भगवानपि तां रात्रिं शारदोत्फुल्लमल्लिकाम्
॥ अथ सप्तविंशोऽध्यायः ॥
श्रीशुक उवाच—
भगवानपि तां रात्रिं शारदोत्फुल्लमल्लिकाम् ।
वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ १ ॥
पदरत्नावली
निर्मलसुदृढभक्तिरेव ब्रह्मज्ञानद्वारा मुक्तिसाधनं सा च नानाविधेति निरूप्यतेऽ-स्मिन्नध्याये । तत्रादौ ‘याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः’ इति स्वोक्तं किं हरिर्विसस्मार याश्च यदर्थमत्यर्थं तपस्तेपिरे ताः कथं तूष्णीम्भावमापुरित्याशङ्कां परिजिहीर्षुः शुको वक्ति भगवानपीति । भगवानपि नन्दाद्युपदशितस्वस्वलोकः कृष्णोऽपि शारदेन शरदृतुसम्बन्धिना कालेन उत्फुल्ला विकसिता मल्लिका यस्यां सा तथाभूतां, तां गोपवराङ्गनाः प्रति प्रतिज्ञातक्षपासु प्राथमिकी रात्रिं वीक्ष्य ताभिः समं रन्तुं मनश्चक्रे । योगमायां स्वरूपसामर्थ्यम् ॥ १ ॥
दुर्घटभावदीपिका
तां रात्रिं वीक्षेत्यस्य रमणानुकूलत्वेन प्रसिद्धां रात्रिं वीक्ष्येत्यर्थः । एतेन रात्रेः पूर्वमप्रकृतत्वात् तामिति तच्छब्देन परामर्शोऽनुपपन्न इति दूषणं पराकृतम् । तामित्यस्य पूर्वप्रकृतामित्यर्थमनङ्गीकृत्य प्रसिद्धामित्यर्थस्योक्तत्वात् ॥ १ ॥
सत्यधर्मीया
भक्तिरेव ज्ञानद्वारा मोक्षसाधनं सा चानेकविधेति निरूप्यतेऽस्मिन्नध्याये । तत्रादौ याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपा इति स्वोक्तं किं भगवान्विसस्मार याश्च यदर्थमत्यर्थं तपश्चेरुस्ताः कथं तूष्णीकाः किं वा तदुपरि रात्रिरेवाधुना नायाताऽथवा किञ्चित्तद्दुर्दैवयोगेनान्तरायाति निपात इति सन्दिग्धबुद्धिं परीक्षितं परीक्ष्य स्वयमेव शुको दयया वक्तीति वक्ति ॥ श्रीशुक इति ॥ भगवानपि गोपोपदर्शितस्वस्वलोकः कृष्णोऽपि । शरदृतोः सम्बन्धी कालः शारदस्तेनोत्फुल्ला विकसिता मल्लिका यस्यां सा ताम् । प्रमदाः प्रति प्रतिज्ञातक्षपासु प्राथमिकीं रात्रिं वीक्ष्य रन्तुं ताभिः सह मनश्चक्रे । सकलधर्मशास्त्रवेत्तुः परकलत्रसंसर्गस्तु न मन्मथमथितचेतस्कत्वेन किन्तु तत्तपोवैपुल्यफलतयेति सूचयितुं स्वयं मनश्चक्र इति । सम्भावकमावेदयति ॥ योगमायामुपाश्रित इति ॥ युज्यतेऽनेनेति योगो हरिरिति पञ्चमतात्पर्योक्तेर्योगः स्वयं तदात्मिका मायेच्छा ताम् । योगो निरन्तरमस्या अस्तीति योगा सा च सा माया चित्प्रकृतिस्तामुपाश्रितः सकलपरकलत्रसन्निहिता रमा तयैव सङ्गो न पुनरन्याङ्गनासङ्ग इति भावः ॥ १ ॥
सुमनोरञ्जिनी
यया कयाचन रीत्या श्रीहरिचरणारविन्दे भक्तिरेव मुक्तिसाधनमिति प्रदर्शनाय कामाद्गोप्यो भयात्कंस इति सप्तमोक्तं प्रपञ्चयन् कामपूर्वकभक्तिप्रकारं व्यनक्त्यस्मिन्नध्याये । तत्रादौ भगवान् ‘मयेमा रंस्यथ क्षपाः’ इति गोपीभ्यः प्रतिश्रुतं सत्यं विधातुं रन्तुं मनश्चक्र इत्याह ॥ भगवानपीति ॥ शारदेन शरदृतुसम्बन्धिना कालेन उत्फुल्ला विकसिता मल्लिका यस्यां सेति पदरत्नावली । ननु स्वरमणोऽप्राकृतविग्रहो भगवान् गोपिकासु रन्तुं मनश्चक्र इति कथं सम्भवति । तासां भगवद्रतिपात्रताया असंभवादित्यत उक्तम् ॥ योगमायामुपाश्रित इति । योगमायां महालक्ष्मीं गोपिकासु सन्निहितां तत्रापि स्थितां योगमायां स्वस्त्रीरूपम् उपाश्रितः सन् रतियोग्यतयाङ्गीकुर्वन्नित्यर्थः । रमाया रतिपात्रत्वं तेनैव स्त्रियात्मनेत्युक्तेः ॥ १ ॥
तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणैश्च शन्तमैः ।
स चर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः ॥ २ ॥
पदरत्नावली
दीर्घदर्शनो बहुदिवसव्यवहितत्वाद् दीर्घकालेन दर्शनं यस्य स उडुराजः शोभनतारुण्यातिशयेनोडुकल्पाया भार्याया अनुरागजनकत्वेन राजशब्दवाच्यः प्रियो भर्ता प्रियायाः स्वभार्याया मुखं शन्तमैः सुखकरैररुणैः पल्लववल्लोहितैश्च करैरङ्गुलीभिर्विलिम्पन् संस्पृशन् । ‘करोऽङ्गुल्यां बलौ हस्ते हस्तिशुण्डे च दीधितौ’ इत्युत्पलमाला । चर्षणीनामपत्यादिप्रजानाम् । ‘प्रजाश्चर्षणयः स्मृताः’ इति ऋग्भाष्योक्तेः । शुचो विरहोद्भूतशोकान् मृजन् अपनयन्निव, दीर्घदर्शनोऽहर्व्यवधानाद् दीर्घकालिकदर्शन उडुपतिस् तारकापतिश्चन्द्रः प्राच्याः ककुभो दिशः । कं वातं स्कुभ्नाति विस्तारयति या । ‘स्कुभ् इति सौत्रः’, ततः क्विप्, पृषोदरादित्वात् सलोपः । मुखमुदयभागं शन्तमैः सुखकरैररुणैर्लोहितैश्च करैः किरणैर्विलिम्पन्नरुणीकुर्वन् चर्षणीनां प्रजानां शुचो विभाकरस्य खरकिरणजनितसन्तापान् मृजन् अपनुदन् उदगाद् उदियाय ॥ २ ॥
सत्यधर्मीया
प्रियः प्रोषित इति दीर्घदर्शनो दीर्घं बहुघस्रव्यवहितत्वाद्दीर्घकालिकमन्यत्राह-र्व्यवधानाद्दीर्घदर्शनः प्रियायाः स्वभार्याया अन्यत्र तत्त्वेन वृत्ताया ककुभो दिशः प्राच्या मुखमाननमन्यत्र यत्रोदयस्तं भागमरुणैः किञ्चिद्रक्तैः पल्लवसमतया करैः । आदरातिशयाद्द्वयोरेव बहुत्वेनोत्प्रेक्षणम् । करैरङ्गुलिभिरिति वा रज्जुपाशानितिवत् । अन्यत्र किरणैः । शन्तमैः सुखकरेषु करेष्वतिशयेन सुखरूपतोक्तिः । सममुभयत्रेदम् । तदोडुराजः पुरुषोऽपरत्र चन्द्रश्चर्षणीनां प्रजाश्चर्षणयः स्मृता इत्यृग्भाष्योक्तेः प्रजानामपत्यादिप्रजानामन्यत्र सोमो वै राजा ब्राह्मणानामित्यादेर्ब्राह्मणादीनां शुचः किञ्चिद्गृहकलहहेतुकशोकानन्यत्र तपनतापजनितशोकान्मृजन्परिहरन्समम् । प्रसिद्धो यः प्रियः स इवोदगात् । कस्मादित्यतोऽप्याह ॥ उदगादिति । उच्चोऽगो ह्युदग उदयशैलस्तस्मात्तमारुह्येति वा । दिशस्तु ककुभः काष्टा इत्यमरः । ककलौल्ये बाहुलकादुभप्रत्ययः । यद्वा कं वातं कुभ्नाति विस्तारयति । स्कुभ् इति सौत्रो धातुः । ततः क्विप् पृषोदरादित्वात्सलोपः । ककुभः स्त्रियां प्रवेणी दिक्शोभास्विति भानुः । दिशादान्तिककुबिति शब्दार्णवः । विलिम्पन्मृजंश्चोद्गच्छति तथोदगादित्यन्वयः ॥ २ ॥
सुमनोरञ्जिनी
तदा उडुराजश् चन्द्रः प्राच्याः ककुभो मुखं प्राचीदिङ्मुखं शन्तमैः सुखकरैर् अरुणैः करैः किरणैर् विलिंपन् स्वकरगतारुणिमानं तत्र लिंपन्निव चर्षणीनां प्रजानां सस्यानां वा शुचः दिवा सौरातपजन्याः शुचः प्रमृजन् परिमार्जयन् उदगात् । तत्र निदर्शनं, दीर्घात्कालाद्दर्शनं यस्य सः दीर्घदर्शनः प्रियो भर्ता शुचः प्रमृजन् शन्तमेन अरुणेन स्वकरेण प्रियाया मुखं विलिंपति । चर्षणीनां प्रजानाम् अपत्यानां च शुचः प्रमृजति तथेति ॥ २ ॥
दृष्ट्वा मुकुन्दस्तमखण्डमण्डलं रामा१ननाभं नवकुङ्कुमारुणम् ।
वनं च तत्कोमलगोभिरञ्जितं जगौ कलं वामदृशां मनोरमम् ॥ ३ ॥
पदरत्नावली
मुकुन्दो ऽखण्डं पूर्णं मण्डलं यस्य स तं रामाणां सुन्दरीणामाननस्याभेवाभा यस्य स तं नवकुङ्कुममिवारुणं तमुडुराजं दृष्ट्वा, तस्य चन्द्रस्य कोमलगोभिर्मृदुलकिरणैरभि अभितो रञ्जितमरुणीकृतं वनं च दृष्ट्वा वामदृशां वामाः सुन्दरा दृशश्चक्षूंषि यासां तास्तासां मनोरमं मनोहरं कलमव्यक्तमधुरं च यथा तथा जगौ अगायत् ॥ ३ ॥
सत्यधर्मीया
य उदगात्तमुडुराजं मुकुन्दो दृष्ट्वा । कुमुद्वन्तमिति पाठे कुमुदशब्दपर्यायोऽयं कुमुच्छब्दः । कुमुत्कुमुदं विकास्यत्वेनास्त्यस्येति कुमुद्वांस्तम् । अखण्डो मण्डलो यस्य तम् । अनेन पौर्णमासीति वा तदासन्नतिथिर्वेति ध्वन्यते । रामाननाभं रामस्य स्वाग्रजस्याननस्याभेवाभा यस्य स तम् । पाठः पाङ्क्तश्चेदपि नार्थोऽयं सरलः । अप्रकृतत्वात् । नवकुङ्कुमारुणमित्यनानुगुण्याच्च । गोपाला अपि धरन्ति ललाटे कुङ्कुमतिलकमित्यतोऽप्रकृतत्वं सुस्थिरम् । रामाणां स्वरमणयोग्य-रमणीनामाननाभमिति श्लिष्टोऽर्थः । रमाननाभमिति मनोरमः पाठः । नवकुङ्कुमारुणं नव इति उद्यन्निति, कुङ्कुमवदरुणस्तम् । अन्यत्र नवेन कुङ्कुमेनारुणमिति । तत्कोमलगोभिरञ्जितमिति पदमेकम् । तस्य चन्द्रमसः, कोमलं च तद्गोभिः किरणैरभिरञ्जितं विशदीकृतं प्रकाशितमिति यावत् । रञ्जितं विशदे दन्तिदन्तयोस्तारहारयोरिति विश्वः । कोमलं च तद्गोभिरञ्जितं चेति विग्रहः । गोभिरभिरञ्जितं गोभिरञ्जितम् । तस्य कोमलैर्गोभिरञ्जितं तत्कोमलगोभिरञ्जितमिति वा विग्रहः । द्वितीये रञ्जित-पदसमस्तेऽपि गोपदे तदर्थे तादात्म्यसम्बन्धेन कोमलपदार्थान्वयः । सप्तघटिकाभोजनं त्रिलोकनाथ इत्यादिवदिति नापूर्वः । पक्षद्वन्द्वेऽपि, न च टक् च कथं कथञ्चन रोरीत्याद्यप्रवृत्तिरिति शङ्काद्वन्द्वं नास्तीत्यप्रतिद्वन्द्वमिति मन्तव्यम् । तादृशं वनं च दृष्ट्वा वामदृशां वामाः सुन्दरा दृशश्चक्षूंषि यासां तास्तासां मनोहरं कलमव्यक्तमधुरं च यथा तथा जगावगायत् ॥ ३ ॥
सुमनोरञ्जिनी
मुक्तिं ददातीति मुकुन्दः श्रीकृष्णः । अखण्डमण्डलं पूर्णमण्डलम् । कीदृशं, रामस्य बलरामस्याननस्याभेवाभा यस्य सस् तम् । यद्वक्ष्यति बदरपाण्डुवदन इति । यद्वा नवकुङ्कुमारुणमिति विशेषणबलाद् रामाया अरुणप्रभायाः स्त्रिय आननमिव रमणीयं नवकुङ्कुम-पुष्पवदरुणं च दृष्ट्वा । तस्य चन्द्रस्य कोमलैर् नूतनैर् गोभिः किरणैर् अभिरंजितम् । अत एव वामदृशां स्त्रीणां मनोहरं वनं च दृष्ट्वा । यद्वा वामदृशां मनोहरं कलं मधुरं स्वरं जगौ इत्यन्वयः
॥ ३ ॥
निशम्य गीतं तदनङ्गवर्धनं व्रजस्त्रियः कृष्णनिषक्तमानसाः ।
आजग्मुरन्योन्यमलक्षिताशयाः स यत्र कार्तस्वरलोलकुण्डलाः ॥ ४ ॥
पदरत्नावली
अनङ्गवर्धनं कामोद्दीपकम् । अन्योन्यं परस्परमलक्षितोऽविज्ञात आशयोऽभि-प्रायो यासां तास्तथा । स कृष्णो यत्र आस्ते, तत्रेति शेषः । कृतस्वरे आकरभेदे भवं कार्तस्वरं तेन रचितानि लोलानि चञ्चलानि कुण्डलानि यासां तास्तथा ॥ ४ ॥
सत्यधर्मीया
सद्वंशजेति साध्वीव मुरली मुरहराधरसङ्गता स्वयं करकलिताऽप्यनिर्वाहपक्षे स्वस्वाम्यभिमतमियद्वा कर्तव्यमिति मती युवतीसमाह्वानतत्सङ्गमसाहितीमात्रं व्यतनोदिति ध्वनयन्नाह ॥ निशम्येति ॥ कृष्णनिषक्तमानसा व्रजस्त्रियोऽन्योन्यं परस्परमलक्षितोऽविज्ञात आशयोऽन्तःकरण-मभिप्रायो वा यासां तास्तदपेक्षयाऽहमेव प्राग्गत्वा तदङ्गसङ्गसौभाग्यभाग्या भवेयमिति परानवगमितवृत्ता इति यावत् । कार्तस्वरलोलकुण्डलाः कृतस्वराख्याकरजसुवर्णमयानि लोलानि चलन्ति कुण्डलानि कर्णवेष्टनानि हस्ते वलया वा यासां ताः । कुण्डलं वलये पाशे कुण्डलं कर्णवेष्टन इति विश्वः । यत्र स गायनोऽनङ्गवर्धनं हरिसङ्गात्प्राङ्मन्मथोत्थापकत्वेनानन्तरं कन्दर्पदर्पच्छेदकत्वेनापीति तद्गीतं निशम्यास्ते तत्स्थलं प्रत्याजग्मुः । वर्धनं छेदने वृद्धाविति विश्वः । यथोक्तं बृहदारण्यकभाष्ये ।
मयं तु मानुषं स्वर्णं पीतं गान्धर्वमेव च ।
इन्द्रगोपनिभं नाम्ना जाम्बूनदमिति स्मृतम् ।
दैवं चामीकरं नाम प्रोद्यदादित्यसन्निभम् ।
नैजो विशेषः स्वर्णानामेतेषां सर्वदैव च ।
नाग्न्यादिनाऽपि समतां यान्ति तानि कथञ्चनेति । अतः कार्तस्वरमिति सामान्यनामेति ज्ञेयम्
॥ ४ ॥
सुमनोरञ्जिनी
अनंगवर्धनं मन्मथोद्रेककरं तद्गीतं निशम्य । कृष्णे निषक्तं समर्पितं मानसं याभिस्ता व्रजस्त्रियः, अन्योन्यं, अलक्षितः न ज्ञापितो ऽज्ञातो वा आशयो ऽभिप्रायो यासां तास् तथाविधाः सत्यः, सः कृष्णो यत्रास्ते तत्राजग्मुः । कीदृश्यः । कार्तस्वरेण सुवर्णेन रचितानि लोलानि च कुण्डलानि यासां ताः ॥ ४ ॥
दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः ।
पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययुः ॥ ५ ॥
पदरत्नावली
अलौकिकगानाकर्णनेन तासां भावाभिर्भावमाह दुहन्त्य इति ॥ काश्चिद् गाः पयो दृहन्त्योऽभिययुः । आरब्धदोहं विहायाभिरस्रुरित्यर्थः । काश्चिद् दोहं कर्तव्यदोहनकर्मैव हित्वाऽभिययुः । समुत्सुका इति सर्वत्र योज्यम् । अपराः पयोऽधिश्रित्य पक्वं कृत्वा संयावं गोधूमकणान्नं चाधिश्रित्य अनुद्वास्य चुल्लीतस्तत्पात्रमनवरोप्य ययुः ॥ ५ ॥
दुर्घटभावदीपिका
काश्चिद्दुहन्त्योऽभिययुः काश्चित्सुमुत्सुकाः सत्यो दोहं हित्वाऽभिययुरिति । एतेन दुहन्त्योऽभिययुरित्यनेनैवार्थाद्दोहं हित्वाऽभिययुरित्यर्थस्य प्राप्तत्वाद्दोहं हित्वेत्येतद्व्यर्थमिति चोद्यस्यानवकाशः । दुहन्त्य इत्यनेन काश्चिदारब्धदोहं हित्वाऽभिययुरित्युच्यते । दोहं हित्वेत्यनेन काश्चिदभिययुरित्यनयोरावृत्तिमङ्गीकृत्य काश्चित्कर्तव्यदोहारम्भं हित्वाऽभिययुरित्युच्यत इति स्वीकरणात् । एवं परिवेषयंत्यस्तद्धिवेत्यादावपि द्रष्टव्यम् ॥ ५ ॥
सत्यधर्मीया
तासां गीतश्रवणसमनन्तरं काऽवस्था जातेत्यत आह ॥ दुहन्त्य इति ॥ गाः काश्चिद्दुहन्त्यो दोहनं हित्वा समुत्सुका लालसा अभिययुः । दुहन्त्योऽभिययुरित्यनेनैव दोहनयानाभियानप्रतीतौ दोहमेव हित्वा काश्चिदभिययुस्तत्समयेऽपीत्यधिकारिविशेषपरतया तत्सार्थक्यं ज्ञेयम् । अपराः पयोऽधिश्रित्य पक्वं कृत्वा संयावं च गोधूमकणिकान्नमधिश्रित्यानुद्वास्य चुल्लीत-स्तत्पात्रमनवतार्य ययुः ॥ ५ ॥
सुमनोरञ्जिनी
श्रीकृष्णे गोपीनां स्नेहविशेषरूपभक्तेः परां काष्ठां द्योतयन् तासां तदानींतनावस्थामाह ॥ दुहन्त्य इत्यादिना ॥ समुत्सुकाः श्रीकृष्णदर्शने औत्सुक्योपेताः । काश्चिद् दुहन्त्यः दोहनं कुर्वन्त्यः । दोहं दोहनक्रियाम् । अपराः पयो ऽधिश्रित्य चुल्यामारोप्य तद् अनुद्वास्यैव । संयावं क्वथदन्नम् अनुद्वास्य अनवरोप्य ॥ ५ ॥
परिवेषयन्त्यस्तद् हित्वा पाययन्त्यः शिशून् पयः ।
शुश्रूषन्त्यः पतीन् काश्चिदश्नन्त्योऽपास्य भोजनम् ॥ ६ ॥
पदरत्नावली
काश्चित् परिवेषयन्त्यो ऽन्नादिपरिवेषणं कुर्वन्त्यः । तत् परिवेषणम् । काश्चित्तु शिशून् पयः पाययन्त्यः । काश्चित् पतीन् शुश्रूषन्त्यः पादमर्दनादिनोपचरन्त्यः । काश्चित् स्वयमश्नन्त्यः ॥ ६ ॥
सत्यधर्मीया
काश्चित्परिवेषयन्त्योऽन्नादिपरिवेषणं पात्रे कुर्वन्त्यश्छन्दःसमत्वान्नैकाक्षराधिक्यं दोषाय । तत्परिवेषणम् । शिशून्मातृभ्रात्रादिबालान्पाययन्त्यो गोक्षीरमलमपास्य । स्पृहात्यागोऽनेन ध्वन्यते । पतीन् शुश्रूषन्त्यः शुश्रूषमाणाः सेवामपास्य काश्चित्स्वयमश्नन्त्यो भोजनं चापास्य ययुः
॥ ६ ॥
सुमनोरञ्जिनी
परिवेषयन्त्यः पतिपुत्रादीनां भोजनपात्रेषु भोज्यमन्नादिकं परिवेषयन्त्योऽपि तत्परिवेषणं हित्वा शिशून् स्तन्यं पाययन्त्यस् तद्धित्वेत्यनुवर्तते । यद्वा शिशून् मार्गे पाययन्त्यः शिशुत्यागमपि विस्मृत्येति यावत् । पतीन् पादसंवहनादिना शुश्रूषंत्यः । अश्नन्त्यो भुञ्जन्त्यः । अपास्य निरस्य ॥ ६ ॥
लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ।
व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥ ७ ॥
पदरत्नावली
लिम्पन्त्यश् चन्दनादिना तन्वनुलेपनं कुर्वन्त्यः । प्रमृजन्त्यः शरीरोन्मार्जनं कुर्वन्त्यः । अञ्जन्त्यः कञ्जलेन । व्यत्यस्तवस्त्राभरणाः परिधानीयमौत्तरीयम्, औत्तरीयं परिधानीयमिति तथा पादभूषणं हस्ते, हस्तभूषणं पादे इति च व्यत्यस्तानि वस्त्राणि आभरणानि च यासां तास्तथा
॥ ७ ॥
सत्यधर्मीया
लिम्पन्त्यो गन्धादिभिरङ्गं वा गोमयेन गृहं वा । प्रमृजन्त्यः शरीरशुद्धिं कुर्वन्त्यः । काश्चन लोचने अञ्जन्त्यः कज्जलेन । अन्याः काश्चिद्व्यत्यस्तवस्त्राभरणा व्यत्यस्तानि वस्त्राणि परिधानीयमौत्तरीयमौत्तरीयं परिधानीयमिति वस्त्राणि, तथा करभूषणं पादे पादभूषणं कर इत्याभरणानि च यासां ताः कृष्णान्तिकं ययुः ॥ ७ ॥
सुमनोरञ्जिनी
लिंपन्त्यः स्वांगे पतीनामङ्गेषु वा चन्दनादिकं लिंपन्त्यः । अङ्गोद्वर्तनं कुर्वन्त्यः । लोचने नेत्रे मष्यादिना अंजन्त्यस् तदर्धावशेषितम् अपास्यैव ययुः । व्यत्यस्तानि स्वस्थानतः विपरीतानि वस्त्राभरणानि यासां ताः । प्रावरणं परिधाय्य परिधानीयं प्रावृत्य, कटिसूत्रादिकं कण्ठे, हारादिकं कट्यादौ धृत्वेति यावत् ॥ ७ ॥
ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृबन्धुभिः ।
गोविन्दापहृतात्मानो न न्यवर्तन्त योषितः ॥ ८ ॥
पदरत्नावली
वार्यमाणा निरोध्यमानाः । गोविन्देनापहृता आकृष्टा आत्मानो मनांसि यासां तास्तथा ॥ ८ ॥
सत्यधर्मीया
पतिभिः स्वभर्तृभिः पितृभिर्भ्रातृभिर्बन्धुभिर्भगिनीभिर्भर्त्रादिभिर्वार्यमाणा न गच्छेति निवार्यमाणाः । योषित ई आ नित्यमुषितोरसि यस्य स योषितस्तद्गोविन्दहृतात्मानो गोविन्देन कृष्णेन हृत आत्मा मनो यासां ता न न्यवर्तन्त । यत्र रमा मोहिता चञ्चलाऽपि चाञ्चल्यं विहाय तत्रैतद्गमनं न चित्रमिति भावः । हे गोविन्देति । अपहृता आत्मानः, अपेन पालकवर्जितेन हृतात्मानो योषितो न न्यवर्तन्तेति वा । लोके चैकैकस्मिन्पतित्वादिकमत्र तु तत्समुदितमिति तत्त्यागेनागमनमङ्गनानां युक्तमिति तात्पर्यम् ॥ ८ ॥
सुमनोरञ्जिनी
अन्तरायसहस्रेणाप्यप्रतिबद्धता स्नेहस्याह ॥ ता इति ॥ ताः पत्यादिभि-र्वार्यमाणा अपि गोविन्देन अपहृता आकृष्टा आत्मानो मनांसि यासां ता यतस्तस्मान्न न्यवर्तन्त
॥ ८ ॥
अन्तर्गृहगताः काश्चिद् गोप्योऽलब्धविनिर्गमाः ।
कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः ॥ ९ ॥
पदरत्नावली
अन्तर्गृहगता भर्तृभिरन्तर्गृहनिरुद्धाः । अत एव न लब्धो विनिर्गमो बहिर्निस्सरणं याभिस्तास्तथा । तस्य कृष्णस्य भावनया भक्तिसंस्कारेण युक्ताः । दध्युरध्यासिषुः । ध्यै चिन्तायामिति धातुः ॥ ९ ॥
सत्यधर्मीया
काश्चिदन्तर्गेहगता गोप्यो, द्वारि प्रतिबद्धेऽलब्धोऽप्राप्तो बहिर्निर्गमो निःसरणं याभिस्ताः । तद्भावनायुक्ता अनुभवभवसंस्कारोपेता मीलितलोचना नश्यत्स्वपत्याद्यनिरीक्षणं सूच्यते । तेन दध्युर्ध्यातवत्यः ॥ ९ ॥
सुमनोरञ्जिनी
अन्तर्गृहगताः काश्चिद् गोप्योऽलब्धो विनिर्गमो बहिर्गमनं याभिस्ताः । तस्मिन्कृष्णे या भावना भक्तिस् तया युक्ताः । मीलितलोचनाः सत्यस्तमेव दध्युर् ध्यातवत्यः
॥ ९ ॥
दुस्सहप्रेष्ठविरहतीव्रतापधुताशुभाः ।
ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ १० ॥
तमेव परमात्मानं जारबुद्ध्याऽपि सङ्गताः ।
जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्भागवततात्पर्यनिर्णयः
‘कृष्णकामास्तदा गोप्यस्त्यक्त्वा देहं दिवं गताः । सम्यक्कृष्णं परं ब्रह्म ज्ञात्वा कालात्परं ययुः । पूर्वं च ज्ञानसंयुक्तास्तत्रापि प्रायशस्तथा । अतस्तासां परं ब्रह्म गतिरासीन्न कामतः । न तु ज्ञानमृते मोक्षो नान्यः पन्थेति हि श्रुतिः । कामयुक्ता तदा भक्तिर्ज्ञानं चातो विमुक्तिगाः । अतो मोक्षेऽपि तासां च कामो भक्त्याऽनुवर्तते । (अतादृक्त्वेन) अतोदकत्वेन सदा द्वेषिणामधरं तमः । मुक्तिशब्दोदितं चैद्यप्रभृतौ द्वेष-भागिनः । भक्तिभागी पृथङ्मुक्तिमगाद्विष्णुप्रसादतः । कामस्त्वशुभकृच्चापि भक्त्या विष्णोः प्रसादकृत् । द्वेषिजीवयुतं चापि भक्तं विष्णुर्विमोचयेत् । अहोऽतिकरुणा विष्णोः शिशुपालस्य मोक्षणादि’ति स्कान्दे ॥ जगत्प्रपितामहे जारबुद्धिर्न युक्ता तथापि
॥ १०, ११ ॥
पदरत्नावली
श्लोकद्विकमेकान्वयि । ताः काश्चन गोपाङ्गना गुणमयं सत्त्वादिगुणविकृतं देहं जहुस्तत्यजुरित्यन्वयः । दुस्सहः सोढुमशक्यो यः प्रेष्ठस्य प्रियतमस्य कृष्णस्य विरहः संसारनिमित्तो वियोगस्तेनोत्पन्नो यस्तीव्रोऽत्युल्बणस्तापस्तेन धुतानि विश्लिष्टानि अशुभानि पापानि यासां तास्तथा । ध्यानेन प्राप्त आविर्भूतो योऽन्तर्बिम्बरूपोऽच्युतस्तस्याश्लेषस्तेन उद्भूता या निर्वृतिः परमानन्दस्तया क्षीणानि मङ्गलानि अनिष्टपुण्यानि याभिस्तास्तथा तं परिष्वक्तं कृष्णं परमात्मानं नारायणमेव जारबुद्ध्या जारोऽस्माकमुपपतिरिति बुद्ध्याऽपि सङ्गताः सम्यग् ज्ञातवत्यः । सद्यः प्रक्षीणानि भवबन्धननिमित्तशुभाशुभकर्माणि यासां तास्तथा । अत्र गोपीनां काममात्रेण मुक्तिरुच्यत इति भ्रमभ्रंशनाय प्रमाणेन तत्तात्पर्यार्थमाह— ‘कृष्णकामास्तदा गोप्यस्त्यक्त्वा देहं दिवं गताः । सम्यक् कृष्णं परं ब्रह्म ज्ञात्वा कालात् परं ययुः । पूर्वं च ज्ञानयुक्तास्तास्तत्रापि प्रायशस्तथा । अतस्तासां परं ब्रह्म गतिरासीन्न कामतः । न तु ज्ञानमृते मोक्षो नान्यः पन्थेति हि श्रुतिः । कामयुक्ता सदा भक्तिर्ज्ञानं चातो विमुक्तिगाः । अतो मोक्षेऽपि तासां च कामो भक्त्याऽनुवर्तते’ इति । ‘जारबुद्ध्याऽपि सङ्गताः’ इत्यत्रापिशब्दो गर्हितार्थ इति व्याचष्टे ‘जगत्प्रपितामहे जारबुद्धिर्न युक्ता तथाऽपि’ इति । ‘गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि’ इत्यमरः ॥ १०,११ ॥
सत्यधर्मीया
श्लोकद्विकमेकान्वयि । तमेव परमात्मानमिति श्लोके कामिन्यः काममात्रेण प्रक्षीणबन्धनाः सत्यः सद्यो गुणमयं देहं जहुरिति मुक्तिरुच्यत इति भ्रमं प्रमाणतस्तत्तात्पर्यार्थं दर्शयन् भ्रंशयति ॥ कृष्णकामा इति ॥ कृष्णकामा गोप्यस्तदा त्यक्त्वा देहं दिवं स्वर्गं गता न तु मुक्ता आसन्नित्यर्थः । सम्यग्विष्णुं परं ब्रह्म सर्वोत्तमं ज्ञात्वा कालात्कञ्चित्कालमतिगमय्य परं हरिं ययुः । तर्हि न ताः पूर्वं ज्ञानवत्य इत्यत आह ॥ पूर्वं चेति ॥ पूर्वमपि ता ज्ञानयुक्ता एव । तत्र कृष्णकामतावस्थायां च प्रायशो बाहुल्येन तथा ज्ञानिन्यः । निगमयति ॥ अत इति ॥ अत एतद्धेतोस्तासां परंब्रह्म गतिरासीत् । ननु कामाद्गोप्य इत्यादेर्न देवगतिस्तासां कुत इत्यत आह ॥ नेति ॥ ज्ञानमृते । ज्ञानसूर्यमृते इत्याद्युदाहृत्य द्वितीयोपपत्तिः प्राक् टीकिताऽनुसन्धेया । विना न मोक्षः । स्मृतिरपि स्वमूलं लपति । हि यस्मान्नान्यः पन्थेति श्रुतिरस्ति तत इति । पन्थेति नलोपः प्रातिपदिकान्तस्येतिवत्प्रातिपदिकनिर्देश इति ज्ञेयम् । सदा तासु हरौ भक्तिस्तज्ज्ञानं चास्ति यतोऽतः कामयुक्ता अपि विमुक्तिगाः । अतो मोक्षेऽपि तद्गमनानन्तरमप्येतासां यः कामः स भक्त्याऽनुवर्तत एव । पुरस्तादुक्तमेतत्त इति श्लोके द्वेषस्य मुक्तिहेतुतोच्यत इति प्रतीयते । तस्यापि गतिं मानेनाह ॥ अतादृक्त्वेन भक्तिराहित्यान्न गोपीसादृश्यमित्यतादृक्त्वेन । अतोदकत्वेनेति पाठे कामो मुक्तावन्यथाजनकत्वेनानुवर्तत इत्यन्वयः । सदा द्वेषिणां जयादिभिन्नानामसुराणां यत्र मुक्त्युक्तिस्तत्र मुक्तिशब्देन तम एवोच्यत इत्याह ॥ अधरं तम इति ॥ मुक्तिशब्देनोदितम् । चैद्यप्रभृतौ द्वेषभागिनः सकाशात्पृथग्विद्यमानो जयादिः स विष्णुप्रसादतस्तं प्राप्य मुक्तिमगान् न तु द्वेषभागीत्यर्थः । चैद्यशब्दो जीवद्वयवाचीति चैद्यशब्देन यदा सन्वाच्यस्तदाऽऽनन्दाविर्भावादिकं यदा त्वसंस्तदा तमः मुक्तिशब्देन ग्राह्यमिति विवेकः । ननु, त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभ इति गीतायां कामस्याशुभफलनरकद्वारतोक्तेः कथं तन्मुक्त्यवस्थानोक्तिरित्यत आह ॥ कामस्त्विति ॥ तुशब्दो गीतागीतकामादेतत्कामव्यावृत्त्यर्थः । अशुभकृत्, चात् शुभकृच्चेति भेदवान्विष्णोः प्रसादकृच्च शुभकृत्स च गोपिकासु विद्यमानया श्रीहरिभक्त्या ।
तर्हि विषसम्पृक्तभक्तवत्कथं दुरसुरसहवासिनो दासानपि जयादीन्दययोददीधरद्धरिरित्यत आह ॥ द्वेषिजीवयुतमिति ॥ विष्णुः काल आयाते विमोचयेद्, द्वेषिजीवयुक्तं भक्तम् । एतेन भक्तिमत्त्वान्मोचयेदित्युक्तिरतो देवोऽतिकरुणः कृपायुततमः । इदमहो आश्चर्यम् । ओदिति प्रगृह्यसंज्ञा प्रकृतिभावश्च न । छान्दसतयेति ज्ञेयमिति केचित् । वस्तुतस्तु प्रकृतिभावस्यानित्यतया तत्सम्भवति । हिनत्वाद्धेयत्वाद्धः स न भवतीत्यहोऽयं सज्जीवसङ्घो त्याज्य इति करण इति वा । नित्यं हीन इति काठकभाष्योक्तेस्तत्र हरिपरत्वात्पूरितं योग्यतया सर्वदोषैरिति हशब्दहीनार्थकत्वमक्षुण्णम् । अहपदमधिकारिविशेषणमतोऽतिकरुण इति सुललितम् । तत्कथङ्कारं कारुण्यं ज्ञातमित्यत आह ॥ शिशुपालस्य तदादेर्मोक्षणान्मोचनादिति । अहो हन्तीति हो नाशयत्येनं दुःसहवासिनं स नेत्यहो नृसिं हन्ता नृसिंहोऽसावित्यादेरिति वा । जारबुद्ध्याऽपीत्यत्रत्योऽपिशब्दो न समुच्चायकः । समुच्चेयबुद्धेरन्यस्यास्तास्वसत्त्वादित्यतः सत्यं तथाऽपि स न निरर्थः किन्तु सम्भावितत्वगर्हितत्वार्थ-वान्व्यवस्थयेति तत्रापि कुत्र किमर्थ इत्यतो गृहान्तर्वर्तिगोपिकासु सम्भावितत्वं जारबुद्धेरप्सरस्सु द्वितीयमितरापेक्षयेति मानाननेन दिदर्शयिषुरादावानन्दतीर्थमुनिः स्वयं हेतुं सूचयन् गर्हितत्वमपि शब्दार्थमप्सरःस्त्रीव्यतिरिक्ते दर्शयति । तथाऽपि जगत्प्रपितामहे के जगत्प्रपितामहे जगतो जारबुद्धिर्न युक्ता । एतस्य तु पितामहत्वान्न जातु जारबुद्धिर्जगता कर्तव्या सा गर्हितेत्यर्थः । इदं प्रपितामह इति मानिकपतित्वपितृत्वश्वशुरत्वादेरुपलक्षकम् । जारबुद्धिर्न युक्तेति यद्यपि न समुच्चयार्थोऽपिशब्दस् तथाऽपि न व्यर्थः किन्तु सम्भाविता गर्हिता चेत्यर्थः । तत्तदुपाध्युपासकानां जारबुद्धिर्गर्हिता । करिष्यत्याचार्योऽधिकारिविवरणम् । तत्रैव विवरिष्याम इति । केचिद् गर्हितत्वमात्रमर्थ इत्यर्हिताः । न युक्तेत्येव श्रीमदुक्तेः । महे तेजः परस्यां देवतायां तेजोऽभिधां तु श्रियमिति भाष्यानुव्याख्यानोक्ते-र्महसा च महर्विदुरिति द्विरूपकोशोक्तेर्महःशब्दस्य तेजोऽर्थ उत्तमार्थे च पूज्यार्थे प्रयुज्यते । महच्छब्दो महो मान्यशब्दस्तथैव चेति शब्दनिर्णय इति चतुर्थतात्पर्योक्तेर्महःशब्दस्य तेजोऽर्थः । ततश्च महे तेजसि रमाविषयेऽजारबुद्ध्या जार उपपतिः स तद्भिन्न इति पतिः सबुद्ध्योपास्तिर्महे उपासनोत्सवे आसन्ने जगत्प्रपिता । नियेनमुष्टिहत्ययेत्यादिवत्प्रशब्दः प्राग्योज्यः प्रजगता जगत्प्राणः समीरण इत्युक्तेर्वायुवाची जगच्छब्दः । मुख्यप्राणेन । ब्रह्माऽप्यनेन ग्राह्यः । तृतीयायाः प्रथमानिर्देशो वा निर्विभक्तिकतया निर्देशो वा । विधिमुख्यप्राणाभ्यां पितेति । जगत्प्रकृष्टजङ्गम इति पतिः सतीनां तस्य पिता श्वशुर इत्युपास्तिर्देवयोषितां, प्रजगतो देवास्तेषां पितामहे हरौ तत्त्वेनोपास्तिः कर्तव्येति यावत् । जगत इतरस्य प्रपितामहे हराविति साक्षादसाक्षाद्वा पदोपरि केचित्केचिदानयन्त्यधिकारिणः ॥ ततश्चायं श्लोकद्विकार्थः ॥ काश्चन कामिन्यो गुणमयं गुणविकृतं देहं जहुस्तत्यजुः । तत्र पापं तथाऽनिष्टं पुण्यमप्यासामेवं बभूवुरित्याह ॥ दुःसहेति ॥ प्रेष्ठस्य स्वेष्टस्य दुःसहः सोढुमशक्यो यो विरहो वियोगस्तज्जातो यस्तीव्रोऽत्युल्बणस्तापस्तेन धूतानि कम्पितानि विश्लिष्टानीति यावद् अशुभानि प्रारब्धेतराणि यासां ताः । ध्यानेन खण्डेनाखण्डेन च प्राप्तोऽन्तर्बिम्बरूप आविर्भूतो योऽच्युतस्तस्याश्लेष आलिङ्गनं तज्जनिता निर्वृतिः परमानन्दस्तया क्षीणं क्षयिष्ण्वनिष्टममङ्गलं याभिस्ताः । भोगेन हीतरे । उपमर्दं चेत्यादेः । अच्युतो दृढ आश्लेषस्तन्निर्वृत्त्याऽक्षीणमङ्गला इति पदमेकं वा ॥
तमेव परिष्वक्तं परमात्मानं परमत्यन्तं जारबुद्ध्यापि जार उपपतिरिति बुद्धिर्जारबुद्धिर्या चेतरगर्हिता तथाऽपि तया सङ्गताः क्वचिद्गृहान्तर्वर्त्यनिर्गताङ्गनासु सम्भाविततयेत्यप्यर्थः । अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेष्विति स्मरणात् । सङ्गतास्तेन मिलिता गुणमयं देहं सद्यो जहुरनन्तरं सं किञ्चित्सारभूतं स्वर्गं गतास्तत्र स्थित्वा काल आयाते प्रक्षीणबन्धनाः सत्यस्तमेव सङ्गताः सम्यग्ज्ञाततत्का गुणमयमाविर्भूतगुणात्मकं जहुः । ओहाङ् गतौ । प्रापुरित्यर्थोऽपि ज्ञेयः । पदव्यत्ययश्छान्दसः । सङ्गता इत्यनेनान्वयो वा । याः सङ्गता गुणमयं देहं जहुस्ताभिर्गुणमयं देहमपीत्यन्वयो वा । कायो देहः क्लीबपुंसोरित्यमरः । धुताशुभा इति पूर्तौ यत्पुनः प्राह प्रक्षीणबन्धना इति तेनैवं सूचयामास व्यास इत्यवसेयम् । स्वबिम्बदर्शने सत्यपि सत्यः स्वर्गतः सत्यादिकं प्राप्य ब्रह्मणा सह काले मुच्यन्त इति सद्य इति प्रतिबन्धभावपरम् । प्रक्षीणबन्धना इति लिङ्गभङ्गतामङ्गनानामाहेति तात्पर्यं ज्ञेयम् ॥ १०,११ ॥
सुमनोरञ्जिनी
किञ्च तदानीमेव गुणमयं त्रिगुणात्मकं देहं जहुस् तत्यजुः । संसारान्मुक्ता अभवन्निति यावत् । त्यत्क्वा च परमात्मानं परं ब्रह्म सङ्गताः प्राप्ता बभूवुः । वर्तमानसामीप्या-द्वर्तमानव्यपदेशः । कुतः । कञ्चित्कालं स्वर्गाद्यवस्थानस्य प्रमितत्वात् । ननु प्रारब्धेन प्रतिबद्धाः कथं मुक्ता इत्यत उक्तम् ॥ प्रक्षीणबन्धना इति ॥ प्रक्षीणप्रारब्धप्रतिबन्धा इत्यर्थः । ननु प्रारब्धस्य भोगेनैव नाशात् तदानीमेकदा पुण्यपापोभयस्वरूपप्रारब्धस्य भोगस्यानवसरात् कथमुक्तं प्रक्षीणबन्धना इत्यतस्तत्प्रकारं वक्तुमुक्तम् ॥ दुःसहेति ॥ दुःसहः सोढुमशक्यो यः प्रेष्ठस्य श्रीकृष्णस्य विरहस् तेन तीव्रतापस् तेन धुतानि निरस्तानि अशुभानि यासां ताः । तथा ध्यानेन प्राप्तो योऽच्युतस् तस्य आश्लेषेण या निर्वृतिः परमानन्दानुभवस् तया आक्षीणानि ईषन्न्यूनं यथा भवति तथा क्षीणानि बन्धनानि प्रारब्धकाम्यपुण्यानि यासां ताः । अनेकजन्मसु दुःखानुभवकारणपापप्रारब्धस्य तत्तुल्यश्रीकृष्णविरहजतीव्रतापानुभवेन, तथा अनेकजन्मसु परमसुखानुभवसाधनपुण्यप्रारब्धस्यापि ध्यानप्राप्ताच्युताश्लेषजन्यपरमानन्दानुभवेन प्रक्षीणतेति भावः । ननु तमेवं विद्वानिति श्रुत्या ब्रह्मज्ञानस्यैव मोक्षसाधनत्वोक्तेस्तद्विधुराणां गोपीनां गर्हितया जारबुध्द्या कामनामात्रेण कथं मुक्तिरित्यत उक्तम् । परमात्मानं सङ्गता इति । परमात्मानं सं सम्यक् गच्छन्त्यवगच्छन्तीति तथोक्ताः । अत्रापिशब्दो जारबुद्धावरुचिं सूचयति । यद्यपि जारबुद्धिर्न युक्ता । न तया गुणमयदेहत्यागो युक्तस्तथापि पूर्वमिदानीमपि सम्यज्ज्ञानेनापि युतत्वात्स युक्त इति । तदुक्तम् । जगत्प्रपितामहे जारबुद्धिर्न युक्ता । तथापि ब्रह्मतया न सम्यगिति । तथा च न गोप्यो ब्रह्मज्ञानविधुराः किं तु पूर्वजन्मनि तद्वत्य एवेति भावः । इममेव सर्वाभिप्रायं मनसि कृत्वोक्तमाचार्यवर्यैः ।
कृष्णकामास्तदा गोप्यस्त्यत्क्वा देहं दिवं गताः ।
सम्यक् कृष्णं परब्रह्म ज्ञात्वा कालात्परं ययुः ।
पूर्वं च ज्ञानयुक्तास्तास्तत्रापि प्रायशस्तथा ।
अतस्तासां परब्रह्मगतिरासीन्न कामतः ।
न तु ज्ञानमृते मोक्षो नान्यः पन्थेति हि श्रुतिः ।
कामयुक्ता तदा भक्तिर्ज्ञानं चातो विमुक्तिगाः ।
अतो मोक्षेऽपि चैतासां कामो भक्त्याऽनुवर्तते । अतोदकत्वेनेति । तदा यदा स्वभर्तृभिरन्तर्गृहे निरुद्धास्तदेत्यर्थः । कालात् स्वयोग्यकालात् । ल्यब्लोपनिमित्ता पञ्चमी । कंचित्कालमुषित्वा परं परब्रह्म ययुः प्रापुः । अनेन परमात्मानं संगताः प्रापुरित्यपि योजना सूचिता । एतेन मूले तदैव मुक्तिकथनं पुनर्भारतभुवि जन्माभावाभिप्रायेणेत्युक्तं भवति । पूर्वं च पूर्वमपि । ज्ञानयुक्ता इत्यनेन परमात्मानं सङ्गता इत्येतत् सं सम्यक् गता अभवन्निति प्रकारान्तरेणापि व्याख्यातं भवति । क्तप्रत्ययलब्धार्थवर्णनं पूर्वमिति । तत्रापि गोपीजन्मन्यपि प्रायशस्तथा ज्ञानयुक्ताः । अतः पूर्वं ज्ञानित्वाद्दिवं गत्वा सम्यज्ज्ञानसंपादनाच्च तासां परब्रह्मगतिरासीत् । न कामतः न काममात्रात् । काममात्रादेव स्यात् किमर्थं ज्ञानापेक्षेति तत्राह ॥ न त्विति ॥ हि यस्मादिति श्रुतिस् तस्माज् ज्ञानमृते न मोक्ष इत्यर्थः । किं श्रीकृष्णाङ्गसङ्गकामः सर्वथा मोक्षेऽनुपयुक्त एव । नेत्याह ॥ काम-युक्तेति ॥ ज्ञानं चेत्येतत्त्रयमस्ति । अत एता विमुक्तिगा आसन् । अनेन कामोऽपि भक्ति-साहित्येन मोक्षफल एवेति भावः । भक्त्यैव मोक्षसिद्धौ किं कामेनेत्यतो मोक्षे विशेषं संपादयतीत्याह ॥ अत इति ॥ अतः कामयुक्तभक्तिमत्वान् मोक्षेऽपि भक्त्या सह कामोऽनुवर्तत एव । अनेन अत्र भगवत्कामः मोक्षेऽपि भगवत्कामितासाधनभूतो न व्यर्थ इति भावः । हन्त तर्हि मोक्षे यदि कामस् तज्जन्यं दुःखमपि स्यादित्यत उक्तम् ॥ अतोदकत्वेनेति । अदुःखजनकत्वेनेत्यर्थ इत्याचार्यवाचो युक्ताभिप्रायः ॥ १०,११ ॥
राजोवाच—
**कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । **
गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२ ॥
तात्पर्यम्
ब्रह्मतया न सम्यक् । ‘प्रेष्ठो भवांस्तनुभृतां सुहृदन्तरात्मा’ । ‘रमाया दत्तक्षणमि’ति वचनात् ॥ १२ ॥
पदरत्नावली
गोप्यः कृष्णं परं कान्तं जारं विदुः । न तु ब्रह्मतया विदुरित्यनेन गोपीनां कामित्वमात्रं प्रतीयते । न तु ब्रह्मज्ञानादिकम् । अतो ज्ञानसामान्याभावे ‘नान्यः पन्था अयनाय विद्यते’ इति श्रुतज्ञानप्राप्यलोकः कथमासां स्यादिति चेत् सम्यग् इत्यध्याहृत्य योज्यमित्युक्तम्– ‘ब्रह्मतया न सम्यक्’ इति ॥ यावज्ज्ञानेन स्वयोग्या मुक्तिर्भवति तावज्ज्ञानं नासीदिति यावत् । तासामुक्तिभिरेव ब्रह्मज्ञानयुक्तत्वं स्पष्टयति ‘प्रेष्ठो भवान् तनुभृतां सुहृदन्तरात्मा’, ‘रमाया दत्तक्षणम्’ इत्यादिवचनाद् इति । गुणेषु विषयेषु धीर्बुद्धिर्यासां तासां गुणप्रवाहोपरमो गुणप्रवाहस्य संसारस्योपरमो निवृत्तिः कथं सम्भवेन्न कथमपि । निवृत्तमार्गलभ्यगुणप्रवाहोपरमस्य प्रवृत्तमार्गप्रवर्तमानगोपस्त्रीलभ्यत्वं कथमिति यावत् ॥ १२ ॥
सत्यधर्मीया
कृष्णं विदुः परं कान्तमिति श्लोके न तु ब्रह्मतया मुने इति ब्रह्मतयाऽ-नवगतिस्तथाऽपि गतिः पराऽऽसीदासामिति जानानोऽजानान इव तात्पर्यं परीक्षिदप्राक्षीदिति तत्तात्पर्यं किञ्चिदध्याहृत्य दर्शयति ॥ ब्रह्मतया न सम्यगिति । परं कान्तमित्यत्रत्यपरमित्यस्यार्थोऽत्यन्तं सम्यगिति न शेषक्लेश इति वा । अनेन सामान्यतो ब्रह्मज्ञानं तासामस्ति । सम्यङ् नासीदित्येव । ज्ञानसामान्याभावे नान्यः पन्था इति श्रुतज्ञानप्राप्यलोकः कथमासां स्यादिति भावः । तथात्वं तद्वचनादेवावसीयत इति तत्पठति ॥ प्रेष्ठो भवांस्तनुभृतां सुहृदन्तरात्मा, रमाया दत्तक्षण-मित्यादिवचनादिति ॥ ननु दुःसहप्रेष्ठविरहतीव्रतापधुताशुभा इत्यनुपदमुक्तेस्त्यक्त्वैतदाचार्याः किं दवीयःपदवीस्थश्लोकोदाहरणमचीचरन्निति चेन्न । अतद्वचनत्वात् । भवांस्तमिति साक्षादधोक्षजं सम्बोध्यैवोक्तेस्तद्वादाक्षोदात् । वचनादिति वचनेऽपि तद्वचनादिति भावोऽस्माकमिति ध्वनयामासुर्मध्व-मुनय इति ज्ञेयम् ॥ ततश्चायं श्लोकार्थः ॥ अजानन्निव जनाधीशः पृच्छति ॥ राजेति ॥ गोप्यः कृष्णं परं कान्तं कान्तात्कान्तं जारमिति यावत् हे मुने गोप्यो विदुर्न तु ब्रह्मतया परम् । सम्यक् परमित्यावर्तते । विदुरेवं गुणधियां गुणेषु विषयेषु धीर्यासां तासां गुणप्रवाहोपरमो गुणप्रवाहस्य संसारस्योपरमो निवृत्तिः कथं सम्भवेन्न कथमपि । निवृत्तमार्गलभ्यगुणप्रवाहोपरमस्य कथं प्रवृत्तप्रवर्त-मानमानिनीलभ्यता तत्कथयेति परीक्षित्प्रश्नाशयः ॥ १२ ॥
सुमनोरञ्जिनी
एवं गूढाभिसन्ध्या शुकमुखोद्गलितस्याभिसन्धिं स्वयं जानन्नपि राजाऽन्य-जनानुजिघृक्षया शुकमुखादेवाविष्कारयितुं स्वयमजानन्निव पृच्छतीत्याह ॥ राजेति ॥ कान्तं कमनीयमेव । परं केवलं विदुः । न तु ब्रह्मतया परब्रह्मत्वेन सम्यग्विदुरिति सम्यक्पदाध्याहारेण योजनीयम् । तदुक्तं– ब्रह्मतया न सम्यक् । प्रेष्ठो भवांस्तनुभृतां सुहृदन्तरात्मा, रमाया दत्तक्षणमित्यादिवचनादिति । मूले ब्रह्मतया न विदुरित्यस्य ब्रह्मतया न सम्यक् विदुरित्येवार्थः न तु सर्वथा ब्रह्मतया न विदुरिति । कुत इत्यत एतत्प्रकरणगतगोपीवचनबलादित्याह ॥ प्रेष्ठ इति ॥ तनुभृतामन्तरात्मेत्यनेन रमाया दत्तक्षणमिति वचनेन च ब्रह्मतया ज्ञानस्य निश्चितत्वा-दित्यर्थः । गुणेषु विषयेषु धीर्मनो यासां तासाम् । गुणप्रवाहस्य संसारस्य ॥ १२ ॥
श्रीशुक उवाच—
उक्तं पुरस्तादेेतत्ते चैद्यः सिद्धिं यथा गतः ।
द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥
पदरत्नावली
सप्तमस्कन्धोक्तं स्मारयन् परीक्षित्प्रश्नं परिहरति शुक उक्तमिति । पुरस्तात् सप्तमस्कन्धे ‘गोप्यः कामाद् भयात् कंसो द्वेषाच्चैद्यादयो नृपाः । सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो’ इत्युक्तम् । चैद्यशब्दो जीवद्वयवाचीति चैद्यशब्देन यदा भक्तिभागी सज्जीवो वाच्यस्तदाऽऽनन्दाविर्भावलक्षणा मुक्तिः, यदा द्वेषभागी तामसजीवो वाच्यस्तदा नित्यदुःखोद्रेकलक्षणा मुक्तिः सिद्धिशब्देन ग्राह्या । तदुक्तमाचार्यैः– ‘अतादृक्त्वेन सदा द्वेषिणामधरं तमः । मुक्तिशब्दोदितं चैद्यप्रभृतौ द्वेषभागिनः । भक्तिभागी पृथङ्मुक्तिमगाद् विष्णुप्रसादतः’ इति । अतादृक्त्वेन हरिभक्त्यादिरहितत्वेन निमित्तेन । ननु ‘त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभः’ इत्यादिमानेन कामस्याशुभफलनरकाद्यनर्थसाधनत्वस्योक्तत्वात् कथं मुक्तिसाधनत्वमुच्यत इत्यत आह कामस्त्विति ॥ ‘कामस्त्वशुभकृच्चापि भक्त्या विष्णोः प्रसादकृत् । द्वेषिजीवयुतं चापि भक्तं विष्णुर्विमोचयेत् । अहोऽतिकरुणा विष्णोः शिशुपालस्य मोक्षणात्’ इति । द्विषन् भक्तिभागी सज्जीवस्तामसजीवसङ्गतया द्विषन्निव, द्वेषभागी असज्जीवस्तु साक्षादिति विवेकः । असदावेशरहिता अधोक्षज एव प्रियो यासां ता अधोक्षजप्रिया गोप्यो मुक्तिमापुरिति किमुत । ‘तदेतत् प्रेयः’ इत्यादिश्रुतेः सतां हरिर्हि सर्वप्रेष्ठः ॥ १३ ॥
सत्यधर्मीया
शुकः किञ्चित्स्मारयन्परिहरति ॥ उक्तमिति ॥ सप्तमे हिरण्यकशिपुप्रस्तावे द्वेषाच्चैद्यादय इत्यादिना चैद्यस्तच्छब्दवाच्यः संश्चासंश्च यथा सिद्धिं सदसद्रूपिणीं मुक्तिं गत इति यदेतत्ते निरूपितम् । द्विषन्नेकस्तत्सङ्गतया द्विषन्निवापरस्तु साक्षात्तथेति विवेकः । फलमुभयानुरूपं यच्छतो हरेरेतज्ज्ञानं तथा तत्तत्कर्मानुसृत्य कारयितुर्न वैषम्यादीत्यादिसम्भावकं हृषीकेशमिति सकलेन्द्रियप्रेरकतया तत्स्वामिनमधोक्षजप्रिया अतदसदाविष्टाः सिद्धिं सतीं समुपेयुरिति किं वक्तव्यम् । तदेतत्प्रेय इति सतां हरिर्हि सर्वप्रेष्ठः । गोपीनां स्वर्गादिमार्गतो गतानां क्लृप्ते काले मुक्तिर्नाश्चर्य-कृज्ज्ञानभक्त्याद्यनुवृत्तेरिति तात्पर्यमवधेयम् ॥ १३ ॥
सुमनोरञ्जिनी
जारबुध्यापि सङ्गता इत्यत्र गूढमभिसन्धिमुद्घाटयन् सप्तमस्कन्धोक्तं प्रमेयं स्मारयति शुकः । उक्तमिति । चैद्यः शिशुपालः । हृषीकेशं, अग्नीषोमादिषु स्थित्वा स्वकेश-नियतैस्तत्किरणैर् जगद्धर्षणात् हृषीकेश, हृष्याः केशा यस्येति विग्रहः । तदुक्तं गीताभाष्ये एकादशेऽध्याये ‘अग्नीषोमाद्यन्तर्यामितया जगद्धर्षणाद्धृषीकेश इति । एतादृशं श्रीकृष्णं द्विषन्नपि द्वेषिसङ्गादागन्तुकद्वेषवानपि । यथा येन प्रकारेण सिद्धिं मुक्तिं गतस् तथा द्विषन्नपि स्वाभाविकद्वेषयुतश् चैद्याविष्टदैत्योऽपि यथा यथायोग्यं सिद्धिं गत इत्येतत्सर्वं ते तुभ्यम् । पुरस्तात्पूर्वम् उक्तमेव । अतो ऽधोक्षजप्रिया अधोक्षजः प्रियः कामनीयो यासां ताः श्रीकृष्णे कामयुता इति यावत् । सिद्धिं गता इति किमुतेति योजना । अत्र चैद्यतदाविष्टयोरपि मुक्तिरुच्यते । सा किमेकविधैवेत्यतो नेत्यभिप्रायेणास्य तात्पर्यं व्यनक्त्याचार्यचरणः ।
द्वेषिणामधरं तमः ।
मुक्तिशब्दोदितं चैद्यप्रभृतौ द्वेषभागिनः ।
भक्तिभागी पृथङ्मुक्तिमगाद्विष्णुप्रसादतः ।
कामस्त्वशुभकृच्चापि भक्त्या विष्णोः प्रसादकृत् ।
द्वेषिजीवयुतं चापि भक्तं विष्णुर्विमोचयेत् ।
अहोतिकरुणा विष्णोः शिशुपालस्य मोक्षणात् ।
अयमत्राचार्यवचनार्थः । चैद्यप्रभृतौ शिशुपालकेशिपूतनादौ स्थितस्य द्वेषभागिनः भगव-द्द्वेषिणोऽधरन्तमः । मुक्तिशब्दोदितं मुक्तिवाचकशब्दोदितम् । कुतः । यतो द्वेषिणामधरन्तम एव नियतम्, अत इत्यर्थः । भक्तिभागी पृथङ्मुक्तिं विलक्षणां मुक्तिं भगवत्प्राप्तिलक्षणमुक्तिमगादित्यर्थः । अनेन भगवद्भक्तप्राप्यत्वेनोक्ता मुक्तिर्भगवत्प्राप्तिरूपैवेत्युक्तं भवति । ननु किमुताधोक्षजप्रिया इति । अनेन कामस्य मुक्तिसाधनत्वमुक्तं तत्कथं युज्यते । कामस्याशुभकारित्वादित्यत आह । यद्यपि केवलः कामो ऽशुभकृत्, अपि तथापि भक्त्या सहितः विष्णोः प्रसादकृच्च भवति । अत उक्तं युक्तमिति भावः । ननु यदि द्वेषिणामधरं तमो नियतं तर्हि चैद्यस्यापि द्वेषिसंसर्गेण द्वेषवत्वात्कथं मुक्तिरभूदित्यत आह ॥ द्वेषीति ॥ द्वेषिजीवयुतमित्यनेन द्वेषिसङ्गादेव द्वेषो न स्वाभाविक इति ध्वनयति । शिशुपालादिमोक्षणाद्विष्णोरतिकरुणा ज्ञायत इति शेषः । अनेन भगवान् स्वभावतो द्वेषिणामेवाधरं तमः प्रापयति । स्वभक्तं तु अन्यसंसर्गाद्द्वेषिणमपि तद्द्वेषमगणयित्वैव भक्तिफलं मुक्तिमेव प्रापयतीत्युक्तं भवति । तदुक्तं गीताभाष्ये । स्वभक्तस्य कदाचिच्छापबलाद्द्वेषिणोऽपि भक्तिफलमेव ददातीति । द्वेषिणामपि द्वेषफलमनिरूप्य पूर्वतनभक्तिफलमेव ददातीति चेति ॥ १३ ॥
नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।
अव्यक्तस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥
पदरत्नावली
सुजनसमुद्धरणाय हरेरवतार इत्याह नृणामिति । गुणात्मनो ज्ञानानन्दादि-स्वरूपस्य, निर्गुणस्य सत्त्वादिगुणत्रयरहितस्य, अव्यक्तस्य प्रसादमन्तरेण प्रयत्नसहस्रेणापि न व्यज्यत इत्यव्यक्तस्तस्य, अप्रमेयस्य साकल्येन प्रमाणाविषयस्य भगवतो व्यक्तिरवतारः ॥ १४ ॥
सत्यधर्मीया
न कृत्यमेतदाद्युद्दिधीर्षया प्रवृत्तस्य हर्यवतारस्य निःश्रेयसातिसर्जनं विनेति तं बोधयति ॥ नृणामिति ॥ हे नृप गुणात्मनो ज्ञानादिस्वरूपस्य । निर्गुणस्य भिन्नगुणा वा सत्त्वादयो वा तद्रहितस्याव्यक्तस्य प्रसादमन्तरेण प्रयत्नसहस्रेण व्यक्तिमगच्छतः । तथाऽपि न सामस्त्येनेत्याह ॥ अप्रमेयस्येति ॥ नृणामित्यधिकारित्रितयग्रहः । निःश्रेयसमपि त्रिविधं मतभेदतः । नित्योपलब्धिसूत्राच्च भाषणाट्टीकणादपि । नित्यसंसारिणां लिङ्गभङ्गोऽस्तीति सतां मतमिति श्रीसत्यप्रियगुरुराजैस्तथा श्रीमद्वादिराजतीर्थश्रीपादैश्च तत्स्थानतल्लिङ्गभङ्गहेत्वादिप्रतिपादकपुराणा-द्युदाहरणपूर्वकं रचितग्रन्थग्रथनपूर्वकं ललाललामायिनां पतये नम इति नमकव्याख्याने चेमानि कर्माणीति महाभारततात्पर्यनिर्णयश्लोकस्य चास्माकं वितत्योक्तः स चानुसन्धेय इति नात्र विस्तरदरतो व्यालेखि । सदसत्सदसदात्मकविमुक्तिरूपप्रयोजनाय न लिङ्गभङ्ग इति पक्षे व्यावृत्तनिःश्रेयसार्थपदस्य मध्यमविवक्षायां निःश्रेयसनिवृत्तये नित्यबन्धायेति यावदित्यर्थः । तामसविवक्षायां निःश्रेयसपदस्य सन्मोक्षपरतार्थशब्दस्यार्थः स एवेति ज्ञेयम् । सत्पक्षेऽर्थ्यते मनसा प्रार्थ्यत इति स निःश्रेयसं चासावर्थश्चेति सन्मुक्तिस्तस्मा इति नार्थातिरेक इति विवेकः । अचतुरनिपातितो निःश्रेयसशब्दः । भगवतो व्यक्तिर्नास्तीतीतरतदवतारकृत्यमिति तन्मोचनं युक्तमिति । अप्रमेय इति केवलं विशेष्यसङ्गतं चेन्न सरसमिति गुणात्मन इत्यात्मपदसमस्तगुणपदेनान्वेति । ततश्चाप्रमेया ये गुणास्तदात्मान इत्यर्थः सम्पद्यते । ततश्च त्रिलोकनाथः सप्तघटिकाभोजनमित्यादाविवान्वयो ज्ञेयः । न च तत्र समस्तत्वा-द्भवत्वयोग्यतयाऽत्र तु कथं समञ्जसोऽन्वयः समस्तेन व्यस्तस्येति वाच्यम् । दीप्तानलार्कद्युतिम-प्रमेयमिति प्रमेयदीपिकायामुक्तेर्जातां द्युतेर्मितत्वशङ्कामेतच्च सविशेषणविशेषणत्वाद् द्युत्या सम्बध्यत इत्युक्तमिति का कथन्ता । पूर्वं विस्तृतं च ॥ १४ ॥
सुमनोरञ्जिनी
किञ्च नृणां निःश्रेयसार्थाय मोक्षरूपप्रयोजनाय भगवतो व्यक्तिः रामकृष्णादि-रूपेण प्रादुर्भावो भवति । मोक्षश्च न तत्प्रसादमन्तरा सम्भवति । प्रसन्नादेव राजादेर्निगडादि-मोक्षदर्शनात् । स च प्रसादो न भक्तिं विनेत्यन्यथानुपपत्त्यापि भक्तेरेव मोक्षसाधनत्वं सिध्द्यतीति भावः । कीदृशस्य भगवतः । अव्यक्तस्य अव्यक्तस्वभावस्य । अव्यक्तस्वभावस्यापि व्यक्तिर्भक्तेषु प्रसादेनैवेति सूचयति । ननु व्यक्तिरिति कुत उत्पत्तिरेव किं न स्यादित्यत उक्तम् ॥ निगुर्णस्येति ॥ गुणत्रयशून्यस्येत्यर्थः । तदेव कुत इत्यत उक्तम् ॥ गुणात्मन इति ॥ ज्ञानादिगुणात्मन इत्यर्थः । तर्हि किमिति तथात्वेनास्माभिर्न ज्ञायत इत्यत अप्रमेयस्येत्युक्तम् । स्वप्रसादमन्तरा प्रमातुमशक्यस्येत्यर्थः ॥ १४ ॥
कामं क्रोधं भयं मोहं मैत्रीं सौहृदमेव च१ ।
नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥
तात्पर्यम्
कामिनः कामित्वं क्रोधिनः क्रोधित्वमेव सर्वदा भवतीति तन्मयता । ‘विमुक्तावपि कामिन्यो विष्णुकामा व्रजस्त्रियः । द्वेषिणश्च हरौ नित्यं द्वेषेण तमसि स्थिता’ इति च । ‘भक्त्या हि नित्यकामित्वं न तु मुक्तिं विना भवेत् । अतः कान्त-तया चापि मुक्तिर्भक्तिमतां हरौ । स्नेहभक्ताः सदा देवाः कामित्वेनाप्सरस्त्रियः । काश्चि-त्काश्चिन्न कामेन भक्त्या केवलयैव तु । मोक्षमायान्ति नान्येन भक्तिं योग्यां विना क्वचिदि’ति पाद्मे । ‘भक्त्या वा कामभक्त्या वा मोक्षो नान्येन केनचित् । काम-भक्त्याऽप्सरस्त्रीणामन्येषां नैव कामतः । उपास्यः श्वशुरत्वेन देवस्त्रीणां जनार्दनः । जारत्वेनाप्सरस्त्रीणां कासांचिदिति योग्यता । योग्योपासां विना नैव मोक्षः कस्यापि सेत्स्यति । अयोग्योपासनाकर्तुरनर्थश्च भविष्यति । तस्मात्तु योग्यतां ज्ञात्वा हरेः कार्य-मुपासनमि’ति भद्रिकायाम् । ‘पतित्वेन श्रियोपास्यो ब्रह्मणोर्मे पितेति च । पिता-महतयाऽन्येषां त्रिदशानां जनार्दनः । प्रपितामहो मे भगवानिति सर्वजनस्य तु । गुरुः श्रीब्रह्मणोर्विष्णुः सुराणां च गुरोर्गुरुः । मूलभूतो गुरुः सर्वजनानां पुरुषोत्तमः । गुरुर्ब्रह्माऽस्य जगतो दैवं विष्णुः सनातनः । इत्येवोपासनं कार्यं नान्यथा तु कथञ्चने’ति वाराहे ॥ १५ ॥
पदरत्नावली
कामं क्रोधमिति श्लोके ये हरौ कामक्रोधादिकं नित्यं विदधतः कुर्वन्तः सन्ति ते तन्मयतां हरितादात्म्यं यान्तीति हरौ कामक्रोधादेः फलं हर्यैक्यमेवोच्यत इति भ्रमभ्रंशनाय तत्तात्पर्यार्थमाह‘कामिनः कामित्वं क्रोधिनः क्रोधित्वमेव सर्वदा भवतीति तन्मयता’ इति । हिशब्दो ‘यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तन्तमेवैति कौन्तेय सदा तद्भावभावितः’ इत्यादिमानसूचकः । तदुक्तम् ‘विमुक्तावपि कामिन्यो विष्णुकामा व्रजस्त्रियः । द्वेषिणश्च हरौ नित्यं द्वेषिणस्तमसि स्थिताः’ इति । कामना कामिनीनां गोपीनामीदृशीत्याह– ‘भक्त्या हि नित्यकामित्वं न तु भक्तिं विना भवेत् । अतः कान्ततया वापि मुक्तिर्भक्तिमतां हरौ । स्नेहभक्ताः सदा देवाः कामित्वेनाप्सरःस्त्रियः । काश्चित्काश्चिन्न कामेन भक्त्या केवलयैव तु । मोक्षमायान्ति नान्येन भक्तिं योग्यां विना क्वचित्’ इति पाद्मे इति । भक्यैव मोक्षो नान्येन साधनेनेत्याद्यर्थविशेषं भद्रिका-वचनेनाह– ‘भक्त्या वा कामभक्त्या वा मोक्षो नान्येन केनचित् । कामभक्त्याऽप्सरःस्त्रीणामन्येषां नैव कामतः । उपास्यः श्वशुरत्वेन देवस्त्रीणां जनार्दनः । जारत्वेनाप्सरःस्त्रीणां कासाञ्चिदिति योग्यता । योग्योपासां विना नैव मोक्षः कस्यापि सेत्स्यति’ इति । अन्यथोपासने किं भविष्यतीत्याह- ‘अयोग्योपासनाकर्तुरनर्थश्च भविष्यति । तस्मात्तु योग्यतां ज्ञात्वा हरेः कार्यमुपासनम्’ इति भद्रिकायाम्’ इति । एवं योग्यताभेदेन भक्तिविभागमुपासनाभेदं चोक्त्वा, विशेषत उपासनाभेदं वाराहवचनेन स्पष्टमाचष्टे– ‘पतित्वेन श्रियोपास्यो ब्रह्मणा मे पितेति च । पितामहतयाऽन्येषां त्रिदशानां जनार्दनः । प्रपितामहो मे भगवानिति सर्वजनस्य तु । गुरुः श्रीब्रह्मणोर्विष्णुः सुराणां च गुरोर्गुरुः । मूलभूतगुरुः सर्वजनानां पुरुषोत्तमः । गुरुर्ब्रह्माऽस्य जगतो दैवं विष्णुः सनातनः । इत्येवोपासनं कार्यं नान्यथा तु कथञ्जन’ इति ॥ १५ ॥
सत्यधर्मीया
कामं क्रोधमिति श्लोके तन्मयतामिति भगवदात्मकताभ्रमं भ्रंशयितुं स्वयं व्याख्याय कामस्य मुक्तावप्यनुवर्तने विहाय कामान्यः पुमांश्चरति निस्पृह इत्यादिविरोधोपरोधं मानाननत उपासनाव्यवस्थां च दर्शयति ॥ कामिन इति ॥ नात्र तच्छब्देन हरिपरामर्शः किन्तु कामादिपरामर्श इत्याह । कामित्वं क्रोधिनो निन्दितकामक्रोधवत इत्येतदादेः सर्वदा सृतावसृतौ चेति सदा भवतीति तन्मयता । कामिनो ज्ञानभक्तिसम्पन्नस्य कामित्वं तथा क्रोधिनो ज्ञानादिहीनस्य सदा सृतौ तमसि चेत्यादौ क्रोधाद्यात्मकत्वेनैव तन्मयता ज्ञेया । विमुक्तावपि तदवस्थायामपि व्रजस्त्रियः कामिन्यो नित्यं तमसि स्थिता इत्यप्रत्यावृत्तिं कथयति ॥ नित्यमिति ॥ द्वेषिविशेषणे द्वेषयोग्यतया सान्तत्यं समर्पयति । इति च स्कान्द इति शेषः । कामना कामिनीनामीदृशीत्याह ॥ भक्त्या हीति ॥ कान्ततयोपपतितयाऽप्सरःस्त्रीसामान्यस्य यो यो यदा सङ्गतः स तदा तदा पतिरेवेति कान्ततयेत्यर्थः । भक्तिमतां स्त्रीजनानां चान्मुक्तिर्भवेत् । स्नेहभक्ता देवाः सदा ।
अत्र स्नेहशब्दः सामान्यप्रीतिमात्रपरः । देवशब्दश्च योग्ययशोदादिसत्कामिन्युपलक्षक इति ज्ञेयम् । अन्यथा तदादीनां मुक्त्यनुक्त्यापत्तेः । काश्चिद्यशोदादयः केवलभक्त्यैव । कामेन नेत्येवकारार्थ-विवरणमिति न वैय्यर्थ्यम् । अप्सरस्त्रियः कामित्वेन भक्ता इत्यन्वयः । कश्चित्काश्चिदप्यनेन कामादिनैव योग्यां भक्तिं, भक्त्या देवादीनां, कामभक्त्या गोपाङ्गना अप्सरआदीनामन्येन भक्ति-विरहितकामादिना । गीतोक्ताः कामाश्च मोक्षप्रतिबन्धका इति नात्र ते ग्राह्याः । अपि त्विच्छारूपः स चानुवर्तते मुक्तावपीति न तद्विरोध इति मन्तव्यम् । तदेव मन्दानन्दार्थं विशदयति । अन्येषां न कामतो मोक्ष इत्यर्थः । देवस्त्रीणाम् । कृत्यानां कर्तरि वेति स्मरणाद्देवस्त्रीणामुपास्यापि मोक्षो न सेत्स्यति । अन्यथोपासने किं भविष्यतीत्यत आह ॥ अयोग्योपासनेति ॥ उपासनां कर्ता तस्यानर्थोऽनिष्टमिष्टनाशश्च भविष्यति । तस्मात् । तुस्तरतमभावसूचकः । स्वयोग्यतां ज्ञात्वा हरेरुपासनं कार्यम् । भद्रिकानामके ग्रन्थे । श्रिया पतित्वेनोपास्यः । ब्रह्मणोर् ब्रह्मप्राणयोः पितेत्युपास्योऽन्येषां त्रिदशानां पितामहतयोपास्यो मे प्रपितामह इति सर्वजनस्योपास्यो गतम् । श्रीब्रह्मणोर्विष्णुर्गुरुस्तत्र श्रीमुख्यस्य ब्रह्मणः श्रीरपि गुरुरिति तन्मुख्यं ज्ञानशब्दयोरितिवज्ज्ञेयम् । सुराणां च गुरोर्गुरुर्गुरुर्विरिञ्चस्तस्य गुरुः परमगुरुरिति यावत् सर्वजनानां पुरुषोत्तमो मूलभूतगुरुरस्य जगतो गुरुर्ब्रह्मा सनातनो विष्णुर्दैवम् । सर्वजनानामित्यन्वेति । इति पूर्वोक्तप्रकारेणोपासनं कार्यम् । अन्यथा तु कथञ्चन न कार्यम् । अनर्थश्रुतेरिति भावः ॥ ततश्चायं मूलार्थः ॥ कामं, क्रोधं, स्नेहं प्रीतिमात्रं, मैत्रीं सौहृदं चेत्यादिकं हरौ नित्यं विदधतः कुर्वन्तो ये, नाभ्यस्ताच्छतुरिति नुमभावः, ते तन्मयतां कामाद्यात्मकतां यान्ति । क्रोधमयतां तु तामसा यान्तीति । हिते । हितगतौ वृद्धौ चेति स्मरणात् । आमन्दादिहितसहितत्वाद्धितेति नित्याभिवृद्धये मोक्षे हिते गतिरूपे तमसीत्यर्थः । प्राप्ते सतीत्यर्थः ॥ १५ ॥
सुमनोरञ्जिनी
नन्वेतावता प्रबन्धेन गोप्यः कामयुक्तभक्त्यैव मुक्ता न काममात्राद् इति निष्टंकितम् । तर्हि भक्त्यैवालं मुक्तौ किं कामेनेत्यत इदानीं भगवति कामो मोक्षेऽपि भगवत्कामितां प्रत्युपयुज्यत इति वदन् एतन्न्यायमन्यत्राप्यतिदिशति ॥ काममिति ॥ ये जना हरौ विषये कामं विदधते । यथा गोप्यः । क्रोधं द्वेषं यथा मागधादयः । भयं प्रबलोऽयं हरिर्मम शत्रुरिति भयम् । यथा कंसादयः । मैत्रीम् उपकारिताबुद्धिं, सौहृदम् अनिमित्तस्नेहं विदधते । यथा पाण्डवादयः । ते तन्मयतां कामाद्यात्मकतां यान्ति । मुक्तौ स्वरूपभूतभगवद्विषयकामादिमन्तो भवन्तीति भावः । यद्वा तन्मयतां तत्प्राचुर्यम् । तदुक्तं ‘कामिनः कामित्वं क्रोधिनः क्रोधित्वमेव सर्वदा भवति’ इति तन्मयतेति । क्रोधो द्वेषः सर्वदा भवतीत्यादि यत् तत् तन्मयतेत्युच्यत इत्यर्थः ॥ सर्वदेत्युक्त्या मुक्तावप्यनुवृत्तिः सूचिता । तदेव हि प्राचुर्यं नाम यत्सर्वदा विद्यमानत्वं सदेत्यनेन सूचितम् । कामित्वक्रोधित्वादेर्मुक्तिसम्बन्धित्वं स्कान्दवचनेन स्पष्टयति ।
विमुक्ता अपि कामिन्यो विष्णुकामा व्रजस्त्रियः ।
द्वेषिणश्च हरौ नित्यं द्वेषिणस्तमसि स्थिताः ॥ इति चेति ।
हरौ द्वेषिणः नित्यं द्वेषिणो भवन्तीत्यर्थः । तमसि स्थिता इति द्वेषफलमुक्तम् । चशब्देन स्कान्द इत्यनुवर्तते । यदि इदानीं भगवत्कामित्वं मोक्षे भगवत्कामितां प्रति प्रयोजकं तर्हि तदेवास्तु मुक्तिप्रयोजकं किं भक्त्येत्यत इदानीं भगवत्कामित्वमात्रं न नित्यकामित्वे प्रयोजकं किं तु भक्तिसहितमेवेति वदन् कामभक्त्यादीन् शृृङ्गिग्राहकन्यायेन दर्शयत्पाद्मवचनं प्रमाणयति ।
भक्त्या हि नित्यकामित्वं न तु भक्तिं विना भवेत् ।
अतः कामनया वापि मुक्तिर्भक्तिमतां हरौ ।
स्नेहभक्ताः सदा देवाः कामित्वेनाप्सरस्त्रियः ।
काश्चित्काश्चिन्न कामेन भक्त्या केवलयैव तु ।
मोक्षमायान्ति नान्येन भक्तिं योग्यां विना क्वचित् ॥
इति पाद्म इति । हि यस्माद् भक्त्या भवेद् भक्तिं विना नैव भवेदित्यन्वयव्यतिरेकः सूचितः । अतः भक्तेरेव अन्वयव्यतिरेकित्वात्कामितया सह मुक्तिः । मुक्तौ भगवत्कामित्वमिति यावत् । अपिरवधारणे । हरौ भक्तिमतामेवेति सम्बध्यते । स्नेहभक्ताः स्नेहयुक्ताश्च ते भक्ताश्च । स्नेहो मैत्र्यं सौहृदं च । काश्चिदप्सरस्त्रियः कामित्वेन सह भक्तिमत्यः मोक्षमायान्तीत्यनुकृष्यते । काश्चित्तु न कामेनेत्यन्वयः । इदानीं भगवति जारबुध्या कामोऽपि न मुमुक्षुसर्वस्त्रीभिः कर्तव्यः किं तु तद्योग्याभिरेवेति वदन् प्रसङ्गात्सर्वासामुपासनाविशेषप्रकारं प्रदर्शयद्वचनमुदाहरति ।
भक्त्या वा कामभक्त्या वा मोक्षो नान्येन केनचित् ।
कामभक्त्याऽप्सरस्त्रीणामन्येषां नैव कामतः ।
उपास्यः श्वशुरत्वेन देवस्त्रीणां जनार्दनः ।
जारत्वेनाप्सरस्त्रीणां कासांचिदिति योग्यता ।
योग्योपासां विना नैव मोक्षः कस्यापि सेत्स्यति ।
अयोग्योपासनाकर्तुरनर्थश्च भविष्यति ।
तस्मात्तु योग्यतां ज्ञात्वा हरेः कार्यमुपासनम् ॥ इति भद्रिकायामिति ।
तत्र नैव कामतो मोक्ष इति सम्बन्धः । श्वशुरत्वेन । इदमुपलक्षणम् । श्वशुरपितृत्वेनेत्यपि ग्राह्यम् । सरस्वतीभारत्योश्च श्वशुरत्वेन । अन्यासां तत्पितृत्वेनेति विवेकः । जारत्वेन तथोपासनमपि नोर्वश्यादीनां सर्वासामपि तु कासांचिद्भगवदंगसङ्गयोग्यानामेव पिङ्गलाप्रभृतीनामप्सरस्त्रीणाम् । इति एवंप्रकारा योग्यता जारत्वेनोपासनायोग्यतेत्यर्थः । एवं स्त्रीसामान्यस्य उपासनाप्रकारमुत्क्वा पूर्वमनुक्ताया रमादेव्या पुरुषसामान्यस्य च तत्प्रतिपादयत्प्रमाणमाह ।
पतित्वेन श्रियोपास्यो ब्रह्मणा मे पितेति च ।
पितामहतयाऽन्येषां त्रिदशानां जनार्दनः ।
प्रपितामहो मे भगवान् इति सर्वजनस्य तु ।
गुरुः श्रीब्रह्मणोर्विष्णुः सुराणां च गुरोर्गुरुः ।
मूलभूतगुरुः सर्वजनानां पुरुषोत्तमः ।
गुरुर्ब्रह्माऽस्य जगतो दैवं विष्णुः सनातनः ।
इत्येवोपासनं कार्यं नान्यथा तु कथंचन ॥ इति वाराह इति ।
दैवं कुलदैवमित्याचार्यवचनस्य योजना द्रष्टव्या ॥ १५ ॥
न चैवं विस्मयः कार्यो भवता भगवत्यजे ।
योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ १६ ॥
पदरत्नावली
हिशब्दद्योतितबहुविशेषाणां शास्त्रान्तरसिद्धत्वाद् भगवति विस्मयो न कार्य इत्युपसंहरति न चैवमिति । विस्मय आश्चर्यबुद्धिः । ‘चित्रे दर्पे च विस्मयः’ इति यादवः । जननराहित्यादजस्तस्मिन् । ‘न हि जातो न जायेऽहं न जनिष्ये कदाचन । क्षेत्रज्ञः सर्वभूतानां तस्मादहमजः स्मृतः’ इत्यादेः । योगेश्वराणां चतुर्मुखप्रमुखानामीश्वरस्तस्मिन् । यतो यस्माद् भगवतो वासुदेवाद् एतद् जगद् विमुच्यते असारसंसारान्मुक्तं भवति । ‘यस्य प्रसादात् परमार्तिरूपादस्मात् संसारान्मुच्यते नापरेण’ इति श्रुतेः ॥ १६ ॥
सत्यधर्मीया
उक्तमर्थं पर्यवसाययति ॥ न चेति ॥ परदाररत्यादिश्रेष्ठापराधान्नान्यदोषस्य लेपस्तेजीयसामित्यादेर्देवादितेजीयसां यदि न दोषावहस्तदा का कथा यस्य श्रीशस्य प्रसादाद-सारसंसारनिवृत्तिस्तस्येत्याह ॥ योगेश्वरेश्वर इति ॥ यत एतज्जगद्विमुच्यते तस्य कथमेवं प्रवृत्तिरिति तात्पर्यं सत्सम्भावकम् । योगेश्वराश्चतुराननादयस्तेषामीश्वरे स्वामिनीति । इदमत्रैवेति कुत इत्यतोऽज इति । विस्मयो भवता न कार्यो न कर्तव्य इत्यर्थः ॥ १६ ॥
सुमनोरञ्जिनी
विस्मय आश्चर्यबुद्धिर् न कार्या । अत्र हेतुर्भगवतीत्यादि । भगवति अव्याहतैश्वर्यादिमति । यतः श्रीकृष्णात् तदनुग्रहादित्यर्थः । एतज् जगद् वि विविधं यथा भवति तथा । मुच्यते यथायोग्यं त्रिविधोऽपि जनः मुक्तिमाप्नोतीति भावः ॥ १६ ॥
ता दृष्ट्वाऽन्तिकमायाता भगवान् व्रजयोषितः ।
अवदद् वदतां श्रेष्ठो वाचःपाशैर्विमोहयन् ॥ १७ ॥
पदरत्नावली
परीक्षित्प्रश्नविशेषं परिहृत्य गोपाङ्गनागमनानन्तरं तस्यां रजन्यां हरिः किं चकारेति कथां कथयति ता इति । वदतां वाग्मिनां श्रेष्ठो भगवान् वाचःपाशैर् वागात्मकजालैः
॥ १७ ॥
सत्यधर्मीया
समाधायैवं वसुधाधिपमङ्गनागमनानन्तरमनन्तः किं ततान तत्र रात्रावित्यतस्तां कथां कथयति ॥ ता इति ॥ ता व्रजयोषितः कन्या अकन्याश्च कात्यायनीव्रतधराः स्वपतित्वहेतोर् मयेमा रंस्यथ क्षपा इत्यादौ तथोत्तरत्र पतयश्च व इत्युक्त्यानुकूल्यात् । भगवान् स्वान्तिकं समीपमायाताः प्राप्ताः । किं तत्र रात्रावागमनकारणमित्यतोऽप्याह ॥ अन्तिकमायाता इति ॥ अन्ति समीपे कं स्वरूपसुखं यया सा माया च स्वेच्छा च तयैवायन्तीति तास्तथा स्वेच्छात एवायाताः । यदन्ति यच्चेत्यादेः । स योऽत इत्यादेः । वदतां वाग्मिनां श्रेष्ठो भगवान्वाचः-पाशैर्वागात्मकवागुरैः राहोः शिर इत्यादिवदभेदे षष्ठी विमोहयन्नवदत् । विमो विशिष्टज्ञानसम्पद्रमासहित इति । ता हयन्निव गच्छन्निवावददिति वा । हय गताविति स्मृतिः ॥ १७ ॥
सुमनोरञ्जिनी
एवं परीक्षितः प्रश्नं परिहृत्य पुनः कथां वक्तुमुपक्रमते ॥ ता इति ॥ तास् तथाविधा व्रजयोषितः गोपीर् दृष्ट्वा । वाचः पञ्चमी तृतीयार्थे । वाग्लक्षणैः पाशैर् विमोहयन् अवदत् । वाचः परिभाषणाद् उदितैः पाशैरिति वा ॥ १७ ॥
श्रीभगवानुवाच—
स्वागतं वो महाभागाः प्रियं किं करवाणि वः ।
व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम् ॥ १८ ॥
पदरत्नावली
व्रजस्य व्रजस्थलोकस्य । अनामयं न आमयो रोगो यस्मिन् तत् तथा । कच्चिदिति इष्टपरिप्रश्ने ॥ १८ ॥
सत्यधर्मीया
हे महाभागाः । वः स्वागतं युष्माकं समीचीनमागमनं वः प्रियं किं करवाणि । व्रजस्यानामयं नीरोगता, व्रजस्य तत्स्थलोकस्य क्षेममिति यावत् । कच्चित् । आगमनकारणं ब्रूत
॥ १८ ॥
सुमनोरञ्जिनी
हे महाभागा वः युष्माकं स्वागतम् । वः प्रियम् अभीष्टम् । व्रजस्य अनामयम् आमयः रोगाद्युपद्रवस् तदभावः । कच्चिदिति प्रश्नार्थः स्वरविशेषद्योतनार्थः । भवतीनामागमने कारणं प्रयोजनरूपम् ॥ १८ ॥
रजन्येषा घोररूपा घोरसत्वनिषेविता ।
प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ १९ ॥
पदरत्नावली
घोरैः सत्वैः राक्षसादिभिर्निषेविता ॥ १९ ॥
सत्यधर्मीया
घोरैः सत्त्वैः पिशाचादिभिः सर्पादिभिर्वा निषेविता । स्वयं च घोररूपा भीतिहेतुरेषा रजनी रात्रिः । चेत्किमित्यतो मनःपूर्वकं किञ्चिद्विनोदं नटयन्नाह । हे सुमध्यमा इह वने स्त्रीभिर्न स्थेयं व्रजं प्रति यातेति । कुत इत्यतोऽस्वतन्त्रा यूयमित्यप्याह । सुमध्यमाः पत्यपत्यादिप्रोक्तकारिण्योऽत्यन्तमिति । सुमध्यमा इति सौन्दर्यातिशयेन दुर्दृष्टिबाधा स्यादतः प्रतियातेत्याशयो द्योत्यते । सुमानि धीयन्तेऽस्मिन्निति सुमधिर्मन्मथस्तेनामो रोगो यासां ता इति वा । आमो (अमो) रोग इत्युक्तेः । यद्वा स्वसम्बोधितस्य सुमध्यमा इत्यस्य सुमानां धीस्तद्विलोकन- मतिस्तयाऽमन्तीति तास्तथा । अम गत्यादिष्विति स्मरणात् । पुष्पविलोकनायायाता इत्यायताक्ष्युत्तर- परतयाऽप्यर्थं मनसि कृत्वा तदुत्तरयति । सुमानि धीयन्तेऽस्मिन्निति सुमधि वनमिति वा ॥१९॥
सुमनोरञ्जिनी
किं च प्रयोजनशतसद्भावेऽपि न स्त्रीभिर् अस्मिन्समये आगन्तव्यमित्याह ॥ रजनीति ॥ घोरं भयजनकं रूपं यस्याः सा । घोरसत्वैः राक्षसादिभिः । यतः स्त्रीभिः । अनेन भीरुस्वभावता ध्वनिता । इह अस्मिन्नरण्ये । न स्थेयं न स्थातव्यम् । अतो व्रजं प्रति प्रतियात । यथाऽगतं तथा गच्छत ॥ १९ ॥
मातरः पितरः पुत्रा भ्रातरः पतयश्च वः ।
विचिन्वन्तो ह्यपश्यन्तो १मा कृध्वं बन्धुसाध्वसम् ॥ २० ॥
पदरत्नावली
पुत्राः पत्युरग्रजादीनाम् । विचिन्वन्त्यश्च विचिन्वन्तश्च । ‘पुमान् स्त्रिया’ इत्येकशेषः । मृगयन्त्यो मृगयन्तश्चेत्यर्थः । अपश्यन्त्योऽपश्यन्तश्च भीता भवेयुः । कृध्वं कुरुध्वम् । बन्धूनां साध्वसं भयम् ॥ २० ॥
सत्यधर्मीया
पुत्राः पत्युरग्रजादीनां स्वज्येष्ठभगिन्यादीनां वा विचिन्वन्त्यश्च विचिन्वन्तश्च । पुमांस्त्रियेत्येकशेषः । एवमेवापश्यन्त्यो मृगयन्तो हि यतोऽपश्यन्तस्ततो भीता भवेयुः । एवं बन्धूनां साध्वसं भीतिं मा कृध्वं न कुरुत । ततः प्रतियातेत्यन्वयः ॥ २० ॥
सुमनोरञ्जिनी
अपि च वः मात्रादयः वः युष्मान् अपश्यन्तः विचिन्वन्ति मार्गयन्ति । बन्धूनां साध्वसं भयं मा कृध्वं मा कुरुध्वम् ॥ २० ॥
दृष्टं वनं कुसुमितं राकेशकररञ्जितम् ।
यमुनानिलनीरैजत्तरुपल्लवशोभितम् ॥ २१ ॥
पदरत्नावली
राकेशस्य पूर्णचन्द्रस्य करैः किरणैः रञ्जितं प्रकाशितम् । यमुनाया उपर्या-यातोऽनिलो वायुस् तथा यमुनाया नीराणि च तैरेजद्भिः कम्पमानैस्तरुणां पल्लवैः शोभितम्
॥ २१ ॥
दुर्घटभावदीपिका
यमुनाया अनिलस्य वायोर्या नीरा लीला मन्दगतिस्तयैजद्भिः कम्पमानै-स्तरुपल्लवैश्च शोभितामिति । एतेन वायुमात्रस्य कम्पनहेतुत्वमुच्यत इत्यङ्गीकारात् । एतेनैव वायोः साक्षात्कंपनहेतुत्वेनोदकद्वारा कम्पनहेतुत्वाभावात् । अनिलनीरैजदिति वाय्वानीतोदकस्य कम्पन-हेतुत्वाभिधानमयुक्तमिति दूषणं निरस्तम् । लीलेत्यत्र छान्दसे प्रथमलकारस्य नकारे द्वितीयलकारस्य रेफादेशे नीरेति रूपं निष्पन्नमित्यङ्गीकृत्य तरुपल्लवानां वायुमन्दगतिनिमित्तकं कंपनं शोभाहेतुरुच्यत इत्यङ्गीकारात् ॥ २१ ॥
सत्यधर्मीया
अत्रागमनकृत्यं लोकावलोकनतः सम्पन्नमित उत्तरत्र गृहगमनं युक्तमङ्गना इत्याह ॥ दृष्टमिति ॥ कुसुमितम् । तारकादीतच् । राकेशश्चन्द्रस्तस्य करैः किरणै रञ्जितं प्रकाशितम् । यमुनाया उपर्यायातो मातरिश्वा तथा यमुनाया नीराणि च तैरेजन्त एजमानाः कम्पमानास्तरवो, मध्येगङ्गं मञ्जुलवञ्जुलादीनां समीरणेन नीरभूरुहाणां च कम्पनं युक्तं, तेषां पल्लवैः शोभितं वनं दृष्टं युष्माभिरिति शेषः । यमुनाया अनिलेन च नीरा नीला रलयोरभेदाद् एजन्त-स्तरुपल्लवा इति क्रमतोऽन्वयः । यमुनानैल्यान्नीलताऽनिलैजमानता च तरुपल्लवानां ज्ञेया ॥२१॥
सुमनोरञ्जिनी
यदर्थं वयमागतास् तत्प्रयोजनमसाधयित्वा कथं याम इत्येतच्छलेनोत्तरयति ॥ दृष्टमिति ॥ कुसुमान्यस्य संजातानीति तत्कुसुमितम् । राकेशस्य चन्द्रस्य करैः किरणैः राजितं शोभितम् । यमुनाया अनिलेन नीरेण च एजद्भिः कम्पमानैस् तरूणां पल्लवैः शोभितम् । एतादृशं वनं भवतीभिर्दृष्टम् । भवदागमनप्रयोजनं सम्पन्नमेवेति भावः ॥ २१ ॥
तद् यात माचिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।
क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत ॥ २२ ॥
पदरत्नावली
यस्माद् युष्मानपश्यन्तो बन्धवो भयमाप्नुवन्ति तत् तस्मात् । हे सतीः सत्यः । दुह्यत, गा इति शेषः ॥ २२ ॥
सत्यधर्मीया
तत्तस्मान्निष्पन्नागतिफलत्वात् । माचिरं गोष्ठं यात । हे सतीः सत्यः, पतीन् तदुपलक्षितार्यान् । पूर्वत्र मातरः पितरः पुत्राः पतय इत्युक्तौ तेषामेवात्रोक्तिस्तद्विलक्षणतां स्वस्मिन् द्योतयितुमिति मन्तव्यम् । वत्साः क्रन्दन्ति दोहनसमयोऽतीत इति तरणका अतो दुह्यत गा इति शेषः । बालाः पूर्वोक्ता क्रन्दन्ति तान् पाययत स्तनमिति शेषः । यथायथं सर्वं बालवत्स-पदान्वययोग्यमिति प्रदर्शनाय व्युत्क्रमत उक्तिरिति ज्ञेयम् ॥ २२ ॥
सुमनोरञ्जिनी
तत् तस्मात् । माचिरं शीघ्रं यात गच्छत । गत्वा च पतीन् शुश्रूषध्वम् । तत्र हेतुः, यतः सतीः सत्यः पतिव्रता यूयमिति । सुपां सुलुगित्यनेन पूर्वसवर्णः । वत्सा गोवत्साः । बाला युष्मदर्भकाश्च । तान् पाययत । स्तन्यमिति शेषः । गाश्च दुह्यत ॥२२॥
अथवा मदभिस्नेहाद् भवत्यो यन्त्रिताशयाः ।
आगता ह्युपपन्नं तत् प्रीयन्ते मम जन्तवः ॥ २३ ॥
पदरत्नावली
अथवाऽथाप्यागमनप्रतिबन्धकानामनेकानां सत्त्वेऽपि हि यस्माद् भवत्यो मदभिस्नेहान्मद्भक्तेर्यन्त्रिताशया नियमितान्तःकरणास् तस्मादागता इति यदि तर्ह्यागमनमुपपन्नं युक्तम् । तत् कथम् ? अत्राह प्रीयन्त इति । मम सकाशात् सर्वे जन्तवः प्राणिनः प्रीयन्ते मय्यन्यत्र च स्नेहयुक्ता भवन्ति । हरेः सर्वस्नेहकारणत्वाद् गोपीनां कृष्णविषयकप्रेमकर्षस्य कृष्ण एव कारणमिति बोध्यम् ॥ २३ ॥
दुर्घटभावदीपिका
अथवाऽथाप्यागमनप्रतिबन्धकानां बहूनां सत्त्वेऽपि हि यस्माद्भवत्यो मदभिस्नेहाद्यन्त्रिताशया मह्यर्पितान्तःकरणा अत आगता इति यदि तर्ह्यागमनमुपपन्नम् । त्वयि स्नेहे किंकारणमित्यत आह ॥ प्रीयन्त इति ॥ जन्तवो मम सकाशात्प्रीयन्ते । मय्यन्यत्र च स्नेह विशिष्टा भवन्ति । अनेन मम सर्वस्नेहकारणत्वात् । भवतां मयि स्नेहस्याहमेव कारणमित्युक्तं भवति । एतेन पूर्वमागमनकारणस्यानुक्तत्वात् । अथवा मदभिस्नेहादित्यागमने स्नेहो वा कारणमिति कथनमयुक्तमिति दूषणमपास्तम् । वाशब्दोऽप्यर्थ इति स्वीकृत्याथवेत्यस्याथापीत्यर्थ इत्युक्तत्वात्
॥ २३ ॥
सत्यधर्मीया
वनविशेषविलोकनमात्रं नात्र रात्रावागतिफलमन्यदस्त्येतद्रूपमिति स्वयमेव ताः प्रति विकल्प्य तद्युक्ततां वक्ति ॥ अथवेति ॥ मदभिस्नेहान्मद्भक्तेर्यन्त्रिताशया नियमितान्तः-करणाः । भवन्त्यो भवत्य इति च समार्थौ पाठौ । आगतास्तर्ह्युपपन्नं भवदागमनं युक्तम् । कुत इत्यत आह । हि यतो मम मद्विषये जन्तवः प्राणिनः प्रीयन्ते स्वतः प्रीतिं कुर्वन्ति ततो भवतीनां मां प्रति यदागमनमङ्गनानां तदुपपन्नमिति भावः । मयीति पाठोऽप्यनामयः ॥ २३ ॥
सुमनोरञ्जिनी
न वयं प्रयोजनान्तरार्थमागता अपि तु भवत्स्नेहयन्त्रिताः सत्यः समागता इत्यतस्तदुपपन्नमेव तथापि न शास्त्रविहितं परित्याज्यमित्याह ॥ अथवेत्यादिना ॥ मदभिस्नेहान् मद्विषयकस्नेहाद्यन्त्रिताशया मयि बद्धान्तःकरणाः सत्य आगता इति यत् तद् उपपन्नं युक्तमेव । कुतः । जन्तवः प्राणिनः मम प्रीयन्ते । मां दृष्ट्वा सर्वोऽपि लोकः प्रीणातीति भावः ॥२३॥
भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया ।
तद् बन्धूनां च कल्याणं प्रजानां चानुपोषणम् ॥ २४ ॥
पदरत्नावली
स्त्रीणाममाययाऽवञ्चनया भर्तुः पत्युः शुश्रूषणं परो महान् धर्मः । सतीनां पतिसन्निहितश्रीपतिरेव परमगतिः । तस्मात् तासां भर्तरि सन्निहितो विष्णुः प्रीणात्विति बुद्ध्या भर्तृशुश्रूषणं महान् धर्म इत्यत्र श्रुत्यादिप्रसिद्धिद्योतको हिशब्दः । भर्तृशुश्रूषणं विशिनष्टि तदिति । तद् भर्तृशुश्रूषणं बन्धूनां कल्याणं श्रेयस्करं प्रजानां चानुपोषणं संरक्षणकरं च भवति ॥ २४ ॥
दुर्घटभावदीपिका
स्त्रीणाममाययाऽवचंनया भर्तुः शुश्रूषणं परो धर्मस्तद्बन्धूनां भर्तृबन्धूनां शुश्रूषणं च कल्याणं धर्मः प्रजानां पुत्रपौत्रादीनामनुपोषणं च कल्याणं धर्म इत्येतद्धि प्रमाणप्रसिद्धमिति । एतेन कल्याणमित्येतद्व्यर्थमिति दूषणं परास्तम् । कल्याणमिति पदाभावे भर्तृशुश्रूषणवत्तद्बन्धुशुश्रूषण-प्रजानुपोषणयोरपि परधर्मत्वमिति भ्रान्तिः स्यात् । सा माभूदिति कल्याणमित्यनेन धर्मत्वमेव न तु परधर्मत्वमित्युच्यत इत्यङ्गीकारात् ॥ २४ ॥
॥ इति श्रीभागवतटिप्पण्यां श्रीसत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे सप्तविंशोऽध्यायः ॥ १०-२७ ॥
सत्यधर्मीया
धर्ममर्म नर्मतः शंसन् स्वाशां विशदीकुर्वन् काञ्चन लीलां लालयन्नालपति ॥ भर्तुरिति ॥ अमाययाऽकापट्येन । हि यतो भर्तुः पत्युः । स्त्रीणामिति बहुवचनेन भर्तुरित्येकवचनेन च शाश्वतिकं भर्तृत्वं स्वस्यैवेति कटाक्षयतीति ज्ञेयम् । शुश्रूषणं सेवा परो धर्मो महान् धर्मस्तद्बन्धूनां कल्याणं तत्करम् । परो धर्म इत्यत्रेवोत्तरत्राप्यन्वेति । प्रजानामनुपालनं च
॥ २४ ॥
सुमनोरञ्जिनी
तथापि अमायया अवञ्चनेन । भर्तुः पत्युः शुश्रूषणं स्त्रीणां पर उत्कृष्टो धर्मः । हि शास्त्रे लोके च प्रसिद्धमेतत् । न केवलं भर्तुर् अपि तु तस्य भर्तुर् बन्धूनां च बन्धूनामपि शुश्रूषणं कल्याणं मङ्गलप्रदं भवति । प्रजानां च पुत्रादीनां तु, अनुपोषणम् अनुकूलपोषणं, परो धर्म इति पूर्वेणान्वयः । यद्वा तद् भर्तृशुश्रूषणं बन्धूनां स्वबन्धूनां कल्याणम् । प्रजानां चानुपोषणं पुष्टिकारणमित्यर्थः ॥ २४ ॥
दुश्शीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा ।
पतिः स्त्रीभिर्न हातव्यो १लोकेऽशुचिरपातकी ॥ २५ ॥
पदरत्नावली
पत्यौ दौश्शील्यादिदोषसद्भावेऽपि सतीभिस्तत्त्यागो न विहित इत्याह दुश्शील इति ॥ दुश्शीलो दुराचाररतः । दुर्भगः कान्तिविहीनः । वृद्धो जराभिभूतः । जडः स्वकार्यमूढः । रोगी व्याधिपीडितः । पत्यौ ब्रह्महत्यादिपञ्चमहापातकयुक्ते सत्येव तत्त्यागो विहितः । यद्यपातकी पञ्चमहापातकरहितस्तर्हि दौश्शील्यादिदोषसद्भावेऽपि पतिः शुचिरेवेति नैव हातव्य इत्याह लोक इति ॥ २५ ॥
सत्यधर्मीया
पतिरेवमनेवं चेत्सेवनीयोऽसेवनीयश्च वनिताभिरित्याह ॥ दुःशील इति ॥ दुःशीलो दुराचारः । दुर्भगो निर्वीर्यः । वृद्धो जरठो, जडो मूढो, रोगी कुष्टादियुतोऽधनो दरिद्रो लोकेऽवलोकने योऽशुचिर्निर्नैर्मल्यः सोऽपि न हातव्यो न त्याज्योऽपातकी पञ्चमहापातकरहितः । अनेन पातकित्यागे समयसम्मतिं सूचयति । यदि स्यान्नैव पातकीत्यादेः । लोकेप्सुभिरपातकीति पाठे लोकमीप्सवो लोकेप्सवस्ताभिः ॥ २५ ॥
सुमनोरञ्जिनी
ननु पत्युर्दौःशील्यादिमत्वे कथं कर्तव्यमित्यत आह ॥ दुःशील इति ॥ दुर् दुष्टं शीलं स्वभावो यस्य । दुर्भगः यशोविहीनः, निर्वीर्यः कान्तिरहितश्च । जडो मूर्खः । एतादृशोऽपि पतिः स्त्रीभिर् न हातव्यः न त्याज्यः । तर्हि पतितादेरप्यत्याज्यतापत्तिरत उक्तम् ॥ शुचिरपातकीति ॥ शुचिः पातित्यादिदोषशून्यः । अपातकी ब्रह्महत्यादिपातकशून्यश्चेन्न हातव्य इत्यन्वयः ॥ २५ ॥
अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियः ॥ २६ ॥
पदरत्नावली
हे कुलस्त्रिय औपपत्यमुपपतेर्जारस्य सम्बन्धि कर्म, ग्राम्यकर्मेत्यर्थः । औपपत्यस्य बहुदोषग्रस्तत्वं वक्ति अस्वर्ग्यमिति ॥ अस्वर्ग्यं नाकलोकनाशकम् । पारत्रिक-सुखाभावेऽप्यैहिकसुखोद्रेकानुभूतिर्भवेदित्यत आह अयशस्यमित्यादिना ॥ अयशस्यं यशोनाशकम्, फल्गु तुच्छफलम्, कृच्छ्रं कष्टवत्, भयावहं लोकशास्त्रनिषिद्धत्वादैहिकपारत्रिकभयजनकम्, जुगुप्सितं गोप्तुमिष्टम्, अतिरहस्यमित्यर्थः ॥ २६ ॥
सत्यधर्मीया
हे कुलस्त्रिय औपपत्यमुपपतेः पतिप्रतिनिधिधवस्य कर्मौपपत्यं ग्राम्यकर्मेति यावत् । तात्कालिकं सन्ध्यभावं सूचयितुं निस्सन्धिनिर्देशः । इयद्विपत्प्रदमिति तन्न कार्यमित्याह ॥ अस्वर्ग्यमिति ॥ स्वर्गसाधनं न चेदैहिकं किञ्चित्सुखं वर्तेतेत्यत आह ॥ अयशस्यमिति ॥ यशोनाशकं काकमांसं शुनोच्छिष्टं स्वल्पमिति, फल्गुफलं कृच्छ्रं कष्टवद्भयावहं तत्पत्यादिदर्शने भवेत्ताडनादिकमिति भयावहम् । जुगुप्सितं शास्त्रतो निन्दितम् । इति सर्वत्र सर्वांस्त्रायत इति स तथा कृष्णः प्रतियातेत्यवददिति वाऽन्वयः । सर्वत्रेत्थमपि क्वचिदुत्कर्षहेतुर्भवतीत्यतोऽप्याह ॥ अयशस्यमिति ॥ अये शुभावहे दैवे सति शस्यं भवतीन्द्रादौ । यथोक्तं गीताभाष्ये । अहल्याजारत्वाद्यपि दोषकृतोऽपि ते न बहुतरो लेप आसीदित्युत्कर्षमेव वक्तीति । इदं क्वाचित्कं तत्तु प्रायिकत्वाभिप्रायमिति ॥ २६ ॥
सुमनोरञ्जिनी
पत्युरपरित्याज्यत्वमुत्क्वा औपपत्यं गर्हितमस्वर्ग्यमित्यादिना । कुलस्त्रिय औपपत्यम् उपपतिर्जारस् तत्सम्बन्धि सुखम् औपपत्यम् । जुगुप्सितं निन्दितम् । अत एव तद् अस्वर्ग्यं स्वर्गविरोधि । इह लोके अयशस्यम् अकीर्तिकरम् । फल्गु अल्पकालीनम् । कृच्छ्रं कष्टम् । भयावहम् इहामुत्र च भयजनकम् ॥ २६ ॥
श्रवणाद् दर्शनाद् ध्यानान्मयि भावोऽनुकीर्तनात् ।
न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ २७ ॥
पदरत्नावली
ननु भगवतो भवतो मुख्यभर्तृत्वात् त्वत्सेवनं जारसेवनवन्निन्दितं नैव भवेत् । किन्तु भर्तृशुश्रूषणादप्यत्यधिकसाधनमेव स्यादित्यत आह श्रवणादिति ॥ श्रवणादिना यथा भवतां मयि भावो भक्तिरुदियान्न तथा मम सन्निकर्षनिषेवणेनेत्यतो भवतीभिर्भवनान्युपेत्य श्रवणादिना भूरिभक्तिर्भ्रियतामिति यावत् ॥ २७ ॥
सत्यधर्मीया
यामिनीमलक्षयित्वा लक्षयित्वा त्वां प्रत्यागतानामङ्गनानां त्वत्सङ्गमङ्गलमप्रदाय यातेति कथं कथयसि मधुनाथेत्यत आह ॥ श्रवणादिति । श्रवणात्कथाश्रवणाद्दर्शनात्प्रस्तुतात्, ध्यानाद्दृष्टमदाकारचिन्तनादनुकीर्तनान्नामचरितकीर्तनान्मयि भावो भक्तिर्यथोदेति तथा सन्निकर्षेणाङ्ग-सङ्गादिना न भवति यत्ततो गृहान् प्रतियात ॥ २७ ॥
सुमनोरञ्जिनी
ननु न वयं त्वय्युपपतिबुध्या समागताः किं तु त्वद्भक्तिरेव मुक्तिसाधनमिति मन्वानास् त्वद्दास्यलक्षणभक्तिसंपादनार्थमेवेत्यत आह ॥ श्रवणादिति । सत्यं, मयि भक्तिर्मुक्ति-साधनमिति तथापि यथा श्रवणात्, अनुकीर्तनात्, प्रवचनात्, ध्यानाच्च मयि भावः भक्तिर् भवति तथा सन्निकर्षेण समीपनिषेवणेन न भवति । अतः परोक्षेण भक्तिसंपादनार्थं गृहान् प्रति यातेत्यन्वयः
॥ २७ ॥
श्रीशुक उवाच—
इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् ।
विषण्णा भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययाम् ॥ २८ ॥
पदरत्नावली
विप्रियं स्वमनोरथाननुगुणम् । ‘प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः’ इत्यादि गोविन्दभाषितम् । दुरत्ययां भगवदङ्गसङ्गमन्तरेणात्येतुमशक्यां चिन्तां खेदपूर्वकस्मृतिमापुः
॥ २८ ॥
सत्यधर्मीया
गोविन्दभाषितं मयेमा रंस्यथ क्षपा इति प्रागभिहितमाकर्ण्यायाता यास्ताः, इति गृहान्प्रति यातेति विप्रियं सद्यस्तथाभूतमाकर्ण्य विषण्णा भग्नसङ्कल्पा विषादयुक्ता रमारमणेन सह रमणसङ्कल्पो भग्नः स इव यासां ता गोप्यो दुरत्ययां रङ्गेशाङ्गसङ्गं विनाऽत्येतुमशक्यां तस्य खेदपूर्वकस्मृतिमापुः ॥ २८ ॥
सुमनोरञ्जिनी
इति ‘प्रतियात ततो गृहान्’ इत्येवंरूपं विप्रियं विप्रियमिव प्रतीयमानम् । गोविन्दस्य भाषितमाकर्ण्य । भग्नः सङ्कल्पः कृष्णाङ्गसङ्गोऽद्य भवितेत्येवंरूपमनोवृत्तिर्यासां ताः । अत एव विषण्णाः ॥ २८ ॥
न्यक्कृत्य वक्त्रवनजान्यतितापशुष्यद्बिम्बाधराणि चरणेन महीं लिखन्त्यः ।
औरुपात्तमषिभिः कुचकुङ्कुमानि तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥२९॥
पदरत्नावली
विषण्णानामङ्गनानां स्थितिमाह श्रीशुकः न्यक्कृत्येति ॥ वने जले जायन्त इति वनजानि कमलानि, वक्त्राण्येव वनजानि वक्त्रवनजानि न्यक्कृत्य अधः कृत्वा । अतितापेन अन्तर्गतशोकाग्न्यतितापेन शुष्यन्ति बिम्बाधराणि बिम्बफलतुल्यान्यधराणि येषु तानि तथा । चरणेन तन्नखमुखेन मही भुवं लिखन्त्यः । अत्रैवं कामतन्त्रप्रसिद्धिःकामबाणप्रविद्धाङ्गी स्विन्नयोनिर्वराङ्गना । पादाङ्गुष्ठनखेनाधोवदना लिखति क्षितिम्’ इति । उपात्ता मष्यो यैस्तैः, गृहीतकज्जलैरस्रैरश्रुभिः कुचयोः कुङ्कुमानि मृजन्त्यः क्षालयन्त्य उरूणां दुःखानां भरो भारो यासां तास्तथा । स्म कृष्णोक्तं संस्मृत्य ॥ २९ ॥
सत्यधर्मीया
यदा दामोदरो नान्वमोदत तदा तासां दशेदृश्यासीदिति श्लोकद्विकेन शुको वक्ति ॥ न्यक्कृत्येति ॥ वक्त्रवनजानि वक्त्राण्येव वनं जलं तज्जानीति मुखकमलानि न्यक्कृत्य न्यग्भावं प्राप्याधः कृत्वेति यावत् । अतितापेन प्रियविप्रियभाषाजेन शुष्यन्तो बिम्बविडम्बका अधरा ओष्ठा येषां तानि । अधरो दन्तवसने खर्वे हीनेऽधरोऽन्यवदिति विश्वः । ओष्ठाधरौ तु रदनच्छदा-वित्यमरश्च । चरणेन तन्नखमुखेन महीं भूमिं लिखन्त्यः । कोकतन्त्रसिद्धोऽयं भावो भामिनीनां चिन्तावसरे, यद्यपि तथाऽपि हे महि महिमाऽयं तव यतस्त्वत्प्रार्थनयाऽयमवतारो जातो न जातश्चास्मन्मनोरथः फलितः फलितार्थस्तु न इयद्विपत्तिमूलं त्वमिति तत्त्वमिति मेदिनीविदारणमिति ध्वनयति । तथा हि कामतन्त्रे । कामबाणप्रविद्धाङ्गी खिन्नयोनिर्वराङ्गना । पादाङ्गुष्ठनखेनाधोवदना लिखति क्षितिमिति तत् । उपात्ता मष्यः कज्जलानि यैस्तैरस्रैरश्रुभिः । अस्रमश्रु वेत्यमरः । जलगलनलवकज्जलविगलनमुचितं सदपि यदा नीरदनीलविश्लेषस्तदाऽऽत्मसंश्लेषोऽपि मास्तु सावर्ण्यादिति ध्वनयति तदनया धाट्येति मन्तव्यम् । कुचकुङ्कुमानि मृजन्त्यो मार्जयन्त्य उरुदुःखस्य भरो यासां तास्तूष्णीं तस्थुः । स्मेति तदुक्तस्मृतिमत्यः ॥ २९ ॥
सुमनोरञ्जिनी
प्रियतमेन विप्रलब्धानां स्वभावमाह ॥ न्यक्कृत्येति ॥ अतितापो ऽन्तर्गतचिन्ताग्नितापस् तेन शुष्यन्ति बिम्बफलसदृशान्यधराणि येषु तानि । वक्त्रवनजानि मुखकमलानि । न्यक्कृत्य अधःकृत्वा । चरणेन स्वस्वचरणेन महीं भूमिं लिखंत्यः । उपात्तमषिभिर् गृहीतकज्जलैः । औः अश्रुभिः कुचेषु लिप्तानि कुङ्कुमानि मृजंत्यः क्षालयन्त्यः । उरुदुःखस्य भरो यासु तास् तूष्णीं स्थिताः स्मेति ॥ २९ ॥
प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं कृष्णं तदर्थविनिवर्तितसर्वकामाः ।
नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्संरम्भगद्गद१गिरोऽब्रुवतानुरक्ताः ॥ ३० ॥
पदरत्नावली
प्रेष्ठं प्रियतममपि प्रियेतरमिवाप्रियमिव । तदर्थं कृष्णार्थं विनिवर्तिताः सर्वे कामा भर्त्रादिविषया याभिस्तास्तथा । रुदितेन रोदनेन उपहते शोकाश्रुपीडिते नेत्रे विमृज्य शोधयित्वा । किञ्चित्संरम्भेण प्रणयकोपेन गद्गदपदानि स्खलद्वचनानि यासां तास्तथा ॥ ३० ॥
सत्यधर्मीया
प्रियेतरमिवाप्रियमिव प्रेष्ठमपि प्रतिभाषमाणं कृष्णम् । तदर्थविनिवर्तित-सर्वकामास्तदर्थं तद्रत्यर्थं विनिवर्तिताः सर्वे कामाः काम्या भर्त्रादिविषया याभिस्ताः । रुदितं रोदनं तेनोपहते नेत्रे । नेत्रे इत्युक्तिरेकैकस्त्रीविवक्षया । गतम् । नेत्रे नियामकायेति वा । नाथाय । विमृज्य पाणिभ्याम् । किञ्चित्संरम्भगद्गदगिरा संरम्भेण गद्गदगिरः स्खलद्वचनाः । अनुरक्ताः सत्योऽब्रुवतावदन् ॥ ३० ॥
सुमनोरञ्जिनी
तस्य कृष्णस्यार्थे विनिवर्तिताः परित्यक्ता इति यावत् सर्वे कामा विषया याभिस्ताः । तस्मिन्नेवानुरक्ता गोप्यो, रुदितेन उपहते क्लिष्टे । नेत्रे विमृज्य परिमार्ज्य । संरम्भेण किंचित्प्रणयकोपेन गद्गदस्वरोपेता गिरो यासां तथाविधाः सत्यो अब्रुवत अब्रुवन् । संरम्भगद्गदा गिरो वचनानि अब्रुवन्निति वा । संरम्भे निमित्तमाह ॥ प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणमिति
॥ ३० ॥
गोप्य ऊचुः—
मैवं विभोऽर्हति भवान् गदितुं नृशंसं सन्त्यज्य सर्वविषयांस्तव पादमूलम् ।
**भक्त्या भजेम दुरवग्रह मा त्यजास्मान् देवो यथाऽऽदिपुरुषो भजतो मुमुक्षून् **
॥ ३१ ॥
पदरत्नावली
हे विभो विभवति वैभवयुक्तो भवतीति तथा । नृशंसं परुषवचनमेवं गदितंु वक्तुं भवान् नार्हति । कुत इत्यत्राहुः सन्त्यज्येति । हे दुरवग्रह अवग्रहो वृष्टिविघातस् तद्रहित भक्ताभीष्टवर्षणशीलेत्यर्थः । ‘अवग्रहो वृष्टिरोधः’ इत्यभिधानम् । सर्वविषयान् भर्तृभवनाद्यखिलभोग्यान् सन्त्यज्य भक्त्या तव पादमूलं भजेम । तस्मादस्मान् मा त्यज । पुण्डरीकाक्षं श्रीवत्सवक्षसमेव सपक्षीकृत्य पुष्कराक्ष्य आचचक्षिरे देव इति ॥ ३१ ॥
सत्यधर्मीया
कामिन्योऽन्योन्यमालोच्याच्युतं प्रति किमब्रुवन्नित्यत आह ॥ मैवमिति ॥ हे विभो दुरवग्रह प्रमदास्वस्मासु प्रेमप्रवर्षणविघातकरहित नृशंसं कण्ठकर्तनरूपं यथा भवति तथा गदितुं व्यक्तं कर्तुं भवान्नार्हति न योग्यो भवति । सर्वविषयानितरान् सन्त्यज्य तव पादमूलं भजेमेति यामिनीत्यनालक्ष्य कामिनीरुपयाता इत्यस्मान्मा त्यज । सपक्षमन्यमनाचक्षाणाः पुष्कराक्ष्य आहुः ॥ देव इति ॥ यथाऽऽदिपुरुषो देवो हरिर्मुमुक्षून् मोक्षापेक्षावतस्तथाऽऽत्मानं भजतो भजमानान् यथा न त्यजति तथा न त्यजेति । न काऽपि कामिनी कामिता मयाऽहं चोर्ध्वरेता इति न वद स्वामिंस्त्वद्रतिपात्रमस्माभिर्विदितं किञ्च नास्माकं साक्षादधोक्षज तेऽङ्गसङ्गः किन्त्वित्थमित्यप्याहुः ॥ मेति ॥ एवं सङ्गमस्मदभीप्सितं मा रमाऽर्हति । एवमस्मत्सङ्गः स्याच्चेदपि तत्सुखं माऽर्हतीति
॥ ३१ ॥
सुमनोरञ्जिनी
किमित्यब्रुवन्निति तदाह ॥ मैवमिति ॥ भवान् नृशंसं क्रूरं वचनं गदितुं नार्हति । कुतः । यतः सर्वविषयान् सन्त्यज्य तव पादमूलं भक्त्या भजेम । त्वं तु न केनापि प्रतिबद्ध इत्याह ॥ दुरवग्रहेति ॥ अवग्रहः प्रतिबन्धकस् तद्रहित इत्यर्थः । अवग्रहो वर्षावघातस् तद्रहितः भक्ताभीष्टवर्षणशील इत्यर्थ इति पदरत्नावल्याम् । अतोऽस्मान् मा त्यज । तत्र दृष्टान्तः ॥ देव इति ॥ आदिपुरुषो नारायणः । भजतो भक्तान् ॥ ३१ ॥
यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग स्त्रीणां स्वधर्म इति १धर्मविदा त्वयोक्तम् ।
**अस्त्येव तत् तदपि देव वरे त्वयीशे प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा **
॥ ३२ ॥
पदरत्नावली
यदुक्तम् ‘तद् यात माचिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः’ ‘भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया’ इत्यादि अत्राहुर् यदिति ॥ अङ्ग हे प्रियतम स्त्रीणां पत्यपत्यसुहृदामनुवृत्तिरनुवर्तनं स्वधर्म इति यद् धर्मविदा त्वयोक्तं तदस्त्येव । तर्हि तान् विसृज्यात्र किमर्थमागामीति तत्राहुस् तदपीति ॥ देव दीव्यते सर्वैरभिष्टूयत इति तथा । द्योतनत्वादिना च देवशब्दवाच्यः । ‘द्योतनाद् विजयात् कान्त्या स्तुत्या व्यवहृतेरपि । गत्या रत्या च देवाख्यम्’ इति ऋग्भाष्ये । वरेऽस्माभिर्व्रियत इति तथा । ईशे पूर्णैश्वर्यसम्पन्ने त्वयि तदपि पतित्वादिकमपि, क्रियत इति शेषः । न केवलमस्माकं भवान् प्रकर्षेणेष्टः, किन्तु सामान्यतस्तनुभृतामपीत्याहुः प्रेष्ठ इति ॥ बन्धुरूपः परमात्मा । किलेति श्रुत्यादिसिद्धवार्तां हरेः सार्वकालिकमुख्यबन्धुत्वे द्योतयति । ‘वार्तासम्भाव्ययोः किल’ इत्यमरः ॥ ३२ ॥
सत्यधर्मीया
शुश्रूषध्वं पतीन् सतीरित्युक्तमुत्तरयन्ति ॥ यदिति ॥ अङ्ग हे देव कृष्ण स्त्रीणां पत्यपत्यसुहृदामनुवृत्तिः स्वधर्म इति यच्छास्त्रविदा त्वयोक्तं तदपि, वरेऽस्माभिर्व्रियत इति स तस्मिन्नीशे त्वय्यस्त्येव । न केवलं कुवलयलोचनानामस्माकं त्वं प्रेष्ठः किन्तु सामान्यतस्तनुभृतां बन्धुरात्मा स्वामी भवान् किल समस्तसमयसिद्धमिदं प्रमेयम् । अनश्वरेश्वरे पतित्वादिकं सर्वं सम्भवदिति तदादिसेवाऽपि वासुदेवात्रैव लभ्यत इति न गमनमनोऽस्माकमिति यातेति न गद गदाग्रजेति तात्पर्यम् ॥ ३२ ॥
सुमनोरञ्जिनी
हे अङ्ग धर्मविदा त्वया । यत् पत्यादीनामनुवृत्तिः स्त्रीणां स्वधर्म इत्युक्तं तदस्त्येवास्मासु । एतदपि पत्यादिभावेनानुवर्तनमपि देववरे ईशे सर्वप्रेरके त्वय्येव त्वद्विषयमेवेत्यर्थः । पत्यादिभावेन त्वामेवानुवर्तयामो नान्यानिति भावः । नन्वेकस्मिन् पतित्वबन्धुत्वादिकं कथमुपपद्यत इत्यतस्तत्तद्गुणयोगादित्याह ॥ प्रेष्ठ इत्यादिना ॥ भवान् तनुभृतां प्राणिनां प्रेष्ठः परमेष्टसाधनम् । अतः पतित्वं युज्यते । बन्धुर् बन्धूनां गुणयुक्तः । आत्मा पत्यादिषु स्थित्वा त्वमेवादानादिकर्तेति । सुहृदन्तरात्मेति पाठः साधुः । पूर्वमाचार्यचरणैः समाख्यात्वेन एतत्पाठस्यैव धृतत्वात् ॥३२॥
कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् नित्याप्रियैः पतिसुतादिभिरार्तिदैः किम् ।
तन्नः प्रसीद वरदेश्वर मा स्म छिन्द्या आशां धृतां त्वयि परामरविन्दनेत्र ॥३३॥
पदरत्नावली
मुख्यपतित्वात् त्वमेवास्माकमाश्रय इत्याशयं विशदयन्ति कुर्वन्तीति ॥ कुशलाः सारासारविवेचनपटवः स्वे स्वतन्त्रे आत्मन् गुणपूर्णे त्वयि हि यतो रतिं कुर्वन्ति । ‘अनन्याधीनशक्तित्वाद् हरिः स्व इति चोच्यते’, ‘भूतगर्भश्च भूतस्थः पूर्ण एव द्विरूपवान् । अत आत्मेति तं प्राहुः सदैवाऽऽत्तगुणो यतः’ इति मात्स्यवचनम् । स्वेऽनिमित्तबन्धावात्मनि स्वामिनि इति च । ‘स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने’ इत्यमरः । नित्यमनिमित्तबन्धुसत्तमे त्वयि सति नित्याप्रियैः पतिसुतादिभिः किं प्रयोजनमित्यर्थः । नित्याप्रियत्वं कथमिति तत्राहुर् आर्तिदैरिति । ‘आबाधा वेदना दुःखमार्तिः पीडा व्यथा तथा’ इति हलः । अनेन ‘क्रन्दन्ति वत्साः’ इत्यादि परिहृतम् । ततः किमिति तत्राहुस् तदिति । तत् तस्माद् वरदानां स्वयम्भूशम्भ्वादीनामीश्वर प्रसीद । किंरूपः प्रसाद इत्यत्राहुर् मा स्मेति । आशामतितृष्णाम् । ‘आशा दिगतितृष्णयोः’ इति यादवः ॥ ३३ ॥
सत्यधर्मीया
तदेवौत्सुक्यातिशयेन विशदयन्ति ॥ कुर्वन्तीति । कुशलाः शिक्षिताः सन्तः । कुशलः शिक्षित इति विश्वः । आत्मन्परमे व्योमन्नितिवदात्मनि स्वात्मनि त्वयि स्वे स्वतन्त्रे । परः स्वो हरिरुद्दामो, अनन्याधीनशक्तित्वाद्धरिः स्व इति चोच्यत इति मात्स्य इत्यादितृतीयतात्पर्योक्तेः । हि यतो रतिं कुर्वन्ति तादृशे त्वयि सति नित्याप्रियैर्नित्यमप्रिया इति नित्याप्रियास्तैः पतिसुतादिभिरार्तिदैः पीडादैः किं, किं प्रयोजनम् । तत्तस्माद्वरदेश्वर समस्तमसमस्तं च हे अरविन्दनेत्र प्रसीद । त्वयि परां धृतामाशामभिलाषं मा स्म छिन्द्या अतोऽन्त्यन्तिके नोऽस्मान् कुर्वित्यावृत्त्याऽन्वयोऽपि । यदन्ति यच्च दूरके । तथा षष्ठाष्टके पञ्चमेऽध्यायेऽतिषद्भूतवामव इत्यृग्व्याख्याने चान्त्यस्मदन्तिक इति परैरपि व्याख्यातत्वात् । अनेन क्रन्दन्तीत्याद्युत्तरितमिति ज्ञेयम् । अभिलाषकामादिपदं विहाय विशाललोचना आशामिति गदन्त्यश्शब्दतोऽपि नान्यपुंसङ्गोऽस्त्विति ध्वनयन्ति ॥ ३३ ॥
सुमनोरञ्जिनी
ननु तर्हि मुख्यपत्यादय एवानुवर्तनीया न तद्भावेनाहमित्यतस्त्वमेव मुख्यः पतिः । अन्ये तु दुःखहेतुत्वादमुख्या इति न तैरस्माकं प्रयोजनमित्याह ॥ कुर्वन्तीति । कुशलाः सारासारविवेकिनः । स्वे स्वतन्त्रे आत्मन् आत्मनि निरुपाधिकप्रिये त्वयि त्वय्येव रतिं भक्तिं कुर्वन्ति हि यस्मात् तस्मान् नो ऽस्माकम् आर्तिदैर् अत एव नित्यम् अप्रियैर् अस्मत्प्रेमानास्पदैः पत्यादिभिः किं, न किमपि प्रयोजनम् । तत् तस्मात् त्वयि धृतां त्वद्विषयां पराम् उत्कटाम् आशां मा छिन्द्याः । किं तु नोऽस्मभ्यं प्रसीद प्रसन्नो भवेति ॥ ३३ ॥
चित्तं १सखे न भवतापहृतं गृहेषु यन्निर्विशत्युत करावपि गृह्यकृत्ये ।
पादौ पदं न चलतस्तव पादमूलाद् यामः कथं व्रजमथो करवाम किं वा ॥३४॥
पदरत्नावली
यदुक्तम् ‘प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः’ इति तत्राहुश् चित्तमिति ॥ हे सखे चित्तं भवताऽपहृतं सद् गृहेषु न निर्विशति उपभोगत्वेन न स्मरति । ‘सहि सर्वमनोवृत्तिप्रेरकः समुदाहृतः’ इत्यादेः । उत करावपि गृह्यकृत्ये गृहकर्मणि, न प्रवर्तेते इति शेषः । पादौ पदम् एकपादन्यासमात्रमपि न चलतः । अतस्तव पादमूलाद् व्रजं कथं यामो व्रजामः । अथो गमनानन्तरं किं वा करवाम ॥ ३४ ॥
सत्यधर्मीया
व्रजं प्रति यात्रा रात्रौ गात्रविस्राणनादिनाऽनुपपन्नाऽस्मन्नाथेति विज्ञापयन्ति ॥ चित्तमिति ॥ यद्धे सखे भवतापहृतं भवे भवो यस्तापस्तस्य हृतं हृतिर्येन तच्चित्तं भवता त्वयाऽपहृतं गृहेषु न निर्विशत्युत । करावपि गृह्यकृत्ये गृहकर्मणि न निर्विशतः । पादौ कराविति चैकविवक्षया । पादौ, पदमेकं चरणन्यासं, कर्तुं न चलतः । पदं किञ्चिल्लक्ष्यमुद्दिश्य न चलत इति वा । तव पादमूलाद्व्रजं कथं व्रजामः । अथो गमनानन्तरं किं वा करवाम त्वत्प्रत्तचित्तानां किञ्चित्पुरः प्रतिभातीति भावः । सुखेनेति पाठे तदात्मकेन भवतेत्यन्वयः । नेत्युभयत्र न चलत इत्यत आकृष्यते ॥ ३४ ॥
सुमनोरञ्जिनी
इत्थं स्वप्रार्थनया किञ्चिन्मन्दस्मितं कृष्णमवलोक्य तदनुरूपमाहुः ॥ सखे भवता । सखा चापि सखस्तथेति द्विरूपकोशात् । हे यादव हे सखेति प्रयोगाच्च । अकारान्तोऽपि सखिशब्दपर्यायोऽस्ति । चित्तम् अपहृतं यस्मात् तच् चित्तं गृहेषु न निर्विशति न स्मरतीत्यर्थः । करावपि गृहकृत्ये गृहसम्बन्धिनि कार्ये न चलतः । पादावपि, तव पादमूलात् तव पादस्य मूलादाश्रयाद् इतो देशात् पदं पादविन्यासप्रदेशं न चलतः । अतः कथं यामः । अथो अनन्तरं किं करवाम । साधनाभावादिति भावः ॥ ३४ ॥
सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम् ।
नो चेद् वयं विरहजाग्न्युपयुक्तदेहा ध्यानेन याम पदयोः पदवीं सखे ते ॥३५॥
पदरत्नावली
तर्हि भवतीनां किमभीष्टमित्यत्राहुः सिञ्चेति । तवाधरामृतस्य पूरकेण प्रवाहेण हाससहितेनावलोकेन कलगीतेन मधुरगानेन च जायत इति हासावलोककलगीतजः, स चासौ हृच्छयः कामश्च, स एवाग्निस्तं सिञ्च अभिषिञ्च, शमयेत्यर्थः । नो चेन्न शमयसि चेत् । विरहाज्जातेनाग्निना उपयुक्तः समीप एव सम्बद्धो देहो यासां तास्तथा । ते पदयोः पदवी ध्यानेन याम आप्नुवाम
॥ ३५ ॥
सत्यधर्मीया
कामिन्यो यामिन्यां मया किं कर्तव्यं तद्वदतेत्यतः सुदत्यो विज्ञापयन्ति ॥ सिञ्चेति ॥ तवाधरामृतस्य पूर एव प्रवाह एव पूरकस्तेन । अल्पार्थे कन्वा । हासावलोकः सस्मितकटाक्षमोक्षः स च कलमव्यक्तमधुरं गीतं च तस्माज्जायत इति स चासौ हृच्छयो मदनः स एवाग्निस्तं सिञ्चाभिषिञ्च शमयेति यावत् । नो चेन्न शमयसि चेद्वयं विरहो वियोगस्तज्जो योऽग्निस्तेनोपयुक्तः समीप एव सम्बन्धो देहो यासां ताः । अङ्ग हे सखे ते पादयोर्ध्यानेन ते पदवीमपवर्गमार्गं याम ॥ ३५ ॥
सुमनोरञ्जिनी
स्पष्टं स्वाभीष्टं प्रार्थयंति ॥ सिञ्चेति ॥ हे अङ्ग त्वदधरामृतस्य पूरकेण प्रवाहेण । हासावलोकाभ्यां कलगीतेन मधुरगानेन जातो हृच्छयः कामः स एवाग्निस् तं सिंच अभिषिंच शमय । नो चेद् वयं विरहात् त्वद्विरहाज् जातेन अग्निना उपयुक्तदेहा गृहीतदेहा दग्धदेहाः सत्यस् ते पदयोः पदवीं मार्गं यामेति पदरत्नावली । अनेन त्वमस्मान् त्यजसि चेत् प्राणत्यागमेव कुर्म इति ध्वनितं भवति ॥ ३५ ॥
यर्ह्यम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजनप्रियस्य ।
अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग स्थातुं त्वया विरहिता बत पारयामः ॥३६॥
पदरत्नावली
हे अम्बुजाक्ष रमाया दत्तः क्षणोऽवसरो येन तद् दत्तक्षणम्, अरण्यजनप्रियस्य वनवासिमुनिजनप्रियस्य तव पादतलं यर्हि यदा क्वचिद् वनेऽस्प्राक्ष्म अस्पृशाम तत्प्रभृति तत्क्षणमारभ्य अन्यसमक्षम् अन्यजनाभिमुखे स्थातुं त्वया विरहिता न पारयामो न शक्नुमः । बत अद्भुतं त्वन्महिमा ॥ ३६ ॥
सत्यधर्मीया
हे अम्बुजाक्ष वयं, रमाया दत्तः क्षणोऽवसरो येनोत्सवो वा येन तत्तव पादतलम् । यर्हि यदा । क्वचिद्वनेऽरण्यजनप्रियस्य वृन्दावनवासिजनप्रियस्य । आन्तरङ्गिको भावस्त्वरश्च वै ण्यश्च सुधासमुद्रौ । अरश्च ह वैण्यश्चार्णवौ ब्रह्मलोक इत्याद्युक्तारण्याख्यसमुद्रवद्वैकुण्ठ-वासि जनप्रियस्येति । अस्प्राक्ष्म स्पृष्टवत्यस्तत्प्रभृति तत्क्षणमारभ्यान्यसमक्षम् । प्रतिपरिसमनुभ्योऽक्ष्ण इत्यच् । त्वदितरनरसम्मुखे स्थातुं त्वया विरहिता न पारयामः शक्नुमः । बत खेदे बताश्चर्यं वेति वा ॥ ३६ ॥
सुमनोरञ्जिनी
रमाया दत्तक्षणं दत्तोत्सवम् । दत्तः क्षण आश्चर्यतया निर्व्यापारावस्था येनेति वा । दत्तावसरं वा । निर्व्यापारस्थितौ कूलविशेषोत्सवयोः क्षण इत्यमरः । अरण्यजनाः प्रिया यस्य । अरण्यजनः सन्न्यस्तजन इति पदरत्नावल्याम् । तव पादतलं क्वचिद् वने यर्हि यदा अस्प्राक्ष्म स्पृष्टवत्यः । तत्प्रभृति तत्क्षणमारभ्य । अन्येषां पुरुषाणां समक्षमपि अभिमुखं स्थातुं न पारयामः न शक्नुमः ॥ ३६ ॥
श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या लब्ध्वाऽपि वक्षसि पदं किल भृत्यजुष्टम् ।
यस्याः स्ववीक्षणकृतोऽन्यसुरप्रयासस्तद्वद् वयं च तव पादरजः प्रपन्नाः ॥३७॥
पदरत्नावली
विरिञ्चवैरिञ्चाद्यमरवरसमर्चिता सर्वविधभाग्याभिमानिनी स्वयमिन्दिरैव तव कमनीयपदकमलधूलिषु अनुरागोद्रेकं बभार । तस्मादस्माकं का कथेत्याकूतेन कथयन्ति श्रीरिति ॥ अन्येषां सुराणां चतुराननादीनां प्रयासो यस्याः श्रियः स्ववीक्षणकृतः स्वनिरीक्षणार्थं कृतः । लोक-मातुरवलोकनं कथमस्माकं भवेदिति तदर्थं कृतप्रयत्ना विधातृप्रभृतय इत्यर्थः । सा श्रीस् तव वक्षसि पदं स्थानं लब्ध्वाऽपि भृत्यजुष्टं भक्तवृन्दसमर्चितं तुलस्याः पदमास्पदं यत्पदाम्बुजरजश्चकमे चकाङ्क्ष तद्वद् वयं च तव पादरजोनिषेवणाय प्रपन्नाः । ‘स्ववीक्षणकृते’ इति पाठे स्वदर्शनार्थमित्यर्थः
॥ ३७ ॥
सत्यधर्मीया
अधोक्षज लक्ष्मीरपि काङ्क्षति त्वत्पदपद्मं कथा काऽस्माकमिति भावेन वदन्ति ॥ श्रीरिति ॥ वक्षसि पदं स्थानं लब्ध्वाऽपि । अन्येषां सुराणां ब्रह्मादीनां प्रयासः । यस्याः स्वनिरीक्षणार्थं कृतो, लोकावलोकनं कथमस्माकं भवेदिति तदर्थं कृतयत्ना इतरेऽमराः । सा भृत्यजुष्टं भक्तजनसभाजितं तुलस्याः पदमास्पदम् । भृत्या(त्यै) न जुष्टं भृत्यजुष्टं स्वोदरभरणार्थं सेवितं नेत्यर्थः । एतेन भृत्यजुष्टत्वं साधारणं किं वक्तव्यमिति निरस्तम् । यत्पदाम्बुजरजश्चकमे तद्वत्सेव वयं तव पादरजः प्रपन्ना आश्रिताः । यद्वा तद्वद्वयमिति पदमेकम् । साऽस्त्यास्विति तद्वत्यस्ताश्च ता वयं च तद्वद्वयं तत्सन्निधानयुता वयमित्यर्थः । नायोग्यताप्रयुक्तत्याज्यत्वा वयमिति भावः
॥ ३७ ॥
सुमनोरञ्जिनी
बतेत्यनेनोक्तमाश्चर्यं त्वत्पादमहिम्नः । तदेव दर्शयति ॥ श्रीरिति ॥ यस्याः श्रियः स्ववीक्षणकृते स्वान्प्रति यदीक्षणमवलोकनं तत्कृते तदर्थं श्रीर् अस्मान् अवलोकयतु इत्येदर्थमिति यावत् । अन्येषां सुराणां प्रयासः प्रयत्नः सा श्रीर् वक्षसि पदं स्थानं लब्ध्वापि । भृत्यैर् जुष्टं सेवितम् । तुलस्या जुष्टमिति विविच्यान्वेति । तुलस्याः पदमिति वा । यत्पदाम्बुजरजः यस्य श्रीकृष्णस्य पदाम्बुजरजःशुश्रूषणां चकमे अकामयत । तुलस्या सहाकमतेति वा । तद्वद्वयमपि प्रपन्नाः स्मेति भावः ॥ ३७ ॥
तन्नः प्रसीद वृजिनार्दन तेऽङ्घ्रिमूलं प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः ।
त्वत्सुन्दरस्मितनिरीक्षणतीव्रकामतप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ ३८ ॥
पदरत्नावली
वृजिनार्दन दुःखापनोदक । वसतीर् गृहान् । त्वदुपासने आशा यासां तास्तथा । तव सुन्दरस्मितयुक्तेन निरीक्षणेन तीव्र उद्रिक्तो यः कामस्तेन तप्त आत्मा देहो यासां तास्तथा । पुरुषभूषण पृणाति भक्तगणान् भक्तिज्ञानादिगुणैः पूरयति, सादयति भक्तानां दोषान् नाशयतीति च पुरुषः स चासौ, भू पूर्णौ षणौ चेष्टानन्दौ यस्य स भूषणश्च तथा । ‘भू बहौ’ इति धातुः । ‘बहुः पूर्णतायाम्’ इति छान्दोग्यभाष्योक्तेः । षकारो ह्यात्मनि स्वर्गे चेष्टायां विषये तथा’ इत्यभिधानम् । ‘णकरो निश्चये ज्ञाने सुखे जारे बले ध्वनौ’ इति च ॥ ३८ ॥
सत्यधर्मीया
हे वृजिनार्दन पापापनोदक यतो वसतीर्गृहान्विसृज्य त्वदुपासने आशा यासां तास्तेऽङ्घ्रिमूलं प्राप्ता इति तन्न उपरि प्रसीद । प्रसादश्चैतदात्मेत्याहुः ॥ त्वदिति ॥ सुन्दरं च तत्स्मितं मन्दहासश्च, सुन्दरं च तद्वीक्षणं चैताभ्यां तीव्र उद्रिक्तो यः कामस्तेन तप्त आत्मा देहो यासां ताः । हे पुरुषभूषण पुरुषालङ्काराकार ते दास्यं देहि वितर ॥ ३८ ॥
सुमनोरञ्जिनी
हे वृजिनार्दन दुरितनाशन यद्यस्मात्तव पादरजः प्रपन्नास् तत् तस्मात् त्वदुपासने त्वद्भजने आशा इच्छा यासां ता तथाविधाः । वसतीर् गृहान् विसृज्य तव पादमूलं प्राप्ता नो ऽस्मान् प्रति प्रसीदेत्यन्वयः । हे पुरुषभूषण पुरुषश्रेष्ठ तव यत्सुन्दरं स्मितं मन्दहासः निरीक्षणं च ताभ्यामुत्पन्नो यस्तीव्रः कामस्तेन तप्तात्मनां सन्तप्तचित्तानाम् । तद्देहानां वा । त्वत्सुन्दरस्मितस्य निरीक्षणेनोत्पन्न इति वा ॥ ३८ ॥
वीक्ष्यालकावृतमुखं तव कुण्डलश्रीगण्डस्थलाधरसुधं हरितावलोकम् ।
दत्ताभयं च भुजदण्डयुगं विलोक्य वक्षः १श्रियैकरमणं च भवाम दास्यः ॥३९॥
पदरत्नावली
हे वीक्ष्य दर्शनीय तव दास्यो भवामेत्यन्वयः । ‘आशिषि लिङ्लोटौ’ इति आशिषि लोट् । दासी भूत्वाऽऽशिषं कामयामह इत्यर्थः । दासीभावे कारणं ब्रुवन्ति अलकेति ॥ अलकाश्चूर्णकुन्तलास्तैरावृतं च तन्मुखं च अलकावृतमुखं तथा । कुण्डलश्रिया युक्तं गण्डस्थलम् अधरसुधा च यस्य तत् तथा । हसितेन हासेन सहितोऽवलोको यस्य तत् तथा । दत्तं भक्तवृन्देभ्योऽभयं येन तत् तथा । भुजदण्डयोर्युगम् । श्रिय एकरमणं प्रधानरतिस्थानं वक्षश्च विलोक्य सन्दृश्य ॥ ३९ ॥
सत्यधर्मीया
वीक्ष्यालकावृतमुखमिति ॥ वीक्ष्या दर्शनीया अलकाश्चूर्णकुन्तलास्तैरावृतं च तन्मुखं च कुण्डलश्रीमद्गण्डस्थलं च यस्य तदधरयोर्दन्तवसनयोः सुधाऽमृतं यस्य तत्तच्च हसितेन हासेन सहितोऽवलोको यस्य तत् । दत्ताभयं भुजदण्डयुगं च विलोक्य । वस्त्रवितरणस्य भुजद्वितय-कार्यत्वात्तथा रंस्यथेति कथितालिङ्गनस्यापि तदङ्गसाध्यत्वात्तद्दत्ताभयता तद्द्वाराऽस्मदनुभूतेति सूचयन्त्येनेनेति ज्ञेयम् । श्रियैकरमणम् । यणागमो गतम् । रमाविलासालयं वक्षश्च विलोक्य तव दास्यो भवाम लोट् । त्वं च अ मदस्मदभिमुखमागच्छदास्यं मुखं यस्य स भवेत्यप्यर्थः । अ इति हरिसम्बोधनम् ॥ ३९ ॥
सुमनोरञ्जिनी
अलकैश् चूर्णकुंतलैर् आवृतं मुखम् । कीदृशम् । कुण्डलयोः श्रीर् ययोर्याभ्यां वा ते गण्डस्थले, अधरसुधा च यस्मिन् तत् । हसितेन युक्तमवलोकं च वीक्ष्य, दत्तमभयं येन तथाविधं भुजदण्डयुग्मं च । श्रिय एकरमणं मुख्यरतिस्थानं वक्षश्च विलोक्य तव दास्यो भवाम इति ॥ ३९ ॥
का स्त्र्यङ्ग ते १कलपदायतवेणुगीतसम्मोहिताऽऽर्यचरितान्न चलेत् त्रिलोक्याम् ।
त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं यद् गोद्विजद्रुममृगाः पुलकान्यबिभ्रन्
॥ ४० ॥
पदरत्नावली
निरुपमसौन्दर्यसौकुमार्यादिना स्मरहरस्यापि मनोहारिणो हरेर्वशीभूतत्वं योषितां नो न दोषावहमित्याशयेनाहुः का स्त्रीति । कलानि मधुराणि पदानि यस्मिंस्तत् कलपदं, तच्च तदमृतरूपं वेणुगीतं च कलपदामृतवेणुगीतं, तेन सम्मोहिता सती त्रिलोक्यामपि का वा स्त्री त्रैलोक्यसौभगं लोकत्रयालङ्कारभूतमिदं रूपम् अतिसुन्दरावयवोपक्लृप्तमाकारं निरीक्ष्य च आर्याणां सतां चरितादाचारान्न चलेन् न स्खलेत् । यद् यतो तवानुपमवेणुगानादिना गवादयोऽपि पुलकानि रोमाञ्चानि अबिभ्रन् बभ्रिरे ॥ ४० ॥
सत्यधर्मीया
औपपत्यं जुगुप्सितमित्युक्तमर्थादुत्तरितं तथाऽपि कैमुत्येनाच्युतैतस्माच्च्युतिरार्य-मार्गादननुभूतैतद्रसानां सारसाक्षीणां भवेत् । कथा तु कैतदनुभववतीनां नः । किञ्च स्थावरा अपि भवन्त्येवं देवेति वासुदेवं प्रति वदन्ति ॥ केति । अङ्ग रङ्ग कलपदायतवेणुगीतसम्मोहिता अयतं मूर्च्छितम् । अमृतेत्यपि पाठः स्फुटार्थः । तादृशगीतेन सम्मोहिता का स्त्री आर्यचरितात्सन्मार्गाद-व्यभिचरितायास्त्रिलोक्यां त्रयाणां लोकानां समाहारस्त्रिलोकी तस्यां न चलेद्भ्रष्टा न भवेत् । दूरतोऽपि त्वत्पूरितवेणुशब्दश्रवणतो मृगदृशां दशेदृशी यदा तदा त्रैलोक्यसौभगं त्रिलोकीसुन्दरतरमिदं रूपं निरीक्ष्य च काऽम्बुजाक्षी न चलेत् । यद् यतो मुरलीस्वरतो गाश्च द्विजाः पक्षिणश्च द्रुमाः सजीवा वृक्षाश्च मृगाश्चैते ये पुलका अस्माकमुदभवंतस्तान्रोमाञ्चान्न्यबिभ्रन्नितरां भृतवन्तः । प्रायो बताम्ब मुनय इति प्रागभिहितत्वाद्द्रुमाणामन्तर्निरीक्षणमपि सम्भवतीति निरीक्ष्येत्यपि योजनीयमिति मन्तव्यम् । न्यबिभ्रन्निति पुलका एतानीत्यन्वयेन, पुलकः कृमिभेदे स्यात्तल्पेऽश्वमणिदोषयोः । गजात्तपिण्डे रोमाञ्चे हरिताले शिलान्तर इति विश्वमेदिन्यादयोऽनुकूलिता इत्याकलनीयम् । चलेच्च या च न चञ्चललोचना सा का कुत्सिताऽयोग्येत्यप्यन्वयः । त्रिलोक्यामित्यत्र त्रिलोकी आमिति छेदः । त्रिभिर्नेत्रैर्लोकयितुमवलोकयितुं शीलमस्यास्तीति त्रिलोकी रुद्रस्त्रैलोक्यसौभगं रूपं निरीक्ष्य आ सम्यक् चचालेति वा ॥ ४० ॥
सुमनोरञ्जिनी
कुलस्त्रीभिर्न मनश्चाञ्चल्यं कार्यम् औपपत्यस्य गर्हितत्वादित्यस्योत्तरमाहुः ॥ का स्त्रीति । कलैर् अव्यक्तमधुरैः पदैर् अमृतमिवामृतमानन्दकरं यद्वेणुगीतं तेनैव संमोहिता । अथ च त्रैलोक्यसौभगं सुन्दरमिदं तव रूपं च निरीक्ष्य त्रिलोक्यां लोकत्रये का स्त्री, आर्यचरिताद् आर्याणां कुलस्त्रीणां चरितं पातिव्रत्याख्यं तस्मान्न चलेत् । नेदं चित्रम् । पश्वादयोऽपि यद् येन वेणुगीतेन संमोहिताः सन्तः पुलकानि रोमांचानि अबिभ्रन् अधारयन् ॥ ४० ॥
व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो देवो यथाऽऽदिपुरुषः सुरलोकगोप्ता ।
तन्नो निधेहि करपङ्कजमार्तबन्धो तप्तस्तनेषु च शिरस्सु च किङ्करीणाम् ॥४१॥
पदरत्नावली
व्रजभयार्तिहरणार्थमस्मत्कामनापूरणार्थं चावतीर्णस्य ते परममङ्गलाङ्गसङ्गेन नास्माकं जारतेति भावेनाहुर् व्यक्तमिति । देवः क्रीडादिगुणविशिष्टो भगवानादिपुरुषः सुरलोकगोप्ता नारायणो यथाऽभिजातो देवभयार्तिहरणाय वामनरूपेण प्रादुरभूत् तथा भवान् व्रजभयार्तिहरोऽभिजात इति व्यक्तम् इदमसन्दिग्धम् । ‘स्वदृष्टान्तो हरेर्भवेत्’ इति ऋग्भाष्यवचनम् । तत् तस्मात्, अदोषावहत्वादिति यावत् । कामाग्नितप्तेषु स्तनेषु शिरस्सु च ॥ ४१ ॥
सत्यधर्मीया
त्वदङ्गसङ्गेऽङ्गनानां न जारता यदज एवैवं जात इत्याहुः ॥ व्यक्तमिति ॥ यो देव आदिपुरुषः सुरलोकगोप्ता नारायणः स एव व्रजभयार्तिहरो व्रजस्य तत्स्थजनस्य भयं चार्तिश्च तयोर्हरोऽभिजातः प्रादुर्भूत इति व्यक्तमिदं निश्चितम् । न चाविष्टरूपमिदमित्याहुः ॥ यथेति ॥ सम्यगनाविष्ट इत्यर्थः । स्वदृष्टान्तो हरेर्भवेदित्यृग्भाष्योक्तेर्यथाऽऽदिपुरुषो हरिस्तथैवाभिजातोऽसि नेषद्वैषम्यं तव तेनेति वा तत्तस्माददोषावहमिति । तव करपङ्कजं किङ्करीणां दासीनां न आर्तबन्धो आदितः शिरस्सु निधेह्यनन्तरं तप्तेषु मन्मथमथनतः स्तनेषु निधेहि । शिरःकरकरणेन दासीत्वेन परिग्रहस्तेन चोत्तरप्रार्थना सङ्गच्छत इति ज्ञेयम् ॥ ४१ ॥
सुमनोरञ्जिनी
अभ्युपगम्येदमुदितम् । वस्तुतस्तु अनेकजन्मासादितसाधनसंपत्यापि दुरवापं सर्वस्वामिनं भवन्तं कथमुपपतिं मन्यामह इत्याहुः ॥ व्यक्तमिति ॥ व्रजभवार्तिहरो भवानादिपुरुषः श्रीहरिरेव । व्रजस्य भवार्तिः संसारदुःखम्, व्रजभवानां गोपगोपीनामार्तिं हरतीति वा व्रजभवार्तिहरः सन्नभिजात इति व्यक्तं निश्चितमेव । यथा आदिपुरुष एव सुरलोकस्य गोप्ता रक्षकः सन् वामनतयाऽभिजातस्तथा । इत्थं च सर्वस्वामी भवान् कथमुपपतिः स्यात् । त्वत्सङ्गेन कथमस्माकं निन्द्यता स्यादिति भावः । तत् तस्मात् किंकरीणां नः शिरःसु, तप्तेषु कामाग्निसन्तप्तेषु स्तनेषु च करपङ्कजं निधेहि स्थापय ॥ ४१ ॥
श्रीशुक उवाच—
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।
प्रहस्य सदयं गोपीरात्मारामो न्यरीरमत् ॥ ४२ ॥
पदरत्नावली
विक्लवितं विह्वलितम् । व्रजाङ्गनाव्रजं स्वयमेकः कथं रमयामासेत्यत आह योगेश्वरेश्वर इति ॥ न्यरीरमन् नितरां रमयामास ॥ ४२ ॥
सत्यधर्मीया
तासां विक्लवितं विह्वलितं वचनमिति श्रुत्वा । स्वयमेकोऽनेकाः कामिनीः कथं रमयामास । कथन्तरां ताः पत्नीः पतयोऽगृह्णन्सर्वत्रानुपलभ्यमानात्मारामताभिमता कथन्तमामित्यस्य सर्वस्याप्युत्तरं योगेश्वराणामीश्वर इति ॥ अचिन्त्यशक्त्या वा बहुविग्रहग्रहणेन स्वपार्श्वस्थताप्रतिपत्तिप्रापणेन वा तत एवात्मारामतेति । सदयमित्येतत्प्रहस्येत्यनेन न्यरीरमदित्य-नेनाप्यन्वेति । ता गोपीर्नितरामात्मारामः स्वरतोऽपि । अनेन करुणैवात्र कारणमिति सूच्यते । अरीरमद्रमयामास । संश्चासावयश्च, सदयं च निमित्तीकृत्येति वा ॥ ४२ ॥
सुमनोरञ्जिनी
इति तासां विक्लवितं कामपारवश्येनोदितम् । प्रहस्य गोपीर् न्यरीरमन् नितरां रमयामास । ननु कथं भगवान् अप्राकृतविग्रहः सन् प्राकृतविग्रहाभिः रेम इत्यत उक्तम् ॥ आत्माराम इति ॥ आत्मन्येव सम्यक् रमत इति आत्मारामः स्वरमण इत्यर्थः । तथा च न भगवान् साक्षाद्गोपीषु रेमे किंतु तदन्तर्गतरमारूपान्तर्यामिस्वस्त्रीरूपेष्वेवेति भावः ॥ ४२ ॥
ताभिः समेताभिरुदारचेष्टितः प्रियेक्षणोत्फुल्लमुखीभिरच्युतः ।
उदारहासद्विजकुन्ददीधितिर्व्यरोचतैणाङ्क इवोडुभिर्वृतः ॥ ४३ ॥
पदरत्नावली
समेताभिर् मिलिताभिः । उदारं व्रजाङ्गनामनोरथपूर्तिकरं चेष्टितं यस्य स उदारचेष्टितः । प्रियस्य स्वस्येक्षणेनोत्फुल्लानि मुखानि यासां तास्तथा । नित्यं समस्तसद्गुणच्युति-रहितत्वादच्युतः । ‘अच्युतो यो गुणैर्नित्यमेवाखिलैः’ इत्यादेः । उदार उत्कृष्टो हासस्तेनेषद्विवृता द्विजा दन्तास्त एव कुन्दानि माध्यकुसुमानि, तेषां दीधितिः कान्तिर्यस्य सः । ‘माध्यं कुन्दम्’ इत्यमरः । उडुभिर्नक्षत्रैर्वृत एणः शशोऽङ्को लाञ्छनं यस्य स एणाङ्कश्चन्द्रः । ‘एणः शशे कुरङ्गे स्यात्’ इत्यभिधानम् ॥ ४३ ॥
सत्यधर्मीया
समेताभिर्मिलिताभिस्ताभिः । उदारं महच्चेष्टितं यस्य सः । प्रियस्य स्वस्येक्षणेनावलोकनेनोत्फुल्लं विकसितं मुखं यासां तास्ताभिः सहितोऽच्युत उदार उत्कृष्टो हासस्तेन किञ्चिद्विवृता द्विजा दन्तास्त एव कुन्दाः कुन्दानि वा । माघ्यं कुन्दमित्यमरः । मारः कुन्दः कुरण्टक इति पुंस्काण्डे रत्नकोशः । कुं भुवं दापयति शोधयति दलतीत्युभयपक्षे तत्पुरुष इत्यलुग्द्वितीयायाः । दैप् शोधने दोऽवखण्डन इति धात्वोरात इति कुन्देति रूपम् । माघ्यपुष्पाणि तेषां दीधितिः कान्तिर्यस्य सः । कुन्दश्चक्रभ्रमे माघ्ये निधिमेदे सुरद्विषीति विश्वः । स्वातन्त्र्ये-णोदारहासादीनां दीधितिर्यस्येति वा । उडुभिर्नक्षत्रैर्वृत एणाङ्कः । एणः कुरङ्गो हरिण इति हलः । एणोऽङ्को लाञ्छनं यस्य सः । अङ्कः स्थानेऽन्तिके मन्तौ रूपोऽङ्कच्छुङ्गलक्ष्मस्विति विश्वः । स चन्द्र इव व्यरोचत । उत्कृष्टं दारेषु स्वभार्यायां चेष्टितमिव चेष्टितं यस्य स इति वा ॥४३॥
सुमनोरञ्जिनी
उदारमुत्कृष्टं चेष्टितं चरितं यस्य सोऽच्युतः । प्रियस्य ईक्षणेन । प्रियं प्रेमातिशयजनकम् ईक्षणं श्रीकृष्णस्य कटाक्षवीक्षणं तेनेति वा उत्फुल्लानि विकसितानि मुखानि यासां ताभिः समेताभिर् मिलिताभिर् गोपीभिर् वृतः सन् उडुभिर्वृतो एणांक इव चन्द्र इव व्यरोचतेति सम्बन्धः । कीदृशः । उदारहासः, द्विजा दन्ताः कुन्दा इव द्विजकुन्दास् तेषां दीधितिर्यस्य सः । उदारहासे द्विजेषु च कुन्दकुसुमानां दीधितिरिव दीधितिर्यस्यासाविति वा । उदारहासेन विवृतानां द्विजकुन्दानां दीधितिर्यस्य स इति वा ॥ ४३ ॥
उपगीयमान उद्गायन् वनिताशतयूथपः ।
मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥ ४४ ॥
पदरत्नावली
स्वयमुद्गायन् गोपीभिरुद्गीयमानश्च वनिताशतानां यूथपो गजराज इव । शतशब्दोऽनेकवाची । गोपीनां करिणीसादृश्यं च विज्ञेयम् । ‘गजश्रेष्ठे तु यूथपः’ इत्यभिधानम् । वैजयन्ती तन्नाम्नी मालाम् । मण्डयन् अलङ्कुर्वन् ॥ ४४ ॥
सत्यधर्मीया
स्वयमुद्गायंस्ताभिरुपगीयमानश्च वनिताशतयूथपः । शतशब्दो बहुवाची । यूथपो गजराजः । अनेन तासां करिणीत्वेनोत्प्रेक्षणम् । वनिताशतयूथं पातीति स इति वा । यूथनाथो गजश्रेष्ठे, यूथं वृन्दमात्रे स्यादिति रभसविश्वौ । वैजयन्तीं तन्नाम्नीम् । मण्डयन्नलङ्कुर्वन्
॥ ४४ ॥
सुमनोरञ्जिनी
वनिताशतयूथपः । शतशब्दोऽनेकवाची । गोपीभिरुपगीयमानः स्वयमप्युद्गायन् । वैजयन्तीं तत्संज्ञाम् आपादलम्बिनीं मालाम् । वनं मण्डयन् भूषयन् ॥ ४४ ॥
नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् ।
जुष्टं तत्तरलानन्दिकुमुदामोदवायुना ॥ ४५ ॥
पदरत्नावली
तया नद्या तरलानि नृत्यन्तीव विद्यमानानि च तान्यानन्दीनि सर्वानानन्दयितुं शीलमेषामस्तीति च तत्तरलानन्दीनि, तानि च तानि कुमुदानि कैरवाणि च तत्तरलानन्दिकुमुदानि, तेषामामोदो यस्य तेन वायुना, जुष्टमिति शेषः । हिमवालुकं शीतलसिकतामयं नद्या यमुनायाः पुलिनं द्वीपमाविश्य गोपीभी रेमे ॥ ४५ ॥
सत्यधर्मीया
हिमवालुकं शीतलसिकतामयम् । नद्या यमुनायाः पुलिनं द्वीपम् । तथा नद्या प्रवहन्त्या तरलान्यानन्दीनि परानानन्दयितुं शीलमेषामिति तानि कुमुदानि कैरवाणि तेषामामोदः सौरभं यस्य तेन वायुना जुष्टं सेवितम् । सिते कुमुदकैरवे इत्यमरः ॥ ४५ ॥
सुमनोरञ्जिनी
नद्या यमुनायाः । हिमवालुकं शीतलवालुकम् । तस्या नद्यास् तरलैस् तरङ्गैर् आनन्दिन उत्पुल्ला ये कुमुदास्तेषामामोदो मकरंदो यस्मिंस्तेन वायुना जुष्टम् । पुलिनं तोयोत्थितसैकतस्थलम् । तोयोत्थितं तत्पुलिनमित्यमरः । आविश्य गोपीभिः रेम इति शेषः ॥४५॥
बाहुप्रसारपरिरम्भकरालकोरुनीवीस्तनालभननर्मकराग्रपातैः ।
क्ष्वेलावलोकहसितैर्व्रजसुन्दरीणामुत्तम्भयन् रतिपतिं रमयाञ्चकार ॥ ४६ ॥
पदरत्नावली
बाहुप्रसारः स्कन्धोपरि बाहुप्रसारणं च परिरम्भ आलिङ्गनं च करालकादीना-मालभनं स्पर्शश्च नर्म परिहासश्च कराग्राणां नखानां पाता उल्लेखनलक्षणानि च तैः । नीव्या वस्त्रग्रन्थेरालभनं मोचनं, स्तनयोरालभनं मर्दनमिति यथायोग्यमालभनपदार्थो बोध्यः । क्ष्वेला सिंहनादवन्नादोऽवलोको निरीक्षणं हसितानि हासाश्च तैर्व्रजसुन्दरीणां रतिपतिं काममुत्तम्भयन् उद्दीपयन् रमयाञ्चकार रमयामास ॥ ४६ ॥
सत्यधर्मीया
बाहूनां प्रसारः प्रसर्पणं तज्जातो यो परिरम्भ आलिङ्गनं च, तथा कराभ्या-मलकाश्चोत्सङ्गाश्च नीव्यो वसनानि तद्ग्रन्थयश्च गतम् । स्तनाश्चेत्यादीनामालभनं मर्दनमोचनादिस्पर्शो यथायथं ग्राह्यः । तच्च नर्मपूर्वकं कराग्राणां नखराणामङ्गुलिप्रान्तानां वा पाताश्च तैः । करालकेलीति पाठो न सरलः कर्णकठोरश्च । क्ष्वेला सिंहनादवन्नादोऽवलोको निरीक्षणं हसितानि हासाश्च तैर्व्रजसुन्दरीणां रतिपतिं मन्मथमुत्तम्भयन्स्थिरीकुर्वन्पुनःपुनः सम्भोगाशां जनयन्निति यावद् रमयाञ्चकार रमयामास । रमयां चकारेति पदद्वन्द्वं तथाऽप्यनुप्रयोगो नियतः ॥ ४६ ॥
सुमनोरञ्जिनी
बाहुप्रसारेण परिरम्भ आलिङ्गनं तेन करालकेली तीव्रक्रीडा तस्यां नीवी वस्त्रग्रन्थिस् तस्यालभनं, स्तनयोर्नर्मोक्तिपूर्वं कराग्रपातः नखपातश्च तैः । करालकोरुनीवीत्यादि केचित्पठन्ति । क्ष्वेलया क्रीडया अवलोकनेन हसितैर्मन्दस्मितैश्च रतिपतिं कामम् उत्तंभयन्नुद्दीपयन् रमयांचकार रमयामास ॥ ४६ ॥
एवं भगवतः कृष्णाल्लब्धमाना महात्मनः ।
स्वात्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं (अधिक्याभ्यधिकं) भुवि ॥४७॥
पदरत्नावली
मानिन्यो भुवि स्त्रीणां मध्ये स्वात्मानमभ्यधिकम् अत्यधिकं मेनिरे ॥४७॥
सत्यधर्मीया
मानिन्योऽभ्यधिकं भुवीत्यपि पठन्ति ॥ अधिक्याभ्यधिकं भुवीति ॥ अत्राधिक्येति न सरलार्थ इत्युपर्येव ज्ञायते । मानिन्यः स्त्रीणां मध्ये आत्मानमधिकं मेनिर इत्यन्वयः । तदहङ्कारहेतुरेवं कृष्णाल्लब्धमाना इति ॥ ४७ ॥
सुमनोरञ्जिनी
कृष्णाद् लब्धमाना यद् अन्या विहायास्माकमेव कृष्णो लब्धस्तस्मा-त्प्राप्ताहंकाराः । भुवि स्त्रीणां मध्ये स्वात्मानमेवाधिक्येनाधिकं मेनिरे । कस्मात् । कृष्णाल्लब्धात् कृष्णलाभान्निमित्तादेवेति भावः ॥ ४७ ॥
तासां तत्सौभगमदं वीक्ष्य मानं च केशवः ।
प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ ४८ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे सप्तविंशोऽध्यायः ॥
पदरत्नावली
तत्सौभगमदं कृष्णानुगृहीतसौभाग्यसम्बन्ध्यहङ्कारं मानं स्वात्मनि मान्यतामतिं च वीक्ष्य । प्रशमाय अहन्ताप्रशान्त्यै प्रसादायानुग्रहाय च । अन्तरधीयत अन्तर्हितोऽभूत् ॥४८॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे सप्तविंशोऽध्यायः ॥
सत्यधर्मीया
मानं स्वकृतं तद्योग्यतातिरिक्तं वीक्ष्य । तज्जातं सौभगं सौन्दर्यं तत्सम्बन्धि-मदमहन्तां च वीक्ष्य केशवः प्रशमायाहन्ताशान्त्यै अनन्तरं प्रसादाय तं विधातुं तत्रैव विद्यमानस्थल एवान्तरधीयतान्तर्हितोऽभूत् ॥ ४८ ॥
॥ इति श्रीभागवतटिप्पण्यां श्रीसत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे सप्तविंशोऽध्यायः ॥ १०-२७ ॥
सुमनोरञ्जिनी
सौभगमदं सौभाग्यनिमित्तं मदं मानम् अहङ्कारं च वीक्ष्य मदाहङ्कारयोः प्रशमाय परिहाराय प्रसादाय च तत्रैव वन एव । अन्तरधीयत अदृश्योऽभवत् ॥ ४८ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्यां सप्तविंशोऽध्यायः ॥ १०-२७ ॥