१८ अष्टादशोऽध्यायः

ततः प्रावर्तत प्रावृट् सर्वसत्वसमुद्भवा

॥ अथ अष्टादशोऽध्यायः ॥

श्रीशुक उवाच—

ततः प्रावर्तत प्रावृट् सर्वसत्वसमुद्भवा ।

विद्योतमानपरिधिर्विस्फूर्जितनभःस्थला ॥ १ ॥

पदरत्नावली

कृष्णबलरामयोर् वनोचितनानाविलासैर्विभूषितयोः प्रावृट्शरदोर्वर्णनं कविजन-प्रमोदभक्तिवैशद्यादिजननाय क्रियतेऽस्मिन्नध्याये । ततः ग्रीष्मर्त्वनन्तरं सर्वेषां सत्वानां स्थावरजङ्गमानां समुद्भवो यस्यां सा तथा । विद्योतमानास् तटिद्भिः प्रकाशमानाः परिधयः परितो वेष्टनदिशो यस्यां सा तथा । विस्फूर्जितम् अशनिगर्जनोपेतं नभस्तलं यस्यां सा प्रावृड् वर्षर्तुः प्रावर्तत ॥ १ ॥

सत्यधर्मीया

व्यासोच्छिष्टमिदं जगदित्यादेरेतदध्याये वैदिकावैदिकनिदर्शनप्रदर्शनेन प्रावृट्ऋतुवर्णनापदेशेन कवीनां सरससरणीं करुणातो दर्शयति व्यास इति वक्ति ॥ श्रीशुक इति ॥ ततो ग्रीष्मर्तुगमनानन्तरं सर्वसत्त्वानां नानाविधस्थावरजङ्गमानां समुद्भव उत्पत्तिर्यस्यां सा । विद्योत-मानाः प्रकाशमानाः परिधयः परिवेषा यस्यां सा । विशेषेण स्फूर्जितमशनिध्वनिर्यस्मिंस्त-न्नभःस्थलं यस्यां सा प्रावृट् वर्षर्तुः प्रावर्तत ॥ १ ॥

सुमनोरञ्जिनी

प्रावृडृतुवर्णनव्याजेन मुमुक्षुभिः सारासारविवेकिभिर्भवितव्यमिति शिक्षयत्य-स्मिन्नध्याये । सर्वेषां सत्वानां प्राणिनां समुद्भवो यस्याम् । विद्योतमानाः प्रकाशमानाः परिधयः परिवेषाश् चन्द्रसूर्ययोर्यस्यां सा । विस्फूर्जितं मेघगर्जनोपेतं नभःस्थलं यस्याम् ॥ १ ॥

सान्द्रनीलाम्बुदैर्व्योम सविद्युत्स्तनयित्नुभिः ।

अस्पष्टज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ ॥ २ ॥

पदरत्नावली

प्रावृड्गुणान्तरं दर्शयति सान्द्रेति ॥ सविद्युत्स्तनयित्नुभिर् विद्युद्गर्जनसहितैः सान्द्रनीलाम्बुदैर् जलनिबिडनीलमेघैराच्छन्नमत एव अस्पष्टं ज्योतिः सूर्यादिर्यस्मिन् तत् तथा नभो बभौ । अत्र निदर्शनमाह ब्रह्मेवेति ॥ विद्युद्गर्जनाभिमानिदेवतायुक्तैः सान्द्रनीलाम्बुदाभिमानि-देवैराच्छन्नमावृतं निजप्रचुरज्योतिषा अस्पष्टं तिरोहितं ज्योतिः सूर्यादियर्ेेन तत् तथा सगुणं सत्त्वप्रचुरदेहसहितं चतुर्मुखाख्यं ब्रह्मेव । अस्पष्टं विष्ण्वाख्यज्योतिर्यस्येति वा । ‘जातमोतं हरौ यस्माज्ज्योतिः’ ‘जातवेदसं परायणं ज्योतिरेकं तपन्तम्’ इत्यादेः ॥ २ ॥

दुर्घटभावदीपिका

सविद्युत्स्तनयित्नुभिर्विद्युद्गर्जनसहितैः सान्द्रनीलाम्बुदैर्जलनिबिडनीलमेघै-राच्छन्नोऽस्पष्टज्योतिरस्पष्टसूर्यादिज्योतिर्व्योम बभौ । अत्र दृष्टान्तमाह ॥ ब्रह्मेति ॥ सविद्यु-त्स्तनयित्नुभिर्विद्युद्गर्जनाभिमानिदेवतासहितैः सान्द्रनीलाम्बुदाभिमानिदेवैराच्छन्नं युक्तमस्पष्ट-ज्योतिरस्पष्टसूर्यादिज्योतिः सगुणं गुणकार्यशरीरसहितं ब्रह्मेव चतुर्मुखाख्यं ब्रह्म यथा बभौ तथेति । चतुर्मुखज्योतिषा सूर्यादिज्योतिषां तिरोहितत्वादस्पष्टत्वाज्ज्योतिरित्युक्तम् ॥ २ ॥

सत्यधर्मीया

सविद्युत्स्तनयित्नुभिः । अत्र विद्युतश्च स्तनयित्नुः शब्दश्च तत्सहितैः । स्तनयित्नुः पयोवाहे तध्ध्वनाविति विश्वः । सान्द्रा जलेन नीलाम्बुदा नीलमेघास्तैराच्छन्नं नभोऽत एवास्पष्टं ज्योतिर्यस्मिन्सूर्यादिस्तत् । सूर्यो ज्योतिरुत्तरमित्यादेः । व्योम सगुणं ब्रह्म नारायणाख्यं दुर्मतजलदैराच्छन्नमस्पष्टज्योतिरनभिव्यञ्जितस्वज्ञानं तथा बभौ । कार्यब्रह्म चतुर्मुखाख्यमिति वेति पूर्वे । हरिस्तु निर्गुणं ब्रह्म श्रीर्ब्रह्म सगुणं स्मृतेति तृतीयतात्पर्योक्ते रमा च ॥ २ ॥

सुमनोरञ्जिनी

सान्द्रैर् जलपूर्णैर् अत एव नीलैर् अम्बुदैः । विद्युता तटिता, स्तनयित्नुना अशनिना च सहितैः । विद्युद्गर्जनसहितैर्वा । आच्छन्नम् । तत एवास्पष्टं ज्योतिः सूर्यादिज्योतिर्मण्डलं व्योम । अविद्याच्छन्नम् अस्पष्टं ज्योतिः स्वरूपभूतं तेजो यस्य । तथाविधं सगुणं सत्वादिगुणबद्धम् । ब्रह्म जीवाख्यम् । बृहजीवजातीत्यादिधातोः ॥ २ ॥

अष्टौ मासान् निपीतं यद् भूम्यामुदमयं वसु ।

स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते ॥ ३ ॥

पदरत्नावली

अष्टौ मासानिति अत्यन्तसंयोगे द्वितीया । ‘कालाध्वनोरत्यन्तसंयोगे’ इति सूत्रात् । यथा ‘संवत्सरमधीते’, ‘क्रोशं कुटिला नदी’ इति । परस्य सस्यादेर्जननात् पर्जन्यः सूर्यः । ‘पर्जन्यो गर्जदभ्रेऽभ्रध्वनौ शक्रे विभावसौ’ इत्यभिधानम् । यद् भूम्यां विद्यमानम् उदमयं जलात्मकं वसु धनं स्वगोभिः स्वरश्मिभिर् अष्टौ मासान् मासाष्टकपर्यन्तं निपीतं तत् स्वगोभिरेव काले समुचितसमये आगते सति मोक्तुं प्रदातुमारेभे । ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः’ इति स्मृतेः ॥ ३ ॥

सत्यधर्मीया

यद्भूम्यास्तद्गतमुदमयम् । स्वतन्त्रोऽयमुदकवाच्युदशब्दः । तदात्मकं वसु धनं स्वगोभिरार्जनविसर्जनकरणमित्युभयान्वयि । स्वगोभिः स्वकिरणैरष्टौ मासान्निपीतम् । कालाध्वनो-रत्यन्तसंयोग इति द्वितीया । पर्जन्यः परस्य सस्यादेर्जननाद्यथायोग्यतममत्र सूर्यः । काल आगते सति तद्वस्तु मोक्तुमारेभे आरब्धवान् । आदित्याज्जायते वृष्टिरित्यादेः । अत्र पर्जन्यः परैः शत्रुभि-र्जन्यं युद्धं येन सोऽथवा परे जन्योत्तरत्रोत्पत्स्यमाना येन सः । अनेनेदानीं मृधे मारिता येनेति यावत् काले ज्ञानवत्यागते सत्यष्टौ मासान्निपीतं नाम सङ्गृहीतं वसु धनं मोक्तुं दातुं यथाऽऽरभते तथेति शत्रुजिद्राजनिदर्शनमत्रेति ज्ञेयम् । पूर्वत्रोत्तरत्र च निदर्शनप्रदर्शनानुगुण्यात् । अन्यथा ततः प्रावर्तत प्रावृडित्यनेनैवाष्टौ मासान्निपीतमित्यनेन च काललाभात्काल आगत इत्यवक्तव्यं स्यात् । वसुशब्दस्वारस्याच्च । जननात्परसस्यादेः पर्जन्यो मेघसन्ततिरिति गीतातात्पर्योक्तेः । पृषोदरादित्वा-द्रेफाकारलोपः । पर्जन्य इत्युणादिनिपातितः । पर्जन्य इवेन्द्र इवेति वा रवेर्वासवनिदर्शनमिति वा । पर्जन्यो वासवे गर्जदभ्रे जीमूतनिःस्वन इति शब्दरत्नाकरोक्तेः । पर्जन्यो मेघनिर्धोषे वासवे गर्जदम्बुद इति नानार्थरत्नमालायां च । पर्जन्यो मेघशब्दे स्याद्ध्वनदम्बुदशक्रयोरिति विश्वः

॥ ३ ॥

सुमनोरञ्जिनी

पर्जन्यो मेघसन्ततिः । जननात्परसस्यादेः पर्जन्यो मेघसन्ततिरिति गीतातात्पर्योक्तनारदीयवचनात् । तदभिमानी सूर्यः । मेघचक्राभिमानी च पर्जन्य इति गीताभाष्यात् । काले प्रावृट्काले आगते सति । पुनः स्वगोभिर्मोक्तुमारेभे । वसुपदप्रयोगेण पर्जन्यस्य राजसाम्यं सूचितम् । प्रजाभ्यः करात्मना गृहीतमेव वसु पुनः कालविशेषे प्रजाभ्य एव प्रयच्छन्ति हि राजान इति ॥ ३ ॥

तटित्वन्तो महामेघाश्चण्डश्वसनवेपिताः ।

प्राणिनां जीवनं ह्यम्बु मुमुचुः करुणा इव ॥ ४ ॥

पदरत्नावली

चण्डश्वसनेन वेपिताः कम्पिताः । जीवयन्तीति जीवनं, जीवनसाधनमिति यावत् । करुणयन्तीति करुणाः कृपावन्तः । यद्वा कृष्णस्य करुणा इव । भक्तिसामग्रीमतां ज्ञानाम्बु वर्षन्ति कृष्णकटाक्षा इति विज्ञेयम् ॥ ४ ॥

सत्यधर्मीया

तटित्वन्तस्तटितो येषां सन्तीति सौदामिनीयुक्ततामात्रबोधकः । झञ् इति मो वत्वं तसाविति भसंज्ञेति न जश्त्वम् । चण्डश्वसनेन वेपिताः कम्पिता महामेघाः प्राणिनामम्बु मुमुचुः । करुणाः करुणयन्तीति करुणाः कृपावन्तः प्राणिनां कृच्छ्रजीविनां जीवनं जीवयन्तीति जीवनं ज्ञानमिव पर्जन्य इवेति वा सोऽपि दातोदकस्य करुणा अम्बु भक्तिमिवेति, अम्बुवदग्रहणादिति व्याख्यायां तत्त्वप्रदीपकाख्यायां स्नेहात्मकत्वादम्बुनस्तेन मानसं स्नेहं लक्षयतीत्युक्तेरम्बुपदं स्नेहपदलक्षकं तेन च भक्तिर्लभ्यते मानसिकस्नेहरूपिणीति युक्तमम्बुदपदेन भक्तिग्रहणम् । जीवनं भुवनं वनमित्युक्तेरेतत्पक्षे जीवनमुदकम् ॥ ४ ॥

सुमनोरञ्जिनी

चण्डश्वसनेन वायुना वेपिताः कम्पिता अपि तटित्वन्तः । अनेन तेजस्विता ध्वनिता । प्राणिनां जीवनप्रदम् अम्बु मुमुचुः । करुणा इव दयालव इव । लोके हि दयालवस् तत्रापि तेजस्विनो जनाः स्वयम् अन्यैर् उपद्रुता अपि दीनजनार्थे स्वजीवनमप्युत्सृजन्ति ॥ ४ ॥

तपःकृशा देवमीढा आसीद् वर्षीयसी मही ।

यथैव काम्यतपसस्तनुः सम्प्राप्य तत्फलम् ॥ ५ ॥

पदरत्नावली

ग्रीष्मे तपःकृशा सूर्यतपनेन कार्श्यं गता । देवेन सवित्रा मीढा सिक्ता । वर्षीयसी अतिवृद्धिं गता । विविधसस्यसमृद्धा बभूवेति भावः । यथा काम्यतपस एव केवलं काम्यफलमुद्दिश्य तप आचरतः पुंसस्तनुस्तत्फलं काम्यतपःफलं सम्प्राप्य वर्षीयसी परिपुष्टा भवति तथेति । अनेन प्रवृत्तिमार्गो दर्शितः ॥ ५ ॥

सत्यधर्मीया

तपःकृशा ग्रीष्मोष्मकृशा देवमीढा देवेन्द्रेण सवित्रा मीढा सिक्ता मही वर्षीयस्यतिवृद्धियुताऽऽसीत् । इदमस्थिरमित्यनुरूपं निदर्शनं निरूपयति ॥ यथैवेति ॥ काम्यतपसः पुंसः फलमुद्दिश्य तपः कुर्वतस्तनुस्तत्फलं तत्कर्मफलं सम्प्राप्य वर्षीयसी भवति तथेति ॥ ५ ॥

सुमनोरञ्जिनी

तपसा ग्रीष्मेण कृशा मही । देवेन पर्जन्येन मीढा सिक्ता सती । वर्षीयसी पुष्टा । आसीत् । काम्यं तपो यस्य तस्य पुंसः । तनुः शरीरम् । तत्फलं काम्यतपःफलं संपदादिकं प्राप्य यथा वर्धते तथेति ॥ ५ ॥

निशामुखेषु खद्योतास्तमसा भान्ति न ग्रहाः ।

यथा पापेन पाखण्डा न हि वेदाः कलौ युगे ॥ ६ ॥

पदरत्नावली

निशामुखेषु सन्ध्यासु सूर्यादिग्रहा न भान्ति । तर्हि के भान्तीत्यत्राह खद्योता इति ॥ पापेन दुष्कर्मणा । वेदा वैदिकाः । वेदा येषामर्थे सन्तीति मत्वर्थीयाच्प्रत्ययः । अनेन कलिकाले दुर्जनाभिवृद्ध्या सज्जनाभिभवो दर्शितः ॥ ६ ॥

दुर्घटभावदीपिका

यथा कलौ युगे पाखण्डाः पापेन भान्ति । वेदा वैदिकाः । हिशब्दोऽ-वधारणे । न हि नैव भवन्तीति । एतेन पाखण्डा इत्यनेनावैदिकानां गृहीतत्वाद् वैदिका इति वक्तव्यं वेदा इति कथनमयुक्तमिति चोद्यं पराकृतम् । वेदा येषामर्थे सन्तीत्यर्थे वेदशब्दान्म-त्वर्थीयाच्प्रत्यये कृते वेदा इत्यनेन वैदिका इत्यर्थो लभ्यत इत्यूरीकरणात् ॥ ६ ॥

सत्यधर्मीया

निशामुखेषु प्रदोषेषु सन्ध्यास्विति यावत् । तमसा कारणेन ग्रहा आदित्यादयो न भान्ति । तर्हि के भान्तीत्यत आह ॥ खद्योता इति ॥ खद्योतो ज्योतिरिङ्गण इत्यमरः । यथा पापेनानुष्ठितदुष्कर्मणा कलौ युगे वेदा न हि भान्ति भान्ति च पाखण्डाः पाषण्डिनः । ते च चतुर्थस्कन्धे ‘भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययमि’त्यारभ्य ‘सेतुविदारणं पुंसामतः पाखण्डमाश्रिताः’ इत्यन्तेन कथिताः । तानि पापस्य खण्डानि लिङ्गम् । लिङ्गं खण्डमित्युक्तेश्च । वर्णस्य लोप इत्युक्तेश्च नामैकदेशग्रहणेन वा । पानां पापानां खण्डानि लिङ्गानि येषामिति निरुक्तिर्ज्ञेया

॥ ६ ॥

सुमनोरञ्जिनी

निशामुखेषु प्रदोषसमयेषु । ग्रहाश् चन्द्रादयः । तमसा प्रतिबन्धकेन । न भान्ति किन्तु खद्योता एव भान्ति । यथा कलौ युगे पापेन निमित्तेन । पाखण्डा बौद्ध-पाशुपताद्या भान्ति न वेदास् तथेति । अनेन कलियुगस्वभावो दर्शितः ॥ ६ ॥

श्रुत्वा पर्जन्यनिनदं मण्डूका व्यसृजन् गिरः ।

तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये ॥ ७ ॥

पदरत्नावली

पर्जन्यनिनदं गर्जन्मेघनादम् । प्राक् पूर्वं तूष्णी शयाना मण्डूकाः । नियमो नाम मौनेन जपादिकस्तस्यात्यये अवसाने वेदाध्ययनशीला भवन्ति । अनेन विष्ण्वनुग्रहमाकाङ्क्षमाणैः कालो वन्ध्यो न कर्तव्य इति दर्शितम् ॥ ७ ॥

सत्यधर्मीया

पर्जन्यानां निनादं श्रुत्वा मण्डूका भेका गिरो नानाविधध्वनीन् व्यसृजन् । तेषामनिमिषानुग्रहाच्छब्दवैचित्र्यम् । यथोक्तं शान्तिपर्वण्यग्निमार्गणप्रस्तावे । अग्निशापादजिह्वापि रसज्ञाने बहिष्कृताः । सरस्वतीं बहुविधां यूयमुच्चारयिष्यथ । देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूत्तमेति । प्राक् ते कथम्भूता इत्यत आह ॥ तूष्णीं शयाना इति ॥ क इवेत्यतोऽप्याह ॥ शयानाः शूद्रा यद्वदिति ॥ ते यथा तूष्णीकास्तथेति । यथोक्तमेकादशतात्पर्ये । त्रैवर्णिकः सञ्चरस्तु वेदमार्गप्रवर्तनात् । अतत्प्रवर्तनादेव शयानः शूद्र उच्यत इति । यथा प्राक् गुर्वाज्ञाकरणात्पूर्वं शयानाः शिष्या नियमात्यये गुर्वाज्ञायां छात्रेण वर्तितव्यमिति नियमस्यात्यये प्रसक्ते आकारणे कृतेऽनुत्थाने नियमात्ययः प्रसक्तस्तस्मिन्सति गिरो विसृजन्ति स्वामिन्नायास्याम इति तथेति । एवमन्वये निनादं श्रुत्वा गिरो व्यसृजन्नित्येतद्दार्ष्टान्तिकसमग्रानुरूपता दृष्टान्तस्य भवतीति मन्तव्यम् । नियमात्यये गुरुमौनातिक्रमे तन्निनदं श्रुत्वा ब्राह्मणा वेदाध्ययनशीलाः शिष्या गिरो वेदवाणीर्विसृजन्ति तथेति वा ॥ ७ ॥

सुमनोरञ्जिनी

प्राक् तूष्णीं शयाना मण्डूकाः । पर्जन्यस्य निनदं गर्जनं श्रुत्वा व्यसृजन् शब्दमकुर्वन् । यथा ब्राह्मणा नियमस्य जपादिनियमस्य अत्यये समाप्तौ सत्यां गिरो वचनानि स्वाध्यायादिरूपाणि विसृजन्ति उच्चरन्ति तथेति । अनेन जपादिनियमे मौनेन भाव्यमिति सूचितम्

॥ ७ ॥

आसन्नुत्पथवाहिन्यः क्षुद्रनद्योऽनुशुष्यतीः ।

पुंसो यथाऽस्वतन्त्रस्य देहो द्रविणसम्पदा ॥ ८ ॥

पदरत्नावली

ग्रीष्मे शुष्यतीः शोषं गच्छन्त्यः क्षुद्रनद्यः फल्गुजला स्रोतसोऽनु ग्रीष्मानन्तरं वर्षासु उत्पथवाहिन्यः जलाभिवृद्ध्या तीरमुद्रिच्य स्यन्दमाना बभूवुः । अस्वतन्त्रस्य विषयरागादिवशं गतस्य पुंसो देहो वनितादिभोगेन वर्धते । अनेन रजोगुणस्वभावः सूचितः ॥ ८ ॥

सत्यधर्मीया

अनुशुष्यन्त्यो ग्रीष्मे, क्षुद्रनद्यः स्वल्पजलाः क्षुद्रस्रोतसोऽनु ग्रीष्मानन्तरमुत्पथ-वाहिन्यः स्वतीरमुल्लङ्घ्य वहन्त्य आसन् । शुष्यन्तीर्महानदीरन्वनुसृत्य स्वयं शुष्यन्त्य इति वा । यथाऽस्वतन्त्रस्य स्वं धनं तन्त्रमधीनं यस्य स नेत्यस्वतन्त्रस्तस्य दरिद्रस्य पुंसो देहो द्रविणसम्पदा यथा पुष्टो भवति तथेति । अस्वतन्त्रस्यास्वाधीनेन्द्रियादिमतो वा पुंस इति रजःप्रवृत्तिमदधिकारिपरं ज्ञेयम् ॥ ८ ॥

सुमनोरञ्जिनी

अनुशुष्यतीर् ग्रीष्मकालमनुसृत्य शुष्यंत्यः क्षुद्रनद्यः । प्रावृषि उत्पथवाहिन्य उद्रिच्य स्यंदमाना बभूवुः । यथा अस्वतन्त्रस्य इन्द्रियपराधीनस्य । स्वतन्त्रस्य स्वच्छन्दवर्तिन इति वा । पुंसो देहः द्रविणसंपदा यथा उत्पथवाही उन्मार्गवर्ती भवति तथा । अनेन क्षुद्राणां राजसः स्वभावो दर्शितः । ते हि प्राक् दरिद्राः कदाचिद्दैववशेन प्राप्तसंपदश्चेदुन्मार्गवर्तिन इति

॥ ८ ॥

हरिता हरिभिः शष्पैरिन्द्रगोपैश्च लोहिता ।

उच्छिलीध्रकृतच्छाया नृणां श्रीरिव भूरभूत् ॥ ९ ॥

पदरत्नावली

हरिभिः श्यामैः शष्पैर् बालतृणैर् हरिता श्यामला । इन्द्रगोपैर् आषाढसमये उत्पद्यमानैर्जपाकुसुमवर्णैः कृमिविशेषैर्लोहिता रक्ता च । उत्कृष्टैर् उत्फुल्लैः शिलीन्ध्रैः कदलीपुष्पैः । ‘कदल्यां तु शिलीन्ध्रं स्यात्’ इत्यभिधानम् । कृतच्छाया कृतशोभा भूर्नृणां श्रीरिव सम्पदिव बहुविधाऽभूदित्यन्वयः । अनेन भूमिवदेक एव चेतनो गुणविकारेण नानास्वभावमापन्न इव प्रतीयत इति संसारस्यासारत्वज्ञानेन हेयत्वेन हरौ भक्तिः कर्तव्येति सूच्यते ॥ ९ ॥

सत्यधर्मीया

हरिभिः श्यामैः शष्पैर्बालतृणैर्हरिता श्यामा स्वत एव कृष्णा चेदपि विलक्षणा कान्तिरभूदिति भावः । इन्द्रगोपैर्लोहितवर्णकृमिविशेषैः शकलातीत्यपभ्रष्टभाषया लोहिता रक्ता चोच्छिलीध्रैश्छत्राकैरुत्कृष्टैः शिलीध्रैः कदलीपुष्पैः । कदल्यां तु शिलीध्रं स्यादिति शब्दार्णवः । कृता छाया शोभा यस्याः सा नृणां श्रीर्यथा नानाविधा तथेयं भूरभूत् । अनेन सम्पदि गुणानुगुणकार्यं ध्वन्यते ॥ ९ ॥

सुमनोरञ्जिनी

हरिभिर्नीलैः शष्पैर् बालतृणैः । हरिता श्यामला । क्वचिच्च इन्द्रगोपैर् वर्षाकाले जायमानैर् लोहितकीटविशेषैः । लोहिता । उच्छिलिंध्रैर् उद्गतछत्राकैः । उद्गतकदलीपुष्पैर्वा । कृता छाया शोभा वा यस्याः सा भूर् नृणां श्रीरिव संपदिव अभूद् बहुधा अदृश्यतेति यावत्

॥ ९ ॥

क्षेत्राणि सस्यसम्पद्भिः कर्षकाणां मुदं ददुः ।

मानिनामनुतापं वा विपत्तिं तदजानताम् ॥ १० ॥

पदरत्नावली

कर्षकाणामुल्लेखनादिक्रियया वर्तमानानां क्षेत्राणि केदाराः सस्यानां सम्पद्भिः फलोद्रेकाभिमुखलक्षणाभिर्मुदं ददुः । वाशब्दश्चार्थे । तदजानतां कृषिक्रियाविशेषमजानतां मानिनां कृष्याद्यभिमानवतां पुंसां तान्येव क्षेत्राणि अतिवृष्ट्यनावृष्टिमेदुरसामग््रयाद्यभावादिना सस्यनाशेन विपत्तिम् उप्तबीजानि नष्टानीत्यनुतापं च ददुः । इन्द्रियाणि विषयजालादाकृष्य हरिचरणारविन्द एव मनो निदधतां क्षेत्राणि पुण्यस्थानानि सस्यसम्पद्भिर् ज्ञानसमुद्रेकैर् मुदं ददति तान्येव पुण्यस्थानानि तदजानतां स्नानादिक्रियाविशेषमबुध्यमानानां मानिनामहङ्कारिणां पुंसामयोग्यानां विपत्तिं दुःखलक्षणां बहुलवित्तव्ययेन न किमपि फलं प्राप्तमित्यनुतापं च ददतीत्यतो मुमुक्षुणा स्वयं विचक्षणेभ्यो वा श्रुत्वा ज्ञात्वा हरिचरणसरोजे दृढतरभक्तिः कर्तव्येति सूचितम् ॥ १० ॥

सत्यधर्मीया

कर्षकाणां स्वयं भूलेखकानां कृषीबलानां क्षेत्राणि केदाराः सस्य-सम्पद्भिर्भाविफलोन्नाहोहिकाभिर्मुदं ददुः । मानिनामहङ्कारेण स्वयमकर्षकाणां तत्प्रकारज्ञानां नास्माभिः कर्षणं कृतमतो न फलं तद्वदासीदिति पश्चात्तापं ददुः । तदजानतामेतत्प्रकारज्ञानहीनानां विपत्तिं बाधान्याद्यलाभजनितविषादं च ददुः । सस्य सारत्वात्स इत्युक्तेर्हरेः क्षेत्राणि नानावताराः कर्षकाणां भक्त्या ध्यात्वा मुदं ददुः । मानिनामभिमानिनामनुतापं तद्ध्यानादिसाधनमजानतामज्ञानिनां मिथ्याज्ञानिनां च विपत्तिं नरकतमादिरूपां ददुरित्यान्तरङ्गिको भावोऽवसेयः ॥ १० ॥

सुमनोरञ्जिनी

सस्यानां व्रीह्यादीनाम् । संपद्भिः फलोद्रेकसूचकशोभाविशेषैः । क्षेत्राणि केदाराः । कर्षकाणां कर्षणक्रियाकुशलानाम् । मुदं ददुः । मानिनाम् अहङ्कारिणाम् अद्य श्वो वा करिष्याम इत्यहङ्कारेण यथोचितकालं कर्षणादिकमकुर्वताम् । अनुतापं पश्चात्तापम् । कर्षणादिकम् अजानतां तु विपत्तिमेव ददुः । वृष्टितदभावाभ्यां सस्यभङ्गात् । अनेन सकलसत्कर्माणि हर्यर्पणादितिकर्तव्यताकुशलैरनुष्ठितान्येव भगवत्प्रसादरूपफलप्रदानि नान्यथेति सूचितं भवति ॥१०॥

जलस्थलौकसः सर्वे नववारिनिषेवया ।

अबिभ्रन् रुचिरं रूपं यथा हरिनिषेवया ॥ ११ ॥

पदरत्नावली

जलौकसः पातालवासिनः, स्थलौकसः भूलोकवासिनः, सर्वे अन्तरिक्षादि-लोकवासिनस् तपस्विनः यथा हरिनिषेवया हरिपरिचर्यया नववारिनिषेवया सर्वविधसंसारदुःखं वारयति निवारयतीति वारि ज्ञानं, नवं निर्दोषं च तद् वारि च, तस्य नितरां भूर्यभ्यासलक्षणया सेवया रुचिरं ज्ञानानन्दात्मकतया शोभनं रूपं स्वस्वरूपं बिभ्रति, तथा जलौकसः स्थलौकसः सर्वे नववारिणो निर्मलजलस्य निषेवया अवगाहनादिलक्षणया सेवया रुचिरं भासुरं रूपमबिभ्रन् बभ्रिरे । ‘निर्दोषे नूतने श्रेष्ठे नवम्’ इत्यभिधानम् ॥ ११ ॥

सत्यधर्मीया

जलौकसः स्थलौकसः सर्वे नववारिणो निषेवया स्नानपानादिरूपसेवया रुचिरं रूपं नैर्मल्येन भासुरम् । अबिभ्रन्दध्रुः । जलौकसः स्थलौकसः सर्वे तपस्विनो हरिनिषेवया भगवत्सेवया यथा रुचिरं ज्ञानाद्यात्मकतया मनोहरं रूपं स्वस्वरूपं बिभ्रति तथेति ॥ ११ ॥

सुमनोरञ्जिनी

नवं नूतनं यद्वारि तस्य निषेवया सेवनेन । सर्वेऽपि जलस्थलौकसः सस्य जातीयाः । रुचिरं मनोहरं रूपम् । अबिभ्रन् बभ्रुः । यथा हरेर् बिम्बसंज्ञकस्य ‘हरयः शता दशे’ति श्रुतेर् निषेवया उपासनेन । रुचिरं भग्नावरणं चिदानन्दात्मकं रूपं बिभ्रति ज्ञानिनस् तथा । अनेन बिम्बोपासनमेव बिम्बापरोक्षद्वारा स्वरूपाविर्भावलक्षणमुक्त्यन्तरङ्गसाधनं नान्यदिति ध्वनितम्

॥ ११ ॥

सरिद्भिः सङ्गतः सिन्धुश्चुक्षोभ श्वसनोर्मिमान् ।

अपक्वयोगिनश्चित्तं कामार्तं गुणयुग् यथा ॥ १२ ॥

पदरत्नावली

सिन्धुः सागरः । श्वसनोर्मिमान् कामार्त इवेति यावत् । अपक्वः फल-परिपाकमप्राप्तश्चासौ योगश्च अपक्वयोगः, सोऽस्यास्तीति तस्य । गुणयुग् रजोगुणयुक् । गुणैर्विषयैर्युज्यत इति वा । अत एव कामार्तम् ॥ १२ ॥

सत्यधर्मीया

श्वसनोर्मिमान् । यद्यपि मादुपधाया इति ऊर्मिवानिति वक्तव्यं तथापि यवादिगणगणिततया वस्य मत्वं ज्ञेयम् । सिन्धुः समुद्रः सरिद्भिर्नदीभिः सङ्गतो मिलितो यथाऽपक्वयोगिनोऽपक्वः फलपरिपाकमप्राप्तश्चासौ योगश्च सोऽस्यास्तीति स तस्य, कामार्तं सरिद्भिरिति स्त्रीलिङ्गनिर्देशेन योषिन्निमित्तं मन्मथमथितं गुणयुग्गुणैर्विषयैर्युज्यत इति तत्तथा । यथा क्षोभं प्राप्नोति तथा चुक्षोभाचलत् ॥ १२ ॥

सुमनोरञ्जिनी

सरिद्भिर् गङ्गागोदावर्यादिनदीनदैः । सङ्गतः । तत्रापि श्वसनेन वायुना ऊर्मिमान् सन् । चुक्षोभ चलितोऽभूत् । यथा अपक्वः परिपाकमप्राप्तो योगोऽस्यास्तीति तथाविधः । तस्य पुंसश् चित्तं, गुणेषु विषयेषु युज्यते संबध्यत इति गुणयुक् विषयसंगतं सत् । तेन च कामार्तं कामपीडितम् । सङ्गात्संजायते काम इत्युक्तेः । यथा क्षुभ्यति । अनेन योगमारुरुक्षुणा विषयसङ्गो वर्जनीय इत्युक्तं भवति ॥ १२ ॥

गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः ।

अभिभूयमाना व्यसनैर्यथाऽधोक्षजचेतसः ॥ १३ ॥

पदरत्नावली

अधोक्षज एव चेतो येषां ते यथा व्यसनैर्नानासांसारिकक्लेशैरभिभूयमानाः सम्पीड्यमाना अपि न व्यथन्ते तथा वर्षधाराभिर्हन्यमाना गिरयो धराधरा न विव्यथुः, विकारं सुतरां नापुरिति यावत् । अनेन सर्वसहनशक्तिर्हरिभक्तानामेवेति दर्शितम् ॥ १३ ॥

सत्यधर्मीया

व्यसनैः सांसारिकक्लेशैरभिभूयमानास्तिरस्क्रियमाणा अपि । अधोक्षजचेतसो हरिनिरतमनस्का यथा व्यथा नाप्नुवन्ति तथा वर्षधाराभिर्हन्यमाना गिरयः पर्वता न विव्यथुः ॥१३॥

सुमनोरञ्जिनी

वर्षस्य वृष्टेर् धाराभिः संपातैर् न विव्यथुर् व्यथिता न बभूवुः । यथा व्यसनैः सांसारिकैर् अभिभूयमानास् तिरस्कृता अपि अधोक्षजे चेतो येषां ते ॥ १३ ॥

मार्गा बभूवुः सन्दिग्धास्तृणैश्छन्ना असंश्रिताः ।

नाभ्यस्यमानाः श्रुतयो द्विजैः कालहता इव ॥ १४ ॥

पदरत्नावली

असंश्रिता वृष्टिकष्टतो जनैरनाक्रान्ताः । नाभ्यस्यमाना अनावर्त्यमानाः । कालेन हता विस्मृता यथा सन्दिग्धपाठा भवन्ति । अनेन सच्छास्त्राणां निरन्तराभ्यासाभावे सति सम्यज्ज्ञानं न सम्भवतीति व्यतिरेकनिदर्शनं प्रदर्शितम् । ‘स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्’ इत्यादिश्रुतिः ॥ १४ ॥

सत्यधर्मीया

द्विजैरनभ्यस्यमानाः पक्षग्रन्थत्वात्तासां श्रुतयो वेदाः कालहता यथा सन्दिग्धपाठा भवन्ति तथा मार्गास्तृणैश्छन्ना असंश्रिता जनैर्वृष्टिकष्टतो नाश्रिता इति केचित् । असंश्रिताः प्रागमिलिता इदानीं तृणैश्छन्ना इति सन्दिग्धा बभूवुः । नाभ्यस्यमाना इति नसमासः

॥ १४ ॥

सुमनोरञ्जिनी

तृणैश् च्छन्ना मार्गाः । संदिग्धाः सन्देहविषयाः । अत एव । असंश्रिता जनैरनाक्रान्ताः । नाभ्यस्यमाना अनभ्यस्यमानाः श्रुतयः कालेन हता विस्मृता इवेति यावत् । अनेन संदेहादिनिवृत्तये सच्छास्त्रश्रवणाद्यावृत्तिः सर्वदा कार्येत्युक्तं भवति । यथोक्तमन्यत्र–

श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।

संशयं च पराणुद्य लभते ब्रह्मदर्शनम् ॥

इति ॥ १४ ॥

लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः ।

स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव ॥ १५ ॥

पदरत्नावली

गुणिषु सौन्दर्यसौशील्यादिगुणयुक्तपुरुषेषु चलसौहृदाश् चञ्चलस्नेहाः कामिन्यः पुंश्चल्यो यथा स्थैर्यं न कुर्वन्ति तथा चलसौहृदाश्चञ्चलस्वभावा विद्युतः लोकोपकारित्वाल्लोकबन्धुषु मेघेषु स्थैर्यं स्थिरस्थितिं न चक्रुर् नापुः । अनेन कामिनीनामिव चञ्चलभक्तिर्न कर्तव्येति सूचितम्

॥ १५ ॥

सत्यधर्मीया

गुणिषु सौन्दर्यादिगुणयुक्तेषु पुरुषेषु । चलं सौहृदं यासां ताः कामिन्य इव यथा स्थैर्यं न कुर्वन्ति तथा लोकबन्धुष्वनिमित्तोपकारिषु मेघेषु विद्युतः स्थैर्यं न चक्रुः । विद्युच्चञ्चला चपलाऽपीति स्वनामानुयानं चक्रुरिति भावः ॥ १५ ॥

सुमनोरञ्जिनी

लोकानां बन्धुषु उपकारिषु । विद्युतस् तटितः । चलं सौहृदं यासां ताः । चाञ्चल्योपेता इति यावत् । स्थैर्यं स्थिरां स्थितिं न चक्रुः । गुणिष्वपि पुरुषेषु कामिन्यः पुंश्चल्य इव ॥ १५ ॥

धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात् ।

व्यक्ते गुणव्यतिकरेऽगुणवान् पुरुषो यथा ॥ १६ ॥

पदरत्नावली

गुणिनि शब्दगुणके ‘आकाशो नीलिमोदेति’ इत्यादेर्नीलगुणयुक्ते वा वियति माहेन्द्रमिन्द्रसम्बनिध निर्गुणं ज्यारहितं धनुरभाद् अभासीत् । कथमिव ? गुणव्यतिकरे सत्त्वादिप्राकृत-गुणत्रयपरिणामात्मके जगति व्यक्ते सति अगुणवान् निर्धूतसत्त्वादिप्राकृतगुणः पुरुषो नारायणो यथा भाति तथेति । ‘यः शेते प्रलये विष्णुः शून्यनामा महाकृतिः । स तु नारायणो नाम नराणा-मयनत्वतः । रूपं द्वितीयं भवति दीपाद् दीपान्तरं यथा । सिसृक्षोस्तस्य पुरुष इत्याहुस्तद्विदो जनाः’ इति व्योमसंहितादिवचनात् सिसृक्षोर्हरेराद्यवतारस्य पुरुषनामकत्वम् ॥ १६ ॥

सत्यधर्मीया

गुणव्यतिकरे कार्योन्मुखतया गुणानां भवने । व्यक्ते प्रवृत्त इति यावत् । गुणवान्सत्त्वादिप्रवर्तकतया तद्वान्ज्ञानानन्दादिगुणपूर्ण इति वा । अप्रधानप्रकृत्यादिसंयुत इति वाऽगुणवान्सत्त्वादिभिर्वा स्वभिन्नगुणैर्वा हीन इति वा । एतेन दार्ष्टान्तिके निर्गुणमित्युक्तेरत्र गुणवानिति कथमिति परास्त इति वदन्ति । यथा पुरुषो नारायणो भाति तथा गुणिनि शब्दगुणके आकाशो निलिमोदेतीत्यादेर्नीलिमगुणयुते वा वियत्याकाशे, निर्गुणं ज्याविकलं माहेन्द्रमिन्द्रसम्बन्धि धनुश्चापं तथाऽभूत् ॥ १६ ॥

सुमनोरञ्जिनी

गुणिनि शब्दगुणोपेते नीलिमोपेते वा वियति आकाशे निर्गुणं ज्यारहितं माहेन्द्रं धनुः । अभात् । गुणव्यतिकरे सत्वादिगुणव्यतिकरात्मकप्रपञ्चे । व्यक्ते सति तस्मिन् अगुणवान् सत्वादिगुणाबद्धो पुरुषो हरिर्यथा ज्ञानिनां भाति तथेति ॥ १६ ॥

न रराजोडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः ।

अहंमत्या भासितया स्वभासा पुरुषो यथा ॥ १७ ॥

पदरत्नावली

स्वज्योत्स्नया राजितैः सन्ध्यारागं प्राप्तैर्घनैश्छन्न उडुपश्चन्द्रो न रराज स्वरूपाभिव्यक्तिं नाप । स्वभासा स्वयं प्रकाशमानेन भासितयाऽभिव्यक्तया अहंमत्याऽहङ्काराख्यया पुरुषः संसारी यथाऽभिव्यक्तस्वरूपो न भवति तथेति । भगवत्प्रसादानुगृहीतज्ञानलक्षण-प्रकाशेनाभिव्यक्तरूपः पुरुषो यथा प्रकाशत तथा शारदादिलक्षणप्रकाशेनाभिव्यक्तमण्डलश्चन्द्रश्चकाशे इति सूचितम् ॥ १७ ॥

दुर्घटभावदीपिका

उडुपश्चन्द्रः स्वज्योत्स्नाराजितैः स्वचन्द्रिकया किञ्चित्प्रकाशमानैर्मेघैश् छन्नः सन् न रराज । अत्र दृष्टान्तमाह ॥ अहंमत्येति ॥ पुरुषः स्वभासाः स्वरूपज्ञानेन भासितया प्रकाशमानेन । स्वरूपज्ञानमाश्रितेनेति यावत् । अहं मत्या । अहमित्युपलक्षणम् । अहं ममेति ज्ञानेन युक्तः स तु यथा न राजत इति । वृत्तिज्ञानस्य स्वरूपज्ञानमिश्रितत्वं तु जडजत्वान्मानमुक्तं पृथग्धीत्यादिनाऽऽचार्यैरुक्तं मानं ज्ञानम् ॥ १७ ॥

सत्यधर्मीया

स्वज्योत्स्नाराजितैः सन्ध्यारागमाप्तैर्घनैश्छन्न उडुपः स्वभासा स्वयंप्रकाशमानेन भासितया व्यक्तयाऽहम्मत्याऽभिमत्या पुरुषो जीवो न राजति तथा न रराज । यद्वा स्वभासा स्वप्रकाशेन सहितोऽपि स्वरूपभूतेन पुरुषो जीवोऽहम्मत्याऽभिमत्या भासितया विकर्मविशेषात्तदभि-भावकतयोज्वलया न ज्ञानादिस्वरूपत्वेन यथा भाति तथोडुपश्चन्द्रस्तैर्घनैश्छन्नः स्वज्योत्स्नाराजि-स्वत्यन्तं न विद्यते ज्योत्स्नानां कौमुदीनां राजिः पङ्क्तिर्यस्मिन्कर्मणि तद्यथा भवति तथा न रराज न शुशुभे । आनुरूप्यं दृष्टान्तदार्ष्टान्तिकयोरेवमन्वयने लगति नान्यथेति विदांकुर्वन्तु विन्दवः । अखण्डं नरराजेत्यावर्तितं परीक्षित्सम्बोधनं च ॥ १७ ॥

सुमनोरञ्जिनी

स्वज्योत्स्नया राजितैः रागं प्राप्तैः । घनैः सान्ध्यजीमूतैः । छन्न आच्छादितः । उडुपश् चन्द्रः । न रराज । स्वभासा स्वरूपभूतप्रकाशेन । भासितया विषयीकृतया । अहंमत्या अहंकारेण । छन्नो ऽनभिव्यक्तस्वरूपः । पुरुषो जीवः ॥ १७ ॥

मेघागमोत्सवे हृष्टाः प्रत्यनन्दन् शिखण्डिनः ।

गृहेषु तप्ता निर्विण्णा यथाऽच्युतजनागमे ॥ १८ ॥

पदरत्नावली

शिखण्डिनो मयूरा मेघानामागम एवोत्सवो येषामतो हृष्टा रोमाञ्चत्वं प्राप्ताः । कुटुम्बभरणादिना जनार्दनज्ञानार्जनशीलसज्जनसमागमाभावाग्निना च तप्ताः, अत एव निर्विण्णा निर्वेदमाप्ता अच्युतजनागमे सति यथा प्रहृष्यन्ति तथा प्रत्यनन्दन् नितरां मुमुदिरे ॥ १८ ॥

सत्यधर्मीया

गृहेषु भार्यादिषु तप्ताः कुटुम्बपोषणादिनाऽतो निर्विण्णा निर्वेदमाप्ता अच्युत-जनागमे भगवदवगमकसज्जनसमासज्जने जाते यथा प्रतिनन्दन्ति तथा मेघागमे तन्निदाघकालिकता-पापनोदोदित उत्सवो येषां ते हृष्टा रोमाञ्चनसहिताः शिखण्डिनो मयूराः प्रत्यनन्दंस्तुतुषुः । तप्ता निर्विण्णा अच्युतागमे तज्जनागमे च हृष्टा रोमाञ्चितगात्रा इति वा । उत्सवाहृष्टा इति पाठ उत्सवेनासम्यग्रोमाञ्चिता इति पदार्थाः । उत्सवे हृष्टा इति स्फुटार्थः पाठः । मयूरादिपदं विहाय शिखण्डिन इति वदता गृहेषु तप्तानां स्वतोऽनिर्वाहकत्वान्नपुंसकसमता च ध्वनितेति ज्ञेयम् ॥ १८ ॥

सुमनोरञ्जिनी

मेघागमेन उत्सवो येषां ते । हर्षजनकमनोवृत्तिविशेष उत्सव इत्युच्यते । हृष्टा रोमाञ्चं प्राप्ताः । शिखण्डिनो मयूराः । प्रत्यनन्दन् । यद्वा हृष्टाः सन्तुष्टाः प्रत्यनन्दन् मनसा श्लाघयांचक्रुः । यथा तप्ता विविधसांसारिकदुःखदर्शनेन सन्तप्ताः । अत एव निर्विण्णा निर्वेदयुक्ताः। विरक्ता इति यावत् । अच्युतजनानां भगवद्भक्तानाम् आगमे सति हृष्यन्ति तथा

॥ १८ ॥

पीत्वाऽपः पादपाः पद्भिरासन् नम्रात्ममूर्तयः ।

प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया ॥ १९ ॥

पदरत्नावली

पद्भिर्मूलैः । फलैः पुष्पैर् नम्रात्ममूर्तयः शाखोपशाखाभिर्नतस्वरूपाः । प्राग् ग्रीष्मे तपसा तपोमासोर्जिततापेन क्षामाः कृशा यथा कामानामनुसेवया जातेन श्रमेण श्रान्ता इन्द्रियदौर्बल्यमाप्ताः । प्राक्कुटुम्बव्यवस्थायां क्षामाः पादेन ग्रासेन आत्मानं पान्ति रक्षन्तीति पादपास् तपस्विनो गतिसाधनत्वात् पद्भिः शास्त्रैर् अपः पुरुषार्थावाप्तिहेतुत्वाज् ज्ञानरसान् पीत्वा आस्वाद्य नम्रा अवरुद्धा वशीकृताऽऽत्मनः परमात्मनो मूर्तिर्विग्रहविशेषो यैस्ते तथेति भावः । यद्वा प्राक् क्षामा वनिताद्यभावेन तपसा कामाग्नितापेन श्रान्ता जनाः कामानुसेवया पश्चादेव वनितादिलाभेन निरन्तरकामभोगेन स्वपुत्रतत्पुत्ररूपपुष्पफलादिना नम्रात्ममूर्तयः प्रह्वीकृतनिजशरीरा यथा भवन्ति तथेति ॥ १९ ॥

सत्यधर्मीया

यथा प्राक् कामानुसेवया विषयसेवनेनानम्रास्तपसा कृच्छ्रचान्द्रायणादिना क्षामाः कृशाः श्रान्ताश्च सन्तो नम्रात्ममूर्तयो भवन्ति तथा तपसा माघाद्यारभ्य ग्रीष्मपर्यन्तं क्षामाः । तपो माघे च शिशिर इति विश्वः । पादपाः पद्भिर्मूलैरप उदकं पीत्वा नम्रा आत्ममूर्तयः स्वगात्राणि येषां ते तथा सन् ॥ १९ ॥

सुमनोरञ्जिनी

पादपा वृक्षाः । पद्भिर् मूलैः । अपः पीत्वा । फलपुष्पादिभिर्नम्रा आत्म-मूर्तयो येषां ते तथाविधा आसन् । कीदृशाः । प्राक् तपसा ग्रीष्मेण । क्षामा म्लानाः । यथा प्राक् तपसा श्रान्ता अत एव क्षामाः कृशा जनाः कामानुसेवया अभ्यञ्जनादिविषयसेवनेन नम्रात्ममूर्तयो मृदुशरीरा भवन्ति ॥ १९ ॥

सरस्स्वशान्तरोधस्सु ह्यूषुरङ्गापि सारसाः ।

गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः ॥ २० ॥

पदरत्नावली

अङ्ग हे परीक्षित् सारसाश्चक्रवाका अशान्तानि जलाभिवृद्ध्या पूर्णानि रोधांसि तीराणि येषां तानि तथा तेषु सरस्स्वपि ऊषुर्हि । जलप्रवाहाभिभूततीरवासस्याशक्यत्वेऽपि तत्रैवोषुरित्यर्थः । दुराशया विषयवशा ग्राम्याः प्राकृतजना अशान्तकृत्येषु अनुपरतकर्तव्येषु गृहेषु यथा वसन्ति तथेति । अनेन नित्यसंसारिस्वभावो दर्शितः ॥ २० ॥

सत्यधर्मीया

यथायथं मध्यमोत्तमलक्षणानि तत्र तत्रानुसन्धेयानीति सूचयितुं स्पष्टं नित्यसंसारिसाधर्म्यमाह ॥ सरःस्विति ॥ शेन सुखेनान्तःप्रान्तभागो गम्यो येषां तानि तानि न भवन्तीत्यशान्तानि रोधांसि येषां तेषु । कूलं रोधश्च तीरं चेत्यमरः । सरस्सु सारसाश्चक्रवाका ऊषुः । तेषां विस्तृतत्वाद्रसवत्कुसुमसमेतत्वात्तत्र सरसाः सारसा यथाऽशान्तकृत्येष्वसुखनिर्णयनकृन्ति कृत्यानि कर्माणि येषां तेषु गृहेषु दुराशया दुर्मनस्का नित्यसंसारिणो ग्राम्या मूर्खास्तथोषुरित्यन्वयः । अङ्ग हे राजन् अशान्तकृत्येषु कदाऽपि तत्कर्मापरिसमाप्तिमत्सु गृहेष्विति वा ॥ २० ॥

सुमनोरञ्जिनी

हे अङ्ग प्रियेति परीक्षितं प्रति सम्बोधनम् । सारसास् तन्नामानः पक्षिणश् चक्रवाका वा । सरस्सु क्षुद्रनदीषु कासारेषु वा । अशान्तरोधस्स्वपि अशान्तानि अनुपरतानि जलप्रवाहोपेतानीति यावत् । रोधांसि येषां तथाविधेष्वपि ऊषुर् वासं चक्रुः । ग्राम्या जना दुराशया दुर्मनस्काः । अशान्तकृत्येषु अनुपरतकर्तव्येषु गृहेषु यथा वसन्ति ॥ २० ॥

जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे ।

पाखण्डागमशैवाद्यैर्वेदमार्गाः कलौ युगे ॥ २१ ॥

पदरत्नावली

पाखण्डवामादिमतज्ञानं नरकादिसाधनम् ॥ २१ ॥

सत्यधर्मीया

ईश्वरे सूर्ये इन्द्रे वा वर्षति सति सेतवो जलौघैर्बलवत्तरजलप्रवाहैर्यथा पाखण्डागमशैवाद्यैरित्यत्रागमपदस्य शैवपदोत्तरं योग्यतयाऽन्वयो ज्ञेयः । पाखण्डागमैः शैवागमाद्यैः पाशुपतागमाद्यैः । अथवा शैवपदेन पाशुपतागमो ग्राह्यः । पाखण्डागमाश्च शैवाश्चाद्या येषां तैः । पाखण्डवामशैवाद्यैरिति पाठो वामनः । ते वामा महावाममध्यमवामाणुवामभेदभिन्ना ‘‘नार्च्यं महावाममतं वामैरन्यैरुदीर्यते । अणुवामा न तद्युक्तमि’’त्याद्यनुव्याख्यासुधायां शाक्तास्त्रिविधा इत्यादिना सविस्तरं तन्मतमुक्तमनुसन्धेयम् । वेदमार्गाः कलौ युगे भिन्ना भवन्ति तथा निरभिद्यन्त । इदं ज्ञानं नरकादिसाधनमिति बोध्यम् ॥ २१ ॥

सुमनोरञ्जिनी

ईश्वरे पर्जन्यादिनियामके हरौ वर्षति सति । जलौघैर् जलप्रवाहैः । सेतवो निरभिद्यन्त भिन्ना बभूवुः । वेदमार्गा वेदोक्तयज्ञादिक्रियाः । पाषण्डवामशैवाद्यैः । वामाः शाक्ताः। पाषण्डा बौद्धादयः ॥ २१ ॥

व्यमुञ्चन् वायुभिर्नुन्ना भूतेभ्यो ह्यमृतं धनाः ।

यथा विशो विश्पतयः काले काले द्विजेरिताः ॥ २२ ॥

पदरत्नावली

द्विजेरिताः पुरोहितादिप्रेरिता विट्पतयो राजानो विशः प्रजा उद्दिश्य काले काले कालगुणानुगुण्येन अमृतं हेम अन्नं च यथा विमुञ्चन्ति प्रयच्छन्ति तथा वायुभिर्नुन्नाः प्रेरिता घना मेघा भूतेभ्योऽमृतं जलं व्यमुञ्चन् । ‘अमृतं व्योमि्न देवान्ने यज्ञशेषे रसायने । अयाचिते जले दुग्धे मोक्षेऽन्ने हेमि्न गोरसे’ इति यादवः ॥ २२ ॥

सत्यधर्मीया

यथा विशः प्रजा उद्दिश्य विश्पतयो विशां प्रजानां पतयो राजानो द्विजेरिताः पुरोहितादिबोधिताः काले काले विहिते सर्वस्मिन्कालेऽमृतमन्नं विमुञ्चन्ति ददति तथा वायुभिर्नुन्नाः प्रेरिता घना मेघा भूतेभ्योऽमृतं जलं व्यमुञ्चन् । अमृतं व्योमि्न देवान्ने यज्ञशेषे रसायने । अयाचिते जले दुग्धे मोक्षेऽन्ने हेमि्न गोरस इति यादवः । यथाऽऽशिषो विश्पतय इति पाठे भूतेभ्य इत्यावृत्त्याऽन्वयः । विश्पतिभ्य इति पाठे विशः प्रजा राजभ्योऽमृतं धनमिति वा ॥ २२ ॥

सुमनोरञ्जिनी

घना मेघा वायुभिर् वर्षवायुभिर् नुन्नाः प्रेरिताः । भूतेभ्यः प्राणिभ्यः । अमृतम् उदकम् । पयः कीलालममृतमित्यमरः । व्यमुंचन् । विश्पतयो राजानः । विशः प्रजा उद्दिश्य । काले काले । द्विजैर् ईरिताः प्रेरिताः सन्तो अमृतं हेम यथा प्रयच्छन्ति तथेति । अमृतं व्योमि्न देवान्ने यज्ञशेषे रसायने । अयाचिते जले दुग्धे मोक्षेऽन्ने हेमि्न गोरस इति यादव इति पदरत्नावली ॥ २२ ॥

एवं वनं तद् वर्षिष्ठं पक्वखर्जूरजम्बुमत् ।

गोगोपालैर्वृतो रन्तुं सबलः प्राविशद् हरिः ॥ २३ ॥

पदरत्नावली

वर्षिष्ठं प्रभूतवर्षवच्छ्रेष्ठम्, अतिशयेन समृद्धमिति यावत् ॥ २३ ॥

सत्यधर्मीया

वर्षिष्ठं बहुवर्षवच्छ्रेष्ठम् । वर्षशब्दादर्श आद्यचि तत इष्ठन्प्रत्यय इति ज्ञेयम् । अथवा वर्षिष्ठमतिशयेन वृद्धम् । वर्षिष्ठमूतये भर इत्यृग्व्याख्यावसरे वृद्धशब्दादतिशायने तमबिष्टनावितीष्टन् प्रियस्थिरेत्यादिना वृद्धशब्दस्य वर्षादेश इत्युक्तेः । खर्जूरशब्दो निपातितः । पक्वेत्युभयविशेषणम् । पक्वाः खर्जूराः पक्वानि जम्बूनि फलानि चास्य सन्तीति तत्तथा । जम्बुजाम्बवमित्यमरः । सबलः कृष्णः प्राविशत् ॥ २३ ॥

सुमनोरञ्जिनी

वर्षिष्टम् अतिशयितवृष्ट्युपेतम् । एवं प्राग्वर्णितगुणोपेतं च । पक्वखर्जूर-जम्बुमद्वनम् । हरिः प्राविशत् ॥ २३ ॥

धेनवो मन्दगामिन्य ऊधोभारेण भूयसा ।

ययुर्भगवताऽऽहूता द्रुतं प्रीत्या स्नुतस्तनीः ॥ २४ ॥

पदरत्नावली

ऊधसामापीनानां भारेण । ‘ऊधस्तु क्लीबमापीनम्’ इत्यमरः । स्नुतस्तनीः क्षरत्स्तन्यः ॥ २४ ॥

सत्यधर्मीया

ऊधोभारेणोधसां भारस्तेन । ऊधस्तु क्लीबमापीनमित्यमरः । मन्दगामिन्य एतादृश्योऽपि स्रुतस्तनीः स्रुतस्तन्यः क्षरत्कुचा भगवताऽऽहूता द्रुतं ययुरित्यन्वयः ॥ २४ ॥

सुमनोरञ्जिनी

ऊधोभारेण पयःपूर्णस्तनभारेण मन्दगामिन्यो धेनवः । प्रीत्या प्रेम्णा निमित्तेन । स्रुतस्तनीः क्षरितस्तन्यः ॥ २४ ॥

वनौकसः प्रमुदिता वनराजीर्मधुश्च्युतः ।

गिरेर्गम्भीरसन्नादसन्नादा ददृशुर्गुहाः ॥ २५ ॥

पदरत्नावली

प्रमुदिताः प्रकृष्टानन्दा गोपा वनौकसो हरिणादिप्राणिनः, मधूनि श्च्योतन्ति स्रवन्तीति मधुश्च्युतो वनराजीर्वनपङ्क्तीश्च, गिरेस्तत्सम्बन्धिनिर्झरादीनां सन्नादो गम्भीरनिर्घोषः, तज्जातसन्नादो यासां ता गुहाश्च ददृशुः ॥ २५ ॥

दुर्घटभावदीपिका

प्रमुदिताः सन्तुष्टा गोपाला वनौकसः प्राणिनो ददृशुः । मधुश्च्युतो वनराजीर्वनपङ्क्तीर्ददृशुः । हरेः सिंहस्य गभीरसन्नादसन्नादा गम्भीरसन्नादेन सन्नादविशिष्टा गुहा ददृशुरिति । एतेन ददृशुरिति क्रियायाः कर्तारो नोक्ता इति शङ्कानवकाशः । प्रमुदिता इत्यनेन योग्यतया गोपालान्गृहीत्वा तेषां कृर्तृत्वमित्यङ्गीकारात् ॥ २५ ॥

सत्यधर्मीया

वनैकसो गोपा मधुश्च्युतो वनराजीर्वनपङ्क्तीर्ददृशुस्तेन च प्रमुदिताः । किञ्च गिरेर्गम्भीरसन्नादसन्नादा गिरेस्तत्सबन्धिनिर्झरादीनां सन्नादस्तज्जातस्सन्नादो यासां ता गुहा ददृशुः

॥ २५ ॥

सुमनोरञ्जिनी

धेनव इत्याकृष्यते । धेनवस् तत्र प्रमुदिताः । वनौकसः वन्यप्राणिनः । मधु च्यवन्तीति मधुच्युत्तः । वनराजीर् वनपङ्क्तीश्च । तथा हरेः श्रीकृष्णस्य गम्भीरो यः सन्नादस्तेन सन्नादाः प्रतिध्वनिमत्यो गुहाश्च ददृशुरिति । यद्वा हरेर्गंभीरसन्नादेन गंगे यमुनेत्यादि गवाव्हानशब्देन सन्नादाः प्रतिध्वनिं ददत्यो धेनव इति ॥ २५ ॥

क्वचिद् वनस्पतिक्रोडे गुहायां चाभिवर्षति ।

निर्विशन् भगवान् रेमे कन्दमूलफलाशनैः ॥ २६ ॥

पदरत्नावली

अभिवर्षति सति वनस्पतिक्रोडे वृक्षमूलभागे गुहायां च निर्विशन् प्रविशन्

॥ २६ ॥

सत्यधर्मीया

वनस्पतिक्रोडे वनस्पतेर्वृक्षस्य क्रोडे कोटरेऽभिवर्षति मेघे गुहायां च निर्विशन्भगवान्कन्दमूलफलाशनै रेमे चिक्रीड ॥ २६ ॥

सुमनोरञ्जिनी

क्वचिद्देशे काले वा मेघे अभिवर्षति सति । वनस्पतेर् वृक्षस्य क्रोडे कोटरे । क्वचिच्च गुहायां च । निर्विशन् उपविशन् । कन्दमूलफललक्षणैर् अशनैः । कन्दमूलफलानि अशनानि येषां तैर् गोपैः सहेति वा ॥ २६ ॥

दध्योदनमुपानीतं शिलायां सलिलान्तिके ।

सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः ॥ २७ ॥

पदरत्नावली

सलिलान्तिके शिलायां सम्भोजनीयैः सहभोक्तव्यैः ॥ २७ ॥

सत्यधर्मीया

सम्भोजनीयैः समं भोजनीयं भोक्तव्यं येषां ते तैः । संशब्दस्य समर्थत्वं तु सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् । प्रोपाभ्यां समर्थाभ्यां व्यवहृपणोः समर्थयोरित्यत्रैकव्याख्याने दृष्टमित्यत्र समर्थता ज्ञेया । उपानीतं गृहाद्दध्योदनं सङ्कर्षणान्वितः सलिलान्तिके शिलायां सम्भोजनीयैस्सहभोज्यास्तैरिति वा बुभुजे । सलिला सलीलाः केचन । ते क्रीडासक्ता नायाता भुक्त्यै तेषामन्तिके समीप इति । एकदेशविकृतन्यायेन सलिला हि सलीलाः । यथोक्तं बृहद्भाष्ये । सलीलः सलिल इति वेति ॥ २७ ॥

सुमनोरञ्जिनी

उपानीतं गृहादानीतं सम्भोजनीयैः सहभोक्तुं योग्यैः ॥ २७ ॥

शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् ।

तृप्तान् वृषान् वत्सतरान् गाश्च स्वोधोभरश्रमाः ॥ २८ ॥

पदरत्नावली

शाद्वलोपरि नवतृणाकीर्णप्रदेशे ॥ २८ ॥

सत्यधर्मीया

प्राक् चर्वतो भक्षयतोऽनन्तरं शाद्वलोपरि संविश्य मीलितेक्षणान् तथा चर्वतीर्मिलितेक्षणाः, तृप्तांस्तृप्ता वृषान्वत्सतरानूधोभारेण श्रमो यासां ता गाश्च वीक्ष्येत्युत्तरेणान्वयः

॥ २८ ॥

सुमनोरञ्जिनी

दृप्तान् बलिष्ठान् । मत्तान्वत्सान् वत्सतरांश्च । सर्वतः सर्वाः । स्वोधोभरश्रमा गाश्च शाद्वलोपरि हरिततृणोपरि । संविश्य संशाययित्वा । संविश्य उपविश्य, मीलितेक्षणान् वत्सादीन् वीक्ष्येति वा ॥ २८ ॥

प्रावृट्श्रियं च तां वीक्ष्य सर्वभूतमुदावहाम् ।

भगवान् पूजयाञ्चक्रे आत्मशक्त्युपबृंहिताम् ॥ २९ ॥

पदरत्नावली

आत्मशक्त्युपबंृहितां स्वसामर्थ्यसंवर्धिताम् ॥ २९ ॥

सत्यधर्मीया

भगवानात्मशक्त्युपबृंहितां स्वसमार्थ्योत्तेजितां सर्वभूतमुदावहां प्रावृषः श्रियं च वीक्ष्य तां पूजयाञ्चके पदद्वन्द्वम् । परन्तु नियतोऽनुप्रयोगः । तं पातया प्रथमासुरित्यादयस्त्वपभ्रंशा इति शेखराद्याकराः । चकारो वीक्ष्येत्यतीतश्लोकेऽन्वेतव्यमिति सूचयति ॥ २९ ॥

सुमनोरञ्जिनी

आत्मशक्त्या स्वस्य शक्त्या उपबृंहितां संवर्धिताम् । पूजयांचक्रे श्लाघयामास

॥ २९ ॥

एवं निवसतोस्तत्र रामकेशवयोर्व्रजे ।

शरत् समभवद् व्यभ्रा स्वच्छाम्बुप्लुषितानिला ॥ ३० ॥

पदरत्नावली

व्यभ्रा विगतमेघा । स्वच्छमम्बु स्वच्छाम्बु, स्वच्छाम्बुनः प्लुषो विप्लुषो ऽस्य सञ्जाता इति स्वच्छाम्बुप्लुषितः, स्वच्छाम्बुप्लुषितो ऽनिलो यस्यां सा तथा ॥ ३० ॥

सत्यधर्मीया

व्रजे एवं निवसतो रामकेशवयोः सतोर्व्यभ्रा विगतान्यभ्राणि मेघा यस्यां सा स्वच्छानि निर्मलान्यम्बूनि जलानि तेषां विप्लुड्भिर्बिन्दुभिरितो युतोऽनिलो वायुर्यस्याः सा । विप्लुषाः सञ्जाता अस्येति विप्लुषितः । विप्लुडित इत्यत एव नेति ज्ञेयम् । शरत्तदृतुः समभवत्प्रादुरभूत्

॥ ३० ॥

सुमनोरञ्जिनी

एवम् अनया रीत्या । व्रजे निवसतोः । शरत् शरदृतुः । तामेव वर्णयति ॥ व्यभ्रा विगतमेघा । स्वच्छांबुप्लुषिताः स्वच्छाम्बुनः प्लुषिता विप्लुषो बिन्दवो यस्मिन् स अनिलो यस्यां सा ॥ ३० ॥

शारद्या नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः ।

भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया ॥ ३१ ॥

पदरत्नावली

शारद्या शरत्सम्बन्धिन्या । नीरजानां पद्मादीनाम् उत्पत्त्या । प्रकृतिं स्वच्छताम् । भ्रष्टानां योगभ्रष्टानां पुनर्योगनिषेवया योगाभ्यासेन ॥ ३१ ॥

सत्यधर्मीया

भ्रष्टानां योगभ्रष्टानां चेतांसि मनांसि सुकर्मवशात्पुनर्योगनिषेवया योगाभ्यासेन प्रकृतिं यान्तीव । प्राग्वार्युपरि वीथीपयोभिः कश्मलानि जलानि नीरजानां कमलादीनामुत्पत्त्या शारद्या शरत्सम्बन्धिन्या प्रकृतिं नैर्मल्यं ययुः प्रापुः ॥ ३१ ॥

सुमनोरञ्जिनी

शारद्या शरत्कालीनया । नीरजानां कमलानामुत्पत्त्या । नीराणि प्रकृतिं स्वच्छताम् । ययुः । भ्रष्टानां योगभ्रष्टानाम् । पुनर्योगनिषेवया उपायभूतसत्कर्माद्याचरणेन चेतांसि यथा स्वच्छतां यान्ति तथा ॥ ३१ ॥

व्योम्नोऽब्दमभ्रशाबल्यं भुवः पङ्कमपां मलम् ।

शरज्जहाराश्रमिणां कृष्णभक्तिर्यथाऽशुभम् ॥ ३२ ॥

पदरत्नावली

आश्रमिणां ब्रह्मचर्याद्याश्रमचतुष्टयानुष्ठाननिष्ठानां कृष्णभक्तिः कृष्णसम्बन्धिनी भक्तिर्यथाऽशुभं पातकं हरति तथा व्योम्नो ऽब्दम् अर्थिभ्योऽपः ददातीति तत् तथाभूतं मेघसङ्घ्रं जहार । वर्षाकालो विरत इत्यर्थः । न भ्रश्यन्त्यापो यस्मादित्यभ्रं, तन्निमित्तं शाबल्यं चित्रतां, भुवः पङ्कं कर्दमम् अपां मलं कालुष्यं च जहार ॥ ३२ ॥

सत्यधर्मीया

आश्रमिणां प्रशस्ताश्रमचतुष्टयवतां कृष्णभक्तिः कृष्णसम्बन्धिनी भक्तिरशुभममङ्गलं भाव्यन्तरापतितेन दुष्कर्मणा हरति तथा व्योम्नो गगनादब्दं मेघसङ्घमभ्राणां शाबल्यं चित्रतां भुवः पङ्कमपां मलं च शरज्जहार ॥ ३२ ॥

सुमनोरञ्जिनी

व्योम्न आकाशात् । अभ्रं मेघं जहार । अभ्रेषु च शाबल्यं नीलताम् । भुवः पङ्कं, अपां मलं रजःकालुष्यम् । आश्रमिणां सन्न्यासिनाम् । चतुर्विधाश्रमिणां वा । श्रीकृष्णे भक्तिर् यथाऽशुभं पापम् ॥ ३२ ॥

सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः ।

यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकल्मषाः ॥ ३३ ॥

पदरत्नावली

सर्वं स्वं धनरूपं जलम् । शुभ्रवर्चसः धवलवर्णाः । त्यक्ताः कलत्रपुत्रवित्तैषणा यैस्ते तथा ॥ ३३ ॥

सत्यधर्मीया

यथा शान्ताः सशमा मुक्तकल्मषास्त्यक्ता ईषणाः पुत्रादित्रिकेषणा इच्छा यैस्ते मुनयो राजन्ते तथा जलदाः सर्वस्वं सर्वं स्वं धनरूपं जलं हित्वा त्यक्त्वा शुभ्रवर्चसः सन्तो विरेजुः ॥ ३३ ॥

सुमनोरञ्जिनी

जलदाः सर्वस्वम् उदकरूपं हित्वा । शुभ्रवर्चसः पाण्डुरवर्णाः सन्तो विरेजुः । त्यक्तम् ईषणं विषयैषणं यैस्ते । मुक्तकल्मषा भवन्ति तथेति ॥ ३३ ॥

गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुः शिवम् ।

यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ॥ ३४ ॥

पदरत्नावली

क्वचित् सरित्प्रदेशेषु तोयं मुमुचुः । क्वचिद् उन्नतप्रदेशेषु शिवं निर्मलजलं न मुमुचुः । ‘शिवं भद्रे सुखे जले’ इत्यभिधानम् । ज्ञानिनो ज्ञानरूपममृतं कालेऽधिकारानधिकारौ विलक्ष्य ददते, न वा ददते तथेति ॥ ३४ ॥

सत्यधर्मीया

यथा ज्ञानिनो ज्ञानामृतं ज्ञानरूपममृतं कालेऽधिकारानधिकारौ विलक्ष्य ददते न वा ददते तथा गिरयः पर्वतास्तोयं क्वचिन्मुमुचुः । यत्र निर्झरास्तत्र क्वचिच्छिवं जलं न मुमुचुरुन्नतप्रदेशे । शिवं मोक्षे सुखे भद्रे सलिलेऽथेति विश्वः ॥ ३४ ॥

सुमनोरञ्जिनी

गिरयस् तोयं क्वचिन् मुमुचुः । क्वचिच्च शिवं जलं न मुमुचुः । शिवं शोभनं तोयमिति वा । यथा ज्ञायतेऽनेनेति ज्ञानं, ज्ञानसाधनं वेदादिसच्छास्त्रम् । तदेव अमृतमिव काले अनध्यायादिभिन्ने । ज्ञानिनः योग्यशिष्याय । ददते अनाध्यायादौ वा न ददते तथा । अयोग्याय न ददते तथेति । अनेन शास्त्रोपदेशो योग्यस्यैव कर्तव्यो नायोग्यस्येति सूचितम् । अनार्यकायानृजवे शठायेति श्रुतेः ॥ ३४ ॥

नैवाविन्दन् क्षीयमाणं जलं गाधजलेचराः ।

यथाऽऽयुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः ॥ ३५ ॥

पदरत्नावली

गाधजलेचरा अल्पजलचारिणो मत्स्यादिप्राणिनः क्षीयमाणं शुष्यमाणं जलं नैवाविदन् नैव विविदुः । अन्वहं क्षय्यं शुभकर्मभिः क्षेतुं शक्यमायुस्तथा मूढाः कुटुम्बिनः कुटुम्ब-विषयमोहिता नरा न विदन्ति यथा तथेति । ‘क्षय्यजय्यौ शक्यार्थे’ इति सूत्रम् ॥ ३५ ॥

सत्यधर्मीया

अन्वहं क्षय्यं सत्कर्मभिः क्षेतुं शक्यमायुस्तथा मूढाः कुटुम्बिनो नरा न जानन्ति यथा तथा । गाधजलेचरा अल्पजलचारिणः । चरेष्ट इति टः । हलदन्तादित्यलुक् । क्षीयमाणं जलं तत्क्षयप्रकारं नाविन्दन् न व्यजानन् । क्षय्यजय्यौ शक्यार्थ इति स्मरणात्क्षेतुं योग्यं क्षय्यम् । पाठान्तरं तु क्वाचित्कमिति न धृतमव्याकृतं च ॥ ३५ ॥

सुमनोरञ्जिनी

गाधजलेचरा अल्पजलेचरा मत्स्यादयः जलं क्षीयमाणम् । नैवाविन्दन् । जलक्षयं नैवाजानन्नित्यर्थः । कुटुम्बिनः कुटुम्बलोलुपाः । अत एव मूढा मोहयुक्ताः । नरा अन्वहं प्रतिदिनम् । क्षय्यं क्षेतुं शक्यम् । क्षीयमाणमिति यावत् । आयुर्यथा न जानन्ति तथा । अनेनायुषः प्रत्यहं क्षीयमाणत्वेन ज्ञानसंपादने अनालस्येन भवितव्यमिति ध्वनयति ॥ ३५ ॥

गाधवारिचरास्तापमविन्दन् शरदर्कजम् ।

यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः ॥ ३६ ॥

पदरत्नावली

शरदर्कः शरदृतुसुम्बन्धी सूर्यस् तस्माज्जायत इति शरदर्कजस्तं तापमविन्दन् लेभिरे । ‘विद्लृ लाभे’ इति धातुः । कृपणो दीनोऽविजितानीन्द्रियाणि येन स कुटुम्बी कुटुम्बसम्बद्धं तापं विन्दते तथेति ॥ ३६ ॥

सत्यधर्मीया

यथा दरिद्रः कृपणो दीनोऽविजितानीन्द्रियाणि येन स कुटुम्बी । अनेन तत्पोषणानिर्वाहात्तापं विन्दति तथा गाधवारिचरा अल्पजलकृतालया मत्स्याद्याः शरदर्कजं शरत्सम्बन्धी योऽर्कः सूर्यस्तस्माज्जायत इति स तथा तं तापमविन्दन्नापुः ॥ ३६ ॥

सुमनोरञ्जिनी

शरत्कालीनो योऽर्कः । तस्माज्जनितं तापम् । अविन्दन् प्रापुः । कुटुम्बी तत्रापि अविजितेन्द्रियः । तथापि दरिद्रः कृपणः लुब्धः पुमान् । सांसारिकं तापं यथा विन्दति तथेति । अनेन संसारे सुखाभावो दुःखप्राचुर्यं च सूचितम् ॥ ३६ ॥

शनैश्शनैर्जहुः पङ्कं स्थलान्यासंश्च वीरुधः ।

यथाऽहंममतां धीराः शरीरादिष्वनात्मसु ॥ ३७ ॥

पदरत्नावली

वीरुध ओषधिलता आसन् अङ्कुरिता इति शेषः । धिय ईरयन्तीति धीरा ज्ञानिनोऽनात्मसु आत्मव्यतिरिक्तेषु, जडेष्वित्यर्थः । अहम्ममताम् अहन्तां ममतां च यथा जहति तथेति ॥ ३७ ॥

सत्यधर्मीया

यथा शरीरादिष्वनात्मस्वस्वसम्बन्धिषु । धीरा धैर्यवन्तो योगिनोऽहंममतां त्यजन्ति । वीरुध आसन्नित्यनुरूपमङ्कुरणं कस्येत्यतोऽप्याह ॥ धीरा इति ॥ धियां रता इति । एतेन वीरुद्बीजवद्बुद्धिबीजे सति सुकर्मरूपे तत्प्ररोहणं ज्ञेयम् । यथा स्थलानि पङ्कं शनैर्जहुस्तत्र वीरुधस्तृणानि चासन् ॥ ३७ ॥

सुमनोरञ्जिनी

स्थलानि पङ्कं शनैःशनैर् जहुः । वीरुधस् तृणादयश्व आसन् अभवन् । यथा सन्तो ऽनात्मसु जडेषु शरीरादिषु । अहंममतां जहन्ति । धीरा धीरेषामस्तीति धीरा ज्ञानाङ्कुरयुक्ताश्च भवन्तीत्यर्थः । एवं संसारे अहंममतां परित्यज्य ज्ञानाय यतेतेति सूचितम् ॥३७॥

निश्चलाम्बुरभूत् तूष्णीं समुद्रः शरदागमे ।

आत्मन्युपरते यद्वन्मुनिर्व्युपरतागमः ॥ ३८ ॥

पदरत्नावली

आत्मनि मनसि उपरते विषयेभ्यो निवृत्ते सति । व्युपरतागमो निवृत्तशास्त्र-श्रवणादिकः, असम्प्रज्ञातसमाधिस्थ इत्यर्थः । विर्गरुडः, उः उमापतिः, तौ पातीति व्युपः पद्मनाभः, तस्मिन् रतास्तन्मात्रपरत्वेन योजिता आगमाः सर्ववेदादयो येन स इति वा । निश्चलाम्बु विष्णु-विषयकाचलज्ञानवान् मुनिर्यथा भवति तथेति । ‘अम्बु ज्ञाने तथाऽम्भसि’ इत्यभिधानम् । शरदागमे शरदः प्रवृत्तौ सत्यां समुद्रो निश्चलान्यम्बूनि यस्य स तथा तूष्णीमभूत् । शरैर् द्यति खण्डयतीति असुरसंहरणोद्यमवान् रामस्तस्यागमे सति समुद्रो निश्चलाम्बुस्तूष्णी यथा बभूव तथेति च । अमितमहिमवतो भगवतः सन्निधानातिशयभूषितायां जगत्यामेतादृशचित्रकरचेष्टाः समजनिषतेति नातिचित्रम् ॥ ३८ ॥

सत्यधर्मीया

यथाऽऽत्मनि मनस्युपरते विषयेभ्योऽस्पृहया मुनिरुपरतागम उप एव मनोनियामकरुद्रेन्द्रे हरौ रतास्तन्मात्रपरत्वेन योजितागमास्तदुपलक्षितसर्वशब्दा अन्तरे च येन सः । व्युपरतागमो विर्भगवानेवोप इति रतागम इति वा । उपरतो निवृत्त आगम इतरत्र गमागमौ यस्येति वा समाधिस्थस्तत्काले वेदाध्ययनाध्यापनादिरहित इति वा । असम्प्रज्ञातसमाधिस्थोऽयं तथा शरदागमे समुद्रो निश्चलाम्बुर्निश्चलान्यम्बूनि जलानि यस्य स तूष्णीमभूत् । शरेण द्यति खण्डयतीति तदुद्योगवान् शरदो रामस्तस्यागमे सति यथा समुद्रस्तूष्णीं निश्चलाम्बुरभूत्तथेति वा । प्रत्यक्षसिद्धमिदमेकान्तरामेश्वरे

॥ ३८ ॥

सुमनोरञ्जिनी

व्युपरतागमः विशेषत उपे सर्वोत्तमे रतः यः सद्गुरुस् तस्य आगमः समागमो यस्य सः सद्गुरूपदेशसंपन्नः । तेन आत्मनि मनसि । उपरते विषयेष्वनासक्ते सति । मुनिर् ग्राम्यकथायां मौनयुक्तः मननशीलो वा यथा भवति ॥ ३८ ॥

केदारेभ्यस्त्वपोऽगृह्णन् कर्षका दृढसेतुभिः ।

यथा प्राणैः स्वविज्ञानं तन्निरोधेन योगिनः ॥ ३९ ॥

पदरत्नावली

कर्षकाः कृषीवलाः केदारेभ्यः शालिक्षेत्रेभ्यः प्रस्रवन्तीरपो दृढैः सेतुभिः सिन्वन्ति बध्नन्ति जलानीति तादृशैर्बन्धनैरगृह्णन् न्यरुन्धन् । योगिनः समाधिस्थास् तेषामिन्द्रियाणां निरोधेन अन्यत्राप्रसरणं यथा स्यात् तथा प्राणैरिन्द्रियैः स्वविज्ञानं स्वस्य पूर्णसुखस्वरूपस्य विष्णोर्विज्ञानं यथा रक्षन्ति तथेति ॥ ३९ ॥

दुर्घटभावदीपिका

शरदागमे शरदागमने सति समुद्रः समुद्रेकात्कारणात्समुद्रस्य तटादिर्निश्च-लाम्बुः सन् तूष्णीमघोषोऽभूदिति । एतेन समुद्रस्य सर्वदा चलनघोषविशिष्टत्वात् शरदागमने समुद्रो निश्चलाम्बुस्तूष्णीमभूदिति कथनमनुपपन्नमिति दूषणं परिहृतम् । समुद्रशब्देन प्रसिद्धसमुद्रस्याग्रहणात् समुद्रो न व्यचोदध इतिवत् । समुद्रेकात्समुद्राख्यप्रकृतिर्वचोऽपि किं प्रभावं नैव दधुरिति । तस्यार्थः । समुद्रेकात् समुद्राख्यप्रकृतिश्च महत्वत इति ऋग्भाष्योक्तेः ॥ ३८ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे अष्टादशोऽध्यायः ॥

सत्यधर्मीया

यथा तन्निरोधेन तेषामिन्द्रियाणां निरोधोऽप्रसरणमन्यत्र तेन, प्राणैरिन्द्रि-यैर्योगिनः समाधिस्थाः स्वविज्ञानं स्वज्ञानं परमात्मज्ञानं चाप्नुवन्ति । तथा कर्षकाः कृषीवलाः केदारेभ्य इतरकृषिभ्यश्चतुर्थी च दृढसेतुभिर्मध्येमार्गं बद्धसेतुभिरपोऽगृह्णन् स्वकृषिं त्यक्त्वा यथा न गच्छेयुरापस्तथा चक्रुरित्यर्थः ॥ ३९ ॥

सुमनोरञ्जिनी

दृढसेतुभिर् बद्ध्वा अपः । केदारेभ्यः केदारार्थम् । प्राणैर् इन्द्रियैः । स्वविज्ञानं स्वः परमात्मा तस्य विज्ञानं, स्वप्रकाशरूपं परमात्मानं वा । तन्निरोधेन तेषाम् इन्द्रियाणां निग्रहेण यथा गृह्णन्ति स्वीकुर्वन्ति ध्यानविषयीकुर्वन्ति वा । मनसाऽवलोकनस्य ध्यानरूपत्वादि-न्द्रियकरणकत्वम् । ध्यानावस्थायां स्वप्न इव मनसः सर्वेन्द्रियशक्तिमत्वाद्बहुवचनम् ॥ ३९ ॥

शरदर्कांशुजं तापं भूतानामुडुपोऽहरत् ।

देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम् ॥ ४० ॥

पदरत्नावली

उडुपो नक्षत्राधिपः । बोध आत्मज्ञानं देहाभिमानजम् ‘अहं देहः’ इत्याद्यभिमानाज्जातं तापं यथा, मुकुन्दो व्रजयोषितां व्रजवल्लवीनां मन्मथजनिततापं यथा जहार तथेति दृष्टान्तद्वयम् ॥ ४० ॥

सत्यधर्मीया

शरदर्कश्चांशुरंशुकं च ताभ्यां जात इति स तं तापं, भूतानां व्रजयोषितां चोडुपश्चन्द्रो मुकुन्दश्च जहारेति पृथक् पृथगन्वयः । तत्र निदर्शनमाह ॥ बोध इति ॥ सज्ज्ञानं देहाभिमानजं मिथ्याज्ञानमिव यथा तद्धरति तथेति । अंशुः सूत्रादिसूक्ष्मांशकिरणे चण्डदीधितौ । उपादानोपादेययोरभेदात्सूत्रसूक्ष्मांशवाच्यंशुपदेन वस्त्रग्रह इति ज्ञेयम् । अथवा आ अंशवो यस्मिन्निति पाठो गृह्यते । तत्परिधानजनितघर्मस्य तन्मोचनेन कृष्णकृतं हरणं ज्ञेयम् । रासोत्सवस्मरण-लालसमानसानां नासह्यबन्धमिह मोचयतीत्यपूर्वम् । यत्केशपक्षकुचकुङ्कमरम्यनीवीग्रन्थिं स विश्लथयति व्रजवल्लवीनामित्यादेः । दृष्टान्तद्वयमिति वा ॥ ४० ॥

सुमनोरञ्जिनी

उडुपश्चन्द्रः । भूतानां, शरदर्कस्य येंऽशवस् तज्जनितं तापम् । मुकुन्दश्च, व्रजयोषितां तापं दिवा स्वविरहजम् । अहरत् । यथा बोधः ब्रह्मज्ञानं, देहाभिमानाख्यं संसारजं तापं हरति तथेति ॥ ४० ॥

खमशोभत निर्मेघं शरद्विमलतारकम् ।

सत्त्वयुक्तं यथा चित्तं १शब्दब्रह्मार्थदर्शनम् ॥ ४१ ॥

पदरत्नावली

खमाकाशं शरदा विमलास्तारका यस्मिन् तत् तथा, निर्गता मेघा यस्मात् तत् तथाऽशोभत । सत्त्वेन व्यवसायेन सत्त्वगुणेन च युक्तं चित्तं यथा शब्दब्रह्म वेदस्तस्यार्थः परममुख्यप्रतिपाद्यो नारायणस्तं दर्शयतीति तत् तथा ॥ ४१ ॥

सत्यधर्मीया

शरदा विमलास्तारका यस्मिंस्तत् । निर्मेघं निर्गता मेघा यस्मात्तत्ख-मशोभताभात् । सत्त्वेन व्यवसायेन गुणेन च युक्तं चित्तं यथा शब्दब्रह्म वेदस्तदर्थो भगवांस्तं दर्शयतीति तत्तथा । अर्थस्य दर्शनं येनेति वा ॥ ४१ ॥

सुमनोरञ्जिनी

निर्मेघं निर्गता मेघा यस्मात्तत् । शरदा विमलाः स्पष्टप्रकाशास् तारका यस्मिन् तथाविधम् । यथा सत्वयुक्तं सत्वगुणोपबृंहितं चित्तम् । शब्दब्रह्म वेदः । तस्मात्करणाद् आत्मदर्शनं यस्मिन् । आत्मानं दर्शयतीति वा । अर्थदर्शनमित्यपि पठन्ति । तत्र शब्दब्रह्मार्थस्य वेदार्थभूतस्य भगवतो दर्शनं यस्मादित्यर्थः ॥ ४१ ॥

अखण्डमण्डलं व्योमि्न रराजोडुगणैः शशी ।

यथा यदुपतिः कृष्णो वृष्णिचक्रैर्वृतो भुवि ॥ ४२ ॥

पदरत्नावली

अखण्डमण्डलं पूर्णमण्डलं यथा तथा रराज । वृष्णिचकै्रर्यादवनिवहैः

॥ ४२ ॥

सत्यधर्मीया

यथा वृष्णिचक्रैर्यादवसमूहैर्वृतो यदुपतिः श्रीकृष्णो राजति व्योमि्न उडुगणैरखण्डमण्डलं यथा तथा शशी रराज ॥ ४२ ॥

सुमनोरञ्जिनी

अखण्डमण्डलं यथा भवति तथा । उडुगणैर्वृतः । चक्रं समुदायः ॥४२॥

आश्लिष्य समशीतोष्णं प्रसूनवनमारुतम् ।

जनास्तापं जहुर्गोप्यो न कृष्णाहृतचेतसः ॥ ४३ ॥

पदरत्नावली

समेऽन्यूनाधिके शीतोष्णे यस्य स तथा । प्रसूनवनानां सम्बन्धी मारुतस्तम्, शारदमिति शेषः । तापं तपनजनितं जना जहुः । गोप्यो मदनजनितं तापं न जहुः । तत्र निमित्तमाह कृष्णाहृतचेतस इति ॥ कृष्णेनाहृतं चेतो यासां तास्तथा ॥ ४३ ॥

सत्यधर्मीया

समशीतोष्णं समेऽन्यूनाधिके शीतोष्णे यस्य स तम् । समं शीतोष्णं यस्येति वा । प्रसूनवनानां तत्सम्बन्धी मारुतो वातस्तं जना आश्लिष्य तापं तपनजं जहुः । एतन्मात्रस्य न तापापनोद इत्याह ॥ गोप्य इति ॥ कृष्णेन हृतं चेतो यासां ता गोप्यस्तापं कामजं न जहुः । कृष्णाहृतचेतसः कृष्ण आहृतो यस्मिंस्तच्चेतो यासां ता गोप्यो न इवेति वा चक्रं न वृत्रमिति यथा ॥ ४३ ॥

सुमनोरञ्जिनी

समौ शीतोष्णौ यस्मिन् । नात्युष्णं नातिशीतलमिति यावत् । प्रसूनवन-सम्बन्धसुगन्धिनं मारुतम् । आश्लिष्य जनास् तापं बाह्यं जहुः । गोप्यस्तु एतादृङ्मारुतम् आश्लिष्यापि । तापं मन्मथोद्रेकजनितं न जहुः । कुतः । कृष्णाहृतचेतसः । कृष्णेन आहृतम्, कृष्णे आहृतम् अर्पितं वा चेतो यासां ताः ॥ ४३ ॥

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाऽभवन् ।

अन्वीयमाना १वृषभैः २फलैरीषत्क्रिया इव ॥ ४४ ॥

पदरत्नावली

शरदा निमित्तेन पुष्पिण्यो गर्भिण्यः । फलैर्बीजैरन्वीयमाना उप्यमाना ईषत्क्रियाः शनैः क्रियमाणाः कृषिक्रिया इव । फलैः स्वर्गादिलक्षणैर् अनुगता ईषत्क्रिया ऊनातिरेकपरिहारार्था विलम्बमानयागक्रिया इव । ‘लाभनिष्पत्तिभोगेषु बीजे सस्ये धने फलम्’ इत्यभिधानम् ॥ ४४ ॥

सत्यधर्मीया

गावो मृगाः खगा नार्यश्च पुष्पिण्यः पुष्पवत्यो गर्भिण्यः कान्तानकामयन्त्यः शरदा निमित्तेन वृषभैः स्वस्वपुरुषा एकत्रापरत्र विवेकाविकलतया सर्वत्र विवेकविकलतयेति वा यथायथमन्वीयमाना अभवन् । क्वचित्प्राक्तनगर्भस्यानङ्कूरणं क्वचिन्नार्यादौ बलवद्बालाभवनमितीषताऽ- विहितकाल आहितरेतस्कत्वाज्ज्ञेया । ईषत्क्रिया न सम्यक्संसाधितहलमुखविलेखनादिक्रियाः कृषयः फलैरिव क्वचिदुप्तानां तप्तानामनुत्पत्तिर्बीजानां क्वचिदुत्पत्तावपि सम्पत्तिर्नाङ्गस्येतीषत्फलैर्धान्यादिभिर्यथा तथेति फलैर्न स्वरैः स्वर्गादिभिरीषत्क्रियाः प्रवृत्तकर्माणीवेति । ईशक्रिया इति पाठे ता यथा फलवत्यो न तथेत्यन्वयः ॥ ४४ ॥

सुमनोरञ्जिनी

गवादयः वृषभादिस्वस्वपुरुषैरन्वीयमानाः संयुज्यमानाः सत्यः पुष्पिण्यः गर्भिण्यो ऽभवन् । यद्वा गवाद्याः पुष्पिण्यः पुष्पवत्यः सत्यः वृषभैरन्वीयमानाः । फलैर् गर्भाख्यैर् अन्विता अभवन्निति योजना । का इव । वृषभैर् अनडुद्भिर् अन्वीयमाना उप्यमाना ईषक्रिया लाङ्गलादिना कर्षणादिक्रियावत्यो भूमयः फलैः सस्यादिभिरिव ॥ ४४ ॥

उदहृष्यन् वारिजानि सूर्येण कुमुदं विना ।

राज्ञा तु निर्भयो लोको यथा दस्यून् विना नृप ॥ ४५ ॥

पदरत्नावली

उदहृष्यन् विकसितान्यभूवन् ॥ ४५ ॥

सत्यधर्मीया

राज्ञा सूर्येण च लोकः सर्वो निर्भयो भवति दस्यून्विना यथा तथा सूर्येण कुमुदं विना वारिजान्युदहृष्यन्विकसितान्यभवन् । राज्ञा चन्द्रेण वारिजानि विना कुमुदमुदहृष्यत्

॥ ४५ ॥

सुमनोरञ्जिनी

उदहृष्यन् विकसितान्यभवन् । यथा राज्ञा दस्यून्विना सर्वोऽपि निर्भयः

॥ ४५ ॥

पुरग्रामेष्वाश्रमिणामिन्द्रयागमहोत्सवैः ।

बभौ भूः पक्वसस्याढ््या कलाभ्यां नितरां हरेः ॥ ४६ ॥

पदरत्नावली

आश्रमिणां गृहस्थानामिन्द्रयागमहोत्सवैर् देवेन्द्रोद्देशेन क्रियमाणैराग्रयणेष्ट्यादि-लक्षणोत्सवैः । हरेः कलाभ्यां शुक्लकृष्णकेशरूपाभ्यां रामकृष्णाभ्यां नितरां बभौ ॥ ४६ ॥

सत्यधर्मीया

आश्रमिणां गृहस्थानाम् । इन्द्रयागमहोत्सवैरिन्द्रोद्देश्येन क्रियमाणा यागा आग्रहायण्येष्ट्यादिलक्षणा ये महोत्सवास्तैः । पुरग्रामेषु, पक्वसस्याढ्या भूर्हरेः कलाभ्यामाविष्टाना-विष्टरूपाभ्यां रामकृष्णाभ्यां नितरां बभौ । नितरामिन्द्रयागमहोत्सवैः पक्वसस्याढ्येति च, हरेः कलाभ्यामिव बभाविति वा । अन्तिमश्लोकेऽपि निदर्शनप्रदर्शनस्वारस्यात् ॥ ४६ ॥

सुमनोरञ्जिनी

आश्रमिणां गृहस्थानाम् । इन्द्रयागमहोत्सवैर् इन्द्रद्रेवताकाग्रयणाद्युत्सवैः । हरेः कलाभ्यां रामकृष्णाभ्याम् । नितरां बभावित्यन्वयः ॥ ४६ ॥

वणिजो नगरात् स्वीयान्निर्गत्यार्थान् प्रपेदिरे ।

वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल आगते ॥ ४७ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे अष्टादशोऽध्यायः ॥

पदरत्नावली

प्रावृषि वर्षरुद्धा वृष्टिप्रतिबद्धा वणिजः शरदि सम्प्राप्ते स्वीयान्नगरान्निर्गत्य नगरान्तरमासाद्य अर्थान् प्रयोजनानि प्रपेदिरे । वर्षेण संवत्सरोपलक्षितदीर्घकालेनेत्यर्थः । रुद्धाः साधनसामग्रीसम्पत्तिपर्यन्तकालेन प्रतिबद्धा सिद्धा मन्त्रौषधतपःसम्पन्नाः पुरुषाः काले फलाभिमुख-लक्षणे आगते आसन्ने स्वीयान्नगरात् स्वत्वेनाभिमताद् देहान्निर्गत्य स्वपिण्डान् दिव्यदेहान् यथा प्रपद्यन्ते तथेति । ‘वर्षोऽस्त्री भारताद्यम्बुवृष्टिषु प्रावृषि स्त्रियाम्’ इति यादवः ॥ ४७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां दशमस्कन्धपूर्वार्धे अष्टादशोऽध्यायः ॥

सत्यधर्मीया

यथा काले आगते समाधिनिवृत्तौ स्वपिण्डानभिमानिसहिततया स्वान्देहान्प्रपद्यन्ते भोज्यान्नानि वा प्राक् प्राणायामादिनिरोधेनानङ्गस्मरणानन्तरं सिद्धास्तत्सम्पन्ना यथा तथा वर्षरुद्धा वृष्टिप्रतिबद्धा वणिजो वर्षेऽतीति स्वीयात्स्वहितदात् । तस्मै हितमित्यर्थे प्राक्क्रीताच्छ इति छ आर्थिकं स्वत्वमनुसन्धेयम् । निर्गत्य नगरान्नगरान्तरं प्राप्यार्थान्प्रपेदिरे ॥४७॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां दशमस्कन्धपूर्वार्धे अष्टादशोऽध्यायः ॥

सुमनोरञ्जिनी

वणिजः । वर्षेण वृष्ट्या रुद्धाः प्रावृषा वा रुद्धाः । शरदि स्वीयान्नगरात् । निर्गत्य । अर्थान् क्रयादिना प्रपेदिरे । यथा सिद्धा ज्ञानिनः । काले प्रारब्धभोगोत्तरकाले । स्वपिण्डान् आविर्भूतस्वस्वरूपदेहान् । प्रपद्यन्ते । यद्वा सिद्धास् तपःसिद्धाः । काले फलकाले स्वपिण्डान् स्वभोग्यान् स्वभोगयोग्यदेहान्वा ॥ ४७ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्याम् अष्टादशोऽध्यायः ॥ १०-१८ ॥