२३ त्रयोविंशोऽध्यायः

इन्द्रस्तदात्मनः पूजां विज्ञाय विहतां नृप

॥ अथ त्रयोविंशोऽध्यायः ॥

श्रीशुक उवाच–

इन्द्रस्तदात्मनः पूजां विज्ञाय विहतां नृप ।

गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप ह ॥ १ ॥

पदरत्नावली

गोवर्धनधरणिधरोद्धरणेन निजैकशरणान् सगोधनान् गोपगणान् दृप्तमहेन्द्रकृत-महापदो गोपतिर्जुगोपेति चित्रचरित्रकीर्तनेन सांसारिकविविधविपत्प्रवर्षणार्तान् निजचरणैकशरणान् प्राणिनो रक्षत्येवाधोक्षज इत्यर्थः प्रतिपाद्यतेऽस्मिन्नध्याये । कृष्ण एव नाथो येषां ते तथा तेभ्यः । ‘क्रध्द्रुहेर्ष्यासूयार्थानां यं प्रति कोपः’ इति चतुर्थी । हेत्यनेन देवेन्द्रदर्पस्य तदाविष्टमहासुरकृतत्वं प्रकाश्यते ॥ १ ॥

सत्यधर्मीया

शक्रदर्पजिघांसयेति मूलेन तात्पर्येण चेन्द्रस्य विमदायेति मदः सूचितस्तं विस्तृत्य तदपनयनं चेत्थमित्थमेव भक्तसामान्यं दयापयोधिरुद्धरतीत्येतदस्मिन्नध्याये प्रतिपाद्यते । तत्रादौ मखविखण्डनं श्रुत्वाऽऽखण्डलः कामारभटीमारेभ इत्यतः शुक आहेत्याह ॥ श्रीशुक इति ॥ इन्द्र आत्मनः पूजां विहताम् । अनेनारब्धता ध्वन्यते । विज्ञाय तत्तदा कृष्णनाथेभ्यो नन्दादिभ्यो गोपेभ्यश्चुकोप । हेति तदज्ञानमन्यकृतमिति सूचयति । क्रुध्द्रुहेति चतुर्थी ॥ १ ॥

सुमनोरञ्जिनी

गोवर्धनोद्धरणेन शरणागतगोगोपालगोपनलक्षणं माहात्म्यं निरूपयत्य-स्मिन्नध्याये । तत्रादावत्यल्पासुरावेशवशादिन्द्रकृतमतिक्रमं वक्तुमुपक्रमते ॥ इन्द्र इति ॥ इन्द्र आत्मनः स्वस्य पूजां विहतां नाशितां विज्ञाय । कृष्ण एव नाथो येषां तेभ्यो नन्दादिभ्यश् चुकोप । क्रुध्द्रुहेर्ष्यासूयार्थानां यं प्रति कोप इति चतुर्थी ॥ १ ॥

गणं सांवर्तकं नाम मेघानां चान्तकारिणाम् ।

इन्द्रः प्राचोदयत् क्रुद्धो वाक्यं चाहेशमन्युना ॥ २ ॥

पदरत्नावली

अन्तकारिणां प्रलयं कुर्वतां सांवर्तकं नाम महाप्रलयकालिकत्वेन सांवर्तकनाम्ना प्रसिद्धं मेघानां गणं प्राचोदयत् प्रेरयामास । ‘संवर्तः समसुप्तिश्च परिवर्तो महालयः’ इत्युत्पलमाला । सांवर्तकमित्युक्त्यैवान्तकारित्वेऽवगते पुनरन्तकारिणामिति विशेषणेन काले तथात्वमकाले नेति सूच्यते । ईशं कृष्णमुद्दिश्य मन्युना कोपेन । ‘मद्युर्दैन्ये क्रतौ क्रुधि’ इति यादवः ॥ २ ॥

सत्यधर्मीया

अन्तकारिणां लयं कल्पतां मेघानां नाम्ना सांवर्तकं प्रलयकालिकमित्यर्थः । गणं सङ्घं प्राचोदयत् । क्रुद्ध ईशमन्युनेशं प्रति कृतक्रुधा । अनेन तस्य नैष्फल्यं सूचयति । वाक्यं चाह । सांवर्तकमित्युक्त्यैवान्तकारितावगतौ पुनरन्तकारिणामित्यनेन काले तथात्वमस्त्वकाले नेति ध्वनयतीति मन्तव्यम् ॥ २ ॥

सुमनोरञ्जिनी

अन्तकारिणां प्रलयं कुर्वतां मेघानां सांवर्तकं तन्नामकं गणम् । प्राचोदयत् प्रेरितवान् । ईशं श्रीनाथम् उद्दिश्य मन्युना कोपेन । इदं वक्ष्यमाणं वाक्यं चाह ॥ २ ॥

अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् ।

कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् ॥ ३ ॥

पदरत्नावली

ये मर्त्यं मरणशीलं कृष्णमुपाश्रित्य देवस्य क्रीडादिकर्तृत्वसर्वलोकस्तुत्यत्वादिना देवशब्दवाच्यस्य मम हेलनमवज्ञां चक्रुरिति । ‘दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमद- स्वप्नकान्तिगतिषु’ इति धातुः ॥ ३ ॥

सत्यधर्मीया

काननौकसां गोपानां श्रीमदमाहात्म्यमहो आश्चर्यावहम् । किंरूपं तदित्यतो निरूपयति । ये मर्त्यं मरणशीलं कृष्णमुपाश्रित्य देवानाममर्त्यानां हेलनमनादरं चक्रुरिति ॥ ३ ॥

सुमनोरञ्जिनी

काननमेव ओको निवासस्थानं येषां तेषां गोपानां श्रीमदस्य माहात्म्यम् अहो आश्चर्यकरम् । कुतः । यतः कृष्णसंज्ञकं मर्त्यं मनुष्यम् । उपाश्रित्य । देवहेलनं देवस्य मम हेलनम् अवज्ञानं कृतवन्तो ऽत इति ॥ ३ ॥

यथाऽदृढैः कर्ममयैः कुप्लवैर्ज्ञानमानिनः ।

विद्यामान्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ॥ ४ ॥

पदरत्नावली

महासुरावेशेऽपि देवस्वभावत्वात् तत्त्वमपि कथयति यथेति ॥ यथा ज्ञानमानिनोऽस्माकमर्णवतरणोपायज्ञानमस्तीत्यभिमानवन्तोऽज्ञजना अदृढैः क्षरद्दारुकृतैः कर्ममयैर् बहुतक्षकर्मसाधितैः कुप्लवैः कुत्सितोडुपैर् आन्वीक्षिकीम् अर्णवतरणपरीक्षां हित्वाऽर्णवं तितीर्षन्ति तर्तुमिच्छन्ति तथैते ज्ञानमानिनोऽस्माकं भवार्णवतरणोपायज्ञानमस्तीत्यभिमानवन्तो ऽदृढैरस्थिरफलकैः कर्ममयैः प्रवृत्तकर्मात्मकैः कुप्लवैः पापप्रायैः प्लवैर् आन्वीक्षिकीं स्वबिम्बरूपिभगवदपरोक्षज्ञानानुकूलां विद्यां हित्वा भवार्णवं तितीर्षन्तीत्यन्वयः । ‘कुः पापेऽल्पार्थकुत्सयोः’ इति यादवः । भगवदपरोक्ष-ज्ञानामन्तरेण कर्ममात्रैर्भवार्णवं तरेमेति विभ्रम्य कर्म कुर्वन्तीत्यर्थः ॥ ४ ॥

दुर्घटभावदीपिका

अत्रैवं योजना । मर्त्यं कृष्णमुपाश्रित्य ये देवहेलनं चक्रुः कृष्णाश्रयेण देवहेलननिमित्तकापत्तरणं भविष्यतीति निश्चित्य देवहेलनं चक्रुरिति यावत् । तेषां काननौकसां गोपानां श्रीमदमाहात्म्यमहो आश्चर्यम् । देवहेलननिमित्तकापत्तरणं कृष्णाश्रयेण भविष्यतीति निश्चित्य देवहेलनकरणमविवेककृतमित्यभिप्रेत्यात्र दृष्टान्तमाह ॥ यथेति ॥ यथा केचन ज्ञानमानिनोऽस्माकं भवार्णवतरणोपायज्ञानमस्तीत्यभिमानिनः । मूर्खा इति यावत् । आन्वीक्षिकीं भगवदपरोक्षज्ञानानुकूलां विद्यां ब्रह्मविद्यां हित्वाऽदृढैरस्थिरफलकैः कर्ममयैः कर्मात्मकैः कुप्लवैः कुत्सितप्लवैर्भवार्णवं तितीर्षन्ति तर्तुमिच्छन्ति । भगवदपरोक्षज्ञानं विना कर्मभिरेव भवाम्बुधितरणं भविष्यतीति निश्चयं कृत्वा कर्म कुर्वन्तीति यावद् इति ॥ ३-४ ॥

सत्यधर्मीया

पूर्वमुक्तं न स्वकं किन्तु परप्रेरणकृतं न तच्चिरस्थायीत्यपि सूचयितुं किञ्चि-त्सत्स्वभावव्यापारणं निदर्शनेन दर्शयति ॥ यथेति ॥ अदृढैरफलपर्यवसायकैरन्यत्रासारभूरुहकृतैः कर्ममयैः प्रवृत्तकर्मप्रवृत्तैरन्यत्रानल्पशिल्पिकर्मभिः कुप्लवैः कुः पृथिवी तस्यामेव सद्भिः प्लवत्वेन प्रतीयमानैः कुत्सितैरन्यत्रापारगामिभिः पापप्रायैः प्लवैर्वा । कुः पापेऽल्पार्थकुत्सयोरिति यादवः । ज्ञानमस्मदीयं ज्ञानमेवेति मानिनोऽभिमानवन्तः समार्थमिदम् । आन्वीक्षिकीं ब्रह्मतर्कजनितां विद्यां ज्ञानं हित्वाऽन्यत्रार्णवपारमेवं गच्छेदिति परीक्षां हित्वा त्यक्त्वाऽर्णवं तितीर्षतो यथा तथैते भवार्णवं तितीर्षन्ति यं मर्त्यमाश्रित्याहो । आन्वीक्षिकीं विद्यां स्वबिम्बप्रतिपत्तिं वा ॥ ४ ॥

सुमनोरञ्जिनी

तत्र दृष्टान्तमाह ॥ यथेति ॥ ज्ञानमानिनः किञ्चिज्ज्ञानेनाभिमानिनो अहङ्कारिणो वयमेव ज्ञानिन इत्यभिमानवन्तो वा । अदृढैर् असारैर् अनित्यफलैरिति यावत् । कर्ममयैः कर्मप्रधानकैः । कुप्लवैः कुत्सितप्लववद्विद्यमानैः साधनैर् भवार्णवं तितीर्षन्ति । आन्वीक्षिकीम् अपरोक्षज्ञानसाधनीभूताम् । विद्यां परविद्यां हित्वा त्यक्त्वा । आन्वीक्षिकीं बिम्बदर्शानात्मिकां विद्यामिति वा ॥ ४ ॥

वाचालं मानिनं १मत्तमज्ञं पण्डितमानिनम् ।

कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५ ॥

तात्पर्यम्

‘अत्यल्पस्त्वसुरावेशो देवानां च भविष्यति । प्राणमेकमसौ हित्वाऽऽ-खणाश्मसमः स्मृतः । तस्मिन्नप्यसुरावेशे गते प्रकृतिरेव त्वि’ति च ॥ ५ ॥

पदरत्नावली

वाचालम् ‘अस्ति चेदीश्वरः कश्चित्’ इत्यादिबहुगर्ह्यभाषिणम् । ‘आलजाटचौ बहुभाषिणि’ इति सूत्रेण कुत्सितं बहु भाषत इति वाचाल इति रूपम् । मानिनं कुत्सितमान-मस्यास्तीति तथा । मन्मखविखण्डकत्वान्मत्तस्तम् । ‘रजसा चोदिता मेघाः’ इत्यादिना मम निखिलनियामकत्वज्ञानहीनत्वादज्ञस्तम् । ‘आजीव्यैकतरं भावम्’ इत्यादिना पण्डित इति मानी तम् ॥ ५ ॥

सत्यधर्मीया

ननु वाचालं मानिनं स्तब्धमिति श्लोके तथा मर्त्यमित्यतीतग्रन्थे च नन्दनन्दन-निन्दनमिन्द्रकृतं प्रतीयते । तच्च हरिद्विषस्ते वै तमसि प्रपतन्तीत्यादेस्तम आद्यन्यतमानर्थदम् । तद्देवानां निरयो नास्ति तमश्चापि कथञ्चनेति मानबाधितम् । सामान्यतो देवानां किमु तत्सम्मान्यस्य शचीशस्येत्यतस्तात्पर्यं मानाननत आह ॥ अत्यल्प इति ॥ तुशब्दस्तत्तारतम्ययोग्यतातारतम्या-दिति विशेषसूचकः । देवानां भविष्यति । देवानामिति बहुवचनेन सर्वसुपर्वणामिति प्राप्तौ किञ्चि-द्विषयेऽपवादं वदति ॥ प्राणमिति ॥ एकं मुख्यं प्राणं विना, व्याख्यातो ब्रह्मणा मरुदिति-वद्व्याख्यातो वायुना विधिः । तत्स्वरूपं निरूपयति ॥ असाविति ॥ हि यतोऽसौ वायुरा-खणाश्मसमः स्मृतः स एषोऽश्माखणः । अखन्याश्मानमेवाप्य लोष्टो विध्वंसते यथेति छन्दोगोप-निषद्भाष्योक्तेः । तर्हि बहिर्मुखानामसुरावेशो गच्छत्यागतो न वेत्यत आह ॥ असुरावेश इति ॥ तस्मिन्नसुरावेशे गते प्रकृतिरेव चरत्स्वभाव एवावतिष्ठते । अनर्थश्रुतिस्तु सर्वथा दुरात्माऽसुरपरेति तात्पर्यम् । तुशब्दस्त्वेवमादिमहात्मशिक्षया स्वभावाविर्भाव इति विशेषसूचकः । स्मृत इति भागवततन्त्रं स्वस्यापि मूलं लपत्तद्दार्ढ्यं सूचयतीति मन्तव्यम् ॥

अथ मूलार्थः ॥ वाचालमालजाटचौबहुभाषिणीति । वाचालो बहुगर्ह्यवागित्यमरः । अस्ति चेदीश्वर इत्यादिबहुभाषिणम् । मानिनमप्रमाणप्रमाणताज्ञानिनमित्यर्थेऽनिन्दितता मत्तं मन्मखविखण्डकत्वात् । अज्ञं, रजसा चोदिता मेघा इति मत्स्वाम्यज्ञानहीनं, पण्डित इति मानी तम् । आजीव्यैकतरं भावमिति तथात्वनटनम् । मर्त्यं कृष्णमुपाश्रित्य गोपा मेऽप्रियं चक्रुः

॥ ५ ॥

सुमनोरञ्जिनी

किं तद्देवहेलनं चक्रुरित्यत उक्तमेव पुनस्तदाह ॥ वाचालमिति ॥ वाचालं बहुभाषिणम् । मानिनं गर्विणम् । अज्ञं देवमाहात्म्याज्ञानिनम् । एतादृशं कृष्णमुपाश्रित्य । मे अप्रियं मत्पूजाविघातलक्षणम् ॥ ५ ॥

एषां श्रियाऽवलिप्तानां कृष्णेनाप्यायितात्मनाम् ।

धुनुत श्रीमदस्तम्भं पशून् नयत सङ्क्षयम् ॥ ६ ॥

पदरत्नावली

अवलिप्तानां दृप्तानाम् । आप्यायितात्मनां वर्धितमनसाम् । श्रीमदेन यः स्तम्भोऽविद्यमानसामर्थ्यप्रकटनं धुनुत निराकुरुत ॥ ६ ॥

सत्यधर्मीया

अवलिप्तानामहङ्कृतां कृष्णेनाप्यायित आत्मा मनो येषां ते तथा वर्धितः । आप्यायितः श्रीमदप्रयुक्तस्तम्भोऽविद्यमानसामर्थ्यप्रकटनं धुनुत निराकुरुत । पशूंस्तदुपजीव्यान् सङ्क्षयं नाशं नयत ॥ ६ ॥

सुमनोरञ्जिनी

अवलिप्तानां गर्विणां, कृष्णेन आप्यायितात्मनां तोषितमनसां, श्रीमदेन यः स्तम्भः स्तब्धता तं धुनुत निराकुरुत । तदुपायमाह ॥ पशून् संक्षयं नयत । गोजीवित्वेन गवां नाशे स्वोपजीवननाशे स्वत एव मदो गच्छतीति भावः ॥ ६ ॥

अहं चैरावतं नागमारुह्यानुव्रजे व्रजम् ।

मरुद्गणैर्महावेगैर्नन्दगोष्ठजिघांसया ॥ ७ ॥

पदरत्नावली

नाम्ना ऐरावतं नागं गजम् ॥ ७ ॥

सत्यधर्मीया

अहं नागं नाम्नैरावतमारुह्य व्रजं गोपालस्थलमनुव्रजे व्रजामि । नैकाकीत्याह । महावेगैर्मरुद्गणैर्महावातैः । फलमालपति ॥ नन्दगोष्ठजिघांसयेति ॥ नन्दगोघोषहननेच्छया । यथोक्तं चतुर्थतात्पर्ये । गोष्ठं घोष इति प्रोक्तो व्रजस्तत्पालसंस्थितिरिति ॥ ७ ॥

सुमनोरञ्जिनी

श्रीकृष्णाद्बिभ्यत आह ॥ अहमिति ॥ मरुद्गणैर् देवसमूहैः सह अनुव्रजे अनन्तरमेवागच्छामि ॥ ७ ॥

इत्थं मघवताऽऽज्ञप्ता मेघा निर्मुक्तबन्धनाः ।

नन्दगोकुलमासारैः पीडयामासुरोजसा ॥ ८ ॥

पदरत्नावली

निर्मुक्तानि बन्धनानि शृङ्खलानि येभ्यस्ते तथा । आसारैर्धारासम्पातैः, वेगव-द्वर्षैरित्यर्थः । ओजसा स्वसामर्थ्येन ॥ ८ ॥

सत्यधर्मीया

मघवतेत्थमाज्ञप्ताः । निर्मुक्तानि बन्धनानि शृृङ्खला येभ्यस्ते मेघाः । आसारैर्धारासम्पातैर्नन्दगोकुलमोजसा स्वसामर्थ्येन पीडयामासुः । उच्चैःश्रवसं स्यन्दनं वा विहायैरावतारोहणं तच्छुण्डादण्डसमासारान्मुञ्चतेति सूचयितुं नमुचिपविमुच इति भावो भावस्थ इति ज्ञेयम् । धारा वितेरुरुरुनागकरप्रमाणा इति श्रीमदुक्तेः ॥ ८ ॥

सुमनोरञ्जिनी

इत्थम् एवं प्रकारेण । मघवता इन्द्रेण । प्रलयार्थं पूर्वं बद्धा इदानीं निर्मुक्तं बन्धनं येभ्यस्ते मेघाः । नन्दस्य गोकुलं गोसमुदायम् । आसारैर् जलधारासम्पातैः । ओजसा सामर्थ्येन ॥ ८ ॥

विद्योतमाना विद्युद्भिर्नदन्तः स्तनयित्नुभिः ।

तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः ॥ ९ ॥

पदरत्नावली

स्तनयित्नुभिर्गर्जितैः । ‘स्तनयित्नुर्हि गर्जिते’ इति यादवः । जलशर्करा वर्षोपलान् ॥ ९ ॥

सत्यधर्मीया

विद्युद्भिश्चपलाभिर्विद्योतमानाः प्रकाशमानाः । स्तनयित्नुभिः । स्तनयित्नुः पयोवाहे तद्ध्वनौ मृत्युरोगयोरिति विश्वः । अत्र ध्वनिमात्रपरः स्तनयित्नुशब्दः । जलशर्कराः कर्कान्ववृषुः ॥ ९ ॥

सुमनोरञ्जिनी

विद्युद्भिर् विद्योतमाना प्रकाशमाना स्तनयित्नुभिर् अशनिभिर् नदन्तः गर्जन्तः । तीवै्रः प्रचण्डैः । मरुद्गणैर् वायुसमूहैः । नुन्नाः प्रेरिता जलशर्करा वर्षोपलान् ववृषुः ॥ ९ ॥

स्थाणुस्थूला वर्षधारा मुञ्चत्स्वभ्रेष्वभीक्ष्णशः ।

जलौघैः प्लाव्यमाना भूर्नादृश्यत नतोन्नतम् ॥ १० ॥

पदरत्नावली

स्थूणावद् गृहस्तम्भवत् स्थूलाः । ‘स्थूणा स्तम्भेऽपि वेश्मनः’ इत्यमरः । अभीक्ष्णशो नैरन्तर्येण । नतोन्नतं निम्नमुन्नतं च यथा भवति तथा नादृश्यत ॥ १० ॥

सत्यधर्मीया

स्थाणुवत्स्थूला वर्षधारा अभ्रेषु मुञ्चत्सु सत्सु । विरामो नेत्याह ॥ अभीक्ष्णश इति । भूर्जलौघैस्तत्प्रवाहैः प्लाव्यमाना नतोन्नतमनुन्नतमुन्नतं च यथा भवति तथा नादृश्यत ॥ १० ॥

सुमनोरञ्जिनी

अभ्रेषु स्थाणुवद् वृक्षवत् स्थूला वर्षधारा मुंचत्सु । जलौघैः प्लाव्यमाना बभूव । तत्रत्यं नतेन निम्नेन सहितम् उन्नतं स्थलं च नादृश्यत ॥ १० ॥

अत्यासारातिवातेन पशवो जातवेपनाः ।

गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः ॥ ११ ॥

पदरत्नावली

जातं वेपनं कम्पनं येषां ते तथा ॥ ११ ॥

सत्यधर्मीया

अत्यासारसहितो योऽतिवातस्तेन । जातं वेपनं कम्पनं येषां ते गोपा गोप्यश्च शीतेनार्ता गोविन्दं शरणं ययुः ॥ ११ ॥

सुमनोरञ्जिनी

अत्यासारेण अतिवातेन च जातवेपना जातकम्पाः ॥ ११ ॥

शिरस्सुतांश्च कायेन प्राच्छाद्यासारपीडिताः ।

वेपमाना भगवतः पादमूलमुपाययुः ॥ १२ ॥

पदरत्नावली

स्वकायेन शिरश्च सुतांश्च प्रच्छाद्य ॥ १२ ॥

दुर्घटभावदीपिका

शिरः सुतांश्च कायेन प्रच्छाद्येत्यस्य सुतान्कायेन प्रच्छाद्य सुतानां शिरश्च विशेषतः कायेन प्रच्छाद्येत्यर्थः । एतेन सुतानामित्यनेन पदाद्यवयवाच्छिरोरूपोऽवयवस्यापि प्राप्तत्वात् शिर इत्येतद्व्यर्थमिति भ्रमानवकाशः । विशेषत इत्यस्य शेषेण शिरो विशेषतः प्रच्छाद्येत्यर्थस्योक्तत्वात्

॥ १२ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे त्रयोविंशोऽध्यायः ॥ १०-२३ ॥

सत्यधर्मीया

शिरः स्वकीयं सुतानुदरे निवेश्याच्छाद्य कायेन शरीरेणासारपीडिता वेपमाना भगवतः पादमूलम् । स्थातुं भूर्नास्तीति तत्प्रसवितृमूलोपसरणं युक्तिमत्कृतमिति मन्तव्यम् ॥१२॥

सुमनोरञ्जिनी

कथं जग्मुरित्यतस्तद्विशिनष्टि ॥ शिर इति ॥ स्वकायेन शिरः सुतांश्च प्रच्छाद्य । भगवतः श्रीकृष्णस्य पादमूलम् ॥ १२ ॥

कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो ।

त्रातुमर्हसि देवान्नः कुपिताद् भक्तवत्सल ॥ १३ ॥

पदरत्नावली

त्वमेव नाथो यस्य तत् त्वन्नाथम् ॥ १३ ॥

सत्यधर्मीया

त्वं नाथो यस्य तत्त्वन्नाथम् । कुपिताद्देवेन्द्रात् । कुतः कोपस्तस्येत्यतस्त्वं देवान्नो देवानामिन्द्रादीनां देयमन्नं यस्य स इति कुपितादिति भावः ॥ १३ ॥

सुमनोरञ्जिनी

तत्रागतानां गोपगोपीनां प्रार्थनाप्रकारमाह ॥ कृष्णेति ॥ त्वमेव नाथो यस्य तद्गोकुलं गोसमुदायम् । नो ऽस्मांश्च । कुपिताद् रुष्टाद् देवाद् इन्द्रात् त्रातुं रक्षितुम् अर्हसीति

॥ १३ ॥

शीतवर्षातिवातेन हन्यमानमचेतनम् ।

निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतं हरिः ॥ १४ ॥

पदरत्नावली

अचेतनं निस्सञ्ज्ञम् ॥ १४ ॥

सत्यधर्मीया

अचेतनं निस्संज्ञम् । कुपितश्चासाविन्द्रश्च तेन कृतं मेने ॥ १४ ॥

सुमनोरञ्जिनी

शीतवर्षाभ्यां सहितेन अतिवातेन । हन्यमानं पीड्यमानम् अचेतनं कर्तव्यज्ञानविधुरं निःसंज्ञं वा । गोकुलं निरीक्ष्य । एतादृग्वर्षं कुपितेन्द्रकृतं मेने ॥ १४ ॥

अपर्तावुल्बणं वर्षमतिवातं शिलामयम् ।

स्वर्यागे विहतेऽस्माभिरिन्द्रो नाशाय वर्षति ॥ १५ ॥

पदरत्नावली

अपर्तौ अवर्षर्तौ ॥ १५ ॥

सत्यधर्मीया

मननप्रकारमेवमालुलोच भगवानित्याह ॥ अपर्ताविति ॥ अवर्षर्तौ स्वर्यागेऽस्माभिर्विहते नाशिते सति । स्वयाग इति स्फुटार्थः । गोकुलस्य नाशायेन्द्रोऽतिवातं शिलामयं वर्षं वर्षति करोति ॥ १५ ॥

सुमनोरञ्जिनी

कथं मेन इत्यतस्तं प्रकारमाह ॥ अपेति ॥ ज्ञात्वा तत्र कर्तव्यमालु-लोचेत्याह । अपगतो ऋतुर्यस्य तदपर्तु । अकाले जायमानमिति यावत् । अतिवातम् अतिशयितो वातो यस्मिन् तत् । शिलामयं शिलाप्रचुरम् अतोऽत्युल्बणं वर्षं यस्मात्तस्मात् । इन्द्र एव नाशाय गोगोपानां संहाराय । वर्षति । तत्र निमित्तं, अस्माभिस्तन्मखे तदुद्देश्यके मखे विहते सतीति

॥ १५ ॥

तत्र प्रतिविधिं सम्यगात्मयोगेन साधये ।

लोकेशमानिनो मौढ्याद् हरिष्ये श्रीमदं तमः ॥ १६ ॥

पदरत्नावली

प्रतिविधिं प्रतिशासनम् । आत्मयोगेन स्वरूपोपायेन । मौढ्यादेव लोकेश इति मानी तस्य लोकेशमानिनः श्रीमदात्मकं तमोऽज्ञानं हरिष्ये ॥ १६ ॥

सत्यधर्मीया

आत्मयोगेन स्वरूपोपायेन साधये साधयामि । मानसिकव्यथावते गोजनाय हितं च साधये इत्यावृत्त्याऽन्वयः । एतदाशयेनैव साधय इत्युक्तिरिति भावः । मौढ्यादेव लोकेश-मानिनो लोकेश इति मानी तस्य श्रीमदं तज्जनकं तमो हरिष्ये । लोकेऽशमानीति छेदः । लोकेऽवलोके कृते सत्यशमेनाक्षमया अनिनीति लोकेशमानी ॥ १६ ॥

सुमनोरञ्जिनी

तत्र वर्षतु नाम । तत्रोपायं साधयामीत्याह ॥ तत्रेति ॥ तत्र तत्कृतोपद्रवे विषये । प्रतिविधिं प्रतीकारम् । आत्मयोगेन आत्मसामर्थ्येन । स्वनिर्मितोपायेन वा । साधये करोमि । तेन च अहं लोकानामीश इत्यभिमानिन इन्द्रस्य । तमस् तमःकार्यं श्रीमदं श्रीनिमित्तको मदो यस्मात्तत् तमोऽज्ञानमिति वा ॥ १६ ॥

न हि मद्भावयुक्तानां सुराणामीशविस्मयः ।

मत्तः सतां मानभङ्गः प्रशमायोपपद्यते ॥ १७ ॥

पदरत्नावली

किमनेन मघवन्मानभङ्गेनेत्यतो नानानिष्टनिमित्तमाननिर्मूलनद्वारा परमेष्ट-प्रापकप्रकृष्टमन्निष्ठतायै इति व्याचष्टे न हीति ॥ मद्भावयुक्तानां मद्भक्तियुक्तानां सुराणामीशोऽहमिति विशिष्टः स्मयो दर्पो न हि । मत्तः शर्वादिसर्वेश्वरात् सतां मानभङ्गः प्रशमाय प्रकृष्टमन्निष्ठताबुद्ध्यै उपपद्यते ॥ १७ ॥

सुमनोरञ्जिनी

कुतो मदः परिहार्य इत्यत आह ॥ न हीति ॥ हि यस्मात् । मयि भावेन भक्त्या युक्तानां सुराणाम् । नाहं तद्वेषादिदं साधये किं तु तदनुग्रहायैवेत्याह ॥ सतामिति ॥ सतां मत्तो मानभङ्गः गर्वभङ्गः प्रशमाय प्रकृष्टमन्निष्ठायै । शमो मन्निष्ठता बुद्धेरिति वचनात् ॥ १७ ॥

तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् ।

गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ १८ ॥

पदरत्नावली

अहमेव शरणं रक्षिता यस्य तन्मच्छरणम् । मन्नाथं मद्याचकम् । मम परिग्रहाः पितृभ्रातृप्रभृतिपरिजना यत्र तत् तथा । अहमेव परिग्रहो मूलं यस्य स तथेति च । ‘पत्नीपरिजनादानमूलशापाः परिग्रहाः’ इत्यमरः । गोपाये रक्षामि । सोऽयं शरणागतपरिरक्षण-मद्भक्तगर्वापहरणरूपो व्रतो नियमो मे मया आहितः सन्धृतः ॥ १८ ॥

सुमनोरञ्जिनी

किं च ममायं नियमोऽप्यस्तीत्याह ॥ तस्मादिति ॥ यस्मादहमेव शरणं रक्षिता यस्य तत् । मम गृहरूपं वा । गोष्ठं व्रजम् । अहमेव नाथो याचनीयो स्वामी वा यस्य तत् । मय्येकान्तभक्तियुक्तमिति यावत् । अत एव मत्परिग्रहं मया परिगृहीतुं योग्यं गोपम् । तस्माद् आत्मयोगेन स्वसामर्थ्येन रक्षयिष्यामि । मे मया सोऽयं शरणागतरक्षणरूपः । व्रतो नियम आहितो ऽङ्गीकृतः ॥ १८ ॥

इत्युक्त्वैकेन हस्तेन १कृत्वा गोवर्धनाचलम् ।

दधार लीलया कृष्णश्छत्राकमिव बालकः ॥ १९ ॥

पदरत्नावली

कृत्त्वा उत्कृत्य, उत्पाट्येत्यर्थः । छत्राकं शिलीन्ध्रम् ॥ १९ ॥

सुमनोरञ्जिनी

कृन्त्वा उन्मूल्य । बालकश् छत्राकं शिलीन्ध्रमिव ॥ १९ ॥

अथाह भगवान् गोपान् हेऽम्ब तात व्रजौकसः ।

यथोपजोषं विशत गिरिगर्तं सगोधनाः ॥ २० ॥

पदरत्नावली

यथोपजोषं यथासुखम् । गिरिगर्तं गिरिविवरम् ॥ २० ॥

सुमनोरञ्जिनी

हे अम्ब हे तात हे व्रजौकसः सर्वे गिरेर्गर्तम् उन्मूलनेन कृतं बिलं यथोपजोषं यथासुखं निर्विशत ॥ २० ॥

न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातनात् ।

वातवर्षभयं चालं तत्त्राणं विहितं हि वः ॥ २१ ॥

पदरत्नावली

वातवर्षनिमित्तं भयं चालं निवारितम् । ‘अलं तु भूषणे शक्तौ पर्याप्तौ विनिवारणे’ इति यादवः । तत्त्राणं वातवर्षभयाद् रक्षणम् । न च परिमितगिरिगह्वरोदरे समग्रगोगोपगणं गोपतिः कथं गोपायेदिति चोद्यम् । यथा स्वशरणार्थिव्रजपरिरक्षणमिषेण महाशिखरिणं शिशुः शिलीन्ध्रमिव लीलया दधार, तथैव स्वशक्तिलेशेन गिरिगर्तं सकलव्रजौकसां निवासानुकूल्येन कल्पयामासेत्यवसेयम् । तदुक्तं हरिवंशे ‘शैलोत्पाटनभूरेषा महती निर्मिता मया । त्रैलोक्यमप्युत्सहते रक्षितुं किं पुनर्व्रजम्’ इति ॥ २१ ॥

सुमनोरञ्जिनी

नन्विदं वृश्चिकभयन्यायमनुसरति । यतो वृष्टिभयार्ता वयं त्वद्धस्तादद्रेर्निपतने सर्वेऽप्येकदैव नश्याम इत्यतो नेत्याह ॥ नेति ॥ वो युष्माभिः । मद्धस्तादद्रेर्निपातनमाशङ्क्य ल्यब्लोपनिमित्तेयं पञ्चमी त्रासो न कार्यः । वातवर्षभयम् । अलं निवारितम् । अलं भूषणपर्याप्ति-शक्तिवारणवाचकमित्यभिधानात् । तस्माद्भयात्त्राणं रक्षणं च मया विहितं कृतम् ॥ २१ ॥

तथा निर्विविशुर्गतं कृष्णाश्वासितमानसाः ।

यथावकाशं सधनाः सप्रजः सोपजीवनाः ॥ २२ ॥

पदरत्नावली

कृष्णेनाश्वासितमानसा आप्यायितमनोरथाः । सोपजीवना व्रीह्यादि-जीवनोपायसहिताः ॥ २२ ॥

सुमनोरञ्जिनी

कृष्णेनाश्वासितं विश्वासं प्रापितं मानसं येषां तथाविधाः । सोपजीवना धान्यादिसहिताः । स्वोपजीवनेन गोधनेन सहिता वा ॥ २२ ॥

क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः ।

वीक्ष्यमाणो दधाराद्रिं सप्ताहं नाचलत् पदात् ॥ २३ ॥

पदरत्नावली

पदात् स्थानात् ॥ २३ ॥

सत्यधर्मीया

बहुधा बहुधान्यसङ्ग्रहात्क्षुत्तृड्व्यथां क्षुच्च तृट् च ताभ्यां व्यथां हित्वा सुखापेक्षां स्वस्थतयाऽवस्थानात्प्राप्तसुखा इति तदपेक्षां हित्वेत्युक्तिः । तैर्व्रजवासिभिर्गोपैर्वीक्ष्यमाणः सप्ताहमद्रिं दधौ पदात्पदं च नाचलच्चचाल । असंमान्यान्युपायं धराधरहरणं हरिः कुर्वन्पर्वताश्च गोत्रभिच्छात्रव इति तदुद्धृत्या तन्मानहानिः कार्येति काञ्चन वैरी वैरीसहजमित्रमिति किंवदन्तीं लालयामा-सेत्यवसेयम् । उक्तं च रुक्मिणीशविजये–

शतक्रतौ वर्षति वासुदेवो गिरिं समुद्धृत्य बभूव तूष्णीम् ।

जिहीर्षुभिः स्वात्समशत्रुशौर्यं तदाद्यवैर्युद्धरणं हि कार्यम् ॥ इति ॥ २३ ॥

सुमनोरञ्जिनी

क्षुत्तृड्व्यथां शयनासनादिजन्यसुखापेक्षां च हित्वा । वीक्ष्यमाणः । अद्रिं गोवर्धनम् ॥ २३ ॥

श्रीशुक उवाच–

कृष्णयोगानुभावं तं निशाम्येन्द्रोऽतिविस्मितः ।

निस्स्तम्भो भ्रष्टसङ्कल्पः स्वान् मेघान् १सन्न्यवारयत् ॥ २४ ॥

पदरत्नावली

कृष्णस्य योगानुभावं योगैश्वर्यम् । ‘अनुभावः प्रभावे स्यान्निश्चये भावसूचके’ इति यादवः । महापुरुषान् दृष्ट्वा स्थाणुवत् प्रावण्यराहित्यं स्तम्भः, तद्रहितो निस्स्तम्भः । भ्रष्टसङ्कल्पो नष्टमनोरथः ॥ २४ ॥

सत्यधर्मीया

श्रीधर एवं धरति धरं किमचीकरन्नमुचिसूदन इति परीक्षिन्मानसीं शङ्कां शुकः परिहरतीतीरयति ॥ श्रीशुक इति ॥ तं कृष्णयोगानुभावं निशाम्यातिविस्मित इन्द्रो निस्तम्भो गतगर्वः । भ्रष्टः सङ्कल्पो गोकुलनाशविषयो यस्य स सन् स्वान् मेघान् सन्न्यवारयन्निवारयामास

॥ २४ ॥

सुमनोरञ्जिनी

योगानुभावं योगैश्वर्यम् । निस्तम्भः निर्गतमदः । सन्न्यवर्तयन् निवर्तयामास

॥ २४ ॥

खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम् ।

निशम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत् ॥ २५ ॥

पदरत्नावली

विगतान्यभ्राणि यस्मात् तद् व्यभ्रम् । वातयुक्तं वर्षं वातवर्षम् । निशम्य स्वप्रेषितगोपमुखादाकर्ण्य ॥ २५ ॥

सत्यधर्मीया—

नीलं नैव नभः सुलज्जितशचीभर्तुर्मुखे नीलिमा

मेघाः क्वापि न सन्ति सन्ति दिविजभ्राजद्विमानाम्बुदाः ।

तामिस्रं न हि दिश्यथाऽपि च दृशि त्वां मानुषं मन्वतां

चित्तेष्वस्ति न वेपथुर्निजजने भीतेन्द्रगात्रे परम् ॥

धारा नैव पयोमुचां यदुपते प्रेमाश्रुधारा परं

स्वानां नो परिगर्जितं स्तुतिकृतां सिद्धेश्वराणां ध्वनिः ।

विद्युन्नामरनर्तकी करचयालङ्कारकान्तिः प्रभो

नो वायुः सुरवृष्टपुष्पसहगानाल्पालिपक्षैर्मरुत् ॥

इत्यादिप्रकारेण केनचिदभिहितः स्वयमाहेत्युत्प्रेक्षितम् । वस्तुतस्तु सर्ववित्प्राह ॥ खमिति ॥ व्यभ्रं विगतान्यभ्राणि यस्मात्तत्खमाकाश उदितादित्यं च दारुणमुल्बणं वातं वर्षं चोपरतं निशम्य गोवर्धनधरो गोपानब्रवीत् ॥ २५ ॥

सुमनोरञ्जिनी

व्यभ्रं विगतमेघम् । उदित आदित्यो यस्मिन् तत् । वातसहितं वर्षं च उपारतं निवृत्तम् । निशाम्य दृष्ट्वा ॥ २५ ॥

निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः ।

उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः ॥ २६ ॥

पदरत्नावली

व्युदप्राया विगतोदकप्रायाः, स्वल्पजला इत्यर्थः ॥ २६ ॥

सत्यधर्मीया

हे गोपास्त्रासं त्यजत । सस्त्रीधनार्भका निर्यात बहिर्वातवर्षं वातेन सहितं च तद्वर्षं च तदुपारतं शान्तम् । निम्नगा व्युदप्राया विगतान्युदान्युदकानि येषां ते कासारादयस्तत्तुल्या इति । ता नद्यस्तथा । स्वतन्त्रोऽयमुदकवाच्युदशब्दः ॥ २६ ॥

सुमनोरञ्जिनी

हे गोपा बहिर्निर्यात । वातवर्षम् उपारतं निवृत्तम् । निम्नगा नद्यश्च विगतमुदकं याभ्यस्ताः । प्रायशो व्युदा व्युदप्रायाः । बहुतरं विगततोया इत्यर्थः ॥ २६ ॥

ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम् ।

शकटाटोपकरणं स्त्रीबालस्थविराः शनैः ॥ २७ ॥

पदरत्नावली

शकयानामाटोपकरणं यथा भवति तथा शकटाटोपकरणम् ॥ २७ ॥

सत्यधर्मीया

शकटेष्वनस्स्वटन्ति गच्छन्ति तानि तद्गतानीति यावद् उपकरणान्युर्वरित-जीवसाधनान्यस्मिन्कर्मणि तद्यथा भवति तथा निर्ययुः । शकटानामाटोप आरभटी तत्करणं यथा तथेति वा । स्त्रीबालस्थविरा गोपाः शनैः स्वं स्वं गतम् ॥ २७ ॥

सुमनोरञ्जिनी

शकटोपकरणं शकटारूढोपकरणं यथा भवति तथा निर्ययुः ॥ २७ ॥

भगवानपि तं शैलं स्वस्थाने पूर्ववत् प्रभुः ।

पश्यतां सर्वभूतानां स्थापयामास लीलया ॥ २८ ॥

सत्यधर्मीया

स्वस्थाने पूर्वोत्कृतस्वस्थले सर्वभूतानां पश्यतां सताम् । अनादरे चैषा षष्ठी । सहाया भवतेत्यनादृत्य स्थापयामास ॥ २८ ॥

तं प्रेमवेगान्निभृता व्रजौकसो यथा समीयुः परिरम्भणादिभिः ।

गोप्यश्च सस्नेहमपूजयन् मुदा दध्यक्षताद्भिर्युयुजुस्तथाऽऽशिषः ॥ २९ ॥

पदरत्नावली

प्रेमवेगात् प्रेमोद्रेकात् । निभृताः पूर्णानन्दाः । यथा यथार्हं परिरम्भणादिभिः समीयुः सममेलिषुः ॥ २९ ॥

सत्यधर्मीया

प्रेमवेगात्स्नेहप्रवाहान्निभृता नितरां भृतं भरणं येषां ते । पूर्णा इति वा । परिरम्भणादिभिर्व्रजौकसः पुमांसो यथा समीयुस्तथा गोप्यश्च सस्नेहं मुदा दध्यक्षताद्भिः समासान्त-विधेरनित्यत्वाद्युज्यते दध्यक्षताद्भिरिति । अपूजयंस्तथाऽऽशिषश्च युयुजुः ॥ २९ ॥

यशोदा रोहिणी नन्दो रामश्च बलिनां वरः ।

कृष्णमालिङ्ग्य युयुजुराशिषः स्नेहकातराः ॥ ३० ॥

पदरत्नावली

स्नेहकातराः प्रेमपरवशाः ॥ ३० ॥

सत्यधर्मीया

स्नेहकातरा स्नेहपरवशाः ॥ ३० ॥

सुमनोरञ्जिनी

स्नेहकातराः स्नेहव्याकुलाः ॥ ३० ॥

दिवि देवगणाः १सर्वेसिद्धगन्धर्वचारणाः२ ।

तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि भारत ॥ ३१ ॥

सत्यधर्मीया

सर्वेसिद्धगन्धर्वचारणा इति पदमेकम् । सर्वश्च शर्वश्च इश्च कामश्च सिद्धगन्धर्वचारणाश्च सर्वेसिद्धगन्धर्वचारणाः । सर्वो ह्येष रुद्र इति श्रुतिः । । सर्वः कालञ्जरः शिव इति नामनिधानम् । अतो न सर्वपदातिरेकः । साध्या इति पाठस्तु नासाध्यार्थः । पुष्पवर्षाणि मुमुचुस्तत्र तन्त्रं तुष्टा इति ॥ ३१ ॥

सुमनोरञ्जिनी

देवा अपि ससम्भ्रमं स्वसेवां विदधिर इत्याह ॥ दिवीति ॥ दिवि अन्तरिक्षे । सर्वे । सर्व इत्यसंकोचं व्यनक्ति ॥ ३१,३२ ॥

शङ्खदुन्दुभयो नेदुर्दिवि देवप्रचोदिताः ।

जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप ॥ ३२ ॥

सत्यधर्मीया

दिवीति दुन्दुभिपदेनेव गन्धर्वपतिपदेनाप्यन्वेति ॥ ३२ ॥

ततोऽनुरक्तैः पशुपैः परिश्रितो राजन् स गोष्ठं सबलोऽविशद् हरिः ।

तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः ॥ ३३ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे त्रयोविंशोऽध्यायः ॥

पदरत्नावली

ईयुर् व्रजं ययुः । हृदिस्पृशः मनोहराः । ‘हृद्द्युभ्यां च’ इति सप्तम्या अलुक् ॥ ३१ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे त्रयोविंशोऽध्यायः ॥

सत्यधर्मीया

हृदिस्पृशो मनोज्ञाः । हृद्युभ्यां चेति सप्तम्या अलुक् ॥ ३३ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे त्रयोविंशोऽध्यायः ॥ १०-२३ ॥

सुमनोरञ्जिनी

अनुरक्तैः स्निग्धैः पशुपैर् गोपैः परिश्रितो युक्तः । गोपिका अस्य कृष्णस्य । तथाविधानि गोवर्धनोद्धरणादीनि । कृतानि कर्माणि । गायन्त्य ईयुः । हृदिस्पृशः मनोहराः । मनोहरस्य अस्येति वा सम्बन्धः ॥ ३३ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां त्रयोविंशोऽध्यायः ॥ १०-२३ ॥