्त्या कृतमपि भागवत्य इति भाविभगवदवगमनसाधनदेवताप्रसादसाधनं जातमिति वनस्पतिशब्देन ध्वनयामासेति ज्ञेयम् ॥४॥
सुमनोरञ्जिनी
अपि च सर्वा अपि संगता मिलिताः, उन्मत्तेन तुल्यं वर्तन्त इति उन्मत्तकवद् वनाद्वनं विचेरुः । आकाशवद् भूतेषु बहिरन्तश्च सन्तं पुरुषं परमपुरुषं श्रीकृष्णमुद्दिश्य वनस्पतीन् पप्रच्छुरिति ॥ ४ ॥
दृष्टो वः कच्चिदश्वत्थ प्लक्ष न्यग्रोध किंशुक ।
नन्दसूनुरिहागात् किं सह हासावलोकनैः ॥ ५ ॥
पदरत्नावली
उन्मत्तत्वं स्पष्टयति दृष्ट इति । अश्वत्थ पिप्पलद्रुम । प्लक्ष पर्कटीद्रुम । न्यग्रोध वटवृक्ष । न्यग् पादैरधोभूमिं रुणद्धि आवृणोतीति तथा । किंशुक पलाश । किञ्चिद् अवयवैकदेशः शुक इवेति, शुकतुण्डाभपुष्पत्वादित्यर्थः । नन्दसूनुर्हासावलोकनैः सह इहागात् किं, वो युष्माभिः कच्चित् किं दृष्टः ॥ ५ ॥
सत्यधर्मीया
उन्मत्तत्वं स्पष्टयितुं किञ्चित् ‘‘अश्वत्थः सर्ववृक्षाणाम् । मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अग्रतः शिवरूपाय वृक्षराजाय ते नमः’’ इत्यादिसमयस्यैतत्समयेऽप्यनु-सन्धानमस्तीति तत्पुरस्कृत्य ध्वन्यत इति सूचयन्नाह ॥ दृष्ट इति ॥ अश्वत्थप्लक्षोऽपि तद्वृक्षविशेषः । प्लक्षो द्वीपविशेषे स्यात्पर्कटीगर्भभाण्डयोः । पिप्पले द्वारपार्श्वे च गृहस्य परिकीर्तित इति विश्वः । विज्ञेयः पर्कटी प्लक्षः प्लक्षः पिप्पलपादप इति शाश्वतः । पर्कटी वा न्यग्रोधो वटो वा शमी वा । न्यग्रोधो बहुपाद्वटो, न्यग्रोधस्तु पुमाव्यामवटयोश्च शमीतरावित्यमरभानू । किंशुक पलाशो गतम् । तदुपरि कीरमपि दृष्ट्वा तमपि पृच्छन्तीत्याह शुको नन्दसूनुरागात्किमिति । हासावलोकनैः सहागात्किं वो युष्माभिर्दृष्टः कच्चित् ॥ ५ ॥
सुमनोरञ्जिनी
प्रश्नप्रकारं प्रपञ्चयत्यष्टभिः श्लोकैः । हे अश्वत्थादयः नन्दसूनुर् हासाव-लोकनैः सह । सस्मितावलोकनं कुर्वन्निति यावत् । इहागाद् आगतः किं ? आगतोऽपि वः युष्माभिर् दृष्टः । कच्चिद् इति इष्टप्रश्नार्थकः । कच्चित्कामप्रवेदन इत्यमरः ॥ ५ ॥
कच्चित् कुरबकाशोक नाग पुन्नाग चम्पक ।
रामानुजो मानिनीनां दोग्धा नन्दस्य चात्मजः ॥ ६ ॥
पदरत्नावली
कुरबक शोणाम्लानद्रुम । अशोक वञ्जुल । नाग नागकेसर । पुन्नाग देववल्लभ । चम्पक हेमपुष्पक । मानिनीनामानन्दस्य दोग्धा प्रपूरको रामानुजः कच्चित् किं दृष्टः ॥ ६ ॥
सत्यधर्मीया
कुरबक कुरञ्ज । भवेत्कुरबकः शोणम्लानवाटीप्रभेदयोरिति विश्वाद्वृक्षविशेषः । गोरण्टीत्यपभ्रष्टभाषेति केचित् । एवमेव कुरबकस्तबकेति माघव्याख्यायामप्युक्तम् । अशोक । अशोको वञ्जुले मानद्रुमनिःशोकयोरपि । अशोकः कटुरोहिण्यामिति विश्वः । नागपुन्नाग नागकेशर । नागं तु, नागकेसरपुन्नागो नागदन्तकमस्तके । देहानिलप्रभेदे च श्रेष्ठे स्यादुत्तरस्थित इति विश्वः । चम्पक । काञ्चनतरुरिति रभसो रत्नकोशश्च । मानिनीनामानन्दस्य दोग्धा तत्प्रपूरको दातेति यावन् नन्दस्यात्मजः पुत्रो रामानुजश्च दृष्टः कच्चित् ॥ ६ ॥
सुमनोरञ्जिनी
कुरबकः गोरण्टीवृक्षप्रभेदः । नागः नागकेसरपुन्नागः । दोग्धा अभिलषित-स्येति शेषः ॥ ६ ॥
कच्चित् तुलसि कल्याणि गोविन्दचरणप्रिये ।
सह त्वालिकुलैर्बिभ्रद् दृष्टस्तेऽतिप्रियोऽच्युतः ॥ ७ ॥
पदरत्नावली
अलिकुलैर् भ्रमरवृन्दैः । अति अतिक्रान्ताः प्रियाः कान्ता वयं येन सो ऽतिप्रियः ॥ ७ ॥
सत्यधर्मीया
हे कल्याणि मङ्गलरूपिणि गोविन्दचरणप्रिये तुलसि । अलिकुलैर्भ्रमरसमूहैः सह त्वा त्वां बिभ्रद्दधानः, अत्यतिक्रान्ताः प्रियाः कान्ता वयं येन प्रिया अस्मानतिक्रान्त इति वा सोऽच्युतस्ते त्वया दृष्टः कच्चित् । एवमन्वये गोविन्दचरणप्रिय इत्यनेनैव परस्परप्रेमलाभादतिप्रियम् इति कृतमिति पराकृतम् । स हित्वेति क्वाचित्कोऽपि सुमङ्गलः पाठः । सहेत्यनुक्तावपि वृद्धो यूनेत्यादिवत्तल्लाभसम्भवात् । स हत्वेति पाठे स आलिकुलैः सखीसङ्घैः सहास्मानिति शेषः । हत्वा त्वां बिभ्रद्दृष्टः कच्चिदित्यन्वयः । अतिप्रियः प्राङ्नो यः स इत्यावृत्त्याऽप्यन्वयः । नेह किं वध इति वक्ष्यमाणत्वादिदमेवमनेन हननं भवतीति भावः ॥ ७ ॥
सुमनोरञ्जिनी
हे तुलसि अलिकुलैः सह त्वा त्वां बिभ्रत् ते अतिप्रियोऽच्युतस् ते त्वया दृष्टः कच्चित् । अलिकुलैः सह त्वया दृष्टः किमिति वा ॥ ७ ॥
मालत्यदर्शि वः कच्चिन्मल्लिके जातियूथिके ।
प्रीतिं वा जनयन् यातः करस्पर्शेन माधवः ॥ ८ ॥
पदरत्नावली
मालती जातिविशेषः । ‘मालती जातिभेदे स्यात्’ इत्यभिधानम् । वो युष्माभिः । यूथिका शतपत्रिका ॥ ८ ॥
सत्यधर्मीया
हे मालति जातिविशेषः । मालती जातिभेदे स्यादिति विश्वः । मल्लिके, हे जातियूथिके आम्रातक यूथिकाम्रातके पुष्पविशेषेऽपि च यूथिकेति विश्वः । माधवः, करस्पर्शेन वः प्रीतिं जनयन्यातो, वो युष्माभिर्दृष्टः कच्चित् । पुष्पाणि युष्माकमस्माभिरतीतजातौ तच्चरणसंसर्गोऽदायीति स लब्धः पुनरपि तद्बोधन एधनं तदर्पणेन भवितेत्यवितारं शंसेति तद्याञ्चेति तात्पर्यम् ॥ ८ ॥
सुमनोरञ्जिनी
जातिर् यूथिका वः युष्माभिर् दृष्टः । वः युष्माकं करस्पर्शेन प्रीतिं जनयन् यातः किम् ॥ ८ ॥
चूतप्रियालपनसासनकोविदारजम्ब्वर्क्षबिल्वबकुलाम्रकदम्बनीपाः ।
येऽन्ये परार्थभविनो यमुनोपकूलाः शंसन्तु कृष्णपदवीं रहितात्मनां नः
॥ ९ ॥
पदरत्नावली
चूतः सहकारः । प्रियालो देवदारुः । पनसः कण्टकिफलः । असनः पीतसारकः । कोविदारः काञ्चनारकः । जम्बूर् जम्बु । ऋक्षः शुकनासम् । बिल्वः शैलूषः । बकुलो वञ्जुलः । आम्रो रसालः । कदम्बः स्तोकपुष्पः प्रियकः । नीपः परागप्रधानो महापुष्पः प्रियकः । परार्थभविनो लोकोपकारार्थमुत्पन्नाः । यमुनाकूलसमीपे वर्तमानाः । रहित आत्मा स्वामी कृष्णो यासां तास्तथा ॥ ९ ॥
सत्यधर्मीया
प्रियालो राजादनः । असनः पीतसारः । कोविदारः काञ्चनारकः । ऋक्षः शोणकवृक्षः । ऋक्षोऽद्रिभेदे भल्लूके शोणक इति विश्वः । बिल्व । बकुलो वञ्जुलोऽशोक इत्यमरः । भ्रमात्पुनर्वचः । आम्रकदम्बाम्राणां समूह । नीपः कदम्बमाहुः सिद्धार्थे नीपेऽपि निकुरम्ब इति विश्वः । अतो नैकातिरेकः । येऽन्ये परार्थभविनः परार्थं भव उत्पत्तिः स एषामस्तीति ते तथा । यमुनोपकूला यमुना उपकूलमुत्पत्तिस्थलं येषां ते । रहितमात्मा शरीरमीशो वा यासां तास्तासां जीवन्मृतानामिति यावन् नः कृष्णपदवीं शंसन्तु । हे इ वनलक्ष्मि अमुना रहितात्मनां नोऽमुना कृष्णेन ॥ ९ ॥
सुमनोरञ्जिनी
चूतः प्रसिद्धः, प्रियालः राजादनः स च चूतावान्तरभेदः । कोविदारः काञ्चनारकः, असनः पीतसारो वृक्षविशेषः । ऋक्षं शुकनासं, नीपः कदम्बावान्तरभेदः । हे चूतादयः ये अन्ये च परार्थमेव भविन उत्पन्नाः । यमुनायाः कूलसमीपे वर्तमाना वृक्षजातीया भवन्तः । रहित आत्मा स्वामी श्रीकृष्णो यासां तासां नः, कृष्णस्य पदवीं मार्गं शंसन्तु कथयन्तु
॥ ९ ॥
किं ते कृतं क्षिति शुभं बत केशवाङ्घ्रिस्पर्शोत्सवोत्पुलकिताऽङ्गरुहैर्विभासि ।
अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा आहो वराहवपुषा परिरम्भणेन ॥ १० ॥
पदरत्नावली
हे क्षिति वसुन्धरे ते त्वया किं शुभं तप आदिकं कृतम् । कथमेवमवगत-मित्यत आहुः केशवेति । ‘केशाद् वोऽन्यतरस्याम्’ इति सूत्रेण प्रशस्ताः केशा अस्य सन्तीत्यर्थे वप्रत्ययः । केशवस्याङ्घ्र्योः पादयोः स्पर्शः सम्बन्धस्तज्ज उत्सवस्तेनोत्पुलकिता सञ्जातरोमाञ्चा अङ्गरुहैर् विपुलपुष्पफलभरिततरुभिर्विभासि देदीप्यसे । बत तव सन्तोषोऽस्माकं खेद इत्यर्थः । ‘खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत’ इत्यमरः । हे अङ्घ्रिसम्भवे श्रीपतिपादाब्जसम्भूते । ‘पद्भ्यां भूमिरजायत’ इत्यादेः । उरुक्रमस्य त्रिविक्रमस्य विक्रमात् पादविक्रमणाद् वा आहोस्विद् वराहवपुषा हरिणा कृतेन परिरम्भणेन समुद्धृतिलक्षणालिङ्गनेनोत्पुलकिताऽङ्गरुहैर्विभासि वा ॥ १० ॥
दुर्घटभावदीपिका
अङ्घ्रिसम्भवे भगवत्पादोत्पन्नेऽत एवापि लोकसम्भाविते क्षिति अस्मात्त्वं पूर्वमुरुक्रमविक्रमाद्वा विक्रमपादविक्षेपादिव वराहवपुषा वराहदेहविशिष्टेन नारायणेन कृतेन परिरम्भणेन वाऽऽलिङ्गनेन वेदानीं केशवाङ्घ्रिस्पर्शोत्सवोत्पुलकिताङ्घ्रिरुहैर्विभासि । अतस्ते त्वया कृतं पर्याप्तमङ्गोपाङ्गपूर्णमहो आश्चर्यकरं किं शुभं बत । आमन्त्रितमादरपूर्वकम् । कृतमिति यावदिति । एतेन बतेत्येतद्व्यर्थमिति दूषणं निरस्तम् । खेदानुकंपासन्तोषविस्मयामन्त्रणे बतेत्यमरानुसारेण बतेत्यस्यामन्त्रितमित्यर्थ इत्युक्तत्वात् । एतेनैवापिशब्दो व्यर्थ इति चोद्यं परास्तम् । अपिः सम्भावनायामिति वचनानुसारेणापि शब्दस्य सम्भावनार्थत्वमङ्गीकृत्य लोके इत्येतद्योग्यतया सम्बध्यत इति चाङ्गीकृत्य लोकसम्भावित इत्यर्थस्योक्तत्वात् । एतेनैवेदानीं भूम्याः कृष्णपादस्पर्शसन्तोष-निमित्तकरोमोद्गमनेन विभातमित्यर्थस्य निश्चितत्वात् । किं केशवाङ्घ्रिस्पर्शोत्सवोत्पुलकिताङ्गरुहै-र्विभास्यथवोरुक्रमविक्रमाद्विभास्याहोस्विद्वराहवपुषा परिरम्भणेन विभासीति विकल्पोऽनुपपन्न इति दूषणं पराकृतम् । वाशब्दस्योपमानार्थकत्वमहो इत्यत्राहो इति पदच्छेदेनात्याश्चर्यकरत्वार्थकत्वमङ्गीकृत्य विकल्पार्थत्वमित्यनङ्गीकारात् ॥ १० ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे अष्टाविंशोऽध्यायः ॥ १०-२८ ॥
सत्यधर्मीया
हे क्षिति महि । क्तिजन्तत्वात्कृदिकारादक्तिन इति ङीप् । ईकारान्तः शब्दः । ते त्वया किं शुभं तप आदिकं कृतम् । केन कार्येणोह्यतेऽस्मच्छुभं युष्माभिरित्यत आहुः ॥ केशवेति ॥ केशवस्याङ्घ्य्रोः पादयोः स्पर्शः सम्बन्धस्तज्ज उत्सवस्तेनोत्पुलकिता सञ्जातरोमाञ्चा ॥ अङ्गरुहैर्दूर्वादिभिर्विभासीति ॥ बत तव सन्तोषोऽस्माकं खेद इत्यर्थः । अङ्घ्रिसङ्ग उत्पुलकित-तायां मम तयोश्च कोऽनुबन्ध इति न वदाम्बेति तामाहुः ॥ हे अङ्घ्रिसम्भव इति ॥ अङ्घ्रिभ्यां सम्भवतीति सा तथा । पद्भ्यां भूमिरजायतेत्यादेः । ताततापेक्षया भीतिः प्रबलेति हे अबले तवेयं पुलकितता वेति पृच्छन्ति । उताप्युरुक्रमस्य त्रिविक्रमस्य विक्रमात्पादविक्षेपात्तद्भारस्य प्रागनु-भूतत्वादिदानीमप्रदर्शने सन्तोषकार्यस्य पुनरपि तथा कृतवांश्चेत्सहनं न भवेन्ममेति भयत एव वेति । सर्वमपि सर्वसहेऽकिञ्चित्करमिति स्वानुभूतं पक्षमुत्प्रेक्ष्य प्रेक्षावत्यः पृच्छन्ति । आहो वराहवपुषा वराहस्य वपुरिव वपुर्यस्य तेन हरिणा कृतेन परिरम्भणेनालिङ्गनेनेति वा । वरेणासुरवरेण सह त्वदुद्धृतये आहवं युद्धं पुष्णाति तत्पोषस्तु तन्मारणरूप इति । अथवाऽऽहवेन तन्मरणकारणेन समरेण पुष्णाति त्वामिति तेनेत्यावर्त्याऽन्वय इति ॥ १० ॥
सुमनोरञ्जिनी
हे क्षिति क्षिते । ते त्वया किं शुभं सुकर्म कृतम् । बतेति हर्षे । कुतः । यतस्त्वं केशवस्य अङ्घ्रिस्पर्शेन उत्सवो यस्याः सा । अङ्गरुहैस् तरुगुल्मादिभिर् उत्पुलकिता रोमाञ्चितेव विभासि । उत्पुलकितत्वे निमित्तं पृच्छति, वितर्कयति । अपि किं तत्र अङ्घ्रिसम्भव ओः भगवदङ्घ्रेः सकाशात् सम्भव उत्पत्तिरेव तत्र निमित्तम् । पद्भ्यां भूमिरिति श्रुतेः । आहो-स्विदुरुक्रमस्य त्रिविक्रमस्य विक्रमात् पादविन्यासाद् इत्थंभूता । किं वा वराहवपुषा हरिणा कृतेन परिरंभणेन आलिङ्गनेनेति । हे अङ्घ्रिसम्भवे इति क्षितेः सम्बोधनं वा । योजनांतराणि पदरत्नावल्यां द्रष्टव्यानि ॥ १० ॥
अप्येणपत्न्नयुपगतः प्रिययेह गात्रैस्तन्वन् दृशां सखि सुनिर्वृतिमीश्वरो वः ।
कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेरिह वाति गन्धः ॥ ११ ॥
पदरत्नावली
हे सखि एणपत्नि वो युष्माकं दृशां सुनिर्वृतिं हर्षोत्कर्षं गात्रैर् नेत्राद्यै-रतिचार्ववयवैस् तन्वन् सन् कयाचित् प्रियया सहेश्वरो भर्ता इहोपगतोऽपि किम् ? अपीति सम्भावनायाम् । ‘गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि’ इत्यमरः । प्रियासाहित्यद्योतकं वदन्ति कान्तेति । कान्तायाः सहनीतवनिताया अङ्गसङ्गादालिङ्गनलक्षणात् सङ्क्रान्तकुचकुङ्कुमेन रञ्जिताया अनुरागीकृताया अस्मत्कुलपतेः कृष्णस्यांसावलम्बिन्याः कुन्दस्रजः कुन्दपुष्पमालाया गन्ध आमोद इह त्वदन्तिके वाति आगच्छति । ‘वा गतिगन्धनयोः’ इति धातुः ॥ ११ ॥
सत्यधर्मीया
हे एणपत्नि उपचारतो वा देवा एवावन्यामेतदाद्यात्मनाऽवतारिता इति वा पत्नीत्युक्तिः । तत्कृतयज्ञफलभोक्तृताप्रयोजकत्वात्तच्छब्दप्रयोगस्य योषित्सु । वो व इत्येकैवानेकतया कायस्मृतिगतेरभावादिति वा सम्मानिनीयेयं मानिनेति वाऽस्मद्वत्सापत्न््नयक्लेशो न त इति व्यञ्जयितुं च बहुवचनैकवचने ज्ञेये । प्रियया सह नीतया गात्रैः स्वावयवैदृष्टैर्दृशां द्रष्टृणाम् । सखीति दृक् सदृक् तया सख्यं ज्ञेयम् । सुनिर्वृतिं बहुसुखं तन्वन् सन् उपगतः समीपमाप्तः । हे मोहनाङ्ग्य ऊह्यते केनेत्यत आहुः । कुलपतेः श्रीकृष्णस्य । कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः, कान्तायाः सहनीतवनिताया अङ्गसङ्गस्तत्काले कुचकुङ्कुमेन रञ्जिता तस्याः । कुन्दस्रजः कुन्दमालाया इह त्वन्निकटे गन्ध आमोदो वाति आवात्यागच्छतीति । नो नाथ आयातश्चेदायताक्षि नैवंविधः कुन्दस्रगामोदः स्यादिति भावः । अतिगन्ध उपगत इह वा इहैव । वाशब्द इवार्थे । वा स्याद्विकल्पोपमयोरिवार्थे च समुच्चय इति विश्वः । गन्धो गन्धक आमोदे इति विश्वः । हे सखि एणपत्नि गात्रैर्नेत्राद्यैर्दृशां सुनिर्वृतिं तन्वन्प्रिययेतरया सहेश्वरो भर्ता पुंमृग उपगतोऽपि किमित्यर्थः । अपिः सम्भावनाप्रश्नशङ्कागर्हासमुच्चय इति विश्वः । स च न दृश्यते गन्धश्चैतादृश आयातीति स गत एवेत्यूहयाम इति वदन्ति ॥ कान्तेति ॥ कुलपतेर्हरिणस्य कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजस्तन्मालायास्तासां गन्ध आवाति । स न दृश्यत इति तात्पर्यमिति केचित् । भ्रम-परिभ्रमणतः स्वसौभाग्यं तत्र मृग्यामारोप्य कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेरिति प्रतिपादितं सुदत्यो वदन्तीति च तात्पर्यं वर्णयन्ति । याः, कान्तः पतिरङ्गसङ्गकाले कुचकुङ्कुमेन रञ्जितो याभिस्तास्तासामस्माकं कुन्दानां स्रग्यस्य तस्य कुलपतेः कृष्णस्य सकाशादिहैतत्समयेऽतिगन्धो बहुहिंसा उपगतो गतम् । व ईश्वरस्तु हे सखि एणपत्नि प्रियया त्वयैव सह गात्रैर्दृशां सुनिर्वृतिं तन्वन्नुपगतोऽपि किम् । नास्मद्वत्तव दुर्दशाऽत एवं विभासीत्याक्रोशोक्तिरित्यपि योजयन्ति ॥ ११ ॥
सुमनोरञ्जिनी
हे एणपत्नि मृगभार्ये ईश्वरः श्रीकृष्णः गात्रैर् वः युष्माकं दृशां निर्वृतिम् आनन्दं तन्वन् । कयाचित्प्रियया सह । इह, अपि किम्, उपगतः प्राप्तः । प्रियया सह इहागत इति प्रश्ने बीजमाहुः ॥ कान्तेति ॥ कान्ताया अङ्गसङ्गेन निमित्तेन कुचकुङ्कुमेन रञ्जितायाः संक्रान्तायाः कुलपतेः श्रीकृष्णस्य या कुन्दकुसुममयी स्रक् तस्या गन्धः वाति आगच्छति । गन्धः गन्धवान्वायुर्वा मत्वर्थीयोऽच् । कुङ्कुमगन्धसम्भिन्नः कुन्दगन्धः समायाति यतोऽतः कयाचित्प्रियया सहैवेहागतः स्यादिति सम्भाव्यत इति भावः । अधिकं तु पदरत्नावल्यां द्रष्टव्यम्
॥ ११ ॥
बाहुं प्रियां स उपधाय गृहीतपद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धैः ।
**अन्वीयमान इह वस्तरवः प्रणामं किं वाऽभिनन्दति चरन् प्रणयावलोकैः **
॥ १२ ॥
पदरत्नावली
विपुलफलगुच्छैरभिनतान् तरून् कृष्णदर्शनात् प्रणतान् मत्वा पृच्छन्ति बाहुमिति । हे तरवः कृष्णकलेवरस्थतुलसिकामालामकरन्दलोलैरलिकुलैस्तदामोदमदान्धैरन्वीय-मानोऽनुगम्यमानो रामानुज एकं बाहुं प्रियाया अंसे उपधाय निधायापरेण गृहीतं पद्मं येन स गृहीतपद्म इह चरन् प्रणयावलोकैः सस्नेहकटाक्षैर् वो युष्माकं प्रणाममभिनन्दति किं वा ? अनेन वनाभिमानिनां भक्त्युन्नतिः सूचिता ॥ १२ ॥
सत्यधर्मीया
तरूनुरुफलभुग्नानग्रतो दृष्ट्वा नमन्तो नमता वा वासुदेवेनेति पृच्छन्ति ॥ बाहुमिति ॥ प्रियायाः कस्याश्चिदंसे स्कन्धे बाहुमुपधाय निधाय गृहीतपद्मो गृहीतमितरहस्तन्यस्तं पद्मं येन सः । अन्तरङ्गतस्तु गृहीता पाणिगृहीती पद्मा रमा येन स इति । अनेनास्मत्कृतसुकृततो लोकानुकृत्यैवं नटनमस्येति ध्वन्यते । रामानुजो रामा अस्माननु हीना जो जेतेति । रामानुजो रामैका अनु अनुसृत्य जा जवनोपेता यस्येति वा सः । जो जेता जवनेऽपि स्यादिति विश्वः । आर्यं प्रति वोक्त्वा जीवन्त्यश्चेदुत्तरत्र शासितुं शक्यमिति रामस्य बलरामस्यानुज इत्यभ्यधुरिति वा । तुलसिकासङ्गता अलयो भ्रमरास्तेषां कुलानि तैर्मदान्धैरेतद्रसास्वादजनितमदान्धैरन्वीयमानोऽ-स्मन्नाथ इह चरन्, हे तरवः प्रणयावलोकैः सस्नेहकटाक्षैः प्रणामं युष्मत्कृतमभिनन्दति किं वेत्यपृच्छन् । कच्चित्कुरबकाशोकेत्यशोकस्य, कच्चिन्मल्लिक इति मल्लिकायाश्चूतप्रियालेति चूतस्य प्रस्तुतप्रश्नादिनाऽऽननुबन्धान्न मन्मथसाहितीमावहेयुरुत्पलं च तासामुत्पलाक्षीत्वात्स्वकान्तिपराजितत्वाच्च तद्वाणीभवनसम्भवं शिष्टं सपत्नीपद्मासद्मेति छद्मना पद्मं कायजसहायमाचरेदितस्तद्रक्षाऽऽवश्यकीति पद्मं दधार करे हरिरिति ध्वनितमनेनेति ज्ञेयम् । अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायका इत्यमरः ॥ १२ ॥
सुमनोरञ्जिनी
फलप्रसूनादिभारेण नम्रान् तरून् दृष्ट्वा ‘अत्र श्रीकृष्ण आगतः स्यात् । कथमन्यथाऽन्यस्मै ते स्वशाखाग्रैः प्रणामं कुर्युरिति मत्वा पृच्छन्ति ॥ बाहुमिति ॥ प्रियाया अंसे बाहुं स्वबाहुम् उपधाय हस्तेन गृहीतपद्मः । तुलसिकाया अलिकुलैर् भ्रमरसमूहैर् अत एव मदान्धैर् अन्वीयमान इह चरन् वः युष्माकं प्रणामम् अभिनन्दति श्लाघते किम्? किञ्च प्रणयावलोकैर् अभिनन्दति अन्तर्णीतणिजर्थोऽयम् । अभिनन्दयति किमिति? पदरत्नावल्यां बाहुमतीत्यवतार्य वः युष्मभ्यं प्रणामं चरन् कुर्वन् प्रणयावलोकैर्वो युष्मान् अभिनन्दतीत्यपि योजितम् ॥ १२ ॥
पश्यतेह लता बाहूनप्याश्लिष्टा वनस्पतेः ।
नूनं तत्करजस्पर्शाद् बिभ्रत्युत्पुलकान्यहो ॥ १३ ॥
पदरत्नावली
हे सख्य इह लता वनस्पतेः स्वभर्तुर्बाहून् स्कन्धानाश्लिष्टा अपि नूनं निश्चयेन तस्य कृष्णस्य करजानां नखानां स्पर्शाद् उत्पुलकानि उन्मुखविपुलमुकुललक्षणानि बिभ्रति अहो बह्वश्चर्यं पश्यत । अयं रूपकालङ्कारः सुरतसुखस्मारकः ॥ १३ ॥
सत्यधर्मीया
हे सख्य इह तत्करजस्पर्शात्तस्य कृष्णस्य कराभ्यां जायत इति स चासौ स्पर्शश्च तस्मात् । करजा नखा वा । उत्पुलकान्यूर्ध्वं पुलका येषु तानि लोमस्थलानि भवत्यो बिभ्रति तथेह वनस्पतेर्वृक्षराजस्य बाहून् स्कन्धानाश्लिष्टा आलिङ्गितवत्यः । कर्तरि क्तो वा भावे वोक्तस्ततो बहुव्रीहिर्वा । लता अप्युत्पुलकानि गतम् । बिभ्रति । अहो अतद्योग्यस्यापि वनस्पतेः सहवास इयदुन्नाहवह इत्याश्चर्यं पश्यत । एकः कृष्णः स्वयमनेका इत्यत्रापि वनस्पतेर्लता इति न्यरूरुपन्सारूप्यमिति ज्ञेयम् । नूनं निश्चयः । वनस्पतेर्बाहूनाश्लिष्टा लता अपीह नूनं निश्चयेन तत्करजाः कृष्णनखास्तत्स्पर्शादुत्पुलकानि बिभ्रत्यहो सख्यः पश्यत । स्वपत्यालिङ्गनतोऽपि तासामस्मन्नाथकरजमात्रस्पर्शः पुलककुलकोऽतोऽस्माभिः स्वस्वपतिपरित्यागत आगतिरच्युतं प्रत्युचितेति सूचयामासुरिति ज्ञेयमिति वा । एवमेव देवोऽपि हे सख्यः सह वर्तेत चेद्वयमपि समाश्लिष्य तमुत्पुलकितकलेवराः स्यामेति तासां हृदयम् ॥ १३ ॥
सुमनोरञ्जिनी
इमा लताः पश्यत । वनस्पतेर्बाहूनाश्लिष्टा अपि तस्य कृष्णस्य करजैर् नखैः स्पर्शाद् उत्पुलकानि बिभ्रति । अत इमाः कृष्णेन सङ्गता एव नूनम् ॥ १३ ॥
एवं कृष्णं पृच्छमाना वृन्दावनलतास्तरून् ।
व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥ १४ ॥
पदरत्नावली
उपसंहरति एवमिति ॥ व्यचक्षतापश्यन् । वनोद्देशे वनप्रदेशे ॥ १४ ॥
सत्यधर्मीया
शुक आह ॥ एवमिति ॥ पृच्छमानाः पृच्छन्त्यो वृन्दावनलताः । समस्तमपि लतापदेन वृन्दावनपदं विश्लिष्टं सत्संश्लिष्टं योग्यतया भवति तरुपदेनापि । ततश्च वृन्दावनलता वृन्दावनतरूंश्चेति सिध्यत्यन्वयः । वृन्दावनलताभिरस्तो रुः शब्दो येषां ते वृन्दावनलतास्तरवस्तांस्तरूनित्यावृत्त्याऽन्वयः । एकयैकान्तकाले तच्छब्दश्चेद्रसाभासः स्यादिति भाव इति वा । क्वचिद्वनोद्देशे परमात्मनः पदानि व्यचक्षतापश्यन् ॥ १४ ॥
सुमनोरञ्जिनी
वृन्दावने विद्यमाना लतास्तरूंश्च । एवं पृच्छमानाः । वनोद्देशे वनप्रदेशे । परमात्मनः श्रीकृष्णस्य पदानि व्यचक्षत अपश्यन् ॥ १४ ॥
पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः ।
लक्ष्यन्ते हि ध्वजाम्भोजवज्राङ्कुशलतादिभिः ॥ १५ ॥
पदरत्नावली
परमात्मचरणाकृतित्वं कथमवगम्यत इत्यतस्तल्लक्षणमुच्यते पदानीति ॥ लता कल्पलता । आदिपदेन चक्रादिग्रहः । ‘यवादिभिः’ इत्यपि पाठः ॥ १५ ॥
सत्यधर्मीया
कथं निर्दधुः पदानि यदुपतेरित्यत आह ॥ पदानीति ॥ लता कल्पलता । आदिपदेन यवचक्रादिग्रहः ॥ १५ ॥
सुमनोरञ्जिनी
तत्र श्रीकृष्णपदानि दृष्ट्वापि सन्दिहानाः प्रति काश्चिदाहुः ॥ पदानीति ॥ एतानि नन्दसूनोः पदानि । व्यक्तं निश्चितमेवैतत् । कुतः । यत एतानि ध्वजाद्याकाररेखाभिर्लक्ष्यन्ते । लता कल्पलता । आदिपदेन यवपूर्णकुम्भादयो विवक्षिताः ॥ १५ ॥
तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः ।
वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ १६ ॥
पदरत्नावली
तैस्तैर्ध्वजवज्रादिचिह्नितैः पदैस्तस्य कृष्णस्य पदवी मार्गमन्विच्छन्त्यो ऽन्वेषयन्त्योऽग्रतः पुरस्ताद् वध्वाः कस्याश्चिद् गोपस्त्रियः पदैः पदाङ्कैः सुपृक्तानि सम्मिश्रितानि विलोक्यार्ता दुःखिताः समब्रुवन् सल्लापमकुर्वन् ॥ १६ ॥
सत्यधर्मीया
इत्युन्मत्तवचो गोप्य इत्यारभ्य बद्धान्यया स्रजा काचित्तन्वीत्यादि विडम्बन-मित्यन्ता दशश्लोकी प्रक्षिप्तेति प्रेक्षावत्सम्प्रदाय इति न व्याख्याता प्राचीनैरिति न व्याख्याताऽ-स्माभिरपीति ज्ञेयम् । तैस्तैः पदैस्तत्पदवीं कृष्णमार्गमन्विच्छन्त्यः काङ्क्षन्त्योऽग्रतः पुरो वध्वाः कस्याश्चित्पदैः पदाङ्कैः सुपृक्तानि सम्पृक्तानि मिश्रितानीति यावद् विलोक्य दृष्ट्वाऽऽर्ताः, सपत्न्याः कस्याश्चिदङ्गसङ्गोऽस्माकं पत्युरित्युन्नता किं सेतीर्ष्याद्दुःखिताः समब्रुवन्परस्परसंल्लापं चक्रुः ॥ १६ ॥
सुमनोरञ्जिनी
तैस्तैस्तत्र तत्र प्रतीयमानैः । तत्पदवीम् अन्विच्छन्त्यो ऽन्वेषणं कुर्वन्त्यः । वध्वाः कस्याश्चित्स्त्रियः पदैः पादविन्यासैः सुपृक्तानि मिश्रितानि विलोक्य समब्रुवन् ॥१६॥
कस्याः पदानि चैतानि याताया नन्दसूनुना ।
अंसन्यस्तप्रकोष्ठायाः करिण्याः करिणा यथा ॥ १७ ॥
पदरत्नावली
करिणा सह करिण्या यथा यानं तथा नन्दसूनुना सह याताया इत्यन्वयः । प्रकोष्ठः कफोणेरधो मणिबन्धपर्यन्तहस्तभागः ॥ १७ ॥
सत्यधर्मीया
नन्दसूनुना सह याताया अस्मन्मध्य एव कस्या एतानि पदानि योषिच्चरणा इति निश्चयोऽप्येतस्या इत्यनिश्चय इति कस्या इत्युक्तिः । अंसयोः पत्युः स्कन्धयोर्न्यस्तः प्रकोष्ठः, प्रकोष्ठो विस्तृतकरे भूपकक्ष्यान्तरेऽपि च । कूर्परादधरे चापीति विश्वः । अब्रुवन्नित्यनेनान्वयः । कूर्परादधस्तनभागो यया सा तस्याः । करिण्याः पदसम्पृक्तानि करिणः पदानीवेति केचित् । करिणा सह करिण्या यथा यानं तथा याताया इत्यन्वयः ॥ १७ ॥
सुमनोरञ्जिनी
नन्दसूनुनेत्युभयत्र सम्बध्यते । नन्दसूनुना, अंसे स्वांसे न्यस्तः प्रकोष्ठो मणिबन्धकूर्परयोर्मध्यभागो यस्यास्तथाविधायाः कस्याः पदान्येतानि स्युः । या नन्दसूनुना सह गता अस्मान्विहायेति शेषः । करिणा अंसन्यस्तप्रकोष्ठायाः करिण्याः पदानीव विद्यमानानीति ॥१७॥
अनयाऽऽराधितो नूनं भगवान् हरिरीश्वरः ।
यन्नो विहाय गोविन्दः प्रीतो यामनयद् रहः ॥ १८ ॥
सत्यधर्मीया
यद्यतो नोऽस्मान्विहाय त्यक्त्वा गोविन्दः प्रीतो यां रह एकान्तस्थान-मनयन्नीतवांस्तस्मादनया हरिरीश्वरो भगवान्नूनं निश्चयेनाराधितः पूजितो भवेत् । अनयाऽऽराधित इत्यतोऽनुवृत्तमानमाराधनं नूनं निश्चय इत्यब्रुवन्नित्यन्वयः । अनया आर आधित इति छेदः । अनया सहारेत्याधितो मनोव्यथातोऽब्रुवन्नित्यनेनान्वयः । आर्ता इति पूर्वेक्तिस्वारस्यात् ॥ १८ ॥
सुमनोरञ्जिनी
अनया श्रीकृष्णेन सङ्गतया स्त्रिया भगवान् पूर्वजन्मन्याराधित एव नूनं यद् यदाराधनप्रभावादेव गोविन्दः प्रीतः सन् नो ऽस्मान् विहाय यां रहः रहसि अनयन् नीतवान् ॥१८॥
धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः ।
यान् ब्रह्मेशौ रमादेवी दधुर्मूर्ध्ना तदूतये ॥ १९ ॥
पदरत्नावली
हे आल्यः सख्यः । ‘आलिः सत्रे सखीपङ्क्त्योः’ इति यादवः । तदूतये स्वाभिप्रेतार्थसिद्ध्यर्थम् ॥ १९ ॥
सत्यधर्मीया
हे आल्यः सख्यः । आलिः सखी सत्रपङ्क्त्योरिति यादवः । गोविन्दा-ङ्घ्र्यब्जरेणवोऽमी धन्याः कृतकृत्या अहो । यान्रेणून्ब्रह्मा चेशश्च तौ विधिभवौ रमादेवी च तदूतये स्वस्वाभिप्रेतोती रक्षा वाऽभिप्रेतार्थसिद्धिर्वा तस्यै । भरतिष्ठान ऊतये रक्षानिमित्तमभिप्रेतार्थ-सिद्ध्यर्थमित्यृग्भाष्याद्दूतिजूतीति निपातितः । मूर्ध्ना दधुरिति । इयदामननादित्युक्तेर्विधिरधिकृतो भवद्भवादौ रमा च नाधिकारिमध्यस्थेति विशेषं सूचयितुं पृथङि्नर्देशः । कथाविच्छेदश्चेदपि भवतु यत्राङ्काः पदानां ते धन्या इत्यौत्सुक्यातिशयेनास्तुवन्रेणून्करेणुगतय इति तात्पर्यम् । आन्तरङ्गिको भावस्त्वेतयाऽऽराधित इत्यनुक्तेरुक्तेरनयानुपूर्व्याऽनयेनास्माभिर्विनाऽनयैवेत्यान्यायेनाराधित इति व्यज्यमान एतासां ज्ञेयः ॥ १९ ॥
सुमनोरञ्जिनी
हे आल्य आलिः सखी वयस्या स्यादित्यमरः । सख्यो ऽमी वनोद्देशा धन्याः कृतार्थाः । कुतः । गोविन्दांघ्य्रोरब्जरेणवः हेतुगर्भविशेषणमिदम् । यतो गोविन्दाघ्य्रंब्जरेणवो येषु ते तथाविधा अत इति । यद्वा गोविन्दांङ्घ्र्यब्जरेणवः धन्या अतिपुण्या इत्यर्थः । यान् रेणून् ब्रह्मेशौ ब्रह्मरुद्रौ रमादेवी च ऊतये स्वरक्षायै मूर्ध्ना दधुर् अधारयन् तत्तस्मादिति
॥ १९ ॥
तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् ।
एकाऽपहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥ २० ॥
पदरत्नावली
यद् यस्माद् गोपीनां नो मध्ये एकाऽपहृत्य अस्मत्प्रियतमं कृष्णं वशीकृत्य रहो रहसि अच्युताधरं दामोदराधरसुधां भुङ्क्ते तस्मात् तस्या अमूनि पदानि उच्चैर्भृशं क्षोभं चित्तविक्षेपं कुर्वन्ति ॥ २० ॥
सत्यधर्मीया
शोकस्तु प्राक् सन्नुज्वलत्युज्वलाङ्गीचरणाङ्करेणुदृष्ट्योत्कृष्टमित्याहुः ॥ यदिति ॥ यत एकाऽपहृत्यास्मत्तो गोपीनां नो मध्येऽच्युताधरं भुङ्क्ते । अनेन न व्यासेधामो दामोदराधर-सुधापानमस्माभिः सह तस्या इति स्वतदनसूयतां ध्वनयन्ति । तस्यास्तस्मादमूनि पदानि चरणान्युच्चैः प्रोक्तोऽतिशयेन क्षोभं चित्तचलनं कुर्वन्ति ॥ २० ॥
सुमनोरञ्जिनी
अपरा आहुः । तस्याः कृष्णनीतायाः स्त्रियो ऽमूनि दृश्यमानानि पदानि नः क्षोभं कुर्वन्ति । कुतः । यद् यस्माद् गोपीनां मध्ये एकैव गोविन्दमपहृत्य स्थानान्तरे नीत्वा रहो ऽच्युतस्य अधरम् अधरसुधां भुङ्क्ते ॥ २० ॥
न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः ।
खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः ॥ २१ ॥
पदरत्नावली
पुरतो वधूपदासम्पृक्तानि केवलं कृष्णचरणाङ्कान्यालोक्यैवं निश्चिन्वन्तीत्याह न लक्ष्यन्त इति ॥ तृणाङ्कुरैः खिद्यत् परिघातमाप्नुवत् सुजातं कोमलमङ्घ्रितलं यस्याः सा तां प्रेयसी प्रियः कृष्ण उन्निन्ये उदूह्य निनाय नूनं निश्चयः ॥ २१ ॥
सत्यधर्मीया
तस्या अत्र पदानि न लक्ष्यन्ते न दृश्यन्ते । तृणाङ्कुरैः खिद्यत्, सुजातं कोमलमङ्घ्रितलं यस्याः सा तां, प्रेयसीमतिप्रियां प्रियः कृष्ण उन्निन्ये स्कन्धेनोवाह । नूनं निश्चयः । अन्यथा पथि पदानि दृगास्पदानि भवेयुरिति भावः ॥ २१ ॥
सुमनोरञ्जिनी
ततोऽपि किञ्चिद्दूरे गत्वा इदमधिकं शोककारणमित्याशयेनाहुः ॥ नेति ॥ प्रियः श्रीकृष्णः प्रेयसीं प्रियतमाम् उन्निन्ये उदूह्य नीतवान् खलु । उदूह्य नयने निमित्तमुत्प्रेक्षयन्ति ॥ तृणाङ्कुरैरिति ॥ तृणाङ्कुरैः खिद्यत्सुजाते अङ्घ्रितले सुकुमारपादतले यस्याः सा ताम् । उन्नयन-ज्ञापकमाहुः । अत्र अस्मिन्देशे तस्याः पदानि न लक्ष्यन्ते न दृश्यन्ते ॥ २१ ॥
इमान्यधिकमग्नानि पदानि वहतो वधूम् ।
गोप्यः पश्यत कृष्णस्य भाराक्रान्तानि १कामिनः ॥ २२ ॥
पदरत्नावली
युष्मत्परित्यागवत् प्रेयसीपरित्यागेन गमनात् तत्पदादर्शनं किं न स्यात्, कुत उद्धृत्य गमनमनुमीयत इत्यत एतल्लिङ्गमप्रतिहतमित्याहुर् इमानीति ॥ पादाधिकमग्नत्वलिङ्गेन भारवहनत्वमनुमीयत इति यावत् । मानयितुं शीलमस्यास्तीति मानी तस्य । विश्वम्भरस्य कियानयं कृशाङ्गीभार इति चेद् गोपीनां मदनमदापनोदनाय वासुदेव एवैवं दर्शयामासेत्यवसेयम् ॥ २२ ॥
सत्यधर्मीया
काचित्काश्चित्प्रति । अये आल्यो धूल्यास्पदानि चेत्पदानि दृश्येरन्न च तथेति शङ्कते ॥ अधिकमग्नानीति । पदमेकम् । अधिकं के अग्नानीत्यतो न दृश्यन्ते । तद्वहनोहनं न सम्भवतीत्यतोऽप्याहुः ॥ अधिकम् अग्नानीति । अधिकमत्यन्तं न विद्यते ग्ना नदी यमुना एषां तानीत्यतत्प्रविष्टानीति यावत् । दर्शनयोग्यान्यपि न दृश्यन्तेऽत ऊहनं युक्तमिति भावः । ग्नावोनेष्ट इत्यृग्भाष्ये ग्ना नद्यश्च समीरिता इति शीलत्वतो ग्नास्ता इत्युक्तेः । तट्टीकायां च गमेस्ताच्छील्ये न इति नप्रत्ययो डिच्चेत्युक्तः । माधवेन ग्नाशब्दः स्त्रीवाचीत्युक्तम् । तथा चाह यास्कः । मेनाग्ना इति स्त्रीणां मेना मानयन्त्येना ग्ना गच्छन्त्येना इतीति यद्व्याख्यातं तन्न विरुणद्धि ॥
पुनस्तथा तदुद्वहने हेतुमूहयन्ति ॥ इमानीति ॥ हे गोप्यः । कामिनो वधूं वहत इमानि पदानि । भाराक्रान्तानीत्यधिकं मग्नानि धूल्यां पश्यत । स्वेर्ष्यावशाद्विश्वम्भरस्य कियानयमेकस्याः कृशाङ्ग्या भारस्तेनातिमग्नतावादोऽपि तासामिति भ्रमतो बोध्यः । अथवैतासां मदनमदविधूतये मधुसूदन एवैवं दर्शयामासेत्यवसेयम् ॥ २२ ॥
सुमनोरञ्जिनी
इतोऽप्यनन्यथासिद्धलिङ्गबलादुन्नयनमनुमीयत इत्याहुः ॥ इमानीति ॥ हे गोप्य इमानि पदानि पश्यत । कीदृशानि । अधिकमग्नानि अधिकं यथा तथा भूम्यां मग्नानि । कस्य पदानि, भाराक्रान्तस्य कृष्णस्य । अनेनाधिकमग्नत्वे भाराक्रान्तत्वमेव निमित्तमिति सूचितम् । भाराक्रान्तत्वमेव कुत इत्यतस्तन्निमित्तमाहुः ॥ वधूं वहत इति ॥ २२ ॥
अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना ।
अत्र प्रसूनापचयः प्रियार्थे प्रेयसा कृतः ॥ २३ ॥
पदरत्नावली
प्रसूनापचयः पुष्पलवनम् ॥ २३ ॥
सत्यधर्मीया
पुष्पहेतोस्तदादानार्थं महात्मना कृष्णेनात्रा त्रायत इति त्रोऽकिञ्चिदुपपदकादपि त्रायतेरादेच इत्यात्वे आतश्चेति योगविभागात्पान्तीति पाश्चक्रवर्तिन इतिवत्कप्रत्यये त्रोऽन्यो न विद्यते यस्या इति वा, अस्त्रायको यस्या इति वाऽत्रा कान्ताऽवरोपिता स्कन्धादवतारिता । अत्र प्रेयसा प्रियार्थे प्रसूनापचयः कुसुमलवनं कृतः ॥ २३ ॥
सुमनोरञ्जिनी
अहो किमस्याः सौभाग्यं वर्णनीयम् । यदस्या इच्छितं स्वयमेव कर्तुमिच्छतीति भावेनाहुः ॥ अत्रेति ॥ अत्र कान्ता पुष्पहेतोः पुष्पाहरणं निमित्तीकृत्य अवरोपिता । न केवलमेतावद् अपि तु तया प्रेरितेन पुष्पापचयोऽपि कृत इत्याहुः ॥ अत्रेति ॥ महात्मनापि प्रेयसा । प्रियायाः प्रेमपात्राया अर्थे प्रसूनानां पुष्पाणामपचयः प्रलूननं कृतः ॥ २३ ॥
प्रपदाक्रमणे एते पश्यतासकले पदे ।
केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् ॥ २४ ॥
पदरत्नावली
कृष्णेन प्रसूनापचयः कृत इति कथमवगम्यत इत्यत आहुः प्रपदेति ॥ प्रपन्दाभ्यां पादाग्राभ्यामुच्चपुष्पापचयार्थमाक्रमणं ययोस्ते । अत एवासकले भूम्यलग्नपादपृष्ठे इत्यसमग्रे एते पदे चरणचिह्ने पश्यत । केशप्रसाधनं केशसंस्कारः । पूर्णकामस्वभावत्वात् कामी तेन । कामाः सर्वेषामिच्छा अस्य नियम्यतया सन्तीति कामी तेनेति च ॥ २४ ॥
सत्यधर्मीया
कुसुमचयापचयः कृष्णेन कृत इति कथं ज्ञायत इत्यत आहुः ॥ प्रपदेति ॥ प्रपदाभ्यां पादाग्राभ्यामाक्रमणं ययोस्ते । अत एवासकले भूम्यलग्नत्वादपृष्ठे इत्यसकले असमग्रे एते पदे पश्यत । अत्र कामिना कामिन्याः केशप्रसाधनं तत्संस्कारः कृतम् । उन्नतलता आनमय्य पुष्पग्रहणसमये प्रपदमात्रगोत्रास्पर्शः सञ्जात इति भावः । पादाग्रं प्रपदमित्यमरः ॥ २४ ॥
सुमनोरञ्जिनी
तत्र किं ज्ञापकमित्यतस्तदूचुः ॥ प्रपदेति । प्रपदयोः पादाग्रयोर् अक्रमणं ययोस्ते । अत एवासकले असमग्रे एते पदे पादलांछने पश्यत । स्वकराग्रपरिमाणापेक्षया किञ्चि-दुन्नतशाखाग्रगतपुष्पापचयः प्रपदमात्रेण भुवमाक्रम्य कृतः । अत इमे पदे असंपूर्णे स्याताम् । ते पश्यतेति भावः । तत्रैव स्थानान्तरे श्रीकृष्णजान्वन्तरोपविष्टायाश्चिह्नं दृष्ट्वाऽऽहुः । कामिन्याः केशानां शिरोरुहाणां प्रसाधनं संस्कारः । कामिना प्रसन्नेन, प्रसादोऽपीच्छाविशेषः । तद्वता कृतमिति
॥ २४ ॥
तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् ।
रेमे तया चात्मरत आत्मारामोऽप्यखण्डितः ॥ २५ ॥
पदरत्नावली
कान्तामधिकृत्य तानि पुष्पाणि चूडयता शेखरीकुर्वता कृष्णेनेह ध्रुवमुपविष्टम्, पश्यतेति शेषः । तया कामिन्या रेमे च सुरतोत्सवमप्याचचार । परिपूर्णकामस्य हरेः किमनेन कामिनीकामनादिना, किन्तु भक्तश्रेष्ठानामुत्कृष्टाभीष्टपूरणायैव तस्य लीलावैविध्यमिति स्पष्टयन्ति आत्मरत इत्यादिना । आत्मनि कान्तान्तर्गतनारायण्याख्यनिजरूपे एव रत आसक्तः । आत्माराम आत्मना निजरूपान्तरेणैवारामः क्रीडा यस्य स तथा । अत एवाखण्डितः भामिनीविभ्रमैरनाकृष्टः ॥ २५ ॥
सत्यधर्मीया
कान्तां तानि स्वापचितानि कुसुमानि चूडयता शेखरीकुर्वतेह ध्रुवमुपविष्टं तया रेमे च । कामी रेम इत्याद्युक्तिर्लोकानुकारेणेति स्वयं ग्रन्थकृदप्रशस्तकामितादिकं प्रतिषेधति ॥ आत्मरत आत्माराम इति ॥ आत्मरत आत्मक्रीड इति श्रुत्यनुवादरूपमिति न पुनरुक्तिशङ्केति केचित् । आत्मरतः स्वरतः । न विद्यते रामा वयं यस्य सोऽराम आत्मनैवाराम आत्मारामः । स्वेच्छयैव त्यक्तास्मत्कः । अखण्डितः न विद्यते खण्डिता नायक्यो यस्य सोऽखण्डितोऽन्योपभोग-चिह्नितो हि पतिरागच्छति यस्याः साखण्डिता । तत्प्रभेदस्तु रसमञ्जर्यामुक्तो, बहुधा मुग्धाखण्डिता यथा वक्षः किमु कलशाङ्कितमिति किमपि प्रष्टुमिच्छन्त्या नयनं नवोढसदृशः प्राणेशः पाणिना पिदध इत्यादिनोक्तोऽनुसन्धेयः । अधुना स्वदर्शनाभावादेता न खण्डिताः प्राणेशः पाणिनेत्याद्युक्तेः समागम आवश्यकः । शुकोक्ती रेम इत्यादिकेति ज्ञेयम् ॥ २५ ॥
सुमनोरञ्जिनी
तानि पुष्पाणि चूडयता केशपाशे बन्धयता कृष्णेन इह स्थले उपविष्टं खलु । न केवलमेतावत् किंतु तया रेमे च । आत्मारामः स्वरमणः । आत्मरत आत्म स्वरूपभूतं रतं रतिरानन्दो यस्य सः । आत्मारामपदप्रयोजनं पूर्वमुक्तम् । अखण्डितः कामेन अनाकृष्टचित्तः । रेमे तयेति शुकवाक्यमिति केचित् । तन्न । उत्तरवाक्ये इतिशब्दस्य, अस्मिन्नपि चशब्दस्या-स्वारस्यापत्तेः । न चात्माराम इत्यादिवचनं जारत्वेन ज्ञातवतीनां गोपीनां कथमुपपद्यत इति वाच्यम् । न तु ब्रह्मतयेति परीक्षित्प्रश्नवाक्यव्याख्यानावसरे आचार्यचरणैरेवास्याः शङ्कायाः समाहितत्वादिति
॥ २५ ॥
इत्येवं प्रलपन्त्यस्ताश्चेरुर्गोप्योऽविचेतनाः ।
कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ २६ ॥
पदरत्नावली
अविचेतना अविपरीतचेतसः । आत्मारामः किमिति रामाभी रेमे इत्यत्राह कामिनामिति । कामिनां स्त्रैणानां दैन्यं योषित्पारवश्यं स्त्रीणां च दुरात्मतां दृप्तचित्ततां दर्शयन् रेमे इत्यर्थः ॥ २६ ॥
सत्यधर्मीया
विचेतना ज्ञानहीना इति प्रलपन्त्यश्च ता गोप्य एवं चेरुः । आत्मरतः किमिति रेमे रामाभिरित्यत आह । कामिनां निन्दितकामवतां दैन्यं दर्शयन्ननुकुर्वन् स्त्रीणां दुरात्मतां च दर्शयन् रेम इत्यन्वयः ॥ २६ ॥
सुमनोरञ्जिनी
इति पूर्वोक्तप्रकारेण प्रलपन्त्यः विचेतनाः सम्भ्रान्तचित्ताश् चेरुः ॥२६॥
यां गोपीमनयत् कृष्णो विहायान्याः स्त्रियो वने ।
सा च मेने तदाऽऽत्मानं वरिष्ठं सर्वयोषिताम् ॥ २७ ॥
पदरत्नावली
अहं भावः सर्वथा त्याज्य इति दर्शयितुमाह यामिति ॥ सर्वयोषितां मध्ये आत्मानं वरिष्ठं श्रेष्ठं मेने ॥ २७ ॥
सत्यधर्मीया
अन्याः स्त्रियो विहाय यां कृष्णोऽनयन्निनाय वने सा च साऽपि सर्वयोषितां मध्ये आत्मानं वरिष्ठं मेने । आत्मशब्दलिङ्गविवक्षया वरिष्ठमित्युक्तिः ॥ २७ ॥
सुमनोरञ्जिनी
कृष्णनीतायाः स्त्रियो वृत्तान्तमाह ॥ यामिति ॥ कृष्णः यां गोपीम् अनयत् सा तदा सर्वयोषितां मध्ये आत्मानं स्वस्वरूपं वरिष्ठं मेन इत्यन्वयः ॥ २७ ॥
हित्वा गोपीः कामयाना मामसौ भजतेऽति ह ।
ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत् ॥ २८ ॥
पदरत्नावली
स्वं कामयानाः कामयमाना गोपीर्हित्वाऽसौ वासुदेवो मामति अधिकं भजते । हेत्यनेन कथान्तरारम्भं सूचयति । ‘प्रत्यारम्भे प्रसिद्धौ ह’ इति यादवः । वनोद्देशं वनप्रदेशविशेषम् । केशवं प्रशस्तकेशपाशम् ॥ २८ ॥
सत्यधर्मीया
कामयानाः स्वं, गोपीर्हित्वाऽसौ वासुदेवो मामतिभजते । कथान्तरारम्भं सूचयति हेत्यनेन । प्रत्यारम्भे प्रसिद्धौ हेति यादवः । वनोद्देशं गत्वा दृप्ता ततः केशवमब्रवीत्
॥ २८ ॥
सुमनोरञ्जिनी
कुतो मेने इत्यत आह ॥ हित्वेति । कामयानाः सर्वा अपि गोपीर्हित्वा । असौ प्रियः मामेव भजते अतोऽहमेव वरिष्ठेति । ततस्तदनन्तरं सा दृप्ता सती, न मत्सदृशी प्रियतमा अन्या अस्यास्ति अतोऽयं मद्वश एवेत्यहंकाररूपदर्पविशिष्टा केशवमब्रवीत् ॥ २८ ॥
न पारयेऽहं चलितुं नय मां यत्र ते मनः ।
एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति ॥ २९ ॥
पदरत्नावली
न पारये न शक्नोमि ॥ २९ ॥
सत्यधर्मीया
अहं चलितुं न पारये न समर्था यत्र ते मनस्तत्र मां नय । एवमुक्तः स्कन्धे आरुह्यतामिति प्रियामाह ॥ २९ ॥
सुमनोरञ्जिनी
किमितीत्यत आह ॥ नेति । चलितुं गन्तुम् । न पारये न शक्नोमि । यत्र गन्तुं ते मनस् तत्र त्वमेव मां नय । स्कन्धादावारोप्येति शेषः । इत्युक्तः कृष्णः प्रियां, मे स्कन्ध आरुह्यतामित्याहेत्यन्वयः ॥ २९ ॥
ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत ।
हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज ।
दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ ३० ॥
पदरत्नावली
‘भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित्’ इत्याद्युक्तेः पुरुषोत्तमस्य भक्त्यैकलभ्यत्वं प्रकाशयति ततश्चेत्यादिना । हा विषण्णाऽस्मि । ‘हा विषादशुगार्तिषु’ इत्यमरः । हे सखे ते दास्याः किङ्कर्याः कृपणाया दीनायाश्च मे तव सन्निधिं दर्शय ॥ ३० ॥
सत्यधर्मीया
सा वधूरहन्तासहिताऽन्वतप्यत सन्तप्ताऽभवत् । अनुतापप्रकारमीरयति ॥ हा नाथेति ॥ सखे ते तव दास्याः कृपणाया मे । सन्निधिं विद्यमानस्थानं दर्शय ॥ ३० ॥
सुमनोरञ्जिनी
भगवान् भक्तानुग्रहाय तत्कालप्राप्ताहंकारखण्डनेन भक्तिफलमेव ददातीति भावेन पुरोवृत्तान्तमाह ॥ तत इति ॥ पश्चात्तापः शुद्धबुद्धीनां स्वभाव इति दर्शयितुमाह ॥ सा वधूरिति ॥ हे रमण रतिप्रद प्रेष्ठ प्रियतम कृपणाया दीनायाः कृपाविषयाया इति वा
॥ ३० ॥
अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरतः ।
ददृशुः प्रियविश्लिष्टां मोहितां दुःखितां सतीम् ॥ ३१ ॥
सत्यधर्मीया
भगवतो मार्गमन्विच्छन्त्यो गोप्य इतराः । अविदूरतः समीपे । यद्विषय उन्निन्य इत्याद्यूहनं तां ददृशुः । रमणि रुचिररूपः किन्नु दूरे तवासीदित्यादिप्रश्नप्रतिवचनादिकं चोह्यम् । साऽप्यपूर्णमनोरथेत्याह । प्रियस्य विश्लेषेण मोहितां दुःखितां सखीमिति ॥ ३१ ॥
सुमनोरञ्जिनी
भगवतो मार्गमन्विच्छन्त्यो ऽन्वेषयन्त्यः । अपरा गोप्यः । अविदूरतः समीपतः । मोहिताम् अहमेव वरिष्ठेति मोहयुक्ताम् । तत एव प्रियेण कृष्णेन विश्लिष्टाम् अत एव दुःखितां सखीं ददृशुरित्यन्वयः ॥ ३१ ॥
तया कथितमाकर्ण्य मानप्राप्तिं च माधवात् ।
अवमानं च दौरात्म्याद् विस्मयं परमं ययुः ॥ ३२ ॥
पदरत्नावली
कथितं सर्वं तदनुभूतमाकर्ण्य । दौरात्म्याद् अहन्ताहेतुदुश्चित्तताया अवमान-मवज्ञां चाकर्ण्य ॥ ३२ ॥
सत्यधर्मीया
माधवाल्लक्ष्मीपतेः सकाशान्मानप्राप्तिं सत्कारस्वीकारं च तया कथितं सर्वं तदनुभूतमाकर्ण्य श्रुत्वा दौरात्म्यादहन्ताहेतुदुश्चित्तताया अवमानं हेलनं चाकर्ण्य परमं विस्मयं ययुः
॥ ३२ ॥
सुमनोरञ्जिनी
मानप्राप्तिं बहुमानप्राप्तिम् । गर्वप्राप्तिं च । दौरात्म्यात् स्वकीयदौरात्म्यात्
॥ ३२ ॥
गत्वा वनाद् वनं चन्द्रज्योत्स्ना यावद् विभाव्यते ।
तमःप्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः ॥ ३३ ॥
पदरत्नावली
चन्द्रज्योत्स्ना चन्द्रिका यावद् विभाव्यते प्रकाशते तावद् वनाद् वनं गत्वा ततस्तमःप्रविष्टमतिनिबिडवृक्षच्छायाकृतेन तमसा व्याप्तं वनमालक्ष्य निववृतुर् अतिनिबिडवनान्निवृत्ता आसन् ॥ ३३ ॥
सत्यधर्मीया
अत्र ज्योत्स्नाशब्दः कान्तिमात्रवाची । यावच्चन्द्रप्रकाशो विभाव्यते तावद्वन-मविशन् । चन्द्रवत्कर्पूरवद्धवलज्योत्स्ना चन्द्रिकेति वा । चन्द्रः सुधांशुकर्पूरकम्पिल्लस्वर्णवारिष्विति विश्वः । प्रविष्टं तम आलक्ष्य ततो हरेर्मार्गणान्निववृतुर्निववृतिरे ॥ ३३ ॥
सुमनोरञ्जिनी
यावच्चन्द्रज्योत्स्ना विभाव्यते प्रकाशते तावत् । वनाद्वनम् एकं वनं विहाया-न्यद्वनं गत्वा । चन्द्रास्तमयानन्तरं प्रविष्टं व्याप्तम् । तम आलक्ष्य दृष्ट्वा निववृतुर् निवृत्ताः ॥३३॥
तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिकाः ।
तद्गुणानेव गायन्त्यो नात्मागाराणि सस्मरुः ॥ ३४ ॥
पदरत्नावली
तदालापा देवकीपुत्रपवित्रचरित्रसल्लापाः । तस्यैव विशिष्टा चेष्टा यासां तास्तथा । तदात्मिकास् तत्स्वामिकाः । आत्मागाराणि शरीराणि गृहाणि च न सस्मरुः ॥३४॥
सत्यधर्मीया
तदालापास्तच्चरितसंल्लापास्तस्यैव विशिष्टा चेष्टा यासां तास्तदात्मिका-स्तत्स्वामिकास्तद्गुणान् गायन्त्य एवात्मागाराणि शरीराणि गृहाणि च न सस्मरुः ॥ ३४ ॥
सुमनोरञ्जिनी
तन्मनस्कास् तस्मिन् कृष्ण एव मनो यासां ताः । तदालापास् तद्विषयक एव आलापः सम्भाषणं यासां ताः । तद्विचेष्टास् तदुद्देशेनैव चेष्टा अङ्गचेष्टा हावभावादयो यासाम् । तदर्थमेव विगतेतरचेष्टा इति वा । तदात्मकाः स एवात्मा स्वामी यासां ताः । तद्गुणानेव तस्य कृष्णस्य गुणान् स्वस्वानन्दकरान् गुणानेव कीर्तयन्त्यः । विरहातुरस्त्रीणां स्वभावत्वान्न स्वपत्यादि-गुणकीर्तनपरा इत्येवकारेण बोध्यम् । आत्मागाराणि स्वस्वगृहाणि । आत्मानं स्वस्वदेहं, आगारं, आगाराणि चेति वा बहुवचनम् । न सस्मरुर् न स्मृतवत्यः । तदेकस्मरणनिष्ठत्वादित्यर्थः ॥३४॥
विरोधोद्धारः— गत्वेति । चन्दयति आल्हादयति गोकुलमिति चन्द्रः कृष्णः । गोकुलचन्द्रेति श्रीमदाचार्यैः कृष्णस्य स्तुतत्वात् । तस्य । जोत्स्नाम् । ज्योतिः प्रकाशः भगवद्रूपस्फुरण-मस्त्यस्यामिति ज्योत्स्ना । ज्योत्स्ना तमिस्रेति निपात्यते । भगवान्प्रत्यक्षो भवेदिति मनीषेत्यर्थः । यावद् विभाव्यतेऽभ्युपगम्यते । तावत् । वनाद् वृक्षखण्डात् । वन सम्भक्ताविति धातोः केवल-निःसीमभक्तेर्वा । वनान्तरम् अन्यदरण्यम् । अन्यां कामयुक्तां भक्तिं वा गोप्यः कामादित्युक्तेः । गत्वा प्राप्य । तमस् तमुग्लानाविति धातोर् अन्तर्णीतण्यर्थाद् ग्लपनमित्यर्थः । प्रविष्टं प्रे विष्णौ विष्टम् आविष्टम् अकयप्रविसम्भूमसखहा विष्णुवाचका इत्यभिधानात् । आलक्ष्य लक्षणया । आरोप्यातिकरुणत्वात्तस्य । ततो मोहरूपाद्दौरात्म्यात् । तकारः कीर्तितश्चोरे मोहे युद्धे च कीर्तित इत्येकाक्षरात् । निववृतुः परावृत्ता आसन् । इत्यर्थमनङ्गीकृत्य यथाश्रुतार्थाङ्गीकारे ‘‘तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणैश्च शन्तमैः । स चर्षणीनामुदगाच्छुचो मृजन्निति’’ वाक्येन दिवा चन्द्रोदये प्राचीरागासम्भवेन च रात्र्युदयसिध्या रात्रावस्थानानुपपत्तेर्विरोधापत्तिः । राकेशकर-रञ्जितमित्यस्यापि विरोधः । ननु पर्वमैथुनस्य निषिद्धत्वात्कथमिदमिति चेन्न । राकाशब्दस्य न पौर्णिमापरत्वम् । किन्तु राति सुखमिति राका रादाने कृदावारेति क इति विग्रहेण रात्रिवाचकत्वम् । स्वापं प्रापयति श्रमापहृतये इत्युक्तेः । अतो । राकेशश् चन्द्रः । रात्रिनाथत्वात् । औषधीशो निशापतिरित्युक्तेश्च । तस्मान्न निषिद्धाचारित्वं कृष्णस्येति भावः । परस्त्रीसेवनादिकं स्वयं शुकेनैव परिहृतम् । आत्मारामत्वादितीति ॥ ३४ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्याने
श्री पाङ्घरी श्रीनिवासाचार्यकृते विरोधोद्धारे अष्टाविंशोऽध्यायः ॥ १०-२८ ॥
पुनः पुलिन१माविश्य कालिन्द्याः कृष्णभावनाः ।
समवेता जगुः कृष्णं तदागम२काङ्क्षिताः ॥ ३५ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे अष्टाविंशोऽध्यायः ॥
पदरत्नावली
समवेता मिलिताः। तदागमनकाङ्क्षिणीः कृष्णागमनकाङ्क्षिण्य इति द्वितीया प्रथमार्थे ॥ ३५ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे अष्टाविंशोऽध्यायः ॥
सत्यधर्मीया
पुनः पुलिनं प्रत्यागत्य सुरतस्थलमाविश्य । कृष्णस्य भावनं ध्यानं यासां ताः समवेता मिलिता ललनास्तदागमनं कांक्षितं यासां तास्तथा । तदागमनकाङ्क्षिणीरिति पाठे द्वितीया प्रथमार्थे समवेता जगुः ॥ ३५ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे अष्टाविंशोऽध्यायः ॥ १०-२८ ॥
सुमनोरञ्जिनी
पुनः कालिन्द्याः पुलिनं प्रत्यागत्य । कृष्णस्यैव भावनं यासां ताः । समवेता एकत्र मिलिताः । तदागमनकाङ्क्षिणीः काङ्क्षिण्यः । सुपां सुलुगिति पूर्वसवर्णः । तस्य कृष्णस्यागमनमेव काङ्क्षयन्तीति तथा सत्यः कृष्णं जगुरित्यन्वयः ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्याम् अष्टाविंशोऽध्यायः ॥ १०-२८ ॥