गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे
॥ अथ पञ्चविंशोऽध्यायः ॥
श्रीशुक उवाच–
गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे ।
गोलोकादाव्रजत् कृष्णं सुरभिः शक्र एव च ॥ १ ॥
पदरत्नावली
‘तस्मिन्नप्यसुरावेशे गते प्रकृतिरेव तु’ इति वचनाद् देवस्वभावानुगुण्येन सुरेन्द्रकृतविविधस्तुतिभिः सुरभिक्षीरधाराद्यभिषेकेण च कृष्णमाहात्म्यस्यातिसिद्धत्वान्मुमुक्षुभि- स्तस्मिन्नतिशयितं प्रेम विधेयमिति शिक्षयत्यस्मिन्नध्याये । तत्रादौ सुरभीन्द्रयोरागमनमवगमयति गोवर्धन इति ॥ गवां लोको हि गोलोको गोनिवासस्थानं तस्मात् सुरभिः कामधेनुः, शक्रस्तु स्वर्गलोकात् । ‘दिग्दृष्टिदीधितिस्वर्गवज्रवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः’ इति हलायुधः । सुरेशादपि सुरभिपुरस्कृतिस्तु हरेरिदानी गोगणगोप्तृत्वादिति बोध्यम् ॥ १ ॥
सत्यधर्मीया
अत्यल्पस्त्वसुरावेश इत्युक्तासुरावेशवशकार्यं शचीशस्य निरूप्याधुना तस्मिन्नप्युसुरावेशे गते प्रकृतिरेव त्वित्यन्तशः शंसितसुत्रामा किं तत्राकरोदनन्तरं वारिदवारणं कृत्वा वारणेन्द्रग इति परीक्षकपरीक्षिन्मानसीं शङ्कामपाकुर्वन्हरौ निरन्तररतिर्मुक्तिसाधनमिति बोधयत्यध्याये । तत्रादौ सुरभ्याः सुरर्षभस्यागमनादागमनमवगमयति शुक इति कथयति ॥ श्रीशुक इति ॥ गोवर्धने शैले धृते सति । आसारात्स्वाज्ञया पयोमुङ्मुक्ताद्धारासम्पाताद्व्रजे येन रक्षिते सति गोलोकात्स्वर्ग-लोकात् । गोः स्वर्गवज्राम्बुभूमिष्विति विश्वः । गोरित्येतेन पूर्तेर्यद्गोलोकादित्यूचे तेन को वाऽवादी-दासारासारतामिव व्रजरक्षणं चेत्यतः स्वस्य गोभिः सर्वनेत्रैर्लोकोऽवलोकस्तस्मादित्यबोधयदर्थमिति तात्पर्यमवधेयम् । दृष्टानुभाव इत्युत्तरस्वारस्यं चैवं सति भविष्यतीति ज्ञेयम् । आचार्या अपि सहस्र-गुरुगाधगुमग्य्रादिति सूचितवन्तः । सुरभिः कामधेनुः शक्रः पृथक् पृथगन्वयः । इन्द्रादपि सुरभि-पुरस्कृतिरधुना मधुनाथस्य तत्पतित्वं निमित्तीकृत्येति ज्ञेयम् । गवां लोको हि गोलोको गोनिवासस्थानं तस्मात्सुरभिरित्यप्यर्थः । स च स्वर्गोपरितनः । यथोक्तं भारत आनुशासनिके । सुरभिरुवाच–
वरेण भगवन्मह्यं कृतो लोकः पितामह ।
एष एव वरो मेऽद्य यत्प्रीतोऽस्मि तवानघ ।
ब्रह्मोवाच—
त्रयाणामपि लोकानामुपरिष्टान्न वत्स्यसि ।
मत्प्रसादाच्च गोलोको विख्यातः स भविष्यति ।
निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते ।
इत्यारभ्याष्टाशीतितमाध्यायसमाप्तिपर्यन्तमिन्द्रं प्रति ब्रह्मवाण्याम् । न च ‘‘स्वर्गादूर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः । तस्योपरि गवां लोकः’’ इति हरिवंशवचनविरोधः । त्रयाणामपि लोकानामिति सामान्यवचनस्य विशेषपर्यवसानसम्भवात् । दृग्दृष्टिदीधितिस्वर्गवज्रवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृत इति यादवो हलायुधोऽप्येवम् । एवकारेण च योऽसुरावेशत आसारैर्बबाधे समाधेयोऽयं माधव इत्यमा धेनुनागतासुरावेश आव्रजदिति द्योतयति ॥ १ ॥
सुमनोरञ्जिनी
एवंविधमहामाहात्म्यप्रदर्शनेन विगतमदेन्द्रसंस्तुत्या सुरभिकृतक्षीराभिषेचनेन च प्रीतमनसः श्रीकृष्णस्येन्द्रं प्रत्यभयदानं निरूप्यतेऽस्मिन्नध्याये । तत्र पश्चात्तप्तस्य शक्रस्य श्रीकृष्णक्षमापनप्रकारमाह ॥ गोवर्धन इति ॥ श्रीकृष्णेन गोवर्धने तन्नामके शैले धृते । व्रजे आसाराद् धारासंपाताद् रक्षिते सति यः कृतापराधः स एव शक्रः गोलोकात् स्वर्गलोकात् । सुरभिश्च कामधेनुर् गोलोकात् तत्संज्ञकस्थानाद् आव्रजत् । तत्र सुरभेरागमनं वृष्टिभयात्स्वजाति-रक्षणहर्षेणेति ज्ञेयम् । अत एवोक्तं रक्षिते व्रज इति ॥ १ ॥
विविक्त उपसङ्गम्य व्रीडितः कृतहेलनः ।
पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ॥ २ ॥
पदरत्नावली
विविक्ते एकान्ते । ‘विजिर् पृथग्भावे’ इति धातुः ॥ २ ॥
सत्यधर्मीया
कृतहेलनः कृतं हेलनमनादरो येन स तथेति व्रीडितो लज्जितः । विविक्ते एकान्ते । विजिर् पृथग्भावे क्तः । विचिर् विवेचन इत्यतो वा क्तः । विविक्तौ पूतविजनावित्यमरः । विविक्तं त्रिष्वसम्पृक्तरहःपूजाविवेकिष्विति भानुः । एनं कृष्णमुपसङ्गम्यार्कवर्चसा किरीटेन पादयोः पस्पर्श ॥ २ ॥
सुमनोरञ्जिनी
विविक्ते एकान्ते । तत्र हेतुर् व्रीडित इति ॥ कुतः । कृतं हेलनम् अवज्ञानं यस्य सः । पस्पर्श नमश्चकारेति यावत् ॥ २ ॥
दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः ।
नष्टत्रिलोकेशमद इदमाह कृताञ्जलिः ॥ ३ ॥
पदरत्नावली
इदानी दृष्टः पूर्वं श्रुतश्चानुभावो येन स तथा । नष्टोऽपगतस् त्रिलोकेश इति मदोऽहन्ता येन स तथा ॥ ३ ॥
सत्यधर्मीया
अमिततेजसः कृष्णस्य । इदानीं दृष्टः प्राक् श्रुतश्चानुभावो येन सः । नष्टः, त्रिलोकेश इति मदोऽहन्ता यस्य सः । तस्मिन्नप्यसुरावेशे गते इति तात्पर्यभूमिकेदं विशेषणमिति मन्तव्यम् । कृताञ्जलिर्बलाहकशृङ्खलामोचनस्य करकार्यत्वाद्वाऽऽज्ञायाश्च जिह्वाकार्यत्वात्कृताञ्जलि-रिदमाहेत्युक्तिरिव नष्टत्रिलोकेशमद इत्यहङ्कारस्य मनःप्रभेदत्वात्तच्छुद्ध्युक्तिरिति मन्तव्यम् ॥ ३ ॥
सुमनोरञ्जिनी
अस्य श्रीकृष्णस्य । इदानीं दृष्टः पूर्वं श्रुतो ऽनुभावो येन सः । नष्टः, अहं त्रिलोकेश इति मदो यस्य सः ॥ ३ ॥
इन्द्र उवाच–
विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् ।
मायामयोऽयं गुणसम्प्रवाहो न विद्यते तेऽग्रहणानुबन्धः ॥ ४ ॥
तात्पर्यम्
विशुद्धसत्वं विगतशुद्धसत्वम् । यस्मात्त्रिगुणसम्बन्धस्त्वयि न विद्यते । १यत्राग्रहणमनुबद्धम् । तपोमयं ज्ञानात्मकम् ॥ ४ ॥
पदरत्नावली
शुद्धं रजस्तमोभ्यामननुविद्धं सत्त्वमपि यत्र नास्ति तद् विशुद्धसत्त्वं तव धाम स्वरूपम् । ‘तेजः शक्तिः स्वरूपं च गृहं धामेति कथ्यते’ इति शब्दनिर्णयः । शान्तं मङ्गलरूपम् । ‘शान्तिः प्रशममङ्गले’ इत्यभिधानम् । शान्तं सुखपूर्णं च । ‘शान्तः पूर्णसुखत्वतः’ इत्यादेः । तपोमयं ज्ञानात्मकम् । ‘यस्य ज्ञानमयं तपः’ इत्यादिश्रुतेः । ‘तप आलोचने’ इति धातुः । स्वभक्तसुरसत्तमानां ध्वस्ते रजस्तमसी येन तत् तथा । ‘सात्त्विकाः सात्त्विकास्तत्र तात्त्विकाः परिकीर्तिताः । तेषां च सात्त्विकाः शेषगरुत्मद्रुद्रतत्स्त्रियः । ततोऽपि देवी ब्रह्माणी ब्रह्मा चैव ततः स्वयम्’ इत्यादेः । माया भगवदिच्छैव मयं प्रधानं निमित्तं यस्य स मायामयो गुणसम्प्रवाहस् त्रिगुणसम्बन्धोऽयं ते त्वयि न विद्यते, यस्मात् तस्मादिति शेषः । त इति षष्ठी सप्तम्यर्थे । गुणसम्प्रवाहं विशिनष्टि अग्रहणानुबन्ध इति । अग्रहणमज्ञानमनुबध्नातीति तथा । एतदुक्तं भवति । भगवदिच्छानिमित्तो हि सत्त्वादित्रिगुणसम्प्रवाहो जीवजातस्य विद्यत इति तत्कार्य-मज्ञानमपि तत्र सुतरामुपपद्यते । कालत्रयेऽपि भगवदिच्छया नितरां नियम्यो हि त्रिगुणः कथं खलु तमेव सम्बध्यादिति तत्कार्यमज्ञानमपि तस्मिन् नैव युज्यते । तपोमये पूर्णज्ञानात्मके च त्वयि कथमज्ञानं युज्येतेति । अत्राचार्यैर् विशुद्धसत्त्वं निर्मलसत्त्वगुणयुक्तम् इत्याद्यपव्याख्यान-प्रत्याख्यानायैवं व्याख्यायि– ‘विशुद्धसत्त्वं विगतशुद्धसत्त्वम् । यस्मात् त्रिगुणसम्बन्धस्त्वयि न विद्यते । यत्राग्रहणमनुबद्धम् । तपोमयं ज्ञानात्मकम्’ इति ॥ ४ ॥
सत्यधर्मीया
विशुद्धसत्त्वमिति श्लोके धाम भगवद्गृहं शुद्धसत्त्वात्मकमत एव प्रकृतिविकृतं तथा तपोमयं कृच्छ्रचान्द्रायणादिप्राप्यमिति च प्रतीयते । तथा गुणसम्प्रवाहः सत्त्वगुणकार्यप्रवाहो न पारमार्थिको मायामय इति ग्रहणानुबन्धः । ज्ञानं ग्रहणं तेनानुबद्ध्यते सम्बध्यते विषयीक्रियत इति यावत् । ततः प्रपञ्चः प्रातीतिको मिथ्याभूत एवेति प्रतीयत इत्यतस्तत्तात्पर्यार्थमाह ॥ विशुद्ध-सत्त्वमित्यादिना । यस्मात्त्रिगुणसम्बन्ध इत्यत्रत्यत्रिगुणपदयोर्विशेषणसमासः । त्रयश्च ते गुणाश्च तेषां सम्बन्धस्त्वयि न विद्यते । विगतं शुद्धं रजस्तमोसंवलितं सत्त्वं गुणो यस्मिन्निति विग्रहः सूचितः । मूले त इति षष्ठी सप्तम्यर्थ इति सूचितं त्वयीति । सम्बन्धेति सम्प्रवाहपदप्रतिरूपम् । ते ग्रहणानुबन्ध इत्यत्र न ग्रहणमिति पदमपि त्वकारप्रश्लेषेणेत्याह ॥ यत्राग्रहणमनुबद्धमिति ॥ अग्रहणमज्ञानं यत्र मायामये गुणसम्प्रवाहेऽनुबद्धं सम्बद्धं तपोमयं ज्ञानात्मकम् । तप आलोचन इति स्मृतेः ॥
ततश्चायं श्लोकार्थः ॥ हे देव तव धाम स्वरूपं देहो वा । तेजः शक्तिः स्वरूपं च गृहं धामेति चोच्यत इति चतुर्थतात्पर्योक्तेः । धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोरिति विश्वः । विशुद्धसत्त्वं शुद्धं रजस्तमोऽमिश्रं सत्त्वं गुणस्तद्रहितम् । आन्तरङ्गिको भावश्च सत्त्वं सद्गुणरूपत इति बृहद्भाष्ये सदा सर्वगुणाढ्यत्वात्सत्त्वो हरिरुदीर्यत इति कापिलेय इति तृतीयतात्पर्ये चोक्तेः सकलगुणमित्यपि ज्ञेयः । शान्तं बहिः कृतस्वापराधः क्षन्तव्य इति समाधाननिधानमिति, अन्तस्त्वस्मदादिसुखनिर्णायकं मङ्गलरूपं वा । शान्तिः प्रशममङ्गल इत्यभिधानम् । तपोमयं ज्ञानात्मकम् । यद्यपि सत्त्वस्यैव यदा नावकाशः काऽऽशा रजस्तमसोः सत्ताशङ्कायामिति तन्न वक्तव्यम् । तथाऽपि मन्दानुजिघृक्षयाऽऽह ॥ ध्वस्तरजस्तमस्कमिति ॥ ध्वस्तेऽत्यन्तासती रजस्तमसी येन तत् । यद्वा ध्वस्ते रजस्तमसी प्रचुरस्वकार्याजनके यस्य स को ब्रह्मा येन तदिति । शुद्धसत्त्वश्चतुर्मुख इत्युक्तेः । प्रथमेऽसौ पदादाविति सत्त्वं द्वितीये करकादिः । मायामयो माया त्वत्प्रज्ञा सैव मयं प्रधानं निमित्तमिति यावद् यस्य सः । मायेति ज्ञप्तिरुद्दिष्टा, मयं प्रधानमुद्दिष्टमिति बृहद्भाष्योक्तेः । गुणसम्प्रवाहस्तत्सम्बन्धोऽयं ते त्वयि न विद्यते सन्नेत्यर्थः । यस्मात्तस्मात्तव धाम तथा गुणसम्प्रवाह अग्रहणानुबन्धोऽग्रहणमज्ञानं तस्यानुबन्धः सम्बन्धो जनकतारूपो यस्य सः । एतेन कार्यमज्ञानं नास्ति ततो नियमेन तज्जनको गुणसम्प्रवाहो नास्तीत्युच्यत इति सूचयति
॥ ४ ॥
सुमनोरञ्जिनी
किमित्याहेति तत्राह ॥ विशुद्धेति । तव धाम स्वरूपम् । कीदृशम् । शान्तं सुखपूर्णम् । तपः ज्ञानात्मकम् । तदुक्तं तपोमयं ज्ञानात्मकमिति । विशुद्धसत्वं विगतशुद्ध- सत्वगुणम् । वि निषेधे पृथग्भाव इति वचनात् । अत एव ध्वस्तरजस्तमस्कम् । ध्वस्ते दूरीकृते रजस्तमसी येन तम् । त्रिगुणसम्बन्धशून्यमित्यर्थः । यस्मात्त्रिगुणसम्बन्धस् त्वयि न विद्यते तस्मात् । अयं मायामयस् त्वदिच्छानिर्मितः । गुणानां सत्वादीनां संप्रवाहः कार्यभूतः संसारस् त्वयि न विद्यते । यस्मात्त्वं तपोमयो ऽतोऽपि त्वयि गुणसंप्रवाहो न विद्यत इत्यभिप्रेत्य गुणसंप्रवाहरूपं संसारं विशिनष्टि ॥ अग्रहणेति ॥ अग्रहणमनुबन्धो निमित्तं यस्य सः । ज्ञानात्मके त्वय्यज्ञाननिमित्तः संसारः कथंकारं स्यादिति भावः । तदेतत्सर्वमाकूतमाविष्कृतमाचार्यचरणैः - ‘‘विशुद्धसत्वं विगतशुद्धसत्वम् । यस्मात्त्रिगुणसम्बन्धस् त्वयि न विद्यते । यत्र अग्रहणम् अनुबन्धः । तपोमयं ज्ञानात्मकमि’’ति । विशुद्धसत्वात्मकमिति भ्रमनिरासाय व्याख्यातम् ॥ विगतेति ॥ वि निषेधे पृथग्भाव इति वचनात् । पूर्वोत्तरार्धयोर्हेतुहेतुमद्भावं प्रदर्शयति ॥ यस्मादिति ॥ षष्ठीतत्पुरुषभ्रमं निवारयति ॥ त्वयीति ॥ अग्रहणानुबन्ध इति पदं विगृण्हाति ॥ यत्रेति ॥ तपःशब्दस्यालोचनार्थतां निराह ॥ ज्ञानात्मकमिति । मयटस् तादात्म्यार्थत्वात् पूर्वार्धगततपोमयशब्दमुत्तरार्धगताग्रहणानुबन्धपदसान्निध्येन व्याकुर्वद्भिस्तपोमयत्वात्त्वय्यज्ञाननिमित्तसंसारो न सम्भवतीति हेतुहेतुमद्भावः सूचितो भवति
॥ ४ ॥
कुतो नु तद्धेतव ईश मन्युलोभादयो येऽबुधलिङ्गभावाः ।
अथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय ॥ ५ ॥
तात्पर्यम्
पुनर्गुणसम्प्रवाहस्य कारणत्वात्तद्धेतवः ॥ ५ ॥
पदरत्नावली
ननु गुणसम्प्रवाहो हरौ नास्तीति न वक्तुं शक्यम् । तत्कार्यक्रोधलोभादे-स्तदनुभवसिद्धस्य सुतरामनपलपनीयत्वात् । ‘खले न पर्षान् प्रतिहन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः’ इत्यादिश्रुतेरित्यतो न ते क्रोधादयो गुणसम्प्रवाहकृताः, किन्तु धर्मादिरक्षणाय दुष्टशिक्षणाय स्वेच्छा प्रदर्शितेत्याह कुत इति ॥ हे ईश तद्धेतवः सो गुणसम्प्रवाहो हेतुर्येषां त इति गुणसम्प्रवाहकारणका येऽबुधलिङ्गभावा अबुधानामज्ञानां लिङ्गभावो लिङ्गत्वं तेषां तेऽज्ञानिचिह्नभूता मन्युलोभादयः स्वकारणगुणसम्प्रवाहस्याभावादेव कुतस्तद्धेतवः स्युर्नु निश्चयः । तस्य गुणसम्प्रवाहस्य हेतवो मन्य्वादय इति च विग्रहो ज्ञेयः । आदौ गुणसम्प्रवाहेण मन्युलोभादयस्तैश्च पुनर्गुणसम्प्रवाहरूपः संसार इति मन्य्वादिदोषाणां पुनर्गुणसम्प्रवाहकारणत्व-सम्भवात् । तदुक्तमाचार्यैः - ‘पुनर्गुणसम्प्रवाहस्य कारणत्वात् तद्धेतवः’ इति । अथापि क्रोधाद्यभावेऽपि भगवान् भवान् दण्डमुपदेशादिरूपं सतां, हिंसारूपं चासतां बिभर्ति । ‘दण्डोऽस्त्री शासने राज्ञां हिंसाया लगुडे गुणे’ इति यादवः । कुत इत्याह धर्मस्येति ॥ धर्मस्य गुप्त्यै रक्षायै । धर्महिंसनशीलानां खलानां निग्रहाय संहाराय ॥ ५ ॥
सत्यधर्मीया
कुतो नु तद्धेतव इति श्लोके तत्पदार्थो गुणसम्प्रवाहश्चेन्मन्व्यादीनां तं प्रत्यहेतुत्वात्तथा स गुणसम्प्रवाह एव हेतुः साक्षान्न तान्प्रतीति तच्छब्दार्थानुसङ्कटये स्वयं तदर्थमाह ॥ पुनर्गुणसम्प्रवाहस्य कारणत्वात्तद्धेतव इति ॥ गुणसम्प्रवाहो हि द्वयीं गतिमवलम्बते महत्तत्त्वादिकारणीभूतमूलसत्त्वादिगुणसम्प्रवाह एकोऽवान्तरश्चापर इति । पुनरप्रथमे प्रश्ने व्यावृत्ता-ववधारण इत्युक्तेः । पुनर्गुणसम्प्रवाह इति पदमेकम् । पुनर्गुणसम्प्रवाहोऽप्रथमो द्वितीयोऽवान्तर इति । तस्य कारणत्वान्मन्व्यादीन्प्रतीति शेषः । तथा च सोऽवान्तरगुणसम्प्रवाहो हेतुर्येषामिति विग्रहः सूचितो भवति ॥ ततश्चायं मूलार्थः ॥ ननु गुणसम्प्रवाहो मयि नास्तीति शक्यते वक्तुम् । तत्कार्यकोपादेस्त्वदनुभवसिद्धस्यापलपितुमशक्यत्वादित्यतो न ते तत्कृताः किन्तु धर्मादिरक्षणायैव शिक्षणाय दुरात्मनां स्वेच्छा प्रदर्शिता इत्याह ॥ कुत इति ॥ हे ईश तद्धेतवोऽवान्तरगुण-सम्प्रवाहकारणका येऽबुधलिङ्गभावा अबुधानामज्ञानां लिङ्गभावो लिङ्गत्वं येषां तेऽज्ञानिचिह्नभूता मन्युलोभादयः स्वकारणगुणसम्प्रवाहस्याभावादेव कुतस्तद्धेतवः स्युर्नु निश्चयः । सोऽवान्तरगुणसम्प्रवाहो हेतुर्येषां त इति विग्रहान्वयौ ज्ञेयौ । अथापि शास्त्रविहितस्या-दोषावहत्वाद्भवान्भगवान्दण्डं वाचोपदेशरूपं सतां मध्यमानां तर्जनादिरूपमधमानां हिंसारूपं बिभर्ति । दण्डोऽस्त्री शासने राज्ञां हिंसायां लकुटे गुण इति यादवः । धर्मस्य गुप्त्यै रक्षायै मध्यमानामुभयरूपाणां धर्मस्य गुप्त्यै उत्तमेष्विवाप्रकाश्यत्वाद्गोपनाय खलानां निग्रहाय संहाराय । वस्तुतस्तु पुनर्गुणसम्प्रवाहस्येति कर्मणि षष्ठी । मन्व्यादीनामिति शेषः । आदौ गुणसम्प्रवाहस्तेन मन्व्यादयस्तैश्च पुनर्गुणसम्प्रवाह इति तेषां पुनर्गुणसम्प्रवाहकारणत्वसम्भवात् । पक्षममुं पुनः- शब्दव्यासनिर्देशावुपोद्बलयत इति ज्ञेयम् । मूले तु तद्धेतव इत्यत्र तस्य हेतव इति विग्रहो ज्ञेयः ॥ ५ ॥
सुमनोरञ्जिनी
यदा गुणसंप्रवाहो नास्ति तदा एतस्य गुणसंप्रवाहस्य हेतुभूता मन्युलोभादयो दोषाः कुतः स्युः । न सन्तीति भावः । कार्याभावेन कारणाभावानुमानात् । इतश्च न सन्तीत्याह ॥ अबुधेति ॥ यस्माद्ये मन्युलोभादयोऽबुधस्य अज्ञानिनः लिङ्गभावाश् चिह्नभूता अतोऽपि त्वयि ज्ञानात्मके न सन्तीति । अथापि भगवान् भवान् खलनिग्रहाय यद् दण्डं बिभर्ति तद् धर्मस्य गुप्त्यै रक्षणायैव न मन्युनेति भावः । अत्र तद्धेतव इति यन्मन्युलोभादेः संसारहेतुत्वमुक्तं तदयुक्तम् । मन्युलोभादेः शरीरसंबन्धाख्यसंसारानन्तरभावित्वेन तदयोगादित्याशङ्कां परिहर्तुमाहुराचार्याः ‘‘पुनर्गुणसंप्रवाहस्य कारणत्वात्तद्धेतवः’’ इति । तेषां संसारप्राप्त्यनन्तरभावित्वेऽपि पुनरुत्तरभाविगुण-सम्प्रवाहरूपसंसारं प्रति कारणत्वाद्युक्तं तद्धेतुत्वमिति भावः ॥ ५ ॥
पिता गुरुस्त्वं जगतामधीशो दुरत्ययः काल उपात्तदण्डः ।
हिताय चेच्छातनुभिः समीहसे मानं विधुन्वन् जगदीशमानिनाम् ॥ ६ ॥
तात्पर्यम्
‘असतां च सतां चैव हरिरेवानुशासकः । सतां तु श्रेयसे सैव ह्यनुशास्तिर्भविष्यति । असतां विपरीताय लङ्घयित्वाऽनुशासनमि’त्याग्नेये ॥ ६ ॥
पदरत्नावली
सर्वेशस्य हरेरेव विश्वशासकत्वं शंसति पितेति । पिता सर्वजगतां जनकः । गुरुः शास्त्रोपदेष्टा । जगतामधीशो निरवधिकमधिक इति दुरत्ययः कथञ्चिदप्यत्येतुमतिक्रमितुमशक्यः । कालः पुण्यपापफलपाचक इति तद्रूपी उपात्तदण्डो गृहीतशासनः । हिताय, सतामिति शेषः । स्वेच्छातनुभिः स्वेच्छोपात्ताप्राकृतमङ्गलकररूपैर्जगदीशा वयमिति मानिनां मानं दर्पं विधुन्वन् अपनयन् समीहसे चेष्टसे । ‘गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् । इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः’ इत्यादिकं तु विष्ण्वादेशानुसारेणावान्तरशासयितृविषयमिति न विरुणद्धीति ज्ञातव्यम्
॥ ६ ॥
सत्यधर्मीया
हिताय चेच्छातनुभिर्जगदीशमानिनामिति तत्सामान्यविहितता तथा मानविधूननं च प्रतीयते । ते च मानिनः सन्तोऽसन्तः सदसन्तश्चेति भिन्नाः । तेषां ते कथं युक्ते इत्यतो मानेनाधिकारिणो विविच्य तद्योग्यं फलं लपति ॥ असतां चेति ॥ यद्यपि भावप्रतीत्यधीनाऽभाव-प्रतीतिर्नियमेनेत्युक्तेः सतामसतामिति वक्तव्यम् । तथाऽपि तेषां भूयस्त्वात्किञ्च सतामपि तदावेशवशाशुभशासनीयताघटककार्यकारितायास्तत्पुरस्कृतिरिति मन्तव्यम् । असतां सतामसतां सतां चेति मध्यमानां च । नित्यानित्यं त्रिधा प्रोक्तमित्यादिवद्धरिरेवानुशासकः । हरेरनुशास्तिः सतां श्रेयसे भाविमङ्गलाय । चान्मध्यमानामनुबन्धनाय च भविष्यति । अन्वाश्रये बन्धने मोक्ष इति विश्वः । असतां विपरीताय तम आद्यनर्थाय । तत्र तन्त्रम् ॥ अनुशासनं लङ्घयित्वा स्थितानामिति । लङ्घयित्वा तत्तत्कर्मानुसारेण लङ्घनं कारयित्वा । सैव शास्तिर्विपरीताय भविष्यतीति वा ।
॥ अथ मूलार्थः ॥ सर्वोपाधिभिः सर्वानुशासिता त्वमेव तत्त्वत इति विज्ञापयति ॥ पितेति ॥ पिता जनकः । गुरुः शास्त्रोपदेष्टा, जगतामधीशो निरवधिकमधिक इति दुरत्ययो दुःसाधस्वातिक्रमः कालः पुण्यपापफलपाचक इति तद्रूपी । उपात्तदण्डो गृहीतशासनः । हिताय सतां, चात्सदसतां हिताहितफलायेच्छातनुभिः स्वेच्छोपात्तशरीरैर्जगदीशा वयं तदात्मका इति मानिनामसतां मानं मदं विधुन्वंस्तमसि तान्क्षिपंश्च समीहसे चेष्टसे । अमानं यथा तथा हिताय जगदीशमानिनां, तान्विधुन्वन्निति वा गतम् । गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् । इह प्रच्छन्नपापानां शास्ता वैवस्वतो यम इत्यादिकं त्ववान्तरत्वदाज्ञाकारिशासयितृविषयमिति न विरुणद्धीति हृदयम्
॥ ६ ॥
सुमनोरञ्जिनी
किञ्च त्वया कृतमनुशासनं सतां हितायैव खलानामेव निग्रहरूपमिति भावेनाह ॥ पितेति ॥ त्वं जगतः पिता जनकः । गुरुर् ज्ञानप्रदः । अधीशो नियामकः । दुरत्ययः । काले संहारकाले उपात्तः स्वीकृतः दण्डो येन सः संहर्तेति यावत् । यद्वा दुरत्ययः कालः संहारकः । स त्वम् इच्छातनुभिः स्वेच्छागृहीतावताररूपैर् जगदीशा वयमिति मानिनाम् । जगदीशेति सम्बोधनं वा । मानं गर्वं विधुन्वन् परिहरन् यत्समीहसे चेष्टाङ्करोषि तत्सतां हितायैव भवतीति शेषः ॥६॥
येऽस्मद्विधाः स्युर्जगदीश मानिन-
स्त्वां वीक्ष्य कालेऽभयमाशु तं मदम् ।
हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया
ईहा खलानामपि तेऽनुशासनम् ॥ ७ ॥
पदरत्नावली
बलवदसुरावेशादिनिमित्तेनासाधुभावानामपि स्वतः सात्त्विकप्रकृतीनां सतां भगवत्कृतो दण्डो भूयसे श्रेयस एव स्यात् स्वतोऽतिक्रूरकर्मैकशीलानां खलानां तु नित्यान्धतमस एव स्यादित्याशयेनाभिष्टौति य इति । हे जगदीश मद्विधा ये मानिनो दुरभिमानिनः स्युस् ते काले असुरावेशनिर्मोकसमये प्राप्ते अभयम् अस्मद्गर्वनिर्मूलनदक्षं त्वां वीक्ष्याशु येन मदेन त्वदपराधो व्यधायि तं मदं हित्वा अपस्मया निर्धूतगर्वा आर्यमार्गं सूरिसत्तमसिद्धान्तं प्रभजन्ति । खलानां तामसस्वभावानामपि ते तवेहा चेष्टा अनुशासनं शिक्षात्मिकैव । देवद्विषां तेषामार्यमार्गविद्वेषशील-त्वात् । तदुक्तमाचार्यैः ‘असतां च सतां चैव हरिरेवानुशासकः । सतां तु श्रेयसे सैव ह्यनुशास्तिर्भविष्यति । असतां विपरीताय लङ्घयित्वाऽनुशासनम् ॥ इत्याग्नेये’ इति ॥ ७ ॥
सत्यधर्मीया
त्वं किमध्यस्य इत्यत आह ॥ येऽस्मद्विधा इति ॥ जगदीशमानिन इति वा खण्डं वा पदम् । कालेऽसुरावेशकाले । काले तदनाविर्भावसमये च जगदीशमानिनोऽभयं त्वां वीक्ष्येति यथाक्रममन्वयो ज्ञेयः । तं मदं हित्वाऽऽर्यमार्गमपस्मया गतगर्वाः । प्रभजन्ति । खलानामसतामपि । तवेहा चेष्टाऽनुशासनं शिक्षात्मिकैव नास्मद्वदार्यमार्गभजनं तेषामिति भावः
॥ ७ ॥
सुमनोरञ्जिनी
कथं हितायेत्यत आह ॥ य इति ॥ यतः ये मद्विधा जगदीशमानिनस्ते काले असुरावेशनिर्मोकसमये । अभयं त्वा वीक्ष्य । तन्मदम् असुरावेशजं मदं हित्वा । अपस्मयाः सन्तो अपगतगर्वाः सन्त आर्याणां ज्ञानिनां मार्गं त्वच्चरणारविन्दैकभक्तिरूपम् । प्रभजन्ति । अतस्तत् हितायैवेति पूर्वेण सम्बन्धः । खलानामपि खलानां तु त्वत्समीहितमनुशासनं दण्डरूपमिति भावः । तदुक्तमाचार्यचरणैः–
असतां च सतां चैव हरिरेवानुशासकः ।
सतां च श्रेयसे सैव ह्यनुशास्तिर्भविष्यति ।
असतां विपरीताय लङ्घयित्वाऽनुशासनम् । इति ।
सैव भगवतैवानुशास्तिः सतां श्रेयसे भवति । अनुशासनं लङ्घयित्वा उल्लङ्घ्य स्थितानां विपरीताय ओयसे भवतीत्यर्थः ॥ ७ ॥
स त्वं ममैश्वर्यमदप्लुतस्य कृतागसस्तेऽविदुषः प्रभावम् ।
क्षन्तुं प्रभोऽथार्हसि मूढचेतसो मैवं पुनर्भून्मतिरीश मेऽसती ॥ ८ ॥
पदरत्नावली
पश्चात्तापेन शरणागतमात्मानमुद्धर्तुं प्रार्थयते स त्वमिति ॥ ऐश्वर्यमदे प्लुतस्य निमग्नस्य ते प्रभावं चाविदुषोऽज्ञस्य कृतमागोऽपराधो येन तस्य मम, अपराधमिति शेषः । क्षन्तु-मर्हसि । अथ हे प्रभो मूढचेतसो मेऽसती अमङ्गला मतिः पुनर्मैवं भूत् ॥ ८ ॥
सत्यधर्मीया
इतःपरं परमपुरुष त्वया विधेयं विनेयोपरि दयेदमिति प्रार्थयते ॥ स इति ॥ ऐश्वर्यमदप्लुतस्य तन्मदपारगस्याद्भिः प्लुतोऽप्लुतो ममाप्लुतो मदप्लुत ऐश्वर्येणाभिमानिकेन मदप्लुतस्तस्य ते, कृतागसो मम ते प्रभावं चाविदुषोऽज्ञस्य कृतागसोऽनुष्ठितापराधस्य क्षन्तुमाग इति शेषः । अर्हसि । अथ हे प्रभो ईश श्रीश देव इह मूढचेतसो मेऽसत्यमङ्गला मतिः पुनर्मैवं भूत् । न माङ्योग इति नाडागमः । पृथक् प्रार्थनाविषयत्वान्न मम मेऽविदुषो मूढचेतस इति पुनरुक्तेति मन्तव्यम् ॥ ८ ॥
सुमनोरञ्जिनी
एवं स्तुत्वा स्वापराधं क्षमापयन् प्रार्थयते ॥ स इति ॥ सः सतां हितकारितया प्रस्तुतस् त्वम् । ऐश्वर्यमदेन प्लुतस्य आप्लुतस्य पूर्णस्येति यावत् । अत एव ते प्रभावम् अविदुषस् तत एव कृतागसः कृतापराधस्य । मम मां प्रति । क्षन्तुमर्हसि । हे ईश मे मम एवम् एवंविधाऽसती मतिः पुनर्मा भूरिति ॥ ८ ॥
तवावतारोऽयमधोक्षजेह भुवो भराणामुरुभारजन्मनाम् ।
चमूपतीनामभवाय देव भवाय युष्मच्चरणानुवर्तिनाम् ॥ ९ ॥
पदरत्नावली
भुवो भूरिभारहरणार्थं निजचरणैकशरणानां समुद्धरणार्थमवतीर्णं पूर्णगुणार्णवं श्रीहरिं हरिहयो भक्तिभरेण प्रणमतीत्याह तवेत्यादिना ॥ भुवो भाररूपाणां तथोरुभारजन्मनां बहूनां भाराणां जन्म येभ्यस्तेषां चमूपतीनां सेनानायकानामभवाय नाशाय, युष्मच्चरणानुवर्तिनां सतां भवाय क्षेमाय च तवायमवतारः ॥ ९ ॥
सत्यधर्मीया
हे अधोक्षज इह तवायमवतारो भुवो भूमेरुरुभारजन्मनां बहुभाररूपं जन्म येषां ते तेषां चमूपतीनां सेनानायकानामभवायासत्तायै नाशायेति यावत् तथा भुवोऽभराणामभार-रूपाणाम् । अतो न भराणामुरुभारजन्मनामित्यनयोरार्थिकी पुनरुक्तता । युष्मच्चरणानुवर्तिनां सतां चमूपतीनामित्यत्राप्यन्वेति । तदादीनां भवाय क्षेमायेति यावद् भवति ॥ ९ ॥
सुमनोरञ्जिनी
हे अधोक्षज अयं तवावतारः भुवः भूमेर् भराणां भारभूतानाम् । न केवलं स्वयमेव भारभूतानां किन्तु उरूणां भराणां भारभूतानां जन्म येषां तेषाम् । नात्र भूभारत्वं शरीरगौरवेण किन्तु असह्याचरणवत्वेनेति ज्ञेयम् । एवंभूतानां चमूपतीनाम् । अभवाय अक्षेमाय । युष्मच्चरणानुवर्तिनां भवाय क्षेमाय ॥ ९ ॥
नमस्तुभ्यं भगवते पुरुषाय महात्मने ।
वासुदेवाय कृष्णाय सात्वतां पतये नमः ॥ १० ॥
पदरत्नावली
‘यः सर्वान् भावानीक्षत्यात्मानं निरीक्षयति तस्मादुच्यते भगवान्’ इत्यादि-श्रुतेः, ‘ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः’ इति विष्णुपुराणादिवचनाच्च भगवच्छब्दप्रतिपाद्याय । पुरूणि फलानि सनोति ददातीति पुरुषस् तस्मै । ‘सर्वैर्युक्ता शक्तिभिर्देवता सा परेति यां प्राहुरजस्रशक्तिम् । नित्यानन्दा नित्यरूपाऽजरा च या शाश्वतात्मेति च यां वदन्ति’, इति चतुर्वेदशिखायाम् । ‘आततत्वाच्च मातृत्वादात्मेति परमो हरिः । आत्माभासास्तदन्ये ये न ह्येतेषां तता गुणाः’ इति महोपनिषदि । महांश्चासावात्मा च तस्मै । सर्वत्र वसतीति, सर्वमत्र वसतीति च वासुः । ‘वस निवासे’ इत्यस्मादुण् । दीव्यति द्योतत इति देवः । वासुश्चासौ देवश्चेति वासुदेवस्तस्मै । ‘सर्वाणि च भूतानि वसन्ति परमात्मानि । भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः’ इति विष्णुपुराणे । नियमनादिनाऽखिललोककर्षणात् कृष्णस्तस्मै । ‘यतः कर्षसि देवेश नियम्य सकलं जगत् । अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः’ इति कौर्मे । सात्वतां यादवानां पतये ॥ १० ॥
सत्यधर्मीया
वासुदेवाय गतम् । सात्वतां भक्तानामधुना यादवानां वा पतये गतम् ॥१०॥
सुमनोरञ्जिनी
सात्वतां भक्तानाम् ॥ १० ॥
स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये ।
सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ॥ ११ ॥
तात्पर्यम्
‘आवेशो वसुदेवादौ देहादानं हरेः स्मृतम् । देहादानं तदन्येषां जन्मेति कवयो विदुः । तथाप्यसुरमोहाय ग्रन्थेषु २बहुधैव त्वि’ति पाद्मे ॥ ११ ॥
पदरत्नावली
श्रीहरिशरीरस्य जातुचिदपि प्रकृतिनिर्मितत्वं न भाव्यमिति भावेनाह स्वच्छन्दे-नेति । स्वच्छन्देन स्वेच्छया आत्तो देहो येन स तथा । ‘स्वच्छन्दोपात्तदेहाय’ इति च पठन्ति । तदुक्तं ब्रह्मवैवर्ते ‘देहोऽयं मे सदानन्दो नायं प्रकृतिनिर्मितः । परिपूर्णश्च सर्वत्र तेन नारायणोऽस्म्यहम्’ इति । तथा ‘न च गर्भेऽवसद् देव्या न चापि वसुदेवतः । न चापि राघवाज्जातो न चापि जमदग्नितः । नित्यानन्दोऽद्वयोऽप्येवं क्रीडतेऽमोघदर्शनः’ इत्यादि पाद्मे । तर्हि नित्यदेहः कथं स्वच्छन्देन देहान्तरमादत्ते इति शङ्कां परिहर्तुमत्र पाद्मवचनमाचार्यैरुदाहारि ‘आवेशो वसुदेवादौ देहादानं हरेः स्मृतम् । देहादानं तदन्येषां जन्मेति कवयो विदुः । तथाऽप्यसुरमोहाय ग्रन्थेषु बहुधेयते’ इति । वसुदेवादौ विष्णोरावेशो ऽभिव्यक्तिलक्षणप्रवेशमात्रं देहादानं जन्मेति तदन्येषां देहादानं कर्माधीनप्राकृतगात्रप्राप्तिलक्षणं जन्मेति कवयो ज्ञानिनो विदुः । वसुदेवापत्यत्वादि-प्रतिपादकानेकमानानां का गतिरित्यत आह तथापीति ॥ सर्वव्यापित्वात् सर्वस्तस्मै । ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इति स्मृतेः । सर्वबीजाय सर्वकारणाय । सर्वभूतात्मने सर्वभूतानामात्मा आदानादिकर्ता तस्मै । ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते’ इत्युक्तेः । सर्वसंहर्त्रे च । ‘सर्वः सम्पूर्णसामर्थ्यात् सर्वात्मा सर्वभक्षणात्’ इति तन्त्रभागवते
॥ ११ ॥
सत्यधर्मीया
वासुदेवाय स्वच्छन्दोपात्तदेहायेति वसुदेवरेतोविकृतदेहवत्त्वं तथा स्वेच्छोपात्तदेहवत्त्वं चेति विरुद्धं कथमुच्यत इत्यतः प्रमाणेनाविरोधमभिधत्ते ॥ आवेश इति ॥ वसुदेवादौ हरेरावेशः प्रवेशमात्रं देहादानं जन्मेत्युच्यते । तदन्येषां देहादानं नाम जन्म नूतनकर्माधीन-तनुप्राप्तिरिति कवयो ज्ञानिनो विदुः । अनेन बहुमहात्मसम्मतोऽयमर्थ इति न सन्देहः कार्य इति बहुवचनकविशब्दाभ्यां सूचयति । ननु वसुदेवादजायत जज्ञे दशरथादित्यादिवचसां का च गतिरित्यत आह ॥ तथाऽपीति । असुरमोहाय तान्वञ्चयितुं ग्रन्थेषु बहुधेयते । तदर्थस्तु नायं गर्भेऽवसद्देव्या नायं दशरथाज्जातो न चापि जमदग्नितः । यदा नृसिंहाकृतिराविरासीत् । प्रादुर्भावो हरेर्जनिरित्यादिना ज्ञातव्यः ॥ ततश्चायं मूलार्थः ॥ स्वच्छन्दोपात्तदेहाय स्वच्छन्देनात्तदेहायेति पाठावेकार्थाविति स्वच्छन्दतः पठनीयौ । स्वच्छन्देनेवौपात्तो देहो यस्य सः । आत्तो देहो येन । कथमित्यतः स्वच्छन्देन स्वेच्छयेति । एतत्सम्भावकमाह ॥ ज्ञानमूर्तय इति ॥ सर्वस्मै ‘सर्वं समाप्नोषि ततोऽसि सर्व’ इत्युक्तेर्व्याप्तस्तस्मै । सर्वबीजाय सर्वकारणाय । व्यञ्जनाद्बीजमित्युक्त इत्युक्तेः । सर्वव्यञ्जकाय वा । सर्वभूतात्मने सर्वभूतस्वामिने ॥ ११ ॥
सुमनोरञ्जिनी
स्वच्छन्देन उपात्तः स्वीकृतः देहो येन स तथा । विशुद्धा अप्राकृता ज्ञानात्मका मूर्तिर्यस्यासौ तस्मै । सर्वस्मै सर्वस्वामिने । सर्वस्य बीजाय मूलकारणाय । सर्वभूतानाम् आत्मने अन्तर्यामिणे ॥ ११ ॥
मयेदं भगवान् गोष्ठनाशायासारवायुभिः ।
चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना ॥ १२ ॥
पदरत्नावली
आसारसहितवायुभिः ॥ १२ ॥
सत्यधर्मीया
आसारैः सहिताश्च ते वायवश्च तैर्यज्ञे विहते सति तीव्रमन्युना मानिना गोष्ठनाशायेदं कर्म चेष्टितं कृतम् ॥ १२ ॥
सुमनोरञ्जिनी
यज्ञे मदुद्देश्यके मखे विहते सति मानिना गर्वितेन अत एव तीव्रमन्युना मया । आसारैर् जलधाराभिर् वायुभिश्च गोष्ठनाशाय । इदम् अतिवर्षणं चेष्टितं कृतम् ॥ १२ ॥
त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तभ्यो वृथोद्यमः ।
ईश्वरं गुरुमात्मानं त्वामहं शरणं गतः ॥ १३ ॥
पदरत्नावली
ध्वस्तः स्तम्भो दर्पो यस्य स तथा ॥ १३ ॥
सत्यधर्मीया
ध्वस्तः स्तम्भो यस्य सः । वृथोद्यमो वृथाभूत उद्यमो मेघौघादिप्रेषण-वर्षणादिर्यस्य सः । त्वयाऽनुगृहीतोऽस्मि । अधुनाऽपि मधुनाथेन सुष्टु तथाऽप्रष्टुर्वा नोक्तं कथय-दनुगृहीत इति शक्र इति चेन्न । न मनोपवेशोपश्रवणादिकं नानुग्रहं विना घटेतेति मघवान्भगवन्ननुगृहीत इत्युक्तवानिति सम्भवात् । अहमीश्वरं गुरुमात्मानं शरणं गतः ॥ १३ ॥
सुमनोरञ्जिनी
तथापि भो ईश त्वया अनुगृहीतोऽस्मि । कुतः । यतो वृथोद्यमः सन् ध्वस्तस्तंभः निरस्तमदो ऽहं त्वां शरणं गतः ॥ १३ ॥
श्रीशुक उवाच–
एवं सङ्कीर्तितः कृष्णो मघोना भगवानमुम् ।
मेघगम्भीरया वाचा प्रहसन्निदमब्रवीत् ॥ १४ ॥
पदरत्नावली
मघोना इन्द्रेण ॥ १४ ॥
सत्यधर्मीया
अमुमिन्द्रं, मघोनेन्द्रेण ॥ १४ ॥
सुमनोरञ्जिनी
मघोना इन्द्रेण । अमुम् इन्द्रम् ॥ १४ ॥
श्रीभगवानुवाच–
मया तेऽकारि मघवन् मखभङ्गोऽनुगृह्णता ।
मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ॥ १५ ॥
पदरत्नावली
इन्द्रश्रिया स्वर्गाधिपत्येन ॥ १५ ॥
सत्यधर्मीया
हे मघवन् इन्द्रः स्वर्गाधिपतिरिति श्रीस्तया । भृशं मत्तस्य नित्यं मदनुस्मृतयेऽनुगृह्णता मया मखभङ्गोऽकारि कृतः ॥ १५ ॥
सुमनोरञ्जिनी
इन्द्रोक्तमनुवादयन्नाह ॥ मयेति ॥ हे मघवन् ते तुभ्यम् । अनुगृह्णता अनुग्रहं कर्तुमिच्छता । ते मखभङ्गो ऽकारि कृतः । इन्द्रश्रिया स्वर्गाधिपत्यसम्पदा । हे इन्द्रेति सम्बुद्धिर्वा ॥ १५ ॥
मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति ।
तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ १६ ॥
पदरत्नावली
ऐश्वर्यमीश्वरत्वं श्रीः सम्पच्चाभ्यां जातो यो मदस्तेनान्धः सम्यज्ज्ञानलक्षण-चक्षूरहितो यो दण्डपाणिं स्वातन्त्र्येण सर्वशासकं मां न पश्यति, यस्य चोपर्यनुग्रहं कर्तुमिच्छामि तं सम्पद्भ्यो भ्रंशयामि च्यावयामि ॥ १६ ॥
सत्यधर्मीया
ऐश्वर्यं स्वामित्वं श्रीः सम्पच्चाभ्यां जातो यो मदस्तेनान्धोऽधिकारी । दण्डपाणिं शासितृत्वेन यमसमम् । अदण्डपाणिमस्वतन्त्रयमभिन्नं शिक्षकं न पश्यति चक्षूरहितवत् । यो यस्य चोपर्यनुग्रहं कर्तुमिच्छामि तं सम्पद्य्भो भ्रंशयामि च्यावयामि ॥ १६ ॥
सुमनोरञ्जिनी
मां दण्डपाणिं यममपि ॥ १६ ॥
गम्यतां शक्र भद्रं १ते क्रियतां मेऽनुशासनम् ।
स्थीयतां स्वाधिकारेषु युक्तै२र्विस्रम्भवर्जितैः ॥ १७ ॥
पदरत्नावली
भद्रं श्रेयसम्, अस्त्विति शेषः । अशेषत्रिदिवेशानपि सर्वेशोऽयं शौरिर्विशेषत एवमादिदेशेत्याह स्थीयतामिति ॥ युक्तैर् मयि मनसा समेतैर्विस्रम्भवर्जितैर् नश्वरैश्वर्यादौ विश्वासवर्जितैर्भवद्भिः स्वाधिकारेषु त्रैलोक्यरक्षणादिषु स्थीयताम् ॥ १७ ॥
दुर्घटभावदीपिका
हे शक्र ते भद्रमस्तु । त्वया गम्यताम् । त्वया मेऽनुशासनं क्रियताम् । युक्तैर्मयि मनोयुक्तैः । सद्भक्तैरिति यावत् । विस्रम्भवर्जितैः स्वाधिकारेषु नित्यत्वादिविश्वासवर्जितैर्भृत्यैः सह युक्तेन विस्रम्भवर्जितेन त्वया स्वाधिकारेषु स्थीयतामिति । एतेन भृत्यैरित्यस्य विशेषण-युक्तैर्विस्रम्भवर्जितैरिति विशेषणद्वयं किं शक्रभृत्यानां किं वा शक्रस्य । नाद्यः । शक्रनिष्ठतया युक्त-त्वादेरलाभात् । न द्वितीयः । बहुवचनानुपपत्तेरिति दूषणं परास्तम् । युक्तैर्विस्रम्भवर्जितैरित्यनयोः शुक्रभृत्यविशेषणत्वमित्यङ्गीकृत्यार्थवशादेकवचनान्ततया विपरिणामेन शक्रस्यापि विशेषणमित्यभ्युपगमात्
॥ १७ ॥
सत्यधर्मीया
हे शक्र गम्यतां, ते भद्रमस्तु । मेऽनुशासनं क्रियताम् । सर्वान्सुपर्वण एतद्द्वाराऽनुशास्ति । स्वाधिकारेषु स्वस्वाधिकारेषु युक्तैर्मन्मानससमेतैः स्वर्गादयः स्थिरा इति विश्वासवर्जितैः स्थीयताम् । विश्रम्भो वर्जितो मह्यं दत्तो मयि स्थापित इति यावद् यैस्तैरिति वा । यथोक्तम् । परमावर्जते न इत्यृग्भाष्यटीकादिषु । परमावर्जते नः ददाति त्यागार्थत्वाद्ददातीति । वृजलीत्याग इति कविकल्पद्रुमे पठितत्वेन वृजेस्त्यागार्थत्वादिति ॥ १७ ॥
सुमनोरञ्जिनी
व इति बहुवचनम् इन्द्रेण सहागताग्न्यादिदेवाभिप्रायेण । स्वाधिकारेषु प्राच्यादिदिक्पालनादिव्यापारेषु युक्तैर् अप्रमत्तैः । ऐश्वर्यादौ विस्रंभवर्जितैः स्थीयताम् ॥ १७ ॥
श्रीशुक उवाच–
अथाह सुरभिः कृष्णमभिवन्द्य मनस्विनी ।
स्वसन्तानैरुपामन्त्र्य गोपरूपिणमीश्वरम् ॥ १८ ॥
पदरत्नावली
अथ वासववासुदेवसंवादसमनन्तरम् । मनस्विनी विशुद्धचित्ता । स्वसन्तानैः स्ववंशजातगोभिः सहोपामन्त्र्यालोच्य गोपरूपिणमीश्वरम् ईशेभ्यो वरं हरिं प्रत्याह । ‘ईशेभ्यो ब्रह्मरुद्रश्रीशेषादिभ्यो यतो भवान् । वरोऽत ईश्वराख्या ते मुख्या नान्यस्य कस्यचित्’ इति ब्रह्मवैवर्तवचनात् ॥ १८ ॥
सत्यधर्मीया
अथ वासववासुदेवसंवादानन्तरम् । सुरभिरागता सा किमकरोदित्यतस्तदारम्भो वाऽथशब्दः । मङ्गलानन्तरारम्भप्रश्नेत्यमरः । मनस्विनी प्रशस्तचित्ता । सुरभिरभिवन्द्य कृष्णं स्वसन्तानैर्गोभिः सहोपामन्त्र्यालोच्य गोपरूपिणमीश्वरं प्रत्याह ॥ १८ ॥
सुमनोरञ्जिनी
अथ इन्द्रादेशानन्तरम् । सुरभिः । मनस्विनी प्रशंसनीयमनाः । कृष्णम् उपामन्त्र्य सम्बोध्य । स्वसन्तानैर् गोभिः सह आह ॥ १८ ॥
सुरभिरुवाच–
कृष्णकृष्ण महायोगिन् विश्वात्मन् विश्वसम्भव ।
भवता लोकनाथेन सनाथा वयमच्युत ॥ १९ ॥
पदरत्नावली
महायोगिन् अणिमादिमहदैश्वर्यशालिन् । विश्वात्मन् विश्वनियामक । विश्व-मस्मात् सम्भवतीति विश्वसम्भवः, तत्सम्बुद्धौ । देशतः कालतो गुणतश्च च्युतिरहितत्वादच्युतः, तत्सम्बुद्धौ । सनाथाः कृताः स्मः ॥ १९ ॥
सत्यधर्मीया
विश्वात्मन् जगत्स्वामिन् । महान्योगोऽस्यास्तीति महायोगिन्नणिमादिसिद्धि-सम्पन्न । विश्वसम्भव जगदुत्पादक वायुजनक वा हे अच्युत लोकनाथेन भगवता वयं सनाथा-स्त्वदभिन्ननाथसहिता इत्यर्थः ॥ १९ ॥
सुमनोरञ्जिनी
विश्वात्मन् विश्वान्तर्यामिन् । विश्वस्य सम्भवो यस्मात्सः । लोकनाथानां ब्रह्मादीनाम् इन स्वामिन् तृतीयान्तं वा । सनाथाः कृताः स्म इति ॥ १९ ॥
त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्पते ।
भवाय भव गोविप्रदेवानां ये च साधवः ॥ २० ॥
पदरत्नावली
परमकम् अत्युत्तमं दैवम् इष्टदैवतम् । इन्द्रः परमेश्वरः । ‘इदि परमैश्वर्ये’ इति धातुः । ये च साधव ऋष्यादयस्तेषां भवाय भद्रलक्षणाय श्रेयसे ॥ २० ॥
सत्यधर्मीया
त्वं नः परमकं पूर्णसुखमत्युत्तमं वा दैवमिष्टं हि । जगत्पते त्वं न इन्द्रः स्वामी । ये च साधवस्तेषामृष्यादीनां गावश्च विप्राश्च तेषां भवाय श्रेयसे भव ॥ २० ॥
सुमनोरञ्जिनी
त्वं नः परमकं परमं कं सुखं यस्मात्तत् । दैवं देवता । एतदभिप्रायेणैव पदरत्नावलीकृद्भिर् अत्युत्तमम् इष्टदैवमिति व्याख्यातम् । इन्द्र ईश्वरः । हे गोविन्द गोविप्रदेवानां, ये चान्ये साधवस् तेषां भवाय क्षेमाय भव ॥ २० ॥
इन्द्रं नस्त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् ।
अवतीर्णोऽसि विश्वात्मन् भूमेर्भारापनुत्तये ॥ २१ ॥
पदरत्नावली
न इन्द्रं परमस्वामिनं त्वाम् ॥ २१ ॥
दुर्घटभावदीपिका
हे विश्वात्मन् । त्वं भूमेर्भारापनुत्तये यो नारायणोऽवतीर्णः सोऽसीति । एतेन नारायणस्य कृष्णरूपेणावतीर्णनारायणैक्यं कृष्णस्योच्यत इत्यङ्गीकारात् ॥ २१ ॥
॥ इति श्रीमदश्रुतपदवाक्यप्रमाणव्याख्यातॄणामभिनवचन्द्रिकाऽभिनवताण्डवाभिनव-गदाऽभिनवामृतादि बहुग्रन्थकर्तॄणां जगत्पूज्यपादुकानां श्रीसत्यनाथश्रीचरणानां शिष्येण सत्याभिनवयतिना त्वया भागवतटिप्पणिं कारयिष्यामीति तदीयामोघसंकल्पमात्रमवलम्ब्य कृतायां श्रीमद्भागवतटिप्पण्यां दुर्घटभावदीपिकायां दशमस्कन्धे पूर्वार्धः पञ्चविंशोऽध्यायः ॥
सत्यधर्मीया
ब्रह्मणा चोदिता वयं, न इन्द्रं त्वामभिषेक्ष्यामः । भूमेर्भारापनुत्तये त्वमवतीर्णश्चासि यतोऽतोऽभिषेक्ष्याम इत्यन्वयः ॥ २१ ॥
सुमनोरञ्जिनी
न इन्द्रं स्वामिनं त्वा त्वां पयसा अभिषेक्ष्यामः ॥ २१ ॥
श्रीशुक उवाच–
एवं कृष्णमुपामन्त्र्य सुरभिः पयसाऽऽत्मनः ।
जलैश्चाकाशगङ्गाया ऐरावतकरोद्धृतैः ॥ २२ ॥
इन्द्रः सुरर्षिभिः साकं चोदितो देवमातृभिः ।
अभ्यषिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥ २३ ॥
पदरत्नावली
सुरभिरात्मनः पयसा दाशार्हं दशार्हकुलतिलकम् । दाशं सुखादिदानमर्हतीति च । ‘दाशृ दाने’ इति धातुः । देवमातृभिर् अदित्यादिभिश् चोदित इन्द्रश्च सुरर्षिभिः साकमैरावतस्य करैः रत्नखचितकाञ्चनकुम्भादिद्वारा उद्धृतैरानीतैराकाशगङ्गाया जलैरभ्यषिञ्चत । गां वेदलक्षणां वाणी विन्दत इति गोविन्दः । गवामिन्द्र इति च । उक्तं च हरिवंशे ‘गौरेषा तु तथा वाणी तां तु विन्दयते भवान् । गोविन्दस्तु ततो देव मुनिभिः कथ्यते भवान्’ इति । ‘अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः । गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्वतम्’ इति च । अभ्यधाद् अभिधां चकार ॥ २२-२३ ॥
सत्यधर्मीया
सुरभिरेवं कृष्णमुपामन्त्र्य सुरभिरात्मना पयसा क्षीरेणैरावतकरोद्धृतै-राकाशगङ्गाया भागीरथ्या जलैः सुरर्षिभिः साकं देवमातृभिर्देवैर्मातृभिर्ब्रह्मादिभिरदित्यादिदेवमातृभिर्वा दाशार्हमभ्यषिञ्चत । गोविन्द इति । मम स्वातन्त्र्यं नास्ति । गौः स्वर्गस्थं विन्दते लभत इति गोविन्द इति सुरवरसुरभिपक्षे निरुक्तिर्ज्ञेया । अभ्यधादुच्चचार तन्नाम स्थापितवानिति यावत्
॥ २२,२३ ॥
सुमनोरञ्जिनी
सुरभिर् आत्मनः पयसा अभ्यषिञ्चत । सुरर्षिभिश्चोदित इन्द्रश्च देवमातृभिः सह । ऐरावतकरोद्धृतैर् आकाशगङ्गाया जलैर् अभ्यषिञ्चत । तदा गोविन्द इति नाम अभ्यधान् नाम कृतवानित्यर्थः ॥ २२,२३ ॥
तत्रागतास्तुम्बुरुनारदादयो गन्धर्वविद्याधरसिद्धचारणाः ।
जगुर्यशो लोकमलापहं हरेः सुराङ्गनाः सन्ननृतुर्मुदाऽन्विताः ॥ २४ ॥
पदरत्नावली
सुराङ्गना अप्सरसः सन्ननृतुः सम्यङ् ननृतुः ॥ २४ ॥
सत्यधर्मीया
हरेर्लोकमलापहं गतम् । यशस्तत्रागतास्तुम्बुरुश्च नारदश्चादी येषां ते । घ्यन्ताल्पच्त्वापेक्षयाऽभ्यर्हितत्वान्नारदपर्वताभ्यां वासुदेवार्जुनाभ्यामित्यादिवन्नारदशब्दः प्राक् प्रयोज्यस्तथाऽपि रामावतारे विराधः सद्विरोधं कृत्वा शिक्षां प्राप्तो जाग्रत्सन्नग्रत एवायात इति विशेषं द्योतयितुं तुम्बुरुशब्दः प्राक् प्रयुक्त इति ज्ञेयम् ।
रामोऽपि तत्र ददृशे धनदस्य शापाद्गन्धर्वमुर्वशिरतेरथ यातुधानीम् ।
प्राप्तां दशां सपदि तुम्बरुनामधेयं नाम्ना विराधमपि शर्ववरादवध्यम् ॥
भङ्क्त्वाऽस्य बाहुयुगलं बिलगं चकार सम्मानयन्वचनमम्बुजजन्मनोऽसौ ।
प्रादाच्च तस्य सुगतिं निजगायकस्य …..’’
इत्याचार्योक्तेः । गन्धर्वविद्याधरचारणा जगुः । सुराङ्गना अप्सरसो मुदान्विताः सन्ननृतुः
॥ २४ ॥
सुमनोरञ्जिनी
हरेर्यशः । कीदृशम् । लोकमलापहम् । जगुः । सुराङ्गनाः सम्यक् ननृतुर् नृत्यं चक्रुः ॥ २४ ॥
तं तुष्टुवुर्देवनिकायकेतवो व्यवाकिरंश्चाद्भुतपुष्पवृष्टिभिः ।
लोकाः परां निर्वृतिमाप्नुवंस्त्रयो गावस्तदा गामनयन् पयोद्रुताम् ॥ २५ ॥
पदरत्नावली
देवनिकायकेतवः सुरसमूहसत्तमाः । व्यवाकिरन् विविधप्रकारैश् चिक्षिपुः । त्रयो लोकाः परामुत्कृष्टां निर्वृतिमानन्दमाप्नुवन् । पयोद्रुतां स्वक्षीरसंक्षरणैः परिप्लुतामनयन् प्रापयामासुरित्यर्थः ॥ २५ ॥
सत्यधर्मीया
देवनिकायकेतवः सुरसमूहमहान्तः । अद्भुता आश्चर्यवहाः पृष्पवृष्टयस्ताभिः पुष्पवृष्टिभिर्व्यवाकिरन् । वृष्टं वर्षं भावे क्तः । तदेषामस्ति तानि वृष्टीन्यद्भुतानि च तानि वृष्टीनि च तैराश्चर्यावहवर्षणवत्पुष्पैर्व्यवाकिरन् किरणं चक्रुरिति वा । वर्षत आभिरिति वृष्टयः करणे क्तिन् । पुष्पाण्येव वृष्टयस्ताभिरवाकिरंश्चिक्षिपुरित्यर्थः । यविष्टमन्मभिरित्यृग्भाष्ये मन्मभिर्मतिभिः । तट्टीकायां मतिभिर्बुद्धिवृत्तिभिः सह । तट्टिप्पणेऽत्र क्तिन्प्रत्ययः करणार्थ इत्युक्तेरिति वा । यत्रापि लोकाः परामुत्कृष्टां निर्वृतिं मुदं तदा गावो गां भूमिं पयोद्रुतां पयोभिः स्वक्षीरैः संक्षरणैर्द्रुतां परिप्लुता-मनयंश्चक्रुः । यद्वा पयसा सिक्ता द्रवो द्रुमा यस्याः पयोद्रुस्तस्या भावः पयोद्रुता तां पयःसिक्त-तरुकत्वमनयन्यापयामासुः ॥ २५ ॥
सुमनोरञ्जिनी
देवनिकायस्य देवसमुदायस्य केतवो ध्वजस्थानीयाः श्रेष्ठा इत्यर्थः । अद्भुतपुष्पाणां वृष्टिभिश्च अवाकिरन् । त्रयो लोकाः परां निर्वृतिम् आनन्दं, गावश्च गां भूमिं पयसा द्रुताम् आर्द्राम् अनयन् अकुर्वन्निति यावत् ॥ २५ ॥
नानारसौघाः सरितो वृक्षा आसन् मधुस्रवाः ।
अकृष्टपच्यौषधयो गिरयोऽबिभ्रदुन्मणीन् ॥ २६ ॥
पदरत्नावली
श्रीकृष्णाभिषेकसमये घटितान्यद्भुतघटनानि लेशत आचष्टे नानेत्यादिना ॥ सरितो नानारसौघाः श्रीरादिवाहिन्योऽभूवन् । मधूनि स्रवन्तीति ते तथा वृक्षा बभूवुः । अकृष्टपच्याः कर्षणं विनैव पक्वा ओषधयो येषु ते तथा गिरयो गर्भगतानपि उन्मणीन् उद् उद्गतान् बहिः प्रकटान् मणीन् अबिभ्रद् अबिभरुः ॥ २६ ॥
सत्यधर्मीया
स्वतः पतन्नानावृक्षादिरसवत्यो मधुस्रवा मधुरं स्रवन्ति ते मधुस्रवास्तरवः । अकृष्टपच्यौषधयः कर्षणं विनैव पाकं प्राप्ता अकृष्टपच्यास्ताश्च ता ओषधयश्च । कर्मधारयेऽपि बुद्ध्या विवेकेनौषधीरुद्दिश्याकृष्टपच्यत्वं विधीयते । कृष्णाभिषेकसमय एवैवमभवदिति भावः । राजसूयसूर्य-मृषोद्यरुच्यकृष्टपच्याव्यय्या इति क्यबन्ततया निपातितः कृष्टपच्यशब्दः । गिरयः पर्वता उन्मणीनु-त्कृष्टान्मणीनबिभ्रत् । अगाः प्रत्यन्तपर्वताः सन्त्यस्येति मत्वर्थ इकारप्रत्ययः । अथवा गोऽगिः । तृतीयोऽतिशय इति महामहीध्र इति महापर्वतः प्राग्यत्रायः कृष्णायस्तत्रेदानीमुन्मणीनबिभ्रदिति वा । बहुवचनमेकवचनार्थे । अकृष्टपच्यौषधय इति प्रथमपक्षे गिरिविशेषणं वा ॥ २६ ॥
सुमनोरञ्जिनी
सरितो नद्यः । नानारसौघा नानाविधरसवदुदकवाहिन्यः । मधुररस एव नानाविधत्वविशदत्वादिभेदेन ज्ञेयम् । वृक्षा मधुधारां मुञ्चन्त आसन् । अकृष्टपच्याः कर्षणादिकं विनैव पक्वा ओषधय आसन् । गिरय उन्मणीन् उद्गतान् बहिःप्रकटान् मणीन् अबिभ्रत् । उत्कृष्टान्मणीनिति वा ॥ २६ ॥
कृष्णेऽभिषिक्त एतानि सर्वाणि कुरुनन्दन ।
निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गतः ॥ २७ ॥
पदरत्नावली
कृष्णेऽभिषिक्ते सति निसर्गतः स्वभावतः क्रूराण्यपि एतानि एकत्र प्राप्तानि सर्वाणि भूतानि गोव्याघ्रादीनि निर्वैराण्यभवन् ॥ २७ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे पञ्चविंशोऽध्यायः ॥
सत्यधर्मीया
हे कुरुनन्दन तात परीक्षिन् निसर्गतः स्वभावतः क्रूराण्यप्येतानि सम्यगेकस्थानं प्राप्तानि सत्त्वानि गोव्याघ्रादीनि निर्वैराणि वैररहितान्यभवन् । बुद्धिसन्निहि-तत्वादेतानीत्युक्तिर्वा ॥ २७ ॥
सुमनोरञ्जिनी
एतानि पूर्वोक्तानि सर्वाणि निसर्गतः स्वभावात् क्रूराण्यपि व्याघ्रसर्पादि-सत्वानि निर्वैराण्यासन् ॥ २७ ॥
इति गोगोकुलपतिं गोविन्दमभिषिच्य सः ।
अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम् ॥ २८ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे पञ्चविंशोऽध्यायः ॥
सत्यधर्मीया
स शक्रो गोगोकुलपतिं गोविन्द इत्युक्तरीत्याऽभिषिच्यानुज्ञातः । प्रथमात्वे तसिलन्तत्वे वाऽर्थः समः । देव्यश्च सुरभ्यादयश्च सुरस्त्रियश्चैकशेषे देवाश्चादयो येषां सिद्धादीनां तैर्वृतो दिवं स्वर्गं ययौ ॥ २८ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे पञ्चविंशोऽध्यायः ॥ १०-२५ ॥
सुमनोरञ्जिनी
अनुज्ञातः कृष्णेन अनुज्ञातः ॥ २८ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्यां पञ्चविंशोऽध्यायः ॥ १०-२५ ॥
॥ दशमस्कन्धपूर्वार्धो ऽनुवर्तते ॥