इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना
॥ अथ एकोनविंशोऽध्यायः ॥
श्रीशुक उवाच—
इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना ।
न्यविशद् १वायुनाऽऽवीतं सगोगोपालकोऽच्युतः ॥ १ ॥
पदरत्नावली
स्वस्वयोग्यतानुसारेण हरौ ज्ञानसाधनं भक्तिः कर्तव्येत्यभिप्रायेण शरदि सुन्दरवृन्दावनसञ्चारिणः कृष्णस्य वेणुनादमाकर्ण्य गोपवनिताभिर्गीतं तद्वर्णनं निरूप्यतेऽस्मिन्नध्याये । तत्र व्रजवल्लवीनां हरौ प्रचुरप्रेमप्रवाहं वक्तुमुपक्रमते इत्थमिति ॥ शरदा स्वच्छं निर्मलं जलं यस्मिन् तत् तथा । पद्माकराणां सुगन्धोऽस्यास्तीति पद्माकरसुगन्धी तेन वायुना वीतं परिवृतम् । न्यविशत्, वनमिति शेषः । ‘नेर्विशः’ इति सूत्रेण लौकिकस्यात्मनेपदविधानं न तु छान्दसस्य । देशतः कालतो गुणतश्च च्युतिरहितत्वादच्युतः । अच्युत इत्यनेन वनविलासाद्यभावेऽपि सुखच्युतिर्नास्तीति सूचयति ॥ १ ॥
सत्यधर्मीया
॥ हरौ रतिमात्रं कण्ठमणिर्वैकुण्ठाप्तौ मतिमनतिहायेति निरूप्यतेऽत्राध्याये । तत्रादौ गोपीनां नाथे प्रेमप्रवाहं वक्तुमुपक्रमते ॥ इत्थमिति ॥ शरदा स्वच्छजलं निर्मलं जलं यस्मिन् । शोभनश्चासौ गन्धश्च सुगन्धः । पद्माकराणां तटाकानां सुगन्धोऽस्यास्तीति पद्माकरसुगन्धी तेन वायुना आवीतं परिवृतं वनमिति शेषः । सगोगोपालको गावश्च गोपालकाश्च तैः सहितः सगोगोपालकोऽच्युतो न मारव्यापारपारवश्येन प्रवेशोऽपि तु स चैच्छिक इति ध्वनयत्यच्युत इत्युच्चरन्निति ज्ञेयम् । न्यविशन्न्यविशत ॥ १ ॥
सुमनोरञ्जिनी
यया कयाचन रीत्या भगवति भक्तिः संपादनीयेति शिक्षयन् भगवतः श्रीकष्णपादारविन्दे समर्पितसर्वस्वानां गोपीनां भक्त्यतिशयो निरूप्यतेऽस्मिन्नध्याये । पद्माकरेभ्यः निमित्तेभ्यः सुगन्धिना वायुना आवीतं युक्तम् । शरदा स्वच्छं निर्मलं जलं यस्मिन् तत् । वनमिति शेषः ॥ १ ॥
कुसुमितवनराजि शुष्मिभृङ्गद्विजकुलघुष्टसरस्सरिन्महीध्रम् ।
मधुपतिरवगाह्य चारयन् गाः सहपशुपालबलश्चुकूज वेणुम् ॥ २ ॥
पदरत्नावली
कुसुमितानि सञ्जातप्रसूनानि च तानि वनानि पादपाश्च, तेषां राजयो यस्मिन् तत् तथा । शुष्मिभिर्मत्तैस् तेजोवद्भिश्च भृङ्गैर्द्विजगणैः पक्षिवृन्दैश्च घुष्टानि शब्दितानि सरांसि सरोवराः, सरितः स्रोतस्वत्यः, महीध्रा धरणिधरा यस्मिन् तत् तथा । ‘द्युम्नमोजः शुष्म तेजः’ इत्यभिधानम् । मधुपतिर्माधव एवंविधं वनमवगाह्य प्रविश्य सहपशुपालबलो गोपालबलरामान्वितो गाश्चारयन् वेणुं चुकूज नादयामास ॥ २ ॥
सत्यधर्मीया
कुसुमितानि सञ्जातपुष्पाणि । तारकादिः । वनानां वृक्षाणाम् । वनं कानननीरयोः । प्रवासे निलये चापि वनं प्रस्रवणेऽपि च । बहुवृक्षे नले रौद्रे शुभ्रे काष्ठान्तकीटके । अपक्वमृण्मये पात्रे वनशब्दं प्रचक्षत इति विश्वः । अवान्तरवनानां वा राजयः पङ्क्तयस्ता यस्मिंस्तत् । शुष्मिणो बलिनः । यथोक्तमृग्भाष्यटीकाटिप्पणेषु । संयन्मदाय शुष्मिणे बलिनेऽस्मै शुष्मिणो बलिने ओजो वाजः शव इत्याद्यष्टाविंशतिसङ्ख्याकेषु बलनामसु पठितस्य शुष्मशब्दस्य बलमर्थ इति भाव इति । भृङ्गा द्विजा इतरे तेषां कुलेन घुष्टानि गतमष्टमे । शब्दितानि सरांसि सरितो नाड्यश्च महीध्राः पर्वताश्च यस्मिंस्तत् । मधुपतिरेवंविधं वनमवगाह्य विलोड्य सहपशुपालबलो गोपालबलरामसहितो गाश्चारयन्वेणुं चुकूज ध्वनयामास ॥ २ ॥
सुमनोरञ्जिनी
कुसुमिते पुष्पिते वने, राजत इति राजी राजनं वा येषामिति तथोक्ताः । ते च ते शुष्मिणो मत्ता भृङ्गा द्विजाः कलहंसादयः पक्षिणस् तेषां कुलैर् घुष्टाः शब्दिताः सरांसि सरितो नद्यः महीध्राः पर्वताश्च यस्मिन् तत् । कुसुमितवनराजिषु शुष्मिणो ये भृङ्गादय इति वा । अत्र वनशब्देन कतिपयवृक्षसमुदायात्मकावान्तरवनानि बोध्यानि । कुसुमितवनराजयश्च ते शष्मिभृङ्गद्विज-कुलघुष्टाश्च ते सरःसरिन्महीध्रा यस्मिन्निति वा । वनराजिशुष्मिणः वनपङ्क्तिसमीपवर्तिन इति वा । शुष्ममग्निसमीपयोरित्यभिधानात् । कुसुमितवनराजीति भिन्नं वा पदम् । मधुपतिर् माधवः । पशुपालैर् गोपैर् बलेन च सहितः सन् । एवंविधं वनमवगाह्य वेणुं चुकूजेत्यन्वयः ॥ २ ॥
तद् व्रजस्त्रिय आश्रुत्य वेणुगीतं १महोदयम् ।
काश्चित् परोक्षं कृष्णस्य २स्वसखीभ्योऽन्ववर्णयन् ॥ ३ ॥
पदरत्नावली
महस्योत्सवस्योदयो येन तन्महोदयम् । स्मरोदयम् इति केचित् पठन्ति । कृष्णस्य तद् वेणुगीतमाश्रुत्य काश्चिद् व्रजयोषितः परोक्षं दूरवर्तिनीभ्यः स्वसखीभ्यो न्यवेदयन्
॥ ३ ॥
सत्यधर्मीया
महोदयं महस्योत्सवस्योदयो येन तन् मह उत्सवस्तस्य दया दानं येन तदिति वा । वेणुगीतं तद् व्रजस्त्रियस्तद्व्रजस्त्रिय इति वाऽऽश्रुत्य काश्चित्परोक्षं दूरवर्तिनीभ्यः सखीभ्योऽन्ववर्णयन् ॥ ३ ॥
सुमनोरञ्जिनी
स्मरस्य उदय उद्रेको यस्माद् यच्छ्रवणात् । महोदय इति पाठेऽपि महः कामः । तादृशं वेणुगीतम् । आश्रुत्य काश्चिद्गोप्यः कृष्णस्य परोक्षम् । कृष्णचेष्टितमित्याकृष्यते । स्वसखीभ्योऽन्ववर्णयन् अकीर्तयन् ॥ ३ ॥
तद् वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् ।
नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप ॥ ४ ॥
पदरत्नावली
तद् वेणुगीतं वर्णयितुं कीर्तयितुमारब्धा आरब्धवत्य अपि वर्णयितुं नाशकन् । तत्र निमित्तमाह स्मरवेगेनेत्यादिना ॥ ४ ॥
सत्यधर्मीया
कृष्णचेष्टितं स्मरन्त्यस्तद्वर्णयितुमारब्धाः । कर्तरि क्तः । स्मरवेगेन विक्षिप्तमनसो नाशकन्न समर्था अभवन् ॥ ४ ॥
सुमनोरञ्जिनी
काश्चिच्च कृष्णचेष्टितं वर्णयितुमारब्धाः । कृष्णस्य स्मरन्त्यः स्मरवेगेन विक्षिप्तमनसश् चलितमनस्काः । वर्णयितुं नाशकन् ॥ ४ ॥
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं
बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दैः
वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्तिः ॥ ५ ॥
पदरत्नावली
हरेः परममङ्गलकराकारदर्शनं स्वजनसुखातिशयहेतुरित्याशयेन तस्य प्रचुरसुन्दरस्वरूपप्रकारं कीर्तयति बर्हापीडमित्यादिना । बर्हं पिच्छमेवापीडं शिरोभूषणं यस्मिन् तत् । नटवद् वरवपुः शुभाकारम् । कर्णिकारं वृक्षोत्पलम् । ‘वृक्षोत्पलः कर्णिकारः’ इति हलः । बिभ्रदिति प्रत्येकं सम्बन्धयितव्यम् । स्वपदैरङ्कितैः रमणं स्वजनरतिजनकं वृन्दावनम् ॥ ५ ॥
सत्यधर्मीया
बर्हमेवापीडं शेखरोत्तमं यस्य तत् । नटवरस्य वपुः । कर्णयोः कर्णिकारं, कल्हारं, कनककपिशं वासो, वैजयन्तीं मालां च बिभ्रद्वेणो रन्ध्रान्रन्ध्राणि छिद्राणि सन्ति येषु ते प्रदेशा रन्ध्रास्तान् । रन्ध्रं श्वभ्रं वपा सुषिरित्यमरः । अधरसुधया पूरयन्गोपवृन्दैः सह । वृद्धो यूनेत्यादिवत् । गीतकीर्तिर्वादिभिः । स्वपदरमणं स्वपदैस्तदङ्कै रमयति जनानिति तत् । वृन्दारण्यं वृन्दावनम् । गोपवृन्दैर्गीतकीर्तिरिति वा प्राविशत् । स्वामिन्पुरतः पङ्कादिकं जागृहीति गीता कीर्तिः पङ्कादिर्यस्य स इति वा । कीर्तिः प्रसादयशसोर्विस्तारे कर्दमेऽपि चेति विश्वः ॥ ५ ॥
सुमनोरञ्जिनी
कीदृग्रूपं स्मरंत्य इति तत्सूचयन्वर्णनप्रकारं दर्शयति ॥ बर्हापीडमिति ॥ बर्हः पिच्छमेव आपीडं शिरोभूषणं यस्य तत् । नटवरस्य वपुरिव वपुः । बिभ्रत् । कर्णयोः कर्णिकारं कर्णभूषणं तन्नामकपुष्पं वा बिभ्रदिति प्रत्येकं सम्बध्यते । कनकमिव स्वर्णमिव कपिशं पिङ्गटं वासः। वैजयन्तीं तत्संज्ञां मालां, वेणोः रन्ध्रान् सुषिराणि अधरसुधया पूरयन्निवेत्युत्प्रेक्षा । अधरनिहितवेणुरिति भावः । श्रीदेवीविवक्षया तु यथाश्रुतमेव । गोपवृन्दैर् गीतकीर्तिः । स्वपदैर् अंकितैः रमणं सुखकरम् । स्वपदेन रमत इति वा ॥ ५ ॥
बर्हापिच्छो वनचरवपुः कर्णयोः कर्णिकारः
सव्ये बाहौ निहितवदनः सज्जमन्यत्र हस्ते ।
भ्रूविन्यासाङ्गुलिभि रणयन् गापयन् गोपवृन्दान्
भूतग्रामं तर्हि रमयन् ब्रह्म गान्धर्वमेव ॥ ६ ॥
पदरत्नावली
बर्हैः शिखण्डैरापिच्छा आवेष्टनं यस्य स तथा । वनचरवपुः किराताकार इवाकारो यस्य स तथा । ‘शुभाकारे तनौ वपुः’ इत्यभिधानम् । कर्णयोःकर्णिकार इत्येकपदं कण्ठेकाल इतिवत् । भ्रुवोर्विन्यासः भ्रूभङ्गविशेषस् तेन सहाङ्गुलिभिः, अन्यत्र हस्ते सज्जं सक्तं रणयन्, वेणुमिति शेषः । ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः’ इति सूत्रेण अङ्गुलिभी रणयन्निति वक्तव्ये ह्रस्वत्वं छान्दसम् । गान्धर्वं ब्रह्मैव भरतशास्त्रमेव गोपवृन्दान् गापयन्निति द्विकर्मकोऽयं धातुः । भूतग्रामं प्राणिसमुदायं रमयन् तर्हि तदा वृन्दारण्यं प्राविशदिति पूर्वेणान्वयः ॥ ६ ॥
सत्यधर्मीया
बर्हैर्मयूरगरुद्भिरापिच्छा वेष्टनं यस्य सः । पिच्छा तु शाल्मले वेष्टे मण्डे चेति विश्वः । तेषां पङ्क्तिर्वा समूहो वा यस्य पङ्क्तौ । छटापूगेत्यादिः । स एव वनचरवपुर्गोपाल-कलेवरः । आन्तरङ्गिको भावस्तु नारायणतनुरिति । कर्णिकारो द्रुमोत्पलं सोऽस्यास्तीत्यर्श आद्यच् । कर्णिकारस्तु शम्याके कर्णिकारे द्रुमोत्पल इति विश्वः । तत्स्थलमाह ॥ कर्णयोरिति ॥ अलुक्त्वेनैकपदं वा । सव्ये दक्षिणे निहितं वदनं यस्य येन वा सः । अन्यत्रान्यस्मिन्वामे सज्जं सम्बद्धं वेणुं स्वयं रणयन् भ्रूविन्यासश्चाङ्गुलयश्च भ्रूविन्याससहिताश्च ता अङ्गुलयश्च ताभ्यो भीर्यथा भवति तथा गान्धर्वं ब्रह्म भरतशास्त्रं गोपवृन्दान्गोपानां वृन्दं येषु ताञ्जनान् । अथ वृन्दं निकुरम्बं कदम्बकमित्यमरः । गापयन् भ्रूविक्षेपाङ्गुलिसूचनभीत्या गोपा अस्वरतालव्यत्यासं गायन्तीति भावः । द्विकर्मकोऽयं धातुः। भूतग्रामं जनसङ्घं तर्हि तदा रमयन्वृदारण्यं प्राविशदित्यन्वयः । अङ्गुलिभी रणयन्नित्यत्र रोरि ढ्रलोप इति दीर्घाभावश्छान्दस इति वा । गान्धर्वं ब्रह्म भ्रूविन्यासाङ्गुलिभिर् अणयन्नुत्तानानुत्तानस्वरान्गमयन्ज्ञापयन्निति यावदिति वा । अणतीत्यणः पचाद्यजन्तः । अणं कारयतीत्यणयन् । प्रातिपदिकाद्धात्वर्थ इति णिच् इष्टवद्भावश्च टिस्थानिवद्भावान्नोपधावृद्धिः । कै गैशब्दे अस्मदादेच इत्यात्वेति ह्रीति पुगागमे गायन्निति भवति शतरीति मन्तव्यम् । ये भीतवद्विद्यमाना भिन्नं गानं कुर्वन्ति तान्प्रेरयन्गापयन्नित्युच्यते ॥ ६ ॥
सुमनोरञ्जिनी
वनचरा गोपाः कर्णयोः कणिकारं यस्य सः । कण्ठेकाल इतिवदेकमिति रत्नावली । अन्यत्र हस्ते वामहस्ते । सिज्जं वेणुम् । भ्रूविन्यासैर् भ्रूविलासैः सह । अङ्गुलिभी रणयन् । गोपवृन्दान् । गान्धर्वं गन्धर्वशास्त्रोक्तं ब्रह्म गानप्रभेदम् । गापयन् गानार्थं प्ररेयन् स्वयं चाङ्गुलिभिः रणयन्निति भावः । अङ्गुलीभी रणयन्निति वक्तव्यम् । ह्रस्वता तु छन्दोभङ्गभयात्कृता । अपि माषं मषं कुर्याच्छन्दोभङ्गं न कारयेदित्युक्तेः । भूतग्रामं रमयन् वनं प्राविशदिति पूर्वेणान्वयः । गान्धर्वं गन्धर्वैर्गानप्रभेदोपास्यं ब्रह्म श्रीकृष्णमिति वा ॥ ६ ॥
इति वेणुरवं राजन् सर्वभूतमनोहरम् ।
श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेमिरे१ ॥ ७ ॥
तात्पर्यम्
‘श्रीदेवी २वेणुमाविश्य रेमे कृष्णमुखाम्बुजे । पपौ च तद्गतं गीतं सुरा इतरभाण्डगा’ इति तन्त्रभागवते ॥ ७ ॥
पदरत्नावली
अभिरेभिरे आशिश्लिषुः । स्वान्तःकरणान्तःपुरे विलसन्तं निरुपमसुन्दरकलेवरं हरिं परिरेभिरे इति यावत् ॥ ७ ॥
सत्यधर्मीया
इति वेणुरवं राजन्निति श्लोके व्रजयोषितामेव वेणुरवश्रवणमुख्याधिकारः प्रतीयते तथा गोप्यः किमाचरदयं कुशलं स्म वेणुरिति श्लोके च केवलं जडवेणोरेव माधवाधरोष्ठा-मृतपानभ्रान्तिश्च भविष्यत्यत एतदुभयनिरासाय तन्त्रभागवतवाक्यं पठन्ति ॥ श्रीदेवीति ॥ श्रीदेवी रमा वेणुमाविश्य कृष्णमुखाम्बुजे रेमे । तद्गतं गीतं तद्रूपममृतं पपौ च । अत्र मुख्याधिकारिणी वेणुतनुः श्रीरेवेति भावः । सुरा इतरभाण्डगा इतरदधरसुधानास्पदं साक्षाद्यद्भाण्डं वेणुमूलं तद्गच्छन्तीति तद्गाः सुरा देवा इत्यर्थः । वेणुमूले धने पात्रे भाण्डं भूषाश्वभूषयोरिति यादवः । इतरालङ्कारगा इति वा । इतरेषां बलादीनां भाण्डानि वेणुमूलानीति वा ॥ ततश्चायं श्लोकार्थः ॥ हे राजन् सर्वभूतमनोहरं वेणुरवं श्रुत्वा सर्वा व्रजस्त्रियो वर्णयन्त्योऽभिरेमिरे । औपचारिकं व्रजनारीणामभिर-मणमुक्तप्रमाणादिति ज्ञेयम् ॥ ७ ॥
सुमनोरञ्जिनी
इति अस्मादेव हेतोः । अभिरेमिरे आननन्दुः । अभिरेभिर इति पाठे मनसा आलिलिङ्गुः ॥ ७ ॥
गोप्य ऊचुः —
अक्षण्वतां फलमिदं न परं विदामः
सख्यः पशूननुनिवेशयतोर्वयस्यैः ।
**वक्त्रं व्रजेशसुतयोरनुवेणुजुष्टं **
यैर्यैर्निपीतमनुरक्तकटाक्षमोक्षम् ॥ ८ ॥
पदरत्नावली
हे सख्यः व्रजेशसुतयोः रामकृष्णयोर् वयस्यैः सखिभिः सह पशूनभिनिवेशयतोर् वनं प्रति प्रवेशयतोर् अनुवेणु वेणुमनुवर्तमानं वेणुं वादयदित्यर्थः । अनुरक्तानां स्निग्धानां कटाक्षाणां मोक्षो विसर्गो यस्मिन् तत् तथाभूतं वक्त्रं यैर्यैर्जुष्टं सेवितं निपीतं नितरां पीतं च, दृष्टिभिरिति शेषः । तेषां तेषामक्षण्वतां चक्षुष्मतामक्ष्णोरिदमेव फलम् । परमन्यन्न विदामो न विद्मः । नपरं न विद्यते परं यस्मादित्यनुत्तमं विदाम इति वा । ‘अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदध्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे’ इत्यादिश्रुतेः
॥ ८ ॥
सत्यधर्मीया
व्रजगजगामिनीनां वर्णनप्रकारं वर्णयति ॥ अक्षण्वतामिति ॥ यैर्यैर्जनैर्दृष्टिभिर्वयस्यैः सखिभिः सह पशून् गोष्ठेऽनुवेशयतोः प्रवेशयतोर्व्रजेशसुतयो रामकृष्णयोः । एकस्य कृष्णस्यैव ग्रहणे कलङ्कमावहेयुरिति तालाङ्कस्यापि ग्रहणमिति ज्ञेयम् । अनुवेणुजुष्टम् । अनुरक्तः स्निग्धः कटाक्षमोक्षो यस्मिंस्तद् वक्त्रं निपीतं तेषां हे सख्योऽक्षण्वताम् । श्रौतपदानुकृतिः । अष्टमाष्टकद्वितीयाध्यायत्रयोविंशतिवर्गीयैवमृग्विधृताज्ञानपादानुव्याख्यानेऽक्षण्वन्तः कर्णवन्त इत्यादिना व्याख्याता चानो नुडिति सुधायाम् । साऽपि व्याकृता वाक्यार्थचन्द्रिकायाम् । तथा हि तैजसत्वादन्येभ्योऽङ्गेभ्यो व्यक्ततरं दृश्यत इति तथा च श्रूयते तस्मादेते व्यक्ततरे इवेति । तादृशाक्षियुक्ता अक्षण्वन्तस्तेषामिदं पानमेव फलं परमेतदितरन्नेति विदामः । नपरं न विद्यते परं यस्मादित्यनुत्तमं वा विदामः । हे सख्य इत्यप्रतारणीयतां ध्वनयति । तेन चादोऽर्थस्य यथार्थता च ध्वन्यते । अक्षण्वतामिति विलक्षणपदनिधानेनाक्षण्वन्तः कर्णवन्त इति श्रुत्युक्तमुक्तसमतामेतेषां च सूचयामास व्यास इति मन्तव्यम् ॥ ८ ॥
सुमनोरञ्जिनी
वर्णनप्रकारं विशदयति ॥ अक्षण्वतामिति ॥ अक्षण्वतां चक्षुष्मतां फलमिदमेव नातः परमुत्तमं फलमस्तीति विदामः विद्मः । व्रजेशसुतयोः रामकृष्णयोः । कीदृशयोः । पशून् अनुनिवेशयतोर् व्रजं प्रवेशयतोः । वक्त्रं, कीदृशम् । अनुवेणुजुष्टम् अनु पश्चाद्वेणुना जुष्टम् । वेणुना अनुजुष्टं सेवितं वा । पुनः कीदृशम् । अनुरक्तः स्नेहयुक्तः कटाक्षमोक्षः यस्मिन् तत् । अनुरागेण स्नेहेन युक्तः कटाक्षमोक्षो यथा स्यात्तथेति वा । यैर्निपीतं तेषाम् । तेषामित्यनन्तरम् अक्षण्वतामित्यारभ्य इत्येतदन्तं ज्ञेयम् ॥ ८ ॥
चूतप्रवालबर्हस्तबकोत्पलाब्ज-
मालानुरक्तपरिधानविचित्रवेषौ ।
मध्ये विरेजतुरलं पशुपालगोष्ठ्यां
रङ्गे यथा नटवरौ क्वच गायमानौ ॥ ९ ॥
पदरत्नावली
चूतानां प्रवालैः किसलयैः, बर्हस्तबकैः पिच्छगुच्छैः, उत्पलानामब्जानां च मालाभिश्चानुरक्ते संसक्ते ये परिधाने नीलपीताम्बरे ताभ्यां विचित्रौ वेषौ ययोस्तौ तथा । पशुपालगोष्ठ्यां गोपपरिषदि । ‘समज्यापरिषद्गोष्ठीसभासमितिसंसदः’ इत्यमरः । क्वच क्वचिद् गायमानौ रङ्गे नटवरौ यथा तथा यौ विरेजतुस् तयोर्वक्त्रमिति पूर्वेणान्वयः ॥ ९ ॥
सत्यधर्मीया
चूतानां प्रवालाः पल्लवास्तैः । बर्हस्तबकैः पिच्छगुच्छैः । छन्दोच्छेदाय रेफः पृथगुच्चार्यः । उत्पलानि चाब्जानि च तेषां मालाभिश्चानुरक्तं संसक्तं यत्परिधानं पीतनीलवसनं तेन विचित्रौ वेषौ ययोस्तौ । पशुपालगोष्ठ्यां गोपालकसभायाम् । समज्जापरिषद्गोष्ठीसभासमितिसंसद इत्यमरः । गावो वाचो वा तिष्ठन्त्यस्यामिति घञर्थे कः । अम्बाम्बेति षत्वम् । गौरादिङीष् । तत्रापि मध्ये क्वापि गायमानौ गायन्तौ रङ्गे नटवरौ यथा तथा यौ विरेजतुस्तयोर्वक्त्रमित्यतीतेनान्वयः । मध्येवीत्येकं पदं वीनां पक्षिणां मध्ये मध्येवि पारे मध्ये षष्ठ्या वेत्यव्ययीभावः । पशुपालगोष्ठ्यां रेजतुरित्यन्वयः । तेऽपि पक्षिणस्तत्र स्वत एवायाता इति वा क्रीडार्थं सङ्गृहीता इति वा तन्मध्य इत्युपपन्नम् । एतेन गोष्ठ्यामिति गोष्ठ्यैव तन्मध्य इति सम्भवत्यर्थे मध्ये इत्यतिरिक्तमिति निरस्तम्
॥ ९ ॥
सुमनोरञ्जिनी
चूतप्रवाला नवाम्रपल्लवाश्च, बर्हस्तबकाः पिच्छगुच्छाश्च, उत्पलानां नीलोत्पलानाम् अब्जानां च मालाश्च, अनुरक्तपरिधानानि कुसुम्भारुणप्रावरणानि च तैर् विचित्रवेषौ नानावेषधारिणौ । पशुपालगोष्ठ्यां क्व च गोपशालायां गायमानौ विरेजतुः ॥ ९ ॥
गोप्यः किमाचरदयं कुशलं स्म वेणुः
दामोदराधरसुधासरसाग्य्रगेयम् ।
**भुङ्क्ते स्वयं यदवशिष्टरसौघमार्गे **
हृष्टत्वचोऽश्रु मुमुचुस्तरवः सदर्भाः ॥ १० ॥
पदरत्नावली
काचिदेवं कीर्तयति गोप्य इति ॥ हे गोप्यो ऽयं वेणुः कुशलं स्म पुण्यं वृत्तं किमाचरत् ? पूर्वजन्मनि किं महत्तप आचचारेति यावत् । ‘स्मृतौ वृत्ते निषेधे स्म’ इति यादवः । यो वेणुर् दामोदरस्य यावधरौ ओष्ठौ तयोः सुधया अतिमधुरामृतेन सरसं सरागमग््रयमतिश्रेष्ठं गेयं गीतं स्वयमेव भुङ्क्ते आस्वादयति । येन वेणुना पीतावशिष्टो यो रसौघो ऽतिमधुरगानरसप्रवाहस्तद्वान् यो मार्गः पन्थास्तस्मिन् विद्यमानाः सदर्भा दर्भाङ्कुरैः सहितास् तरवोऽपि हृष्टत्वचो ऽस्मद्वंश्योऽयमिति रोमाञ्जितसर्वगात्रा अश्रु सुमधुरमधुधाराप्रस्रवणमिषेणानन्दाश्रूणि मुमुचुः । अत्र तन्त्रभागवतवचनानुसारेण महालक्ष्मीरेव वेणुरूपं धृत्वा कृष्णमुखाम्बुजगतं गीतम् अधरामृतरसं च स्वयमेव स्वादयामासेत्यवसेयम् । तदुक्तम् - ‘श्रीदेवी वेणुमाश्रित्य रेमे कृष्णमुखाम्बुजे । पपौ च तद्गतं गीतं सुरा इतरभाण्डगाः’ इति । सुरा ब्रह्मरुद्राद्यमरा इतरभाण्डगा वेण्वितरकौस्तुभाद्याभरणेषु स्थिता इत्यर्थः । ‘वेणुमूले धने पात्रे भाण्डं भूषाश्वभूषयोः’ इति यादवः
॥ १० ॥
दुर्घटभावदीपिका
हे गोप्यः । यः सरसाग्य्रगेयं सरसा ज्ञानरसेन सहितास्तेषामग्य्रैर्गेयं स्तुत्यम् । दामोदराधररसं दामोदरस्य कृष्णस्याधरोष्ठरसं स्वयमेव भुङ्क्ते । यदवशिष्टरसौघमार्गे यत्पीतावशिष्टो दामोदररसौघो यस्मिन् यदवशिष्टरसौघः । यदवशिष्टरसोघश्चासौ मार्गश्च यदवशिष्टरसौघमार्गस्तस्मिन्यदवशिष्टरसौघमार्गे विद्यमानाः सदर्भास्तरवोऽस्मद्वयस्येन वेणुना दामोदराधरोष्ठरसपानं कृतमिति सन्तोषेण हृष्टत्वचः सन्तोऽश्रुं मुमुचुः । सोऽयं वेणुः किं कुशलं पुण्यमाचरत्स्मेति । अत्र वेण्वादिशब्देन वेण्वादिजीवा ग्राह्यास्तेनाचेतनानां वेण्वादीनां कथं दामोदराधरोष्ठरसपानादिकमिति शङ्काऽनवकाशः । अचेतनेषु चेतनानां प्रवेशेन दामोदराधरोष्ठ-रसपानादिकमसम्भावितमित्याशङ्क्याचेतनेषु वेण्वादिषु प्रवेशेन चेतनानां महालक्ष्म्यादीनां दामोदराधरोष्ठरसपानमस्ति । अतो नासम्भावितमिति परिहारमभिप्रेत्याचेतनेषु वेण्वादिषु प्रवेशेन चेतनानां लक्ष्म्यादीनां दामोदराधरोष्ठरसपानमस्तीत्यस्मिन्नर्थे तात्पर्यमुक्तम् । तस्यार्थः । देवी श्रीकृष्णमुखाम्बुजे विद्यमानं वेणुमाविश्य रेमे । तद्गतं वेणुगतं गीतं गानाभिव्यक्तकृष्णाधरोष्ठरसं पपौ च । सुरा इतरभाण्डगा वेण्वितरपाञ्चजन्यशङ्खादिभाण्डं प्रविष्टाः पाञ्चजन्यशङ्खादिगतकृष्णाधरोष्ठरसं पपुरिति । एतेन वेणुशब्देन लक्ष्मीग्रहणे तस्या भार्यात्वेन कृष्णाधरोष्ठरसपानस्य युक्तत्वेना-सम्भावितत्वाभावाद्वेणुः किं कुशलमाचरदिति प्रश्नोऽनुपपन्न इति चोद्यं परास्तम् ॥ १० ॥
सत्यधर्मीया
हे गोप्य इति काश्चित्सम्बोध्य काचिद्वक्ति । अयं वेणुः किं कुशलं सुकृतमाचरच् चचार स्मातीते जन्मनि । स्मातीत इति विश्वः । प्राक् । कुशलं शिक्षिते क्षेमपर्याप्तसुकृतेषु चेति विश्वः । केनेत्थमूहसि मोहनदेह इत्यत आह ॥ दामोदरेति ॥ दामोदरस्य यावधरावोष्ठौ तयोः सुधयाऽमृतेन स समो रसः सुधासरसोऽग्य्रैः श्रेष्ठैर्ब्रह्माद्यैर्गेयो गातुमर्हश्च तमोष्ठसम्बन्धिसुधारसममग््रयगेयं भुङ्क्ते स्वयं पिबतीत्यर्थः । सशब्दस्य समार्थकत्वं कथमिति सखाऽपि सपत्नः सन्नावकाशं दिशेत् तव प्रष्टुं हृष्टत्वचः सन्त इव सदर्भास्तेषामेव रोमञ्चरूपता ज्ञेया । ते यथाऽश्रु आनन्दोदकं मुञ्चन्ति तथा तरवो वृक्षा यदवशिष्टरसौघमार्गे येन वेणुनावशिष्टस्तत्पूर्वरितो यो रसौघो रसप्रवाहस्तद्वान्यो मार्गः पन्थास्तस्मिन्नश्रुरसविशेषं वाऽन्वयः ॥ १० ॥
सुमनोरञ्जिनी
हे गोप्यो ऽयं वेणुर् वेणुस्थिता रमा । किं किञ्जातीयम् । कुशलं सुकर्म । आचरत्स्म । कुतः । यतः दामोदरस्य या अधरसुधा तया सरसं रसवद् अत एवाग्य्रं गेयं गीतं स्वयं भुङ्क्ते अनुभवति । अतः । अग्रगेयमित्यपि पठन्ति । तदा दामोदराधरसुधायां सरसा सानुरागा अग्रगा सर्वस्त्रीरत्नभूता रमापि इयम् एतद्वेणुस्थिता सती दामोदराधरसुधासरसाग्रगेयं स्वयं भुंक्ते यतोऽत एतस्या भोगाधिष्ठानभूतो वेणुः किं कुशलम् आचरदिति आवृत्या योजनीयम् । दामोदराधरसुधायां याः सरसाः साभिलाषास् तासां मध्ये अग्रगा श्रेष्ठा अग्य्रत्वेन तिष्ठन्ती वा श्रीदेवी, तयैव ईयं प्राप्यं यतोऽतः दामोदराधरसुधासरसाग्रगा रमा । दामोदराधरसुधासरसाग्रगेयं स्वयं भुङ्क्ते खलु । परं तु इयम् एतद्वेणुस्थिता सती भुंक्ते अतोऽयं वेणुः किं कुशलम् आचरदिति वा । येन वेणुना अवशिष्टो ऽवशेषितो यो रसस् तस्य ओघः प्रवाहो यस्मिन् तस्मिन्मार्गे विद्यमानाः । सदर्भा दर्भैर् अङ्कुरैः सहिताः सकुशा वा, तरवोऽपि । अश्रुमानन्दबाष्पं मुमुचुः । वेणुं वादयतः श्रीकृष्णस्य मार्गे विद्यामानास् तरवोऽपि तद्गीताकलनानन्दनिर्भरा आनन्दजलं मधुधारामिषेण मुमुचुरिति भावः । तदेतत्सर्वमुक्तमाचार्यचरणैः–
श्रीदेवी वेणुमाश्रित्य रेमे कृष्णमुखाम्बुजे ।
पपौ च तद्गतं गीतं सुरा इतरभाण्डगाः ॥ इति तन्त्रभागवत इति ।
इतराणि यानि भाण्डानि भूषणानि कौस्तुभादीनि तद्गाः सुराः । गीतं पपुरित्यर्थः । भाण्डं भूषणमात्रेऽपीति विश्वः । भाण्डं भूषाश्च भूषयोरिति च रत्नमाला । सुरा इत्यनेन तरवः सदर्भा इत्यस्य तात्पर्यं वर्णितम् । सुरा देवा इतराणि वेणुव्यतिरिक्तानि भाण्डानि भाजनानि तरुदर्भादीनि तेषु गच्छन्ति तिष्ठन्तीति तथाविधाः सन्तो गीतं पपुरित्यप्युपदिशन्ति ॥ १० ॥
वृन्दावनं सखि भुवो वितनोति कीर्तिं
यद् देवकीसुतपदाम्बुजलब्धलक्ष्मि ।
गोविन्दवेणुमनुमत्तमयूरनृत्यं
प्रेक्ष्यादृतानुचरितान्यसमस्तसत्त्वम् ॥ ११ ॥
पदरत्नावली
हे सखि यद् यतो वृन्दावनं देवकीसुतस्य पदाम्बुजे, ताभ्यां लब्धा लक्ष्मीः श्रीर्येन तद् देवकीसुतपदाम्बुजलब्धलक्ष्मि । लक्ष्मेति केचित् । लक्ष्म चिह्नम् । गोविन्दस्य मेघश्यामस्य कृष्णस्य वेणुमनु वेणुनादमनुसृत्य मत्तानां मयूराणां नृत्यं प्रेक्ष्य आदृताः सादराश्च अनुकूलं चरितं येषां ते तथा कृष्णचरितानुकूलचरिताश्चान्ये मनुष्यविजातीयाः समस्ताः सत्वा जन्तवो यस्मिन् तद् आदृतानुचरितान्यसमस्तसत्वम् । ‘द्रव्यासुव्यवसायेषु सत्वमस्त्री तु जन्तुषु’ इत्यमरः । ‘आदृतौ सादरार्चितौ’ इति च । अतो भुवो भूमेः कीर्तिं वितनोति विस्तारयति ॥११॥
सत्यधर्मीया
काश्चित्काञ्चित्प्रति कथयन्ति । अथ का त्वं, चिकीर्षसि च किं मुनिवर्येतिवदनङ्गबाधयाऽनङ्गस्मरणेन बहूः प्रत्यप्येका प्राहैवमित्याह ॥ सखीति ॥ हे सखि वृन्दावनं यद्यतो देवकीसुतपादाम्बुजलब्धलक्ष्मि देवकीसुतस्य पदाम्बुजे ताभ्यां लब्धा लक्ष्मीर्येन तत् । लक्ष्मेत्यपि लक्षणम् । लब्धसम्पल्लब्धचिह्नमित्युभयत्रार्थः । गोविन्दवेणुं तत्स्वरमन्वनुसारेण मत्ताः । अनेन गोविन्दस्य मेघसमतासमता तत्स्वरेणैतत्स्वरस्य सूच्यते । ते च ते मयूरास्तेषां नृत्यं च प्रेक्ष्यादृतान्यनुचरितान्येतदनुसारीणि चरितानि येषां तान्यन्यानि सत्त्वानि प्राणिनो यस्मिंस्तत् । सत्त्वं प्राणिष्विति विश्वः । आदृतौ सादरार्चितावित्यमरः । अतो भुवः कीर्तिं विस्तारयति । क्व च गायमानाविति पर्यन्तं किञ्चिन्मर्यादयोक्तवत्योऽत उत्तरं निर्लज्जा जनाः किं वा वदन्तु न इत्येकं प्रकृत्य स्तुवन्तीति तात्पर्यमवधेयम् । वनत्वेन पदाम्बुजलब्धसम्पत्कत्वं युक्तं, गोविन्देति वदत्सुदतीनां किञ्चिदेष्यज्ज्ञत्वं च सूचितमिति ज्ञेयम् । तन्नाम्न उत्तरत्र शचीशवितार्यत्वाल्लोकदृष्ट्येति
॥ ११ ॥
सुमनोरञ्जिनी
अन्याः काश्चिदाहुः । हे सखि वृन्दावनं भुवः भूमण्डलस्य कीर्तिं स्वर्गाद्यपेक्षयाऽतिशयितं यशः वितनोति । कस्मात् । यद् देवकीसुतस्य पदाम्बुजेन अङ्कितेन लब्धा लक्ष्मीः शोभा येन तत् । अतः । गोविन्दस्य वेणुं वेणुस्वरम् अनु अनुसृत्य प्रवृत्तं मत्तमयूरीणां नृत्यं प्रेक्ष्य । आदृतानि स्वीकृतानि । क्रियमाणानीति यावत् । अनुचरितानि नृत्यानुकूलता-लमृदङ्गाद्यनुकरणानि यैस्तानि च । अन्यानि मयूरातिरिक्तानि समस्तसत्वानि प्राणिनः यस्मिन् तत् । समस्तानि सत्वानि वेणुनादम् अनुसृत्य प्रवृत्तमत्तमयूरनृत्तानुकूलतालमृदङ्गादिशब्दमनुकुर्वन्ति स्मेति भावः । अत्र मत्तपदेन नीलनीरदश्यामे श्रीकृष्णे मयूराणां मेघभ्रान्त्या नर्तनं युक्तमिति व्यञ्जयति
॥ ११ ॥
धन्याः सुमूढमतयोऽपि हरिण्य एता-
यन्नन्दनन्दनमुपात्तविचित्रवेषम् ।
आपीय १वेणुरचितं च सकृष्णसाराः
पूजां दधुर्विरचितां प्रणयावलोकैः ॥ १२ ॥
पदरत्नावली
सुष्ठु मूढा कार्याकार्यविवेकरहिता मतिर्यासां ताः सत्योऽपि । सकृष्णसारा निजकान्तान्विताः । वेणो रचितं निस्सृतं स्वरं चापीय आस्वाद्य प्रणयसहितैरवलोकैर्विरचितां निर्मितां पूजां सम्मानं दधुर् बभ्रुः । उन्नतमस्तकत्वाद् दधुरित्युक्तिः । अतो धन्याः ॥ १२ ॥
दुर्घटभावदीपिका
पूजां दधुर्विरचितां प्रणयावलोकैरित्येतत् प्रणयावलोकैः स्नेहसहितावलोकै-र्विरचितां कृतां पूजां दधुर्धृतवत्यो न त्यक्तवत्य इति यावदिति व्याख्येयम् । एतेन कृतस्य करणायोगात् प्रणयावलोकैः कृतां पूजां चक्रुरिति कथनमनुपपन्नमिति दूषणं परिहृतम् । दधुरित्यस्य चक्रुरित्यर्थ इत्यनङ्गीकारात् ॥ १२ ॥
सत्यधर्मीया
एता हरिण्यः कुरङ्ग्यः सुमूढमतयः पशुत्वात्सुमूढा कार्याकार्यविचारातिमन्दा मतिर्यासां ताः सत्योऽपि यद्यत उपात्तविचित्रवेषं नन्दनन्दनं वेणुरिणितं रणितं रचितमिति समार्थाः पाठाः स्वरसाः । आपीय कर्णपुटैरास्वाद्य सकृष्णसाराः सस्वपतयः । अनेन स्वपतीननागतानागतां-श्चेदपि तद्वत्सहेयुरिति च कटाक्षयन्ति ता इति ध्वनयति । प्रणयावलोकैः सस्नेहनिरीक्षणैर्विरचितां निर्मितां पूजां सपर्यामिदं पर्यायतो दधुः । उद्धृतोत्तमाङ्गतया दधुरित्युक्तिः । अतो धन्याः । धन्या इत्यनेन कृष्णमतित्वेऽपि किन्न हरिमतयस्ता इति शङ्कातङ्कः । धन्यो हरिर्यासामस्तीत्यर्श आद्यचि कृष्णस्य हर्यात्मकत्वात्तन्मतिमत्त्वे तन्मतिमत्त्वमिति सूच्यते । अनपेक्षो गुणैः पूर्णो धन्य इत्युच्यते बुधैरिति शब्दनिर्णय इति चतुर्थतात्पर्योक्तेः । त्वं धन्यस्त्वमाश्चर्य इत्यादेः। येनैवमस्मन्नायकादयो धन्या इति परिदृश्यमानाः सुमूढमतय इत्यप्यान्तरङ्गिको भावो भामिनीनां बोध्यः ॥ १२ ॥
सुमनोरञ्जिनी
एता हरिण्यः । सु अत्यन्तं मूढा विवेकरहिता मतिर् बुद्धिर्यासां तथाविधा अपि धन्याः कृतार्थाः । कुतः । यतः यस्मात् सकृष्णसाराः कृष्णसारेण स्वपुरुषेण सहिताः सत्यो वेणुना रचितं गीतम् । वेणुरणितमित्यपि पाठो दृश्यते । श्रवणपुटाभ्यामापीय प्रतिदिनम् उपात्ताः स्वीकृता विचित्रा वेषा येन तं नन्दनंदनमुद्दिश्य । प्रणयावलोकैः सप्रेमनिरीक्षणैर् ह्यस्तने विरचितामेव पूजां पुनर्दधुश् चक्रुः । अत इति । स्वस्वपतिभिः सहिता हरिण्यः प्रणयाव-लोकलक्षणपूजां श्रीकृष्णे पुनः पुनः वितेनुः । अतो धन्याः । वयं तु तस्मिन्सप्रणया अपि पतीनां मूढत्वेन तैः सार्धं पुनः पुनः कर्तुं न शक्नुमः । अतो अधन्या इति भावः ॥ १२ ॥
कृष्णं निरीक्ष्य वनितोत्सवरूपसारं
श्रुत्वा च तत्क्वणितवेणुविचित्रगीतम् ।
देव्यो विमानगतयः स्मरनुन्नसारा
भ्रश्यत्प्रसूनकबरा मुमुहुर्विनीव्यः ॥ १३ ॥
पदरत्नावली
वनितानामुत्सवभूतं रूपसारं स्थिरसौन्दर्यं यस्य स तथा तम् । ‘रूपं स्वरूप-सौन्दर्यस्वभावेषु मृगे तथा’ इत्युत्पलमाला । ‘सारो बले स्थिरांशे च’ इति यादवः । तेन क्वणितः शब्दितो यो वेणुस्तस्य विचित्रम् अतिचित्रकरनानाप्रकारं गीतम् । ‘चित्रमाश्चर्यलेखयोः’ इति यादवः । विमानगतयो विमानस्था देव्यो देवस्त्रियः स्मरनुन्नो मन्मथापहृतः सारो धैर्यं यासां तास्तथा । भ्रश्यन्ति प्रसूनानि येभ्यस्ते भ्रश्यत्प्रसूनाः, भ्रश्यत्प्रसूनाः कबराः केशविन्यासा यासां तास्तथा । ‘कबरः केशविन्यासे’ इत्यभिधानम् । विगताः स्रस्ता नीव्यो वस्त्राणि यासां तास्तथा । ‘नीवी वस्त्रांशुकग्रन्थ्योः’ इति यादवः ॥ १३ ॥
सत्यधर्मीया
वनितोत्सवरूपसारं वनितानामुत्सवो येन तद्रूपं येषां तेषु सारं श्रेष्ठं कृष्णं निरीक्ष्य दृष्ट्वा । तेन क्वणितः शब्दितो यो वेणुस्तस्य विचित्रं नानाविधं स्वरोत्तरतानुत्तरतायापनेनाद्भुतं गीतं श्रुत्वा । विमानगतयो विमानस्थाः । स्मरनुन्नो मन्मथमथितः सारो धृतिर्यासां ताः । भ्रश्यन्ति प्रसूनानि येभ्यस्ते कबराः केशपाशा यासां ताः । कबरः केशपाशः स्यात्कबरं लवणाम्लयोः । कबरी केशविन्यासशाकयोरिति हैमः । विनीव्यो विगता नीव्यो वस्त्राणि तद्ग्रन्थयो वा यासां ताः सत्यो मुमुहुः । नीवी वस्त्रेंऽशुकग्रन्थ्योरिति यादवः । नारीणां पारवश्यान्न परस्परश्लोकसङ्गमने मनः खेदनीयमिति केचित् । धन्या इति चान्वय इति केऽपि ॥ १३ ॥
सुमनोरञ्जिनी
वनितानाम् उत्सवो यस्मात् तच्च तद् रूपसारं साररूपं श्रेष्ठसौन्दर्यं यस्य तमित्यर्थः । कृष्णं निरीक्ष्य । तेन क्वणितः सन्नादितः यो वेणुस् तत्करणकं यद्विचित्रगीतं नानास्वर-मिश्रितं गीतं च श्रुत्वा । विमानैर् गतिर् गमनं यासां ता देव्यः देवस्त्रियः । स्मरेण नुन्नं नष्टं सारं स्थैर्यं मनःस्थैर्यं यासां तास् तथा । भ्रश्यन्ति प्रसूनानि पुष्पाणि येभ्यस्तथाविधाः कबराः केशपाशा यासां तास्तथाविधाः । विगता विगलिता नीव्यो यासां तथाविधाः सत्यो मुमुहुः
॥ १३ ॥
गावश्च कृष्णमुखनिर्गतवेणुगीत-
पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः ।
शावाः स्रुतस्तनपयःकवलाः स्म तस्थु-
र्गोविन्दमात्मनि दृशाऽश्रुकणान् स्रवन्त्यः ॥ १४ ॥
पदरत्नावली
उत्तभितकर्णपुटैर् उन्नमितश्रोत्ररूपपत्रैः । कवला आसां सन्तीति कवलाः । आस्यस्थितयवसग्रासा इत्यर्थः । अर्शआद्यजन्तशब्दोऽयम् । ‘अजाद्यतष्टाप्’ इति सूत्रेण टाप्प्रत्यये च सति कवला इति रूपं सिद्ध्यति । गोविन्दमात्मनि हृदि स्म स्मरन्त्यः दृशा नेत्रेण प्रमोदा-श्रुकणान् स्रवन्त्यः । ‘शावाः स्नुतस्तनपयःकवलाः’ इति पाठे शावा वत्साश्च स्तन्यपानप्रवृत्ता गीतामृतमुन्नमितकर्णपुटैः पिबन्तः स्नुतपयःकवलाः केवलं स्तनेभ्यः संस्रुतक्षीरग्रासा मुखेषु येषां ते तथा तस्थुरित्यन्वयः ॥ १४ ॥
सत्यधर्मीया
गावः शावाः स्ववत्सास्तत्स्मरणेन स्रुतं स्तनपयः स्रुताः कबला मुखस्थापितयवसग्रासा यासां ताः । ग्रासस्तु कबलः पुमानित्यमरः । गोविन्दमात्मनि स्वमनसि प्रस्थाप्य दृशा अश्रूणि स्रवन्त्य उत्तभितकर्णपुटैरुत्तभितानि स्तब्धीकृतानि कर्णपुटानि तद्रूपपत्राणि तैः । ग्रसितस्कभितोत्तभितेति निपातनादिडागमो वैदिके तत्प्रायत्वादत्रानुवादस्तस्यैवेति ज्ञेयः । पिबन्त्यः सत्यस्तस्थुः कर्तव्यमूढा अवतस्थिर इति भावः । स्म स्मरन्त्य इति वा । शावा इति पाठे तेऽपि पिबन्तोऽश्रुकणान्दृशा स्रवन्तो गोविन्दमात्मनि स्म स्मरन्तस्तस्थुरिति योजना ॥ १४ ॥
सुमनोरञ्जिनी
उत्तभितैर् उन्नमितैः कर्णपुटैः । कृष्णमुखनिर्गतवेणुगीताख्यं पीयूषं पिबन्त्यः । सानन्दनम्रतनवः कवलाः कवलसहिताः । शावाः स्रुतस्तनपयःकवला इति पाठे तु शावा वत्साः । स्रुतं यत् स्तनपयस् तत्कवला गृहीतपयोलक्षणकवलमात्रा एव तस्थुरित्यर्थः । गोविन्दम् आत्मनि हृदि कृत्वा ॥ १४ ॥
प्रायो बताम्ब मुनयो विहगा वनेऽस्मिन्
कृष्णेक्षणास्तदुदितं कलवेणुगीतम् ।
आरुह्य ये द्रुमभुजान् रुचिरप्रवालान्
शृण्वन्ति मीलितदृशो विगतान्यवाचः ॥ १५ ॥
पदरत्नावली
हे अम्ब बत आश्चर्यम् । कृष्णस्येक्षणं दर्शनं येषां ते तथा । विगतास्त्यक्ता अन्या वाचो यैस्ते तथा । पक्षिणां मुनीनां च कृष्णेक्षणत्वविगतान्यवचस्त्वादिभिः साम्यादेवं स्तूयते ॥ १५ ॥
सत्यधर्मीया
हे अम्ब मातो ऽस्मिन् वने ये कृष्णेक्षणा विहगा विहायसः । विह चेति विहादेशो गमेर्डच् । विहायसो विहादेशो वक्तव्य इति विहगः । रुचिरप्रवालान् मनोहरपल्लववतो द्रुमभुजान् वृक्षस्कन्धानारुह्य मीलितदृशो, विगतान्यवाचो विगतास्त्यक्ता अन्या वाचो वाण्यो यैस्ते तथा तदुदितं कृष्णोद्भूतं कलं मधुरं वेणुगीतं शृृण्वन्तीति प्रायो मुनयो बताश्चर्यम् । कृष्णेक्षणत्व-विगतान्यवचस्त्वादिभिः साम्यात्तत्त्वोत्प्रेक्षणं युक्तमिति भावः ॥ १५ ॥
सुमनोरञ्जिनी
हे अम्ब अस्मिन् वने ये विहगास् ते प्रायो मुनयः । कुतः । कृष्णेक्षणाः कृष्णे ईक्षणानि येषां ते । ये रुचिरप्रवालान् । द्रुमाणां भुजान् स्कन्धान् आरुह्य, विगता अन्यविषयव•चो येभ्यस्ते मीलितदृशश्च सन्तो, तेन कृष्णेन उदितं वेणुगीतं शृृण्वन्ति यतोऽतः । मुनयोऽपि श्रीकृष्णे दत्तेक्षणाः सन्तो विगतान्यवाचो मीलितदृशश्च भवन्ति ॥ १५ ॥
नद्यस्तदा तदुपधार्य मुकुन्दगीत-
मावर्तलक्षितमनोभवभग्नवेगाः ।
आलिङ्गनप्रमुदितोर्मिभुजैर्मुरारेः
गृह्णन्ति पादयुगलं कमलोपहाराः ॥ १६ ॥
पदरत्नावली
यदा मुकुन्देन गीतं तदा तद् उपधार्य हृद्यवधार्य, आवर्तेनाम्भसां भ्रमेण लक्षितः सूचितो मनोभवः कामस्तेन भग्नो वेगो यासां तास्तथा । आलिङ्गनेन स्पर्शलक्षणेन प्रमुदिता आलिङ्गनप्रमुदिताः, ऊर्मय एव भुजा ऊर्मिभुजाः, आलिङ्गनप्रमुदिताश्च ते ऊर्मिभुजाश्च आलिङ्गन-प्रमुदितोर्मिभुजास्तैः । कमलान्येवोपहाराः पूजासाधनानि यासां तास्तथा ॥ १६ ॥
सत्यधर्मीया
यदा मुकुन्देन गीतमिति मुकुन्दगीतं तत्तदा नद्य उपधार्य, आवर्तेनाम्भसां भ्रमेण लक्षितः सूचितो मनोभवस्तेन भग्नो वेगः प्रवाहो यासां ताः । आलिङ्गनप्रमुदितोर्मिभुजैः । आलिङ्गनमत्र स्पर्शनमात्रम् । तेन प्रमुदिता ऊर्मय एव भुजास्तैर्मुरारेः पादयुगलं कमलोपहाराः कमलान्येवात्मोत्थान्युपहाराः पूजासाधनानि यासां ता गृह्णन्ति । भक्ता अप्येवमिति तथा नद्यो व्यदृश्यन्तेति भावः ॥ १६ ॥
सुमनोरञ्जिनी
नद्योऽपि तन् मुकुन्दगीतम् । उपधार्य । आवर्त इति लक्षितः ख्यात आवर्ताख्यो मनोभवः कामस् तेन भग्नवेगाः । वस्तुत आवर्तेन भग्नवेगानाम् । मनोभवभग्नवेगत्वस्य आवर्ते मनोभवत्वस्य चोत्प्रेक्षाः सत्य आलिङ्गने प्रमुदितैः प्रमोदयुक्तैर् आलिङ्गनोत्सुकैरिति यावद् ऊर्मिभुजैस् तरङ्गाख्यभुजैः । मुरारेः पादयुगलं गृह्णन्ति । कमलान्युपहरन्तीति कमलोपहाराः ॥१६॥
दृष्ट्वाऽऽतपे व्रजपशून् सह रामगोपैः
सञ्चारयन्तमनु वेणुमुदीरयन्तम् ।
प्रेमप्रवृद्धहृषितः कुसुमावलीभिः
सख्युर्व्यधात् स्ववपुषाऽम्बुद आतपत्रम् ॥ १७ ॥
पदरत्नावली
अम्बुदो मेघः श्यामवर्णत्वलोकतापापनोदनत्वादिना साम्यात् सख्युर्मुरारेः स्ववपुषा, पूषाणमाच्छाद्येति शेषः । आतपत्रं व्यधाद् विनिर्ममौ । कुसुमावलीभिर् नभस्वदानीत-नन्दनवनप्रसूनसमूहैः सह । प्रेम्णा प्रवृद्धं समुद्रिक्तं हृषितं रोमहर्षणं यस्य स तथा । ‘हृषेर्लोमसु’ इति सूत्रेण लोमसु विषये इट् ॥ १७ ॥
दुर्घटभावदीपिका
कुसुमावलीभिः सख्युर्व्यधात्स्ववपुषाऽम्बुद आतपत्रमित्यस्याम्बुदो मेघः सख्युः कृष्णस्य स्ववपुषा स्वदेहेनातपत्रं छत्रं व्यधात् । कुसुमावलीभिर्वृष्टिं च व्यधादित्यर्थः । एतेन कुसुमावलीभिरित्येतदनन्वितमिति दूषणं निरस्तम् । वृष्टिमित्यस्य विशेषेण कुसुमावलीभिर्वृष्टिं व्यधादित्यन्वयस्योक्तत्वात् ॥ १७ ॥
सत्यधर्मीया
अम्बुदो मेघः । सख्युः कृष्णस्य । सावर्ण्यं स्वरादेः । आतपे, रामश्च गोपास्तदितरे च तैः सह व्रजपशूंश्चारयन्तं दृष्ट्वा । वेणुरवाकर्णनमपि भाविकार्यहेतुरिति ज्ञेयम् । प्रेमप्रवृद्धं हृषितं यस्य स समञ्चितरोमाञ्चः । हृषेर्लोमस्वितीट् । कुसुमावलीभिः स्वेन सह नभस्वदानीतपुष्पपङ्क्तिभिः सह स्ववपुषा पूषाच्छादकेनातपत्रं व्यधाच्चकार ॥ १७ ॥
सुमनोरञ्जिनी
अम्बुदो मेघः । आतपे पशून् सञ्चारयन्तम् । अनु अनुसृत्य । वेणुम् उदीरयन्तम् । श्रीकृष्णं दृष्ट्वा प्रेम्णा प्रवृद्धं हृषितं हर्षो यस्य तथाभूतः सन् । श्यामवर्णसाम्याद् लोकार्तिहरणसाम्याद्वा । सख्युर् मुरारेः श्रीकृष्णस्य । कुसुमावलीभिस् तुषारैर्वा सह । मेघपुष्पं घनरसमित्यभिधानात् । स्ववपुषा आतपत्रं स्ववपुर्लक्षणं छत्रं व्यधात् ॥ १७ ॥
पूर्णाः पुलिन्द्य उरुगायपदाब्जराग-
श्रीकुङ्कुमेन दयितास्तनमण्डितेन ।
तद्दर्शनस्मररुजस्तृणरूषितेन
लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् ॥ १८ ॥
पदरत्नावली
पुलिन्दानां शबराणामिमाः पुलिन्द्यस् तद्दर्शनस्मररुजस् तस्य कृष्णस्य दर्शनेनाविर्भूतो यः स्मरः कामः स एव रुग् रोगो यासां ताः सत्यः, क्रीडासमये तृणेषु रूषितेन भूषितेन ‘रूष भूषायाम्’ इति धातुः । दयितायाः प्रियतमाया रमायाः स्तनयोर्मण्डितेन भूषणतया सङ्घट्टितेन । उरु भूरि गीयते महद्भिरिति उरुगायो हरिस् तस्य पदाब्जयोः रागेणारुण्येन श्रीः प्रचुरकान्तिर्यस्य तेन कुङ्कुमेन आननकुचेषु लिम्पन्त्यस्तदाधिं मन्मथोत्पन्नमनोव्यथां जहुः । अत एताः पूर्णाः कृतकृत्याः ॥ १८ ॥
दुर्घटभावदीपिका
तद्दर्शनस्मररुजः कृष्णदर्शननिमित्तककामरोगयुक्ताः पुलिंद्यो दयितास्तन-मण्डितेन दयितास्तनमण्डितं दयिताया भार्याया महालक्ष्म्यास्तनयोर्मण्डितमलङ्कारभूतं तृणरूषितेन तृणरूषितं सञ्चारसमये तृणेषु सम्बन्धमुरुगायपदाब्जरागश्रीकुङ्कुमेनोरुगायकृष्णपदाब्जसम्बन्ध-रागशोभाविशिष्टं कुङ्कुममाननकुचेषु लिम्पन्त्यस्तदाधिं कामोत्पन्नाधिं जहुरतः पूर्णाः कृतकृत्या इति । एतेन गोपीरमणस्य तदभावाद् दयितास्तनमण्डितेत्यनेनानुपपन्नमिति दूषणं परिहृतम् । दयिताशब्देन गोपीनामग्रहणात् । एतेनैव लेपनक्रियां प्रति कुङ्कुमस्य कर्मत्वात् कुङ्कुममित्यादिद्वितीयाप्रयोगः कर्तव्यः । तृतीयाप्रयोगोऽनुपपन्न इति चोद्यं प्रत्युक्तम् । कुङ्कुमेनेत्यादि तृतीया द्वितीयादेश इत्यङ्गीकारात् ॥ १८ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे एकोनविंशोऽध्यायः ॥ १०-१९ ॥
सत्यधर्मीया
पुलिन्द्यः पुलिन्दानां शबराणामिमाः पुलिन्द्यः । प्राग्रामफलार्पणेनास्म-दार्यासपर्यां चचाराप च सतीं गतिमिति श्रुण्मः कथाः स एवायमिति वयमप्येतद्दृष्ट्या धन्यमूर्धन्याः स्यामेति ता आगता इति द्योतयितुं पुलिन्द्य इति ग्रन्थकृन्न्यभांत्सीदिति तात्पर्यमवधेयम् । तद्दर्शनस्मररुजस्तस्य कुङ्कुमस्य यद्दर्शनं तेनाविर्भूतो यः स्मरस्तदुपद्रवरूपा रुग्रोगो यासां ताः स एव रुग्यासां ताः । दयितायाः कस्याश्चिद्गोपयोषितः स्तनयोर्मण्डितेन भूषणतया सम्बद्धेनोरुगायो महत्स्तुत्यस्तस्य पदाब्जाभ्यां रागोऽरुणिमा यस्य स चासौ श्रीमांश्चासौ कुङ्कुमश्च तेन । स क्व, क्व चैता इत्यतो घटनप्रकारमाहुः ॥ तृणरूषितेनेति ॥ तृणेषु मार्गगेषु रूषितेन सम्बद्धेनाननकुचेषु लिम्पन्त्यः सत्यस्तदाधिं तन्मनोभवभवमनोव्यथां यतो जहुस्तत एताः पूर्णाः कृतकृत्यास्तत्पदाब्जयो रागार्थं लिप्तः श्रीमान्कुङ्कुमस्तेनेति वा । क्रीडासमये रूषणं तृणानां मन्तव्यम् । नन्वधुनाऽपि मधुनाथस्य विधुमुखीमुखानवलोकनाद्दयितास्तनमण्डितताकथनं कथमिति चेत् । सत्यम् । एकान्ततः कान्तासङ्गतिसम्भवात् । न चैतद्व्यापृतस्य बादरायणस्यैतदनुक्तौ कारणाभावादिदमनुपपन्नमेवेति वाच्यम् । दयिता च योग्यतयावनिस्तस्याः स्तनाश्च पर्वता गिराववस्थाय गिरा गा आव्हयत उरुगायस्य पदाब्जरागश्रीमत्कुङ्कुमेन तत्र मण्डितेन तथा तृणरूषितेन च ता अपि पर्वतकृतनिकेता इति सम्भवीदं लेपनम् । समुद्रवसने देवि पर्वतस्तनमण्डिते । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व म इत्यादेरिति समादधते ॥ १८ ॥
सुमनोरञ्जिनी
पुलिंद्यः शबरांगनाः । पूर्णाः कृतकृत्याः । कुतः । तस्य श्रीकृष्णस्य दर्शनेन जातः स्मररुक् मन्मथतापो यासां ता अपि, दयितायाः प्रियाया गोप्याः स्तनयोर्मण्डितेन लिप्तेन । अनन्तरम् उरुगायस्य श्रीकृष्णस्य पदाब्जरागेण श्रीः कान्तिर्यस्य तेन कुङ्कुमेन । कीदृशेन । सञ्चरणसमये तृणेषु रूषितेन लिप्तेन, आननेषु कुचेषु च लिंपन्त्यः । तदाधिं स्मररुग्जनितमानसव्यथां जुहुर्यतोऽत इति ॥ १८ ॥
**हन्तायमद्रिरबला हरिदासवर्यो **
यद् रामकृष्णचरणस्पर्शप्रमोदः ।
मानं तनोति सहगोगणयोस्तयोर्यत्
पानीयसूयवसकन्दरकन्दमूलैः ॥ १९ ॥
पदरत्नावली
हन्त आश्चर्यम् । हे अबला अयमद्रिर्गोवर्धनो हरिदासवर्यः भगवद्भक्तश्रेष्ठः । यद् यस्माद् रामकृष्णयोश्चरणस्पर्शादाविर्भूतः प्रमोदो यस्य स तथा । सहगोगणयोस्तयोः पानीयसूय-वसकन्दरकन्दमूलैः पानीयानि निर्झराम्बूनि, सूयवसानि शोभनतृणानि दैर्घ्यं छान्दसम् । ‘सूयवसाद् भगवती हि भूया अथो वयं भगवन्तः स्याम’ इत्यादौ दर्शनात् । कन्दरो गुहागृहं कन्दानि सूरणानि, मूलानि उशीराणि च तैः । ‘उशीरं वीरणीमूलम्’ इत्यभिधानम् । मानं पूजां तनोति ॥१९॥
सत्यधर्मीया
पुनः सर्वाः सम्बोध्यैका कथयति ॥ हन्तेति ॥ हे अबला अयमद्रि-र्हरिदासवर्य इव दृश्यते । हन्ताश्चर्यम् । कुत इत्यत इत इत्यप्याह ॥ यद्रामेति ॥ इत आयान्ता इति यन्तौ तौ च तौ रामकृष्णौ च तयोः रामकृष्णयोश्चरणानां स्पर्शाज्जातः प्रमोदो यस्य सः । किञ्च सहगोगणयोस्तयोर्मानं सत्कारं तनोति । तत्सत्कारसाधनमभिधत्ते ॥ पानीयसूय-वसकन्दरकन्दमूलैरिति ॥ पानीयं निर्झरवारि । ऋग्वेदे द्वितीयाष्टके तृतीयाध्याये एकविंशतिमवर्गे । सूयसाद्भगवतीति । तथा यजुर्वेदे प्रथमाष्टकसप्तमप्रपाठके सूयसं सूदकमिति प्रयोगात्तदनुकृतिः । माधवेन च शोभनानि यवसानीति व्याख्यातत्वाच्च सूयवसमिति सम्भवति । यद्वा सु शोभनानि तथा उ ऊर्ध्वप्ररोहाणि यवसानि तृणानि कन्दरो गुहागृहं कन्दमूलैः सूरणोशीराद्यैर्यत्तत इति हरिदासा अप्येवं सभाजयन्ति भगवन्तमिति तत्त्वमद्रेरिति मन्तव्यम् । यद्रामकृष्णचरणस्पर्शप्रमोदो यन्मानं तनोतीति यच्छब्दद्विकान्वयो वा ॥ १९ ॥
सुमनोरञ्जिनी
हे अबलाः । अयम् अद्रिः । हरिदासेषु वर्यः श्रेष्ठः । कस्मात् । ययोः रामकृष्णयोश् चरणस्पर्शेन प्रकृष्टमोदः सन् । सहगोगणयोस् तयोः । पानीयैः पानयोग्यैर् अम्बुभिः सूयवसैः शोभनतृणैः कन्दरैर् गुहाभिः कन्दमूलैश्च करणैर् मानं पूजां तनोत्यत इति ॥ १९ ॥
गा गोपकैरनुवनं नयतोरुदार-
वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यम् ।
अस्पन्दनं गतिमतां पुलकस्तरूणां
निर्योगपाशकृतलक्षणयोर्विचित्रम् ॥ २० ॥
पदरत्नावली
गोपकैः सहानुवनं प्रतिवनं गा नयतोः सञ्चारयतोर् निर्योगपाशकृतलक्षणयोर् निर्योगपाशः क्षेपणीरज्जुस्तेन कृतं लक्षणं चिह्नं याभ्यां तौ, तयोः रामकृष्णयोस् तनुभृत्सु जन्तुषु सख्यं विचित्रमतिचित्रम् । चित्रं किं तत् ? कलानि मधुराणि पदानि येषां तैरुदारवेणुस्वनैरुत्कृष्ट-वेणुनिनदैर्विवशानां गतिमता जङ्गमानाम् अस्पन्दनम् ईषदप्यचलनरूपस्थावरधर्मभजनं तथा तरूणां स्थावराणां पुलकं जङ्गमधर्मरोमाञ्चभजनं विचित्रम्, पश्यतेति शेषः ॥ २० ॥
सत्यधर्मीया
गोपकैः सहानुवनं गा नयतोः कलपदैरुदारवेणुस्वनैः । निर्योगपाशकृतलक्षण- योर्निर्योगपाशः क्षेपणीरज्जुस्तेन कृतं लक्षणं चिह्नं ययोस्तयोः स्कन्धद्वन्द्वासज्जिततद्रज्ज्वोर्गतिमतां जङ्गमानामस्पन्दनं तत्परवशतया किञ्चिच्चलनाभावः । तथा तरूणां स्थावराणाम् । पुलक इति पाठः। पुलकः कृमिभेदे स्यात्तल्पेऽश्वमणिदोषयोः । गजात्तपिण्डे रोमाञ्चे हरिताले शिलान्तर इति विश्वः । पुलको रोमाञ्चनमिति तनुभृत्सु सख्यं विचित्रं चेतनाचेतनीभवनं भवनमचेतनस्य चेतनधर्मतयेति चित्रं सख्यं पश्यतेति सखीः प्रति सखी वदति ॥ २० ॥
सुमनोरञ्जिनी
गोपकैः सह गा अनुवनं नयतोः सञ्चारयतोः । निर्योगः गवादिनियोजनार्थ-श्चर्ममयरज्जुः, पाशाश्च तैः कृतलक्षणयोः कृतगोपालचिह्नयोः । वस्तुतो महात्मनोः। तनुभृत्सु प्राकृतशरीरधारिषु गोपालेषु अस्मदादिषु वा सख्यं विचित्रम् । किं च कलपदैर् अव्यक्तमधुरपदैर् उदारवेणुस्वनैः क्रियमाणं द्वयम् अतीव चित्रम् । किं तद् द्वयम् । यद् गतिमतां जङ्गमानाम् अस्पन्दनं चलनाभावरूपस्थावरधर्मभजनम् । तरूणां पुलकं रोमाञ्चनं जङ्गमधर्मभजनं चेति ॥ २० ॥
एवंविधा भगवतो या वृन्दावनचारिणः ।
वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः ॥ २१ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे एकोनविंशोऽध्यायः ॥
पदरत्नावली
वृन्दावनचारिणो हरेरेवंविधा अन्याश्च याः क्रीडास्तास्ता मिथो वर्णयन्त्यो गोप्यस्तन्मयतां स मयः प्रधानो यासां तास्तन्मयाः, तासां भावस्तां तत्स्वामिकतां ययुः । ‘मयः प्रधान उद्दिष्टः’ इति षाङ्गुण्यवचनम् ॥ २१ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे एकोनविंशोऽध्यायः ॥
सत्यधर्मीया
या वृन्दावनचारिणो भगवत एवंविधाः क्रीडा मिथः परस्परं वर्णयन्त्यो गोप्यस्तन्मयतां सो मयं प्रधानं येषां ते तथा तेषां भावस्तन्मयता तां तत्स्वामिकतां ययुः । मयं प्रधानमुद्दिष्टमिति बृहदारण्यकभाष्यतृतीयस्कन्धतात्पर्याद्युक्तेः । स मयं प्रधानं यासां ता इति वा तन्मयास्तासां भावः ॥ २१ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे एकोनविंशोऽध्यायः ॥ १०-१९ ॥
सुमनोरञ्जिनी
वृन्दावनचारिणो भगवतः याः क्रीडास् ता मिथो ऽन्योन्यं रहसि वा वर्णयन्त्यस् तन्मयतां तदेकमनस्कतां ययुरिति सम्बन्धः ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्याम् एकोनविंशोऽध्यायः ॥ १०-१९ ॥