एकादश्यां निराहारः समभ्यर्च्य जनार्दनम्
श्रीमद्भगवद्बादरायणप्रणीतम्
श्रीमद्भागवतम्
दशमस्कन्धस्य पूर्वार्धः
पूर्वार्धो ऽनुवृत्तः
॥ अथ षड्विंशोऽध्यायः ॥
श्रीशुक उवाच—
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।
स्नातुं नन्दस्तु कालिन्द्या द्वादश्यां जलमाविशत् ॥ १ ॥
श्रीविजयध्वजतीर्थविरचितपदरत्नावली प्रारभ्यते
पदरत्नावली
भवार्णवनिमग्नसमुद्विग्नसज्जनान् समुद्धर्तुं करुणार्णवो हरिरेवेष्टे इत्यर्थं स्पष्टयितुं, निशि निम्नगा-निमज्जनव्याजेन वरुणभृत्यापहृतस्य नन्दगोपस्योन्मोचनं नन्दादिगोपानां वैकुण्ठदर्शनं चानुवर्ण्यतेऽस्मि-न्नध्याये । तत्रादौ कथं नन्दो वरुणलोकमनायीति विवरीतुमारभते एकादश्यामिति । तुशब्दः कलार्धमात्रावशिष्टत्वादिविशेषद्योतकः । कालिन्द्या यमुनाया जलमाविशत् प्रविवेश ॥ १ ॥
श्रीमद्भागवतटिप्पणी सत्यधर्मयतिकृता प्रारभ्यते
सत्यधर्मीया
संसारसागरात्कंसारिरहमेवोत्कृष्टानुत्क्रष्टुमीश इति भावमाविष्कुर्वन् जलचरनीतं तातममूमुचत्स्वलोकं चैतदादीनामदर्शयदिति कथयत्यस्मिन्नध्याये । तत्रादौ नन्दः क्व, क्व स नीरचरः, कथं नयनमित्यत-स्तत्पूर्वरङ्गं सङ्गमयति शुक इत्याह ॥ श्री शुक इत्यादि । एकादश्यां, निर्गत आहारो यस्य स जनार्दनमभ्यर्च्य द्वादश्यामल्पीयस्यां स्नातुं नन्दः कालिन्द्या यमुनाया जलमाविशत्प्रविवेश । तुः साधनादिसद्भावसूचकः ॥ १ ॥
श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्या (गूढकर्तृका) सुमनोरञ्जिनी प्रारभ्यते
सुमनोरञ्जिनी
भक्तवत्सलो भगवान् स्वकीयचरणारविन्दैकशरणान् भवपाशान्मोचयित्वा भक्तिफलत्वेन दास्यमानं स्वलोकं प्रत्याययितुं नन्दस्य वरुणपाशान्मोचनं गोपानां स्वलोकप्रदर्शनं च कृतमित्ययमर्थो निरूप्यतेऽस्मिन्नध्याये । तत्र वरुणपाशबन्धो नन्दस्य कथमभूदित्यतस्तद्वक्तुमुपक्रमते । एकादश्यां निराहारः सन् जनार्दनं श्रीहरिं समभ्यर्च्य द्वादश्यां स्नातुं जलमाविशत् ॥ १ ॥
तं गृहीत्वाऽनयद् भृत्यो वरुणस्यासुरोऽन्तिकम् ।
अविज्ञायासुरीं वेलां प्रविष्टमुदकं निशि ॥ २ ॥
पदरत्नावली
आसुरी वेलां निशीथकालम् ॥ २ ॥
सत्यधर्मीया
वरुणस्य भृत्यस्तं नन्दं गृहीत्वा वरुणस्यान्तिकं समीपमनयत् । तत्र तन्त्रमाह ॥ अविज्ञायेति ॥ वरुणभृत्यः स्वयमविज्ञाय । कलार्धां द्वादशीं दृष्ट्वा निशीथादूर्ध्वमेव हि । आमध्याह्नाः क्रिया सर्वाः कर्तव्याः शम्भुशासनादित्यादिशास्त्रमज्ञात्वा निश्यल्पीयस्यां सत्यामप्यासुरीं वेलां मत्वेति शेषः । अवज्ञायेति पाठेऽसुरवेलामवज्ञायानालक्ष्य प्रविष्टमित्यन्वयः । शास्त्रसम्मत्या तदवज्ञानमिति ज्ञेयम् । यद्वक्ष्यति च वरुणोऽजानता मामकेनेति ॥ २ ॥
सुमनोरञ्जिनी
वरुणस्येत्येतदुभयत्र सम्बध्यते । वरुणस्य भृत्यो ऽसुरः वरुणस्यांतिकमनयत् । तत्र निमित्तमाह ॥ अविज्ञायेति । आसुरीं वेलाम् अविज्ञाय । निशि निशीथे उदकं प्रविष्टम् ।
कलार्धां द्वादशीं दृष्ट्वा निशीथादूर्ध्वमेव हि ।
आमध्यान्हाः क्रियाः सर्वाः कर्तव्याः शंभुशासनात् ॥
इति वचनान्निशीथसन्निहितसमये उदकप्रवेशः स्नानार्थं युक्तः ॥ २ ॥
गोपालास्तमपश्यन्तः कृष्ण रामेति चुक्रुशुः ।
भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् ॥ ३ ॥
पदरत्नावली
वरुणभृत्येनाहृतेऽपि नन्दे वरुणाहृतमिति वचनं वरुणस्य स्वामित्वाद् भृत्यापराधे स्वामिनो दण्ड इति यथा तथेति ज्ञेयम् ॥ ३ ॥
सत्यधर्मीया
गोपालास्तं नन्दमपश्यन्तः कृष्ण रामेति चुक्रुशुः । तत्प्रदाननिदानं दानवारिः कृष्ण एवेति तत्पुरस्कृतिः । चुकूजुः । भगवांस्तज्जनकूजनमुपश्रुत्य वरुणाहृतं नेतृनेतृत्वाद्वरुणाहृत-मित्युदाहृतं निशम्य ॥ ३ ॥
सुमनोरञ्जिनी
भगवान् श्रीकृष्णः । तद् आक्रोशनम् उपश्रुत्य । वरुणं प्रति आहृतं नीतं पितरं नन्दम् उद्दिश्य ॥ ३ ॥
तदन्तिकं गतो राजन् स्वानामभयदो विभुः ।
प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया ।
महत्या पूजयित्वाऽऽह तद्दर्शनमहोत्सवः ॥ ४ ॥
सत्यधर्मीया
तदन्तिकं वरुणसमीपं गतः स्वानामभयदः । न नास्ति सामर्थ्यमित्याह ॥ विभुरिति ॥ लोकपालो वरुणः । न च वञ्चनरचनमत्र सम्भवीत्याह ॥ हृषीकेशमिति ॥ महत्या सपर्यया तत्साधनेन पूजयित्वा तद्दर्शनमहोत्सव आह ॥ ४ ॥
सुमनोरञ्जिनी
तदन्तिकं वरुणान्तिकम् । लोकपालो वरुणः महत्या सपर्यया पूजासाधनेन पूजयित्वा ॥ ४ ॥
वरुण उवाच—
अद्य मे २विभृतो देह अद्यार्थोऽधिगतः प्रभो ।
यत्पादभाजो भगवन्नवापुः पारमध्वनः ॥ ५ ॥
पदरत्नावली
प्रभो सर्वकार्येषु प्रभवतीति तथा । ‘प्रभुरीशः समर्थश्च’ इत्यभिधानम् । अद्य मे मया देहो विधृतः सफलो जातः । अर्थः परमपुरुषार्थोऽधिगतः प्राप्तः । यस्य तव पादौ भजन्तीति तथा । संसाराध्वनः पारं तीरम् ॥ ५ ॥
सत्यधर्मीया
अद्य मे देहो विभृतः । विधृत इति पाठे स एवार्थः । देहसाफल्यमायात-मिति यावत् । न केवलमेतत्कलेवरमात्रसाफल्यं किन्त्वर्थः शुद्धचिद्देहभोग्यो मोक्षसुखादिरप्यधिगत एष्यन्नयेन प्राप्तः । यस्य तव पादभाजश्चरणपरिचारका अध्वनः संसृतिसृतेः पारमवापुः ॥ ५ ॥
सुमनोरञ्जिनी
अद्य मे विधृतो देह अद्यार्थोऽधिगतः प्रभो अद्य, मे मया देहधारणस्य फलरूपपुरुषार्थस् त्वत्पादसन्दर्शनलक्षणो ऽधिगतः प्राप्तः । कुतोऽस्य पुरुषार्थत्वं, यस्य तव पादभाजो जना अध्वनः संसाराख्यस्य पारं परतीरम् अवापुः । मोक्षसाधनत्वात्पुरुषार्थत्वमिति भावः ॥ ५ ॥
नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।
न यत्र श्रूयते माया लोकदृष्टिविकल्पना ॥ ६ ॥
पदरत्नावली
भगवते ऐश्वर्यादिषड्गुणवते । ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा’ इत्यादेः । ब्रह्मणे गुणपूर्णाय । ‘अथ कस्मादुच्यते परं ब्रह्मेति । बृंहति बृंहयति च’ इति श्रुतेः । परमात्मने परा च सा मा रमा च परमा तस्या आत्मा पतिस्तस्मै । यत्र त्वयि लोकदृष्टिं विकल्पयति असमर्थतां नयतीति सा माया बन्धकशक्तिर्न श्रूयते ॥ ६ ॥
सत्यधर्मीया
अतोऽहमपि तत्कूटघटित इति नमति । भगवते ऐश्वर्यादिषड्गुणवते । ब्रह्मणे गुणपूर्णतया तच्छब्दवाच्याय । परमात्मने सकलोत्तमरमास्वामिने । यत्र त्वयि लोकदृष्टिं विकल्पयत्यसमर्थतां नयतीति सा माया प्रकृतिस्तद्बन्ध इति यावन् न श्रूयते । तस्मै तुभ्यं नमः । यद्वा हे नयत्र सकलनीतिरक्षक त्वयि लोकदृष्टिविकल्पना लोका ज्ञानिनो विध्याद्यास्तेषां दृष्टेर्ज्ञानस्य विकल्पनमेवमिति निर्धारणाभावो यया सा माया महिमा श्रूयत इति वा । माया तु महिमा प्रोक्ता प्राचुर्ये तु मयड्यत इति पाद्म इति तृतीयतात्पर्योक्तेः । भो लोकदृष्टिविकल्प लोकानां दृष्टिर्ज्ञानं तया विकल्पोऽयुक्ताणुत्वमहत्त्वादिविकल्पो यस्य तत्सम्बुद्धिः । या मा तस्या वा माया लक्ष्म्या वा ना परमपुरुष इति पतिरिति यावत् । भवांच्छ्रयत इति तुभ्यं नम इति वा । हे नयत्र लोकदृष्टिविकल्पना लोकदृष्ट्या विकल्पनं स्थास्यत्यत्र न वेति यस्याः सा माया तया सह तुभ्यं नम इति वा योजना ॥ ६ ॥
सुमनोरञ्जिनी
ब्रह्मणे देशकालगुणैरपरिच्छिन्नाय । यत्र त्वयि । माया प्राकृतम् । लोकदृष्ट्या विविधा कल्पना यया सा ॥ ६ ॥
अजानता मामकेन मूढेनाकार्यवेदिना ।
आनीतोऽयं तव पिता तत् प्रभो क्षन्तुमर्हसि ॥ ७ ॥
गोविन्द नीयतामेष पिता ते मामकाहृतः ।
ममाप्यनुग्रहं कृष्ण कर्तुमर्हस्यशेषदृक् ॥ ८ ॥
पदरत्नावली
अकार्यवेदिना भगवत्सम्बन्धिनामुपद्रवो न कार्य इति वेदिनाऽपि मूढेनात एवाजानता त्वत्पिताऽयमिति ज्ञानहीनेन मामकेन भृत्येनेत्यन्वयः ॥ ७ ॥
श्री सत्याभिनवयतिकृता दुर्घटभावदीपिका
अकार्यवेदिना कृष्णसम्बन्धिनामुपद्रवः कार्यो नेति वेदिनाऽपि मूढेनात एवाजानताऽयं तव पितेति ज्ञानरहितेन मामकेनायं तव पिताऽऽनीतस्तत्तस्मात्कारणात्प्रभो त्वं क्षन्तुमर्हसीति । एतेनाकार्यवेदिनेत्येतद्व्यर्थमिति दूषणं पराकृतम् । अकार्यवेदिनेत्यतः परम् अपिशब्दमध्याहृत्य यद्यपि कृष्णसम्बन्धिनामुपद्रवो न कार्य इति जानाति तथाऽपि तव पितेति ज्ञानाभावादुपद्रवः कृत इत्यभिप्रायो वक्तव्य इति भावेनाकार्यवेदिनेत्युक्तमित्यभ्युपगमात् ॥ ७ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे षड्विंशोऽध्यायः ॥ १०-२६ ॥
सत्यधर्मीया
स्तुत्यैव किं पर्यवसानं प्रस्तुतकार्यस्य किमुत्तरमित्यत आह ॥ अजानतेति ॥ अजानता मूढेनाकार्यवेदिनेति भूयो भूयोऽयमज्ञ इति द्योतयितुं पर्यायेण वचनत्रिकमिति ज्ञेयम् । हे अ अजेनाजया ब्रह्मणा रमया वा नत । अशब्दवाच्य । मामकेन दूतेनावेदिनाऽजानता मया तव पिताऽऽनीत इति यदकारि ‘स्वशिष्यदासवर्गकैः समर्थयन्ति भूभुज’ इत्यादेस्तत् हे प्रभो क्षन्तुमर्हसि । मामकाहृतस्तव पितैषो नीयताम् । गोविन्देति सम्बोधयन्स्वस्येन्द्रस्थापितैकान्तिकाभिधा-बोधोऽस्तीति ध्वनयामास वारीश इति ज्ञेयम् । ते पितेत्यनेन लोकपितुस्तवाप्येकः पिता किमापणश्रेणीमिलित इति ममापि नन्दानयनं सम्मतमन्तरङ्ग इति तव पिता पिता त इति पुनः पुनरुच्चरन्सरिदुच्चोपाहसद्धरिपितृत्वं नन्दस्येति तात्पर्यं ध्येयम् । एष इत्यनेन न चाङ्गभङ्गोऽस्येति ध्वनयति ॥ ७,८ ॥
सुमनोरञ्जिनी
मूढत्वमेव व्यनक्ति ॥ अकार्येति ॥ अकार्यवेदिनाऽकार्यं कार्यत्वेन वेत्तीति तथोक्तः । तेन मामकेन मद्भृत्येन । तत् त्वत्पित्रानयनरूपमपराधम् ॥ ७,८ ॥
श्रीशुक उवाच—
एवं प्रसादितः कृष्णो भगवानखिलेश्वरः ।
आदायागात् स्वपितरं बन्धूनां चावहन्मुदम् ॥ ९ ॥
पदरत्नावली
बन्धूनां च मुदमावहत् ॥ ९ ॥
सत्यधर्मीया
प्रसादितो वरुणेन, बन्धूनां मुदमावहन्सन्स्वपितरमादायागात् । कीदृशीं गोशालां प्रत्यतोऽप्याह । बन्धुना नन्दरूपेणोना न्यूना तां प्रतीति । मुदं च बन्धूनामावहन्निति वा ॥९॥
सुमनोरञ्जिनी
मुदम् आवहन् कुर्वन् ॥ ९ ॥
नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥ १० ॥
पदरत्नावली
अतीन्द्रियं लौकिकेन्द्रियाविषयम् । लोकपालस्य वरुणस्य महोदयं महदैश्वर्यम् । सन्नतिं विनम्रताम् ॥ १० ॥
सत्यधर्मीया
अतीन्द्रियं साधारणमानवागोचरं लोकपालस्य वरुणस्य यो महानुदयस्तम् । नन्दस्तेषां वरुणादीनां कृष्णे सन्नतिं प्रवणतां च दृष्ट्वा ज्ञातिभ्यो ग्रामगतगोपेभ्यो विस्मितः सन्नब्रवीत्
॥ १० ॥
सुमनोरञ्जिनी
अतीन्द्रियं मानुषेन्द्रियाविषयम् । अदृष्टपूर्वं वा । लोकपालस्य वरुणस्य महोदयं महैश्वर्यम् । कृष्णे कृष्णविषये सन्नतिं नम्रतां च दृष्ट्वा ॥ १० ॥
ते त्वौत्सुक्यधियो राजन् मत्वा गोपास्त्वधीश्वरम् ।
अपि नः स्वगतिं सूक्ष्मामुपाधास्यदधीश्वरः ॥ ११ ॥
पदरत्नावली
नन्दवर्णितकृष्णमहिमोत्कर्षमाश्रुत्य गोपा एवं स्वबुद्धौ दध्युरित्याह त इति । कृष्णविषयेऽशेषगोपानां विशेषभक्तिरुदियायेति विशेषार्थस्तुशब्दः । औत्सुक्येन पूर्वस्मादपि विशिष्टभक्त्या सहिता धीर्येषां ते गोपास् तं कृष्णमधीश्वरं तु ब्रह्मादेरप्यधिकमीश्वरमेव मत्वा ज्ञात्वा नोऽस्माकमधीश्वरो यद्यभीष्टमकरिष्यत् तर्हि सूक्ष्मामतीन्द्रियां स्वगतिं वैकुण्ठाख्यामुपाधास्यददर्शयिष्य-दिति ॥ ११ ॥
सत्यधर्मीया
नन्दस्तन्नन्दनमहिमानमाकलय्य गोपा एवं स्वमनसि दध्युरित्याह ॥ ते त्विति ॥ औत्सुक्येन सहिता धीर्येषाम् । प्रोक्तोऽपि विशेषतोऽशेषाणां भक्तिरुदभूदिति विशेषद्योतकस्तुः । त्वौत्सुक्यधिय इति पदमेकम् । बह्वौत्सुक्यसहितचेतस्काः प्राक् । इदानीं च त्वं स्वानुभूतविलक्षणमन्यदौत्सुक्यं यस्यां सा त्वौत्सुक्या सा च धीर्येषां त इति वा । अन्यथा तोरेकस्यातिरेकः स्यात्स्याच्चान्वयः क्लेशेन । अधीश्वरं त्वधीश्वरमेव मत्वा ज्ञात्वा नोऽस्माकमधीश्वरो यद्यन्वग्रहिष्यत्तर्हि सूक्ष्मां स्वगतिं वैकुण्ठाख्यामुपाधास्यत् । दर्शयामासेत्युत्तरस्वारस्याददर्शयिष्यत् । लृङ् ॥ ११ ॥
सुमनोरञ्जिनी
औत्सुक्येन युक्ता धीर्येषां ते तथाविधा आसन् । कस्मिन्विषये औत्सुक्यं तेषामित्यतस्तत्सूचयति । अधीश्वरः सूक्ष्मां परैरज्ञेयां स्वगतिं स्वलोकं न उपाधास्यदपि प्रायशोऽस्मान्प्रापयिष्यतीति ॥ ११ ॥
इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम् ।
सङ्कल्पसिद्धये तेषां कृपयेदमचिन्तयत् ॥ १२ ॥
पदरत्नावली
इति एवं भूतं स्वानां ज्ञातीनाम्, सङ्कल्पमिति शेषः । ‘स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने’ इत्यमरः । अखिलदृक् सर्वज्ञः स्वयमेव विज्ञाय तेषां गोपानां सङ्कल्पसिद्धये सङ्कल्पितसिद्ध्यर्थम् ॥ १२ ॥
सत्यधर्मीया
स्वानां ज्ञातीनां गोपानामिति चिन्तितं, स च भगवान्विज्ञाय तत्सम्भावकं स्वयमखिलदृक् अखिलं पश्यतीति तदखिलदृक् । तं न रमादिवदन्याधीनमिति स्वयमित्यनेन सूचयति । तेषां गोपानां सङ्कल्पसिद्धये सङ्कल्पितसिद्ध्यर्थं कृपयेदमचिन्तयत् ॥ १२ ॥
सुमनोरञ्जिनी
स्वानां स्वेषां स्वज्ञातीनाम् । इति इममभिप्रायं विज्ञाय तेषां संकल्पसिद्धये इदं वक्ष्यमाणम् ॥ १२ ॥
जनो वै लोक एतस्मिन्नविद्याकामकर्मभिः ।
उच्चावचासु गतिषु न वेद स्वगतिं भ्रमन् ॥ १३ ॥
पदरत्नावली
इदमित्युक्तं विवृणोति जन इति । एतस्मिन् लोके अविद्याकामकर्मभिस् तदादिभिर् उच्चावचासु उत्कृष्टापकृष्टासु गतिषु भ्रमन् परिवर्तमानो जनः स्वगतिं स्वप्राप्यं न वै वेद नैव जानाति ॥ १३ ॥
सत्यधर्मीया
इदमित्युक्तमिदमिति वदति ॥ जन इति । एतस्मिल्लोकेऽविद्याकामकर्मभि-स्तदादिभिरुच्चावचासु गतिष्वनेकभेदकगतिषु । उदक् चावाक् चेति द्वयोरुच्चावचेत्यादेशौ । मयूरव्यंसकादिरिति साधुः । उच्चावचं नैकभेदमित्यमरः । भ्रमन्स्वगतिं न वेद स्वप्राप्यं न वेद
॥ १३ ॥
सुमनोरञ्जिनी
एतस्मिन् लोके अविद्याकामकर्मादिभिः । उच्चावचासु उत्कृष्टापकृष्टासु । गतिषु योनिषु भ्रमन् । स्वां स्वकीयां गतिं, गम्यत इति गतिस्तां स्वप्राप्यं परब्रह्मरूपं वस्तु न विदुः ॥ १३ ॥
इति सञ्चिन्त्य भगवान् महाकारुणिको विभुः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ १४ ॥
पदरत्नावली
लोकं वैकुण्ठम् । कीदृशम् ? तमसः प्रकृतेः परं विलक्षणम्, अप्राकृतमित्यर्थः
॥ १४ ॥
सत्यधर्मीया
एवं स्वयं सञ्चिन्त्य महाकारुणिक इति कृपया गोपानां, तमसः प्रकृतेः परं विलक्षणमप्राकृतं स्वलोकं वैकुण्ठं दर्शयामास । अयमप्येको गोपालश्चेत्कथमेतादृशं सामर्थ्यमित्यप्याह ॥ आस इति ॥ लोक इत्यादि(?) तं परं दर्शयामासेत्यन्वयः ॥ १४ ॥
सुमनोरञ्जिनी
इति सञ्चिन्त्य गोपानां गोपान्प्रति स्वं लोकं वैकुण्ठाख्यं तमसः प्रकृतेः परं विलक्षणम् । अप्राकृतमिति यावत् । दर्शयामास । तत्र निमित्तं महाकारुणिक इति ॥१४॥
सत्यं ज्ञानमनन्तं यद् ब्रह्म ज्योतिः सनातनम् ।
यद्धि पश्यन्ति मुनयो गुणापाये १समाहितम् ॥ १५ ॥
पदरत्नावली
‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादिवेदवेद्यविष्ण्वभिन्नः कृष्ण इति स्पष्टमाचष्टे सत्यमिति । सत्यमपराधीनस्वरूपम् । ‘सत्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णे न चापरे’ इत्यादेः । ‘सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते’ इत्युक्तेः, सत् प्रजननरूपसद्भावां यापयतीति, अस्ति देवदत्त इत्युक्ते जीवतीति प्रतीतेर् अस्तेः शत्रन्तस्य सदिति रूपमुपेत्य सत्त्वं जीवनं यापयतीति ‘षद्लृ विशरणगत्यवसादनेषु’ इति धातोर्भावे क्विबन्तत्वमुपेत्य सत्त्वं जगत्प्रवृत्तिरूपगतिं विशरणं च यापयतीति सत्यपदेन विष्णोर्जगत्स्रष्टृत्वं जगज्जीवनप्रदत्वं जगत्प्रवृत्तिहेतुत्वं जगत्संहर्तृत्वं च ध्येयम् । तदुक्तमाचार्यैः ‘सद्भावं यापयेद् यस्मात् सत्यं तत् तेन कथ्यते’ इत्यादि । ज्ञानं स्वपर-गताशेषविशेषविषयकावबोधात्मकम् । अनन्तं देशकालगुणपरिच्छेदरहितम् । ब्रह्म गुणपूर्णम् । ज्योतिः स्वयमेव द्योतत इति प्रकृष्टप्रकाशस्वरूपम् । ‘परं ज्योतिरुपसम्पद्य’ इत्यादिश्रुतेः । सनातनं पुराणम् । ‘अजो नित्यः शाश्वतोऽयं पुराणः’ इत्यादेः । गुणापाये सत्त्वादिगुणनिवृत्तौ, आवरणापसरणे इति यावत् । समाहितं हृदयगुहानिहितं विष्णुं मुनयः पश्यन्ति । ‘यो वेद निहितं गुहायाम्,’ ‘इदं ज्योतिर्हृदय आहितं यत्’ इत्यादेः । ‘हिरण्मये परे कोशे विरजं ब्रह्म निष्कलं तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः’ इत्यादिश्रुतिशतं हिशब्द आघोषयति ॥ १५ ॥
सत्यधर्मीया
गोपा ब्रह्मणो लोकं ददृशुः । तच्च कृष्णादनन्यदित्याह ॥ सत्यमिति । सकलसद्भावप्रापकमबाधितमिति वा । ज्ञानं संविदात्मकमनन्तमन्तत्रयशून्यं नित्यमबद्धं वा ब्रह्म गुणपरिपूर्णं ज्योतिः प्रकाशरूपम् । ज्योतिर्जातं जगदूतिरूपं यस्मिंस्तदिति वा । सनातनं पुराणं वेदवेद्यं वा गतम् । सत्यं ज्ञानमनन्तं ब्रह्म । परं ज्योतिः शाश्वतोऽयं पुराण इत्यादेः । यत्सर्वत्र यातीति व्याप्तमिति यत् । बाह्ये यथा तथाऽन्तरपीति यद्वा । यथोक्तं बृहद्भाष्ये । यथा बाह्ये तथैवान्तस्ततो यदिति चोच्यत इति । ततत्वादन्यथाज्ञानं तीत्येव समुदीर्यते । तस्याधस्तात्सदात्मा तु सादयन्ननृतं हरिः । उपरिष्टाच्च यन्नामा ह्यनृतं नाशयन्स्थित इति बृहद्भाष्यात्सत्यशब्दार्थो ज्ञेयः । भावेऽप्यभावे सूर्यादेर्जीवानां विष्णुरेव हि । ज्योतिस्तथाऽप्यभावे तु तज्ज्ञेयं हि विशेषत इति बृहद्भाष्याज्ज्योतिरर्थोऽनुसन्धेयः । गुणापाये गुणनिवृत्तावावरणापसरण इति यावद् यन्मुनयः गतम् । न दूरे तदित्याह । समाहितं हृदयगुहानिहितं पश्यन्ति । हीतीदं ज्योतिर्हृदय आहितं यदिति । तथा हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुरित्यादिमानान्यत्र भवन्तीति सूचयति ॥ १५ ॥
सुमनोरञ्जिनी
कीदृशं लोकमित्यतस्तद्विशिनष्टि ॥ यद् यत्र ब्रह्मज्योतिर् ब्रह्माख्यं स्वप्रकाशं वस्तु । समाहितं सम्यक् सन्निहितं तमिति । कीदृशं ब्रह्म । सत्यं जगत्स्रष्टृत्वादिसाधुगुणं, ज्ञानं ज्ञानरूपं जानातीति वा । सर्वज्ञमित्यर्थः । मुनयो ज्ञानिनः गुणापाये सत्वादिगुणापाये सत्वादि गुणात्मकदेहेऽपगमे सति यत्पश्यन्ति तथाविधमित्यर्तः ॥ १५ ॥
ते तु ब्रह्मह्रदान्नीता१ मग्नाः कृष्णमचक्षत ।
ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥ १६ ॥
पदरत्नावली
ते गोपा ब्रह्मह्रदं कृष्णसन्निधानविशेषविशिष्टं ह्रदं नीता मग्ना ब्रह्माभिन्नं कृष्णमचक्षत । ब्रह्मणो लोकं वैकुण्ठं च ददृशुः । यत्र ह्रदे पुरा उत्तरत्र मग्नोऽक्रूरः श्वफल्कजः ब्रह्माख्यं कृष्णमध्यगाद् अधिगमिष्यति ‘स्यात् प्रबन्धे चिरातीते निकटागामिके पुरा’ इत्यमरः । अतिनिश्चितत्वादध्यगादिति लङ् भविष्यदर्थे ध्येयः । तदुक्तमाचार्यैः ‘एतायामोपगव्यन्तः’ इति श्रुतिभाष्यावसरे ‘ये सखायस्त्वरिता एत देवा उपायाम पशुवत् तद्वशस्थाः । गव्यन्त उक्ता अतिनिश्चितेऽर्थेऽभूते शब्दश्चेत्याह सूत्रं परेशः’ इति । हे सखायो देवा आ इत सत्वरमायात, इन्द्रियादिकं प्रेरयतेति यावत् । किमर्थं ? गव्यन्तः गोवदाचरन्तो वयमुप उपगम्य अयाम प्राप्स्याम इति श्रुत्यर्थः । अयामेति ‘या प्रापणे’ इति धातोर्लङ् अतिनिश्चितार्थे उक्तम् । ‘एष्यत्तु निश्चितं यत् तदतीतत्वेन भण्यते’ इत्युक्तेः । भगवान् कालिन्दीह्रदे गोपान् स्नापयित्वा दिव्यचक्षुर्दत्वा पश्चात् सत्यज्ञानादिगुणपूर्णं परममङ्गलस्वरूपं परब्रह्माभिन्नं स्वं स्वलोकं च दर्शयामासेत्यवसेयम् ॥१६॥
सत्यधर्मीया
कथं तं लोकं ददृशुरित्यत आह ॥ त इति ॥ ते गोपा नीताः कृष्णेन स्वस्थलाद्ब्रह्मह्रदात्तं प्राप्य तत्र मग्ना आदौ सत्यादिपदवाच्यब्रह्माभिन्नं कृष्णमचक्षतापश्यन् । अनन्तरं ब्रह्मणः कृष्णस्य लोकं ददृशुः । पुरा यत्र ब्रह्मह्रदः कृष्णमध्यगात् । कथायाः प्राक्तनत्वाद्ग्रथनस्य शुकपरीक्षित्संवादेनानन्तरिकत्वात्पुरेति सम्भवतीत्येके । चक्रवद्वर्तमानत्वाद्भूतपूर्वगत्येत्यपरे । यत्र ते गोपा ददृशुस्तत्राक्रूरः श्वफल्कजः पुरोत्तरत्र । अध्यगादधिगमिष्यति । अतिनिश्चितत्वाल्लङुपपद्यते । यथोक्तमेतायामोपगव्यन्तमित्यृग्भाष्यटीकयोः । अतिनिश्चितेऽर्थे भूतशब्दश्चेत्याह सूत्रं परेशः । नन्वयामेति कोऽयं शब्दः । यातेर्लङि रूपमेतत् । लङ् भूते वर्तते । न चात्र तत्सम्भवतीत्यत आह ॥ अतीति ॥ अतिनिश्चितेऽपि धात्वर्थे भूतत्ववाची शब्दः प्रयोक्तव्य इत्यस्यार्थस्य प्रतिपादकं सूत्रमाहेत्यर्थः । अन्यत्र एष्यत्तु निश्चितं यत्तदतीतत्वेन भण्यत इतीति । पुरा पुराणे निकटे प्रबन्धातीतभाविष्वितीति विश्वः । तत्र स्नापयित्वा दिव्यं चक्षुश्च दत्वाऽनन्तरं स्वं दर्शयित्वा तद्योग्यतां वितार्य ब्रह्मणः स्वस्य लोकं दर्शयामास तान्प्रतीति भावोऽवसेयः । ब्रह्मह्रदं नीता इति पाठस्तु स्फुटार्थो युक्तश्चेति । तुर्विशेषद्योतकः ॥ १६ ॥
सुमनोरञ्जिनी
ननु गोपाः किमत्रैव व्रजे स्थिताः सन्तो ब्रह्मलोकं ददृशुः? नेत्यर्थः । ते तु नन्दादयो गोपा ब्रह्मह्रदं तन्नामकं यमुनायां विद्यमानं ह्रदं नीताः प्रापिताः सन्तस्तत्र मग्नास् तदैव ब्रह्मणो लोकं ददृशुः । तत्र स्थितं कृष्णम् अचक्षत ददृशुः । यत्र ब्रह्मह्रदे पुरा पूर्वस्मिन् ब्रह्मकल्पेऽक्रूरः कृष्णाख्यं ब्रह्माध्यगात् प्रत्यक्षीचकार तद्ब्रह्मह्रदमिति पूर्वेणान्वयः । अनेन ब्रह्मह्रदसंज्ञाया निमित्तमुक्तं भवति ॥ १६ ॥
पाङ्घरी श्रीनिवासाचार्यकृतविरोधोद्धारस्
ते त्विति ॥ ते गोपाः ॥ तु भेदेन । तुर्विशेषे तथा भेदे स्वसिद्धान्तेऽवधारणे इत्यभिधानात् । ब्रह्मह्रदं विरजास्थानीयं ब्रह्मप्रतिपादकं ह्रदम् । गम्भीरोदकमिव वेदान्तशास्त्रम् । नीताः प्रापिताः ॥ मग्नास् तत्र निष्णाता इत्यर्थः । कृष्णम् अचक्षत । ज्ञातवन्तः ॥ ब्रह्मणो गुणपूर्णस्य हरेः । लोकं स्थानम् । ददृशुः साक्षादपश्यन् । यत्र लोके । पुरा पुरातनः । पूर्वकल्पीय इति यावत् ॥ अक्रूरः श्वाफल्किः ॥ अध्यगात् प्राप । तं लोकमित्यन्वयः ।
यद्वा यत्र ह्रदे पुरा गोपेभ्यो वैकुण्ठप्रदर्शनात्पूर्वम् । अक्रूरः श्वाफल्किः । स्नातः सन् । अध्यगाद् भगवत्साक्षात्कारमाप । तं ब्रह्मह्रदं ब्रह्मदर्शनसाधनत्वाद्ब्रह्मह्रदनामकं यमुनाऽगाधजलाशयं नीतास्ते गोपा मग्नास्तत्र स्नाताश्च सन्तो ब्रह्मणो गुणपूर्णस्य । लोकं स्थानं ददृशुः । तत्र कृष्णं चाचक्षतापश्यन्नित्यर्थः ।
अथवा यत्र ब्रह्मलोके । अक्रूरः शृृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमान इति श्रुतेर् अनुग्रः । जीवन्मुक्तगण इति यावत् । अध्यगाद् अधितस्थे । तं ब्रह्मणश्चतुर्मुखस्य । लोकं सत्य-लोकम् । तत्र ब्रह्मलोके । ददृशुः । तु तदनन्तरम् । ब्रह्मह्रदं सत्यलोकपरिखाभूतगङ्गाऽगाधजलाशयम् ।
यद्वा ब्रह्म गुणपूर्णं हरिम् । ह्रदा ते प्रतिपादयति । तत् । ह्रद अव्यक्ते शब्दे । पचाद्यच् पृषोदरादित्वाद्ध्रस्वः । ब्रह्मज्ञानमित्यर्थः । पुरा कृष्णदर्शनात्पूवम् । नीताः प्रापिताः । ततस्तस्मिन्मग्ना निष्णाताः सन्तो ब्रह्मप्रापकादजलाज् ज्ञानाद्वा ब्रह्मणो लोकं स्थानमपरोक्षं वा नीताः प्रापिता ददृशुः कृष्णं चाचक्षतापश्यन् । संपूजितं ब्रह्मलोकं चतुर्थं कञ्जोद्भवेनाथ परं स्वधामेति महाभारततात्पर्यनिर्णयोक्त्या कृष्णस्य पूर्वापररूपाणामैक्येन तत्र सद्भावात्परममुक्तस्थानप्रदर्शने गोपानां लिङ्गावृत्तत्वेनानर्हत्वात् । सत्यलोकस्थं स्वकं जीवन्मुक्तस्थानं प्रदर्शितवानिति भावः । अन्यथाऽक्रूरस्यैष्यत्प्राप्त्याऽध्यगात्पुरेत्यस्य विरोधः ॥ १६ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्याने श्री पाङ्घरी श्रीनिवासाचार्यकृते
विरोधोद्धारे षड्विंशोऽध्यायः ॥ १०-२६ ॥
नन्दादयस्तु तं दृष्ट्वा परमानन्दनिर्वृताः ।
कृष्णं च तत्र छन्दोभिः स्तूयमानं सुविस्मिताः ॥ १७ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे षड्विंशोऽध्यायः ॥
पदरत्नावली
परमानन्देन निर्वृता निभृताः ॥ १७ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे षड्विंशोऽध्यायः ॥
सत्यधर्मीया
नन्दादयो गोपाः । तुशब्दस्तद्दर्शनतरतमभावो योग्यतातारतम्येनेति विशेषसूचकः । तं लोकं दृष्ट्वा तत्र छन्दोभिर्वेदैः स्तूयमानं कृष्णं च दृष्ट्वा सुविस्मिताः सन्तः परमानन्दनिर्वृताः केचन परमानन्दाश्च केचन निर्वृता आनन्दिनश्चाभवन्नित्यन्वयो ज्ञेयः । ये परं स्वान्यज्जगद्दर्शनं कृत्वोपर्यागमनात्परमानन्दाः पुनर्मायया बन्धनं कृष्णं दृष्ट्वा निर्वृताः सुखिता विस्मिताश्च बभूवुरिति शेषः । परमानन्देन निर्वृता निभृताः । परमानन्दो नितरां वृतो यैरिति वा ॥ १७ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे षड्विंशोऽध्यायः ॥ १०-२६ ॥
सुमनोरञ्जिनी
नन्दादयो गोपा अपि तं वैकुण्ठलोकं, तत्र छन्दोभिर् वेदैः स्तूयमानं कृष्णं च दृष्ट्वा सुविस्मिताः, परमानन्देन निर्वृतास् तृप्ता आसन् ॥ १७ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्यां षड्विंशोऽध्यायः ॥ १०-२६ ॥