व्रजे विक्रीडतोरेवं गोपालच्छद्मरूपिणोः
॥ अथ षोडशोऽध्यायः ॥
श्रीशुक उवाच—
व्रजे विक्रीडतोरेवं गोपालच्छद्मरूपिणोः ।
ग्रीष्मो नामर्तुरभवन्नातिप्रेयान् शरीरिणाम् ॥ १ ॥
पदरत्नावली
स्वजनमोदजननायाजनस्य विविधविनोदविलासकलाः, शुक्लकेशाविष्टरामस्य प्रलम्बासुरसंहारमहिमानं च निरूपयत्यस्मिन्नध्याये । गोपालच्छद्मरूपिणोर् गोपालाविति कपट-शब्दिनोः । ‘रूपं शब्दे पशौ ग्रन्थे शोके वृत्तौ हितादिषु । सौन्दर्ये च स्वभावे च’ इति यादवः । नातिप्रेयान् घर्महेतुत्वात् ॥ १ ॥
सत्यधर्मीया
रूपमाकारस्तद्वतोः । रूपं स्वभावे सौन्दर्ये चालोके पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपीति विश्वः । नातिप्रेयांस्तापोपपातात् ॥ १ ॥
सुमनोरञ्जिनी
यस्य देवे परा भक्तिर्यथा देव इत्युक्तरीत्या हराविव तद्भक्तेषु देवेष्वपि यथायोग्यभक्तिजननाय बलरामस्य माहात्म्यं प्रलम्बासुरहननलक्षणं निरूप्यतेऽस्मिन्नध्याये ॥ व्रज इत्यादिना ॥ गोपालाविति छद्म कापट्यं रूपयतः प्रकाशयत इति तथाविधौ । गोपालनाख्यछद्मना रूपिणौ शरीरिणौ वा । गोपालाविति कपटशब्दोपेताविति रत्नावल्याम् । रूपं शब्दे यशोग्रन्थ इति यादवः । व्रजे विक्रीडतोः सतोः । ग्रीष्मस् तन्नामको ऋतुस् तदानीम् । अभवत् । नातिप्रेयान्, नातिप्रियः घर्मेण स्वेदादिजननात् ॥ १ ॥
स च वृन्दावनगुणैर्वसन्त इव लक्षितः ।
यत्रास्ते भगवान् साक्षाद् रामेण सह केशवः ॥ २ ॥
सत्यधर्मीया
स चेतरत्र तेषां तादृशोऽपि वृन्दावनगुणैर्वसन्त इव लक्षितः । अमुख्यं भूगुणं तद्धेतुमभिधाय मुख्यं हेतुमाह ॥ यत्रास्त इति ॥ २ ॥
सुमनोरञ्जिनी
स च सोऽपि वसन्त इव लक्षितः लक्षणयुक्तः दृष्टो वा । जनैः । वसन्तलक्षणोपेतत्वे निमित्तमाह ॥ यत्रेति ॥ यत्र वृन्दावने ॥ २ ॥
यत्र निर्झरनिर्ह्रादनिवृत्तस्वनझिल्लिकम् ।
शश्वत् तच्छीकरैर्जुष्टं द्रुमपिप्पलमण्डितम् ॥ ३ ॥
पदरत्नावली
वसन्ततुल्यत्वे निमित्तमाह यत्रेति ॥ यत्र वृन्दावने ग्रीष्मेऽपि निर्झराणां निर्ह्रादैर्घोषैर् निवृत्तस्वनाः प्रतिष्टब्धस्वरा झिल्लिका भृङ्गारीनामककर्कशध्वनिकीटविशेषा यस्मिन् तत् तथा । तेषां निर्झराणां शीकरैर् वायुशीर्णवारिबिन्दुभिः । द्रुमैश्चम्पकचन्दनादिभिः पिप्पलैश्च मण्डितम् । प्राधान्यात् प्राचुर्याच्च पिप्पलानां पृथग्ग्रहणम् ॥ ३ ॥
दुर्घटभावदीपिका
द्रुमपिप्पलमण्डितमित्यस्य द्रुमैर्नानाद्रुमैः पिप्पलैश्च मण्डितमित्यर्थः । प्राचुर्यात्प्राधान्याच्च पिप्पलानां पृथग्ग्रहणम् । एतेन पिप्पलानां द्रुमत्वस्य सिद्धत्वाद् द्रुमेत्येतद्व्यर्थमिति दूषणमपास्तम् । पिप्पलातिरिक्तनानावृक्षा अपि वर्तन्त इति वक्तुं द्रुमेत्युक्तमित्यभ्युपगमात् ॥ ३ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां
दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे षोडशोऽध्यायः ॥ १०-१६ ॥
सत्यधर्मीया
वसन्तं कृष्णं सेवितुम् । वसन्तं चकारेव तदभिमानी देव इति तत्साम्राज्यं वक्ति ॥ यत्रेति ॥ निर्झराणां झराणां निर्ह्रादो ध्वनिस्तेन निवृत्त आच्छादित इति यावत्स्वनो यासां ता झल्लिकाश्चीर्यः । भृङ्गारी चीरुका चीरी झल्लिका च समा इमा इत्यमरः । तच्छीकरैः सरिन्नीरबिन्धुभिर्जुष्टं सेवितं द्रुमैरितरैः पिप्पलैरपि मण्डितं द्रूणां मा येभ्यस्तैः पिप्पलैरिति वा । मा च शोभा ॥ ३ ॥
सुमनोरञ्जिनी
कानि तानि वसन्तलक्षणानि । यैर् ग्रीष्मोऽपि श्रीकृष्णसेवायै लक्षितोऽभवदिति । तान्याह ॥ यत्रेति ॥ यत्र यस्मिन्ग्रीष्मे । निर्झराणां निर्ह्रादेन निवृत्तस्वना अश्रूयमाणरवा झिल्लिकाः कीटविशेषा यस्मिन् तथाविधं श्रीमद्वनमित्युत्तरेणान्वयः । तच्छीकरैस् तेषां निर्झराणां शीकरैर् जलकणैः । जुष्टं सेव्यम् । द्रुममण्डलेन मण्डितम् अलङ्कृतम् ॥ ३ ॥
सरित्सरःप्रस्रवणोर्मिवायुना कह्लारकञ्जोत्पलरेणुहारिणा ।
न विद्यते यत्र वनौकसां दवो निदाघवह्न्यर्कभवोऽतिशाद्वले ॥ ४ ॥
पदरत्नावली
सरितां स्रोतस्विनीनां सरसां सरोवरसम्बन्धिकुल्यानां च प्रस्रवणानां निर्झराणां च ये ऊर्मयस्तत्सम्बन्धिवायुना कल्हाराणि सौगन्धिकानि, कञ्जानि पद्मानि, उत्पलानि कुवलयानि एतेषां रेणवः परागास्तान् हरति तच्छील इति हारी तथाभूतेन यत्रातिशाद्वले कोमलतरतृणाकीर्णदेशे निदाघो ग्रीष्मस्तत्सम्बन्धिनौ वह्न्यर्कौ ताभ्यां भवतीति भवो यो दवस्तापः स वनौकसां न विद्यते । दुनोति उपतापयतीति दवस्तापः । दु उपतापे इति धातोर् अच्प्रत्ययान्तशब्दोऽयम् ॥ ४ ॥
सत्यधर्मीया
सरिच्च नदी, सरो देवखातः, प्रस्त्रवणं निर्र्झर एतेषामूर्मयस्तरङ्गास्तद्वायुना । कह्लाराणि सौगन्धिकानि कञ्जानि कमलान्युत्पलानि रक्तानि नीलानि च तेषां रेणवः परागास्तान्हरति तच्छील इति हारी तेन । निदाघवन्ह्यर्कभवो निदाघसम्बन्धिनौ वन्ह्यर्कौ ताभ्यां भवतीति भवो दवो वनहुताशनो वनौकसां यत्र न विद्यते तत्रेदमपि किञ्चित्कपिवद्रामस्य दावतापापनोदे सहकारी-तीरयति ॥ अतिशाद्वल इति ॥ नडशादाद्वलजिति वलच् । शाद्वलं स्यादहरितोरित्यमरः । अतिशयितं शाद्वलं यस्मिंस्तस्मिन् ॥ ४ ॥
सुमनोरञ्जिनी
सरिद् यमुनानदी । सरांसि देवखाताः । प्रस्रवणाः क्षुद्रनद्यः । तदीयोर्मि-वायुना निमित्तेन । कथम्भूतेन । कह्लाराणि सौगन्धिकानि, कञ्जानि पद्मानि, उत्पलानि नीलोत्पलानि च तेषां रेणुभिर् हारिणा मनोहरेण । वनौकसां प्राणिनाम् । अतिशाद्वले अत्यन्तहरिततृणयुते स्थाने । निदाघो ग्रीष्मस् तदानीन्तनाभ्यां वन्ह्यर्काभ्यां भव उत्पत्तिर्यस्य तादृशो दवस् तापः यत्र न विद्यते
॥ ४ ॥
अगाधतोयह्रदिनीतटेरुहैर्द्रवत्पुलिन्याः पुलिनैः समन्ततः ।
न यत्र चण्डांशुकरा विषोल्बणा भुवो रसं शाद्वलितं निगृह्णते ॥ ५ ॥
पदरत्नावली
विषवदुल्बणाश् चण्डांशुकरा अतितीक्ष्णतरणिकिरणा यत्र शाद्वलितं बालतृणनिबिडं भुवो गतं रसं जलं न निगृह्णते, ग्रहीतुं न शक्नुवन्तीति यावत् । तत्र किं कारणमित्यत आह अगाधेति ॥ अगाधं तोयं यस्याः सा अगाधतोया, सा च ह्रदिनी महानदी तस्यास्तटेरुहैस् तीरोत्पन्नतरुभिः समन्ततः द्रवत्पुलिन्याः स्वप्रविष्टावान्तरनद्याः पुलिनैः सिकताभिर्निमित्तैः । सर्वदा द्रवीभूतस्थलत्वादित्यर्थः ॥ ५ ॥
सत्यधर्मीया
अगाधं तोयं यस्याः सा च ह्रदिनी महानदी तस्यास्तटे रुहैस्तीरोत्पन्नैर्वृक्षैः । वैवक्षिकसंज्ञात्वमङ्गी हलदन्तात्संज्ञायामिति सप्तम्या अलुगिति केचित् । केचिच्च पदभेदं वदन्तो रुहेः कप्रत्ययमाचक्षाणा रुहन्तीति रुहा इत्याचक्षते । अन्ये तु मन्यन्ते तटे स्वप्रसरेण तरणेर् ई कोपो यैस्ते सन्तश्च ते रुहाश्चेति । ई दुःखभावने कोप इति विश्वात्तदुपपत्तिमेकपद्ये । किरणाप्रसरणात्तरणेः कोप इति भावस्तत्र । अत एव न यत्र चण्डांशुकारा विषोल्बणा इत्याद्यनुपदं वक्ष्यतीत्युपपत्तिमाहुः । द्रवत्पुलिन्याः स्वप्रतिष्टावान्तरनद्याः पुलिनैः । नलिपुलिभ्यामितीनम् । सिकताभिर्विषवदुल्बणाः क्रूराश्चण्हांशोः सूर्यस्य कराः किरणाः । शाद्वलितं सञ्जाताशाद्वलमिति । भुवो रसं जलं न निगृह्णते न गृह्णन्ति । स्वरितेत्त्वात्कर्तृगामिनि क्रियाफले आत्मेनपदता ॥ ५ ॥
सुमनोरञ्जिनी
द्रवत्पुलिन्या द्रवन्त्याः स्यन्दन्त्याः पुलिन्या नद्याः । पुलिनैः सूक्ष्मवालुकाभिर् निमित्तैः । स्वत एव पुलिनस्थलम् । तत्रापि नदीसन्निधानम् । तस्मा-न्निमित्तादित्यर्थः । तथा अगाधं तोयं यस्याः सा तथाभूता यद्ध्रदिनी नदी तस्यास् तटेरुहैस् तीरजनितैः । अनेन सर्वदा तोयसन्निधानेन वृक्षाणां निबिडच्छायता ध्वनिता । र्वृक्षैश्च निमित्तैः । यत्र वृन्दावने । विषापेक्षया उल्बणा अपि चण्डांशोः सूर्यस्य कराः । शाद्वलितं शाद्वलनिबिडं भुवो रसम् । न निगृह्णते न शोषयति । स्वत एव द्रवीभूतायाः पुलिनभूमेः पुलिन्याः सन्निधानात् । तत्रापि महावृक्षस्थायाः संच्छन्नाया रसो न कदापि सूर्यकिरणैः शुष्यतीति भावः ॥ ५ ॥
श्रीमद्वनं कुसुमितं नदच्चित्रमृगद्विजम् ।
गायन्मयूरभ्रमरं कूजत्कोकिलसारसम् ॥ ६ ॥
पदरत्नावली
कुसुमितं नानासुमस्तोमसंवीतम् । कूजन्तः कोकिलाः सारसाश्च यस्मिन् तत् ॥ ६ ॥
सत्यधर्मीया
कुसुमितम् । तारकादीतच् । नदच्चित्रमृगद्विजं चित्रं नदन्तो नदच्चित्राः । कोकिलाः सारसाश्च यस्मिंस्तत् ॥ ६ ॥
सुमनोरञ्जिनी
श्रीमत् शोभावत् । कुसुमान्यस्मिन् सञ्जातानि तत्कुसुमितम् । नदन्तश् चित्रा नानाजातीया मृगा द्विजाः पक्षिणो यस्मिन् तत् । गायन्तो गानं कुर्वन्तः । षड्जादिस्वरानुच्चरन्तो मयूरा भ्रमराश्च यस्मिन् तत् । कूजन्तो मधुरध्वनिं कुर्वन्तः कोकिलाः सारसाश्च यस्मिन् तत्
॥ ६ ॥
क्रीडिष्यमाणस्तत् कृष्णो भगवान् बलसंयुतः ।
वेणुं विरणयन् गोपैर्गोधनैः संवृतोऽविशत् ॥ ७ ॥
पदरत्नावली
विरणयन् विविधस्वरैर्नादयन् कृष्णस् तद् वनमविशदित्यन्वयः ॥ ७ ॥
सत्यधर्मीया
तद्वनं कृष्णोऽविशदित्यन्वयः ॥ ७ ॥
सुमनोरञ्जिनी
क्रीडिष्यमाणः भाविक्रीडेच्छुः । तद् वनम् । विरणयन् विविधं यथा स्यात्तथा रणयन् स्वनयन् । गोरूपैर् धनैः संवृतो युक्तः ॥ ७ ॥
प्रवालबर्हस्तबकस्रग्धातुकृतभूषणाः ।
रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ॥ ८ ॥
पदरत्नावली
स्तबकाः पुष्पगुच्छाः । धातवो गैरिकाद्याः ॥ ८ ॥
सत्यधर्मीया
प्रवालाः किसलया बर्हाणि पिच्छानि स्तबका गुच्छाः, स्रजश्च मालाश्च धातवो गौरिकादयश्च तैः कृतं भूषणं येषां ते ॥ ८ ॥
सुमनोरञ्जिनी
प्रवालाः किसलयाः, बर्हाः पिंछाः, तेषां स्तबकैर् गुच्छैः कृताः स्रजो यैस्ते च ते, धातुभिर् गैरिकादिभिः सुवर्णादिभिर्वा कृतानि भूषणानि यैस्ते च ॥ ८ ॥
कृष्णस्य नृत्यतः केचिज्जगुः केचिदवादयन् ।
वेणुं पाणितलैः शृङ्गैः प्रशशंसुरथापरे ॥ ९ ॥
पदरत्नावली
शृङ्गैस् तन्नामकवाद्यविशेषैः ॥ ९ ॥
सत्यधर्मीया
केचिदवादयन्वेणुं पाणितलैः शृङ्गैरवादयन्नपरे प्रशशंसुस्तव वादनं समीचीन-मित्यस्तुवन् ॥ ९ ॥
सुमनोरञ्जिनी
नृत्यतः कृष्णस्यानुसारेण केचिज् जगुः । वेणुम् अवादयन् । पाणितलैः परस्पराहतैः पाणितलैर् मृदङ्गान्वा । शृृङ्गैर् गानानुकूलस्वरैर् वाद्यविशेषैः ॥ ९ ॥
गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणः ।
ईडिरे कृष्णरामौ च नटा इव नटं नृप ॥ १० ॥
सत्यधर्मीया
नटा नटमिव कृष्णरामावीडिरे । नटमित्येकवचनेन बले कर्मत एतद्धटनं विघटनं च कृष्ण इति सूचयति ॥ १० ॥
सुमनोरञ्जिनी
गोपालरूपिणः सन्तः । गोपानां जातौ । प्रतिच्छन्ना देवा ईडिरे । ईड स्तुतौ । नटा नटनाभिज्ञाः ॥ १० ॥
भ्रामणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः ।
चिक्रीडतुर्नियुद्धेन काकपक्षधरावुभौ ॥ ११ ॥
पदरत्नावली
भ्रामणैरेकस्य हस्तं गृहीत्वैकेन मण्डलाकारेण परिवर्तनानि तैः । लङ्घनैः स्पर्धाभावेनोल्लङ्घनैः । क्षेपैः सुदूरं पाषाणक्षेपणैः । आस्फोटनैः कोमलकरतलयुगलेन बाहुमूल-युगलास्फालनानि तैः । बलप्रदर्शनार्थमन्योन्यमाकर्षणं विकर्षणम् । नियुद्धेन बाहुयुद्धेन । काकपक्षधरौ अकृतचौलकेशधारिणौ, त्रिवृत्कृतवेणीधारिणावित्यर्थः । ‘बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डिका’ इत्यभिधानम् ॥ ११ ॥
सत्यधर्मीया
भ्रामणैरेकस्य हस्तं गृहीत्वैकेन मण्डलाकरेण परिवर्तनानि तैः । लङ्घनैः पादनियत्योत्प्लवनैः । क्षेपैर्गृहीत्वैकं पिण्डीकृत्य प्रक्षेपैरास्फोटनैर्भुजोर्वादिहस्तताडनैर्विकर्षणैरा-कर्षणैर्नियुद्धेन बाहुयुद्धेन चिक्रीडतुः । उभौ काकपक्षधरौ धरत इति धरौ काकपक्षस्य धरौ । काकपक्षः शिखण्डक इत्यमरः । शिरःपार्श्वद्वयतः कर्णपर्यन्तं धार्यः केशसंवेश इत्यर्थः ॥ ११ ॥
सुमनोरञ्जिनी
भ्रामणैर् मण्डलाकारेण लङ्घनैः । एकं मध्ये उपवेश्य तल्लंघनैः । क्षेपैः पाषाणादिक्षेपणैः । आस्फोटनैर् बाह्वोर् आस्फालनैः । विकर्षणैः परस्परं पाणिना पाणिमवलम्ब्य विकर्षणैः । नियुद्धेन मल्लयुद्धेन । काकपक्षधरौ काकपक्षाकृतिकेशधारिणौ । काकपक्षधारणमधुनापि औत्तराः कुर्वन्ति ॥ ११ ॥
क्वचिन्नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् ।
शशंसतुर्महाराज साधु साध्विति वादिनौ ॥ १२ ॥
सत्यधर्मीया
स्वयं रामकृष्णौ ॥ १२ ॥
सुमनोरञ्जिनी
अन्येषु गोपेषु नृत्यत्सु स्वयं रामकृष्णौ गायकौ बभूवतुः ॥ १२ ॥
क्वचिद् बिल्वैः क्वचित् कुम्भैः क्व चामलकमुष्टिभिः ।
अस्पृश्यनेत्रबन्धाद्यैः क्वचिन्मृगखगेहया ॥ १३ ॥
पदरत्नावली
कुम्भैर् गुग्गुलाख्यवर्तुलाकारफलैः । ‘कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलः पुमान्’ इत्यमरः । पृष्ठतोऽनुधावन्तं प्रति अस्पृश्यं मां स्पृशेति समयबन्धं कृत्वा पुरतो लीलया धावनमस्पृश्यक्रीडनम् । वस्त्रेण नेत्रमाच्छाद्य मां स्पृशेति निगद्य परितो भ्रमणं नेत्रबन्धलीला । सुदूरवर्तितरुं लक्षीकृत्य यस्तत्तरुमादौ स्पृशति स विजयी स्यादितीयं क्रीडा धावनसञ्ज्ञा । एतत्क्रीडादिकमादिपदेन ग्राह्यम् । मृगखगेहया तच्चेष्टया ॥ १३ ॥
सत्यधर्मीया
कुम्भः वर्तुलाकारफलवान् गुग्गुलवृक्षः । कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलः पुमानित्यमरः । कुम्भेति सङ्घातविगृहीतकार्मुके वारतार्यां च कुम्भः । क्लीबं तु गुग्गुलाविति रभसः । उलूखले गुग्गुलौ च क्लीबं कुम्भमुलूखलमिति रुद्रः । कुम्भोलूखलकं कुम्भकुम्भोलूखलकं वरमिति वाचस्पतिः । क्व च क्वाप्यामलकमुष्टिभिरामलकपूर्णमुष्टिभिरस्पृश्यनेत्रबन्धाद्यैः पृष्ठतोऽनुगतोऽस्पृश्यं मां स्पृशेति समयबन्धं कृत्वा पुरोगमनक्रीडया स्पृश्येत्येकदेशोक्त्या ग्राह्यः । नेत्राच्छादनादिपदेन हस्तप्रतित्याजनादिकं ग्राह्यम् । क्वापि मृगखगेहया तच्चेष्टया ॥ १३ ॥
सुमनोरञ्जिनी
कुम्भैर् गुग्गुलवृक्षफलैः । त्वं मां स्पृशेत्युक्त्वा तत्पाणिं पाणिना स्पृष्ट्वा पृष्टतः पुरतो धावनमस्पृश्यसंज्ञकम् । एकः स्वपाणिभ्यामन्यस्य नेत्रे आच्छाद्य । तदैव तत्र तत्र लीनान् सर्वानन्वेषयेति वदति । अन्योऽपि तानन्वेषयति यत्तन्नेत्रबन्धक्रीडनम् । आद्यपदेन दूरस्थलक्ष्यवेधादिकं गृह्यते । मृगानां खगानां चेहया चेष्टया ॥ १३ ॥
क्वचिच्च दर्दुरप्लावैर्विविधैरुपहासकैः ।
क्वचित् तथाऽऽन्दोलिकया कर्हिचिन्नृपचेष्टया ॥ १४ ॥
पदरत्नावली
दर्दुरप्लावैर् मण्डूकप्लुतिभिः ॥ १४ ॥
सत्यधर्मीया
दर्दुरप्लावैर्मण्डूकप्लवनैर्मर्कटमुखवन्मुखविकसनादिभिरान्दोलिकया परस्परं द्वयोर्बाह्वोः प्रसरणकृतान्दोलिकया । नृपचेष्टयाऽहं नृपो भवानि त्वममात्यो भवेत्यादिव्यापारेण ययाति-शापेन भूपतित्वाभावादिदमपदेशेन किञ्चित्तत्सुखमनुभविष्याव इति लीलामेतां लालयामासुरिति भावः
॥ १४ ॥
सुमनोरञ्जिनी
दर्दुरच्छावैर् मण्डूकवदुत्प्लवनैः । उपहासकैर् नर्मवचनैः । आन्दोलिकया आन्दोलाकृतिषु गोपेष्ववलम्बनेन । नृपलीलया च ॥ १४ ॥
एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने ।
नद्यद्रिद्रोणिकुञ्जेषु पुलिनेषु सरस्सु च ॥ १५ ॥
पदरत्नावली
नद्यश्चाद्रयश्च द्रोणयश्च कुञ्जाश्च तेषु । द्रोणयः काष्ठाम्बुवाहिन्यः । ‘द्रोणी काष्ठाम्बुवाहिनी’ इत्यमरः । ‘ङ्यापोः सञ्ज्ञाछन्दसोर्बहुलम्’ इत्यनेन ह्रस्वः । कुञ्जा निकुञ्जाः, परितो लतापल्लवादिपिहितक्रीडायोग्यमञ्जुलस्थलविशेषा इति यावत् । ‘निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे’ इत्यमरः ॥ १५ ॥
सत्यधर्मीया
लोकसिद्धाभिः क्रीडाभिर्नद्यश्चाद्रयश्च द्रोणयः काष्ठाम्बुवाहिन्यः । द्रोणी काष्ठाम्बुवाहिनीति विश्वः । ङ््यापोः संज्ञाछन्दसोरिति ह्रस्वः । कुञ्जो गुल्मविशेषो लतापिहित-स्थानम् । निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदर इत्यमरः । चेरतुः ॥ १५ ॥
सुमनोरञ्जिनी
नद्यः । अद्रिद्रोणयः पर्वतमध्यवृत्तिनिम्नभूमयः । कुञ्जा लतागृहाणि तेषु
॥ १५ ॥
पशूंश्चारयतो गोपैस्तद्वने रामकृष्णयोः ।
गोपरूपी प्रलम्बोऽगादसुरस्तज्जिघांसया ॥ १६ ॥
पदरत्नावली
तयोर्जिघांसा हननेच्छा तया ॥ १६ ॥
सत्यधर्मीया
इदानीं शेषोऽशेषबलत्वेन जातः किञ्चिच्चकार स्मृतहरिचरणः परिचरमिति वक्तुमुपक्रमते ॥ पशूनिति ॥ तज्जिघांसया तयोर्जिघांसा हननेच्छा तया ॥ १६ ॥
सुमनोरञ्जिनी
पशून् चारयतोः सतोः । तद्वने तस्मिन्वने । प्रलम्बो नामतः । जात्या त्वसुरः । गोपस्य रूपमिव रूपमस्यास्तीति तथोक्तः सन् । तयोर्जिघांसया ॥ १६ ॥
तं विद्वानपि दाशार्हो भगवान् सर्वदर्शनः ।
अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् ॥ १७ ॥
सत्यधर्मीया
सर्वदर्शनः सर्वज्ञस्तस्य वधस्तत्सख्यावधिरिति तदन्वमोदताभिमतमतनोत्
॥ १७ ॥
सुमनोरञ्जिनी
दाशार्हः दशार्हाणामधिपः श्रीकृष्णः । सर्वस्य दर्शनं यस्य सः । सर्वज्ञ इत्यर्थः । तं विद्वानपि जिघांसया आगतं जानन्नपि तस्य वधं चिन्तयन् । तेन सरव्यं सर्वेषाम् अन्वमोदत अङ्गीचकार ॥ १७ ॥
तत्रोपाहूय गोपालान् कृष्णः प्राह विहारवित् ।
हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥ १८ ॥
पदरत्नावली
विहारवित् तद्विनाशनोचितविहारप्रकाराभिज्ञ इति यावत् । यथायथं यथायोग्यं द्वन्द्वीभूय पक्षद्वयं कृत्वा ॥ १८ ॥
सत्यधर्मीया
द्वन्द्वीभूयैतस्य प्रतिभटोऽयं तस्यायमिति द्वयोर्मेलनं कृत्वा विहरिष्यामः ॥१८॥
सुमनोरञ्जिनी
तत्र तदानीम् । यथा यथा वयोबलाद्यनुसारेण । द्वन्द्वीभूय । विहरिष्याम इति प्राह ॥ १८ ॥
तत्र चक्रुः परिवृढौ गोपा रामजनार्दनौ ।
कृष्णसङ्घट्टिनः केचिद् गोपा रामस्य चापरे ॥ १९ ॥
पदरत्नावली
परिवृढौ नायकौ । कृष्णसङ्घट्टिनः कृष्णपक्षीयाः । अपरे रामस्य च सङ्घट्टिनो बभूवुः ॥ १९ ॥
सत्यधर्मीया
परिवृढौ नायकौ कृष्णसङ्घट्टिनस्तत्पक्षस्थाः । सङ्घट्टिन इति विघटितं रामस्य च सङ्घट्टिन इत्यन्वेति ॥ १९ ॥
सुमनोरञ्जिनी
परिवृढौ नायकौ । कृष्णसङ्घट्टिनः कृष्णपक्षीयाः । अपरे रामस्य सङ्घट्टिनः
॥ १९ ॥
आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः ।
तत्रारोहन्ति जेतारो वहन्ति च पराजिताः ॥ २० ॥
पदरत्नावली
वाह्या वाहका इति लक्षणं चिह्नं यासां ताः । वाह्यवाहकलक्षणा इत्येतदेव विशदयति तत्रेति ॥ २० ॥
सत्यधर्मीया
वाह्या वाहका इति लक्षणं चिह्नं यासां ताः । जेतारो ये ते पराजितमारोहन्ति पराजिता जयवन्तं वहन्ति ॥ २० ॥
सुमनोरञ्जिनी
वाह्यवाहकत्व एव लक्षणे जयपराजयज्ञापके यासां ताः क्रीडाः । तदेव स्पष्टमाह ॥ तत्रेति ॥ २० ॥
वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम् ।
भाण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः ॥ २१ ॥
सत्यधर्मीया
वहन्तः स्वयमन्यानन्यैर्वाह्यमानाश्च । नाम प्रसिद्धम् ॥ २१ ॥
सुमनोरञ्जिनी
वाह्यमानाः पृष्टेनोह्यमानाः ॥ २१ ॥
रामसङ्घट्टिनो ये तु श्रीदामवृषभादयः ।
क्रीडायां जयिनस्तांस्तानूहुः कृष्णादयो नृप ॥ २२ ॥
पदरत्नावली
पक्षद्वये ये ये जयिनः कृष्णादयस्तान् तान् ऊहुः, पराजयिन इति शेषः । क्रीडायां कृष्णपक्ष एवाजैषीत् । किन्तु कृष्णपक्षीयप्रलम्बभद्रसेनादिद्वित्रा एव बलरामवृषभादिभिः पराजिता इति बोध्यम् ॥ २२ ॥
सत्यधर्मीया
श्रीदामा च वृषभश्चादी येषां ते तथा । तथा कृष्णादयश्चेत्येतद्युगमध्ये ये ये क्रीडायां जयिनस्तांस्तान्पराजयिन इति शेषः । ऊहुः । उत्तरस्थतात्पर्यस्वारस्यादेवमन्वयः संलग्नः
॥ २२ ॥
सुमनोरञ्जिनी
श्रीदामवृषभादयः । अत्र पराजितः श्रीदामा क्रीडायां ये जयिनः कृष्णादयस् तांस्तानूहुरिति सम्बन्धः ॥ २२ ॥
उवाह कृष्णो भगवान् श्रीदामानं पराजितः ।
वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥ २३ ॥
तात्पर्यम्
श्रीदामा कृष्णमुवाह । हरिवंशादिवचनात् । ‘बहुमानविरोधे तु व्यत्यासः शब्दतोऽर्थतः । कार्योऽनिरुक्तदेवानां गुणसिद्ध्यै न चान्यथा । विष्णुर्ब्रह्म तथा वायुर-निरुक्ताः प्रकीर्तिताः । तत्पत्न्यश्चेतरगुणा व्यत्यास्यास्तेष्वसंशय’ इति ब्रह्मतर्के ॥ २३ ॥
पदरत्नावली
उवाह कृष्णो भगवानित्यत्र विभक्तिव्यत्ययेनान्वेतव्यः । श्रीदामा कृष्णमुवाहेति । न च वाच्यं नोचितं व्यत्यस्य कथनमिति । अमितपराक्रमादिपरिपूर्णपरमेश्वरपराजयस्य बहुमानविरुद्धत्वात् । ‘श्रीदाममजयत् कृष्णः प्रलम्बं रोहिणीसुतः । गोपालैः कृष्णपक्षीयैर्गोपालास्त्वपरे जिताः’ इति हरिवंशादिवचनात् । बहुमानविरोधे सति वचनादिव्यत्यासेनैवमेव शास्त्रार्थोऽवसेय इत्यत्राचार्यैर्ब्रह्मतर्कवचनान्युदाहारिषत । ‘बहुमानविरोधे तु व्यत्यासः शब्दतोऽर्थतः । कार्योऽनिरुक्त-देवानां गुणसिद्ध्यै न चान्यथा । विष्णुर्ब्रह्म तथा वायुरनिरुक्ताः प्रकीर्तिताः । तत्पत्न्यश्चेतरगुणा व्यत्यास्यास्तेष्वसंशयः’ इति ॥ २३ ॥
सत्यधर्मीया
उवाह कृष्णो भगवानिति श्लोके लोकेशस्य कृष्णस्य पराभवः प्रतीयते स च बहुमानावमानित इत्यतः किञ्चिन्माननामग्रहणपूर्वकं विरोधं प्रदर्श्य विभक्तिव्यत्ययेन चान्वयं लापयित्वा तत्स्थेम्ने ब्रह्मतर्कवचनमुदाहरति ॥ श्रीदामेति ॥ श्रीदामा । अनेन द्वितीया प्रथमार्थ इव प्रथमा कृष्णमिति द्वितीयार्थ इत्युक्तं भवति । हरिवंश आदिर्यस्य तद्धरिवंशादिपुराणं तद्विरोधात् । स च–
अविषह्यं तथा मत्वा कृष्णमद्भुतदविक्रमम् ।
रौहिणेयवधे यत्नमकरोद्दानवोत्तमः ।
हरिणा क्रीडनं नाम बालक्रीडनमेव हि ।
क्रीडिताश्चैव ते सर्वे द्वौ द्वौ युगपदुत्पतन् ।
कृष्णः श्रीदामसहितः पुप्लुवे गोपसूनुना ।
सङ्कर्षणस्तु प्लुतवान्प्रलम्बेन सहानघः ।
गोपालास्त्वपरे द्वन्द्वं गोपालैरपरैः सह ।
प्रद्रुता लङ्घयन्तो वै तेऽन्योन्यं लघुविक्रमाः ।
श्रीदाममजयत्कृष्णः प्रलम्बं रोहिणीसुतः ।
गोपालैः कृष्णपक्षीयैर्गोपालास्त्वपरे जिताः ॥
इत्यादिः । न च भागवतस्यानन्तरीयकतया व्याख्यारूपतया प्राबल्याद्भारतापबाधनं कुतो न स्यादिति वाच्यम् । श्रीपरमेश्वरपराजयस्यामरपामरमनोऽनङ्गीकरणीयस्य बहुमानविरुद्धस्य चास्वीकार्यत्वात् । यथा भागवते तूक्तमित्यारभ्य विनैव सर्वमुन्नेयमित्यन्तपञ्चमतात्पर्यानुकूल्यं च तत्रैव योजनाभेदत इत्युक्तेश्च । वचनार्थादिव्यत्यासस्य मानाननतोऽनुपपत्तौ कर्तव्यताश्रावकब्रह्मतर्क-वचनाद्भागवतार्थो वचनादिव्यत्यासेनैवावसेय इत्याह ॥ बहुमानेति ॥ तत्रापि नैकलहरिवंशकलहः किन्तु बहूनि मानानि विरोधकानि सन्तीति बलवन्निमित्तं बलवत्त्वं बह्वित्यनेनोक्तमिति ज्ञेयम् । तुरवधारणे बहुमानविरोध एवेति सम्बध्यते । विरोध एव व्यत्यासः प्रस्तुतस्तु शब्दतोऽर्थतो दुःखीत्यादौ कार्यः । केचित्कर्मणः कर्तृत्वं कर्तुस्तु कर्मत्वमित्यर्थव्यत्यासमाहुः । अन्यथा विरोधाभावे । अनेन विरोधोपरोध एवैवमिति न किन्तु फललाभोऽप्यस्तीति लपति । अनिरुक्तदेवानां गुणासिद्ध्या इति च । चः समुच्चये । ते चानिरुक्ताः किमाकारा इत्यत आह ॥ विष्णुरिति ॥ विष्णुर्ब्रह्मा वायुश्चानिरुक्तास्तथा तेषां त्रयाणां पत्न्यो योषितश्चानिरुक्ता इति सम्बन्धः । परशुक्लत्रयं स्मृतमित्यादेः । तेष्वनिरुक्तेष्वितरेषां शिवादीनां गुणाः पराजयादयः प्रतीता वचनादितस्ते व्यत्यास्या व्यत्यासयितव्याः । अत्रासंशयः संशयाभावो रक्षोहागमलध्वसन्देहा इति निर्देशादसंशयः सिद्धो नितरां वक्तुमशक्या अनिरुक्ता इति विग्रहः ॥
ततश्चायं मूलार्थः ॥ श्रीदामानं श्रीदामा पराजितः सन् कृष्णः कृष्णमुवाह । वृषभं भद्रसेनो गोप उवाह प्रलम्बो रोहिणीसुतमुवाहेत्यन्वयः । अत्रायं विवेकः । कृष्णो रामश्चेति द्वौ नायकौ तत्र प्रलम्बो भद्रसेनश्च कृष्णपक्षगौ बभूवतुः । श्रीदामा वृषभश्चेत्युभौ बलपक्षगौ बभूवतुस्तत्र श्रीदामा श्रीदामोदरस्य प्रतिभटः, प्रतिभटश्च प्रलम्बो बलस्य, वृषभस्य भद्रसेनस्तत्र श्रीदामा पराजितः कृष्णं, प्रलम्बस्तथा सन्बलं, भद्रसेनस्तु वृषभमुवाहेति । न च कृष्णस्य पक्षिषु जयोऽस्त्विति महाभारत-तात्पर्यनिर्णये कृष्णपक्षस्य सर्वजयोक्तेः कथमिदमिति शङ्क्यम् । सर्वेष्विति सर्वविदभाषणत् । द्वित्राणामत्र पराजयस्येवान्यत्र द्वित्राणां जयस्यापि सम्भवात् । अगत्या प्रलम्बकृतबलोद्वहनेनेत्थमेव वक्तव्यत्वाच्च । बलबालमेलने प्रलम्बेन बलोद्वाहनं न सम्भवति स्वव्यूहस्थवाहनानौचित्यात् । अत एव व्याचक्रिरे जनार्दनभट्टाः । अत्रायमाशयः । कृष्णपक्षिभिः सर्वैर्जितं तत्पक्षस्थैः प्रलम्ब-भद्रसेनाद्यैर्द्वित्रैरेव पराजितम् । रामपक्षीयैः श्रीदामाद्यैः सर्वैः पराजितं वृषभाद्यैर्जितमिति । ननु रावणसमबलः प्रलम्बः प्राक् लक्ष्मणं क्षितौ पतितमुद्धर्तुं न शशाकेति सर्वजनोऽनन्ततनुमेवेमं कथमुन्नीयायं गत इति चेन्न । निद्रितस्त्वं तत्त्वतो यत्प्राक् तृणावर्तेन कृष्णनायकनयने नाप्राक्षीरिति । तत्राचिन्त्याद्भुतशक्तिरिति नानुयोक्ताऽहं निद्रित इति वदसि चेद्धन्त तर्ह्यत्र सस्मार रूपं निजमेव लक्ष्मण इत्युक्तेस्तत्रेव स्वस्वरूपस्मरणस्याभावाल्लाघवतः प्रलम्बबलोन्नीतिर्नीतिमतीति भवान्भवतु वेदिता ॥ २३ ॥
सुमनोरञ्जिनी
कृष्णम् उवाहेति विभक्तिव्यत्ययेनान्वयो द्रष्टव्यः । एवं भद्रसेनं वृषभ इत्यपि । प्रलम्बो रोहिणीसुतं राममुवाहेत्यन्वयः । तदेतत्सर्वमभिप्रेत्योक्तमाचार्यचरणैः–
श्रीदामा कृष्णमुवाह । हरिवंशादिवचनविरोधात् ।
बहुमानविरोधे तु व्यत्यासः शब्दतोऽर्थतः ।
कार्योऽनिरुक्तदेवानां गुणसिद्ध्यै न चान्यथा ।
विष्णुर्ब्रह्मा तथा वायुरनिरुक्ताः प्रकीर्तिताः ।
तत्पत्न्यश्चेतरगुणा व्यत्यास्यास्तेष्वसंशयः ॥ इति ब्रह्मतर्क इति ।
उवाहेति योज्यमिति शेषः । कुत इत्यत आह ॥ हरिवंशेति । हरिवंशादीत्यादिपदेन विष्णुपुराणवचनं ग्राह्यम् । तथा हि पुराणवचनम् -
श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः ।
जितवान् कृष्णपक्षीयैर्गोपैश्चान्ये पराजिताः ।
ते वाहयन्तस्त्वन्योन्यं भाण्डीरस्कन्धमेत्य वै ।
पुनर्निववृतुश्चैव ये ये तत्र पराजिताः ॥ इति ।
व्यत्यासेन योजनायां नियामकमप्याह ॥ बह्विति ॥ बहुप्रमाणविरोधे प्रकृतवाक्यस्य प्राप्ते सति अनिरुक्तदेवानां गुणसिद्धिरूपप्रयोजनाय शब्दतोऽर्थतश्च शब्दे अर्थे वा उभयत्र वा व्यत्यासः कार्यः । प्रकृते तु प्रथमान्तकृष्णपदस्य द्वितीयान्तता । द्वितीयान्तश्रीदामपदस्य प्रथमान्ततेति व्यत्यासः शब्दे । अर्थतो वा वहनार्थकधातोरारोहार्थता । अनेन श्रीकृष्णः श्रीदामानमुवाह आरुरोहेत्यर्थव्यत्यासेनापि योजना स्वाभिप्रेतेत्युक्तं भवति । अस्मिन्पक्षे परेण अजितः पराजित इत्यर्थः । तर्हि प्रलम्बो रोहिणीसुतमित्यत्रापि व्यत्यासः प्राप्त इति चेत् । मैवम् । अनिरुक्तदेवानां गुणसिद्ध्यर्थमेव व्यत्यासस्य कर्तव्यत्वात् । अत्र च तदभावात् । (तं वृषभं भद्रसेन इत्यत्रापि व्यत्यासो न कार्यः स्यादिति चेन् न, वृषभस्य रामपक्षीयत्वेन पराजितत्वाद् वाह्यमानत्वायोगेन हरिवंशादिवचनानुसारेण व्यत्यासस्याप्राप्तत्वात्) । के तेऽनिरुक्तदेवा इत्यत आह ॥ विष्णुरिति ॥ विष्ण्वादयस् तत्पत्न्यश्च अनिरुक्ता इत्यन्वयः । तेषु अनिरुक्तेषु उच्यमाना अपि इतरेषां गुणाः पराजयादयः व्यत्यस्या एवेत्यर्थः ॥ २३ ॥
विरोधोद्धारः
उवाहेति । अस्य यथा श्रुतार्थाङ्गीकारे हरिवंशे श्रीदामा कृष्णमुवाहेत्युक्ते-र्विरोधः । अतोऽत्रत्यकृष्णश्रीदामशब्दयोर्विभक्ती विपरिणम्य कर्मकर्तारौ कल्पनीयौ । विपरीतं किं न स्यादिति चेन्न । ‘बहुमानविरोधे तु व्यत्यासः शब्दतोऽर्थतः । कार्यो निरुक्तदेवानां गुणसिद्ध्यै न चान्यथा । विष्णुर्ब्रह्मा तथा वायुरनिरुक्ताः प्रकीर्तिताः । तत्पत्न्यश्चेतरगुणा व्यत्यास्यास्तेष्वसंशयः’ इति ब्रह्मतर्कोक्तिसंवादात् । किञ्च ‘तत्र चक्रुः परिवृढौ गोपा रामजनार्दनावि’त्युक्त्या कृष्णस्य परिवृढत्वेन वाहकत्वायोगात् । न हि लोके परिवृढौ वाह्यवाहकौ भवत इति प्रत्यक्षविसंवादाच्च ।
ननु रामसङ्घट्टिनो ये तु श्रीदामवृषभादय इत्युक्त्या जयवद्रामपक्षस्थः श्रीदामा पराजितं कृष्णं कथं वहेदिति चेन्न । कृष्णस्य पराजितत्वाभावात् । यतो धर्मस्ततो कृष्णो यतः कृष्णस्ततो जयः । यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्ममेत्याद्युक्तेः । तर्ह्यूहुः कृष्णादयो नृपेति वाक्यस्य का गतिरिति चेत् । कृष्णोदय इत्यत्रातद्गुणसंविज्ञान-बहुव्रीहेरङ्गीकारात्सुगमैव गतिः । जय्यपि श्रीदामा स्वस्य वाह्यत्वेऽपि कृष्णसखत्वात्स्वयमेव तमुवाह । श्रीदामा नाम गोपालो रामकेशवयोः सखेत्युक्तेः ।
ननु च भगवतः पराजितत्वासम्भवे कथं पराजय इति न शङ्क्यम् । तं भूतिरिति देवा उपासां चक्रिरे । ते बभूवुस्तस्माद्धाप्ये तर्हि सुप्तो भूर्भुरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुरित्यादि-श्रुतेः । प्रलम्बासुरस्य नैसर्गिकपराजयत्वेन कृष्णपक्षे तत्स्थित्या पराजयप्राप्तेः । तदर्थमपि स्वपक्षपराजयं कथमुररीचकारेति चेत् । दुष्टानां मोहनार्थाय सतामपि च कुत्रचित् । यथायोग्यफलप्राप्त्यै लीलैषा परमात्मन इत्युक्तेर्न कश्चिद्दोषः । उवाह कृष्णो भगवान् श्रीदामानं पराजित इत्यत्रापि पराजितशब्दस्य परैरजित इति विग्रहाङ्गीकाराच्चेत्यलं विस्तरेण ॥ २२-२३ ॥
॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्याने पाङ्घरी श्रीनिवासाचार्यकृते
विरोधोद्धारे षोडशोऽध्यायः ॥ १०-१६ ॥
अविषह्यं मन्यमानः कृष्णं दानवपुङ्गवः ।
वहन् द्रुततरं प्रागादवरोहणतः परम् ॥ २४ ॥
पदरत्नावली
प्रलम्बः कृष्णं विहाय राममवहत्, तत्र किं कारणम् ? अत्राह अविषह्य-मिति । तृणावर्ततृणीकरणसंस्मरणेन दुर्वहं मन्यमानः । अवरुह्यतेऽस्मिन्नित्यवरोहणं क्लृप्तस्थानं ततः परं दूरं द्रुततरं प्रागाद् दुद्राव ॥ २४ ॥
सत्यधर्मीया
ननु कृष्णो मुख्यद्विट् तं विहायोन्नीतिरलक्ष्यस्य बलस्य कुत इत्यत आह ॥ अविषह्यमिति ॥ दानवपुङ्गवः कृष्णमविषह्यं मन्यमानो द्रुततरमतिशीघ्रमवरोहणतोऽवरुह्यते जनोऽत्रेत्यवरोहणम् । अद आसाद्यावतारयितव्योऽयमिति क्लृप्तस्थानतः परं परतस्तदतिगति यावत्प्रागात् ॥ २४ ॥
सुमनोरञ्जिनी
उभयजिघांसया आगतोऽपि प्रलम्बासुरः । कृष्णम् अविषह्यं सोढुमशक्यं मन्यमानः राममेवावहन् । अवरोहणतो ऽवरुह्यतेऽस्मिन् स्थान इत्यवरोहणं मर्यादास्थानम् । ततोऽपि परं दूरम् । द्रुततरं प्रागात् ॥ २४ ॥
तमुद्वहन् धरणिधरेन्द्रगौरवं महासुरो विगतरयो निजं वपुः ।
स आस्थितः पुरटपरिच्छदो बभौ तटिद्युमानुडुपतिवाडिवाम्बुदः१ ॥ २५ ॥
पदरत्नावली
धरणिधराणां पर्वतानामिन्द्रो मेरुस्तद्वद् गौरवं गुरुत्वं यस्य स तथा तं बलराममुद्वहन् विगतरयो विगतवेगः सन् निजमासुरं वपुरास्थितः सन् पुरटपरिच्छदः कनकालङ्कारः, तडिद्द्युमान् विद्युद्दीप्तिमान्, उडुपतिश्चन्द्रस् तद्वानम्बुद इव कालमेघ इव बभौ । अत्राम्बुदः प्रलम्बः । परिच्छदास्तटितः । उडुपती रामः ॥ २५ ॥
सत्यधर्मीया
विगतरयो विगतो रयो वेगो यस्य स महासुरः, धरणिधराः पर्वतास्तेषामिन्द्रो मेर्वादिस्तस्य गौरवं यस्य स तमुद्वहत् । अनेन गतरयतायां हेतुरुक्तो भवति । निजं वपुरसुर-शरीरमास्थितः । अनेन च मायिकता प्राक्तनस्यैच्छिकीति द्योत्यते । पुरटपरिच्छदोऽलङ्कारादि-र्यस्य सः । अत्राम्बुदः प्रलम्ब उडुपती रामः परिच्छदास्तटित इति रूपम् । तटितो द्यौः प्रकाशस्तद्वान् उडुपतिवाट् उडुपतिं चन्द्रं वहतीति स तथा । उडुपतिमानिति पाठेऽपि स एवार्थः । वाहयतेः क्विप् । अथवा वहेश्चेति । अम्बुद इव बभावित्यभूतोपमा ॥ २५ ॥
सुमनोरञ्जिनी
धरणिधरेन्द्रः पर्वतश्रेष्ठः । तद्वद्गौरवं यस्य तम् । रामम् । विगतं रयो वेगो यस्य सः । निजम् आसुरुं वपुर् आस्थित आश्रितः सन् पुरटमयाः सुवर्णमयाः परिच्छदा अलङ्कारा यस्य सः । तटिद्युमान् तटित्कान्तियुक्तोंऽबुदः मेघः । उडुपतिमानिव चन्द्रवानिव बभौ ॥ २५ ॥
निरीक्ष्य तद्वपुरम्बरेचरं प्रदीप्तदृग् भृकुटितटोग्रदंष्ट्रकम् ।
ज्वलच्छिखं कटककिरीटकुण्डलत्विषाऽद्भुतं हलधर ईषदत्रसत् ॥ २६ ॥
पदरत्नावली
अम्बरेचरमित्यलुक् । प्रदीप्ते दृशौ यस्मिंस्तत् प्रदीप्तदृक्, भृकुटितटसल्लग्ना उग्रा दंष्ट्रा यस्मिंस्तद् भृकुटितटोग्रदंष्ट्रकं, प्रदीप्तदृक् च तद् भृकुटितटोग्रदंष्ट्रकञ्च । भृकुटिः कोपादिना भ्रुवः कुटिः कौटिल्यमित्यर्थः । ईषत् कृष्णप्रबोधात् प्राक् किञ्चिदत्रसद् बिभाय ॥ २६ ॥
सत्यधर्मीया
तदम्बरे चरम् । अलुक् । प्रदीप्ते दृश्यौ यस्य तत् । उग्रेति भृकुटितट-दंष्ट्रोभयविशेषणम् । उग्रं भृकुटितटमुग्रा दंष्ट्रा च यस्य तत् । समासान्तः कप् । आपोऽन्यतरस्यामिति ह्रस्वः । ज्वलन्ती शिखा यस्य तत् । कटककिरीटकुण्डलत्विषा चाद्भुतमाश्चर्यवहं निरीक्ष्य हलधर ईषत्कृष्णप्रबोधात्प्राक् किञ्चिदत्रसद्भीतोऽभूत् । यथोक्तं हरिवंशे–
स सन्दिग्धमिवात्मानं मेने सङ्कर्षणस्तदा ।
दैत्यस्कन्धगतः श्रीमान्कृष्णं चेदमुवाच ह ।
ह्रियेऽहं कृष्ण दैत्येन पर्वतोदग्रवर्ष्मणा ।
तमाह सस्मितं कृष्णः साम्ना हर्षकलेन वै ।
अभिज्ञो रौहिणेयस्य वृत्तस्य च बलस्य च ।
अहोऽयं मानुषो भावो व्यक्तमेवानुपाल्यते ।
यस्तं जगन्मयं गुह्यं गुह्याद्गुह्यतरं गतः ।
स्मर नारायणात्मानं लोकानां त्वं विपर्ययः ॥
इत्यारभ्य
संस्मारितस्तु कृष्णेन रौहिणेयः पुरातनम् ।
बलेनापूर्य तदा त्रैलोक्यान्तरचारिणः ॥
इत्यन्तेन ग्रन्थेन ॥ २६ ॥
सुमनोरञ्जिनी
हलधरः । तस्य प्रलम्बासुरस्य वपुर् निरीक्ष्य । ईषत् किञ्चित् । अत्रसद् भीतो बभूवेति सम्बन्धः । अनन्तरं श्रीकृष्णम् अस्तुवदिति शेषः । कीदृशं वपुः । प्रदीप्ते उज्वले दृशौ, भ्रुकुटितटे, उग्रे दंष्ट्रे च यस्मिन् तत् । उज्ज्वलंत्यः शिखाः केशपाशा यस्मिन् । कटकयोर् वलययोः, किरीटस्य कुंडलयोश्च त्विषा दीप्त्या । अद्भुतं विस्मयकरम् ॥ २६ ॥
अथागतस्मृतिरभयो रिपुं बलो विहायसोर्ध्वं च हरन्तमात्मनः ।
रुषाऽहनच्छिरसि दृढेन मुष्टिना सुराधिपो गिरिमिव वज्ररंहसा ॥ २७ ॥
पदरत्नावली
अथ ‘अहोऽयं मानुषो भावो व्यक्तमेवानुपाल्यते । यस्त्वं जगन्मयं देवं गुह्याद् गुह्यतरं गतः । स्मर नारायणात्मानं लोकानां त्वं विपर्यये । अहं यः स भवानेव यस्त्वं सोऽहं सनातनः । द्वावेव विहितौ ह्यावामेकदेहौ महाबलौ । तदास्से मूढवत् त्वं किं प्राणेन जहि दानवम् । मूधर्ि्न देवरिपुं देव वज्रकल्पेन मुष्टना’ इत्यादिहरिवंशोक्तप्रकारेण शुक्लकेशाविष्टत्व-प्रबोधनानन्तरम् । आगतस्मृतिर् उपात्तमूलस्मरणः । वज्ररंहसा वज्रवेगेन ॥ २७ ॥
सत्यधर्मीया
आगता स्मृतिर्यस्य स तथा । सस्मार रूपं निजमेव लक्ष्मण इत्यादे-र्लक्ष्मणवत् । अभयो बलो विहायसोर्ध्वमात्मन आत्मानं हरन्तं रिपुमात्मनो दृढेन मुष्टिना वज्ररंहसा वज्रवेगेन सुराधिप इन्द्रो गिरिमिव रुषाऽहनदहन् । सबहुव्रीहिः, सद्वज्ररंहसेति मुष्टिविशेषणं च । अथेन निरन्नेन । अन्नं थमिति हि श्रुतिः । अनश्नन्नन्यः । अन्यो निरन्नोऽपि बलेन भूयानित्यादेः । कृष्णेनागता तद्बोधनेनेति यावत् स्मृतिर्यस्य स इति वा । अथ एनागता स्मृतिर्यस्य इति वा । अकारो वासुदेवः स्यादित्यादेः ॥ २७ ॥
सुमनोरञ्जिनी
अथ श्रीकृष्णस्तवानन्तरम् । कृष्णेन बोधितो रामः । आगता स्मृतिः स्वस्य शुक्लकेशाविष्टतास्मृतिर्यस्य स तथोक्त इत्यर्थः । तदुक्तं भारततात्पर्ये -
भीतेन रोहिणिसुतेन हरिस्तुतोऽसौ स्वाविष्टतामुपदिदेश बलाभिपूर्त्यै ।
तेनैव पूरितबलोऽम्बरचारिणं तं पापं प्रलंबमुरुमुष्टिहतं चकार ॥
इति । अभयः भयरहितः सन् । आत्मन आत्मानम् । ऊर्ध्वं च ऊर्ध्वमेव हरन्तं नयन्तम् । सुराधिप इन्द्रः । वज्ररंहसा वज्रवेगेन । गिरिमिव । वज्रवेगेन मुष्टिनेति वा ॥ २७ ॥
स आहतः सपदि विशीर्णशीर्षको
मुखाद् वमन् रुधिरमपस्मृतोऽसुरः ।
महारवं व्यसुरपतत् समीरयन्
गिरिर्यथा मघवत आयुधाहतः ॥ २८ ॥
पदरत्नावली
महारवं प्राणोत्क्रमणकालिकं समीरयन् । व्यसुर् गतप्राणः ॥ २८ ॥
सत्यधर्मीया
सपद्याहतो विशीर्णं शीर्षं यस्य स मुखाद्रुधिरं वमन्नुद्गिरन्नपस्मृतोऽपगतं स्मृतं स्मृतिः । भावे क्तः । यस्य सः । महारवमन्तकालिकं समीरयन् व्यसुर्मघवत इन्द्रस्यायुधं वज्रं तेनाहतो गिरिर्यथा तथाऽपतत् ॥ २८ ॥
सुमनोरञ्जिनी
विशीर्णशीर्षकः विस्पुटितशिरस्कः । अपगतं स्मृतं स्मरणं यस्य सः । महारवं समीरयन् । व्यसुर् विगता असवो यस्यासौ तथाविधः । मघवत इन्द्रस्य । आयुधेन वज्रेण आहतो यथा गिरिः ॥ २८ ॥
दृष्ट्वा प्रलम्बं निहतं बलेन बलशालिना ।
गोपाः सुविस्मिता आसन् साधु साध्विति राविणः ॥ २९ ॥
पदरत्नावली
बलशालिना रामेण । राविणः वादिनः ॥ २९ ॥
सत्यधर्मीया
रावो येषामस्तीति ते तथा ॥ २९ ॥
सुमनोरञ्जिनी
साधु साध्विति राविणः वादिनः ॥ २९ ॥
आशिषोऽभिगृणन्तस्ते प्रशशंसुस्तदर्हणम् ।
प्रेत्यागतमिवालिङ्ग्य प्रेमविह्वलचेतसः ॥ ३० ॥
पदरत्नावली
तदर्हणं प्रशंसार्हम् । मृतिमेत्य पुनरागतमिवालिङ्ग्य ॥ ३० ॥
सत्यधर्मीया
तदर्हणं तद्योग्यं प्रेम्णाऽऽलिङ्ग्याशिषोऽभिगृणन्तः प्रशशंसुस्तुष्टुवुः । प्रेत्य गत्वाऽऽगतमिवेति ॥ ३० ॥
सुमनोरञ्जिनी
तस्याः प्रशंसाया अर्हणम् अर्हम् । तस्य रामस्य अर्हणम् अर्हं योग्यतां प्रशशंसुरिति वा । प्रेम्णा विह्वलं विवशीकृतं चेतो येषां ते ॥ ३० ॥
पापे प्रलम्बे निहते देवाः परमनिर्वृताः ।
अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साध्विति ॥ ३१ ॥
॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे षोडशोऽध्यायः ॥
पदरत्नावली
माल्यैः पुष्पैः ॥ ३१ ॥
॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे षोडशोऽध्यायः ॥
सत्यधर्मीया
यद्भयात्प्राक् परम् अनिर्वृतास्ते देवा इदानीं परमनिर्वृता इत्यावृत्त्याऽन्वयः । माल्यैः प्रसूनैः ॥ ३१ ॥
॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां
दशमस्कन्धपूर्वार्धे षोडशोऽध्यायः ॥ १०-१६ ॥
सुमनोरञ्जिनी
परमनिर्वृता अतीव सन्तुष्टाः । माल्यैः पुष्पैः ॥ ३१ ॥
**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **
(गूढकर्तृकायां) सुमनोरञ्जिन्यां षोडशोऽध्यायः ॥ १०-१६ ॥