२१ एकविंशोऽध्यायः

रामराम महाबाहो कृष्ण दुष्टनिबर्हण

॥ अथ एकविंशोऽध्यायः ॥

श्रीशुक उवाच–

**रामराम महाबाहो कृष्ण दुष्टनिबर्हण । **

एषा वै बाधते क्षुन्नस्तच्छान्तिं कर्तुमर्हथः ॥ १ ॥

पदरत्नावली

भगवति दृढतरा भक्तिरेव मुक्तिसाधनमित्यावेदयितुं कृष्णवचनानुसारेण क्षुधार्तगोपालबालकैरर्थिता गोपाङ्गना भक्ष्यपायसादिकं स्वस्वामिने प्रचुरप्रेम्णा प्रत्यर्प्य मुक्तिं करस्थां वितेनुरिति कथां कथयत्यस्मिन्नध्याये । तत्रादौ क्षुधार्ता गोपाः किमब्रुवन्नित्याह रामरामेति ॥ दुष्टनिबर्हण दुष्टजनोन्मर्दन । क्षुद् बुभुक्षा । तस्याः क्षुधः शान्तिं प्रशमम् । ‘शान्तिः प्रशममङ्गले’ इति यादवः ॥ १ ॥

दुर्घटभावदीपिका

हे महाबाहो राम राम । त्वं, दुष्टनिबर्हण कृष्ण त्वमित्येतौ युवामेषा क्षुन्नोऽस्मान्बाधत इत्येतद्वै स्पष्टम् । अतस्तच्छान्तिं क्षुच्छान्तिं कर्तुमर्हथ इति । एतेन रामकृष्णे-त्यनयोः सम्बोधनैकवचनान्तत्वात् त्वं तच्छान्तिं कर्तुमर्हसीति वक्तव्यम् अर्हथ इति द्विवचन-प्रयोगोऽनुपपन्न इति शङ्का परिहृता । त्वमिति शब्दद्वयानन्तरमित्येतौ युवामित्यध्याहृत्यार्हथ इति द्विवचनेनान्वयस्योक्तत्वात् ॥ १ ॥

सत्यधर्मीया

भगवद्भक्तिरेव मुक्तिसाधनं, न तन्त्रं श्रुतिश्रवणादिकमिव पुंस्त्वमपीति प्रतिपादयत्यस्मिन्नध्याये । तत्रादौ गोपालगोविन्दकथां तदुपयोगिनीं कीर्तयति श्रीशुक इति वक्ति ॥ श्रीशुक इति ॥ तस्याः क्षुधः शान्तिं प्रशमम् । शान्तिः प्रशममङ्गल इति यादवः । शान्तिः शमेऽपि कल्याण इति विश्वः ॥ १ ॥

सुमनोरञ्जिनी

श्रीहरिचरणारविन्दैकभक्तिर्जन्मान्तराराधितश्रीहरिप्रसादोद्बोधितयोग्यतावतामेवा- भिव्यज्यते नान्यसाधनसन्दर्भैरित्येतन्निदर्शयितुं विप्रपत्नीनां भक्त्यभिव्यक्तिप्रकारं निरूपयत्यस्मिन्न-ध्याये । तत्र तमनु क्षुधार्ता इदमब्रुवन्नित्युक्तम् । किमब्रुवन्निति तत्राह ॥ रामरामेति ॥ दुष्टान् निबर्हति निगृण्हातीति तथोक्त । एषा इदानीं जाता क्षुन् नः बाधते । तस्याः शान्तिं शमनम्

॥ १ ॥

इति विज्ञापितो गोपैर्भगवान् जगदीश्वरः ।

भक्ताया विप्रभार्यायाः प्रसीदन्निदमब्रवीत् ॥ २ ॥

पदरत्नावली

विप्रभार्याया इति जातावेकवचनम् । या भक्ताः, या विप्रभार्यास्तासु प्रसीदन्निति वा ॥ २ ॥

सत्यधर्मीया

भक्ताया विप्रभार्याया उपरि इदं वक्ष्यमाणम् । सैका पतिप्रविधृता पदमाप विष्णोरित्यादेस्तदैवैकस्याः कायत्यागे ससद्गतिवितरणमित्येकवचनं युक्तम् । या विप्रभार्यास्तासु तदतिरिक्तासु च प्रसीदन्नित्यप्यान्तरङ्गिकोऽपि भावो विभाव्यः ॥ २ ॥

सुमनोरञ्जिनी

भक्ताया विप्रभार्यायाः पत्या विधृतायाः । भक्तां विप्रभार्यां प्रति प्रसीदन् प्रसादं कर्तुमिच्छन् ॥ २ ॥

प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः ।

सत्रमाङ्गिरसं नाम ह्यासते स्वर्गकाम्यया ॥ ३ ॥

पदरत्नावली

देवा इज्यन्ते यस्मिन्निति देवयजनं यज्ञवाटम् । ब्रह्मवादिनो वेदवादिनः । सत्रं बहुकर्तृकम् । अङ्गिरसा बृहस्पतिना कथितमाङ्गिरसम्, बृहस्पतिसवनमित्यर्थः । आसते कुर्वते । अनेकार्थत्वाद् धातूनाम् । हि यस्मात् सत्रे अभ्यागतेभ्यो अन्नवितरणं विहितं तस्मात् प्रयात ॥३॥

सत्यधर्मीया

देवयजनं देवा इज्यन्ते यत्रेति, देवानां यजनं यस्मिन्निति वा, यज्ञवाटं प्रति यात । ब्रह्मवादिनो वेदवादिनो ब्राह्मणाः । सत्रं बहुदिनसाध्यं बहुकर्तृकं च तन्नामानमाङ्गिरसं बृहस्पतिसवनमिति नाम प्रसिद्धम् । स्वर्गकाम्यया तदिच्छयाऽऽसते कुर्वन्ति । धात्वनैकार्थ्यात् । हि यतस्तत्र प्रयात । तत्राभ्यागतेभ्योऽन्नवितरणं विहितं मयाऽभिहितमित्यभिहिते तु सुमिलं तदिति भावः । आवाभ्यां विसर्जिता नियुक्ता आर्यस्य मम चाभिधां च कीर्तयन्तस्तत्र गत्वौदनं याचत । तद्दिनमारभ्य यायावर्यचर्यै रामकृष्णाय नम इत्युच्चार्य याचना प्रववृत इति मन्तव्या । तत्र प्रथमत आर्यस्येति रामस्योक्तिश्च, न तेऽन्नं दास्यन्ति किन्तु मत्सन्निधिमागत्य पुनर्गमनानन्तरं वर्त्मान्तरे-णान्नलाभ इति द्योतयितुं मम चेत्यनन्तरमनन्तेन स्वनामोक्तिश्चानुगुणेति निपुणता निस्मीमेति मन्तव्यम्

॥ ३,४ ॥

सुमनोरञ्जिनी

देवा इज्यन्तेऽस्मिन्निति देवयजनं यज्ञमण्टपं प्रति प्रयात गच्छत । तत्र ब्राह्मणा आङ्गिरसं तन्नामकं सत्रम् उद्दिश्य कुर्वन्त इति यावत् । आसते स्थिताः । आसते कुर्वते । अनेकार्थत्वाद्धातूनामिति पदरत्नावल्याम् ॥ ३ ॥

तत्र गत्वौदनं गोपा याचतास्मद्विसर्जिताः ।

कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥ ४ ॥

पदरत्नावली

अस्मद्विसर्जिता आवाभ्यां नियुक्ताः । आर्यस्य रामस्य मम चाभिधां कीर्तयन्तः ॥ ४ ॥

सुमनोरञ्जिनी

तत्र गत्वा ओदनं याचत । अस्मद्विसर्जिता आवाभ्यां प्रेषिताः । कथ-मस्मभ्यं ते दद्युरित्यत आह ॥ कीर्तयन्त इति ॥ आर्यस्य ज्येष्ठस्य रामस्य मम चाभिधां कीर्तयन्तो याचतेत्यन्वयः । यन्नामश्रवणेन व्यक्तभक्तयो भक्तं प्रयच्छन्तीति भावः ॥ ४ ॥

इत्यादिष्टा भगवता गत्वाऽयाचन्त ते तथा ।

कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि ॥ ५ ॥

पदरत्नावली

कृतानि अञ्जलिपुटानि यैस्ते तथा । दण्डवद् दण्डा इव पतिताः । अनेन विप्रविषयकभक्तिपरवशता प्रकाश्यते ॥ ५ ॥

सत्यधर्मीया

भुवि दण्डवद्दण्डा इव पतिताः । अनेन देहनिस्त्राणतेव भक्तिपरवशता च द्योत्यते ॥ ५ ॥

सुमनोरञ्जिनी

इत्यादिष्टा विप्रानयाचन्तेत्यन्वयः । दण्डवत्पतिता दण्डो यथा भुवि पतितस् तद्वत्साष्टाङ्गं पतिता इत्यर्थः ॥ ५ ॥

हे भूमिदेवाः शृणुत कृष्णस्यादेशकारिणः ।

प्राप्तान् जानीत भद्रं वो गोपान् नो रामचोदितान् ॥ ६ ॥

पदरत्नावली

हे भूमिदेवा ब्राह्मणाः । ‘भूमिदेवो द्विजोत्तमः’ इति हलायुधः ॥ ६ ॥

सत्यधर्मीया

हे भूमिदेवाः शृृणुत वाणीमस्माकमिति शेषः । वो भद्रमस्तु । कृष्णस्यादेशकारिण आज्ञाधारकान् तथा रामचोदितान् प्राप्तान् गोपान्नो जानीत वित्त । हरिणा आर्यस्य मम चाभिधामित्युक्तत्वात्तथाऽनुक्त्वा मुरहरपुरस्कृत्या वचनं तेषामभ्यासवशाद्भवदपि विप्राणां योग्यत्वाज्झडिति दुष्प्रतिपत्तिप्रत्यावृत्तिजनकं च भविष्यतीति मन्तव्यम् । रामनामग्रहणे दिशन्ति वा नेति क्षुत्क्षान्ता विपर्यासं चक्रुरिति वाऽवसेयम् ॥ ६ ॥

सुमनोरञ्जिनी

तद्याचनाप्रकारमाह ॥ हे भूमिदेवा इति ॥ हे भूमिदेवा ब्राह्मणाः कृष्णस्यादेशकारिणः गोपान् अस्मान् जानीत ॥ ६ ॥

गाश्चारयन्तावविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ ।

तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमाः ॥ ७ ॥

पदरत्नावली

लषतोऽभिलषतः । श्रद्धा अभिलाष आस्तिक्यं च । ‘श्रद्धाऽऽस्तिक्याभि-लाषयोः’ इति यादवः ॥ ७ ॥

सत्यधर्मीया

क्व वा कृष्णः क्व च वा रामः क्व यूयं वयं क्वेत्यतः सङ्गतिं वदन्ति ॥ गा इति ॥ अविदूरे समीपे गाश्चारयन्तौ बुभुक्षितौ रामाच्युतौ वो युष्मत्त ओदनमन्नं लषतः काङ्क्षतस्तयोरर्थिनोर्धर्मवित्तमा धर्मज्ञोत्तमा हे द्विजा यदि वः श्रद्धा तर्हि ओदनं यच्छत दिशत । तद्यच्छतेत्यनेन पूर्तावपि यत्पुनरोदनवचनं लोके लोकानामन्नमन्नमित्यायतास्या आयाता इत्याभाणकं समूलमिति ध्वनयितुमिति ज्ञेयम् ॥ ७ ॥

सुमनोरञ्जिनी

अविदूरे समीपे । गाश् चारयन्तौ रामकृष्णौ । वः सकाशाद् युष्मदीयं वा ओदनम् अन्नं लषतो ऽभिलषतः । हे द्विजा वः श्रद्धा आस्तिक्यं दातुमिच्छा वा यद्यस्ति तर्हि तयोर् उद्देशेन ओदनं यच्छत ॥ ७ ॥

दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः ।

अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दूष्यति ॥ ८ ॥

पदरत्नावली

दीक्षितान्नं न भोक्तव्यमिति शास्त्रविरोधं परिहरति दीक्षाया इति ॥ हे सत्तमाः सतामतिशयेन उत्तमाः । ‘अग्रेसरं सत्तममुत्तमं च’ इति हलः । पशूनां संस्थाऽऽलम्भनं यस्यां सा पशुसंस्था तस्या दीक्षाया अग्नीषोमीयदीक्षाया ऊर्ध्वं तथा सौत्रामणीनाम््नया इष्टेश्चान्यत्र कर्मान्तरे दीक्षितस्य चान्नमश्नन् हि यतो न दुष्यति ततश्चौदनं यच्छतेत्यन्वयः ॥ ८ ॥

सत्यधर्मीया

दीक्षिता वयं न भक्ष्यान्ना इति वचनस्यावसरमददानाः प्रस्तुतमोदनादनानुमोदनं युक्तं मधुसूदनादेरिति सत्रिणः श्रावयन्ति ॥ दीक्षाया इति ॥ दीक्षायाः पशुसंस्थायाः पशूनां संस्थाऽऽलम्भनं यस्यां सा तस्या दीक्षाया अग्नीषोमीयदीक्षायाः पश्वालम्भनात्पूर्वं नोदनानन्तरं न दोषः । यद्यपि सौत्रामणीयागः स्वतन्त्रः कश्चित्सूत्रामदेवताकोऽन्यस्त्वङ्गभूत इति याज्ञिकास्तत्र नोदनादननिषेध इत्यभ्यधुस्तथाऽप्यत्र सौत्रामण्याश्चेति ग्रहणात्स्मृतिकृद्वचनं वर्तेतेति सम्प्रदायज्ञाः । पूर्वमेव यावत्सवोपयोगि पृथक् सङ्ग्राह्योर्वरितपदार्थे स्वत्वमदीक्षितस्य कारितं चेत्तद्भुञ्जाना न दूष्यन्तीति च ज्ञेयम् । तथा च धर्मसूत्रम् । दीक्षितोक्रीतराजकोग्नीषोमीयसंस्थाया एव हुतायां वपायां दीक्षितस्य भोक्तव्यम् । यज्ञार्थे वा निर्दिष्टे शेषाद्ब्राह्मणा भुञ्जीरन्निति ब्राह्मणमिति । एतदन्यत्र दीक्षित-स्याप्यन्नमश्नन् हि यतो न दूष्यति ततश्चौदनं यच्छत । गोपाला अपि धर्मज्ञा इति जानन् जनार्दनः प्रागेवमाशङ्केरंस्त इदमुत्तरं देयमिति नान्वशादिति तात्पर्यमवधेयम् । तथा हि ब्राह्मणे द्वितीयपञ्चके खण्डे, स वा एष पशुरित्यारभ्य सर्वाभिर्वा एष देवताभिरालब्धो भवति यो दीक्षितो भवति तस्मादाहुर्न दीक्षितस्याश्नीयादिति, स यदग्नीषोमावुचितं गृभीतानिति, वपायै यजति सर्वाभ्य एव तद्देवताभ्यो यजमानं प्रमुञ्चन्ति तस्मादाहुरशितव्यं वपायां हुतायां यजमानो हि स तर्हि भवतीत्यन्तेनोक्तम्

॥ ८ ॥

सुमनोरञ्जिनी

दीक्षिता वयम् अभोज्यन्ना इत्यतो व्यवस्थामाहुः ॥ पशोः संस्था आलम्भनं यस्यां तस्या दीक्षायाः । सौत्रामण्याश्च दीक्षाया हिंसा संस्था प्रमीलनमित्यमरः । यद्वा पशु पश्वालम्भनं संस्था अवधिर्यस्यास्तस्या दीक्षाया दीक्षामारभ्य पश्वालंभनपर्यन्ताया इत्यर्थः । अन्यत्र पश्वालम्भनोत्तरं ज्योतिष्टोमादौ सौत्रामण्यतिरिक्ते च कर्मणि दीक्षितस्यान्नमश्नन्न दूष्यति । हि प्रमितमेतत् ॥ ८ ॥

इति ते भगवद्याञ्चां शृण्वन्तोऽपि न शुश्रुवुः ।

क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः ॥ ९ ॥

पदरत्नावली

इति हेतुपूर्वां भगवद्याञ्चाम् । अश्रवणे तेषामेष हि मनीषाविशेषो हेतुरित्याह क्षुद्राशा इति ॥ क्षुद्राशाः स्वर्गादिनश्वरफलेच्छवः । तदर्थं भूरिकर्माणः । किमेते भ्रान्ताः? सत्यमित्याह बालिशा इति ॥ बालिशा मूर्खाः । ‘बालिशो बालमूर्खयोः’ इति यादवः । वृद्धा ज्ञानिन इत्यभिमानो येषामस्तीति तथा । ‘ज्ञानिस्थविरयोर्वृद्धः’ इति च ॥ ९ ॥

सत्यधर्मीया

क्षुद्राशाः स्वर्गादिनश्वरफलाभिलाषाः । भूरिकर्माणो वृथा कायक्लेशसम्पाद-ककर्मयुताः । वृद्धमानिनस्तत्कार्यं तु महदप्रश्नो मूर्खा इति । एवं ते भगवद्याञ्चां गोपोपपादितां शृृण्वन्तोऽपि न शुश्रुवुः । अतदनुष्ठानादश्रुतप्राया सेति भावः । बालिशौ ऋद्धमानिन इति छेदः । ऋद्धमानिनः सम्पन्नत्वेनाभिमानवन्तो, बालिशौ रामकृष्णाविति तद्याञ्चां न शुश्रुवुरिति वा ॥९॥

सुमनोरञ्जिनी

इत्यनूदितां भगवद्याञ्चां शृृण्वन्तोऽपि न शुश्रुवुर् अशृृण्वन्त इवासन् । तत्रादरशून्या अभूवन्निति यावत् । आदराभावे निमित्तमाह ॥ क्षुद्रेति ॥ क्षुद्रे तुच्छे स्वर्गादावाशा येषां ते । भूरीणि श्रमाधिकानि कर्माणि येषां तथोक्ताः । वृद्धमानिनोऽपि बालिशा बाला एव । धिया अल्पत्वात् । मूर्खा एवेति वा । बालिशो बालमूर्खयोरित्यभिधानात् ॥ ९ ॥

देशः कालः पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नयः ।

देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ १० ॥

तं ब्रह्म परमं साक्षाद् भगवन्तमधोक्षजम् ।

मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥ ११ ॥

पदरत्नावली

देशो गङ्गातीरादिः । कालो वसन्तादिः । पृथग्द्रव्यं चरुपुरोडाशादि । मन्त्रास्तत्तद्देवताप्रसादसाधकमन्त्राः । तन्त्रमनुष्ठानविधिः । ऋत्विजोऽध्वर्युप्रभृतयः । अग्नय आहवनीयादयः । देवता, इन्द्राद्याः । यजमानो दीक्षितोऽधिकारी । क्रतुः सङ्कल्पः । धर्मोऽदृष्टम् । यन्मयो यत्प्रधानकः । मर्त्ये मृतिधर्मके देहे आत्मा बुद्धिर्येषां ते मर्त्यात्मानो मुकुन्दे मनुष्य इति दृष्टिरीक्षणं तया । अत एव दुष्प्रज्ञास्तं परमं ब्रह्म न मेनिरे न ज्ञातवन्तः ॥ १०,११ ॥

सत्यधर्मीया

ग्रन्थकृद्बालिशतां प्रकाशयति ॥ देश इति ॥ गङ्गासिन्धुसङ्गमादिर्देशः । वसन्तादिः कालः । पृथग्द्रव्यं चक्षुर्भूत्यादिकामनानुकूल्येन होम्यदध्यादिनानाद्रव्यम् । मन्त्रास्तत्तद्देव-ताप्रसादसाधकमन्त्राः । तन्त्रं करक्रिया । ऋत्विजश्च यथासम्भवमध्वर्युप्रमुखाः । अग्नय आहवनीयादयः । देवता इन्द्राद्या अमुख्याः । यजमानो दीक्षितः कर्ता । क्रतुः सङ्कल्पो, धर्मोऽपूर्वं यन्मयो यत्प्रधानकः । यन्मया इति वक्तव्य एतत्प्रधानभागवतरूपाणां भेदशङ्का स्यात्तदपनुत्यै यन्मय इत्येकवचनम् । यन्माधवप्रधानकस्तस्मा अदनौदनादानमेतन्निदानकमित्याह ॥ तमिति ॥ परमं ब्रह्म साक्षाद्भगवन्तमधोक्षजं मर्त्यात्मानो मर्त्ये मरणशिरस्के शरीरे आत्मा स्वरूपमिति मतिर्यैस्ते । मनुष्य इति दृष्टिर्धीस्तया । दृष्टिर्धीर्दर्शनाक्षिष्विति विश्वः । अत एव दुष्प्रज्ञास्तत्त्वेन न मेनिरे न व्यजानन् ॥ १०,११ ॥

सुमनोरञ्जिनी

वस्तुस्थितिं दर्शयन् तदज्ञानात्तेषां तद्बालिशत्वमुपपादयति ॥ देश इति ॥ देश आर्यावर्तादिः । कालो वसन्तादिः । पृथक्द्रव्यं चरुपुरोडाशादि । मन्त्रो देवताप्रतिपादकोऽग्नि-मील इत्यादिः । तन्त्रं प्रयोगः । ऋत्विजः ब्रह्मादयः । अग्नय आहवनीयादयः । देवता इन्द्रादिः । यजमानश्चेत्येतैः प्रवर्त्यमानः क्रतुर् ज्योतिष्टोमादिः । देवतामुद्दिश्य द्रव्यत्यागादिरूपः धर्मस् तज्जन्यापूर्वं चेत्येष सर्वो यन्मयः यत्प्रधानकः, यः मयः प्रधानः मन्त्रादिप्रतिपाद्यो ऋत्विगादिषु स्थित्वा तत्प्रेरकः सन्, क्रत्वादिकं स्वपूजात्वेन स्वीकृत्यापूर्वादिषु स्थित्वा फलप्रदो यस्येत्यर्थः । एतादृशं परमं ब्रह्म । साक्षात्प्रत्यक्षमपि मनुष्य इति दृष्ट्या ज्ञानेन । अत एव दुष्प्रज्ञा मर्त्यात्मानो मर्त्ये मरणशीले देहे आत्मा मनो येषाम् । देहाभिमानिनः न मेनिरे न ज्ञातवन्तः ॥ १०, ११ ॥

न ते यदोमिति प्रोचुर्न नेति च परन्तप ।

गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः ॥ १२ ॥

पदरत्नावली

ओमिति अन्नं दास्याम इति न प्रोचुः । नेति च न प्रोचुः ॥ १२ ॥

सत्यधर्मीया

का कथा प्रवृत्तोत्तरत्रेति परीक्षिन्मानसीं शङ्कां शुकः परिहर्तुं वक्ति ॥ नेति ॥ ते विप्रा यद्यदा ओमित्यन्नं दास्याम इति न प्रोचुर्नेति च न प्रोचुस्तदा निराशा इतः परं दद्युरेत इत्याशाशून्यास्तौ प्रत्येत्य यथा तैरुदितं तथैव रामकृष्णयोरूचुस् तौ प्रत्यूचुर्यत्र कुत्र वा स्वयं भुक्त्वा याता दूता इत्यपि नेत्याह ॥ निराशा इति ॥ न विद्यते आशोऽशनं येषां ते तथा प्रातराशययाचित इतिवदुचितमिदम् ॥ १२ ॥

सुमनोरञ्जिनी

य एते ब्राह्मणाः । ओमिति अङ्गीकारवचनं, नेति निषेधवचनं च नोचुः । तदा गोपा निराशाः सन्तः प्रत्येत्य यथावृत्तं तथा कृष्णरामयोः सन्निधावूचुः ॥ १२ ॥

तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः ।

व्याजहार पुनर्गोपान् दर्शयन् लौकिकीं गतिम् ॥ १३ ॥

पदरत्नावली

लौकिकी गतिं स्वयं सर्वकामान् पूरयितुं प्रभुरप्येकत्रालाभेऽन्यत्र गन्तव्यमिति लोकसिद्धां रीतिम् ॥ १३ ॥

सत्यधर्मीया

लौकिकीं गतिं, स्वयमत्रैव वितरितुं शक्तोऽप्येकत्रालाभेऽन्यत्र गन्तव्यमिति लौकिकीं गतिम् । तदेतदुक्तमुपाकर्ण्य पुनर्गोपान्प्रति व्याजहार ॥ १३ ॥

सुमनोरञ्जिनी

लौकिकीं लोकसिद्धां गतिं रीतिम् । पुरुषैर् निषेधे स्त्रियः प्रति याचनारूपाम्

॥ १३ ॥

मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणमागतम् ।

दास्यन्ति काममन्नं वः स्निग्धा मय्युषिता धिया ॥ १४ ॥

पदरत्नावली

दाने कारणमाह मयीति ॥ धिया मय्येव उषिताः, मामेव सञ्चिन्तयन्त्य इत्यर्थः । वस निवासे इति धातुः ॥ १४ ॥

सत्यधर्मीया

हे गोपाः । तत्पत्नीभ्यः ससङ्कर्षणमन्नप्राप्तिर्भवतीति स्वपुरस्कृतिरिव बलस्योपसर्जनतया ग्रहश्चेति ध्येयम् । काममपेक्षितमन्नं दास्यन्ति ता मयि धियोषिता मद्बुद्धयः किञ्च मयि स्निग्धाश्च सहजस्नेहवत्य इति । सराममित्यनुक्त्वा ससङ्कर्षणमित्युक्त्या सम्यक् तत्कर्षणेन सहितं मां ज्ञापयतेत्यप्यूचे सुचेता इति ज्ञेयः ॥ १४ ॥

सुमनोरञ्जिनी

ससङ्कर्षणमागतं माम् । पत्नीभ्यः द्विजपत्नीभ्यः । ज्ञापयत विज्ञापयत । तास्तु वः कामम् अपेक्षितम् । तत्र कारणमाह ॥ स्निग्धा इति ॥ मयि स्निग्धाः । धिया मनसा मय्येव उषिताः स्थिताः । सर्वदा मामनुस्मरन्त्य इत्यर्थः ॥ १४ ॥

गत्वाऽथ पत्नीशालायां दृष्ट्वाऽऽसीनाः स्वलङ्कृताः ।

नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन् ॥ १५ ॥

पदरत्नावली

द्विजसतीर् द्विजपत्नीः । प्रश्रिता नम्राः ॥ १५ ॥

सत्यधर्मीया

अथ कृष्णोक्तिश्रवणसमनन्तरं गोपा गत्वा पत्नीशालायां तदुपवेशस्थले आसीनाः स्वलङ्कृता द्विजसतीर्नत्वा प्रश्रिता नम्रा इदमब्रुवन् ॥ १५ ॥

सुमनोरञ्जिनी

पत्नीशालायाम् आसीनाः । द्विजसतीर् द्विजपत्नीः । दृष्ट्वा ताः प्रति गोपाः प्रश्रिता विनीताः सन्तः । इदं वक्ष्यमाणम् ॥ १५ ॥

नमो वो द्विजपत्नीभ्यो निबोधत वचांसि नः ।

इतोऽविदूरे चरता कृष्णेन प्रेषिता वयम् ॥ १६ ॥

सत्यधर्मीया

द्विजपत्नीभ्यो वो नमोऽस्तु नो वचांसि निबोधत । प्रातिस्विकतया सर्वाः प्रति सम्बोध्योक्तेर्वचांसीति बहुवचनम् । इतो युष्मत्स्थलादविदूरे समीपे चरता सञ्चरता कृष्णेन वयं प्रेषिताः ॥ १६ ॥

सुमनोरञ्जिनी

इतो ऽस्माद् यज्ञवाटात् । अविदूरे समीपे । चरता सञ्चरता कृष्णेन वयं प्रेषिताः ॥ १६ ॥

गाश्चारयन् स गोपालः सरामो दूरमागतः ।

बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ १७ ॥

पदरत्नावली

सानुगस्य भृत्यसहितस्य ॥ १७ ॥

सत्यधर्मीया

सरामो गोपालैः सह गाश्चारयन्दूरं स्वव्रजादागतस्तस्यान्नं दीयताम् । अवश्यमनालस्येन दाने कारणमाहुः ॥ बुभुक्षितस्येति ॥ एकोदरपूर्तिमात्रममत्रे दिशेयुर्मृगदृशा इति भीता आहुः ॥ सानुगस्य सभृत्यस्येति ॥ कदौदनमानयन्तीति स उन्नतस्थाने तिष्ठन्मार्गं निरीक्षत इत्यप्यवगमयन्ति ॥ सानुगस्येति ॥ सानौ गच्छतीति स तथा । प्रदीयताम् ॥ १७ ॥

सुमनोरञ्जिनी

स कृष्णः गोपालैः सह सरामश्च दूरं व्रजाद्दूरम् । बुभुक्षितस्य भोक्तु-मिच्छतः । सानुगस्य तस्य पर्याप्तमन्नं दीयताम् ॥ १७ ॥

श्रुत्वाऽच्युतमुपायान्तं नित्यं तद्दर्शनोत्सुकाः ।

तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः ॥ १८ ॥

पदरत्नावली

तस्य कृष्णस्य कथाभिराक्षिप्तान्याहृतानि मनांसि यासां तास्तथा ॥१८॥

सत्यधर्मीया

नित्यं तद्दर्शने उत्सुका इष्टार्थोद्युक्ताः । इष्टार्थोद्युक्त उत्सुक इत्यमरः । तत्कथाभिराक्षिप्तं मनो यासां ताः । अच्युतमुपायान्तं श्रुत्वा, जातः सम्भ्रम आदरो यासां ताः । सम्भ्रमस्त्वादरे भय इति वचनात् ॥ १८ ॥

सुमनोरञ्जिनी

तस्य श्रीकृष्णस्य कथया पान्थैः कथ्यमानया आक्षिप्तं मनो यासां ताः । अत एव तद्दर्शनोत्सुकाः । अच्युतम् उपायातं समीपे समागतम् । श्रुत्वा, जातः सम्भ्रमः सन्तोषो यासां तथाविधा बभूवुः ॥ १८ ॥

चतुर्विधं बहुगुणमन्नमादाय भाजनैः ।

अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः ॥ १९ ॥

पदरत्नावली

चतुर्विधं भक्ष्यभोज्यलेह्यपेयात्मकं बहुगुणं माधुर्यादिगुणोपेतम् । भाजनैः पात्रैः । अभिसस्रुर् अभिजग्मुः । निम्नगा नद्यः ॥ १९ ॥

सत्यधर्मीया

निम्नगा नद्यः समुद्रं यथा गच्छन्ति तथा सर्वाः, भाजनैः पात्रैश्चतुर्विधं भक्ष्य-भोज्यलेह्यपेयात्मना बहुगुणं मधुरादिरसोपेतमन्नमादायाभिसस्रुः । अहं वैश्वानरो भूत्वेत्या-द्यावेदितचतुर्विधं भुक्तभक्तपाकं कुर्वन्तं प्रति चतुर्विधान्धोनयनं सारसनयनानां युक्तमिति ज्ञेयम् ।

सुमनोरञ्जिनी

चतुर्विधं लेह्यपेयचोष्यखाद्यभेदेन चतुर्विधं बहुगुणं संस्कारविशेषैः सुरसं सुगन्धि च । भाजनैर् भाण्डैरधिकरणैः सह आदाय प्रियं श्रीकृष्णम् अभिसस्रुः । तत्र दृष्टान्तः । निम्नगा गङ्गाद्या नद्यः समुद्रमिवेति ॥ १९ ॥

निषिध्यमानाः पतिभिर्भ्रातृभिर्बन्धुभिः सुतैः ।

भगवत्युत्तमश्लोके दीर्घश्रुतभृताशयाः ॥ २० ॥

पदरत्नावली

दीर्घं बहुकालं श्रुतेन तन्माहात्म्यश्रवणेन भृत आशयोऽन्तकरणं याभिस्ताः

॥ २० ॥

सत्यधर्मीया

उत्तमश्लोके भगवति । दीर्घं बहुकालं श्रुतं तन्माहात्म्यश्रवणं तेन भृत आशयोऽन्तःकरणं यासां ता याभिस्ता वा । पतिभिर्भ्रातृभिर्बन्धुभिर्जामात्रादिभिः । वैष्णवे बन्धु-सत्क्रियेति टीकायां बन्धुर्जामातेत्युक्तेः । सुतैः, जातपुत्रः कृष्णकेशोऽग्नीनादधीतेति श्रुतेर्दीक्षोप-योग्येकैकतोकैः । उत्तरत्र भगवदङ्गसङ्गाशात एतदागमावगमाद्बहुप्रसवे तदसम्भवादेवमर्थे कृते तत्तारुण्यं सिद्ध्यतीति ज्ञेयम् । यद्वा जातपुत्रः कृष्णकेश इत्यादौ योग्यवयोमात्रं लक्षयित्वाऽधिकारकथनात्सुताः पतिभ्रातृसुता इति वाऽर्थेति तारुण्यं द्योतितं भवतीति वा सुतैरित्युक्तिः । निषिध्यमाना अपीममभिसस्रुरित्यन्वयः ॥ २० ॥

सुमनोरञ्जिनी

पत्यादिभिर् निषिध्यमाना अपि । भगवति श्रीकृष्णे । दीर्घं बहुकालं श्रुतेन श्रवणेन भृतस् तस्मिन्नेव धृत आशयोऽन्तःकरणं यासां ताः ॥ २० ॥

यमुनोपवनेऽशोकनवपल्लवमण्डिते ।

प्रचरन्तं वृतं गोपैर्ददृशुः साग्रजं स्त्रियः ॥ २१ ॥

सत्यधर्मीया

अशोकनवपल्लवमण्डिते यमुनोपवने यथा स्वाप्तां कृष्णापेक्षा न तथा कृष्णस्येत्याह । यमुनेति ॥ ई अमुना कृष्णेन सहैव वर्तत इति । गोपैर्वृतं सहितं साग्रजं प्रचरन्तं स्त्रियो ददृशुः । वृतमित्युक्तिः कदा द्रक्ष्याम इति स्ववृत्तमित्यपि स्फोरयत्यर्थम् ॥ २१ ॥

सुमनोरञ्जिनी

अशोकानां नवपल्लवैर्मण्डिते यमुनाया उपवने । प्रचरन्तं श्रीकृष्णं ददृशुः

॥ २१ ॥

श्यामं हिरण्यपरिधिं वनमाल्यबर्ह-

धातुप्रवालनटवेषमनुव्रतांसे ।

विन्यस्तहस्तमितरेण धुनानमब्जं

कर्णोत्पलालककपोलमुखाब्जहासम् ॥ २२ ॥

पदरत्नावली

कीदृशं रूपं ददृशुरिति तत्राह श्याममिति ॥ हिरण्यवत् परिधिः परिधानं यस्य स तथा । पीताम्बरमित्यर्थः । वनमाल्यैर्वनमालाभिर् बर्हैर्मयूरपिच्छैर् धातुभिर् गैरिकाद्यैः प्रवालैः पल्लवैश्च नटवद् वेषो यस्य स तथा तम् । अनुव्रतांसे कस्यचिद् वयस्यस्य स्कन्धे । इतरेण करेणाब्जं पद्मं धुनानं परिकम्पयन्तम् । कर्णयोरुत्पले यस्य तच्च तद् आ सम्यगलकाश्चूर्ण-कुन्तलाः समीचीनौ कपोलौ च यस्य तच्च कर्णोत्पलालककपोलं, तच्च तन्मुखाब्जं च, तस्मिन् हासो यस्य स तथा तम् । ‘अलकाश्चूर्णकुन्तलाः’ इत्यमरः ॥ २२ ॥

सत्यधर्मीया

किं रूपं ददृशुरित्यत आह ॥ श्याममिति ॥ वर्णेन हिरण्यं हिरण्यव-द्विद्यमानः परिधिर्वसनं पीतमिति यावत् सुवर्णमयमेखलमिति वा । वनमाल्यं वनमाला बर्हाणि च धातवो गैरिकाद्याः प्रवालाः पल्लवा एतैर्नटवद्वेषो यस्य तमनुव्रतः कश्चिद्गोपस्तस्यांसे स्कन्धे विन्यस्तहस्तमितरेण हस्तेनाब्जं कमलं धुनानं कम्पयन्तं कर्णयोरुत्पले यस्य तथा । आ सम्यगलकाश्चूर्णकुन्तलाः । समीचीनौ कपोलौ च यस्य । उत्पलं शुष्कमांसे स्यात्कुष्टेन्दीवरयोरपीति विश्वः । अलकाश्चूर्णकुन्तला इत्यमरः । गण्डकपोलाविति च । तच्च तन्मुखाब्जं च तस्मिन्हासो यस्य स तम् ॥ २२ ॥

सुमनोरञ्जिनी

कीदृशं ददृशुरित्यत आह ॥ श्याममिति ॥ श्यामम् इन्द्रनीलश्यामम् । हिरण्यपरिधिं सुवर्णमेखलम् । वनमाल्यैर् वन्यपुष्पैर् वनमालया वा । माल्यं मालास्रज इत्यमरः । बर्हैः पिञ्छैः, धातुना, प्रवालैः किसलयैश्च, नटवेषवद्वेषो यस्य तम् । अनुव्रतस्य मित्रस्य अंसे । विन्यस्तो हस्तो येन तम् । इतरेण हस्तेनाब्जं धुनानं कम्पयन्तम् । कर्णयोर् उत्पले, अलकाः कुन्तलाः, कपोलयोर् मुखाब्जे हासो यस्य तम् ॥ २२ ॥

दीर्घश्रुतप्रियतमोदयकर्णपूरैर् यस्मिन् निमग्नमनसस्तमथाक्षिरन्धै्रः ।

अन्तः प्रवेश्य सुचिरं परिरभ्य तापं १प्राज्ञं यथाऽभिमतयो विजहुर्नरेन्द्रः ॥२३॥

पदरत्नावली

दीर्घकालं श्रुतः प्रियतमस्य कृष्णस्योदयो दीर्घश्रुतप्रियतमोदयः, स एव कर्णपूराः कर्णालङ्कारास्तैः । यस्मिन् कृष्णे पूर्वं निमग्नमनसो ऽवगाह्य दृढबद्धहृदयास्ता व्रजस्त्रियोऽथ दर्शनानन्तरं तं कृष्णमक्षिरन्ध्रैस्तद्द्वाराऽन्तः प्रवेश्य सुचिरं परिरभ्य आलिङ्ग्य तापं स्मरनिमित्तं ज्वरं विजहुः । अत्र दृष्टान्तमाह प्राज्ञा इति ॥ यथा प्राज्ञा भगवत्तत्त्वज्ञाननिपुणा समाध्यवस्थायां श्रीशमाश्रित्य अभि सम्यङ् मतिर्ज्ञानं येषां ते तथा देहगेहाद्यभिमानमथितं तापं जहति तथेति । प्राज्ञमिति पाठे परिरभ्येति सम्बन्धः । ‘सता सौम्य तदा सम्पन्नो भवति’, ‘प्राज्ञेनात्मना सम्परिष्वक्तः’, ‘प्राज्ञेनात्मनाऽन्वारूढः’ इत्यादिश्रुतेः ॥ २३ ॥

सत्यधर्मीया

दीर्घं श्रुतः प्रियतमस्य कृष्णस्योदयः स एव कर्णपूराः कर्णालङ्कारास्तैः । यस्मिन्प्राङ्निमग्नमनसस्तमेव । अथ दर्शनानन्तरमक्षिरन्ध्रैस्तद्द्वाराऽन्तः प्रवेश्य सुचिरं परिरभ्य तापं तदसहवाससमुद्भूतं जहुः । तत्र निदर्शनमाह ॥ प्राज्ञं यथेति ॥ यथाऽभिमतयोऽभितो मतिरनुसन्धानं येषां ते विवेकिनः प्राज्ञं तन्नामकं भगवन्तं परिरभ्य । प्राज्ञेनात्मना सम्परिष्वक्तः सता सोम्य तदा सम्पन्नो भवतीत्यादेः । तापं जहाति तथेति ॥ २३ ॥

सुमनोरञ्जिनी

दीर्घं श्रुताः प्रियतमस्य उदया उत्कर्षाः कर्णपूरा इव तैः कर्णालंकारायमानैः श्रुतप्रियतमोदयैरित्यर्थः । तैर् निमित्तैः । तस्मिन् श्रीकृष्णे निमग्नानि आविष्टानि चेतांसि यासां ताः । अक्षिरंध्रैर् नेत्राख्यद्वारैः । तं, अन्तः हृदये प्रवेश्य प्रविष्टं ध्यात्वा परिरभ्य । स्मरसंभवं सुचिरं बहुकालीनं तापं जहुः । कथमिव । अभिमतयो देहाभिमानिनः । प्राज्ञं सुषुप्तिप्रवर्तकं भगवद्रूपं परिरभ्य यथा तापं जाग्रदाद्यवस्थासंम्भवं विजहुस् तथेति । प्राज्ञा इति पाठे अभितो मतिर्येषां ते पूर्णज्ञाना इत्यर्थः । तादृशाः प्राज्ञा ज्ञानिनः । परमात्मानं हृदये प्रवेश्य ध्यात्वेति यावत् । तस्मिन् निमग्नमनसः । तापं सांसारिकं जहन्ति तथेत्यर्थो द्रष्टव्यः ॥ २३ ॥

तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिद्दक्षया ।

विज्ञायाखिलदृग् दृष्ट्या प्राह प्रहसिताननः ॥ २४ ॥

पदरत्नावली

त्यक्तसर्वाशास् त्यक्तसर्वातितृष्णाः । ‘आशा दिगतितृष्णयोः’ इत्यभिधानम् । दृष्ट्या दर्शनमात्रेण तासां निश्चलामलमनोभावं विज्ञाय । अखिलदृक् सर्वज्ञः ॥ २४ ॥

सत्यधर्मीया

दृष्ट्या दर्शनमात्रेणाखिलदृग्सर्ववित् । तास्त्यक्ताः सर्वेषामाशा भर्त्रादीनां यासां ताः । आत्मदिदृक्षया प्राप्तास्तथा तथैव विज्ञाय प्रहसिताननः प्राह ॥ २४ ॥

सुमनोरञ्जिनी

त्यक्ताः सर्वेषां पतिपुत्रादीनाम् आशा याभिस्तास् त्यक्तसर्वविषयेच्छा इति वा । आत्मनः स्वस्य दिदृक्षया । प्राप्ता भक्तिपूर्वमागताः स्त्रियः । तथा त्यक्तसर्वाशाः सत्यो भक्तिपूर्वमागता इति विज्ञाय । दृष्ट्या अवलोकनेन सह, प्रहसितं मन्दस्मितम् आननं यस्मिन् सः प्रेमावलोकनेन सह मन्दस्मितं कुर्वन्तीति यावत् । अखिलदृक् सर्वज्ञः ॥ २४ ॥

श्रीभगवानुवाच–

स्वागतं वो महाभागा आस्यतां करवाम किम् ।

यन्नो दिदृक्षयाऽभ्येता उपपन्नमिदं हि वः ॥ २५ ॥

पदरत्नावली

अभ्येता अभ्यागता इति यत् तदिदं व उपपन्नं युक्तमेव ॥ २५ ॥

सत्यधर्मीया

हे महाभागाः । व आगतं स्वागतमास्यतां किं करवाम यन्नो दिदृक्षयाऽ-भ्येताः । अभि आङ् एतत्पूर्व इण् धातुः । सम्मुखं सम्यगायाताः । अभि भर्त्रादींस्तिर-स्कृत्यादरेणायाता इति वा । अभिप्रेयस इति काठकविवृतावभिरवज्ञानार्थक इत्युक्तेः । इदं हि व उपपन्नं युक्तम् ॥ २५ ॥

सुमनोरञ्जिनी

हे महाभागा वः स्वागतं शुभमागमनम् । नो दिदृक्षया अभ्येता आगता इति यत् । इदम् उपपन्नं युक्तम् ॥ २५ ॥

नन्वद्धा मयि कुर्वन्ति १कुशलार्थनिदर्शनाः ।

औतुक्यव्यवहितां भक्तिमात्मप्रिये यथा ॥ २६ ॥

पदरत्नावली

कुशान् लान्ति गृह्णन्तीति कुशलाः कुशग्राहका द्विजवरास्तैरर्यते ज्ञायत इति कुशलार्थो भगवान् तस्य नितरां दर्शनं येषां ते तथा । ‘कुशलाः स्वार्थदर्शनाः’ इति पाठे कुशला युक्तायुक्तविचक्षणाः स्वार्थदर्शना निजपरमपुरुषार्थदृष्ट्य इत्यर्थः । एते विषयेषु श्रद्धां नाधिकुर्वन्ति । किन्तु आत्मप्रिये भगवति औतुकी निर्निमित्ता च सा अव्यवहिता प्रत्यूहनिवहैरप्यप्रतिबद्धा च तां भक्तिमधिकुर्वन्ति अधिकामाचरन्ति । यथा भक्तसत्तमा विषयेषु नैव श्रद्धां कुर्वते भगवति फलाभिसन्धिरहितामविच्छिन्नां भक्तिं च कुर्वते तथेति ॥ २६ ॥

सत्यधर्मीया

नन्वद्धा मयि कुर्वन्तीति सरलः पाठः । कुशलार्थनिदर्शना नित्यक्षेमवानर्थो मोक्षस्तस्यापि निदर्शनं दर्शनमनुसन्धानं भवत्विति तन्न विद्यते येषामधिकारिणां ते तथा । मय्यद्धा सर्वत्यागेनेति सम्यक् । औतुक्यव्यवहिताम् । विशेषणयोरेव समासः । हैतुकी फलादिनिमित्तायत्ता सा नेत्यहैतुकी सा च सा व्यवहिताऽन्तरायसहस्रेणाप्यप्रतिबद्धेति निर्व्यवधाना तां भक्तिमात्मप्रिये स्वदेहादौ यथा तथा कुर्वन्ति । आन्तरङ्गिको भावस्तु पत्याविति । न श्रद्धामधिकुर्वन्तीति पाठे श्रद्धां विषयेषु नाधिकुर्वन्ति व्यतिरेकनिदर्शनं वेति पूर्वे । कुशलाः स्वार्थदर्शना इति पाठः स्फुटार्थः

॥ २६ ॥

सुमनोरञ्जिनी

युक्तत्वमेवोपपादयति । कुशलाश्च ते, अर्थस्य पुरुषार्थस्य निदर्शनं निर्णयो येषां ते । श्रद्धां फलेच्छाम् । नाधिकुर्वन्ति । अपि तु, आत्मप्रिये भगवति । औतुकी निर्निमित्ता च सा अव्यवहिता निरन्तरा च तथाविधां भक्तिं यथावद् अधिकुर्वन्ति अधिकां कुर्वन्ति । अनेन मदङ्गसङ्गेच्छया यूयमत्र प्राप्ताः । सा परित्याज्या । औतुकी भक्तिरेव कर्तव्येति ध्वनयति ॥२६॥

प्राणबुद्धिमनःखात्मदारापत्यधनादयः ।

यत्सम्पर्कात् प्रिया आसंस्ततः को न्वपरः प्रियः ॥ २७ ॥

पदरत्नावली

प्राणादयः प्रियाः प्रीतिविषयाः, ज्ञानिनामिति शेषः ॥ २७ ॥

दुर्घटभावदीपिका

प्राणादयो यत्संपर्काद्यस्य परमेश्वरस्य संपर्कात्प्रियाः प्रीतिविषया अभवन् । ततः परमेश्वरादपरोऽन्यो ज्ञानिनां कः प्रियो न कोऽपि किन्तु भगवानेव प्रिय इत्येतन्नु निश्चितमिति । एतेन सर्वेषां भगवति प्राणाद्यपेक्षयाऽधिकप्रीतेरभावाद् भगवान्सर्वापेक्षयाऽधिकप्रिय इति कथनमयुक्तमिति दूषणं निराकृतम् । ज्ञानिनामिति शेषः । प्राणादिनिष्ठप्रियत्वं भगवत्संपर्कजन्यमिति ज्ञानिनां भगवान्सर्वापेक्षयाऽधिकप्रिय इत्यत्रोच्यत इत्यभ्युपगमात् ॥ २७ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां दुर्घटभावदीपिकायामेकविंशोऽध्यायः ॥

सत्यधर्मीया

आत्मप्रिय इत्युक्तं वितत्य वक्ति । तत्रापि न देहादिकं स्वतन्त्रं प्रीतिहेतुः किन्तु मत्सन्निधेरतः सर्वप्रेयानहमितीदमुपपन्नमित्याह ॥ प्राणबुद्धीति ॥ प्राणाः पञ्च बुद्धिर्मनः खानीतराणीन्द्रियाण्यात्मा स्वयं देहोऽपत्यानि च धनादयश्च यत्सम्पर्कात्प्रियाः । ततो मत्तोऽपरः प्रियः को नु न कोऽपीति युक्तं कृतम् ॥ २७ ॥

सुमनोरञ्जिनी

कथमात्मप्रियत्वं तवेत्यत आह ॥ प्राणेति ॥ प्राणः शरीरो वायुः । बुद्धिर्मनश्च मनोवृत्ती । खानि तद्भिन्नेन्द्रियाणि । आत्मा देहो जीवश्च । यस्य श्रीहरेर्मम सम्पर्कात् सम्बन्धात् । मदधिष्ठनत्वादिति यावत् । ततः स्वसम्पर्कात्प्राणादेः प्रियत्वसम्पादकान् मत्तो ऽपरः को नु प्रियः स्यान् न कोऽपि ॥ २७ ॥

**तद् यात साध्व्यो यजनं पतयो वो द्विजातयः । **

स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिनः ॥ २८ ॥

पदरत्नावली

यस्मान्मय्येव भक्तिभारं बिभृथ तस्मान्मदाज्ञां भरध्वमित्याह तदिति ॥ गृहमेधिनो गार्हस्थ्यधर्मपरायणा युष्माभिः सत्रा स्वसत्रं पारयिष्यन्ति समापयिष्यन्ति । पार कर्मसमाप्तौ इति धातुः ॥ २८ ॥

सत्यधर्मीया

यस्मान्मदाज्ञा नावज्ञेया तत्तस्मात् हे साध्व्यो यजनं यात । वः पतयो द्विजातयो गृहमेधिनस्तदादिकमेव प्रियमिति मेधावन्तो बहिर्मुखादिबहिर्मुखा न मन्निष्ठा अतोऽन्नं न ददुरिति कटाक्षयति हरिरनेनेति ज्ञेयम् । अन्यथा वः पतय इत्यनेन गृहस्थत्वलाभादिदमतिरिक्तं स्यादिति मन्तव्यम् । युष्माभिः सह स्वसत्रं पारयिष्यन्तीति यत्तद्यातेति वा ॥ २८ ॥

सुमनोरञ्जिनी

यस्मान्मय्यहैतुकी एव भक्तिः कार्या नाङ्गसङ्गादिफलेच्छया तत् तस्माद् यूयं यजनं यज्ञं समापयितुमिति शेषः । यात गच्छत । कुतः । वः पतयो द्विजातयः प्रत्यागताभिर् युष्माभिः सह । स्वकीयं सत्रं पारयिष्यन्ति समापयिष्यन्ति । अतः । अस्मान्विहायैव कुतः सत्रं न पारयिष्यन्तीत्यत उक्तम् ॥ गृहमेधिन इति । गृहस्थानां पत्नीर्विना न कर्मसिद्धिरिति भावः

॥ २८ ॥

यज्ञपत्न्य ऊचुः–

**मैवं विभोऽर्हति भवान् गदितुं नृशंसं **

सत्यं कुरुष्व निगमं तव पादमूलम् ।

**प्राप्ता वयं तुलसिदाम पदावसृष्टं **

केशैर्निवोढुमतिलङ्घ्य समस्तबन्धून् ॥ २९ ॥

पदरत्नावली

भवानेवं नृशंसं परुषं गदितुम् । निगमं ‘न मे भक्तः प्रणश्यति’, ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इत्याद्यागमम् । पदावसृष्टं निर्माल्यतया पदाच्च्युतम् । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु’ इत्यमरः । तुलसिदाम तुलसीमालाम् । ङ्यापोः सञ्ज्ञाच्छन्दसोर्बहुलम् इति ह्रस्वः । केशैर्निवोढुं नितरां धर्तुं तव पादमूलं प्राप्ताः ॥ २९ ॥

सत्यधर्मीया

हे विभो भवानेवं नृशंसमस्मद्धिंसासाधकमिति परुषं गदितुं नार्हति । निगमम् ‘न मे भक्तः प्रणश्यति । तांस्तथैव भजामि । न च पुनरावर्तत’ इत्याद्यागमम् । सत्यं कुरुष्वास्मत्प्रेषणे निगम उक्तोऽसत्यो भवतीति भावः । वयं समस्तबन्धूनतिलङ्घ्य लङ्घयित्वा पदावसृष्टं निर्माल्यतया पदत्यक्तं यत्तुलसिदाम ङ््यापोः संज्ञाच्छन्दसोरिति ह्रस्वः । तुलस्या दाम मालां केशैर्निवोढुं धर्तुं तव पादमूलं प्राप्तास्ताः प्रति ॥ २९ ॥

सुमनोरञ्जिनी

हे विभो भवान् । एवंविधं नृशंसं परुषम् । वचनं गदितुं माऽर्हति । निगमं प्रतिज्ञां ‘शरणागतरक्षकोऽहं भक्तवत्सलः’ इत्यादिरूपाम् । सत्यं यथार्थां कुरु । यद्वा निगमं ‘अनन्याश्चिन्तयन्तो मां, ये भजन्ति तु मां भक्त्या, मयि ते तेषु चाप्यह’मित्यादिरूपं वचनं सत्यं कुर्वित्यर्थः । भवत्स्वनन्यभक्तत्वमेव कथमित्यत आह ॥ तवेति ॥ तव पदावसृष्टं विसृष्टं यत्तुलस्या दाम माला तत् । केशैर् नितरां वोढुं समस्तबन्धूनप्यतिलङ्घ्य । तव पादमूलं प्राप्ताः स्मः । अतस्त्वय्यनन्यभक्ता एवेति भावः ॥ २९ ॥

गृह्णन्ति नो न पतयः पितरौ सुता वा

न भ्रातृबन्धुसुहृदः कुत एव चान्ये ।

तस्मात् प्रसीद पदयोः पतितात्मनां नो

नान्या भवेद् गतिररिन्दम तद् विधेहि ॥ ३० ॥

पदरत्नावली

युष्माभिः साकं विप्राः स्वसत्रं समापयिष्यन्ति यातेत्यस्योत्तरमाहुर् गृह्णन्तीति ॥ त्वत्प्राप्तिप्रतिबन्धकीभूतदुरितरूपारीन् त्वरया दमयेत्याशयेनाहुर् अरिन्दमेति ॥ तत् त्वद्दास्यं विधेहि ॥ ३० ॥

सत्यधर्मीया

स्वसत्रं युष्माभिः सह विप्राः पारयिष्यन्ति यातेत्युक्तं तत्रोत्तरमीरयन्ति ॥ गृह्णन्ति न इति ॥ नः पतय इतो गता नो न गृह्णन्ति तदाज्ञावज्ञानात् । तर्हि मातृपितृलालितास्तदालये वर्तध्वमित्यत आहुः । न पितरौ पिता मातेत्येकशेषः । मातरपितरौ न च ता भ्रातृबन्धुसुहृदश्च नान्ये कुत एव न गृह्णीयुरिति । भवत्पदयोरिति शुभवत्पतितात्मनां पतितः पातित आत्मा देहो याभिस्तास्तासामुपरि प्रसीद प्रसादं कुरु । हे अरिन्दम अरिश्चक्राभिमानी कामो महतेश्चतुर्मुखादिवत् तं दमयतीति स तथा मत्वर्थे इकारप्रत्ययः । यथाऽन्या गतिरस्माकं मृत्यनन्तरं प्राप्याऽन्या गतिर्न भवेद्भवतस्तथा विधेहि स्वर्गादिकं न लषाम इति भावः । सर्वचेष्टके त्वयि दृष्टेऽन्याऽनितुं त्वया चेष्टयितुं योग्या विधिभवादिरूपिणी त्वन्नियम्येति यावत् सा गतिर्न भवेद्यथा तथा विधेहीत्यान्तरङ्गिकः कुरङ्गनयनानां भावोऽवसेयः । ऋहलोर्ण्यदिति ण्यत्प्रत्ययः

॥ ३० ॥

सुमनोरञ्जिनी

किं च स्वजनं प्रति यात । ते तु युष्माभिः स्वसत्रं पारयिष्यन्तीत्युक्तं भवता । तदपीदानीं दुर्घटमित्याहुः । गृह्णन्तीति ॥ पत्यादयो नो ऽस्मान् न गृह्णन्ति न स्वीकुर्वन्ति । तदाज्ञोल्लङ्घनात् । पदयोस् त्वच्चरणयोः पतितात्मनां पतितदेहानां, पतितं संलग्नम् आत्म मनो यासामिति वा । नः प्रसीद । अथ च त्वत्पादकमलादन्या, गम्यत इति गतिः प्राप्यं पत्यादिकं स्वर्गादिकं वा । येनोपायेन न भवेत् तदुपायं विधेहि कुरु । यद्वा पत्याज्ञोल्लङ्घनात्तत्पदादन्या त्वत्पादकमलादन्या नरकादिरूपा गतिर् यथा न भवेत्तथा विधेहीति वा ॥ ३० ॥

श्रीभगवानुवाच–

पतयो नाभ्यसूयेरन् नित्यं भ्रातृसुतादयः ।

लोकाश्च वो मयोपेता देवा अप्यनुमन्वते ॥ ३१ ॥

पदरत्नावली

कुत एव चान्ये इत्यस्योत्तरमाह लोकाश्चेति ॥ अनुमन्वते सम्मानयन्ति

॥ ३१ ॥

सत्यधर्मीया

पतयो नो न गृह्णन्तीत्यादेरुत्तरमाह ॥ पतय इति । नित्यमित्यनेनारुन्तु-दवादराहित्यं द्योतयति । युष्मभ्यमिति शेषः । कुत एवान्य इत्युत्तरयति ॥ लोकाश्चेति ॥ नाभ्य-सूयेरन् । मयोपेता एवं सङ्गताश्चेद्देवा अप्यनुमन्वते सम्मानयति का कथा भूदेवानामिति भावः

॥ ३१ ॥

सुमनोरञ्जिनी

श्रीकृष्णः समाधत्ते । पतयः भ्रातृसुतादयश्च अन्ये लोकाश्च । वः प्रति नाभ्यसूयरेन् । मया उपेता युक्ता देवा अपि अनुमन्वते अनुमता भवन्ति । मयोपेता युक्ता मत्समीपमागता वः प्रतीति वा ॥ ३१ ॥

न प्रीतयेऽनुरागाय ह्यङ्गसङ्गो नृणामिह ।

तन्मनो मयि युञ्जाना अचिरान्मामवाप्स्यथ ॥ ३२ ॥

पदरत्नावली

तव पादमूलं प्राप्ता इत्यनेन गोपाङ्गनाभिः स्वाङ्गसङ्गाशा सूचिता । तत्रोत्तरमीरयति नेति ॥ इह नृणां नार्यश्च नरश्च नरस्तेषां मिथोऽङ्गसङ्गः प्रीतये सुखाय अनुरागाय स्नेहवृद्ध्यै च न स्यात् । तस्मान्मयि मनो युञ्जाना अचिरात् क्षिप्रं मामवाप्स्यथ । ‘भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित्’ इत्यादेः ॥ ३२ ॥

सत्यधर्मीया

पादमूलं प्राप्ता इत्यनेनाङ्गसङ्गाशा शशीमुखीभिः सूचिता । हृदयसङ्गम एव सुसङ्गमो न तनुसङ्गम एव सुसङ्गम इति तत्रोत्तरमाह ॥ नेति ॥ यद्यतो नृणां नार्यश्च नरश्च नरस्तेषां परस्परमङ्गसङ्गः प्रीतये सुखायानुरागाय स्नेहविवृद्ध्यै च नेह भवति । तर्हि कया सेवया न उद्धृतिर्भगवन्नित्यत आह ॥ तदिति ॥ मयि मनो युञ्जाना अचिरान्मामवाप्स्यथ । अनेन बालिशस्य बालस्य मनोजस्य न वशवर्तिन्यो न भवन्तु भवत्यः किन्तु तज्जनकं मन आश्रयं कृत्वा तस्य मयि योजने प्रयोजनं यौष्माकीणं सेत्स्यतीति ध्वनयामास श्रीश इति ज्ञेयम् ॥ ३२ ॥

सुमनोरञ्जिनी

इह नृणां मनुष्याणामङ्गेन सङ्गो मम प्रीतये सुखाय, अनुरागाय स्नेहाय च न भवति । भवतीनां मदङ्गसङ्गः नृणां मनुष्यजन्मनां युष्मद्बन्धूनां प्रीतये अनुरागाय च न भवतीति वा । युष्मासु प्रीतिस्नेहौ न कुर्युरिति भावः । तत् तस्मात् । मयि मनो युञ्जानाः । स्वपत्यादिषु मामेवानुस्मरन्त्य इत्यर्थः । मामेव अचिरात् क्षिप्रम् अवाप्स्यथेति ॥ ३२ ॥

श्रीशुक उवाच–

इत्युक्ता द्विजापत्न्यस्ता यज्ञवाटं पुनर्गताः ।

ते चानसूयवस्ताभिः स्त्रीभिः सत्रमपारयन् ॥ ३३ ॥

पदरत्नावली

इत्युक्ताः, भगवतेति शेषः ॥ ३३ ॥

सत्यधर्मीया

इत्युक्ता भगवतेति शेषः । ते च द्विजास्तेऽप्यनसूयवस्ताभ्यस्ताभिः स्त्रीभिः सह सत्रमपारयन्समापयन् ॥ ३३ ॥

सुमनोरञ्जिनी

इतिशब्द आवर्तते । इति एवंप्रकारेण । इति अस्मादेव हेतोः । पतयो नाभ्यसूयेरन्निति भगवतोक्तत्वादिति यावत् । ते चानसूयवो ऽपारयन् समापितवन्तः ॥ ३३ ॥

तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् ।

हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥ ३४ ॥

पदरत्नावली

गोपाङ्गनानामागमनप्रकारं गमनप्रकारं च संवर्ण्य पूर्वमागमनावसरे जातां काञ्चित् कथां कथयति तत्रेति ॥ भर्त्रा पत्या विधृता न गच्छेदिति विरुद्धतया आकर्षणेन धृतेत्यर्थः । ‘वि निषेधे पृथग्भावे’ इति यादवः । कर्मानुबन्धं कर्मायत्तम् ॥ ३४ ॥

सत्यधर्मीया

भर्त्रा पत्या विधृता यथा नागच्छेत्तथा बलात्स्थापिताबला यथाश्रुतं भगवन्तं हृदोपगूह्यालिङ्ग्य कर्मानुबन्धनं कर्मायातं देहं विजहौ तत्याज । कर्म चानुबन्धो भक्तिः, कर्मभिर्व्यक्तोऽनुबन्धस्तौ नौ नियामकौ, स नो नियामको यस्य तं देहम् । तत्रैष्यति काले । विधृता विशेषेण धृतिर्धारणं यस्याः साऽभवत् ॥ ३४ ॥

सुमनोरञ्जिनी

तत्र तासु मध्ये एका स्त्री भर्त्रा विधृता ‘त्वं मा याहि’ इति हस्ते गृहीता । श्रीकृष्णदर्शनं प्रति गन्तुमसमर्था सती । यथाश्रुतं श्रवणानुसारेण । श्रीकृष्णं मनसाऽवलोक्येति यावत् । हृदा मनसैवोपगूह्य आलिङ्ग्य । कर्मानुबन्धनं कर्मापादितं देहं विजहौ त्यक्तवतीत्यर्थः

॥ ३४ ॥

भगवानपि गोविन्दस्तेनैवान्नेन गोपकान् ।

चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ॥ ३५ ॥

पदरत्नावली

आशयित्वा भोजयित्वा ॥ ३५ ॥

सत्यधर्मीया

आशयित्वा स्वयं च बुभुजे तत्रत्यमप्राकृतरसं बुभुजे । अवतारे स्थूलभोजनमपि जनार्दनस्य सम्भवति । यथोक्तं प्रमेयदीपिकायाम् । अवतारेषु स्थूलमपि भुङ्क्त इति । गीतातात्पर्यबृहदारण्यकऋग्भाष्याद्युदाहृत्य सत्तत्त्वरत्नमालोक्तमनुसन्धेयम् ॥ ३५ ॥

सुमनोरञ्जिनी

आशयित्वा भोजयित्वा ॥ ३५ ॥

एवं लीलानरवपुर्नृलोकमनुशीलयन् ।

रेमे गोगोपगोपीनां रमयन् रूपवाक्कृतैः ॥ ३६ ॥

पदरत्नावली

अनुशीलयन् अनुकुर्वन् । गोगोपगोपीनामिति कर्मणि षष्ठी । वाग्भिः कृतैः कर्मभिश्च रमयन् ॥ ३६ ॥

सत्यधर्मीया

एवं लीलानरवपुर्नृलोकमनुशीलयन्ननुकुर्वन्गोगोपगोपीनाम् । कर्मणि षष्ठी । गौश्च गोपाश्च तैः सहिताश्च ता गोप्यश्च ता रमयन् स्वयं रेमे । गवि गोपा गोगोपा दिवि तु देवा एव त गोगोपाश्च तथा गावश्च ताभिः पीनां पुष्टां प्रजां रमयन्निति वा । रूपवाक्कृतै रूपं च वाक् च कृतानि कर्माणि च तै रमयन्रेमे । नृप वाक्कृतैरित्यपि पठन्ति ॥ ३६ ॥

सुमनोरञ्जिनी

लीलार्थं नरवपुरिव वपुर्यस्य सः । नृलोकमनुशीलयन् अनुकुर्वन् । गोगोप-गोपीनां, कर्मणि षष्ठीयम् । मनांसीति शेषो वा । वाग्भिः कृतैः कर्मभिश्च रमयन् सुखयन् ॥३६॥

अथानुस्मृत्य विप्रास्ते अन्वतप्यन् कृतागसः ।

यद् विश्वेश्वरयोर्याञ्चामहन्म२ नृविडम्बयोः ॥ ३७ ॥

पदरत्नावली

अथ अनन्तरं मङ्गलाश्च ते विप्रा अन्वतप्यन् पश्चात्तापमापुः । ‘अथानन्तरकल्याणसम्प्रश्नादिषु कथ्यते’ इति हलः । कस्मादन्वतप्यन् इत्यस्य कृतापराधत्वा-दित्युत्तरमाह कृतागस इति ॥ अपराधसद्भावे किं मानमित्यत आह अनुस्मृत्येति ॥ यदुषु हरिरस्मत्समुद्धृत्यै एवावततारेत्यनुस्मरणं प्रमाणमित्यर्थः । कोऽसावपराध इति तत्राह यदिति ॥ नृविडम्बयोः क्षुधार्दितत्वादिना नॄन् विडम्बेते अनुकुर्वाते इति तयोर्याञ्चामहनन् तिरस्कृतवन्त इत्यसावपराध इति ॥ ३७ ॥

सत्यधर्मीया

अथ ते विप्राः । नृविडम्बयोर्विश्वेश्वरयो रामकृष्णयोर्यद्यतो याञ्चामहन्म । अहनन्निति पाठे छन्दसो विकरणव्यत्यय इव पुरुषव्यत्ययोऽपीति स न सरलः । नाशितवन्त-स्तस्मादनुसृत्य तदीश्वरतां स्मृत्वा । कृतमागो यैस्ते तथेत्यन्वतप्यन् पश्चात्तापं प्राप्ताः । इदं दिनमादीकृत्य विप्राः पश्चिमबुद्धय इति प्रसृतमाभाणकमिति किंवदन्ती ॥ ३७ ॥

सुमनोरञ्जिनी

अथ ते दीक्षिता विप्रा यद् यस्माद् विश्वेश्वरयोर् याञ्चामहनन् तत एव कृतागसः, अनुस्मृत्य विश्वेश्वरावेताविति प्रत्यभिज्ञाय । अन्वतप्यन् पश्चात्तप्ता बभूवुः ॥ ३७ ॥

दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् ।

आत्मानं च तया हीनमनुतप्ता व्यगर्हयन् ॥ ३८ ॥

पदरत्नावली

कथमन्वतप्यन्नित्युदीरयति दृष्ट्वेत्यादिना ॥ व्यगर्हयन् निनिन्दुः ॥ ३८ ॥

सत्यधर्मीया

किं दृष्ट्वाऽनुतापो विप्राणामित्यत आह ॥ भगवति कृष्णेऽलौकिकीं स्वादि-विलक्षणां भक्तिं दृष्ट्वा तया तादृश्या भक्त्या हीनमात्मानं स्वमनुतप्ता व्यगर्हयन्ननिन्दन्निति ॥३८॥

सुमनोरञ्जिनी

अनुतप्तास्ते विप्रा आत्मानं स्वात्मानं व्यगर्हयन् निनिन्दुः । तत्र निमित्तं दृष्ट्वेति ॥ स्त्रीणामिति शास्त्रजन्यज्ञानाभावं सूचयति । अलौकिकीं सर्वलोकविलक्षणां भक्तिं दृष्ट्वा । आत्मानं स्वात्मानं, तया श्रीकृष्णचरणारविन्दे निर्व्याजनिरन्तराप्रतिबद्धप्रेमप्रवाहरूपया भक्त्या विहीनं च दृष्ट्वेति ॥ ३८ ॥

धिग् जन्म नस्तु धिग् बुद्धिर्धिग् २वृत्तं धिग् ३बहुज्ञता ।

धिक् कुलं धिक् क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे ॥ ३९ ॥

पदरत्नावली

ये अधोक्षजे विमुखास्तेषां नो जन्म धिक् । ‘धिग् भर्त्सने कुत्सने च’ इत्यभिधानम् । क्रियादाक्ष्यं कर्मसमर्थता ॥ ३९ ॥

सत्यधर्मीया

तन्निन्दनमिव स्वनिन्दनमेवमिति तत्प्रकारं निरूपयन्ति ॥ धिग्जन्मेति ॥ न इति सर्वान्वयि । येऽधोक्षजे विमुखास्तेषां नो जन्म धिक् निधत्ता तस्येत्यर्थः । बहुज्ञता समस्तसमयज्ञता । कुलम् । पत्न्यस्तु कुलान्तरायाता इति स्वकुलं ग्राह्यम् । क्रियादाक्ष्यं कर्म-समर्थता । तुः समुच्चये वर्तते ॥ ३९ ॥

सुमनोरञ्जिनी

गर्हणाप्रकारमेवाह ॥ धिगिति । नो ऽस्माकम् । जन्म सत्कुले जननम् । बुद्धिं कार्याकार्यनिश्चयम् । व्रतं ब्रह्मचर्यादि । बहुज्ञतां शास्त्रार्थज्ञानं, बहुक्रियायां यज्ञादिक्रियायां साधनानुष्ठाने वा दाक्ष्यमित्येतत्सर्वं धिग्धिगिति कुत्सितं विजानीहीति प्रत्येकमन्वयः । तत्र निमित्तमाहुः । ये वयम् अधोक्षजे विमुखा इति ॥ ३९ ॥

नूनं भगवतो माया मायिनामपि मोहिनी ।

यद् वयं गुरवो नॄणां स्वार्थे मुह्यामहे द्विजाः ॥ ४० ॥

पदरत्नावली

मायिनां ज्ञानिनामपि मोहिनी मोहिका । अत्र हेतुमाह यदिति ॥ यद् यतो नॄणां गुरवो द्विजा अपि वयं स्वार्थे मुह्यामहे ॥ ४० ॥

सत्यधर्मीया

मायिनां ज्ञानिनाममायिनामकुलचेतसामपि शिखादिर्माया मोहिनी मोहिका यद्यतो नॄणां गुरवो द्विजा अपि वयं स्वार्थे मुह्यामहे । हे द्विजा इति कांश्चित्सम्बोध्य केचिद्वदन्तीति वा ॥ ४० ॥

सुमनोरञ्जिनी

तदव्यक्तमाह हि, अपि संराधने प्रत्यक्षानुमानाभ्यामित्युक्तं प्रमेयमनुसन्दधन्त आहुः ॥ नूनमिति ॥ भगवतो हरेर्माया मोहनशक्तिः, मायिनां ज्ञानिनामपि मोहिनी । न तत्र प्रमाणान्तरमन्वेषणीयम् । स्वात्मनामेवानुभवादित्याहुः । यस्माद्वयं नॄणां गुरवोऽपि पुरुषार्थ-साधनमुपदिशन्तोऽपि स्वार्थे स्वप्रयोजने विषये मुह्यामहे । द्विजा इति तत्रत्यानां सम्बोधनम् । गुरवो द्विजा इति मोहासम्भवे हेतुद्वयमिति पदरत्नावली ॥ ४० ॥

अहो पश्यत नारीणामपि कृष्णे जगद्गुरौ ।

दुरन्तभावं यश्छिन्द्यान्मृत्युपाशान् गृहाभिधान् ॥ ४१ ॥

पदरत्नावली

यो गृहाभिधान् मृत्युपाशान् छिन्द्याद् विभिन्द्यात् तं दुरन्तभावम् अप्रतिबद्ध-भक्तिम् ॥ ४१ ॥

सत्यधर्मीया

अहो पश्यतेति स्वारस्यात् । अपिरुत्तरत्र वक्ष्यमाणैतद्दुर्मिलताहेतून्कटाक्षयति । जगद्गुरौ कृष्णे नारीणामपि दुरन्तोऽप्रतिबद्धो भावो भक्तिस्तं पश्यत । अहो । यो गृहाभिधांस्तन्नाम्नो मृत्युपाशांश्छिन्द्यात्तम् ॥ ४१ ॥

सुमनोरञ्जिनी

दुरन्तभावं परिपूर्णां भक्तिम् । गृहाभिधान् संसारसंज्ञान् मृत्युपाशान् यो भावश् छिन्द्याच् छिनत्ति ॥ ४१ ॥

नासां द्विजातिसंस्कारो न निवासो गुरावपि ।

न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः ॥ ४२ ॥

पदरत्नावली

आसां स्त्रीणां द्विजातिसंस्कार उपनयनलक्षणः । गुरौ निवासः गुरुकुल-निवासः, अध्ययनार्थमिति शेषः । आत्ममीमांसा ब्रह्मविचारः । शौचं बाह्याभ्यन्तरशुद्धिः । शुभाः क्रिया यागाद्याः ॥ ४२ ॥

सत्यधर्मीया

तान्हेतूनाह ॥ नेति ॥ आसां द्विजातिसंस्कारः साक्षादुपनीतिरतो न ‘स्त्रीणां प्रदानकर्मैव यथोपनयनं तथे’ति विरोधः । गुरावपि न निवासो विद्यार्थमिति शेषः । न तपः स्वातन्त्र्येण तत्रानधिकारात् । आत्ममीमांसा ब्रह्मविचारः । न शौचमस्मद्वदन्तर्बहिःशुद्धिर्न शुभाः क्रिया यागाद्याः ॥ ४२ ॥

सुमनोरञ्जिनी

आसां स्त्रीणाम् । द्विजातिसंस्कार उपनयनादिः । अनेनाध्ययने अधिकारो निषिद्धः । अत एव गुरौ गुरुकुले अध्ययनार्थं निवासोऽपि न । अत एव च तपः शौचं शुभाः क्रिया मनःशुद्धिसम्पादका अपि नेति पृथगन्वयः । तत एव चात्ममीमांसा ब्रह्मविषयकश्रवणादिरूपा जिज्ञासापि न ॥ ४२ ॥

अथापि ह्युत्तमश्लोके कृष्णे योगेश्वरेश्वरे ।

भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ॥ ४३ ॥

सत्यधर्मीया

एताश्चर्यं किं व्यलोकि भवद्भिरित्यत आहुः ॥ अथाऽपीति ॥ संस्कारादिमतां संस्कारादिशुभक्रियादिसम्पन्नानामप्यस्माकं न दृढा भक्तिः ॥ ४३ ॥

सुमनोरञ्जिनी

अथापि एवंविधसामग्य्रभावेऽपि उत्तमश्लोके परमात्मनि दृढा अन्तराय-सहस्रेणाप्यप्रतिबद्धा भक्तिरुत्पन्ना । संस्कारादिमतामप्यस्माकं नोत्पन्नेति । अतः श्रीहर्यनुग्रह एव कारणं न साधनसन्दर्भ इति भावः ॥ ४३ ॥

ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया ।

अहो नः स्मारयामास गोपवाक्यैः सतां गतिः ॥ ४४ ॥

पदरत्नावली

गृहेहया गृहव्यापारेण ॥ ४४ ॥

सत्यधर्मीया

उपदेशकाभावादियं दशाऽसीदित्यपि नास्मान्सूचयामास स, तेनापि नास्माकं धीरुदियायेति वर्णयन्ति ॥ नन्विति ॥ स्वार्थविमूढानां गृहेहया प्रमत्तानां नो गोपवाक्यैः सतां गतिः स्मारयामास ॥ ४४ ॥

सुमनोरञ्जिनी

प्रमत्तानां श्रुतधनकुलकर्मभिर्मत्तानां, अत एव गृहेहया सांसारिकसुखेच्छया । गृहस्थाश्रमोचितकर्मणा वा । स्वार्थे विमूढानां मोहयुक्तानामप्यस्माकं गोपवाक्यैः स्वात्मानमागतं स्मारयामास । अहो परमदयालुता श्रीहरेः ॥ ४४ ॥

अन्यथा पूर्णकामस्य कैवल्याद्याशिषां पतेः ।

ईशितव्यैः किमस्माभिरीशस्यैतद् विडम्बनम् ॥ ४५ ॥

पदरत्नावली

अन्यथा अस्मदनुजिघृक्षयैवेदमोदनयाचनमिति स्मारणमन्तरेण । कैवल्याद्या-शिषां मोक्षादिपरमपुरुषार्थानाम् । विडम्बनं लोकानुकरणमात्रम् ॥ ४५ ॥

सत्यधर्मीया

नन्वोदनार्थं गोपानप्रेषयत्स कथं तत्स्मारणं युष्माकमित्यत आह ॥ अन्यथेति ॥ पूर्णकामस्य कैवल्याद्याशिषां मोक्षादिसकलकाम्यानां पतेरुक्ता गतिरनुसन्धेया । तत्काले यदभीप्सितमेषां तद्वितरणधुरीणस्येशितव्यैः सूत्रपुत्तलिकातुल्यैः स्वप्रेर्यैस्तस्य किम् । ईशस्यैतद्विडम्बनं लोकानुकृतिः ॥ ४५ ॥

सुमनोरञ्जिनी

अन्यथा ईशितव्यैर् नियम्यैर् अस्माभिर् ईशस्य किं प्रयोजनं न किमपि । नन्वन्नकामनया युष्मान्प्रति गोपान् प्रेषयामासेत्यत उक्तम् ॥ पूर्णकामस्येति ॥ न हि पूर्णकामस्य अन्नादीच्छा घटत इति भावः । ननु च स्वस्य पूर्णकामत्वेऽपि गोपानां क्षुधाशमनाय प्रेषितवानित्यत उक्तम् । कैवल्यादिरूपाशिषां पुरुषार्थानां पतेर् दातुः । आशिषांपतेरित्यलुक्समासः । मोक्षादि-पुरुषार्थदातुर्हरेर् गोपक्षुधाशमनं कियदिति भावः । तर्हि किमर्थमन्नं याचतेति गोपानुक्तवानित्यत उक्तम् ॥ विडम्बनमिति ॥ ४५ ॥

हित्वाऽन्यान् भजते यं श्रीः पादस्पर्शाशयाऽसकृत् ।

आत्मदोषापवर्गेण तद्याञ्चा जनमोहिनी ॥ ४६ ॥

देशः कालः पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नयः ।

देवता यजमानश्च क्रतुर्धर्मश्च यन्मयाः ॥ ४७ ॥

पदरत्नावली

अन्यान् चतुराननादीन् । स्वात्मदोषश्चाञ्चल्यं तस्यापवर्गो वर्जनं तेन स्थैर्येणेत्यर्थः ॥ ४६ ॥

सत्यधर्मीया

आत्मदोषापवर्गेणात्मनो दोषश्चाञ्चल्यं तस्यापवर्गो वर्जनं त्यागस्तेन स्थैर्येणेत्यर्थः । पादस्पर्शाशया पादस्पर्शेनाशयोऽन्तःकरणं यस्याः सा सती पादस्पर्शस्याशाऽभि-लाषस्तया वा श्रीर्याऽन्यान्हित्वा । एष ब्रह्माऽतिवृद्ध इत्यादिप्रतिपादितदोषांश्चतुराननादीन्हित्वा भजते । तद्याञ्चाऽस्मदन्नयाचनं जनमोहिन्यस्मदादिपामरमोहिका ॥ ४६,४७ ॥

सुमनोरञ्जिनी

विडम्बनमित्युक्तमेवोपपादयति ॥ हित्वेति ॥ श्रीर्महालक्ष्मीरपि । यस्य हरेः सकृदपि पादस्पर्शाशया । अन्यान् समुद्रमथनवेलायां समवेतान् । ब्रह्मादीन् हित्वा तत्र दोषबुद्ध्या त्यक्त्वा स्वात्मनः स्वस्य यो दोषश् चाञ्चल्यरूपस् तस्यापवर्गेण परित्यागेन स्थिरभावेनेति यावत् । यं श्रीहरिमेव भजते तस्य भगवतोऽन्नादियाञ्चा जनमोहिन्येवेति ॥ ४६,४७ ॥

स एष भगवान् साक्षाद् विष्णुर्योगेश्वरेश्वरः ।

जातो भुवीति शृण्वाना ये विमूढा न विद्महे ॥ ४८ ॥

सत्यधर्मीया

भुवि जात इति शृृण्वाना ये वयम् ॥ ४८ ॥

सुमनोरञ्जिनी

भुवि जात इति शृृण्वाना अपि विमूढत्वान्न विद्महे ॥ ४८ ॥

नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।

यन्मायामोहितदृशो भ्रमामः कर्मवर्त्मसु ॥ ४९ ॥

पदरत्नावली

अकुण्ठमेधसे अमितज्ञानस्वरूपाय । ‘नित्यमसिच् प्रजामेधयोः’ इति सूत्रेणासिच् । कर्मवर्त्मसु प्रवृत्तकर्ममार्गेषु ॥ ४९ ॥

सत्यधर्मीया

सञ्चिन्तितं प्रणमन्ति ॥ नम इति ॥ यन्मायामोहिता दृग्धीर्येषां ते । कर्मवर्त्मसु प्रवृत्तकर्ममार्गेषु । अकुण्ठमेधसे गतम् । यस्त्वमकुण्ठं यथा तथैधसे नित्यमभिवृद्धो भवसि । तस्य या च याचना जनमोहिनीति वा ॥ ४९ ॥

सुमनोरञ्जिनी

अकुण्ठमेधसे अप्रतिबद्धज्ञानाय । यन्मायया मोहयुक्तमनसः । कर्मवर्त्मसु कर्ममार्गेषु ॥ ४९ ॥

स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम् ।

अविज्ञातानुभावानां क्षन्तुमर्हत्यतिक्रमम् ॥ ५० ॥

पदरत्नावली

अविज्ञातोऽनुभावो महिमा यैस्ते तथा । अतिक्रमम् अपराधम् ॥ ५० ॥

सत्यधर्मीया

स्वमायामोहितात्मनामिति, अविज्ञातानुभावानां नोऽतिक्रमम् । आद्य उपजीव्यः पुरुषः क्षन्तुमर्हति योग्यो भवति ॥ ५० ॥

सुमनोरञ्जिनी

स्वमायामोहितात्मत्वादविज्ञातो ऽनुभावो माहात्म्यं यैस्ते तथाविधानाम् । अतिक्रमम् अपराधम् ॥ ५० ॥

इति कृष्णमनुस्सृत्य विप्रास्ते कृतहेलनाः ।

दिदृक्षवोऽप्यच्युतयोः कंसाद् भीता न चाचलन् ॥ ५१ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे एकविंशोऽध्यायः ॥

पदरत्नावली

अच्युतयोः कृष्णबलरामयोः । नाचलन् स्वस्थानान्न चक्रमुः ॥ ५१ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे एकविंशोऽध्यायः ॥

सत्यधर्मीया

कृतं हेलनमात्मनामात्मनैव यैस्ते अच्युतयोर्मुख्यामुख्यतच्छब्दवाच्ययोः । ते दिदृक्षवोऽपि कंसाद्भीता न चाचलन् स्वस्थानान्नोच्चेलुः ॥ ५१ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे एकविंशोऽध्यायः ॥ १०-२१ ॥

सुमनोरञ्जिनी

कृतहेलनाः कृतापराधाः । अच्युतयोः कृष्णरामयोः, कर्मणि षष्ठी । दिदृक्षवोऽपि द्रष्टुमिच्छवोऽपि ॥ ५१ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्याम् एकविंशोऽध्यायः ॥ १०-२१ ॥