२२ द्वाविंशोऽध्यायः

भगवानपि तत्रैव बलदेवेन संयुतः

॥ अथ द्वाविंशोऽध्यायः ॥

श्रीशुक उवाच–

भगवानपि तत्रैव बलदेवेन संयुतः ।

अपश्यन्निवसन् गोपानिन्द्रयागकृतोद्यमान् ॥ १ ॥

पदरत्नावली

शतमन्युमन्युमपनुद्य स्वमहिमानमीषद् व्यक्तीकर्तुकामो भगवान् नन्दादिभिरतिमहीयमानशतक्रतुसम्बन्धिमहाक्रतुं निरु(?) गोवर्धनमहोत्सवं कारयित्वा गोपविश्रम्भणाय स्वयमेव रूपान्तरेण गिरौ तिष्ठन् शैलोऽस्मीति ब्रुवन् बहुविधभक्ष्यराशीन् भक्ष..(यन्?) चिक्रीडेत्यस्मिन्नध्याये वर्ण्यते । तत्रादौ उत्पथवर्ती पुरुषः सन्मार्गोपदेशेन शिक्षणीय इति शास्त्रशासनशंसनेन नन्दनन्दनो नन्दादीन् प्रवर्तयितुमुपक्रमत इत्याह शुकः भगवानिति ॥ तत्रैव व्रज एव निवसन् इन्द्रमुद्दिश्य क्रियमाणो याग इन्द्रयागस्तत्र कृत उद्यमो यैस्ते तथा ॥ १ ॥

सत्यधर्मीया

सर्ववित्स्वमहिमानं किञ्चिद्व्यक्तीकर्तुमिन्द्रमददमनं कुर्वन्नजानन्निव नन्दादीन् किञ्चित्पप्रच्छेति शुकः शंसति ॥ श्रीशुक इति ॥ तत्रैव गोकुल एव निवसन्निन्द्रमुद्दिश्य क्रियमाणो याग इन्द्रयागस्तत्र कृत उद्योग उद्यमो येषां ते तानपश्यद्ददर्श ॥ १ ॥

सुमनोरञ्जिनी

एवं श्रीकृष्णस्य पौगण्डवयसि कृतां लीलां निरूप्य पुनः सिंहावलोकनन्यायेन कौमारे वयसि कृतं गोवर्धनोद्धरणलक्षणमाहात्म्यान्तरमाविष्कर्तुं तदुपोद्घाततया श्रीकृष्णोपदिष्टै-र्गोपैरिन्द्रयागत्यागपूर्वकं कृतं गोवर्धनमखोत्सवं वर्णयत्यस्मिन्नध्याये । भगवानपि तत्रैव व्रज एव । निवसन् । इन्द्रयागार्थं कृतोद्यमान् गोपानपश्यदिति सम्बन्धः ॥ १ ॥

तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शनः ।

प्रश्रयावनतोऽपृच्छद् वृद्धान् नन्दपुरोगमान् ॥ २ ॥

पदरत्नावली

सर्वात्मा सर्वदर्शन इति तदभिज्ञत्वे हेतू । प्रश्रयो भक्तिस्तेनावनतः प्रवणः

॥ २ ॥

सत्यधर्मीया

सर्वात्मा सर्वदर्शन इति तदभिज्ञताहेतू । प्रश्रयो भक्तिस्तेनावनतः प्रवणः सन्नन्दादीन्वृद्धान् ॥ २ ॥

सुमनोरञ्जिनी

सर्वस्यात्मा अन्तर्यामी । सर्वदर्शनः सर्वज्ञश्च यतोऽतस्तदभिज्ञोऽपि प्रश्रयेण विनयेन अवनतः नम्राङ्गः ॥ २ ॥

कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः ।

किं फलं कस्य चोद्देशः केन वा साध्यते मखः ॥ ३ ॥

पदरत्नावली

हे पितः वो युष्माकं कः सम्भ्रम उत्सव उपागत उपस्थितः । कस्योद्देशः कां देवतामुद्दिश्य केन साधनेनायं मखः साध्यते ॥ ३ ॥

सत्यधर्मीया

तत्रापि न प्रलोभः कर्तुं शक्य इति तमेव सम्बोध्य पृच्छति ॥ कथ्यतां मे पितरिति ॥ मे पितर्मे कथ्यतामित्यन्वयः । अयं कः सम्भ्रम उत्सव उपायातः । अकरणे च किं भयमुपागतम् । एतादृशो दुर्भ्रमो मयि सति कुत आयात इत्यान्तरङ्गिकोऽपि भावो भगवतो ज्ञेयः । न दृश्यते किमिति तत्राह ॥ किं फलमित्यादिना ॥ कस्योद्देशः कां देवतामुद्दिश्य केन साधनेनायं मखः साध्यते केनाधिकारिणा वा ॥ ३ ॥

सुमनोरञ्जिनी

हे पितो ऽयं सम्भ्रमः कः किंविषयकः । मखविषयश्चेत्तस्य किं फलम् । कां देवतामुद्दिश्य केन साधनेनायं मखः साध्यते ॥ ३ ॥

एतद् ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः ।

न हि गोप्यं हि साधूनां कीर्त्यं सर्वात्मना त्विह ॥ ४ ॥

पदरत्नावली

हे पितः शुश्रूषवे श्रोतुमिच्छवे मह्यं तदेतत् पृष्टं सर्वं ब्रूहि । किमर्थम् ? अत्र महान् कामः शुश्रूषा वर्तते । हि यतः साधूनां यत् सर्वात्मना कीर्त्यं कीर्तयितुं योग्यं तद् गोप्यं गोपनीयं नेति हि प्रसिद्धम् । सविशेषं ब्रूहीति विशेषद्योतकस्तुशब्दः ॥ ४ ॥

दुर्घटभावदीपिका

साधूनामिह वक्तव्यार्थेषु गोप्यं न ह्यस्ति । हिशब्दोऽवधारणे । नैवास्ति किंतु सर्वं सर्वात्मना कीर्त्यम् । तुशब्दोऽवधारणे । कीर्त्यमेवेत्येतद्धि प्रसिद्धम् ॥ ४ ॥

सत्यधर्मीया

शुश्रूषवे श्रोतुकामाय मह्यं तदेतत्पृष्टं ब्रूहि । किं तवानेनेत्यत आह । महान्कामः श्रवणनिबर्हणीयोऽभिलाषो वर्तत इति । हि यतः साधूनां सर्वात्मना सर्वं कीर्त्यं गोप्यं गोपनीयं नेति हि प्रसिद्धम् । अन्यथा तव साधुताऽसाधुता स्यादिति भावः । न त्वं साधुरतो गोप्यमित्यपि नेत्याह । साधूनामस्माकं कीर्त्यं न हि गोप्यम् । तुशब्दो वचने वञ्चनेन मया ज्ञातमेव सर्वमित्यान्तरङ्गिकविशेषसूचकः । सविशेषं ब्रूहीति सूचको वा ॥ ४ ॥

सुमनोरञ्जिनी

एतन्मह्यं ब्रूहि । मम महान् कामः श्रवणेच्छा वर्तते । शुश्रूषवे श्रोतुकामाय

॥ ४ ॥

अस्त्यस्वपरदृष्टीनाममित्रोदासविद्विषाम् ।

उदासीनोऽरिवद् वर्ज्य आत्मवत् सुहृदुच्यते ॥ ५ ॥

पदरत्नावली

ऋजुस्वभावानां साधूनां न गोप्यमस्तीत्युपपादयति अस्तीति ॥ न विद्यते स्वः पर इति दृष्टिर्येषां ते तथा । न विद्यन्ते मित्राणि उदासा उदासीनाश्च विद्विषश्च येषां ते तथा । तेषां साधूनां गोप्यं नास्तीति प्रसिद्धमेव । ननु ‘परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः’ इति श्रुतेः, ‘षट्कर्णैर्भिद्यते मन्त्रः’ इति स्मृतेश्च साधूनां तत्त्वं गोप्यमेवेत्यवगम्यते । अतः कथं गोप्यं नास्तीति चेदत्रैवं बोध्यम् । योग्यतातिरेकेण मित्रादिकं नास्तीति तत्त्वम् । न तु सर्वात्मना । शत्रुः सर्वथा वर्ज्यः । य उदासीनः सोऽप्यरिरिव वर्ज्यः । सुहृत्तु आत्मवदुच्यते । यथा स्वविषये न किञ्चिद्गोप्यं तथा सुहृदि सुहृद्भिर्गोपनीयं नैवेति त्वत्सुहृत्त्वान्मय्यपि गोप्यं नैव । अतो मह्यं तत् सर्वं ब्रूहीति भावः ॥ ५ ॥

दुर्घटभावदीपिका

साधूनां गोप्यं नास्तीत्येतत्कुत इत्यत आह ॥ अस्वपरेति ॥ अस्वपरदृष्टीनामयं स्वोऽयं पर इति बुद्धिरहितानाम् । मित्रादिसद्भावे स्वपरबुद्धिराहित्यं कथं स्यादित्यत आह ॥ अमित्रेति ॥ मित्रं चोदास उदासीनश्च विद्विषश्च मित्रोदासीनविद्विषो न विद्यन्ते मित्रोदासविद्विषो येषां तेऽमित्रोदासविद्विषस्तेषाम् । अनेन तव साधुत्वान् मित्रादेरभावेन स्वपरदृष्टेरभावाद् गोप्यं नास्तीति सर्वं वक्तव्यमेवेत्युक्तं भवति । मित्रादिकमस्तीति पक्षेऽपि मां प्रति सर्वं वक्तव्यमेवेत्याह ॥ उदासीन इति ॥ यस्य मित्रादिकं वर्तते नारिवदुदासीनो वर्ज्यः । अरिं प्रति यथावत्सर्वं न वक्तव्यमेव । उदासीनं प्रति सर्वं न वक्तव्यम् । सुहृन्मित्रमात्मवदुच्यते । अतो मम तव मित्रत्वात्तव मित्रादिकमस्तीति पक्षेऽपि त्वया मां प्रति सर्वं वक्तव्यमेवेति ॥५॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे द्वाविंशोऽध्यायः ॥ १०-२२ ॥

सत्यधर्मीया

साधूनां साधुस्वभावोऽयमिति न गोप्यमस्तीत्याह ॥ अस्वेति । अस्वपरदृष्टीनां स्वः पर इति दृष्टिः सा न विद्यते येषां तेषां योग्यतातिरेकेण । न विद्यन्ते मित्राण्युदासा उदासीना विद्विषश्च येषां तेषां साधूनाम् । उदासीनः कश्चिद्वर्तेत चेत्स चारिवदेव वर्जनीयः सुहृच्चात्मवदुच्यते । स्वस्मिन्यथा स्वेन न किञ्चिद्गोप्यं तथा सुहृदि सुहृद्भिर्गोप्यं नास्तीति तव सुहृत्त्वान्ममापि तत्त्वात् । गोप्यं नास्तीति ब्रूहीति भावः । उदासीनस्य सर्वसमतया विमतबोधनसम्भवाद्वर्ज्यता योग्यतातिरेकेणेति पूरणेन प्रत्यक्षद्विषः षट्कर्णैर्भिद्यते मन्त्र इत्यादेर्गतिरुदिताऽनुसन्धेया ॥ ५ ॥

सुमनोरञ्जिनी

अस्तः निरस्तः स्वः स्वकीयः परः परकीय इति बुद्धीनाम् । अत एव न विद्यन्ते मित्रोदासविद्विषो येषां तेषां साधूनाम् । इह वक्तव्येऽर्थे । गोप्यं किमपि न हि । तु किंतु सर्वात्मना सर्वप्रकारेण कीर्त्यं कीर्तिनीयमेव । एवं साधूनां वस्तुस्थितिमुक्त्वा लौकिकीं रीतिमनुरुन्धान आह ॥ उदासीन इति । मित्रविषये उदासीनो ऽरिवद्वर्ज्यः वर्जनीयः । सुहृद् अनपेक्ष्योपकारकृत् पुत्रादिर् आत्मवद् आत्मतुल्यः । तं प्रति गोप्यं किमपि नास्तीति भावः

॥ ५ ॥

ज्ञात्वाऽज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति१ ।

विदुषः कर्मसिद्धिः स्यात् तथा नाविदुषो भवेत् ॥ ६ ॥

पदरत्नावली

यो जनः कर्माणि ज्ञात्वा तद्देवताफलादिकं विज्ञाय अनुतिष्ठते तस्य विदुषः कर्मसिद्धिः कर्मफलप्राप्तिः स्यात् तथा कर्माणि अज्ञात्वा योऽयं जनोऽनुतिष्ठते तस्याविदुषः कर्मफलप्राप्तिर्न भवेत् ॥ ६ ॥

सत्यधर्मीया

अस्माकमियज्ज्ञानं न किन्तु सन्ध्याद्युपास्तिर्बाल्य इवास्माभिरनुष्ठीयते तातेत्यत आह ॥ ज्ञात्वेति ॥ यो जनः कर्माणि ज्ञात्वा तद्देवताफलादिकं ज्ञात्वा विज्ञाय । अनुतिष्ठतीत्यपि पाठः । अनुतिष्ठति तस्य विदुषः कर्मसिद्धिः कर्मफललाभः । तथाऽज्ञात्वा कर्माणि च योऽयं जनोऽनुतिष्ठति तस्याविदुषः कर्मसिद्धिर्न भवेत् ॥ ६ ॥

सुमनोरञ्जिनी

किमर्थमेतावत्पृच्छसीत्यत आह ॥ अयं जनः ज्ञात्वा देवताफलेति-कर्तव्यतादिकं ज्ञात्वा । तत्सर्वम् अज्ञात्वा च कर्माण्यनुतिष्ठति । तत्र विदुषः देवतादिज्ञानिनः । कर्मणां सिद्धिर् विशिष्टफलता । यथावत् स्यात् । यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति श्रुतेः । अविदुषस्तु न भवेत् । तद्धास्यान्ततः क्षीयत एवेति श्रुतेः ॥ ६ ॥

तत्र तावत् क्रियायोगा भवता किं विचारिताः ।

अथवा लौकिकास्तन्मे पृच्छतः साधु भण्यताम् ॥ ७ ॥

पदरत्नावली

तत्रे देवताकर्मणां मध्ये तावत् क्रियायोगाः कर्मानुष्ठानप्रकाराः । लौकिका वृद्धजनानुष्ठानत एव प्राप्ताः ॥ ७ ॥

सत्यधर्मीया

त्वमनयोः कतर इत्यादौ वद पितरित्याह ॥ तत्रेति ॥ भवता क्रिया-योगास्तत्र देवताद्यन्यतममध्ये विचारिताः किं ते च कर्मानुष्ठानोपाया अथवा लौकिका गतानुगतिको लोक इतिवदज्ञात्वा करणीयाः । पृच्छतो मे तत्साधु भण्यताम् ॥ ७ ॥

सुमनोरञ्जिनी

तत्र तावत् प्रथमं तावदिदं मे साधु भण्यताम् । किं तत् । ये क्रियायोगाः कर्मोपायाः । किं शास्त्रतो युक्तिभिश्च विचारिताः । अथवा लौकिका गतानुगतिका वेति ॥७॥

नन्द उवाच–

पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्तयः ।

अभिवर्षन्ति भूतानां प्राणनं जीवनं पयः ॥ ८ ॥

पदरत्नावली

पर्षति सिञ्चति वृष्टिं ददातीति पर्जन्यो वर्षाधिदेवता भगवानिन्द्रः । ‘पृषु सेचने’ इति धातुः । तस्येन्द्रस्य आत्ममूर्तय आत्मनो मूर्तयो देहा इव देहाः । स्वदेहो यथाऽभि-मन्यमानत्वेन प्रेष्ठस्तथा मेघा अपीति भावः । मेघैः किं प्रयोजनं लोकस्येत्यतो मेहन्ति सिञ्चन्तीति मेघशब्दार्थसूचनपूर्वकं तत्प्रयोजनमाह अभिवर्षन्तीति ॥ प्राणनं चेष्टाप्रदम् । प्रीणनमिति पाठे सन्तर्पकमित्यर्थः । जीवनं जीवनसाधनम् ॥ ८ ॥

सत्यधर्मीया

पुत्रानुयुक्तेन पित्रा किमकारीत्यत ईरयति ॥ नन्द इति ॥ भगवान्पूज्यः पर्जन्यस्तच्छब्दवाच्यः पुरस्तात्तस्यात्ममूर्तय आत्मनो मूर्तयो शरीराणीव शरीराणि तदभिमन्यमानत्वात् कलेवरतुलता । ते च मेघा भूतानां प्राणनं चेष्टाप्रदं जीवनं जीवनसाधनं पय उदकं पयः प्रसरज्जीवन-मुदकं वाऽभिवर्षन्ति । इन्द्रः समर्थः शचीशः, पर्जन्यो मेघध्वनिर्यस्तेन सहितं पयो वर्षन्ति । ध्वनिं मुञ्चन्तः पयो वर्षन्तीति यावत् । पर्जन्यो मेघशब्दे स्यादिति विश्वः । अतो नेन्द्रपदातिरेकः

॥ ८ ॥

सुमनोरञ्जिनी

एवं श्रीकृष्णेन पृष्टो नन्दः युक्तितो विचारित एवायं क्रियायोग इति वदिष्यन् किं फलं का चास्य देवतेत्यस्य परिहारमभिप्रेत्याह ॥ भगवानिन्द्रः पर्जन्यस्तत्संज्ञकः । कुतः । यतो मेघास्तस्येन्द्रस्यात्ममूर्तय इव स्वशरीराणीव तत्स्वामिका इत्यर्थः, ते मेघा भूतानां प्राणनं चेष्टकं जीवनं शरीराप्यायनं पय उदकम् अभिवर्षन्ति । अनेनेन्द्रो देवता । वृष्टिरेव फलमिति सूचितम्

॥ ८ ॥

तत् तात वयमन्ये च वार्मुचां पतिमीश्वरम् ।

द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नराः ॥ ९ ॥

पदरत्नावली

यतो मेघाः सकललोकोपकारिणस् तत् तस्माद् वार्मुचां जलप्रदमेघानां पतिं स्वामिनमीश्वरं नियन्तारं च देवेन्द्रं, तस्येन्द्रस्य रेतसा जलेन सिद्धैरुत्पन्नैर्द्रव्यैर्व्रीहियवादिभिरस्मत्प्रभृतयः सर्वे नराः क्रतुभिर्यजन्ते ॥ ९ ॥

सत्यधर्मीया

हे तात तमिन्द्रं वार्मुचां पतिं घनानां घनमीश्वरमकरणे बाधाक्षमम् । ततत्वात्तदिति प्रोक्तो यानात्सर्वत्र यद्धरिरिति तात्पर्यान्तरोक्तेस्तस्य भगवतो रेतसा । अम्भस्तु यद्रेत उदारवीर्यमित्यादेः । नदपतौ पीतेन जलेन सिद्धैर्द्रव्यैव्रीहियवादिभिर्नराः क्रतुभिर्यजन्तेऽत इन्द्रयागोऽनुष्ठेय इति भावः ॥ ९ ॥

सुमनोरञ्जिनी

हे तात तं वार्मुचां मेघानां पतिं तम् इन्द्रम् उद्दिश्य अन्ये नरा यथा यजन्ते तथा वयमपि यजाम इति शेषः । केन साधनेनेत्यस्योत्तरम् । तेषां मेघानां रेतसा जलेन सिद्धैर् द्रव्यैर् व्रीह्यादिभिः ॥ ९ ॥

**तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे । **

पुंसां पुरुषकाराणां पर्जन्यः फलभावनः ॥ १० ॥

पदरत्नावली

तच्छेषेण इष्टावशिष्टेन । त्रिवर्गफलहेतवे धर्मार्थकामलक्षणपुरुषार्थसिद्धये । पुरुषकाराणां कर्मणा फलसम्पादनपौरुषवताम् । फलं भावयति साधयतीति फलभावनः ॥१०॥

सत्यधर्मीया

तच्छेषेण सवावशिष्टेन । धर्मार्थकामरूपं यत्फलं तद्धेतवे तत्सिद्ध्यै उपजीवन्ति नराः । पुरुषकाराणां कर्मणा फलसम्पादनपौरुषवतां पुंसां जनानां पर्जन्य इन्द्रः फलभावनः फलं भावयति साधयतीति स तथा ॥ १० ॥

सुमनोरञ्जिनी

तच्छेषेण यज्ञावशिष्टेन धान्यादिना त्रिवर्गफलहेतवे धर्मार्थकामरूप-पुरुषार्थसिद्धये । उपजीवन्ति उपजीवनं कल्पयन्ति । पुरुषकाराणां प्रयत्नशीलपुरुषाणां कर्षकाणां पर्जन्य एव फलभावनः फलोत्पादकः ॥ १० ॥

य एवं विसृजेद् धर्मं पारम्पर्यागतं नरः ।

कामाल्लोभाद् भयाद् द्वेषात् स वै नाप्नोति शोभनम् ॥ ११ ॥

पदरत्नावली

विपक्षे बाधकमाह य एवमिति ॥ पारम्पर्यागतं कुलपरम्पराप्राप्तम् । कामाद् दुर्विषयाभिलाषात् । लोभाद् वित्तव्ययाभावविषयात् । भयाद् राजभयात् । द्वेषाद् देवताद्वेषात् ॥११॥

सत्यधर्मीया

यो नर एवं पारम्पर्यागतं कुलपरम्पराप्राप्तं धर्मं विसृजेज्जह्यात् । तत्र निमित्तं कामाद्विषयान्तराभिलाषाल्लोभाद्दीनताया भयाद्भूपतिभीतेर्द्वेषात्परस्परं ज्ञातिद्वेषात् । स शोभनं मङ्गलं न प्राप्नोति । वै प्रसिद्धमेतत् । विपक्षे दण्डोऽयं दर्शित इति ज्ञेयम् ॥ ११ ॥

सुमनोरञ्जिनी

अकरणे बाधकमाह ॥ य इति ॥ पारम्पर्येण वृद्धाचारपरम्परया । कामाद् द्रव्यसङ्ग्रहकामनया । अत एव लोभात् । भयाद्राजादेः सकाशात् । द्वेषाद् देवताविद्वेषात् ॥११॥

श्रीशुक उवाच–

वचो निशम्य नन्दस्य तथाऽन्येषां व्रजौकसाम् ।

इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥ १२ ॥

पदरत्नावली

मन्युं क्रोधम् ॥ १२ ॥

सत्यधर्मीया

न केवलं नन्द एकल एवोवाच किन्तु व्रजौकसोऽपि तथैवावदन्नित्याह ॥ तथेति ॥ तथा व्रजौकसां च वचो निशम्य । बहुसंवादेन द्रढिमैतद्धर्मस्य सूचितम् । इन्द्राय मन्युं क्रोधम् ॥ १२ ॥

सुमनोरञ्जिनी

इन्द्राय इन्द्रस्य मन्युं क्रोधं जनयन्नुत्पादयन् ॥ १२ ॥

श्रीभगवानुवाच–

कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ।

सुखं दुःखं भयं मोक्षं कर्मणैवाभिपद्यते ॥ १३ ॥

पदरत्नावली

कर्मफलदातृत्वकर्मप्रेरयितृत्वादिना कर्मशब्दवाच्यो नारायण एव सर्वस्य स्वतन्त्रकर्तेत्यभिप्रेत्य सर्वस्य मुख्यकारणं कर्मैवेत्याह कर्मणेति ॥ ‘कर्मनामा तु भगवान् फलदातृ-त्वतो हरिः’ इत्यादेः । अभिपद्यते समाप्नोति ॥ १३ ॥

सत्यधर्मीया

सति तत्फलोपलम्भके कर्मणि सर्वं सम्पद्यते तच्च भगवन्नियतमिति किमन्तर्गडुना शचीशेनेत्याह ॥ कर्मणेति ॥ ईशेरितेन कर्मणा जन्तुर्जायते कर्मणैव प्रलीयते लयमाप्नोति सुखं दुःखं भयं मोक्षं कर्मणा हरिणा । उक्तं बृहद्भाष्ये । कर्मनामा तु भगवान्फल-दातृत्वतो हरिरिति । अभिपद्यते प्राप्नोति ॥ १३ ॥

सुमनोरञ्जिनी

एवं नन्दगोपेनोक्तः श्रीकृष्णः सकलजगज्जन्मादिकारणे श्रीनारायणे सर्वत्र जाग्रति सति तदाराधनं परित्यज्य किं तदधीनावान्तरेश्वराराधनेनेति भावेन प्रतिवदति ॥ कर्मणेति ॥ अत्र कर्तृत्वमातृत्वाभ्यां निमित्ताभ्यां कर्मशब्देन श्रीहरिरेवोच्यते । कर्तृत्वात्कर्ममातृत इत्यैतरेयभाष्यात् । कर्मणैव कर्मशब्दवाच्येन हरिणैव । एवेति सर्वत्र सम्बध्यते । जन्तुर् जन्यशरीरी जीवः । समुदायापेक्षया एकवचनम् । जायते । तेनैव प्रलये प्रलीयते । स्थितिसमये सुखादिकं तेनैवाभिपद्यते प्राप्नोति ॥ १३ ॥

अस्ति चेदीश्वरः कश्चित् फलरूपः स कर्मणः ।

कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥ १४ ॥

तात्पर्यम्

फलरूपः स कर्मण इत्याद्यवान्तरेश्वरविषयम् ॥ १४ ॥

पदरत्नावली

स्वाभाविकस्वातन्त्र्येण सर्वकर्मनियामकस्य हरेरधीनतयैव शचीशसुरेश्वरा-द्यवान्तरेश्वरास् तत्तदनुष्ठितकर्मणां सुखदुःखादिफलानि प्रदेष्ठुमीशते इत्याशयेनाह अस्तीति ॥ कश्चिदीश्वरो ऽवान्तरेश्वरः शचीशादिरस्ति चेत् स च कर्मणः फलं सुखादिलक्षणं रूपयति ददातीति फलरूपः । सोऽपि अवान्तरेश्वरोऽपि कर्तारं स्वातन्त्र्येण तत्तत्कर्मनियन्तारं हरिं भजते फलदातृ-त्वेनानुवर्तते । ‘तत्र तत्र स्थितो विष्णुस् तत्तच्छक्तीः प्रबोधयन् । एक एव महाशक्तिः कुरुते सर्वमञ्जसा’ इत्यादेः । हि यतः सो ऽवान्तरेश्वरः कर्माकर्तुः फलदाने न प्रभुर् न समर्थः । अवान्तरेश्वर एवात्र निषिध्यते न तु मुख्येश्वर इत्यवधारणायाचार्यैः ‘फलरूपः स कर्मण इत्याद्यवान्तरेश्वरविषयम्’ इत्यभ्यधायि ॥ १४ ॥

सत्यधर्मीया

अस्ति चेदीश्वरः कश्चिदिति श्लोके लोकेशो भवतीश्वरपदार्थश्चेदप्रभुत्वादिकं न सम्भवति किञ्च फलं मुख्यमिति च प्रतीयत इत्यत ईश्वरपदार्थोऽत्रायमित्याह ॥ फलरूपः स कर्मण इत्याद्यवान्तरेश्वरविषयमिति ॥ फलरूपः स कर्मण इत्यत्र पद्ये आदिभूतमस्ति चेदीश्वरः कश्चिदिति वाक्यमवान्तरो मुख्य ईश्वर एव विषयो यस्य तत्तथाऽतो प्रभुत्वं फलमुख्यता च सम्भवत इति व्याकुर्वते । फलनिरूपकतामात्रं प्रतीयते तच्च निरवधिकेश्वरतां बबाध इत्यत आह ॥ फलरूप इति ॥ फलरूपः स कर्मण इत्यादिपादत्रयं प्रथमपादोदितावान्तरेश्वरविषयमिति वाऽन्वयार्थौ ज्ञेयौ ॥ ततश्चायं मूलार्थः ॥ कर्माणि तानि च पृथक् चेतनान्येव सर्वशः । अचेतन-शरीराणि स्वकर्मफलभाञ्जि चेत्युक्तेरचेतनानां स्वतोऽप्रवर्तकमिव चेतनानामस्वतन्त्रतया प्रवर्तकत्वेन कश्चिदीश्वरोऽनुरोद्धव्यः । स च न निरवधिक एवेति स्वाभिप्रेतमेयमजानतो नन्दस्य स्वाभिप्रेतमना-विष्कुर्वन्पातनिकाशङ्कां परिहरति ॥ अस्ति चेदिति ॥ ईश्वरः कश्चिदवान्तरोऽस्ति चेत्तर्हि स कर्मणः फलरूपः फलं रूपयति सुखदुःखादिकं निरूपयति वा प्रतिष्ठापयति वैतस्य कर्मण एतत्फलमिति स फलरूपः । सोऽपीश्वरोऽपि कर्तारं भजते फलदातृत्वेन वर्तते हि यतः सोऽकर्तुर्न कर्मकर्ता तस्य प्रभुः फलदाने न समर्थ उक्ताननुष्ठाने न फलप्रापणशक्तः स इत्यर्थः ॥ १४ ॥

सुमनोरञ्जिनी

ननु वृष्ट्यादिदानेन जगज्जीवनभूतानामिन्द्रादीनामपि सद्भावाद् अवधारणमनुपपन्नमित्यत आह ॥ कश्चिद्धरेरन्य ईश्वर अस्ति चेत् । अस्तु नाम तथापि स त्वदभिमत इन्द्रादिरूप ईश्वरः कर्मणः कर्मान्तर्गतस्य कर्मनियामकस्य हरेः फलरूपः फलसदृशः । फलं यथा वृक्षाज्जातं तदाधारतया तिष्ठति तथा अयमपि हरेर्जातो हर्याधारतया तिष्ठतीत्यर्थः । तच्छरीरादेर्कर्मजत्वेन तद्विशिष्टस्य तद्व्यपदेशः स्वर्गी ध्वस्त इतिवत् । सोऽपि त्वदभिमतेश्वरोऽपि कर्तारं कर्मकर्तारं भजते फलदानेनानुवर्तते । अकर्तुः कर्माकर्तुर् ज्ञानिनः फलदाने प्रभुः समर्थो न हि । एवं चावान्तरेश्वर एव सः न सर्वेश्वर इत्युक्तं भवति । तदेतत्सर्वमभिप्रेत्योक्तमाचार्यचरणैः–

फलरूपः स कर्मण इत्याद्यवान्तरेश्वरविषयम् ।

स्वभावे कर्मणि च यः सत्वादिषु गुणेषु च ।

स्थितो विष्णुः सर्वकर्ता पृथक्संस्थश्च सर्वशः ।

गुणकर्मस्वभावादिशब्दवाच्यश्च केशवः ।

तेन जातं फलं यस्मात्कर्मणः फलमीर्यते ।

न चासौ कर्मफलवान्नास्य किञ्चिन्न शक्यते ।

तदन्यावान्तरेशानां तद्वशत्वं यतः सदा ।

कर्मणः फलरूपत्वमतस्तेषामुदीर्यते ।

नान्यकर्मवशत्वं तु तेषां विष्णुं विना क्वचित् ।

स च ब्राह्मणगिर्यादिनामा विष्णुरजः परः ।

एतस्मात्कारणात्कृष्णः शक्रस्य विमदाय तु ।

गिर्यादिस्थितमात्मानं पूजयामास बल्लवैः ॥ इति ।

फलरूपः स कर्मण इति मूलस्य परमेश्वरपरताभ्रमं निवारयितुमाह ॥ फलरूप इति ॥ इत्यादिवाक्यमवान्तरेश्वरविषयमेव । एवं तस्य वाक्यस्य स्ववचनेन तात्पर्यमुक्त्वा प्रमाणेन व्याख्याति ॥ स्वभाव इति ॥ यतः विष्णुः स्वभावादिषु स्थितः, तेभ्यः पृथग्विद्यमानश्च सर्वकर्ता तस्माद् गुणकर्मस्वभावादिशब्दवाच्यो भवति । अनेनात्र कर्मपदेन, स्वभावतन्त्रो हि जन इत्युत्तरत्र स्वभावपदेन, सत्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतव इति वक्ष्यमाणसत्वादिगुणवाचकपदेन च भगवानेवोच्यत इत्युक्तं भवति । एवं कर्मपदस्य भगवत्परतामभिधाय कर्मणः फलमिति वाक्यार्थमाह ॥ तेनेति ॥ यस्मात्कारणात् सर्वं जगत्, तेन कर्मपदवाच्येन कर्मान्तर्गतेन हरिणा तदनुग्रहेणेति यावत् । फलं फलमिव जातं तस्मान्निमित्तात्कर्मणः फलमितीर्यते व्यपदिश्यते । यद्वा तेन जगतः फलं शरीरादिकं जातं यस्मात् तस्मात् कर्मणः फलमीर्यते । अनेन कर्मणः फलमित्यस्य कर्माधीनशरीरैश्वर्यादिफलवानित्यर्थ उक्तो भवति । एवमस्य मूलस्यावान्तरेश्वरपरतामुक्त्वा भगवत्परत्वबाधकमाह ॥ न चेति ॥ चो यस्मादित्यर्थे । यस्मादसौ केशवः कर्मफलवान् कर्मजन्यफलाश्रयः न भवत्यतो नैतद्वाक्यं तद्विषयमिति भावः । किं चात्र न ह्यकर्तुः प्रभुर्हि स इत्यनेन ज्ञानफलमोक्षदाने सामर्थ्याभाव उच्यते । स च परमेश्वरे हरावसंभावित इत्याह ॥ नास्येति ॥ अस्य हरेः किंचिदकर्तुः फलदानादिकं न शक्यत इति न । किं तु शक्यत एव । सर्वशक्तिमत्वात् । एवं चावान्तरेश्वरविषयमेतद्वाक्यमिति सोपनयं निगमयति ॥ तदन्येति ॥ तस्मात् हरेर् अन्ये ये अवान्तरेशा ब्रह्मादयस्तेषां यतः सदा तद्वशत्वं कर्मवशत्वं, अतः कारणात् तेषामवान्तरेशानां कर्मणः फलरूपत्वमुदीर्यते । अतो ऽवान्तरेश एवैतद्वाक्यविषयः । अत्र कर्मपदं भगवत्परमेव । न तदन्ययज्ञादिपरम् । तेषां तद्वशत्वायोगादित्याह ॥ नान्येति ॥ तेषाम् अवान्तरेशानाम् । नन्वेतावता कर्मनामकस्य हरेः स्वातन्त्र्यमुपपादितम् । तद्यद्यभिप्रेतं तदाग्रे हरिपूजैव विधातव्या । न गिर्यादिपूजेत्यत आह ॥ स चेति ॥ ब्राह्मणगिर्यादिनामा स च स एव । स क इत्यत उक्तं विष्णुरिति । एतस्मात्कारणाद् विष्णोर् गिर्यादिनामवाच्यत्वान्निमित्तात् कृष्णः । शक्रस्य विमदाय विमदत्वाय मदपरिहारायेति यावत् । गिर्यादौ स्थितमात्मानं स्वयमेव बल्लवैः पूजयामासेति

॥ १४ ॥

किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् ।

अनीशेनान्यथाकर्तुं स्वभावविहितं नृणाम् ॥ १५ ॥

तात्पर्यम्

‘स्वभावे कर्मणि च यः सत्वादिषु गुणेषु च । स्थितो विष्णुः सर्वकर्ता पृथक्संस्थश्च १सर्वशः । गुणकर्मस्वभावादिशब्दवाच्यश्च केशवः । तेन जातं फलं यस्मा-त्कर्मणः फलमीर्यते । न चासौ २कर्मफलवान्नास्य किञ्चिन्न शक्यते । तदन्यावान्तरेशानां तद्वशत्वं यतः सदा । कर्मणः फलरूपत्वमतस्तेषामुदीर्यते । नान्यकर्मवशत्वं तु तेषां विष्णुं विना क्वचित् । स च ब्राह्मणगिर्यादिनामा विष्णुरजः परः । एतस्मात्कारणा-त्कृष्णः शक्रस्य विमदाय तु । गिर्यादिस्थितमात्मानं पूजयामास बल्लवैः ॥ १५ ॥

पदरत्नावली

त्रिदिवेश्वराद्यवान्तरेश्वरप्रभावं प्रतिक्षिप्य सर्वेश्वरस्य हरेरप्रधृष्यप्रभावोत्कर्षं प्रकाशयन्नाह किमिन्द्रेणेति ॥ स्वानि स्वानि यानि कर्माणि तान्यनुवर्तितंु शीलं येषां तानि स्वस्वकर्मानुवर्तीनि तेषां नृणां स्वभावेन तत्तत्स्वभावप्रबोधकत्वादिना तच्छब्दवाच्येन विष्णुना विहितं कर्म अन्यथाकर्तुमनीशेनासमर्थेनावन्तरेश्वरेणेह भूतानां किं न किमपि प्रयोजनम् । तत्तस्वभाव-नियन्तुर्हरेरधीनतयैव सर्वे स्वस्वकर्माणि कुर्वत इति यावत् । ‘हरिः स्वभावतः कर्ता सर्वमन्यत् तदीरितम् । अतः सा कर्तृता तस्य न कदाचिद् विनश्यति’ इति पैङ्गिश्रुतेः । स्वातन्त्र्याद् भगवान् विष्णुः स्वभाव इति कीर्तितः । तत्स्वातन्त्र्यं कदाप्येष नान्यस्य सृजति क्वचित् ॥ स्वातन्त्र्यादेव पापादिसम्बन्धः कुर्वतोऽपि न । अज्ञानावृतबुद्धित्वादीदृशं तं न जानते’ इति महावाराहादिस्मृतेश्च

॥ १५ ॥

सत्यधर्मीया

किमिन्द्रेणेह भूतानां, स्वभावतन्त्रो हि (जन) पुमानित्यत्र स्वभावस्य स्वातन्त्र्यमुच्यते । तथा देहानुच्चावचानिति श्लोके च कर्मैव गुरुरीश्वर इति कर्मणः स्वतन्त्रतोच्यते । अपि च सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतव इति पद्ये च सत्त्वादीनामेव स्वातन्त्र्यमुच्यत इति भाति । न च तद्युक्तम् । द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपक्षयेत्यादिमानावमानितत्वादिति स्वयं मानेन तत्तात्पर्यमाह ॥ स्वभाव इति ॥ स्वभावे योग्यतायां, कर्मणि पुण्यापुण्यप्रापके, सत्त्वादिषु च गुणेषु । चात्प्रकृतौ स्थितो विष्णुः सर्वकर्ता न तु स्वभावादिकं स्वतन्त्रं किन्तु तदन्तर्गतो भगवान्कर्ता तेभ्यः स्वभावादिभ्यः सर्वशः सर्वभेदकधर्मैः पृथक् संस्थस्तत्तदन्तर्गतस्य तत्खेदादिवेद्यतेति वाऽऽह ॥ सर्वशः पूर्णसुख इति ॥ गुणकर्मस्वभावादिशब्दवाच्यः । सर्वनामा सर्वकर्मेत्यादेः । अपिपदेन फलरूपादिपदवाच्यताऽपि ग्राह्या । तत्र फलरूपपदार्थः किं फलात्मकता किंवा फलवत्ता । न द्वयमपि । सर्वविलक्षणस्य तत्त्वानुपपत्तेर् अपूर्णतापत्तेश्चेत्यतः फलरूपपदार्थं निरूपयन्मानमुदाहरति ॥ तेनेति ॥ येन कारणेन यस्माद्धरेस्तत्करुणया वा । कर्मण इत्यावर्तते । कर्मणः करोऽस्मिन्मीयत इति कर्म जीव उदाहृत इति गीतातात्पर्याज्जीवजातस्य । तथा कर्मणः कृतस्य फलं जातं तेन कारणेन कर्मणो भगवान् फलमितीर्यते न तद्भेदात्तद्वत्त्वाद्वेति । तथा च कर्मफलं रूपयतीति कर्मफलरूप इति विग्रह इति सूचितं भवति । असौ भगवानवान्तरेशवत्कर्मफलवान् न च, पूरैव पूर्णत्वादिति भावः । न ह्यकर्तुः प्रभुर्हि स इत्यवान्तरेश्वरविषयोक्तामप्रभुत्वादिशङ्कां कर्मापेक्षयैव वितरति फलमयं किंवाऽनपेक्ष्य । नाद्यः स्वातन्त्र्यहानिः स्यात् । द्वितीये सर्वसर्वदानं वाऽऽदानमेव वा स्यादिति प्रापय्य तामपाकरोति ॥ नास्य किञ्चिन्न शक्यत इति ॥ अस्यानेन किञ्चिन्न शक्यमिति न सर्वं शक्यं, कर्म कारयित्वैव तत्तद्योग्यं फलं यच्छति । न कुर्यामित्यवस्थानं दुःखस्थम् । न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्मेत्यादेः । तर्हि तथा तत्तथा कर्म कारयितुर्भगवतोऽन्ततो वैषम्यादिदोषानुषङ्ग इति तु वैषम्यनैर्घृण्ये नेत्यादिसूत्रे न वैषम्यनामकमित्यादिना निराकार्यम् ।

अवान्तरेश्वरे कर्मफलरूपशब्दप्रवृत्तिं निरूपयति ॥ तदन्येति ॥ भगवदितरावान्तरेशानां सदा यतस्तद्वशत्वं तत्तत्कर्माधीनत्वम् । अतस्तेषां कर्मणः फलरूपत्वं तदप्येतत्कर्ममर्म मत्वा फलं दिशेतीतीशशासनादेव तत्तद्वशत्वमीशानामवान्तराणामित्याह । तेषां विष्णुं विना क्वचिदप्यन्यत्कर्म-वशत्वमपि न नास्तीति । तुश्च स्वस्वोत्तमज्ञाप्यधर्मैरपेक्षणीयेति विशेषसूचकः । अन्यकर्मवशत्वं जडकर्मवशत्वं न तदन्तर्गतस्वोत्तमवशत्वं तेषां तु । तेषां तु तेषामुत्तमानामपि विष्णुं विनेति कृष्णेनोच्यमाना न तत्सत्क्रिया युक्ता । न चायुक्तं वदति यदुनाथः स इति सम्भवतीत्यतः प्रमाणेन तत्तात्पर्यमाह ॥ स चेति ॥ ब्राह्मण इति गिरित्यादी येषां तानि च तानि नामानि यस्य सः । अज उत्पत्तिरहितः परः क्षराक्षरविलक्षणो विष्णुरेतस्माद्ब्राह्मणादिनामवत्त्वहेतोः कृष्णः शक्रस्य कारणात् । ल्यब्लोपनिमित्ता पञ्चमी । कारणं तदस्वातन्त्र्यादिकमिव स्वस्वातन्त्र्यादिकं च प्रदर्श्य विमदाय मदाभावाय गिर्यादिस्थितमात्मानं स्वमेव बल्लवैर्गोपालैः पूजयामास । एतस्मात्कारणा-दित्यन्वयने कारणशब्दो व्यर्थ इति सत्येवमन्वयने सार्थक इति ज्ञेयम् । इति च तन्त्रभागवत इति शेषः ॥

ततश्चायमस्ति चेदीश्वरः कश्चिदित्यारभ्याध्यायावसितिमूलार्थः ॥ अवान्तरेश्वरप्रभावं प्रतिषिध्य स्वप्रभावमर्थात्साधयति ॥ किमिति ॥ इन्द्रेणेह भूतानां क उपकारस् तानि भूतानि किमधीनानि भूतानीत्यत आह ॥ स्वस्वेति ॥ स्वानि स्वानि यानि कर्माणि तान्यनुवर्तितुं शीलं येषां तानि नृणां स्वभावविहितं योग्यतायातमन्यथाकर्तुं सुखदुःखं वा स्वेच्छानुसारेण योजयितुं त्याजयितुं वाऽनीशेनासमर्थेनावान्तरेश्वरेण किं न किमपि प्रयोजनम् । स्वभावादिपदानि तत्स्थत्वात्तत्स्वाम्याद्वा माधवाभिधानानीति ज्ञेयम् । तत्पक्षे स्वस्मिन्भावः स्थितिर्यस्य स स्वभावः । स्वे महिमि्न प्रतिष्ठित इति श्रुतेः । स्वाख्यो भावोऽनन्यापेक्षनित्यसत्तावान्वा ॥ १५ ॥

सुमनोरञ्जिनी

नन्वस्तु इन्द्रादेरवान्तरेश्वरत्वम् । तावतापि कर्मफलदातृतया सोऽस्माकं पूज्य एवेत्यतः सोऽपि न स्वातन्त्र्येण फलदाता किं तु परमेश्वरप्रेरित एव । अतस्तद्धेतोरेवेति न्यायेन परमेश्वर एव भजनीयो नावान्तरेश्वर इत्याह ॥ किमिन्द्रेणेति ॥ स्वस्वकर्मानुवर्तिनां, स्वस्वकर्मानुसारिफलैर् अनुवर्तन्त इति तथोक्तानि । तेषां भूतानाम् । स्वभावविहितं, स्वः स्वतन्त्रो भावः स्वभावः परमात्मा ‘गुणकर्मस्वभावादिशब्दवाच्यश्च केशवः’ इति पूर्वतात्पर्योक्तेः । तेन विहितं क्लृप्तं स्वस्वकर्मानुसारिफलं सुखं दुःखं वा अनुभूयमानं, अन्यथाकर्तुमनीशेन असमर्थेन इन्द्रेण तदुपलक्षितावान्तरेश्वरेण नॄणामस्माकं किं, किं प्रयोजनं न किमपीति योजना ॥ १५ ॥

स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते ।

स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥ १६ ॥

पदरत्नावली

हि यस्मात् तत्तत्स्वभावोद्दीपकत्वादिना स्वभावशब्दवाच्यस्य हरेस्तन्त्रोऽधीनो जनस् तस्मादिदं सदेवासुरमानुषं सर्वं स्वभावस्थं विष्ण्वाश्रयेण वर्तमानं सत् स्वभावं हरिमनुवर्तते तत्प्रेरणानुसारेणेहत इति यावत् । कृष्णहार्दं प्रकाशयितुमाचार्यैस्तन्त्रभागवतमानमुदाहारि– ‘स्वभावे कर्मणि च यः सत्त्वादिषु गुणेषु च । स्थितो विष्णुः सर्वकर्ता पृथक्संस्थश्च सर्वगः । गुणकर्म-स्वभावादिशब्दवाच्यश्च केशवः । तेन जातं फलं यस्मात् कर्मणः फलमीर्यते । न चासौ कर्मफलभाङ् नास्य किश्चिन्न शक्यते । तदन्यावान्तरेशानां तद्वशत्वं यतः सदा । कर्मणः फलरूपत्वमत-स्तेषामुदीर्यते । नान्यकर्मवशत्वं तु तेषां विष्णुं विना क्वचित्’ इति । ‘स्वभावस्थमिदं सर्वम्’ इत्यनेन सर्वशब्दवाच्यत्वं सर्ववस्तुनियामकस्य हरेरसूचि । ‘स च ब्राह्मणगिर्यादिनामा विष्णुरजः परः’ इत्यादिस्मृतेः । ब्राह्मणेषु गिर्यादिषु संस्थितः सन् तत्तद्वारकत्वादिना ब्राह्मणगिर्यादिनामा । ब्रह्मणा वेदेनाण्यते गम्यत इति ब्राह्मणः । ‘एष नित्यो महिमा ब्राह्मणस्य’ इति श्रुतेः । गिरति सर्वमिति ग्रियते संस्तूयत इति च गिरिः ॥ १६ ॥

सत्यधर्मीया

हि यतो जनः स्वभावतन्त्रः स्वभावो हरिस्तन्त्रं कारणं यस्य सः । तन्त्रं कुटुम्बकृत्ये स्यात्कारणं च परिच्छद इति विश्वः । अतः स्वभावं हरिमनुवर्तते । इदं सदेवासुरमानुषं सर्वम् । स्वभावे तिष्ठतीति तत्तथा । हिशब्दोऽस्य सर्वस्यार्थस्य तन्त्रभागवतावगतत्वसूचकः ॥१६॥

सुमनोरञ्जिनी

ननु स्वभावाख्यपरमात्मनः कर्मफलस्वाम्येऽपि कर्मकर्तृषु प्रेरकतया स्थितानामिन्द्रादीनामादरणं युक्तमेवेत्यतः कर्त्रादिकं सर्वमपि स्वभावाधीनमेवेत्याह ॥ स्वभावेति ॥ जनः कर्मकर्ता । स्वभावतन्त्रः स्वभावाख्यभगवदधीन एव । स्वभावम् अनु उद्दिश्य वर्तते प्रवर्तते । यद्वा स्वभावम् अनु अनुसृत्य वर्तते प्रवर्तते । सम्प्रवृत्तो प्रवृत्तिमानित्यर्थः । स हि विपर्ययं वक्ति यः वा । किं पुनः सदेवासुरमानुषं सर्वमपि इदं जगत् । स्वभावस्थं स्वभावाधीनतया विद्यमानम् । अतः सर्वस्य तदधीनत्वात्स एव भजनीयो नान्य इति भावः ॥ १६ ॥

देहानुच्चावचान् जन्तुः प्राप्योत्सृजति कर्मणा ।

शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः ॥ १७ ॥

पदरत्नावली

जन्तुर्जन्मवानुच्चावचान् नानाविधान् देहान् कर्मणा श्रीहरिणा प्राप्य तेनैवोत्सृजति त्यजति । शत्र्वादिषु नियामकतया स्थितत्वात् शत्र्वादिशब्दवाच्यः कर्मैव श्रीहरिरेव । क्रूरकर्मकर्तॄन् खलान् शातयतीति शत्रुः । साधुकर्मनिरतेषु सत्सु मेद्यति स्निह्यतीति मित्रम् । सर्वोपरि आस्त इत्युदासीनः । तत्त्वोपदेष्टृत्वाद् गुरुः । पूर्णशक्तित्वाद् ईश्वरः ॥ १७ ॥

सत्यधर्मीया

यस्मादवान्तरेशानामनीशत्वं न तत्सभाजनेन कृत्यमतो हरिरेवार्हणीयः स च सर्वत्र वर्तत इति नगभिदि न प्रवणं तथा कुशलोऽत इदं तनुतेति वदति ॥ देहानिति ॥ जन्तुर्जन्मी, उच्चावचाननेकविधान्देहान्कर्मणा श्रीहरिणा प्राप्य तेनैवोत्सृजति । शत्रुर्मित्रमुदासीन इत्येतेऽपि कर्मैव श्रीहरिरेव शत्र्वादिशब्दवाच्यः शातयितेति, मित्वा त्रातीत्यन्यत्रोक्तेः, सर्वोपर्यासीन इति शत्रुमित्रोदासीनशब्दैरुच्यते । गुरुरीश्वरश्चोपदेशक ईश्वरो योगैश्वर्यवानिति । मूलकृदपि शत्रुरुदासीनो गुरुरीश्वर इति पुल्लिङ्गनिर्देशं कुर्वन्न कर्मपदं व्यापारपरं किन्तु हरिवाचकमिति सूचयन्प्रमाणतात्पर्यभूमिकां च ध्वनयामासेत्यवसेयम् । तत्तन्निविष्टस्य तत्तद्दुर्भगता भगवतो नेति दर्शयितुमीश्वर इति ॥ १७ ॥

सुमनोरञ्जिनी

स्वभावतन्त्रत्वमेवोपपादयति ॥ देहानिति ॥ कर्मणा कर्तृत्वमातृत्वाभ्यां निमित्ताभ्यां कर्मशब्दवाच्येन श्रीहरिणा निमित्तेन जन्तुर् जीव उच्चावचान् देहान् प्राप्य उत्सृजति त्यजति । न केवलमेतावता किन्तु शत्रुमित्रादिषु स्थित्वा दुःखसुखादिफलदातापि स एवेत्याह । अनेन बन्धकत्वमुक्तं भवति । ज्ञानदानेन मोचकोऽपि स एवेत्याह ॥ कर्मैवेति ॥ गुरुस् तत्वोपदेशेन ज्ञानादिसम्पादक ईश्वरः । तत्फलतया मोक्षरूपफलदानसमर्थ इत्यर्थः ॥ १७ ॥

तस्मात् सुपूजयेत् कर्म स्वभावस्थः स्वकर्मकृत् ।

अञ्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥ १८ ॥

पदरत्नावली

तस्मात् केशवस्यैवाखिलेशत्वात् शचीशादीनामनीशत्वाच्च स्वकर्मकृत् स्वविहितमेव कर्म कुर्वन् स्वभावस्थस् तत्तत्स्वभावनियामकनारायणसमर्पितसर्वेन्द्रियवृत्तिर्मर्त्यः ‘क्रियापतनयोः कर्मः’ इत्यभिधानाद् धरित्रीधृत्यादिक्रियाश्रयत्वेन विश्वसर्जनादिक्रियाश्रयत्वेन च परोक्षापरोक्षज्ञानरूपक्रियाश्रयत्वादिना च कर्मनामानं नारायणं सुपूजयेत् । स्वकर्मकृदित्युक्तं विवृणोति अञ्जसेति । येन ज्ञानात्मकेनाञ्जसा श्रीहरिरूपपरतमतत्त्वेन यो वर्तेत अस्य तदेव दैवतं कुलदैवतम्, हि लोकप्रसिद्धम् । ‘अञ्जसा त्वरिते तत्त्वे महदद्भुतखेदयोः’ इति यादवः ॥ १८ ॥

सत्यधर्मीया

स्वभावस्थो हर्याश्रयोऽनन्यथाभवत्स्वस्वभावाश्रयश्चेति बहिः कर्मान्ततो हरिर्बहिः क्रियां, तस्मादितेरषामनीशत्वादेः सुपूजयेत्स्वकर्मकृद्विहितविहितं व्यापृतिर्येन ज्ञानात्मकेनाञ्जसा श्रीहरिरूपतत्त्वेन वर्तेत । उपासनादिभिस्तत्तत्त्वं हरिरेवास्य हि यतो दैवतमतस्तत्कर्मसु पूजयेत् । अञ्जसा त्वरिते तत्त्व इति यादवः । न च सर्वनामा हरिरिति यदि सभाजनीयोऽहं तर्हि कः प्रद्वेषः, शचीशे तदपचितिरपि स्वापचितिर्भवतीति वाच्यम् । शक्रो न वक्रीभूय नश्येदिति दयाऽत एवमाततान काञ्चन लीलां लीलामानुष इति ज्ञेयम् । तच्च तात्पर्ये शक्रस्य विमदायेति प्रकटितमाचार्यैः

॥ १८ ॥

सुमनोरञ्जिनी

उपसंहरति ॥ तस्मादिति ॥ स्वकर्मकृत् स्ववर्णाश्रमोचितकर्मकर्ता पुमान् स्वभावस्थः स्वभावाख्ये विष्णौ तिष्ठति मनसेति तथोक्तः । कर्तृत्वपूज्यत्वाभ्यां तस्मिन्नेव मनोनिवेशयुक्त इति यावत् । कर्म कर्मशब्दवाच्यं विष्णुमेव सु सर्वाधिकत्वेन हरिपूजाधिष्ठानमिति यावत् पूजयेत् । तर्हि सालिग्रामादेरपि सर्वेष्टत्वेन तत्रैव हरिपूजा क्रियतां किं गोपर्वतादिपूजयेत्यत आह ॥ अञ्जसेति ॥ अञ्जसा सौख्येन । वर्तते । तदेवास्य दैवतं कुलदैवतम् । (स्वेष्टे गोपर्वताद्यधिष्ठाने) हि प्रसिद्धमेतत् ॥ १८ ॥

वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः ।

वैश्यस्तु वार्तया जीवेच्छूद्रस्तु द्विजसेवया ॥ १९ ॥

पदरत्नावली

शचीशप्रसादनेयं न नो युक्तेति वक्तुं तत्तज्जातिजीविकाधर्मानाख्याति वर्तेतेति ॥ ब्रह्मणा वेदेन तद्विहितनानानुष्ठानलक्षणेन तपसा । ‘ब्रह्म वेदस्तपस्तत्त्वम्’ इत्यमरः । वार्तया कृषिवाणिज्यादिचतुर्विधलक्षणया ॥ १९ ॥

सत्यधर्मीया

अस्मदादीनां न स्म शचीशसेवोपयुक्तेति वक्तुं तत्तज्जातिजीविकाधर्मानाह ॥ वर्तेतेति ॥ ब्राह्मणो ब्रह्मणा वेदेन तदुक्तयुक्तानुष्ठानेन वर्तेतेति राजन्य इत्यत्रानुवर्तते । राज्ञ्यां राज्ञा जातो राजन्यो भुवो रक्षया वर्तेत । वैश्यस्तु वार्तया कृषिगोरक्षादिना । शूद्रस्तु द्विजानां सेवया जीवेदित्युभयान्वयि । ब्रह्मणा तपसेति वा । ब्रह्म वेदस्तपस्तत्त्वमित्यमरः ॥ १९ ॥

सुमनोरञ्जिनी

न च इष्टप्रदत्वं गिरिपर्वतादिष्वेवास्ति । अतस्त एवात्र पूज्या इति वक्तुं ब्राह्मणादीनामाजीविकां तदुपोद्घातेन वर्णयति ॥ वर्तेतेति ॥ विप्रः ब्रह्मणा वेदेन तदुक्तषट्-कर्माचरणेन । राजन्यः क्षत्रियः भुवो रक्षया पालनेन । वैश्यस्तु वार्तया । शूद्रस्तु द्विजानां त्रैवर्णिकानां सेवया वर्तेतेत्यन्वयः ॥ १९ ॥

कृषिवाणिज्यगोरक्षाः कुसीदं तुर्यमुच्यते ।

वार्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् ॥ २० ॥

पदरत्नावली

कृषिर्भूम्युल्लेखनादिः । वाणिज्यं पदार्थविक्रयादि । गोरक्षा गोपालनम् । कुसीदं वृद्ध्या अधिकद्रव्यार्जनम् । ‘कुसीदं वृद्धिजीवनम्’ इति हलः । तत्र वार्ताप्रभेदमध्ये । गोवृत्तयो गोभिरेव वृत्तिर्जीवनं येषां ते तथा । ‘जीवनं वृत्तिराजीवो वार्ता चेति निगद्यते’ इति हलः ॥२०॥

सत्यधर्मीया

वार्ता चैतत्प्रकारेति स्ववृत्तिरिति विविच्य, कृषिर्भूलेखनं, वाणिज्यं पदार्थविक्रियादि, गोरक्षा गोपालनम् । कुसीदं तुर्यं चतुर्थं वृद्ध्याऽधिकधनसम्पादनमेवं वार्ता चतुर्विधा । तत्रैतन्मध्ये वयमनिशं गोवृत्तयो गोभिरेव वृत्तिर्जीविका येषां ते तथा । अनेन समाहारासमाहाराभ्यां वैश्यवृत्तिर्वार्तासमग्रचतुष्टयवैशिष्ट्येनैवेत्यभिप्रैति ॥ २० ॥

सुमनोरञ्जिनी

वार्तयेत्युक्तां तां वार्तां विभज्य दर्शयति ॥ कृषीति ॥ कृषिर् भूकर्षणादि-क्रिया । वाणिज्यं क्रयविक्रयादि । गोरक्षा पशुपालनम् । कृषिवाणिज्याभ्यां सहिता गोरक्षा । कुशीदं वृद्ध्यर्थम् ऋणादिदानं तुर्यं चतुर्थमुच्यते । तत्र कृष्यादिषु मध्ये । गोवृत्तयः गोभिर् वृत्तयः जीवनं येषां ते तथोक्ताः ॥ २० ॥

सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ।

रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् ॥ २१ ॥

पदरत्नावली

प्रकारान्तरेणेन्द्रमाक्षिपति सत्त्वमित्यादिना ॥ सत्त्वादित्रिगुणस्थत्वादिना सत्त्वादिशब्दवाच्यो विष्णुरेव स्वसान्निध्यभूषितान् त्रिगुणानिमान् निमित्तीकृत्य स्थित्यादिकर्तेति विज्ञेयम् । विश्वं समस्तम् । अन्योन्यं कारणकार्यतामापन्नमुत्पद्यते ॥ २१ ॥

सत्यधर्मीया

सर्वथा न मघवत्कृत्यमिति भगवान्प्रकरान्तरेणाह ॥ सत्त्वं रजस्तम इति ॥ स्थितिश्चोत्पत्तिश्चान्तश्च तेषां हेतवः कारणानि । विविधं विश्वं समस्तं जगद्रजसाऽन्योन्यं कारणकार्यतामापन्नमुत्पद्यते । विश्वं मामाश्रित्य स्थित्युत्पत्त्यन्तहेतव इत्यप्यन्वयः ॥ २१ ॥

सुमनोरञ्जिनी

ननु वयं गोवृत्तयः खलु, न गाव एव स्वरूपतो जीवनप्रदाः किन्तु महेन्द्रेण चोदितेषु मेघेषु वर्षत्सु तदुत्पन्नतृणानदन्त्यः क्षीरादीन् ददत्य एव । अतोऽपि महेन्द्रः पूज्य इति तत्राह ॥ सत्त्वमिति ॥ अत्र सत्वरजस्तमःशब्दा भगवद्वाचकाः । तत्र नियामकमाचार्यवचनं प्रागेवोदाहृतम् । विश्वं समस्तं जगत् । अन्योन्यं निमित्तीकृत्य ॥ २१ ॥

रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः ।

प्रजास्तैरेव सिद्ध्यन्ति महेन्द्रः किं करिष्यति ॥ २२ ॥

पदरत्नावली

मेघानां नियोजकेन मघोनैव वृष्ट्यादिरिति शङ्कां निराचष्टे रजसेति । रञ्जयति सर्वमिति रजो विष्णुस्तेन । सिद्ध्यन्ति सम्पन्नकार्या भवन्ति । किं करिष्यति ? न किमपीत्यर्थः । ‘प्रश्ने क्षेपे विकल्पे किम्’ इति यादवः ॥ २२ ॥

सत्यधर्मीया

रजसा रञ्जकेन हरिणा चोदिता मेघाः सर्वतोऽम्बूनि वर्षन्ति । तैरम्बुभिः प्रजाः सिद्ध्यन्ति तत्र परस्परं भविष्यति किं करिष्यति मघवेति भावः ॥ २२ ॥

सुमनोरञ्जिनी

रजसा रजोगुणप्रेरकेण भगवता । सर्वतः सर्वत्र । सिद्ध्यन्ति जीवन्ति

॥ २२ ॥

न नः पुरो जनपदा न ग्रामगृहिणो वयम् ।

वनौकसस्तात नित्यं काननाभिनिवासिनः ॥ २३ ॥

पदरत्नावली

पुरः पुराणि, जनपदा देशाः, ग्रामाश्च गृहाणि चैषां सन्तीति ते तथा न । वनौकसस्तपस्विनः ॥ २३ ॥

सत्यधर्मीया

केवलं वनवासिनां नः पुरो न सन्ति जनपदा देशाश्च न । वयं च, ग्रामाश्च गृहाणि चैषां सन्तीति ते तथा, न वनौकसस्तपस्विन इव नित्यं काननाभिनिवासिनस्तात वयं वनवासिनो वनौकसः । न च शचीशो दूरेऽस्तीति वचनमिदम् । समीपमुपयातश्चेत्तदपेक्षाऽऽवश्यकीति जनक न जल्पेति वाऽऽह ॥ केति ॥ आननाभिनिवासिन आननमस्मन्मुखमभिनिवसतीति स तथा तस्यापि नः काऽपेक्षेति शेषः ॥ २३ ॥

सुमनोरञ्जिनी

एतावता गवां पूज्यत्वमुपपाद्य गिरेः पूज्यत्वमुपपादयति ॥ नेति ॥ नो ऽस्माकं पुरः पुराणि जनपदाश्च जननिवासस्थानानि । ग्रामगृहिणो ग्रामे विद्यमानगृहनिवासिनो वयं न किं तु वनौकसः । अत एव काननाद्रिनिवासिनश्च ॥ २३ ॥

आजीव्यैकतरं भावं यस्त्वन्यमुपधावति ।

न तस्माद् विन्दते क्षेमं जारं नार्यसती यथा ॥ २४ ॥

पदरत्नावली

काननैकनिवासिनां वनौकसामस्माकं किं वासवसवेनेत्याशयेनाह आजीव्येति ॥ एकतरं प्रधानं भावं पदार्थमाजीव्योपजीव्य अन्यमपकृष्टपदार्थं य उपधावति उपास्ते स पुरुषस् तस्माद् भावात् क्षेमं न विन्दते न लभते । ‘एके मुख्यान्यकेवलाः’ इत्यमरः । ‘भावोऽभिप्रायसत्तात्म-पदार्थेष्वभिधीयते’ इत्यभिधानम् । यद्वा ‘यः सर्वाननुगृह्णाति सृजति वासयति तस्मादुच्यते एकः’ इत्यादिश्रुतेरेको विष्णुः । तरन्त्यनेन वृजिनव्रजमिति तरस्तारकः । एकश्चासौ तरश्चेत्येकतरस्तम् । भावयतीति भावस्तम् । ‘सृष्टिः स्थितिश्च संहारो भावनं समुदाहृतम् । तद् यः करोति पुरुषः स भाव इति कीर्तितः’ इत्यादिस्मृतेः । सर्वदा सर्वोपजीव्यं मुख्येशं विष्णुमुपेक्ष्य अन्यमनीशं शचीशादिकं य उपास्ते स तस्मादिन्द्रादेः क्षेमं न लभत इति । असती पुंश्चली नारी पतिमुपजीव्यमुपेक्ष्य जारं जीर्यति स्त्रियाः सतीत्वमनेनेति जार उपपतिस्तमवाप्य यथा सार्वकालिकं क्षेमं नाप्नोति तथेति । तस्मादस्मदुपजीव्यगोगोवर्धनाद्र्याद्यर्चनद्वारा तत्तदन्तर्यामी श्रीहरिरेव समिज्येतेति तत्त्वम् ॥ २४ ॥

सत्यधर्मीया

एकतरं परतरशब्दवदयमखण्डः । एकं भावमाजीव्योपजीव्य । उपधौ अतीति वा छेदः । उपधौ व्याजे सति योऽन्यमतिविन्दते स क्षेमं न विन्दते । भक्तिपूर्वकमित्यर्थः । छन्दस्त्वाद्व्यावहितस्याप्यतेरन्वयः । तरन्त्यनेनानिष्टनिचयमिति तर एकश्चासौ तरश्चेत्येकतरस्तं तारकमेकं भावमुपजीव्येति वा । ॠदोरबित्यप्प्रत्ययः । अन्यं भावमुपधावत्युपास्ते स तस्माद्भावात्क्षेमं न विन्दते, आशामात्रं, न काङ्क्षितं प्राप्नोति । असती पुंश्चली जारं प्राप्य यथा सार्वकालिकं क्षेमं न प्राप्नोति तथेति । अस्मज्जीवनं वनादिभिरिति नात्र वासे वासवसव आवश्यक इति भावः

॥ २४ ॥

सुमनोरञ्जिनी

उपजीव्यविरोधे बाधकमाह ॥ आजीव्येति ॥ एकतरं भावं वस्तु आजीव्य उपजीव्य यः पुरुषो ऽन्यं भावम् उपधावति उपास्ते सः पुरुषः । तस्माद् उपजीव्यवस्तुभिन्नात् क्षेमं सुखं न विन्दते न लभते । तत्र दृष्टान्तः । नारी कुलस्त्री । जारं विटपुरुषम् उपासीना अत एव असती, क्षेमं यथा न विन्दते तथेति ॥ २४ ॥

तस्माद् गवां ब्राह्मणानामद्रेश्चारभ्यतां मखः ।

य इन्द्रयागसम्भारास्तैरयं साध्यतां मखः ॥ २५ ॥

पदरत्नावली

गवां मखो ब्राह्मणानां च मखोऽद्रश्च मख आरभ्यताम् । सम्भाराः साधनानि

॥ २५ ॥

सत्यधर्मीया

अग्रत एव जाग्रता भगवन्भवता भाव्यम् । संभाराः सम्भृता वृथा भविष्यन्तीत्यत आह ॥ तस्मादिति ॥ यद्वा नेह साहिती विहिता हातुं शक्या तस्या एवमवश्यं विनियोगः कार्य इत्यार्यान्प्रति वक्ति ॥ गवां ब्राह्मणानामिति ॥ स्वयं गोगोप इति तत्पुरस्कृतिर् ओरान्तरङ्गिको भावोऽद्रिरादरणीयत्वादित्यादेः । सर्वत्रापि सर्वैराद्रियमाणस्य ममेति । गवां मखो ब्राह्मणानां च मखोऽद्रेश्च मख आरभ्यतामिति मखपदस्य पृथक् पृथगन्वयसूचनार्थं पुनर्मख इत्युक्तिः । अन्यथा मख इत्यतिरिक्तं स्यादिति ज्ञेयम् । उखवखिमखिगतौ हलश्चेति घञ्, संज्ञापूर्वकत्वान्न वृद्धिः । क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इति घञ्विषयेऽपि । पुंसीति घो वा । तस्मादिन्द्रकृत्याभावादिन्द्रयागसम्भाराः पदार्था एतैरयं मदुक्तो मखः साध्यताम् । ये इन्द्रयागसम्भारास्तैर्गवां ब्राह्मणानामद्रेश्च मखः साध्यताम् । अयं चारभ्यताम् अभियातन्तीति भ्यतस्ते चाराश्च तेभ्यतश्च तेषां मध्ये मखो गतो दूतमध्ये निविष्ट इति तदिष्टिं त्यक्त्वाऽयं मखः साध्यतामिति मखस्त्वया मखपतित्वेन सम्मतोऽयं चारभ्यतां मध्ये मखो गत इत्यावृत्त्याऽन्वयो वा । चारभ्यतां चारभ्यतः प्रति गत इति वा । यथोक्तं चतुर्थतात्पर्ये तवत्वं चतुर्ष्टुष्टीति सूत्रादिति । मखः सहस्वदर्चतीत्यृग्भाष्यटीकयोर्मखात्मा पुरूहूतो वा मखात्मा मखाभिमानीत्युक्तः ॥ २५ ॥

सुमनोरञ्जिनी

पूर्वप्रतिज्ञातार्थं निगमयति ॥ तस्मादिति ॥ तेषामेवेष्टप्रदत्वात् । तस्माद् उपजीव्यं परित्यज्य अन्याराधनस्याकरणीयत्वाच्च गवादीनामुद्देशेनैव मख आरभ्यतामित्यन्वयः । सम्भाराः साधनानि ॥ २५ ॥

पच्यतां विविधाः पाकाः सूपान्धःपायसादयः ।

संयावापूपशष्कुल्यः सर्वदोहश्च गृह्यताम् ॥ २६ ॥

पदरत्नावली

सूपो मुद्गान्नम्, अन्धः केवलान्नं, पायसं पयसि पक्वमादिर्येषां ते तथा । संयावो गोधूमान्नम्, अपूपः पिष्टभक्ष्यविशेषः, शष्कुली पैष्टिका मण्डलाकृतिः । सर्वदोहः क्षीरदध्यादिः

॥ २६ ॥

सत्यधर्मीया

विविधा नानाप्रकाराः । सूपो द्विदलपदार्थोऽन्धो भक्तं, पायसं क्षीरविकृता-न्नमादिर्येषां ते पाकाः पाक्या भाविनीं संज्ञां गृहीत्वा पायसादीत्युक्तिः । संयावो गोधूमान्नमपूपः पोलिकादिः शष्कुल्यः पिष्टकृतमण्डलभक्ष्याणि पच्यतां सर्वदोहश्च क्षीरादिर्गृह्यताम् । पाका अर्भकाः पाकाननुकूलाभिर्ललनाभिर्गृह्यतामित्यप्यर्थः । अग्न्यादौ पातः पोतानां स्यादिति कक्ष्या निक्षिप्तरोदन ओदनसिद्धिर्वा न भवेदिति तद्ग्रहणमपि युक्तमिति सूचयितुं पाक्या इत्यनुक्त्वा पाका इत्युक्तमिति मन्येन स्यान्नेयम् । मदुदितकृतौ दास्याम्यहमहर्मोक्षमपरोक्षप्रेक्षां वा तद्गृह्यताम् । न तादृशी शक्तिस्तवेति नेत्याह ॥ सर्वद इति ॥ अहर्मुहूर्तं विज्ञेयमहर्मोक्षोऽपि भण्यते । अहर्दिनं प्रकाशश्च क्वचिज्ज्ञानं बलं तथेति बृहद्भाष्योक्तेः । प्राग्ज्ञानमनन्तरं मोक्षश्चेत्तत्फलत्वेन गृह्यतामिति वा

॥ २६ ॥

सुमनोरञ्जिनी

पाकाः पक्तव्याः पदार्थाः । सूपः, अन्धांसि अन्नानि, पायसाः पयस्येव पक्वाः, संयावापूपानि गोधूमपिष्टनिर्मितापूपानीत्यर्थः । संयावाश्चापूपानीति वा । शष्कुल्यः पिष्टमयाः कुण्डलाकृतयो भक्ष्यविशेषाः । पच्यन्तामित्यन्वयः । सर्वदोहश्च सर्वासां गवां दोहश्च दुग्धमपि गृह्यतां संगृह्यताम् ॥ २६ ॥

हूयन्तामग्नयः सम्यग् ब्राह्मणैर्ब्रह्मवादिभिः ।

अन्नं बहुगुणं तेभ्यो दीयतां धेनुदक्षिणाः ॥ २७ ॥

पदरत्नावली

बहुगुणं षड्रसोपेतम् ॥ २७ ॥

सत्यधर्मीया

ब्रह्मवादिभिर्ब्राह्मणैरग्नयो हूयन्ताम् । सम्यगित्यनङ्गभङ्गमाह । तेभ्यो ब्राह्मणेभ्यो बहुगुणं सषड्रसम् । धेनवश्च दक्षिणाश्च ता दीयतां धेन्वात्मका दक्षिणा इति वा ॥ २७ ॥

सुमनोरञ्जिनी

बहुगुणं षड्रसोपेतम् । बहुदक्षिणम् अन्नम् । तेभ्यो ब्राह्मणेभ्यः ॥ २७ ॥

अन्येभ्यश्चाश्वचाण्डालपतितेभ्यो यथार्हतः ।

यवसं च गवां दत्वा गिरये दीयतां बलिः ॥ २८ ॥

पदरत्नावली

यवसं तृणम् । ‘घासस्तृणं च यवसः’ इत्यभिधानम् । गिरये गिरिसन्निहिताय तन्नाम्ने हरये । ‘गिरिः प्राणः समुद्दिष्टः’ इति वामनोक्तेर् वायवे इत्यपि ज्ञेयम् ॥ २८ ॥

सत्यधर्मीया

आश्वचण्डालपतितेभ्यः श्वानश्च चण्डालाश्च पतिताश्च तेभ्यस्तान् आ अभिव्याप्य द्वे पदे । दीयतां यथार्हतो यथायथायोग्यतः गवां यवसं च दत्वा गिरये पर्वताय बलिर्दीयताम् । अगायेत्यनुक्त्वा गिरय इति वदन्स्वस्मै सर्वनाम्ने वायवे चेत्यभिप्रैति । चतुर्थतात्पर्ये यथोक्तम् । गिरिः प्राणः समुद्दिष्ट इति ॥ २८ ॥

सुमनोरञ्जिनी

आश्वचण्डालपतितेभ्यः । शुन आरभ्य चण्डालपतितपर्यन्तेभ्यः । यथार्हतः यथायोग्यम् । अन्नं दीयतामित्यन्वयः । यवसं तृणम् । गिरये गिरिनामकाय गिरिसन्निहिताय हरये

॥ २८ ॥

स्वलङ्कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः ।

प्रदक्षिणं च कुरुत गोविप्रानलपर्वतान् ॥ २९ ॥

पदरत्नावली

स्वनुलिप्ताश् चन्दनादिना ॥ २९ ॥

सत्यधर्मीया

स्वनुलिप्ता गन्धादिना । यूयं गोविप्रानलपर्वतान्प्रदक्षिणं च कुरुत ॥२९॥

सुमनोरञ्जिनी

स्वयं भुक्तवन्तः । सुष्टु अलङ्कृताः । गोविप्रानलपर्वतान् प्रदक्षिणं कुरुत

॥ २९ ॥

एतन्मम मतं तात क्रियतां यदि रोचते ।

अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः ॥ ३० ॥

पदरत्नावली

दयितः प्रियः ॥ ३० ॥

सत्यधर्मीया

रोचते तुभ्यं, मह्यं मम दयितः ॥ ३० ॥

सुमनोरञ्जिनी

इत्युक्त्वा उपसंहरति ॥ एतदिति ॥ ३० ॥

श्रीशुक उवाच–

कालात्मना भगवता शक्रदर्पजिघांसया ।

प्रोक्तं निशम्य नन्दाद्याः साध्वगृह्णन्त तद्वचः ॥ ३१ ॥

पदरत्नावली

शक्रदर्पजिघांसा तु तदनुजिघृक्षयेति बोध्यम् । शर्वपूर्वसुपर्वणामपि कदाचिदत्यल्पासुरावेशाद् दर्पादिर्भवति । विष्ण्वनुग्रहेणासुरावेशे निवृत्ते सति यथापूर्वं दर्पादिदोषविधुरा विराजन्ते । तदुक्तम् - ‘एतस्मात् कारणात् कृष्णः शक्रस्य विमदाय तु । गिर्यादिस्थितमात्मानं पूजयामास बल्लवैः ॥ अत्यल्पस्त्वसुरावेशो देवानां च भविष्यति । प्राणमेकं विनाऽसौ हि त्वाखणाश्मसमः स्मृतः । तस्मिन्नप्यसुरावेशे गते प्रकृतिरेव तु’ इति ॥ ३१ ॥

सत्यधर्मीया

कालात्मना विनाऽन्यान्स्वयं कामपूरकैश्च । यथोक्तं तद्वचः साधु अगृह्णन्त जगृहुः । शक्रदर्पजिघांसा तु तदुद्दिधीर्षयेति ज्ञेयम् ॥ ३१ ॥

सुमनोरञ्जिनी

कालात्मना सर्वगुणोद्रिक्तेन हरिणा । भगवता श्रीकृष्णेन । शक्रस्य यो दर्पो ऽसुरावेशकृतो मदस् तस्य जिघांसया परिहारेच्छया प्रोक्तं वचो ऽगृह्णन्त स्वीचक्रुः ॥३१॥

तथा च विदधुः सर्वे यथाऽऽह मधुसूदनः ।

वाचयित्वा स्वस्त्ययनं द्रव्यैर्गोविप्रभूभृताम् ॥ ३२ ॥

सत्यधर्मीया

गावश्च विप्राश्च भूभृत्पर्वतश्च तेषां स्वस्त्ययनं विदधुः ॥ ३२ ॥

सुमनोरञ्जिनी

तथा च तथैव । विदधुश् चक्रुः । स्वस्त्ययनं ब्राह्मणैर्वाचयित्वा । द्रव्यैर् महेन्द्रयागद्रव्यैरेव गोविप्रभूभृतां बलीनुपाहृत्य दत्वा । आदृताः सादराः । गवां यवसं च दत्वा

॥ ३२,३३ ॥

उपहृत्य बलीन् सर्वानादृता यवसं गवाम् ।

गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् ॥ ३३ ॥

पदरत्नावली

उपहृत्य समर्प्य । आदृताः सादराः । गवां यवसं तृणं चोपहृत्य ॥ ३३ ॥

सत्यधर्मीया

आदृता बलीनुपहृत्य गवां यवसं तृणं चोपहृत्य गोधनानि च पुरस्कृत्य गिरिं प्रदक्षिणं चक्रुः ॥ ३३ ॥

अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्कृताः ।

गोप्यश्च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः ॥ ३४ ॥

पदरत्नावली

अनडुद्युक्तानि वृषभयुक्तान्यनांसि शकटानि । सद्विजाशिषः द्विजानामाशीर्वाद-सहिताः ॥ ३४ ॥

सत्यधर्मीया

अनडुद्भिर्वृषभैरुद्युक्तान्यनांसि शकटानारुह्य सद्विजाशिषस्ताभिः सहिता गोप्यः कृष्णवीर्याणि गायन्त्योऽभवन्निति शेषः ॥ ३४ ॥

सुमनोरञ्जिनी

अनडुद्भिर्युक्तानि अनांसि शकटान्यारुह्य । सद्विजाशिषः द्विजाशीर्वचनैः सहिता गोप्यश्च प्रदक्षिणं चक्रुरिति पूर्वेणान्वयः ॥ ३४ ॥

कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गतः ।

शैलोऽस्मीति ब्रुवन् भूरि बलिमादद् बृहद्वपुः ॥ ३५ ॥

पदरत्नावली

अन्यतममन्यत् । स्वार्थे तमप् । गोपविश्रम्भणं गोपानां विश्वासकरम् । आदद् जघास ॥ ३५ ॥

सत्यधर्मीया

गोपान्विस्रम्भयन्तीति तत्तथा । गोपानां विश्रम्भणं येन तद्वा । अन्यतम-मन्यत् । स्वार्थे तमप् । अन्यतमो मुकुन्दादित्यादिवत् । दृश्यमानान् गतः । शैलोऽहमस्मीति ब्रुवन् भूरि बलिं महान्नराशिं बृहद्वपुश्च सन्नाददभक्षयत् । रूपं दृश्यमानं ततोऽन्यतममन्यद्वपुर्गत इत्यन्वयो वा ॥ ३५ ॥

सुमनोरञ्जिनी

कृष्णस्तु । अन्यतमम् अन्यम् । गोपानां विस्रम्भणं विश्वासजनकं रूपं देहं गतः प्राप्तः । बृहद्वपुः सन् भूरिबलिम् आदद् भक्षितवान् ॥ ३५ ॥

तस्मै नमो व्रजजनैः स चक्रे ह्यात्मनाऽऽत्मने ।

अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् ॥ ३६ ॥

पदरत्नावली

तस्मै आत्मने पर्वतरूपिणे ॥ ३६ ॥

सत्यधर्मीया

व्रजजनैः सहात्मनाऽऽत्मने नमश्चक्रे । असौ शैलरूपी सन्नोऽनुग्रहं व्यधात् । अहो पश्यत । रु-शब्द इत्यस्मादौणादिकडुप्रत्यये रुरिति भवति । रुणा शब्देनोत्कृष्टतया पीनो रूपीनः । यथोक्तं प्राक् । शैलोऽस्मीति ब्रुवन्भूरीति स्वारस्यात् ॥ ३६ ॥

सुमनोरञ्जिनी

तस्मै बृहद्वपुषे । आत्मने स्वस्मै । आत्मना स्वयमेव । व्रजजनैः सह नमश्चक्रे । अहो इत्यादिकं ब्रुवन् ॥ ३६ ॥

एषोऽवजानतो मर्त्यान् कामरूपी वनेचरः ।

हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम् ॥ ३७ ॥

पदरत्नावली

अवजानतस् तिरस्क्रियां कुर्वाणान् ॥ ३७ ॥

सत्यधर्मीया

एष अवजानतोऽवज्ञां कुर्वतः कामरूपी वनेचरो मर्त्यान्हन्ति घातयति । अतोऽस्मै आत्मनां गवां च शर्मणे सुखाय नमस्याम इत्युक्त्वा नमश्च सञ्चक्रुरित्यतीतेनान्वयः

॥ ३७ ॥

सुमनोरञ्जिनी

एषः शैलरूपी भगवान् । अवजानतो ऽवज्ञां कुर्वतो मर्त्यान् हन्ति हि यस्मादतः शर्मणे क्षेमाय । नमस्याम इति ॥ ३७ ॥

इत्यद्रिगोद्विजमखं वासुदेवप्रचोदिताः ।

यथा विधाय गोपालाः सहकृष्णा व्रजं ययुः ॥ ३८ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे द्वाविंशोऽध्यायः ॥ १०-२२ ॥

पदरत्नावली

यथावद् विधाय ॥ ३८ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे द्वाविंशोऽध्यायः ॥

सत्यधर्मीया

यथावद्वासुदेवप्रचोदिता गोपाला अद्रिगोद्विजमखम् । अत्र भोक्तृतयाऽद्रेः प्रथमत उक्तिः । विधाय सहकृष्णा व्रजं ययुः ॥ ३८ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे द्वाविंशोऽध्यायः ॥ १०-२२ ॥

सुमनोरञ्जिनी

इति एवंप्रकारेण । यथा यथावत् ॥ ३८ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां द्वाविंशोऽध्यायः ॥ १०-२२ ॥