क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः
॥ अथ सप्तदशोऽध्यायः ॥
श्रीशुक उवाच–
क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः ।
स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम् ॥ १ ॥
पदरत्नावली
स्वभक्तजनानां प्रयाग्निसदृशसंसारविनाशनं हरेरेव सुशकं नान्यस्येत्यत्र निदर्शनप्रदर्शनाय दावाग्निपानमाहात्म्यमस्य वक्तुमुपक्रमतेऽस्मिन्नध्याये । तेषां गोपानां गावो दूरचारिणीर् दूरगामिन्यः । गह्वरं गम्भीरकक्षम् ॥ १ ॥
सत्यधर्मीया
तद्गावस्तदित्यव्ययम् । दूरचारिणीर्दूरचारिण्यो गह्वरमरण्यानीम् ॥ १ ॥
सुमनोरञ्जिनी
श्रीहरिः स्वचरणारविन्दैकशरणानां भवदावानलदलनं स्वयं करिष्यतीति ज्ञाप-यितुं परितः परिदह्यमानदावदहनाद्गोपरक्षणलक्षणं भगवतो माहात्म्यं निरूपयत्यस्मिन्नध्याये । क्रीडासक्तेषु सत्सु । तेषां गावः । दूरचारिणीर् दूरचारिण्यः । स्वैरं यथेच्छम् । गह्वरम् अरण्यम् । गहनं काननं वनमित्यमरः ॥ १ ॥
अजा गावो महिष्यश्च निर्विशन्त्यो वनाद् वनम् ।
मुञ्जाटवीं १निविविशुः क्रन्दन्त्यो दावतर्षिताः ॥ २ ॥
पदरत्नावली
मुञ्जाटवी शराटवीम् । ‘शरो मुञ्ज इतीरितः’ इति हलायुधः । उपलक्षणया इषीकादिकं ग्राह्यम् । शरप्रचुरविपिनमिति यावत् । दावेन तापेन तर्षितास्तृष्णायुक्ताः ॥ २ ॥
सत्यधर्मीया
वनाद्वनं परम्परा अजा गावो महिष्यश्च निर्विशन्त्यो मुञ्जाटवीमीषिकाकाननं दावतर्षिता दावेन तापेन तर्षितास्तृष्णायुताः क्रन्दन्त्यो निविविशुर्निविवेशिरे । निर्विविशुरिति पाठस्त्व-क्लेशिष्ठः । शरो मुञ्ज इतीरित इति हलः ॥ २ ॥
सुमनोरञ्जिनी
मुंजो ऽत्युच्छ्रितस्तृणविशेषः शरो वा । शरो मुंज इतीरित इति हलायुधः । दावेन तापेन तर्षिताः । तर्षा जलाकांक्षा आसां संजातेति तथोक्ताः । तृषार्ता इति यावत् ॥२॥
तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा ।
जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम् ॥ ३ ॥
पदरत्नावली
पशूनपश्यन्तोऽनवलोकमानाः । कृष्णरामावादी येषां ते इत्यतद्गुणसंविज्ञानो बहुव्रीहिः । जातोऽनुतापो हन्त लीलालालसैरस्माभिरुपेक्षिता गाव इति पश्चात्तापो येषां ते तथा । विचिन्वन्तो ऽन्वेषमाणाः ॥ ३ ॥
सत्यधर्मीया
कृष्णरामादयो गोपास्ते पशूनपश्यन्तोऽनवलोकमाना गावश्च गावश्च गावस्तासाम् । ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्रीति स्त्र्येकशेषः । गवां गतिं तत्स्थानं विचिन्वन्तो न विदुर्यदा तदा जातानुतापा जातोऽनुतापो किं लीलालसैरुपेक्षिताः पशव इति तापो येषां ते तथा बभूवुः ॥ ३ ॥
सुमनोरञ्जिनी
तदा ते क्रीडासक्ताः । हेतुगर्भविशेषणमिदम् । कृष्णरामादयो गोपाः । अतद्गुणसंविज्ञानोऽयम् । पशूनपश्यन्तः । जातो ऽनुतापो येषां ते तथोक्ताः । गवां गतिं मार्गम् । विचिन्वन्तो ऽन्वेषयन्तः ॥ ३ ॥
तृणैस्तत्खुरदच्छिन्नैर्गोष्पदैरङ्कितैर्गवाम् ।
मार्गमन्वगमन् सर्वे १नष्टाजीव्या विचेतसः ॥ ४ ॥
पदरत्नावली
तासां गवां खुरैः शफैर् दद्भिर्दन्तैश्छिनैस्तृणैः । नष्टजीवा जीवन्मृताः । विचेतसः कुत्र गता इत्यत्र चिन्ताक्रान्तचित्ताः । वौ हरावेव चेतो येषां ते तथा । ‘विः पक्षिपरमात्मनोः’ इत्यभिधानम् ॥ ४ ॥
सत्यधर्मीया
तासां खुरैर्दद्भिर्दन्तैश्छिन्नैस्तृणैरङ्कितैर्गोष्पदैः । गोष्पदं सेवितासेवितप्रमाणे-ष्विति निपातितः शब्दः । सर्वेऽपि गवां मार्गेऽन्वगमन् । नष्टाजीव्या इति पाङ्क्तः पाठः । आजीव्यं जीविका तन्नष्टं येषां ते तथा नष्टस्वजीवनोपाया इति यावत् । नष्टजीवा इति पक्षे मृतकप्रतीका इत्यर्थः। विचेतसो विमनस्काः ॥ ४ ॥
सुमनोरञ्जिनी
तेषां पशूनां खुरैः । दद्भिर् दन्तैश्च । च्छिन्नैर् निकृन्तैः । गोष्पदैर् अङ्कितैश्च तृणैः । इत्थंभूतलक्षणे तृतीया । गवां मार्गं ज्ञात्वा । अन्वगमन् । नष्टो ऽदर्शनं गतः । नश् अदर्शन इति धातोः । जीवो जीवनभूतं गोधनं येषां ते । अत एव विचेतसः विमनस्काः । वौ परमात्मनि चेतो येषामिति रत्नावल्याम् ॥ ४ ॥
मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानाः स्वगोधनम् ।
अप्राप्य तृषिताः श्रान्तास्ततस्ते सन्न्यवर्तयन् ॥ ५ ॥
पदरत्नावली
भ्रष्टो लीनो मार्गो यस्य तद् गोधनम् । ततो मुञ्जाटव्याः सन्न्यवर्तयन् गतमार्गमेव प्रत्यागन्तुकामा अभवन्नित्यर्थः ॥ ५ ॥
सत्यधर्मीया
भ्रष्टोऽज्ञातो मार्गो यस्य तद्गोधनम् । मुञ्जाटवीत्यनेन मुञ्जापुञ्जिता महीति खुराद्यनङ्कितता तस्य द्योत्यते । अप्राप्य श्रान्तास्ततो गतमार्गत एव सन्न्यवर्तयन्प्रत्यागन्तुकामा अभवन्नित्यर्थः । मनः सन्न्यवर्तयन्निति वा ॥ ५ ॥
सुमनोरञ्जिनी
भ्रष्टस् त्यक्तः मार्गो येन तत् । गोधनमुद्दिश्य क्रन्दमानाः क्रोशमानाः । स्वगोधनम् अप्राप्य श्रान्ताः । अत एव तृषिताः । सन्न्यवर्तयन् । स्वसमुदायमिति शेषः ॥ ५ ॥
ता आहूता भगवता मेघगम्भीरया गिरा ।
स्वनाम्ना निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ॥ ६ ॥
पदरत्नावली
ततः कृष्णेन किमकारीति तत्राह ता इति ॥ प्रतिनेदुः प्रत्याक्रोशं चकु्रः
॥ ६ ॥
सत्यधर्मीया
आहूतास्ता गावो भगवता कर्त्रा मेघगम्भीरया गिरा करणेन स्वनाम्ना श्रीनिकेतनसङ्केतितस्वनाम्ना निनदम् । वैशिष्ट्यं तृतीयार्थः । नामसमेतं निनदं श्रुत्वा प्रहर्षिताः प्रतिनेदुर्हम्भावं चक्रुः ॥ ६ ॥
सुमनोरञ्जिनी
भगवता श्रीकृष्णेन स्वनाम्ना गङ्गायमुनेत्यादिना गोषु संकेतितनाम्ना । आहूताः। निनदं श्रीकृष्णस्याह्वानशब्दम् । श्रुत्वा प्रहर्षिताः सत्यः । प्रतिनेदुः प्रतिध्वनिं चक्रुः ॥६॥
ततः समन्ताद् वनधूमकेतुर्यदृच्छयाऽभूत् क्षयकृद् वनौकसाम् ।
समीरितः सारथिनोल्बणोल्मुकैर्विलेलिहानः स्थिरजङ्गमान् महान् ॥ ७ ॥
पदरत्नावली
संसारः सर्वदा सर्वथा दुःखाकर इति क्लेशिष्टशिष्टान् स्फुटतममवगमयितुमेक-दुःखशमनसमनन्तरं दुःखान्तरं वदति तत इति ॥ ततो गोदर्शनानन्तरं वनधूमकेतुः काननाग्निः सारथिना वायुना समीरितः सम्प्रेरितः, वर्धित इति यावत् । उल्बणोल्मुकैः करालज्वालाभिः स्थिर-जङ्गमान् विलेलिहानो विशेषेणास्वादयन् ॥ ७ ॥
सत्यधर्मीया
वनौकसां पक्षिवृक्षादीनां क्षयकृन्नाशकरो यदृच्छया वनधूमकेतुर्वनानलो यस्ततस्तेन गतं सारथिना वायुना समीरितः प्रेरितो वर्धित इति यावत् । अत्रोल्मुकशब्दो ज्वालापरः । उल्बणैरुल्मुकैर्ज्वालाभिः स्थिरजङ्गमान्विलेलिहान आस्वादयन्निवाभूत् प्रससर्पेति भावः ॥ ७ ॥
सुमनोरञ्जिनी
वनधूमकेतुर् दावाग्निः । सारथिना वायुना । समीरितः प्रज्वलितः । उल्बणैः क्रूरैः । उल्मुकैर् ज्वालाभिर् उल्कैर्वा विलेलिहान आस्वादयन् । स्पृशन्निति यावत् ॥ ७ ॥
तमापतन्तं परितो दवाग्निं गोपाश्च गावः प्रसमीक्ष्य भीताः ।
ऊचुः स्म कृष्णं सबलं प्रपन्ना यथा हरिं मृत्युभयार्दिता जनाः ॥ ८ ॥
पदरत्नावली
प्रपन्नाः, शरणमिति शेषः । मृत्युभयार्दिता जना हरिं शरणं यथोचुः, तथा गोपा ऊचुः स्म ॥ ८ ॥
सत्यधर्मीया
गोपाश्च गावश्च परित आपतन्तं तं दवाग्निं प्रसमीक्ष्य भीताः । भयं तूभयेषां सबलं कृष्णं प्रपन्ना अतिप्रह्वा ऊचुः । मृत्युभयार्दिता जना हरिं यथोचुरिति गोपमात्रान्वयि ॥८॥
सुमनोरञ्जिनी
परितः समन्ताद् आपतन्तम् । मृत्युभयेन अर्दिताः पीडिता जना यथा हरिं प्रपन्ना भवन्ति तथा कृष्णं प्रपन्नाः शरणं गताः सन्त ऊचुः ॥ ८ ॥
कृष्णकृष्ण महावीर्य हे रामामोघविक्रम ।
दावाग्निना दह्यमानान् प्रपन्नांस्त्रातुमर्हथः ॥ ९ ॥
पदरत्नावली
प्रपन्नान् शरणागतान् ॥ ९ ॥
दुर्घटभावदीपिका
एतेन कृष्णरामावित्यनयोः सम्बोधनैकवचनान्तत्वात् त्वमर्हसीति वक्तव्यमर्हथ इति द्विवचनप्रयोगोऽनुपपन्न इति दूषणं परिहृतम् । त्वमिति शब्दद्वयानन्तरमित्येतौ युवामित्यध्याहृत्यार्हथ इति द्विवचनेनान्वयस्योक्तात् ॥ ९ ॥
सत्यधर्मीया
प्रपन्नान् शरणागतान् ॥ ९ ॥
सुमनोरञ्जिनी
महद् वीर्यं यस्यासौ । अमोघः फलपर्यवसायी विक्रमः पराक्रमो यस्य सो ऽमोघविक्रमः । एतादृशौ युवाम् । दावाग्निना दह्यमानान् । प्रपन्नान् नस् त्रातुं रक्षितुम् । अर्हथः योग्यौ स्वः ॥ ९ ॥
नूनं त्वद्बान्धवाः कृष्ण न चार्हन्त्यवसीदितुम् ।
वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणाः ॥ १० ॥
पदरत्नावली
त्वमेव बान्धवो येषां ते तथा । त्वमेव नाथो रक्षको यषां ते । त्वमेव परमयनं रक्षणोपायो येषां ते तथा ॥ १० ॥
दुर्घटभावदीपिका
सर्वधर्मज्ञेत्यस्य त्वं सर्वाधारकज्ञानसंपन्न इत्यर्थः । एतेन सर्वधर्मज्ञेत्ये-तद्व्यर्थमिति दूषणस्यानवकाशः । सर्वपरित्यागेन मत्प्रार्थनं कुतः क्रियत इत्याशङ्कापरिहारार्थं सर्वाधारकत्वेन निश्चयो रक्षणं त्वया कर्तव्यमिति प्रार्थनहेतुत्वेनोच्यत इत्यूरीकरणात् ॥ १० ॥
सत्यधर्मीया
सम्मान्याग्रज इति सहकृष्णो न बलमिदं दवकवलनमेकसाध्यमिति कृष्णमेकं प्रति वदन्ति ॥ नूनमिति ॥ त्वं बान्धवो येषां ते तथा त्वन्नाथास्त्वद्याचकास्त्वत्परायणा-स्त्वद्रूपमुख्यगतिकाः ॥ १० ॥
सुमनोरञ्जिनी
अवसीदितुं क्लेशयितुम् । न मे भक्तः प्रणश्यति । अनन्याश्चिन्तयन्त इति वचनादिति भावः । अनन्यत्वादिकमेव कथं भवत्स्विति तत्राह ॥ वयमिति ॥ सर्वधर्मान् प्रपन्नपालनाद्यखिलधर्मान् जानातीति तथोक्तः । त्वमेव नाथो याचनीयो नान्यः येषां ते तथोक्ताः । त्वत्परायणास् त्वय्यासक्ताः । त्वयि भक्तिमन्त इति यावत् । त्वमेव परायणं मुख्याश्रयो येषामिति वा ॥ १० ॥
श्रीशुक उवाच—
वचो निशम्य कृपणं बन्धूनां भगवान् हरिः ।
निमीलयत मा भैष्ट लोचनानीत्यभाषत ॥ ११ ॥
पदरत्नावली
कृपणं दीनं वचः ॥ ११ ॥
सत्यधर्मीया
कृपणं दीनं वचो निशम्य लोचनानि निमीलयत मा भैष्ट चेत्यभाषत ॥११॥
सुमनोरञ्जिनी
मा भैष्ट । लोचनानि निमीलयतेत्यभाषत ॥ ११ ॥
तथेति मीलिताक्षेषु भगवानग्निमुल्बणम् ।
पीत्वा मुखेन तान् कृच्छ्राद् योगाधीशो व्यमोचयत् ॥ १२ ॥
पदरत्नावली
मुखेन पीत्वा, निजजन्मभूमिमेव प्रापय्येति मन्तव्यम् । ‘मुखादिन्द्रश्चाग्निश्च’ इति श्रुतेः ॥ १२ ॥
सत्यधर्मीया
तथेत्युक्त्वा मीलिताक्षेषु सत्सु गोपेषु भगवानुल्बणमग्निं मुखेन पीत्वा तान्कृच्छ्राद्व्यमोचयत् । मुखे पीत्वा नतान् व्यमोचयदिति वा । करादिना शमनं दमनसोऽविधाय मुखपानं कुर्वञ्जनकजन्ययोर्मेलनेन स्वस्यैव तयोरपि तोषविशेषं ध्वनयामासेति ज्ञेयम् । ‘मुखादिन्द्रश्चाग्निश्च’
‘स्तुवन्तु सर्वे वनवह्निपानकृतानुभावं न वयं मुरारेः ।
स्वजन्मभूमिं शिखिनि प्रविष्टे क ईशितुस्तेन कृतोऽनुभावः ॥’
इत्यादेः । एतत्सम्भावकमाह ॥ योगाधीश इति ॥ १२ ॥
सुमनोरञ्जिनी
तथेत्युक्त्वा मीलिताक्षेषु सत्सु । तान् गोगोपालान् । कृच्छ्रात् कष्टाद् व्यमोचयन् मोचितवान् ॥ १२ ॥
ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमाश्रिताः ।
निशाम्य विस्मिता आसन्नात्मानं गाश्च मोचिताः ॥ १३ ॥
पदरत्नावली
आत्मानं मोचितं गाश्च मोचिता निशाम्य अवलोक्य ॥ १३ ॥
सत्यधर्मीया
तत्र निमीलिताक्षाः पुनस्तदुन्मील्य विलोकमाना भाण्डीरं वटमाश्रिता आत्मानं मोचितं गाश्च मोचिता निशाम्य विस्मिता आसन् ॥ १३ ॥
सुमनोरञ्जिनी
ततो गोपा अक्षीणि उन्मील्य उन्मीलनसमकालम् । मुखं व्यादाय स्वपितीतिवत् । भाण्डीरं तन्नामकवटवृक्षम् । आश्रिता आसन्नाः । यद्वा पुनस् तत्क्षण एव । कृष्णेन ते गोपाः । भाण्डीरम् आश्रिताः कृताः । ततश्च तदनन्तरम् । नेत्राण्युन्मील्य । आत्मानं जात्यैकवचनम् । स्वात्मानः गाश्च मोचिताः । चशब्दात् तत्क्षण एव भाण्डीरप्राप्तिं च निशाम्य दृष्ट्वा । विस्मिता आसन्नित्यन्वयः ॥ १३ ॥
कृष्णस्य योगवीर्यं तद् योगमायानुभावितम् ।
दावाग्नेरात्मनः क्षेमं वीक्ष्य तं मेनिरेऽमरम् ॥ १४ ॥
पदरत्नावली
योगवीर्यं योगसामर्थ्यं वीक्ष्य । योगमायायाः स्वरूपसामर्थ्यस्यानुभावः प्रभावोऽस्य सञ्जात इति स तथा तममरं मरणादिरहितं नारायणं मेनिरे ॥ १४ ॥
दुर्घटभावदीपिका
योगमायानुभावितमित्यस्य योगिभिर्योगमायया योगसामर्थ्येनानु सम्यग्भावितं ध्यातमित्यर्थः । एतेन योगमायानुभावितमित्येतद्व्यर्थमिति दूषणं निरस्तम् । यद्योगवीर्यं योगिभिरपि योगसामर्थ्येन ध्यातमेव न तु द्रष्टुं तद्वीर्यं गौपालैर्दृष्टमिति वक्तुं योगमायानुभावितमिति विशेषणं सार्थकमिति स्वीकरणात् ॥ १४ ॥
सत्यधर्मीया
तस्य योगवीर्यं योगसामर्थ्यं वीक्ष्य दावाग्नेरात्मनो गवां च क्षेमं वीक्ष्य तं कृष्णं योगमायानुभावितं योगमायायाः स्वरूपसामर्थ्यस्यानुभावोऽस्य सञ्जात इति स तथा तममरं श्रीनारायणं मेनिरे । उन्मील्य विस्मिता इति वाऽन्वयः ॥ १४ ॥
सुमनोरञ्जिनी
योगमायया स्वेच्छया अनुभावितं प्रज्ञापितम् । ज्ञानिनः प्रतीति शेषः । योगवीर्यम् आत्ममोक्षणोपायभूतं स्वरूपसामर्थ्यं, किं तत् । दावाग्नेर् आत्मनः क्षेमम् अभयकारणं वीक्ष्य तं श्रीकृष्णम् । चतुर्विधमरणरहितत्वादमरम् । श्रीहरिं मेनिरे ॥ १४ ॥
गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः ।
वेणुं विरणयन् गोष्ठमगाद् गोपैरभिष्टुतः ॥ १५ ॥
पदरत्नावली
सायाह्ने सन्ध्याकाले सन्निहिते ॥ १५ ॥
सत्यधर्मीया
सायाह्ने सायं समय आसन्ने ॥ १५ ॥
सुमनोरञ्जिनी
सन्निवर्त्य निवर्तयित्वा । वेणुं विरणयन् विविधं वादयन् ॥ १५ ॥
गोपीनां परमानन्द आसीद् गोविन्ददर्शने ।
क्षणं यथा युगशतं यासां येन विनाऽभवत् ॥ १६ ॥
पदरत्नावली
यासां गोपीनां येन गोविन्देन विना क्षणमपि युगशतं यथा तथाऽभवत् ॥१६॥
सत्यधर्मीया
येन विना यासां क्षणम् । क्षणलिङ्गमशिष्यमिति भाष्यात् । यथा युगशतं तथाऽभवत् । विना विः पक्षिपरमात्मनोरिति तेन सहितानां यासां युगशतं यथा क्षणस्तथाऽभवदिति वाऽन्वयः ॥ १६ ॥
सुमनोरञ्जिनी
येन गोविन्ददर्शनेन विना । क्षणं क्षणपर्यन्तं क्षणात्मकः कालो वा युगशतं यथा युगशततुल्य आसीत् ॥ १६ ॥
तयोस्तदद्भुतं कर्म दावाग्नेर्मोक्षमात्मनः ।
गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च ॥ १७ ॥
पदरत्नावली
तयोः कृष्णरामयोर् आत्मन आत्मनां दावाग्नेर्मोक्षं मोक्षणात्मकं प्रलम्बवधरूपं चाद्भुतं कर्म ॥ १७ ॥
दुर्घटभावदीपिका
गोपास्तयोः कृष्णरामयोस् तयोस्तदद्भुतकर्म, स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव चेति श्लोकस्तस्यार्थः । गोपास्तयो कृष्णरामयोस्तदद्भुतं कर्म स्त्रीभ्यः समाचख्युः । एतदेव विवृणोति ॥ दावाग्नेरिति ॥ गोपा आत्मन आत्मनां कृष्णस्य दावाग्नेर्मोक्षं मोक्षसाधनं कर्म रामस्य च प्रलम्बवधसाधनं कर्मैव स्त्रीभ्यः समाचख्युरिति । दावाग्नेर्मोक्षः प्रलम्बवध इत्युभयं प्रति कृष्णस्य हेतुत्वं रामस्य प्रलम्बवधं प्रत्येव हेतुत्वमिति ज्ञापयितुं प्रलम्बवधमेवेत्येवशब्दः प्रयुक्तः । कृष्णस्य प्रलम्बवधं प्रति हेतुत्वं रामनिष्ठशुक्लकेशरूपेणेति द्रष्टव्यम् । एतेन दावाग्निं गोपमोक्ष-स्योभयकर्तृत्वाभावात्तयोर्दावाग्नेर्मोक्षं कर्म समाचख्युरिति कथनमनुपपन्नमिति चोद्यं परिहृतम् । गोपा इत्यादीनामावृत्तिं स्वीकृत्य तयोः कर्म समाचख्युरित्येतद्विवरणरूपत्वं दावाग्नेरित्यादेरित्यभ्युपगमात् । एतेनैव दावाग्निमोक्षस्य गोपालनिष्ठत्वेन कृष्णनिष्ठत्वाभावात् कृष्णस्य दावाग्नेर्मोक्षं कर्मेत्यनुपपन्नं प्रलम्बवधस्य प्रलम्बनिष्ठत्वेन रामनिष्ठत्वाभावाद् रामस्य प्रलम्बवधं कर्मेति चानुपपन्नमिति चोद्यं परास्तम् । मोक्षशब्देन मोक्षसाधनं ग्राह्यम् । प्रलम्बवधशब्देन प्रलम्बवधसाधनं ग्राह्यमित्यभिप्रायात्
॥ १७ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे सप्तदशोऽध्यायः ॥ १०-१७ ॥
सत्यधर्मीया
मोक्षं तद्रूपम् । गोपा एव स्त्रीभ्यः स्वस्वयोषिद्भ्यः समाचख्युरपृष्टाः स्वयमित्येवार्थः ॥ १७ ॥
सुमनोरञ्जिनी
गोपा आत्मनो दावाग्नेर् मोक्षः प्रलम्बवधश्चेत्येतद् द्वयं तयोः रामकृष्णयोः । कर्म । स्त्रीभ्य उपलक्षणमेतत् । वृद्धेभ्यश्च ॥ १७ ॥
गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः ।
मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ ॥ १८ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे सप्तदशोऽध्यायः ॥
पदरत्नावली
व्रजं गतौ कृष्णरामौ देवप्रवरौ देवश्रेष्ठौ मेनिरे ॥ १८ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे सप्तदशोऽध्यायः ॥
सत्यधर्मीया
रामकृष्णौ देवप्रवरौ मेनिरे । प्रेपरतोवलघुता द्वन्द्वेऽप्रथमोद्दिष्टस्य सावधिक-प्रवरतां ध्वनयति । प्रह्रे इति पिङ्गलनागोक्तेः । तन्मुख्यं ज्ञानशब्दयोरितिवद्वा ज्ञेया ॥१८॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे सप्तदशोऽध्यायः ॥ १०-१७ ॥
सुमनोरञ्जिनी
देवप्रवरौ कृष्णरामौ भूत्वा व्रजं गताविति मेनिरे । कृष्णरामौ देवप्रवराविति मेनिर इति वा ॥ १८ ॥
योगः प्रचण्डदावाग्निं पीत्वा कृत्स्नादमूमुचः ।
तस्य ते मम दारिद्य्रदावाग्निदलनं कियत् ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्यां सप्तदशोऽध्यायः ॥ १०-१७ ॥