२४ चतुर्विंशोऽध्यायः

एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते

॥ अथ चतुर्विंशोऽध्यायः ॥

श्रीशुक उवाच–

एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते ।

नतद्वीर्यविदः प्रोचुः समुपेत्य सुविस्मिताः ॥ १ ॥

पदरत्नावली

सप्तवर्षपर्यन्तमतिचित्रबालचरित्रमनुस्मृत्य अतिविस्मितान् गोपान् प्रति नन्दो गर्गमुनिगीतमाश्राव्य हरेः परमैश्वर्यं व्यवृणोदित्येतत् श्रीहरिचरित्रावृत्त्यैवात्मपरिशुद्धिरिति बोधनाय निरूप्यतेऽस्मिन्नध्याये । तत्रादौ श्रीशुको गोपानां सङ्कथनप्रकारं कथयति एवंविधानीति ॥ एवंविधानि धराधरधारणोदाहरणेनामानुषाणि पूतनादिहननात्मकानि कर्माणि । तस्य कृष्णस्य वीर्यविदोऽमितमाहात्म्याभिज्ञा न भवन्तीति नतद्वीर्यविदः । ते गोपाः समुपेत्य सम्भूय प्रोचुर् व्याकुर्वन्नित्यन्वयः ॥ १ ॥

सत्यधर्मीया

ये डोलालीलामारभ्यैतत्कुत्कीलतोलनादिपर्यन्तमधिकार्यन्तरात्मपरिशुद्ध-येऽनन्तस्मरणेन भवितव्यं सङ्गृह्य तत्रापि सर्वचरितताद्रूप्यमावेदयितुं धरोद्धरणमादितस्तथाकथा कथाव्यत्यासश्च सम्भवतः सम्भूय कथयन्ति गोपा इति शुको वक्ति ॥ श्रीशुक इति ॥ ते गोपा-स्तद्वीर्यविदस्तत्पराक्रमज्ञास्ते न भवन्तीति नतद्वीर्यविदः समुपेत्य मिलित्वा सुविस्मिताः सन्तः प्रोचुः ॥ १ ॥

सुमनोरञ्जिनी

इह मुमुक्षुभिः श्रीकृष्णस्य विचित्रचरित्राणि सन्ततमनुचिन्तनीयानि इति भावेन बुद्ध्यारोहाय सप्तहायनेन कृष्णेन सप्ताहं सुपर्वसार्वभौमगर्वनिर्हरणं पर्वतोद्धरणं वीक्ष्य विस्मितानां गोपानां श्रीकृष्णस्य पूतनायातनाप्रदानादिबाललीलानुवादक्रमं क्रमेण शुको राज्ञेऽनुवदतीत्याह ॥ श्रीशुक इति ॥ एवंविधानि कर्माणि वीक्ष्यापि । तस्य कृष्णस्य वीर्यविदो न भवन्तीति नतद्वीर्यविदः । अत एव सुविस्मिताः सन्तो गोपाः समुत्पेत्य एकत्र मिलित्वा प्रोचुः ॥ १ ॥

बालकस्य यदेतानि कर्माण्यत्यद्भुतानि वै ।

कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम् ॥ २ ॥

पदरत्नावली

आत्मनः स्वस्य जुगुप्सितं निन्दितं ग्राम्येषु प्राकृतपामरजनेषु जन्म कथमर्हति

॥ २ ॥

सत्यधर्मीया

यस्य बालकस्यैतानि कर्माण्यत्यद्भुतानि वै प्रसिद्धानि । आत्मनः स्वस्य जुगुप्सितं निन्दितं ग्राम्येषु मूर्खेषु मानुषेष्वसौ जन्म कथमर्हतीति परस्परं प्रोचुः ॥ २ ॥

सुमनोरञ्जिनी

यद् यस्मात् । बालकस्य एतानि कर्माणि अद्भुतानि । अतोऽयं महापुरुष एव स्यात् । असौ एतादृशः । आत्मनः स्वस्यैव जुगुप्सितं ग्राम्येषु इन्द्रियग्रामवशेषु अस्मासु जन्म कथमर्हति ॥ २ ॥

यः सप्तहायनो बालः करेणैकेन लीलया ।

कथं बिभ्रद् गिरिवरं पुष्करं गजराडिव ॥ ३ ॥

पदरत्नावली

अद्भुतकर्माणि सङ्गृह्याहुर् य इत्यादिना ॥ बिभ्रद् अबिभ्रत् । अडभाव-श्छान्दसः । पुष्करं पद्मम् ॥ ३ ॥

दुर्घटभावदीपिका

यद्यस्मात्कारणाद्बालकस्यैतानि कर्माण्यत्यद्भुतानीत्येतद्वै प्रसिद्धम् । तस्मात्कारणादसौ बालो ग्राम्येषु कथं जन्मार्हति । ग्राम्येषु जन्म स्वेच्छया किं न स्यादित्याशङ्का- परिहारार्थमात्मजुगुप्सितमित्यनेन ग्राम्येषु स्वजुगुप्सितत्वमुक्तम् । अनेन महासमर्थेन स्वेच्छया महाकर्माण्येव कर्तव्यानि न तु स्वजुगुप्सितं कर्म । तस्मान्महासमर्थस्यास्य बालस्य महाकर्माण्येव स्वेच्छया कर्तुमुचितानि न तु स्वजुगुप्सितं ग्राम्येषु जन्मेत्युक्तं भवति । एतदेव विवृणोति ॥ य इति । यो बालः सप्तहायनः सन् गजराट् पुष्करमिवैकेन करेण लीलया गिरिवरं बिभ्रद्धृतवान् स बालः कथं ग्राम्येषु जन्मार्हतीति । एतेन यदेतानीति पूर्वश्लोके कृष्णस्य महासमर्थत्वान् महा-कर्माण्येव कर्तुमुचितानि न तु स्वजुगुप्सितं ग्राम्येषु जन्मेत्युक्तत्वात् । उत्तरश्लोके कथं गिरिवरं धृतवानिति कथनं व्याहतमिति चोद्यं परास्तम् । कथमित्यनन्तरं ग्राम्येषु जन्मार्हतीत्यस्यावृत्तिमङ्गीकृत्य यो गिरिवरं धृतवान्स ग्राम्येषु कथं जन्मार्हतीत्यर्थस्योक्तत्वात् । एवं तोकेनामीलिताक्षेणेत्याद्युत्तरश्लोके-ष्वपेक्षितयच्छब्दाध्याहारेण स कथं जन्मार्हतीत्यस्य सम्बन्धो द्रष्टव्यः ॥ २-३ ॥

सत्यधर्मीया

सप्त हायनानि वत्सरा यस्य सः । करेण शुण्ड्या पुष्करं पद्मं बिभ्रद्गजराडिव । कथं बिभ्रत् स्थित इति शेषः । अडभावे छान्दसे गणकार्यस्यानित्यत्वे बिभ्रदबिभ्रदिति वा । बालः करेण गिरिवरं बिभ्रज्जन्म कथमर्हतीत्यन्वयो वा ॥ ३ ॥

सुमनोरञ्जिनी

प्रत्येकं कर्माण्यनूद्य अद्भुतत्वमाहुः ॥ य इति ॥ यः, सप्त हायना वर्षाणि परिच्छेदकानि यस्य स तथा स, लीलया अनायासेन । एकेनैव करेण । गिरिवरं बिभ्रद् अबिभ्रत् । कथम् । गजराट् पुष्करं पद्ममिव । ननु पूर्वं वर्षात्मकपौगण्डवयस उक्तत्वेन इदानीं सप्तहायन इत्युक्तिः कथमुपपद्यत इति चेत् । उच्यते । १…….. किन्तु प्रसङ्गसङ्गत्यधीनाकांक्षानुसारेणैव । एवं च गोवर्धनोद्धारणकथागोपीवस्त्रापहरणा…..२ आकांक्षाक्रमेण कथितेति ज्ञेयम् । कथाक्रमस्तु श्रीमदाचार्यचरणकृतभारततात्पर्योक्तरीत्यैव ज्ञेयः ॥ ३ ॥

तोकेनामीलिताक्षेण पूतनाया महौजसः ।

पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः ॥ ४ ॥

पदरत्नावली

आमीलिताक्षेण ईषन्मुद्रितनेत्रेण तोकेन शिशुना । महौजसो महाबलायाः । ‘ओजोऽवष्टम्भबलयोः’ इति यादवः । कालेनान्तकेन तनोः कलेवरस्य वयो यौवनमिव ॥४॥

सत्यधर्मीया

अमीलिताक्षेण तोकेन । महौजसो महाशक्तेः पूतनायाः सह प्राणैः स्तनः पीतः। तनोर्वयो यौवनं कालेनेव यथा ग्रस्यते कालो वार्धकादिर्यथा वयोऽङ्गस्य नाशयति तथा पूतनामघातयदिति ॥ ४ ॥

सुमनोरञ्जिनी

तोकेन शिशुना । आमीलिताक्षेण ईषन्मीलितलोचनेन । महौजसः महाबलायाः पूतनायाः । सहप्राणं स्तनं पीतम् । कालेन तनोः शरीरस्य वयः यथा पीयते तथेति । तत्कथमित्यनुवर्तते ॥ ४ ॥

हिन्वतोऽधश्शयानस्य मास्यस्य चरणावुदक् ।

अनोऽपतद् विपर्यस्तं रुदतः प्रपदाहतम् ॥ ५ ॥

पदरत्नावली

मास्यस्य मासास्त्रयः परिच्छेदका यस्य । ‘तोकेन जीवहरणं यदुलूपिकाया-स्त्रैमासिकस्य च पदा शकटोपवृत्तः’ इति द्वितीयस्कन्धोक्तेः । चरणावुदग् ऊर्ध्वं हिन्वत उत्क्षिपतः । प्रपदेन पादाग्रेण आ ईषद् हतं प्रहृतमनो विपर्यस्तं सदपतत् ॥ ५ ॥

सत्यधर्मीया

मास्यस्य मासेषु चतुर्षु भवो मास्यः । यथोक्तमाचार्यैः । यदाप देवश्चतुरोऽथ मासांस्तदोपनिष्क्रामणमस्य चासीदिति । अधःशयानस्योदगूर्ध्वं चरणौ हिन्वत उत्क्षिपतो रुदतः प्रपदेन पादाग्रेण हतमनो विपर्यस्तं सदपतत् ॥ ५ ॥

सुमनोरञ्जिनी

अनसो ऽधःशयानस्य मास्यस्य मासः परिच्छेदको यस्य । मासि अस्येति वा विभागः । मासि मासात्मके वयसि । अधः शयानस्येत्यन्वयः । उदक् ऊर्ध्वं चरणौ हिन्वतः क्षिपतः। प्रपदेन पादाग्रेणाहतं ताडितं सद् अनः कथं विपर्यस्तम् ॥ ५ ॥

एकहायन आसीनो ह्रियमाणो विहायसा ।

दैत्येन यस्तृणावर्तमहन् कण्ठग्रहातुरम् ॥ ६ ॥

पदरत्नावली

एको हायनः संवत्सरो यस्य स तथा । कण्ठग्रहेणैवातुरः पीडितस्तम् ॥६॥

सत्यधर्मीया

एको हायनः शरद्यस्य स यो बालो दैत्येन विहायसा ह्रियमाणः कण्ठग्रहातुरं कण्ठग्रहेणैवातुरस्तं तृणावर्तमहन्हतवानिति यत्तदपि प्रोचुः ॥ ६ ॥

सुमनोरञ्जिनी

एकहायन एकवर्षवयस्कः । दैत्येन तृणावर्तनाम्ना विहायसा ह्रियमाणः कृष्णः । कण्ठग्रहेण आतुरं पीडितं तृणावर्तम् अहद् अहनत् ॥ ६ ॥

क्वचिद् हैयङ्गवस्तैन्ये मात्रा बद्ध उलूखले ।

गच्छन्नर्जुनयोर्मध्ये बाहुभ्यां तावपातयत् ॥ ७ ॥

पदरत्नावली

हैयङ्गवस्तैन्ये नवनीतचौर्ये सति । बाहुभ्यां गच्छन्नित्यन्वयः ॥ ७ ॥

सत्यधर्मीया

हैय्यङ्गवं नवनीतं गतम् । तस्य स्तैन्ये चौर्ये । मात्रोलूखले बद्धो बाहुभ्याम-बाहुभ्यां पादाभ्यां च । रिङ्खणसमये चतुर्णामुपयोगादिति केचित् । यत्किञ्चिदेतत् । अघृष्टजानुभिः पद्भिरिति पूर्वमुक्तेर्मात्रा बाहुभ्यामुलूखले बद्ध इत्यन्वयः । यद्वा बाहुभ्यां पदभिन्नाभ्यामङ्गुलवत्त्वेन तत्सदृशाभ्यां गच्छन्तावर्जुनावपातयत् ॥ ७ ॥

सुमनोरञ्जिनी

क्वचित् कदाचित् हैय्यङ्गवं गोदोहोद्भवं नवनीतम् । तस्य स्तैन्ये चौर्ये कृते सति । अर्जुनयोर्मध्ये बाहुभ्यां गच्छन् रिङ्खणं कुर्वन्नित्यर्थः ॥ ७ ॥

वने सञ्चारयन् वत्सान् सरामो बालकैर्वृतः ।

हन्तुकामं बकं दोर्भ्यां मुखतोऽरिमपाटयत् ॥ ८ ॥

पदरत्नावली

अरिं बकं मुखतो मुखे, गृहीत्वेति शेषः । अपाटयद् व्यदारयत् ॥ ८ ॥

सत्यधर्मीया

अरिं बकमित्यन्वयः ॥ ८ ॥

सुमनोरञ्जिनी

हन्तुकामं बकं, मुखमारभ्य । अपाटयद् विदारयत् ॥ ८ ॥

वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया ।

हत्वा न्यपातयत् तेन कपित्थानि च लीलया ॥ ९ ॥

पदरत्नावली

तेन वत्सासुरशरीरेण । कपित्थानि कपित्थफलानि । ‘फले लुक्’ इति सूत्रेण लुक् ॥ ९ ॥

सत्यधर्मीया

वत्सेषु वत्सरूपेण प्रविशन्तं वत्सासुरं हत्वा तेन तद्दैत्यकायेनेव लीलयेव कपित्थानि तत्फलानि । फले लुक् । न्यपातयत् ॥ ९ ॥

सुमनोरञ्जिनी

प्रविशन्तं दैत्यम् । तेन दैत्येन कपित्थानि न्यपातयत् ॥ ९ ॥

हत्वा रासभदैतेयं तद्बन्धूंश्च बलान्वितः ।

चक्रे तालवनं क्षेमं परिपक्वफलोचितम् ॥ १० ॥

पदरत्नावली

क्षेमं प्राप्तरक्षणम् ॥ १० ॥

सत्यधर्मीया

बलान्वितो बलरामसहितो बलवांश्च परिपक्वफलोचितं तालवनं क्षेमम् । क्षेममस्यास्तीत्यर्श आद्यचि । वनमवनवच्चक्रे । फले लुगिति लुक् ॥ १० ॥

सुमनोरञ्जिनी

रासभरूपं दैतेयम् । बलेन बलरामेण अन्वितः । तालवनं क्षेमं क्षेमवत् । परिपक्वफलैर् उचितं सेवितुं योग्यं चक्रे ॥ १० ॥

प्रलम्बं घातयित्वोग्रं बलेन बलशालिना ।

अमोचयद् व्रजपशून् गोपांश्चारण्यवह्नितः ॥ ११ ॥

सत्यधर्मीया

बलेनान्तर्वर्तिशुक्लबालबलेन शालत इति स तथा तेन बलेन प्रलम्बं घातयित्वा व्रजपशूनमोचयन्मोचयामास । गोपांश्चारण्यवह्नितो वनानलात् । ल्यब्लोपनिमित्तेयं पञ्चमी । अरण्य-वह्निमापीयामोचयत्तस्मादमोचयदिति वा ॥ ११ ॥

सुमनोरञ्जिनी

अरण्यवह्नितः दावाग्नेः ॥ ११ ॥

आशीविषं महारौद्रं दमित्वा विमदं ह्रदात् ।

प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम् ॥ १२ ॥

पदरत्नावली

दमित्वा निगृह्य । विगतमदं ह्रदाद् उद्वास्य निष्कास्य ॥ १२ ॥

सत्यधर्मीया

विमदं ह्रदात्प्रसह्योद्वास्य निष्कास्य निर्विषोदकां यमुनामसौ चकार चक्रे

॥ १२ ॥

सुमनोरञ्जिनी

महारौद्रम् अतिक्रूरम् । विमदं विषमदवन्तं दमित्वा निगृह्य । प्रसह्य बलात्कारेण । ह्रदाद् उद्वास्य निष्कास्य ॥ १२ ॥

दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् ।

नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम् ॥ १३ ॥

पदरत्नावली

औत्पत्तिक उत्पत्तिसिद्धः ॥ १३ ॥

सत्यधर्मीया

परस्परमेवं विचार्य नन्दं प्रति पप्रच्छुः ॥ दुस्त्यज इति ॥ हे नन्द वनौकसां नोऽस्माकं तेऽस्मिंस्तनये दुस्त्यजस्त्यक्तुमशक्योऽनुरागः स्नेहः कथं जातस्तथाऽस्मासु तस्य कृष्णस्यापि स कथम् । न च स यादृच्छिक इत्याहुः ॥ औत्पत्तिक आजनीन इति ॥ नन्द त इत्यत्र त इत्यन्वयः ॥ १३ ॥

सुमनोरञ्जिनी

हे नन्द अस्मिन् ते तनये श्रीकृष्णे । नो ऽस्माकम् अनुरागः स्नेहः दुस्त्यजः। तस्यापि त्वत्तनयस्यापि । अस्मासु अनुराग औत्पत्तिकोऽस्ति । तदेतद्द्वयं कथम् ॥१३॥

क्व सप्तहायनो बालः क्व महाद्रिविधारणम् ।

ततो नो जायते शङ्का व्रजनाथ तवात्मजे ॥ १४ ॥

पदरत्नावली

ततो नो जायते शङ्केत्यादिना ‘नतद्वीर्यविदः प्रोचुः समुपेत्य सुविस्मिताः’ इति प्रागुक्तं स्पष्टीकृतम् ॥ १४ ॥

दुर्घटभावदीपिका

शङ्केत्यस्य विस्मय इत्यर्थः । तत्कर्मसु न विस्मय इति, कृष्णं च गतविस्मया इति च वक्ष्यमाणत्वात् ॥ १४ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे चतुर्विंशोऽध्यायः ॥ १०-२४ ॥

सत्यधर्मीया

क्रमतो व्युत्क्रमतश्च सङ्गृह्योक्त्वा पुनरतिसन्निहितं तद्विहितमुक्त्वा सम्पुटीकुर्वन्ति ॥ क्वेति ॥ क्व सप्तहायनो बालो महाद्रेर्गोवर्धनस्योद्धरणं क्व । हे व्रजनाथ । तवात्मजे नः शङ्का संशयो जायतेऽतो ‘‘न तद्वीर्यविद’’ इति प्रागुदीरितमुज्जीवितम् ॥ १४ ॥

सुमनोरञ्जिनी

पुनरप्यतिविस्मिता उक्तमेवाहुः ॥ क्वेति ॥ ततो ऽत्यद्भुतकार्यकरणात् । तवात्मजे शंका संशयो जायते । तवात्मजत्वविषये संशयो भवतीति भावः ॥ १४ ॥

नन्द उवाच–

श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके ।

एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह ॥ १५ ॥

पदरत्नावली

व्येतु विगता भवतु । प्रसक्तकथां प्रत्यन्तरङ्गत्वेन कथान्तरमारभ्यत इति सूचनाय हशब्दः । ‘प्रत्यारम्भे प्रसिद्धौ ह’ इति यादवः ॥ १५ ॥

सत्यधर्मीया

एवं गोविन्दविषये सन्दिग्धबुद्धीन्गोपान्प्रति स्वेन यद्गर्गेण श्रुतं तन्नन्द उपदिशतीत्याह ॥ नन्द इति ॥ हे गोपाः । मे तद्वचः श्रूयताम् । वोऽर्भके मत्पुत्रविषये शङ्का व्येतु गच्छतु । एनं कुमारमुद्दिश्य गर्गः पुरोधा यदुवाच । हेत्यनेन तद्वचनान्यथात्वप्रसिद्धिं सूचयति । प्रत्यारम्भे प्रसिद्धौ हेति यादवः ॥ १५ ॥

सुमनोरञ्जिनी

एवमुक्तो नन्दः प्राप्तगर्गोक्तस्मृतिः प्रत्याहेत्याह ॥ नन्द इति ॥ हे गोपा अर्भके या शङ्का सा व्येतु अपगच्छतु । यद् यस्माद् एनं कृष्णाख्यं कुमारम् उद्दिश्य अधिकृत्य गर्गो मे मां प्रति उवाच तस्मात् ॥ १५ ॥

वर्णास्त्रयः किलास्यासन् गृह्णतोऽनुयुगं तनूः ।

शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १६ ॥

पदरत्नावली

वर्णाः शुक्लाद्याः । अनुयुगं युगानुसारेण तनूः शरीराणि गृह्णतः स्वीकुर्वतः ।

‘जगतां वर्धयन् सत्त्वं यदा रक्षति केशवः ।

हयग्रीवादिरूपेण शुक्लवर्णस्तदा विभुः ।

वर्धयंस्तु रजो येन जगदुत्पादयेद्धरिः ।

तद् रक्तं जामदग्न्यादिरूपं येन विनाशयेत् ।

वर्धयंस्तु तमो लोके तत् कृष्णं यादवादिकम् ।

सर्वत्र सर्वं कुरुते विशेषस्तत्र कीर्तितः ।

ज्ञानदानादिना रक्षा महतां सम्प्रकीर्तिता ।

रागदानेन महतां सृष्टिः सृष्टिरुदीर्यते ।

असतां तु तमोवृद्धिं कुर्वन् पातयते यदा ।

सतां विवर्धनार्थाय कृष्णरूपी तदा हरिः ।

ज्ञानाद्युत्पत्तिकृच्चापि रूपं रक्तं विभोः स्मृतम् ।

तमोविनाशकमपि कृष्णं विष्णोरुदाहृतम् ।

आचार्यादिषु रागार्थे शुद्धसत्त्वात्मकं रजः ।

यतो व्यपेक्षितं नाशे तमसोऽपि तमः परम् ।

तमोद्वेषात्मकं शुद्धसत्त्वात्मकमुदीर्यते ।

एवं सृतिगतानां तु रागाद्या न गुणोद्भवाः ।

शुद्धज्ञानात्मकाः सर्वे मुक्तानां नात्र संशयः ।

सर्वत्र सर्वकृच्चापि हयग्रीवादिरूपकः ।

ज्ञानादिरक्षको विष्णुर्जामदग्न्यादिरूपवान् ।

ज्ञानाद्युत्पादको नित्यं कृष्णादिर्दोषनाशकः ।

एकरूपोऽपि भगवान् बहुरूप इवेयते ।

अचिन्त्यैश्वर्यरूपत्वात् पूर्णानन्दैकरूपकः ॥’

इति ब्रह्मतर्कवचनानुसारेण,

स्वेच्छया तु गुणान् विष्णुर्नानारूपान् करोत्यजः ।

गुणानामाश्रयत्वात्तु भवेत् स गुणबृम्हितः’

इति तन्त्रभागवतवचनानुसारेण चैतच्छ्लोकस्यार्थविशेषोऽध्यवसेयः ॥ १६ ॥

सत्यधर्मीया

तमेव श्लोकनिकायमनुवदति ॥ वर्णा इति ॥ व्याख्यातचराः श्लोकाः

॥ १६-१८ ॥

सुमनोरञ्जिनी

किमुवाचेति तदाह ॥ वर्णा इति ॥ एतच्छ्लोकसप्तकं पूर्वं व्याख्यातमेवातो लेशतो विव्रीयते । शुक्लो रक्तः पीत इति वर्णा आसन् अभवन् ॥ १६ ॥

प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः ।

वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते ॥ १७ ॥

पदरत्नावली

तवात्मजोऽयं वसुदेवस्य प्राक् क्वचिन्मधुरायां जातः । अभिज्ञास् तद्धित-प्रत्ययज्ञानपटवो वसुदेवस्यापत्यमिति व्युत्पत्त्या वासुदेव इति सम्प्रचक्षते । अभिज्ञा ज्ञानिनस्तु ‘वानात् सूतेर्देवनाद् वासुदेवो वासाद् द्युतेश्छादनात् क्रीडया च । बलादसुत्वाद् दातृतो वर्तनाच्च तं वासुदेवं प्रवदन्ति वेदाः’ इति सौकरायणादिश्रुतेः, ‘छादयामि जगद् विश्वं भूत्वा सूर्य इवांशुभिः । सर्वभूताधिवासश्च वासुदेवस्ततोऽस्म्यहम्’ इत्यादिस्मृतेश्च वासुदेव इति सम्प्रचक्षते ॥ १७ ॥

सुमनोरञ्जिनी

वसुदेवस्य सकाशात् क्वचिद् देवक्याम् ॥ १७ ॥

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।

गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १८ ॥

पदरत्नावली

नारायणादीनि गुणानुरूपाणि । मधुसूदनादीनि कर्मानुरूपाणि ॥ १८ ॥

सुमनोरञ्जिनी

गुणान् कर्माणि चानुरूपयन्ति ज्ञापयन्तीति तथा ॥ १८ ॥

एष वः श्रेय आधास्यद् गोपगोकुलनन्दनः ।

अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १९ ॥

पदरत्नावली

आधास्यद् आधास्यति । ‘छन्दसि लुङ्लङ्लिटः’ इति भविष्यदर्थे लङ् । यद्वा यदि यूयमस्मिन् शुद्धभक्तियुक्तं चित्तमकरिष्यन् तर्ह्ययं वो मोक्षलक्षणपुरुषार्थमाधास्यत् । ‘लिङ्निमित्ते लृङ् क्रियातिपत्तौ’ इति विध्यर्थता । अञ्जो ऽञ्जसा ॥ १९ ॥

सत्यधर्मीया

यदि यूयमस्मिन्भक्तिमकरिष्यंस्तर्ह्ययं वः श्रेयोऽधास्यत् । लिङि्नमित्ते लृङ् क्रियातिपत्ताविति विध्यर्थता ॥ १९ ॥

सुमनोरञ्जिनी

गोपान् गोकुलं च नन्दयतीति तथोक्तः । गोपेति गर्गकृतसम्बोधनं वा । आधास्यद् आधास्यति ॥ १९ ॥

पुराऽनेन व्रजपते साधवो दस्युपीडिताः ।

अराजकेऽरक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥ २० ॥

पदरत्नावली

पुरा पृथ्ववतारे ॥ २० ॥

सत्यधर्मीया

पुरा पृथुत्वदशायाम् ॥ २० ॥

सुमनोरञ्जिनी

अनेन समेधिताः सन्तो दस्यून् जिग्युरित्यन्वयः ॥ २० ॥

य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः ।

नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ २१ ॥

सत्यधर्मीया

दृष्टान्तमन्यमनाचक्षाणो गर्ग एवमाहेत्याह ॥ विष्णुपक्षानिति ॥ २१ ॥

सुमनोरञ्जिनी

एतान् अरयो नाभिभवन्ति ॥ २१ ॥

तस्मान्नन्द कुमारोऽयं नारायणसमो गुणैः ।

श्रिया कीर्त्याऽनुभावेन तत्कर्मसु न विस्मयः ॥ २२ ॥

पदरत्नावली

तत्कर्मसु साक्षाद्विष्ण्वंशकृष्णविषयककर्मसु विस्मयो न कार्यः ॥ २२ ॥

सत्यधर्मीया

तत्कर्मसु कृष्णकृतकर्मचरितेषु विस्मयो न कार्यः ॥ २२ ॥

सुमनोरञ्जिनी

अतस् तत्कर्मसु तेन क्रियमाणकर्मसु विस्मयो न कार्य इत्येतद्देहलीदीप-न्यायेनोभयत्र सम्बध्यते । इति उवाचेति । इति समादिश्येति ॥ २२,२३ ॥

इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते ।

मन्ये नारायणस्यांशं कृष्णमक्लिष्टकारिणम् ॥ २३ ॥

श्रीशुक उवाच–

इति नन्दवचः श्रुत्वा गर्गगीतं व्रजौकसः ।

दृष्टश्रुतानुभावास्ते कृष्णस्यामिततेजसः ।

मुदिता नन्दमानर्चुः कृष्णं च गतविस्मयाः ॥ २४ ॥

पदरत्नावली

आनर्चुः पूजयामासुः ॥ २४ ॥

सत्यधर्मीया

मन्य इति साक्षान्नन्दवचः । नन्दम्, एतादृशो नन्दनस्तवेत्यानर्चुः पूजयामासुः। गतविस्मया नारायणश्चेत्सर्वं सम्भावितमिति गतविस्मयाः कृष्णं चानर्चुः ॥२३-२४॥

सुमनोरञ्जिनी

दृष्टोऽनुभावः गोवर्धनोद्धरणादिः श्रुतः पुराऽनेनेत्यादिना, अनुभावो माहात्म्यं यस्य । षष्ठी द्वितीयार्थे । तद्विषयकं नन्दस्य वचः श्रुत्वा मुदिताः सन्तः नन्दं कृष्णम् आनर्चुः पूजयामासुः ॥ २४ ॥

**देवे वर्षति यज्ञविप्लवरुषा वज्राश्मवर्षानिलैः **

सीदद्बालपशुस्त्रि याऽऽत्मशरणं दृष्ट्वाऽनुकम्प्युत्स्मयः ।

उत्कृत्यैककरेण शैलमबलो लीलोच्छिलीध्रं यथा

बिभ्रद् गोष्ठमपान्महेन्द्रमदभित् १प्रीयान्न इन्द्रो गवाम् ॥ २५ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे चतुर्विंशोऽध्यायः ॥

पदरत्नावली

श्रीशुकः प्रथमभागसमाप्तिसूचनाय स्वेष्टदेवतां शिष्टानामनिष्टनिवृत्त्यभीष्टप्राप्त्यर्थ-मभिष्टौति देव इति । यज्ञस्य विप्लवो भङ्गस्तस्मादुत्पन्ना च सा रुट् च तया देवे मघवति वर्षति सति वज्राश्मवर्षानिलैर् अशनिजलोपलवर्षवातैः स्त्रिया सह सीदन्तः क्लिश्यन्तो बालाश्च पशवश्च यस्मिंस्तत् सीदद्बालपशु । आत्मा स्वयमेव शरणं रक्षिता यस्य तत् तथा । अनुकम्पा हृदयद्रवी-भावोऽस्यास्तीति अनुकम्पी । ‘हृदयस्य द्रवीभावस्त्वनुकम्पेति कथ्यते’ इति शब्दनिर्णयः । उत्स्मय उत्कृष्टमन्दहासः । अबलो बालो लीलासाधनमुत् फुल्लं शिलीन्ध्रं यथा तथैककरेण शैलं शिलोच्चयमुत्पाट्य बिभ्रद् बिभ्राणो गोष्ठं योऽपाद् अगोपीत् स महान्द्रस्य मदं गर्वं भिनत्ति निर्मूलयतीति महेन्द्रमदभिद् गवामिन्द्रो गोविन्दो नोऽस्मभ्यं प्रीयात् प्रीतो भवतु । पायान्न इति पाठे नोऽस्मान् रक्ष्यादित्यर्थः ॥ २५ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे चतुर्विंशोऽध्यायः ॥

सत्यधर्मीया

निरन्तरहरिचरितसमीरणपरवशचेताः शुको बाललीलेदमवधिरिति मङ्गलं तन्वन् सर्वमङ्गलापतिस्वांशिसदाशिवः सुतां गृहीत्वोद्दधार धरं किञ्च कैलासगिर्यगारश्चेति किञ्चिदनुबन्धेन सपरिकरमिमं गिर्युद्धरणपराक्रममनुवर्ण्य श्रीकृष्णो गोगोपानिव नः पायादपायादिति प्रार्थयते ॥ देव इति ॥ यज्ञस्य विप्लवो भङ्गस्तज्जनिता च सा रुट् च रोषश्च तया । देवे मघोनि वर्षति सति वज्राश्मवददार्यदृषद्वद्विद्यमानं च तद्वर्षं तथाऽनिला वायवश्च तैः । सीदन्तश्च सीदन्त्यश्च कम्पमाना बालाः पशवश्च स्त्रियश्च यस्मिंस्तत् । परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति स्मरणात् । विशेषस्तु अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितावित्यनुव्याख्यानव्याख्यासुधादितो बोध्यः । स्त्रियात्मेत्यत्राधिकारिवर्जितं च स्त्रियात्मादिकम् । त्रियाद्यवयवात्मिकामितिवद्यणागमः । यद्वा या रमाया आत्मा स्वाम्ययं शरणं यस्य तत् । लक्ष्मीराकार उच्यत इति विश्वः । गोष्ठं दृष्ट्याऽनुकम्पी शिखादिः । अनुकम्पा हि हृदयद्रवणं साऽस्यास्तीति सः । भक्तानुकम्पादतिशुद्धसंविद्वाऽत्र इत्यनुव्याख्याव्याख्यासुधायामनुकम्पा-दनुक्रोशादित्युक्तेरकारान्तोऽनुकम्पशब्दः । ततश्चात इती निठनावितीन्वा । हृदयस्य द्रवीभावस्त्वनु-कम्पेति कथ्यते । उपकारं कर्तुमिच्छा कृपेत्याहुर्मनीषिण इति शब्दनिर्णय इति चतुर्थतात्पर्योक्तेः । उत्स्मय उत्कृष्टहासः । एककरेण शैलं गोवर्धनं यथाऽबलः बालो लीलोच्छिलीध्रं छत्राकं वा, उत्कृष्टं कदलीपुष्पं वा धरति तथोत्पाट््य । अधिपुरन्ध्रिशिलीध्रसुगन्धिभिरिति माघव्याख्यायां शिलीध्राणां कदलीकुसुमानाम् । कदल्यां तु शिलीध्रं स्यादिति शब्दार्णव इत्युक्तेः । उत्कृत्य बिभ्रदेक-करेणेत्यत्रान्वेति । अपादपीपलदिति । महेन्द्रस्य मदोऽहन्ता तं भिनत्तीति स तथा । गवामिन्द्रः, इदानीं गवां वेदादिवाचामिन्द्रः प्रतिपाद्यतयेति नः पायात् । वेदादिप्रतिपत्तिदोऽपि सन्नः पायादिति प्रकृतव्याकरणाननुगुणं प्रार्थनमिति मन्तव्यम् ॥ २५ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां दशमस्कन्धपूर्वार्धे चतुर्विंशोऽध्यायः ॥

सुमनोरञ्जिनी

श्रीशुकः गोवर्धनोद्धरणादिस्मरणेन जातसंभ्रमः स्तौति ॥ देव इति ॥ यज्ञस्य महेन्द्रयागस्य विप्लवेन भङ्गेन या रुट् तया । देवे इन्द्रे वर्षति सति । वज्रैर् अशनिभिर् अश्मभिर् वर्षोपलैर् अनिलैर् वायुभिश्च । सीदन्तः बालाः पशवः स्त्रियश्च यस्मिन् तत् सीदद्बाल-पशुस्त्रि । आत्मनः शरणं गृहरूपं गोष्ठम् । आत्मैव शरणं रक्षको यस्य तदिति वा । दृष्ट्वा अनुकंपी सन् उत्स्मयन् उत्कृष्टं स्मयन् । अबलो बालः लीलार्थम् उच्छिलीन्ध्रं छत्राकं यथा तथा शैलम् उत्पाट्य । एकेन करेण बिभ्रत् सन् गोष्ठम् अपाद् ररक्ष । सः, महेन्द्रस्य मदं भिनत्तीति तथोक्तः । गवाम् इन्द्रः गोविन्दः नो ऽस्माकं प्रीयादित्यन्वयः ॥ २६ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां चतुर्विंशोऽध्यायः ॥ १०-२४ ॥