हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः
॥ अथ विंशोऽध्यायः ॥
श्रीशुक उवाच—
हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः ।
चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् ॥ १ ॥
पदरत्नावली
गोविन्दगुणसंस्मरणमनोदीक्षादक्षाणां गोपकुमारीणां सुदृढभक्त्या वासुदेवः प्रससादेति कथाकथनव्याजेन निश्चलामलभक्तिरेव भगवत्प्रसादजननीति नियमं निरूपयत्यस्मिन्नध्याये । तत्रादौ कृष्णं पतिं कामयन्त्यो गोपकन्याः, स्वप्रेयस्या रमायाः प्रसादमन्तरा हरिरस्मासु नैव प्रसीदतीति समान्तरङ्गाः कात्यायन्यर्चनव्रतमाचेरुरिति वक्ति हेमन्त इति ॥ हेमन्ते १कार्तिकमार्गशीर्षमासात्मके ऋतौ प्रथमे मासि कार्तिकमासे नन्दव्रजस्था गोपकुमारिकाः कात्यायन्या रमाया अर्चनात्मकं व्रतं चेरुरनुष्ठितवत्यः । ‘दुर्गा कात्यायनी कृष्णा भद्रकाली च माधवी’ इत्युत्पलमाला । हविष्यं होमशिष्टम् ॥ १ ॥
सत्यधर्मीया
भगवद्भजनमेव तत्प्रसादजननं तदपि न वेदादिकवेदितृकृतमेवेति नियम इत्यावेदयितुं सुदत्यस्तत्कृत्वा प्रसादमापुरिति प्रतिपाद्यते । तत्रादौ मनोनियामिका भवानीति तत्स्थिरतायै पूर्वमनन्तरमनन्तप्राप्तिमङ्गलदा सर्वमङ्गलेति तदर्चनप्रकारमाह ॥ श्रीशुक इति ॥ हेमन्ते मार्गशिरःपुष्यमासात्मके ऋतौ प्रथमे मार्गशीर्षमासि । नन्दव्रजे विद्यमानाश्च ताः कुमारिकाश्च । हविष्यं संयावाद्यन्नं होमशिष्टं भुञ्जानाः । कात्यायिन्या अर्चनव्रतं चेरुः । कतस्यापत्यं कतेति दक्षस्य नामान्तरम् । हिमवदाह्वयान्तरं वा । गर्गादित्वाद्यञ् । सर्वत्र लोहितादिकतन्तेभ्य इति ष्युषित्वाङ्ङीष् । उमा कात्यायनी गौरीत्यमरः । उमा कात्यायनी दुर्गा काली हैमवतीश्वरी । सती कालञ्जरी गोत्रेति वाचस्पतिः ॥ १ ॥
सुमनोरञ्जिनी
अन्यदेवताभजनमपि भगवत्प्रीतिकामनया कृतं भगवत्प्रसादजनकं भवतीति ज्ञापयितुं व्रजकुमारिकाचरितकात्यायिन्यर्चनाप्रकारं, तासु भगवत्प्रसादप्रकारं दर्शयत्यस्मिन्नध्याये । नन्दव्रजे विद्यमानाः कुमारिका हैमन्ते हिमन्तऋतुघटके । प्रथमे मासि मार्गशीर्षे । यद्वा हैमन्ते प्रत्यासन्ने । तस्मात्प्रथमे पूर्वस्मिन् मासि कार्तिक इत्यर्थः । पदरत्नावली तु कार्तिककृष्णपक्षस्य पौर्णम्यन्तमासपक्षे हेमन्तऋत्वन्तर्गतत्वेन तद्विवक्षया प्रवृत्ता । तत्पक्षे तस्य मार्गशीर्षकृष्णपक्षत्वेऽपि कार्तिके मासीति व्याख्यानं दाक्षिणात्यानां सुज्ञानार्थं मन्तव्यम् । कात्यायिन्या उमाया अर्चनाख्यं व्रतम् । अर्चनायां व्रतं नियमं वा ॥ १ ॥
आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे ।
कृत्वा प्रतिकृतिं देवीमानर्चुर्नृप सैकतीम् ॥ २ ॥
पदरत्नावली
चशब्द एवार्थः । अरुणे उदिते च अरुणोदयवेलायामेव कालिन्द्या यमुनाया अम्भस्याप्लुत्य स्नात्वा जलान्ते तटे सैकती सिकतामयी प्रतिकृतिं कात्यायनीप्रतिमां कृत्वा देवी प्रतिकृत्यामावाहितां कृष्णामानर्चुः पूजाञ्चक्रुः ॥ २ ॥
सत्यधर्मीया
कालिन्द्या अम्भस्याप्लुत्य स्वयं स्नात्वा । अनेन सावर्ण्यादिव तत्कृतोपकारा सर्पापसर्पणादियमपि कामितकृष्णलक्षणमतिदात्री स्यादिति भावो भामिनीनां सूच्यते । अरुणे उदिते तस्यैव सिद्धिसमयत्वात् । हे नृप कालिन्द्या जलान्ते स्वपुलिने । लीला कल्पेद्भगवतेति सैकतीमित्युक्त्या ध्वन्यते । तटे सैकतीं सिकतामयीं प्रतिमां कृत्वा देवीं तदन्तरावाहितामानर्चुरपूजयन्
॥ २ ॥
सुमनोरञ्जिनी
तदितिकर्तव्यतासहितमर्चनाप्रकारमाह ॥ आप्लुत्येति ॥ अरुणे उदिते सति । तदानीमेव कालिन्द्या अम्भसि । आप्लुत्य स्नात्वा । जलान्ते जलसमीपे सैकतीं प्रतिमां सिकतात्मिकां प्रतिकृतिं कृत्वा देवीम् आनर्चुरित्यन्वयः ॥ २ ॥
गन्धैर्माल्यैः सुरभिभिर्बलिभिर्धूपदीपकैः ।
उच्चावचैश्चोपहारैः प्रवालफलतण्डुलैः ॥ ३ ॥
पदरत्नावली
माल्यैर्मालाभिः । बलिभिः परिवारदेवतापूजाभिः ॥ ३ ॥
सत्यधर्मीया
अर्चनचर्चनमेतैरित्याह ॥ गन्धैरिति ॥ माल्यैर्मालाभिः पृथक्कुसुमैश्च । सुरभिभिरिति योग्यसर्वान्वयि । बलिभिः कात्यायनीभृत्यपूजाभिरेवमुच्चावचैरनेकप्रकारैः । प्रवालाः किसलयाः फलानि तण्डुलाश्च तैरुपहारैरानर्चुरित्यतीतेनान्वयः ॥ ३ ॥
सुमनोरञ्जिनी
सुरभिभिः सुगन्धिभिः । माल्यैः पुष्पैः । बलिभिर् नैवेद्यैः । परिवारदेवता-पूजाभिरिति पदरत्नावल्याम् । प्रवाला विद्रुमाः । फलानि नारिकेलजम्बीरादीनि । तण्डुलाश्च तद्रूपैर् उच्चावचैर् उपहारैश् चैलाञ्चलपूरणादिभिः ॥ ३ ॥
कात्यायनि महामाये महायोगिन्यधीश्वरि ।
नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ॥ ४ ॥
पदरत्नावली
महती माया शक्तिर्यस्यां सा तथा । महान् योग उपायोऽस्या अस्तीति महायोगिनी, तत्सम्बुद्धौ महायोगिनि । अधीश्वरि अणिमाद्यधिकैश्वर्ययुते । रमावेशाभावे कृष्णरमणीत्वासम्भवात् समनां समानर्चुरित्यवसेयम् ॥ ४ ॥
सत्यधर्मीया
तत्र मन्त्रमिममिमाः समा उमामुद्दिश्य जेपुरित्याह ॥ कात्यायनीति । महामाये महती च साऽमायाऽकपटप्रवृत्तिर्यस्याः सा तत्सम्बुद्धिः । महाशक्तिमतीति वा श्रेष्ठोपायवतीति । महायोगिनी स्वामिनीति । अधीश्वरि हे देवि नन्दगोपसुतं मे पतिं कुरु । मम युष्माभिः क्रियमाणोचितापचितिः केत्यत आहुः ॥ ते नम इति । म इति प्रातिस्विकमेकैकस्याः प्रार्थनेत्येकवचनोपपत्तिः । आन्तरङ्गिको भावश्चेतरस्या अस्तु वा माऽस्त्वित्येवानेन ध्वन्यते । सापत्न्यं स्नेहापवाहकमिति लोकप्रसिद्धेरिति केचित् । आन्तरङ्गिको भावश्च नैतन्मात्रप्रार्थना किन्तु रमामपि । हे मे इति सम्बोध्य प्रार्थयामासुरिति वाऽवसेयः । तदावेशं विना श्रीशसम्बन्धासम्भवात् । ऋते रमां जातु ममाङ्गसङ्गयोग्याङ्गना नैव सुरालयेऽपीत्याद्युक्तेः । ते मः शिवो न इव पतिं नन्दगोपसुतं कुरु । मः शिवे मा रमायां च मा निषेधेऽव्ययं मतम् । मासे च समये चन्द्रे यमे वेधसि मं विष इति विश्वः । यथा तव धवो भवस्तथा नन्दनन्दनं मे पतिं कुरु । ते नमोऽस्तु ॥ ४ ॥
सुमनोरञ्जिनी
प्रत्येकप्रार्थनान्मे इत्येकवचनं युज्यते ॥ ४ ॥
इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कुमारिकाः ।
उषस्यभ्येत्य ताः स्वैरमन्योन्याबद्धबाहवः ॥ ५ ॥
पदरत्नावली
उषसि ब्राह्मे मुहूर्ते । अन्योन्यमाबद्धा बाहवो यासां तास्तथा ॥ ५ ॥
सत्यधर्मीया
कुमारिका इत्येवंरूपं मन्त्रं जपन्त्य उषसि प्रातः । स्वैरं यथेच्छम् । स्वादी-रेरिणोरिति वृद्धिः । अन्योन्यमाबद्धा बाहवो यासां ताः । गतमन्योन्येति । अभ्येत्य कालिन्दीम् । तास्ता इव पूजाञ्चक्रुः । तासां ता एवोपमानरूपा इत्यन्वयः । तच्छब्दस्य यद्विभक्तिकवचनान्तं यत्पदं तदन्तं तल्लिङ्गविभक्तिकस्यैवार्थकता प्राक् प्रथमस्कन्धगततद्वै धनुस्त इषव इति श्लोकतात्पर्योदाहृतिपूर्वकमुपपादिताऽनुसन्धेया । अन्यथा तच्छब्द एक एवालमतिरिच्यत एक इति स्यात् । यदा कदाचिदुषस्यभ्येति कृष्ण इति स्वयमता गता इति वा ॥ ५ ॥
सुमनोरञ्जिनी
उषसि ब्राह्मे मुहूर्ते । उत्थायाभ्येत्येति पाठे पूजां चक्रुरिति पूर्वेणान्वयः । अन्योन्याबद्धबाहवः परस्परं सन्न्यस्तबाहवो ऽन्योन्यं गृहीतपाणयो वा ॥ ५ ॥
कृष्णमुच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम् ।
एवं मासव्रतं चेरुः कुमार्यः कृष्णचेतसः ॥ ६ ॥
सत्यधर्मीया
कालिन्द्यामन्वहं स्नातुं यान्त्य उच्चैः कृष्णं जगुः । अनेन निर्लज्जता द्योत्यते । उच्चैर्गुणयुतमिति वा । एवं मासव्रतं कृष्णचेतसः कुमार्यश्चक्रुः ॥ ६ ॥
सुमनोरञ्जिनी
कालिन्द्यां स्नातुं यान्त्यः । कृष्णम् उच्चैर् जगुः । एवम् उक्तप्रकारेण व्रतं नियमम् । मासम् एकमपि दिनमविहाय मासपर्यन्तम् । कालाध्वनोरत्यन्तसंयोगे द्वितीया । चेरुश् चक्रुः ॥ ६ ॥
भद्रकालीं समानर्चु१र्भूयान्नन्दसुतः पतिः ।
नदीं कदाचिदागत्य तीरे निक्षिप्य पूर्ववत् ।
वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ॥ ७ ॥
पदरत्नावली
मङ्गलरूपिणी नीलवर्णा चेति भद्रकाली, ताम् । सखीयं नन्दस्नुषा भूयादिति सख्यभावेन सर्वकुमार्यः प्रत्येकं प्रार्थयाञ्चक्रिरे । ‘भूयान्नन्दसुतः पतिः’ इति केचित् पठन्ति । वासांसि कदाचित् तीरे निक्षिप्य नदीमागत्य नदी प्राप्य ॥ ७ ॥
दुर्घटभावदीपिका
कुमार्य इयं स्त्री नन्दस्नुषा भूयादित्युक्त्वा भद्रकालीं समानर्चुरिति । एतेन नन्दस्नुषा इतीत्यत्र नन्दस्नुषाशब्दस्य बहुवचनान्तत्वाद्भूयादित्येकवचनान्तप्रयोगोऽनुपपन्न इति दूषणस्यानवकाशः । नन्दस्नुषा इतीत्यत्र विवक्षाभावात्सन्ध्यभाव इत्यङ्गीकृत्य नन्दस्नुषा इत्येकवचनान्त इत्यभ्युपगमात् । एतेनैव भूयान्नन्दस्नुषा इतीति वाक्यं कुमारीवाक्यत्वादुत्तमपुरुषप्रयोगः कर्तव्यः भूयादिति प्रथमपुरुषप्रयोगोऽनुपपन्न इति चोद्यमपास्तम् । इयं स्त्री नन्दस्नुषा भूयादिति परोक्षनिर्देशं कृत्वा सर्वाभिः कुमारीभिः प्रत्येकं प्रार्थितमित्यभ्युपगमात् ॥ ७ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे विंशोऽध्यायः ॥ १०-२० ॥
सत्यधर्मीया
नन्दसुतः पतिर्भूयादिति भद्रकालीं समानर्चुः । भूयान्नन्दस्नुषा इतीति क्वाचित्कः पाठः । तत्र नन्दस्नुषा नन्दनभार्या भूयाद् भूयास्मेत्यर्थः । पुरुषवचनव्यत्यासो बहिः स्नुषा इत्यन्तस्त्वेकाऽहमेव स्नुषा स्यामितीत्येकवचनबहुवचनोपपत्तिश्च ज्ञेया । कदाचिन्मासमध्य एव । वासांसि तीरे निक्षिप्य कृष्णं मुदा गायन्त्यः सलिले विजह्रुः । पूर्ववदिति, निक्षिप्येत्यत्र गायन्त्य इत्यनेन विजह्रुरित्यनेनाप्यन्वेति ॥ ७ ॥
सुमनोरञ्जिनी
नन्दस्नुषा भूयास्मेत्याशयेन भद्रकालीं गौरीमानर्चुश्चेति । कदाचिन् नद्यां नदीम् आगत्य वासांसि पूर्ववत् पूर्वस्मिन् दिवस इव तीरे निक्षिप्य । सलिले विजह्रुः ॥ ७ ॥
विरोधोद्धारः
भद्रकालीमिति । अत्र भूयाद् भूयां वेत्येकवचनेन नन्दस्नुषा इति बहुवचनस्य विरोधः । अतोऽर्थान्तरमुच्यते । पूर्वोक्तनन्दगोपसुतं देवि पतिं मे कुरु ते नम इतिवदत्राप्यहं नन्दस्नुषा भूयामिति प्रातिस्विकाभिप्रायेण गोप्यो भद्रकालीं समानर्चुरित्यन्वयः । न चात्र स्नुषा इति सन्ध्यभावो दोषाय । अर्थान्तरसापेक्षत्वात् । व्यत्ययोऽतिशयकुत्सनाभेदेष्विति हि सूत्रम् । सर्वातिशयितेत्यर्थः । यद्वा । कात्यायनादिशब्दैस्त्वं हि जगदम्बेति प्रसिद्धासीति हेतोर्वयं ते स्नुषा इति । तुभ्यमिति शेषः ॥ नन्दः । आनन्दः ॥ भूयाद् भवतु । अन्यथा त्वं जगदम्बात्वेना-स्मत्कृष्णयोरपि भ्रातृत्वसम्बन्धसिद्ध्येष्टानाप्तिः स्यादित्याशयेन भद्रकालीं समानर्चुः । अथवा । उक्तरीत्या त्वत्सर्व स्नुषाः प्रति स कृष्णः । नन्द आनन्दकरः । मा भूयात्किन्तु मामेवानन्दकरो भूयादिति भावेन भद्रकालीमानर्चुः । किंवा । सर्वजगतस्तेऽपत्यत्वेऽपि स कृष्णोऽपत्यं मा भूयाद्वयं च स्नुषा मा स्याम । अस्माकं त्वदपत्यत्वेऽपि कृष्णस्य तदभावादस्मत्सम्बन्धो युक्तः स्यादित्याशयेन भद्रकालीं सर्वासां भद्रवंचकां देवीम् । कल वञ्चन इति धातोः । आनर्चुर् अपूजयन् । अतो न विरोधः ॥ ७ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्याने पाङ्घरी श्रीनिवासाचार्यकृते
विरोधोद्धारे विंशोऽध्यायः ॥ १०-२० ॥
भगवांस्तदभिप्रेत्य कृष्णो योगेश्वरेश्वरः ।
वयस्यैरागतस्तत्र वृतस्तत्कर्मसिद्धये ॥ ८ ॥
पदरत्नावली
योगेश्वरा विधातृप्रभृतयस्तेषामीश्वरः । तासां कर्मसिद्धये सङ्क्लृप्तव्रतसाफल्याय
॥ ८ ॥
सत्यधर्मीया
भगवान्कृष्णस्तत् स्वपतित्वमुद्दिश्य व्रताचरणादिकमभिप्रेत्य ज्ञात्वा । को वाऽवादीद्वासुदेवं प्रतीत्यत आह ॥ योगेश्वरेश्वर इति ॥ योगेश्वरा ब्रह्माद्यास्तेषामीश्वरोऽतीता-नागतवेदितृत्वात्स्वयमेवावेत्यायात आयताक्षीः प्रतीति भावः । वयस्यैर्वृतस्तत्रागतः । प्रयोजन-मिदमित्याह ॥ तत्कर्मसिद्धय इति ॥ तासां यत्कर्मोपास्त्यादिस्तस्य सिद्धिः साफल्यं तस्यै । अनेन न तत्सङ्गेन कृष्णस्योत्कृष्टता किन्तु तासामेवाभीष्टावाप्तिरिति ध्वन्यते । यदर्थं ताभिर्वृतस्तत्कर्म-सिद्धय इति वा वयस्यैः सहेति वा ॥ ८ ॥
सुमनोरञ्जिनी
योगेश्वराणामपीश्वर इत्यनेन परमनोगताभिज्ञत्वं मनोरथपूरणसामर्थ्यं च सूचयति । वयस्यैर्वृतः सन् तत्रागत आगतवान् । तत्कर्मणां ताभिः क्रियमाणकर्मणां सिद्धये फलसिद्ध्यर्थं फलदानायेति यावत् ॥ ८ ॥
तासां वासांस्युपादाय नीपमारुह्य सत्वरः ।
हसद्भिः प्रहसन् बालैः परिहासमुवाच ह ॥ ९ ॥
पदरत्नावली
नीपमर्जुनद्रुमम् । परितो हासो यस्मिन् तद् वचनं परिहासम् ॥ ९ ॥
सत्यधर्मीया
तासां सलिलसलीलानां ललनानां वासांसि दुकूलानि नीरतीरस्थापितान्यु-पादाय । अनेन वसनापहारेण भवद्भवदज्ञानाच्छादनमप्येवं हरामीति हरिरसूचयदिति मन्तव्यम् । सत्वरो नीपमर्जुनवृक्षमारुह्य हसद्भिर्बालैः सह स्वयमपि प्रहसन्परिहासं परितो हासो यस्मिंस्तद्वचनं यथा भवति तथोवाचेति वा ॥ ९ ॥
सुमनोरञ्जिनी
सत्वरस् त्वरया सहितः । नीपं कदम्बम् । नीपः कदम्बबन्धूकनीलाशोकद्रुमेषु चेति भानुजः । हसद्भिर्बालैः सह प्रहसन् परिहासं नर्मोक्तिम् । परितः हासो यस्माद्वचनात्तद्वचनं वा ॥ ९ ॥
अत्रागत्याबलाः कामं स्वंस्वं वासः प्रगृह्यताम् ।
सत्यं ब्रवाणि नो नर्म यद् यूयं व्रतकर्शिताः ॥ १० ॥
सत्यधर्मीया
हे अबला अत्रागत्य कामं यथेच्छं स्वंस्वं पदमेकं वासः प्रगृह्यतां यद्यस्माद्यूयं व्रतकर्शितास्तच्छ्रान्तास्तन्नो नर्म महाव्रतयुताः प्रति नर्म न धर्म इति भावः । सत्यं ब्रवाणि वच्मि । ब्रूञ् व्यक्तायामस्माल्लोट््यानि गुणे सार्वधातुके वादेशे कुप्वेति णत्वे ब्रवाणीति रूपम् । ब्रुवाणीत्यपपाठः । अष्टमाष्टकीयपञ्चमाध्याये चोर्वशीवाक्ये प्रतिब्रवाणि वर्तय तेऽश्रु इत्युक्तेः
॥ १० ॥
सुमनोरञ्जिनी
किमुवाचेति तत्राह ॥ अत्रेति ॥ हे अबला यथाकामम् अत्रागत्य स्वं स्वं वासः । नर्म परिहासः । यद् यस्माद्यूयं व्रतकर्शिताः कृशाः ॥ १० ॥
न मयोदितपूर्वं वा अनृतं तदिमे विदुः ।
एकैकशः प्रतीच्छन्तु सहैवोत सुमध्यमाः ॥ ११ ॥
सत्यधर्मीया
मयाऽनृतं नोदितपूर्वं पूर्वं नोदितं तत्र साक्षिणः सारसाक्षीः प्रति बोधयति ॥ तदिति ॥ ममाननृतवाक्त्वमिमे बाला विदुरेकैकशः पृथगुत । हे सुमध्यमाः सहैव प्रतीच्छन्तु प्रतिगृह्णन्तु भवत्यो नोभयथापि ममासम्मतिरिति भावः । सुमध्यमा इत्यनेन सु सार्वजनीनतया दृश्यमानो मध्ये मकारो यस्मिंञ्छब्दे स शब्दः कुमार्य इति शब्दस्तेन तदर्थः स्वीकार्य इति हे कुमार्य इत्यपि सम्बुद्धिः । ननु कान्तैकान्तसङ्केतनिकेतं प्रति वयस्यनयनं नयस्यापनयनमित्यतोऽप्याह ॥ ये सुमध्यमा इति ॥ साक्षित्वेन दर्शितैरनृतोक्तौ कथमित्यतो वाऽऽह ॥ सुमध्यमा इति ॥ अत्यन्तं प्रोक्तकारिण इति न कार्यद्वयप्रतिबन्धकता तेषामिति ॥ ११ ॥
सुमनोरञ्जिनी
मया अनृतं नोदितपूर्वम् । तद् इमे गोपबालका विदुः । काममित्युक्तं विवृणोति । एकैकश आगत्य भवत्यो वासांसि प्रतीच्छन्तु स्वीकुर्वन्तु । सहैव वा मिलित्वा वा
॥ ११ ॥
तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः ।
व्रीडिताः प्रेक्ष्य चान्योन्यं जातहासा न निर्ययुः ॥ १२ ॥
एवं ब्रुवति गोविन्दे नर्मणाऽऽक्षिप्तचेतसः ।
आकण्ठमग्नाः शीतोदे वेपमानास्तमब्रुवन् ॥ १३ ॥
पदरत्नावली
क्ष्वेलितं परिहासम् । न निर्ययुः, यमुनाजलादिति शेषः ॥ १२ ॥
सत्यधर्मीया
एवं गोविन्दे ब्रुवति सति तस्य तत्क्ष्वेलितमित्येकान्वयः श्लोकद्विकस्य ज्ञेयः । इति परिहासवचनं दृष्ट्वा श्रुत्वा तदर्थं चानुभूयेत्यर्थः । प्रेमपरिप्लुतास्तपः फलितमिति प्रेम्णा परिप्लुता अन्योन्यं प्रेक्ष्य जातहासा व्रीडिताश्च सत्यो न निर्ययुर्यमुनाजलादिति शेषः । किञ्चास्य नर्मणाक्षिप्त-चेतसः शीतोदे आकण्ठमग्ना अत एव वेपमानास्तमब्रुवन्निति । तस्य यामुनजलस्य सकाशान्न निर्ययुरिति वा । एवमन्वये तस्य तत्क्ष्वेलितं दृष्ट्वेत्यनन्तरमेवं ब्रुवति गोविन्द इत्यवक्त-व्यत्वादसाङ्गत्यापत्तेः ॥ १२,१३ ॥
सुमनोरञ्जिनी
तस्य तत्क्ष्वेडितं परिहासं दृष्ट्वा प्रेमपरिप्लुताः प्रेममग्नाः । अन्योन्यं प्रेक्ष्य जातहासा जलान्न निर्ययुः । एवं गोविन्दे ब्रुवति सति । नर्मणा विनोदवचनेन आक्षिप्तम् अपहृतं चेतो यासां ताः । शीतोदे हैमन्तेन अतिशीतले उदके । आकण्ठमग्नाः । अत एव वेपमानाः कम्पमानास् तं श्रीकृष्णं मानयन्त्यः बहुमानं कुर्वन्त्यः । सानुनयम् अब्रुवन्निति सम्बन्धः ॥१२,१३॥
माऽनयं त्वं कृथास् त्वां तु नन्दराजसुतं प्रियम् ।
जानीमोऽङ्गव्रजश्लाघ्यं देहि वासांसि वेपिताः ॥ १४ ॥
पदरत्नावली
शीतजलार्दिततया वेपिता वयम् ॥ १५ ॥
सत्यधर्मीया
तत्र सहसा नान्तरं देयमित्यालोचनचतुराः सुलोचनावचनप्रसूनमालां मालाल्यचरणाय भक्तिसूत्रजटिलां बहिः किञ्चित्कुटिलामार्पयन्निति सार्धश्लोकद्विकेनाह ॥ मानयं त्वं कृधा इति ॥ अङ्ग हे कृष्ण अनयमन्यायं कन्यानामपाणिगृहीतानां वसनापहाररूपं मा कृथा न कुरु । व्रजश्लाघ्यं नन्दराजस्य नन्दगोपभूपस्य सुतं प्रियं जानीमः । चेत्किमित्यत आहुः ॥ वेपिता इति ॥ नो वासांसि देहि । माऽनयं भोः कृधा इति पाठे भोः कृष्णानयं मा कृधाः । अङ्गव्रजश्लाघ्यमिति पदम् । अङ्गं च शरीरं च व्रजस्य श्लाघ्यं यस्य व्रजेन श्लाघ्यं यस्य स तमिति वाऽर्थः । नो चेदङ्गेति वा भोरिति वाऽतिरिच्यत इति ज्ञेयम् । मानयन्त्यो वयमिति न सरसः पाठः । प्रयोजनं वर्तते गृहं प्रति गच्छामीत्यतोऽप्याहुः । वासांसि देहि अनन्तरं व्रज । श्लाघ्यं सर्वश्लाघ्यम् । एतेन सर्वसुपर्वश्लाघ्यस्य व्रजमात्रश्लाघाविषयत्ववचनं कियदिति निरस्तम् ॥ १४ ॥
सुमनोरञ्जिनी
किमब्रुवन्निति तत्राह ॥ वयमिति ॥ वयं त्वां नन्दराजसुतं तत्रापि प्रियम् । नन्दराजस्य प्रियसुतमित्यर्थः । न केवलं नन्दराजप्रियमपि तु व्रजश्लाघ्यम् । जानीमः । माऽनयं भो कृथा इत्यपि पठन्ति । तस्य, भोः कृष्ण अनयम् अन्यायं मा कृथा इत्यर्थः । वयं वेपिताः स्मः । अतो वासांसि देहीति ॥ १४ ॥
स्याम सुन्दर ते दास्यः करवाम तवोदितम् ।
देहि वासांसि धर्मज्ञ वेपितानां महाबल ।
शीतार्दितानां बालानां नो चेद् राज्ञे ब्रुवामहे ॥ १५ ॥
पदरत्नावली
ते दास्यः स्याम भवेम । राज्ञे नन्दगोपाय ॥ १५ ॥
सत्यधर्मीया
अनयं मा कृथा इत्युक्तिर्मुखत आयातेत्यायताक्ष्यः क्षमापयन्ति तमित्याह ॥ स्यामेति ॥ हे सुन्दर ते दास्यः स्याम । ननु सुन्दरेत्यस्यामन्त्रितत्वेनाविद्यमानवद्भावात्कथं त इत्यादेशः स्यादिति चेन्न । तस्यापदत्वेन पदात्परत्वाभावेऽपि गृणन्ति विप्र ते धिय इत्याद्यलौकिके, लौकिके च सर्वदा रक्ष देव न इत्यादि दृष्टमिति स्यामेत्यस्य पदत्वात्तत्परताश्रयणेन त इत्यादेशसम्भवात्काऽत्र कथन्ता । अव्ययतया समाधिस्तु मातर्म इत्यादिनिर्गतिकस्थल एवेति विजानीहि । दासीनां मध्य आसीना एवं ललना जले जलजलोचनं प्रति कृत्यं विज्ञापयन्ति ॥ करवामेति ॥ तवोदितं त्वयोक्तं करवाम । त्वयोदितमिति वक्तव्ये तवोदितमिति वचनेन तवोदितमपत्याद्युत्पत्तिद्वारोदयम् । भावे क्तः । करवामेत्यपि ध्वनयन्ति वध्व इति बोध्यम् । हे महाबल धर्मज्ञ वेपितानां शीतार्दितानां बालानामङ्गस्मरणाभावाद्वेपितानां शीतार्दितानामिति चोक्ती ज्ञेये । नो वासांसि देहि । नो चेन्न रासि चेद्राज्ञे नन्दाय । शीतार्दितानां बालानां नो वसनानि न दत्तवांस्तव शावक इति ब्रुवामह इत्यन्वयो वा ॥ १५ ॥
सुमनोरञ्जिनी
अपरा अनुनयन्ति । हे सुन्दर वयं ते दास्यः स्याम भवामः । श्यामेति तालव्यपाठे इन्द्रनीलवर्ण सुन्दर इत्यर्थः । तव त्वया उदितं करवाम । बालानां शीतेन आर्दितानाम् । अत एव वेपितानाम् अस्माकं वासांसि देहि । धर्मज्ञ ‘अबला अनुकम्पनीया’ इति धर्मं जानातीति तथा । अपरा आहुः । नो चेद् राज्ञे नंदायेति ॥ १५ ॥
श्रीभगवानुवाच—
भवन्त्यो यदि मे दास्यो मयोक्तं वा करिष्यथ ।
अत्रागत्य स्ववासांसि प्रतीच्छत सुमध्यमाः ॥ १६ ॥
सत्यधर्मीया
कुमारिकोदीरितं श्रुत्वा किमकरोद्धरिरित्यत एवमसूच इति सुचेता आह ॥ श्रीभगवानुवाचेति ॥ भवन्त्यो भवत्य इति भवतः पाठौ । पूर्वस्मिंश्छत्रन्तता नुमचा परस्मिन्नुचतुप्रत्ययान्ततेति विवेकः । यदि मे दास्यो, यदि वचो मयोक्तं करिष्यथ तर्ह्यत्रागत्य स्ववासांसि स्वस्ववासांसि प्रतीच्छत स्वीकुरुत ॥ १६ ॥
सुमनोरञ्जिनी
मयोक्तं वा यदि करिष्यथ तर्हि अत्रागत्य स्ववासांसि प्रतीच्छत स्वीकुरुत
॥ १६ ॥
नो चेन्नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति ।
ततो जलाशयात् सर्वा दारिकाः शीतवेपिताः ।
पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुस्तीरमङ्गनाः ॥ १७ ॥
पदरत्नावली
दारिकाः कुमार्यः । प्रशस्तानि अङ्गानि आसां सन्तीति अङ्गनाः ॥ १७ ॥
सत्यधर्मीया
इदमेकं विहाय हे यदुनाथ काऽन्यत्किञ्चिदाज्ञापय तत्परिज्ञाय कुर्म इत्यतः क्रोश एवाक्रोशेन बहुलं लुण्ठनमनन्तरं रामराज्यमितिवत्प्रथमग्रासे मक्षिकापात इव च न वदत सुदत्य इत्याह ॥ नो चेदिति ॥ नो चेदधुनासमीपसमापतनं तर्हि नाहं दास्यामि न दास्योऽपि भवत्यः । नो चेदिति नाहं प्रदास्यामीति वचनादादौ संयोज्यस्य राज्ञे ब्रुवामह इत्यस्योत्तरमाह ॥ क्रुद्ध इति ॥ क्रुद्धो युष्मद्भाषोद्भूतरोषो राजा नन्दः किं करिष्यति स्वप्रदर्शितदण्डे खण्डिते स्वानुकूलमेवेदमिति दुकूलानि वा लातुमनुकूलं कालिन्द्या आयाताः पुनर्भगवद्भारतीशुश्रूषा इमामेकां धाटीमटीकन्त कान्ता इत्याह ॥ तत इति ॥ दारिकाः कुमारिका अङ्गना गतिमत्यः । अगेः कर्तरि युच् । अतो न दारिकातिरेकः । पाणिभ्यां स्वस्वहस्ताभ्यां गतम् । तीरं प्रति प्रोत्तेरुः । यद्यप्येकेन शयेन शक्यमाच्छादनं तथा चेद्देवः शय एकस्मिन्वसनं क्षिपेच्चेन्नास्मदभिलषितसम्पत्तिः स्यात्स्याच्चैतावान्यत्नः कृतो विफल इत्याशयेन शयद्वयमयूयुजंस्तनीयस्यपि कार्ये नार्यः सुचातुर्य इति भावः ॥ १७ ॥
सुमनोरञ्जिनी
नो चेद् यद्यत्र नागमिष्यथ तर्हि । अपरा प्रत्याह ॥ किमिति ॥ ततस् तदनन्तरं शीतेन वेपिताः । दारिकाः कुमार्यः । जलाशयात् प्रोत्तेरुर् निर्गताः ॥ १७ ॥
भगवानथ ता वीक्ष्य मुग्धभावप्रसादितः ।
स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितः ॥ १८ ॥
पदरत्नावली
मुग्धभावेन मधुरस्वभावेन प्रसादितः प्रसादं गमितः । ‘भावः सत्ता-स्वभावाभिप्रायचेष्टात्मजन्मसु’ इत्यमरः ॥ १८ ॥
सत्यधर्मीया
मुग्धभावो मनोहरचेष्टाभिप्रायो वा तेन प्रसादितः । लीला वा, भावः स्व-भावाभिप्रायचेष्टासत्तात्मजन्तुषु । लीलापदार्थेष्विति विश्वः । तेन प्रसादितः प्रसादं प्रापितः । स्कन्धे तरुशाखासु । सस्मितः प्रीतस्तदुपरि प्रोवाच ॥ १८ ॥
सुमनोरञ्जिनी
अथ अनन्तरं मुग्धभावेन मौग्ध्येन मुग्धानाम् अप्रौढस्त्रीणां भावेन स्नेहेन वा प्रसादितः प्रसन्नः । स्कन्धे वृक्षस्कन्धे ॥ १८ ॥
यूयं विवस्त्रा यदपो धृतव्रता व्यगाहतैतद् तदु देवहेलनम् ।
बद्ध्वाऽञ्जलिं मूध््नर्यपनुत्तयेंऽहसः कृत्वा नमो वो वसनं प्रगृह्यताम् ॥ १९ ॥
पदरत्नावली
यूयं धृतव्रता हिरण्यगर्भभर्गादिनिर्जरवर्गैः समर्चिताया दुर्गायाः प्रचुर-प्रसादजनकव्रतधराः सत्यो विवस्त्रा वस्त्रहीना अपो व्यगाहत अप्सु स्नाता इति यत् तदेतद् उ तापनिमित्तं देवहेलनं देवतानादरः । ‘उ तापेऽव्ययमीशे ना’ इति यादवः । अस्यांहसो ऽपराधस्य अपनुत्तये परिहाराय ॥ १९ ॥
सत्यधर्मीया
स्वेन धर्ममर्मावश्यं वाच्यमिति ताभिरेव कुमारीभिर्धर्मज्ञेति प्रागात्मानं बोधयित्रीभिर्बीजावापः कृतोऽतो मया तत्प्ररोहित्रा भाव्यमिति यथा तन्मनसे रुच्येत तथा धर्मपथं नर्मपूर्वकं दर्शयन्कान्ताः श्रीकान्तस्ता वशयति ॥ यूयमिति ॥ यूयं धृतव्रता आमासान्तं सङ्कल्पित-सतीप्रसत्तिजनकव्रतनिष्ठाः सत्यो विवस्त्रा वस्त्रहीना अपो व्यगाहतेति यत्तद् उ उत्कृष्टं देवहेलनं देवतातिरस्क्रियोत्तापकं वा कुत्सितमिति वा । उत्तापेऽव्ययमीशे ना चेति यादवः । उ उत्कर्षे कुत्सायामिति रन्तिदेवः । उ वाच्ये चैव कुत्सायामम्बायां स्यादनव्ययमिति विश्वः । अस्मदोघव्रतं मोघं न भवेद्भवेच्चाघपरिहारस्तथा कथय स्वामिन्यामः कामिन्यस्तेन पथेति तदाशयं जानन् जगन्नाथः स्वयमाह ॥ बद्ध्वेति ॥ हे वध्वोऽञ्जलिं बद्ध्वैतदंहसोऽपनुत्तये परिहारार्थं नमः कृत्वा वो वसनं प्रगृह्यताम् । नीवीग्रन्थग्रन्थनस्य तच्छ्लथनस्य च शयद्वयहेतुकत्वात्तत्सम्पुटीकरणेन यदपराध-स्तदुपरोधोऽनुरोद्धव्यो भवतीति बद्ध्वाञ्जलिमिति जजल्पानल्पमतिरिति तात्पर्यमवधेयम्
॥ १९ ॥
सुमनोरञ्जिनी
तासां मुग्धतां प्रकटयितुमाह ॥ यूयमिति । यूयं धृतव्रताः सत्यो यद् यस्माद् विवस्त्रा अपो व्यगाहत अप्सु स्नातास् तत् तस्माद् एतद् धृतव्रतानां नग्नस्नानं देवहेलनम् उ देवहेलनमेव । देवतापराध एवेति यावत् । अतो ऽपराधस्य पापस्य अपनुत्तये परिहाराय मूधर्ि्न अंजलिं बध्वा नमः वन्दनं कृत्वा वः यद्यद्वसनं तत्तत् प्रगृह्यतां स्वीक्रियताम् ॥ १९ ॥
इत्यच्युतेनाभिहिता१ व्रजाबला मत्वा विवस्त्राप्लवनं २व्रतच्युतिम् ।
तत्पूर्तिकामास्तदशेषकर्मणां साक्षात्कृतं नेमुरवद्यमुज्झितुम् ॥ २० ॥
पदरत्नावली
विवस्त्राप्लवनं विवस्त्राभिः स्वाभिः कृतं यदाप्लवनं व्रतस्य च्युतिर्भ्रंशस्तां मत्वा तत्पूर्तिकामाः स्वसङ्क्लृप्तव्रतसाङ्गतां कामयमानास्तदवद्यं दुरितमुज्झितुम् उन्मूलयितुमशेषकर्मणां साक्षात्कृतं साक्षीभूतमच्युतं नेमुः ॥ २० ॥
सत्यधर्मीया
तदभिहितमेवाभितो हितं न तत्प्रच्यावयितुं शक्यमित्यच्युतेनेत्यभिहिता व्रजाबाला विवस्त्राप्लवनं विवस्त्राभिः स्वाभिः कृतं यदाप्लवनं व्रतस्य च्युतिर्भ्रंशस्तां मत्वा तत्पूर्तिकामा व्रतसाङ्गतां कामयमानास्तदवद्यं पापमुझ्झितुं हातुमशेषकर्मणां साक्षात्कृतं साक्षात्करोतीति स तं नेमुः। कर्मसाक्षात्कृतः पुरतः । करौ च तत्कर्मकरावित्यादेः करसम्पुटीकरणं युक्ततरमित्यनेन ध्वन्यते । अभिहितं तथा व्रतच्युतीत्यपि पठन्ति । तत्र व्रतस्य च्युतिर्यस्मात्तद्व्रतच्युतीति द्विकमपि विवस्त्राप्लवनविशेषणमिति मन्तव्यम् ॥ २० ॥
सुमनोरञ्जिनी
इत्यच्युतेनाभिहिता विवस्त्राप्लवनं व्रतच्युतिकारणं मत्वा । तत्पूर्तिकामास् तस्य व्रतस्य पूर्तिं पूर्णतां कामयाना गोप्यः । तस्य अशेषकर्मणां च अङ्गवैकल्यरूपम् अवद्यं दोषं साक्षात् स्वयमेव ज्ञानतोऽज्ञानतो वा कृतम् उज्झितुं परिहर्तुं श्रीकृष्णं नेमुः । यद्वा तदशेषकर्मणां साक्षात्कृतं साक्षात्कारवन्तं साक्षिणमित्यर्थः, एवम्भूतं कृष्णं नेमुरिति । साक्षात्कृतं प्रत्यक्षीकृतं कृष्णमिति वा । अथवा तस्य अशेषकर्मणां च साक्षात्कृतं मुख्योद्देश्यभूतं श्रीकृष्णं नेमुरित्यर्थः
॥ २० ॥
तास्तथाऽमूर्नता दृष्ट्वा भगवान् देवकीसुतः ।
वासांसि ताभ्यः प्रायच्छत् करुणः स्नेहतोषितः ॥ २१ ॥
पदरत्नावली
करुणः दयाशीलः ॥ २१ ॥
सत्यधर्मीया
भगवान्देवकीसुतस्तथा स्वोक्तवर्त्मनाऽमूर्नताः कृतनमना दृष्ट्वा स्नेहेन स्वभक्त्या तोषितः करुणः गतम् । ताभ्यो वासांसि प्रायच्छद्ददौ । भगवानित्यनेन स्वपार्श्ववर्तिवयस्यलोचन-निभालनाकलनस्वमात्रदृष्टिविषयतायापनसामर्थ्यं द्योत्यते ॥ २१ ॥
सुमनोरञ्जिनी
अवनता नम्राः । करुणः करुणाशीलः । तासां स्नेहेन तोषितश्च ॥२१॥
दृढं प्रलब्धास्त्रपया च हापिताः प्रस्तोभिताः क्रीडनवच्च कारिताः ।
वस्त्राणि चैवापहृतान्यथाप्यमुं ता नाभ्यसूयन् प्रियसङ्गनिर्वृताः ॥ २२ ॥
पदरत्नावली
गोपबालिकानाममलभक्तिं स्पष्टमाचष्टे दृढमिति ॥ प्रलब्धा वञ्चिताः । त्रपया लज्जया हापितास्त्याजिताः । प्रस्तोभिता नानाचाटुवचनैरुपहसिताः । क्रीडनवद् दारुयोषावत् । अथापि तथापि । अमुं श्रीकृष्णं प्रति । नाभ्यसूयन् नासूयाञ्चक्रुः । गुणेषु दोषाविष्करणमसूया । तत्र हेतुमाह प्रियेति ॥ प्रियस्य कृष्णस्य सङ्गेन सङ्कथनलक्षणेन निर्वृताः सुखपूर्णाः ॥२२॥
सत्यधर्मीया
तद्भक्तिमेव व्यक्तीकृत्य वक्ति ॥ दृढमिति ॥ दृढं यथा तथा प्रलब्धा वञ्चितास्त्रपयाऽपत्रपया हापितास्त्याजिताः । प्रस्तोभोऽत्र प्रस्तुतापहासपरः । तथा चापहसिताः । क्रीडनं तत्साधनं पुत्तलिकादि तद्वत्कारिताः । वस्त्राणि चापहृतान्यथाऽप्यमुं श्रीकृष्णं नाभ्यसूय-न्नासूयाञ्चक्रुः । तत्र तन्त्रम् ॥ प्रियसङ्गनिर्वृता इति ॥ प्रियस्य कृष्णस्य सङ्गः सङ्कथननिभाल-नादिरूपस्तेनैव निर्वृताः सुखिता इति । मनसि वा न किञ्चित्कालुष्यं योषितामिति सूचयितुं न चतुर्थीति ज्ञेयम् । शब्दशक्तिप्रकाशिकायां शिष्यमीर्ष्यतीत्याद्युदाहृत्य द्वितीयाद्युपपद्यत इत्युक्तेर्द्वितीया वा ॥ २२ ॥
सुमनोरञ्जिनी
दृढम् अत्यन्तं प्रलब्धा वञ्चिताः, विवस्त्रस्नानं देवहेलनमित्युक्त्या, तासु जलविहारव्यग्रासु तद्वस्त्रहरणेन वा । त्रपया लज्जया हापितास् त्याजिताः । नग्नानां जलान्निष्क्रामणेन प्रस्तोभिताः परिहासवचनं प्रापिताः, क्रीडनवद् दारुपुत्तलिकावत् कारिता बद्धांजलिं मूर्ध्नीत्यनेन । तथाप्यमुं प्रति नैवाभ्यसूयन् न दोषदृष्टयोऽभवन् । कुतः । प्रियस्य सङ्गः संवासस् तेन निर्वृताः सन्तुष्टाः ॥ २२ ॥
परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः ।
गृहीतचित्ता नोच्चेलुस्तस्मिंल्लज्जेषितेक्षणाः ॥ २३ ॥
पदरत्नावली
प्रेष्ठस्य कृष्णस्य सङ्गमे सज्जिताः सन्नद्धाः । लज्जयेषितानि ईषन्निमील्य प्रेषितानीक्षणानि याभिस्ताः । ईष गतिहिंसादर्शनेषु इति धातुः । नोच्चेलुस् तद्देशान्नाचालिषुः ॥२३॥
सत्यधर्मीया
स्ववासांसि वस्त्राणि । स्वस्ववस्त्राणीत्युक्तौ तन्मार्गणे समयगमनं स्यात् । किञ्च सर्वासामेककान्तकामुकमनस्कत्वेनापि भाविकार्यगुरुतया च न देवयानीशर्मिष्ठावद्दुर्गोष्ठीभाविनीति यस्याः कस्याश्चिद्याचका च पर्यधादिति ध्वनयितुं स्वेत्येवोक्तिरिति ज्ञेयम् । नियमो नास्तीति सूचयितुं वा । प्रेष्ठस्य सर्वत इष्टस्य सङ्गमे सज्जिताः सन्नद्धास्तेन गृहीतं चित्तं यासां ताः । तस्मिन्नेव लज्जयेषितानि प्रेषितानीक्षणानि याभिस्ताः । लज्जा ईषिता प्रेषिता च येन स तस्मिन्कृष्णे क्षण उत्सवोऽस्ति यासां ताः । अर्श आद्यच् । ईकरः क्षणो यासामिति लज्जेषितेक्षणा इति पदमेकं वा । ई च सौभाग्यम् । येर्मन्मथस्येक्षणौ यासामिति वा । नोच्चेलुस्तद्देशान्नागच्छन् ॥२३॥
सुमनोरञ्जिनी
प्रेष्ठस्य श्रीकृष्णस्य संगमे सज्जिताः कृतसङ्कल्पाः । गृहीतं श्रीकृष्णेन चित्तं यासाम् । तस्मिन् श्रीकृष्णे । लज्जया ईषितेन इच्छया च ईक्षणम् अवलोकनं यासां ताः । नोच्चेलुर् न चलितवत्यस् तस्मात्स्थानादिति ॥ २३ ॥
तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया ।
धृतव्रतानां सङ्कल्पमाह दामोदरोऽबलाः ॥ २४ ॥
पदरत्नावली
स्वपादस्पर्शकाम्यया स्वाङ्गसङ्गकामनया । ‘पादश्चतुर्थभागे स्यादङ्घ्रौ रश्मौ तनौ तथा’ इत्युत्पलमाला । अबलाः प्रत्याह ॥ २४ ॥
सत्यधर्मीया
स्वपादस्पर्शकाम्ययेति मर्यादावचनम् । स्वाङ्गसङ्गकामनया पादस्पर्शः पादसंवाहनं तच्च योषित्सु प्रायो भार्याकार्यमिति वैवं वचनम् । धृतव्रतानां तासां सङ्कल्पं विज्ञाय दामोदरोऽबलाः प्रत्याह ॥ २४ ॥
सुमनोरञ्जिनी
दामोदरः, स्वपादयोः स्पर्शकाम्यया । पादं शरीरमिति रत्नावल्याम् । धृतव्रतानां तासां सङ्कल्पं विज्ञाय अबलाः प्रति आहेत्यन्वयः ॥ २४ ॥
सङ्कल्पो विदितः साध्व्यो भवतीनां मदर्चनम् ।
मयाऽनुमोदितः सोऽसौ सत्यो भवितुमर्हति ॥ २५ ॥
पदरत्नावली
मया रमयाप्यनुमोदितः । ‘क्षीरोदतनया मा च शब्दज्ञैरिन्दिरा स्मृता’ इति हलः ॥ २५ ॥
सत्यधर्मीया
हे साध्व्यः भवद्भिर्लज्जया न प्रकाशितोऽपि मया भवतीनां सङ्कल्पो विदितः । न हि प्राज्ञज्ञानमात्रं प्रयोजकमित्यत आह ॥ मयेति ॥ अनुमोदितः सम्मतीकृत इति सः सत्यो भवितुमर्हति । किञ्चासौ मदर्चनं मत्पूजेति सत्यो भवितुमर्हति । गृहे गृहीणी वर्तेत चेन्न परप्रणयिनीपरिणयनं सम्भवति भवतस्तु वक्षस्येव लक्ष्मीरास्ते कथमस्मन्मनोरथः स्यात्कथयेत्यतोऽप्याह । मया रमया चानुमोदितोऽतः सत्यो भवितुमर्हतीति । तव तु तदेकसङ्गित्वात्कथमनुमतः सङ्कल्प इति भगवन्वञ्चनवचनमित्यतो वाऽऽह । मया युष्मत्सन्निहितया निमित्तेनानुमत इति ॥ २५ ॥
सुमनोरञ्जिनी
भोः साध्व्यः मदर्चनं पतित्वेन मत्पूजामुद्दिश्य कृतः भवतीनां सङ्कल्पः नन्दसुतः पतिर्मे भूयादित्येवंरूपः विदितो ऽनुमोदितश्च । अतः सत्यः सफलः भवितुम् अर्हति
॥ २५ ॥
न मय्यावेशितधियां कामः कामाय कल्पते ।
भर्जिता क्वथिता धाना प्रायो बीजाय नेष्यते ॥ २६ ॥
पदरत्नावली
गोपकन्यानां गोगोपालपालके भगवत्यत्युत्कटकामोऽयं दारुणसंसारावर्तननिमित्तं न स्यादित्यासां मङ्गलमयस्वाङ्गसङ्गसङ्कल्पः स्वस्तिकृदेवेत्याशयेन संस्तौति नेति ॥ कामाय भूरिसंसारप्रापकविषयेच्छाप्ररोहाय । तत्र दृष्टान्तमाह भर्जितेति ॥ भर्जिता, भ्राष्ट्रे इति शेषः । भृजी भर्जने इति धातुः । क्वथिता निष्पक्वा । क्वथे निष्पाके इति धातुः । धाना धान्यम् । बीजाय पुनरङ्कुरोत्पत्तये ॥ २६ ॥
सत्यधर्मीया
अयं कामो नासारसंसारप्रापक इति हेयो हे योषित इत्याह ॥ नेति ॥ मय्यावेशिता धीर्धिषणा यासां तास्तासां कामः कामाय पुनः संसारसाधकविषयेच्छोत्पत्त्यै न कल्पते । अत्र दृष्टान्तमाचष्टे ॥ भर्जितेति ॥ भर्जिता भ्राष्ट्रे क्वथिता पक्वीकृता धाना धान्यं बीजाय पुनरङ्कुर-जननाय प्रायो नेष्यते । दावदग्धवेत्रबीजानां कदलीकाण्डाङ्कुरजनकता दृष्टेत्यतः प्रायः सदृशाङ्कुर-जननायेति । प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपीति विश्वः । यथा तथेत्यध्याहारः । धाना भ्रष्टयवे प्रोक्तेति सत्यभिधानेऽत्र धानाशब्दोऽण्व्य इवेमा धाना इति श्रुतेः सामान्यधान्यमात्रपरोऽवसेयः । प्रायो बीजाय नाशिष्यत इति वा ॥ २६ ॥
सुमनोरञ्जिनी
मयि आवेशिता धीर्मनो यैस्तेषां जनानां कामः विषयेच्छा । कामाय पुनः पुनर्विषयसङ्गरूपसंसाराय । प्रायः नैव कल्पते । सर्वत्र विषयेषु मदनुचिन्तनरूपविषयसमर्पणं कुर्वतां विषयेच्छापि न संसाराय भवतीति भावः । स्वोक्तमर्थं निदर्शयति ॥ भर्जितेति ॥ भर्जिता दग्धाः, क्वथिता पक्वा, धाना बीजं, बीजाय अङ्कुरोत्पादनाय नेष्यते यथेति ॥ २६ ॥
याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः ।
यदुद्दिश्य व्रतमिदं १चरथार्याव्रतं सतीः ॥ २७ ॥
पदरत्नावली
सिद्धा पूर्णमनोरथाः । आर्यार्चनं कात्यायनीपूजाम् । सतीः सत्यः ॥ २७ ॥
सत्यधर्मीया
सतीः सत्यो बाला यदुद्दिश्यार्याया दाक्षायण्या व्रतं चरथ मया सहेमा बुद्धिसन्निहिताः सद्यस्तनीः क्षपा रात्री रंस्यथेति सिद्धा व्रजं यात गच्छत ॥ २७ ॥
सुमनोरञ्जिनी
सिद्धाः प्राप्तमनोरथाः । अतो व्रजं यात । इमा आगामिनीः क्षपा रात्रीः । आर्यार्चनं कात्यायनीपूजाम् । सतीः सत्यः ॥ २७ ॥
श्रीशुक उवाच—
इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः ।
ध्यायन्त्यस्तत्पदाम्भोजं कृच्छ्रान्निर्विविशुर्व्रजम् ॥ २८ ॥
सत्यधर्मीया
भगवतेत्येवमादिष्टा आज्ञप्ता आदिष्टं दैवं यासां ताः सुदैवा इत्यावर्तिता इत्यादिष्टपदार्थः । लब्धकामा लब्धमनोरथाः कुमारिकास्तत्पदाम्भोजं ध्यायन्त्यः कृच्छ्राद्विरहसहिष्णु-तायातकष्टाद्व्रजं निर्विविशुः ॥ २८ ॥
सुमनोरञ्जिनी
कृच्छ्रात् श्रीकृष्णदर्शनविच्छेदजन्यात् ॥ २८ ॥
अथ गोपैः परिवृतो भगवान् देवकीसुतः ।
वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः ॥ २९ ॥
सत्यधर्मीया
वृन्दावनात्तत्सन्त्यज्य ॥ २९ ॥
सुमनोरञ्जिनी
वृन्दावनाद्दूरं गतः ॥ २९ ॥
निदाघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः ।
आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकसः ॥ ३० ॥
पदरत्नावली
तिग्मे तीक्ष्णे । आत्मनः स्वानातपत्रायितान् छत्रायितान् । व्रजौकसो गोपानाह
॥ ३० ॥
सत्यधर्मीया
तिग्मे तीक्ष्णे । आत्मनः स्वान् आतपत्रायितान् छत्रायितान्वीक्ष्य व्रजौकसो गोपान्प्रति आह ॥ ३० ॥
सुमनोरञ्जिनी
द्रुमवर्णनव्याजेन सज्जनस्वभावं शिक्षयति ॥ निदाघेत्यादिना ॥ तिग्मे तीक्ष्णे । निदाघार्कवद्विद्यमाने आतपे । आतपत्रायितान् छत्रायितान् द्रुमान्वीक्ष्य व्रजौकसः प्रति आहेत्यन्वयः ॥ ३० ॥
हे स्तोक कृष्ण हे अंशो श्रीदामन् सुबलार्जुन ।
विशालर्षभ तेजस्विन् देवप्रस्थ वरूथप ॥ ३१ ॥
सत्यधर्मीया
कृष्ण तन्नामन् ॥ ३१ ॥
सुमनोरञ्जिनी
स्तोक कृष्ण इति कश्चित् ॥ ३१ ॥
पश्यतैतान् महाभागान् परार्थैकान्तजीविनः ।
वातवर्षातपहिमान् सहन्तो वारयन्ति नः ॥ ३२ ॥
पदरत्नावली
परार्थैकान्तजीविनः परेषामर्था एवैकान्तं नियतं यथा तथा जीवितुं शीलं येषां ते तथा । नोऽस्माकं वातवर्षातपहिमान् वारयन्ति ॥ ३२ ॥
सत्यधर्मीया
परेषामर्था एवैकान्तं नियतं यथा तथा जीवितुं शीलं येषां ते परार्थैकान्तजीविनः । णिनिरयम् । वातवर्षातपहिमानातपश्च हिमं च ते, वर्षेण सहिते आतपहिमे येषां ते च ते वाताश्च वातवर्षातपहिमास्तान् । अनेन हिमशब्दस्य नपुंसकत्वाद्धिमानिति कथमिति शङ्कापरासोऽवसेयः । सहन्तः । धात्वन्तरस्य चुरादौ पठितस्य परस्मैपदत्वात् स एवायं नागः सहति कलभेभ्यः परिभवमित्यादेः । तान्वातादीन्नो वारयन्ति स्वयं सोढ्वाऽस्मान्रक्षन्तीति भावः
॥ ३२ ॥
सुमनोरञ्जिनी
परार्थाय परप्रयोजनाय एकान्तेन नियमेन अनन्यमनसा वा जीवनं येषां तान् द्रुमान् पश्यतेति । तदेवाह । वातवर्षादीन् स्वयं सहंतो नो ऽस्माकं तान् वारयन्ति ॥३२॥
अहो एषां वरं जन्म सर्वप्राण्युपजीवनम् ।
सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ ३३ ॥
पदरत्नावली
सुजनस्य अर्थिन इव येषामर्थिनो विमुखा न यान्ति । किन्तु छायाफलादिभिः सत्कृता एव भवन्ति ॥ ३३ ॥
सत्यधर्मीया
एषां वृक्षाणां सर्वप्राण्युपजीवनमिति जन्म वरम् । सुजनस्य समीपे आयाता अर्थिनो यथा न विमुखा यान्ति तथाऽर्थिनो विमुखा न यान्ति फलादिभिः प्रीणयन्तीति तात्पर्यम् । वयः पक्षिणो मुखं येषां ते विमुखाः पक्ष्यादयोऽर्थिनो निवृत्तिमन्तो न यान्ति फलं विना न गच्छन्तीत्यर्थः । विमुखा इत्यस्यावृत्तिर्वा ॥ ३३ ॥
सुमनोरञ्जिनी
सुजनस्य सज्जनस्य जन्मेव एषां द्रुमाणां जन्म वरम् । कुतः । यतः सर्वप्राणिन उपजीवंत्यनेनेति, सर्वप्राणिनामुपजीवनं येनेति वा । तथाविधम् । अतः । तदाह । अर्थिनो येषां विमुखा न यांतीति ॥ ३३ ॥
पत्रपुष्पफलच्छायामूलवल्कलदारुभिः ।
गन्धनिर्यासभस्मास्थितोकमैः१ कामान् वितन्वते ॥ ३४ ॥
पदरत्नावली
निर्यासः घनीभूतरसः । अस्थि सारांशः । तोक्मैर् अङ्कुरैः ॥ ३४ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे विंशोऽध्यायः ॥
सत्यधर्मीया
तदेव देवो विशदयति ॥ पत्रेत्यादिना ॥ निर्यासो हि द्रढिमरसस्तोक-माण्यङ्कुराः शष्पाणि च । तोकमानि चेत्यष्टमपञ्चकाष्टमखण्डव्याकृतौ तोकमाण्यङ्कुरा इत्युक्तेः । कामानपेक्षितान्वितन्वते कुर्वन्ति ददतीति यावत् ॥ ३४ ॥
सुमनोरञ्जिनी
कैर् अर्थिजनार्थं पूरयन्तीति तत्राह ॥ पत्रेति ॥ निर्यासो घनीभूतरसः । तोक्मैः पल्लवाद्यंकुरैः । अस्थीनि साराणि ॥ ३४ ॥
एतावज्जन्मसाफल्यं देहिनामिह देहिषु ।
प्राणैरर्थैर्धिया वाचा श्रेयआचरणं सदा ॥ ३५ ॥
सत्यधर्मीया
देहिष्वितरेषु प्राणिषु प्राणैस्तद्व्ययेन दध्यङादिवत् । अर्थै रन्तिदेवादिवद् धिया वाचा विदुरादिवच्छ्रेय आचरणं श्रेयसः करणमिह नृलोके देहिनां जन्मसाफल्यम् ॥३५॥
सुमनोरञ्जिनी
देहिनां जन्मनः साफल्यम् एतावदेव । किं तत् । देहिषु प्राणिषु प्राणादिभिः श्रेय आचरणमेव ॥ ३५ ॥
इति प्रवालस्तबकफलमूलदलोत्करैः ।
तरूणां नम्रशाखानां मध्येन यमुनां गतः ॥ ३६ ॥
सत्यधर्मीया
इत्येतावदेवेति गोपान्प्रति तद्भाग्यं वदन् भगवान् । प्रवालस्तबकफलमूल-दलोत्करैर्नम्रशाखानां तरूणां मध्येन यमुनां गतः सन् ॥ ३६ ॥
सुमनोरञ्जिनी
इति श्लाघयन् । प्रवालैर् नवदलैः, स्तबकैः पुष्पगुच्छैः, मूलानि जटाः, दलानि पत्राणि, तेषामुत्करैः समूहैः । नम्रशाखानां तरूणां मध्येन यमुनां गतः प्राप्तः ॥ ३६ ॥
तत्र गाः पाययित्वाऽपः सुमृष्टाः शीतलाः शिवाः ।
ततो नृप स्वयं गोपाः कामं स्वादु पपुर्जलम् ॥ ३७ ॥
सत्यधर्मीया
सुमृष्टाः शीतलाः शिवा मङ्गलदा अपो गाः पाययित्वा स्वयं पपौ । हे नृप गोपाश्च पपुः ॥ ३७ ॥
सुमनोरञ्जिनी
सुमृष्टाः पद्मादीनां सुगन्धेन, शिवा आरोग्यदाः, अपः गाः पाययित्वा, स्वयमपि पपुः ॥ ३७ ॥
तस्या उपवने कामं चारयन्तः पशून् नृप ।
कृष्णरामावुपागम्य क्षुधार्ता इदमब्रुवन् ॥ ३८ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे विंशोऽध्यायः ॥
सत्यधर्मीया
क्षुधार्ताः पदमेकमनेकं च । आद्ये पक्षे हलन्ततया टाबन्तः शब्दः ॥३८॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां दशमस्कन्धपूर्वार्धे विंशोऽध्यायः ॥
सुमनोरञ्जिनी
तस्या यमुनायाः । क्षुधार्ताः कृष्णेन करिष्यमाणकुमारिकावसनग्रहण- कौतूहलैरगृहीतभोज्यैरेवागमनात् ॥ ३८ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्यां विंशोऽध्यायः ॥ १०-२० ॥