१५ पञ्चदशोऽध्यायः

नागालयं रमणकं कस्मात् तत्याज कालियः

॥ अथ पञ्चदशोऽध्यायः ॥

राजोवाच—

नागालयं रमणकं कस्मात् तत्याज कालियः ।

कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् ॥ १ ॥

पदरत्नावली

दारुणभवारण्यज्वलनज्वालामालाभिः परितप्यमानपामरशरीरिणां सन्तत-सन्तापनित्योपशमनिदानं कृपणभक्तकरुणार्णवविष्णुचरणशरणप्रापणमात्रमिति निदर्शयितुं निशीथे यमुनातीरे स्वजनसम्प्रार्थितस्य हरेर्वनाग्निपानचरितं निरूपयत्यस्मिन्नध्याये । असमञ्जसम् अपराधः

॥ १ ॥

सत्यधर्मीया

श्रुतरमणकवासविरमणककालियो राजा निमित्तं विविच्य वदेति पृच्छतीति वदति ॥ राजेति ॥ नागालयमित्यनेकेषां तद्द्वीप ओकः सर्पाणामिति सूच्यते उत्तरोक्तिस्वारस्यात् । असमञ्जसमपराधः ॥ १ ॥

सुमनोरञ्जिनी

नागानाम् आलयं निवासस्थानम् । असमञ्जसम् अप्रियम् ॥ १ ॥

श्रीशुक उवाच—

उपहार्यैः सर्पजनैर्मासिमासीह यो बलिः ।

वानस्पत्यो महाबाहो नागानां प्राङ् निरूपितः ॥ २ ॥

पदरत्नावली

सर्पजनैरुपहार्यैर् उपायनीभूतैर्भक्ष्यैः सह मासिमासि प्रतिमासमिह यो बलिः, क्रियत इति शेषः । कीदृश इत्यत्राह वानस्पत्य इति । वानस्पत्यः सोमे वनस्पतिं गत इत्यमावास्यायां क्रियमाणः स बलिः प्राङ् नागानामैकमत्येनात्मरक्षणार्थं निरूपित उपकल्पितः

॥ २ ॥

सत्यधर्मीया

सर्पजनैरुपहार्यैरुपायनत्वेन देयैः पदार्थैः सह मासिमासि प्रतिमासं पदमेकम् । प्राङ्नागानां रक्षणार्थमिति शेषः । वानस्पत्यो बलिर् वृक्षमूले देय इति केचित् । सोमे वनस्पतिं गत इत्यमावास्यायां क्रियमाण इत्यर्थः । निरूपितः कृतसङ्कल्पितः । ऐकमत्येनात्मरक्षणाय बलिकल्पनं कृतवन्त इत्यर्थः ॥ २ ॥

सुमनोरञ्जिनी

सर्पजनैः सर्पा एव जनास् तैः । उपहार्यैर् भक्षणीयैः पदार्थैः । मासि मासि प्रतिमासम् । वानस्पत्यः सोमे वनस्पतिं गते क्रियमाणः, अमायां क्रियमाण इति पदरत्नावल्याम् । यो बलिः प्राक् नागानामर्थे कर्तव्यतया निरूपित उपकल्पितः । जनैरिति शेषः ॥ २ ॥

स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणिपर्वणि ।

गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ॥ ३ ॥

पदरत्नावली

आत्मनो गोपीथाय रक्षणाय ॥ ३ ॥

सत्यधर्मीया

तदेवाह ॥ स्वं स्वमिति ॥ नागाः स्वं स्वं भागं यथा गृहमायातं पर्वणिपर्वणि पदमेकं महात्मने सुपर्णायात्मनो गोपीथाय रक्षणाय । निपातितः शब्दः । प्रयच्छन्ति ददति ॥ ३ ॥

सुमनोरञ्जिनी

तं स्वं स्वं भागम् । नागाः पर्वणि पर्वणि । आत्मनः स्वस्य । गोपीथाय रक्षणाय । सुपर्णाय प्रयच्छन्ति स्म ॥ ३ ॥

विषवीर्यमदाविष्टः काद्रवेयस्तु कालियः ।

कदर्थीकृत्य गरुडं स्वयं १तां बुभुजे बलिम् ॥ ४ ॥

पदरत्नावली

कद्रोरपत्यं काद्रवेय इत्यनेन कालिये कद्रूदोषलग्नतां ध्वनयति । कदर्थीकृत्य धिक्कृत्य । तां बलिं पूजाम् । ‘पूजायां स्त्री बलिर्दैत्यभेदे ना कर एव च’ इति यादवः

॥ ४ ॥

सत्यधर्मीया

काद्रवेयः । कद्रुकमण्डल्वोः संज्ञायामित्यूङ् स्त्रियाः कद्व्रा अपत्यं काद्रवेयः स्त्रीभ्यो ढगिति ढक् एयादेशः । भानुना देवयोनयोऽमीत्युक्तेर्देवयोनिताऽनेनास्य ज्ञाप्यत इति ज्ञेयम् । कदर्थीकृत्य धिक्कृत्य । तमिति तामित्यपि पाठौ पूजाकररूपयोरर्थयोर्बलिशब्दस्यो- भयलिङ्गत्वादुपपन्नौ । पूजायां स्त्री बलिर्दैत्यभेदे ना कर एव चेति यादवः । स्वयं बुभुजे

॥ ४ ॥

सुमनोरञ्जिनी

कद्रोरपत्यं काद्रवेयः । कालियस्तु । गरुडं कदर्थीकृत्य तुच्छीकृत्य तां नागान्तरैः क्रियमाणां बलिं पूजां स्वयं बुभुजे । पूजायां स्त्रीबलिर्दैत्यभेदे ना कर एव चेत्यभिधानम्

॥ ४ ॥

तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः ।

विजिघांसुर्महावीर्यं कालियं समुपाद्रवत् ॥ ५ ॥

पदरत्नावली

विजिघांसुर् हन्तुकामः ॥ ५ ॥

सत्यधर्मीया

विजिघांसुर्हन्तुकामः कालियं समुपाद्रवत् ॥ ५ ॥

सुमनोरञ्जिनी

भगवत्प्रियो भगवान् गरुडः । विजिघांसुर् हन्तुमिच्छन् ॥ ५ ॥

तमापतन्तं तरसा विषायुधः प्रत्यभ्ययादुद्धृतनैकमस्तकः ।

दद्भिः सुपर्णं व्यदशद् ददायुधः करालजिह्वोच्छ्वसितोग्रलोचनः ॥ ६ ॥

पदरत्नावली

विषमेवायुधं यस्य स तथा । उद्धृतानि नैकान्यनेकानि मस्तकानि मस्तकानि यस्य स तथा । दद्भिर्दन्तैर् व्यदशद् ददंश । ददायुधो दन्ता एवायुधं यस्य स तथा । कराला जिह्वा यस्य, स चासावुद् उच्चानि श्वसितानि यस्य, स चासावुग्राणि लोचनानि यस्य स च कराल-जिह्वोच्छवसितोग्रलोचनः ॥ ६ ॥

सत्यधर्मीया

विषमेवायुधं यस्य स तथाऽभ्ययात्सम्मुखमाययौ । उद्धृतानि नैकान्यनेकानि मस्तकानि यस्य स दद्भिर्दन्तैः । ददायुधो दन्ता एवायुधं यस्य सः । गतम् । करालजिह्वश्चासा-वुदुच्चानि श्वसितानि यस्य स चासावुग्राणि लोचनानि यस्य स च ॥ ६ ॥

सुमनोरञ्जिनी

तरसा वेगेन । तं गरुडम् । विषमेवायुधं यस्य सः । प्रत्यभ्ययाद् योद्धुमभिजगाम । उद्धृतनैकमस्तक उन्नमितानेकफणः । ददायुधः दन्ता एवायुधानि यस्य सः । कराले क्रूरे जिह्वोच्छ्वसिते यस्य स उच्छसितदीर्घश्वासः । यद्वा करालजिह्वश्च, उद् उत्कृष्टं दीर्घमिति यावत् । श्वसितं यस्य स च । उग्राणि लोचनानि यस्य स चेत्यर्थः । उच्छ्वसितानि उज्जृम्भितानि उग्रलोचनानि यस्येति वा । दद्भिर् दन्तैः । व्यदशद् दंशितवान् ॥ ६ ॥

तं तार्क्ष्यपुत्रः स निरस्य मन्युमान् प्रचण्डवेगो मधुसूदनासनः ।

पक्षेण सव्येन हिरण्यरोचिषा जघान कद्रूसुतमुग्रविक्रमः ॥ ७ ॥

पदरत्नावली

हिरण्यरोचिषा सुवर्णकान्तिमता सव्येन वामेन पक्षेण गरुता जघान ताडयामास

॥ ७ ॥

सत्यधर्मीया

मधुसूदनासनो भगवत आसनमुपवेशोऽत्रेति । हिरण्यरोचिषा सुवर्णकान्तिमता सव्येन वामेन पक्षेण । यद्यपि सव्यं दक्षिणवामयोरिति विश्वस्तथाऽपि तदलक्ष्यतां द्योतयितुं वामेनेति व्याकरणं युक्तमिति मन्तव्यम् । एतदुपोद्बलकं तु पक्षेणेत्येकवचनम् । कद्रूसुतं जघान । वामं शरीरं सव्यं स्यादित्यमरः ॥ ७ ॥

सुमनोरञ्जिनी

तार्क्ष्यस्य कश्यपस्य पुत्रो गरुडः । मधुसूदनस्यासनम् आवासो यस्मिन् सः । मधुसूदन आसतेऽस्मिन्निति वा । मन्युमान् क्रोधी । तं नागम् । सव्येन पक्षेण जघान ॥ ७ ॥

सुपर्णपक्षाभिहतः कालीयोऽतीवविह्वलः ।

ह्रदं विवेश कालिन्द्यास्तदगम्यं दुरासदम् ॥ ८ ॥

पदरत्नावली

अतीवविह्वलो ऽत्युद्विग्नः । कालिन्द्या यमुनायाः । तेन गरुडेन अगम्यम् । दुरासदम् अगाधत्वेनेतरैर्दुष्प्रवेशम् ॥ ८ ॥

सत्यधर्मीया

सुपर्णपक्षेणाभिहतः कालियः । इतरैर्दुरासदं मत्वेति शेषः । अतीवविह्वलः संस्तदगम्यं गरुडागम्यं कालिन्द्या ह्रदं विवेश ॥ ८ ॥

सुमनोरञ्जिनी

सुपर्णस्य गरुडस्य पक्षेण अभिहतस् ताडितः । कालिन्द्या यमुनायाः । तस्य गरुडस्य । अगम्यम् । अन्येषामपि दुरासदं दुष्प्राप्यम् ॥ ८ ॥

तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम् ।

निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत् ॥ ९ ॥

पदरत्नावली

कुतस्तद् गरुडागम्यमित्यत आह तत्रेति । ईप्सितमपेक्षितं भक्ष्यं जलचरं मीनपतिम् । प्रसह्य बलात् ॥ ९ ॥

सत्यधर्मीया

कुतस्तद्गरुडागम्यमित्यत आह ॥ तत्रेति ॥ ईप्सितमपेक्षितम् । सौभरिणा तपस्यता । प्रसह्य बलात् ॥ ९ ॥

सुमनोरञ्जिनी

गरुडागम्यत्वे निमित्तमाह ॥ तत्रेति ॥ भक्ष्यं स्वस्य भक्षयितुं योग्यम् । जलचरं मीनम् । सौभरिणा तन्नामकमुनिना निवारितोऽपि । प्रसह्य बलात्कृष्य ॥ ९ ॥

मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते ।

कृपया सौभरिः प्राह तत्र तत्क्षेममाचरन् ॥ १० ॥

पदरत्नावली

तत्क्षेमं तेषां शिष्टानां क्षेमं योग्यरक्षाम् ॥ १० ॥

सत्यधर्मीया

मीनपतौ हते सति मीनांस्तज्ज्ञातीन्सुदुःखितान्दृष्ट्वा तत्र यमुनाह्रदे तत्क्षेमं मीनानामुत्तरत्रोर्वरितानां क्षेममाचरन्कुर्वाणः कृपया प्राह । मीनमिथुनरमणदर्शनजनितकामिनीकामनो-पात्तमहामाहात्म्यावहदेहव्यूहग्रहणानुबन्धेनौचितौ रचितः सौभरिणा शापो विपतेरिति ज्ञेयम् ॥१०॥

सुमनोरञ्जिनी

दीनान् दयापात्रान् । तेषां मत्स्यानाम् । क्षेमम् ॥ १० ॥

अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति ।

सद्यः प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम् ॥ ११ ॥

तत् कालियः परं वेद नान्यः कश्चित् स लेलिहा ।

अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ॥ १२ ॥

तात्पर्यम्

‘विष्णुना विष्णुभक्तैश्च ब्रह्मशापोऽनुवर्त्यते । ब्राह्मणानामपीडायै बलिभिः क्षत्रियादिभिः । विष्णोश्च विष्णुभक्तानां शापाद्व्येति तपोऽखिलम् । तथापि चासुरावेशा-च्छपेयुर्हरिमप्यहो । अतस्तु सौभरेः शापं नात्यवर्तत्खगेश्वरः । अन्यथा तूत्तमानां हि नाधमैः शाप इष्यते । वरोऽपि दत्तस्त्वधिकैर्नाधमाधिक्यकारणम् । विष्णोरपि वरस्तस्मान्नाधिक्यं सम्प्रयच्छति । १क्रमशः श्रीविरिञ्चादेः कथञ्चित्केनचित्क्वचित् । न च दद्याद्धरिस्तादृग्दद्याद्वा२ बाह्यमेव त्वि’ति ब्रह्माण्डे ॥ ११ ॥

पदरत्नावली

तत् तत्र तार्क्ष्यः प्रविशेच्चेत् सद्यो मरिष्यतीति सौभरिशापात्मकरहस्यं कालिय एव वेद अन्यः कश्चिल्लेलिहा लेलिहानः सर्पो न वेद । अतः स गरुडाद् भीतस्तत्रावात्सीत् । ततः कृष्णेन विवासितो निष्कासितश्च । सौभरेः शापातिक्रमणसमर्थेन सुरेन्द्रादिसुरवृन्दवन्द्येन तेन वैनतेयेन किमर्थं ह्रदं प्रविश्य क्रूरकालियमर्दनं नाकारीतीयमाशङ्का ‘विष्णुना विष्णुभक्तैश्च ब्रह्मशापोऽनुवर्त्यते । ब्राह्मणानामपीडायै बलिभिः क्षत्रियादिभिः । विष्णोश्च विष्णुभक्तानां शापाद् व्येति तपोऽखिलम् । अथापि चासुरावेशाच्छपेयुर्हरिमप्यहो । अतस्तु सौभरेः शापं नात्यवर्तत् खगेश्वरः । अन्यथा तूत्तमानां हि नाधमैः शाप इष्यते । वरोऽपि दत्तस्त्वधिकैर्नाधमाधिक्यकारणम् । विष्णोरपि वरस्तस्मान्नाधिक्यं सम्प्रयच्छति । क्रमशः श्रीविरिञ्चादेः कथञ्चित् केनचित् क्वचित् । न च दद्याद् हरिस्तादृग् दत्तं वा बाह्यमेव तु’ इति ब्रह्माण्डवचनेन निस्तुषीकर्तव्या ॥ ११ ॥

सत्यधर्मीया

कृपयेत्यारभ्य सार्धश्लोकद्विके सौभरिशापतो विपतेर्भीतता प्रतीयते । सा चोच्चतां विनाऽनुपपद्यमानतामाक्षिपति । सा च प्रमाणबाधितेत्यत एतद्व्याजेन सर्वत्रैतत्सजातीये गतिं व्यवस्थापयन्मानमेवाह ॥ विष्णुनेति ॥ ब्रह्मणां ब्राह्मणानामुत्तङ्कभृग्वादीनां शापः । हरिणेत्याद्यन-भिधानेनाभिधानेन च विष्णुनेति विना ष्णौति गच्छतीति व्युत्पत्या यत्स्वाम्यपि ब्राह्मणाननुसरति का कथा गुरुडस्येति ध्वनयति । विष्णुभक्तैरप्यनुवर्त्यते तत्फलानुभूत्या । बलिभिः, निन्दनं बलस्येनिनाऽऽह । दुष्टबलवद्भिः क्षत्रियादिभिर्ब्राह्मणानामपीडायै अनुपद्रवार्थम् । उत्तमशापप्रदाने-नाधमानां किमित्यत आह ॥ विष्णोरिति ॥ विष्णोर्विष्णुभक्तानां स्वोत्तमानां तत्कर्मकाच्छा-पादधमस्याखिलं तपो व्येति नश्यति । ऋष्यादिज्ञानिनः कुत आत्मतपोहानिदं कुरुते कार्यमित्यत आह ॥ तथाऽपीति ॥ तपःक्षयहेतुत्वेऽपि हरिमपि शपेयुः । तत्र तन्त्रम् ॥ असुरावेशादिति ॥ अहो तदासुरं माहात्म्यमद्भुतमित्यर्थः । प्रस्तुतोक्त्योपसंहरति ॥ अत इति ॥ एतद्धेतोः सौभरेः शापं खगेश्वरो नात्यवर्तत । देवभूदेवादितरतमभावो मानसिद्ध इति नीचयोनावप्रयोजनानि रिक्तफलकानीति वक्ति । अन्यथा ब्राह्मणपीडापीडार्थमित्यनङ्गीकारे । अधमैः शाप उत्तमानां तैर्नेष्येत नाङ्गीक्रियेतात उक्तमेव प्रयोजनं न निष्प्रयोजनं स्वीकार इति सम्भवति । अप्रेक्षावत्त्वप्राप्तेः । एवं शापे गतिं विचिन्त्य प्रसङ्गसङ्गत्योत्तमैरधमं प्रति प्रदत्तो वरोऽप्येतादृश इति शंसति ॥ वरोऽपीति ॥ उत्तमैर्दत्तोऽधमेभ्योऽधमस्याधिक्यं प्रति कारणं न भवति । ननु भवत्वितरेषामुत्तमानां वरो न वरताकरो हरेरवन्ध्यसङ्कल्पत्वान्न तद्दत्तो विफलं भवितुं योग्य इत्यत आह ॥ विष्णोरपीति ॥ तस्मात्स्वोत्तमात्क्रमशः क्रमाच्छ्रीविरिञ्चादेर्विष्णोर्वरश्चेदप्याधिक्यं न सम्प्रयच्छति न ददाति । कथञ्चित्केनापि प्रकारेण केनचिद्धेतुना । क्वचित्काले देशे वा । कुत इत्यतोऽपीदमुत्तरम् । तेभ्यस्तेषामधमानां चिद् उत मतो य योगिज्ञानं क्वेतीति । हरिस्तादृग्योग्यतामतिक्रम्य विद्यमानं वरं न दद्यात् । वेति यद्यर्थे । यदि दद्यात्तद्बलादिकं बाह्यमेव । अर्जुनादीनां वैरिजयनादिविषयकमेवेति बाह्यं न स्वरूपमित्यर्थः । स गरुडोऽत्र प्रविश्य यदि मत्स्यान्खादति सद्यः प्राणैर्वियुज्येत मृतो भवेदिति यावत् । अहमेतत्सत्यं यथार्थं ब्रवीमि ॥ तत्, तत्र पत्रिराडायातश्चेन्मरिष्यतीत्येतत्परं रहस्यं कालियो वेदान्यः कश्चिल्लेलिहा लेलिहानः सर्पो न वेदातः स गरुडाद्भीतस्तत्रावात्सीत्कृष्णेन विवासितो निष्कासितः ॥ ११,१२ ॥

सुमनोरञ्जिनी

किमित्याहेति तत्राह ॥ अत्रेति ॥ अत्र अस्मिन् ह्रदे । मत्स्यान् मत्स्यादीन् बहुवचनमाद्यर्थे । खादति भक्षयति । तर्हि सद्यस् तत्काल एव । प्राणैर्वियुज्येत मरणं प्राप्नुयादित्यर्थः ॥ तर्हि सर्वे सर्पाः किमित्यत्र नावासं चक्रुरित्यत आह ॥ तदिति ॥ तत् सौभरिणोक्तम् । परं केवलम् । कालिय एव वेद । अतः स लेलिहा सर्पः । अवात्सीद् आवासं कृतवान् । ननु इन्द्रादिसकलदेवतासार्वभौमेन गरुडेन स्वावरसौभरिशापातिक्रमः किमिति न कृत इत्याशङ्कां परिहर्तुमाहुराचार्यचरणाः–

विष्णुना विष्णुभक्तैश्च ब्रह्मशापोऽनुवर्त्यते ।

ब्राह्मणानामपीडायै बलिभिः क्षत्रियादिभिः ॥

विष्णोश्च विष्णुभक्तानां शापाद्व्येति तपोऽखिलम् ।

तथापि चासुरावेशाच्छपेयुर्हरिमप्यहो ॥

अतस्तु सौभरेः शापं नात्यवर्तत् खगेश्वरः ।

अन्यथा तूत्तमानां हि नाधमैः शाप इष्यते ॥

वरोऽपि दत्तस्त्वधिकैर्नाधमाधिक्यकारणम् ।

विष्णोरपि वरस्तस्मान्नाधिक्यं संप्रयच्छति ॥

क्रमशश्च विरिञ्चादेः कथंचित्केनचित्क्वचित् ।

न च दद्याद्धरिस्तादृग्दत्तं वा बाह्यमेव तु ॥ इति ब्रह्माण्डे ।

इति । विष्णुनेति दृष्टान्तार्थम् । विष्णुनेव तद्भक्तैरपि ब्रह्मशापः ब्राह्मणकृतशापः । अनुवर्त्यते अङ्गीक्रियते । कस्मै प्रयोजनाय । बलिभिः क्षत्रियादिभिः । ब्राह्मणानाम् । अपीडायै । अन्यथा बलिनः क्षत्रियादयोऽपि ब्राह्मैः शप्तास् तान् पीडयेयुरिति भावः । अत एव खगेश्वरः सौभरेः शापं नात्यवर्तन् नातिक्रान्तवान् । स्वतपोहानिसम्पादकं स्वोत्तमं प्रति शापदानं किमर्थं सौभरिणा कृतमित्यतः । सत्यम् । तथाप्यसुरावेशात्तथा कृतमिति भावेनोक्तम् ॥ विष्णोश्चेति ॥ यद्यपि विष्णोर् विष्णुभक्तानामुद्देशेन दत्ताच्छापादखिलं तपो व्येति अपगच्छति । तथापि असुरावेशात् हरिमपि शपेयुः किम्वन्यानित्यर्थः । अन्यथा असुरावेशाभावे । उत्तमानाम् उत्तमान्प्रति । अधमैः शापो नेष्यते । कर्तव्यतयेति शेषः । तथा च उत्तमास्त्वधमशापं स्वयमेवानुवर्तन्ते । न तु शापबलात् स्वभावभूतयोग्यताया न्यूनता संपद्यत इति समुदायाभिप्रायः । एतमेव न्यायं वरविषयेऽप्यतिदिशति ॥ वरोऽपीति ॥ यथा शापो न योग्यतान्यूनतापादकस् तथा अधिकैर् अधमेभ्यो दत्तो वरोऽपि अधमानां स्वयोग्यताधिक्यस्य कारणं न भवति । अधमेन विष्णोः सकाशात्सम्पादितोऽपि आधिक्यं स्वरूपयोग्यतातिक्रमेणाधिक्यं न सम्प्रयच्छति । क्रमशश्च क्रमेणैव । विरिञ्चादेः सम्पादितोऽपि वरः नाधिक्यं सम्प्रयच्छतीति पूर्वेणान्वयः । विरिञ्चादिसकाशादाधिक्यमिति वा । कथञ्चित् केनापि प्रकारेण । गुणेन कर्मणा वा । केनचित् केनापि सहायेन । क्वचित् क्वचिदपि देशविशेषे । नन्विद-मनुपपन्नम् । सत्यसंकल्पेन श्रीहरिणा दत्तस्य वरस्य मोघत्वायोगादित्यतोऽभिप्रायमाह ॥ न चेति ॥ हरिस् तादृग्योग्यतातिक्रमेणाधिक्यं यथा स्यात्तथा वरमेव न दद्यान् न ददाति । क्वचिद्दत्तं वा वरं दत्तमपि वरं बाह्यमेव बाह्यविभवादिसम्पादकमेव न योग्यतातिशयहेतुं वदन्ति विद्वांस इत्यर्थः

॥ ११,१२ ॥

कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्यस्रग्गन्धमण्डितम् ।

महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् ॥ १३ ॥

पदरत्नावली

जाम्बूनदपरिष्कृतं जम्बूनद्यां भवमिति जाम्बूनदं स्वर्णं तेन परिष्कृतं तन्मय-भूषणालङ्कृतम् ॥ १३ ॥

सत्यधर्मीया

स्रजो माला गन्धाद्याश्च तैर्मण्डितम् । जाम्बूनदं सुवर्णं तेन परिष्कृतं तन्मय-भूषणोपेतम् ॥ १३ ॥

सुमनोरञ्जिनी

महान्तो ये मणयस् तेषां गणैर् आकीर्णं व्याप्तम् । जाम्बूनदं सुवर्णम् । तेन परिष्कृतम् अलंकृतम् ॥ १३ ॥

उपलभ्योत्थिताः सर्वे लब्धप्राणा इव प्रजाः ।

प्रमोदनिभृतात्मानो गोपाः प्रीत्याऽभिरेमिरे ॥ १४ ॥

पदरत्नावली

उपलभ्य अवलोक्य । प्रमोदेन निभृता पूर्णा आत्मानो मनांसि येषां ते । अभिरेभिरे आलिलिङ्गुः ॥ १४ ॥

सत्यधर्मीया

लब्धाः प्राणा यासां ताः । प्रमोदेन सन्तोषेण निभृतः पूर्ण आत्मा मनो येषां ते तथाऽभिरेमिरे आलिलिङ्गतुः ॥ १४ ॥

सुमनोरञ्जिनी

उपलभ्य दृष्ट्वा । प्रमोदेन निभृतात्मानः पूर्णमानसाः । अभिरेमिरे आलिलिङ्गिरे ॥ १४ ॥

यशोदा रोहिणी नन्दो गोपा गोप्यश्च कौरव ।

कृष्णं समेत्य लब्धेहा आसंल्लब्धमनोरथाः ॥ १५ ॥

पदरत्नावली

लब्धेहा लब्धचेष्टाः, पूर्वं शववन्निश्चेष्टा इत्यर्थः ॥ १५ ॥

सत्यधर्मीया

प्राङ्निश्चेष्टा इदानीं लब्धेहा चेष्टा याभिस्ताः । लब्धमनोरथा आसन् ॥१५॥

सुमनोरञ्जिनी

लब्धेहा लब्धचेष्टाः ॥ १५ ॥

रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाववित् ।

नरा गावो वृषा वत्सा लेभिरे १परमामुदम् ॥ १६ ॥

पदरत्नावली

अस्य कृष्णस्य अनुभाववित् प्रभावज्ञः ॥ १६ ॥

सत्यधर्मीया

अस्य कृष्णस्य । परमामुदमिति पदमेकं परमा च साऽमुच्च तामिति च

॥ १६ ॥

सुमनोरञ्जिनी

जहास मंदस्मितोऽभवत् । कुतः । तस्य कृष्णस्य अनुभावं माहात्म्यं वेत्तीति तथा ॥ १६ ॥

नन्दं विप्राः समागम्य गुरवः सकलत्रकाः ।

ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः ॥ १७ ॥

पदरत्नावली

ते विप्रा इत्यन्वयः ॥ १७ ॥

सत्यधर्मीया

ते विप्रा इत्यन्वयः ॥ १७ ॥

सुमनोरञ्जिनी

विप्राः, गुरवः वृद्धाश्च । सकलत्रकाः सभार्याः । कालियग्रस्तस् तवात्मजो मुक्त इति यत् तद्दिष्ट्या परमानन्दकरम् ॥ १७ ॥

यशोदा च महाभागा नष्टलब्धप्रजा सती ।

परिष्वज्याङ्कमारोप्य मुमोचाश्रुकणान् बहून् ॥ १८ ॥

पदरत्नावली

नष्टा अदर्शनं गता पुनर्लब्धा प्रजा पुत्रो यस्याः सा ॥ १८ ॥

सत्यधर्मीया

नष्टाऽदर्शनं गता सा लब्धा प्रजाऽपत्यं यस्याः सा सती ॥ १८ ॥

सुमनोरञ्जिनी

नष्टा अदर्शनं गता च । नश् अदर्शने । लब्धा उपलब्धा च प्रजा यस्याः सा । कृष्णं परिष्वज्य आलिङ्ग्य । अङ्कम् उत्सङ्गम् । अश्रुकणान् आनन्दबाष्पबिन्दून् ॥१८॥

ततश्चास्तंगते भानौ कृष्णो वासमकल्पयत् ।

सरामः सह गोपालैर्मात्रा पित्रा सगोधनैः ॥ १९ ॥

सत्यधर्मीया

सगोधनैर्गोपालैरित्यन्वयः । भानावस्तंगते मित्रः स्वामित्रवंशभवेन तनुज-निनैर्मल्यं जातमिति लज्जयाऽमुखप्रदर्शनेन वाऽतोषभरेण समुद्रपातेन वा जामातरं प्रति तव योषाऽविषा जातेति वक्तुं वेत्यस्तंगमनमित्यौत्प्रेक्षिका उत्प्रेक्षयन्ति ॥ १९ ॥

सुमनोरञ्जिनी

सरामः कृष्णः । मात्रादिभिः सह वासम् । अकल्पयत् कल्पयामास ॥१९॥

तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्शिताः ।

ऊषुर्व्रजौकसो गावः कालिन्द्या उपकूलतः ॥ २० ॥

पदरत्नावली

क्षुत्तृड्भ्यामुत्पन्नो यः श्रमस्तेन कर्शिताः । उपकूलतः कूलसमीपे ॥ २० ॥

सत्यधर्मीया

क्षुत्तृड्भ्यां ताभ्यामुत्पन्नो यः श्रमस्तेन कर्शिताः । उपकूलतः कूलस्योप समीपे ऊषुः ॥ २० ॥

सुमनोरञ्जिनी

व्रजौकसो गोपाः क्षुत्तृड्भ्यां श्रमेण च कर्शिताः । तां रात्रिम् । तत्रैव यमुनाकूल एव । ऊषुः । उपकूलतः कूलसमीपे ॥ २० ॥

एतस्मिन्नेव काले तु व्रजे कौरवसत्तम ।

घोरः शुचिबलोद्भूतो दावाग्निः सर्वतो वृतः ॥ २१ ॥

पदरत्नावली

शुचिः पवनस् तस्य बलेनोद्भूतः । शुचिर्ग्रीष्मस्तस्य बलेनेति वा । ‘शुचि-र्ग्रीष्मेऽनलेऽनिले’ इत्युत्पलमाला । सर्वतः परितो वृतो वेष्टितः ॥ २१ ॥

सत्यधर्मीया

शुचिबलोद्धूतः शुचिर्ग्रीष्मस्तस्य यद्बलं सामर्थ्यम् । शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते । ग्रीष्मे हुतवहे च स्यादुपधांशुककर्मणोरिति विश्वः । ग्रीष्मो नामर्तुर-भवदित्युत्तरत्रोक्तेः । सन्निहितत्वाच्छुचिर्ग्रीष्म इत्युचितम् । अथवा शुचिर्वायुः । दावाग्निर्वनानलः । दवदावौ वनानलावित्यमरः । सर्वतः परितः । वृतो वेष्टितः ॥ २१ ॥

सुमनोरञ्जिनी

व्रजे गोगोपस्थाने । शुचेर् ग्रीष्मर्तोर् बलेन । उद्धूतो ऽभिवृद्धः दावाग्निः । सर्वतो वृतः परिवृत आसीदिति । शुचिः शुद्धेऽनुपहते शृृङ्गाराषाढयोः सिते । ग्रीष्मे हुतवहेऽपि स्यादिति विश्वः । वस्तुतः शुचिर् वायुस् तद्बलेनोद्धूतः । हंसः शुचिषदित्यत्र वायुस्थः शुचिषदिति भाष्योक्तेः ॥ २१ ॥

सुप्तान् निशीथ आवृत्य प्रदग्धुमुपचक्रमे ॥ २२ ॥

पदरत्नावली

निशीथे अर्धरात्रे । ‘अर्धरात्रनिशीथौ द्वौ’ इत्यमरः ॥ २२ ॥

सत्यधर्मीया

निशीथे इति निपातितः शब्दो रात्रिसामान्यस्य तथाऽर्धरात्रं स्यादित्युक्ते-रर्धरात्रस्य च वाचकः । उपचक्रमे उपपराभ्यामिति क्रमेरात्मनेपदता । आरेभे ॥ २२ ॥

सुमनोरञ्जिनी

निशीथे अर्धरात्रे ॥ २२ ॥

तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः ।

कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम् ॥ २३ ॥

पदरत्नावली

ते गोपाः । मायया इच्छयैव मनुजः मानुषरूपः, तथाभूतम् ॥ २३ ॥

दुर्घटभावदीपिका

मायामनुजमित्यस्येच्छयैव मानुषवेषं न तु कर्मणेत्यर्थः ॥ २३ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्याभिनवयतिकृतायां

दुर्घटभावदीपिकायां दशमस्कन्धपूर्वार्धे पञ्चदशोऽध्यायः ॥ १०-१५ ॥

सत्यधर्मीया

ते गोपाः ॥ २३ ॥

सुमनोरञ्जिनी

शरणं भीतरक्षकम् ॥ २३ ॥

कृष्ण कृष्ण महाभाग हे रामामितविक्रम ।

एष तीव्रतमो वह्निस्तावकान् ग्रसते हि नः ।

सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो ॥ २४ ॥

पदरत्नावली

तावकान् त्वदेकरक्षान् नोऽस्मान् । स्वानात्मीयान् सुहृदो नोऽस्मान् सुदुस्तरात् कालाग्नेः प्रयाग्निसदृशदावाग्नेः पाहि ॥ २४ ॥

सत्यधर्मीया

तावकान्नः । तीव्रपदस्वारस्येनाक्षिपक्ष्मनिमीलनमध्य एवापिबदिति द्योत्यते । अत एवोत्तरत्रेवात्र लोचनानि निमीलयतेत्युक्तिः । ग्रसते ग्रसति । पाहि । रामं प्रत्यप्याहुः । अः स्वान्पाहीति । ततोऽतावकान्स्वतावकान्स्तोतॄनिति वा स्वानिति विषयभेदान्न पुनरुक्तिः

॥ २४ ॥

सुमनोरञ्जिनी

तावकान् त्वद्भक्तान् । सुदुस्तराद् अस्माभिस्तर्तुमशक्यात् । कालाग्नेर् मृत्युरूपादग्नेः । स्वान् स्वकीयान् ॥ २४ ॥

न शक्नुमस्त्वच्चरणं सन्त्यक्तुमकुतोभयम् ॥ २५ ॥

पदरत्नावली

न विद्यते कुतोऽपि भयं यस्मात् तं त्वच्चरणं सन्त्यक्तुं न शक्नुमः । अनेन निजप्राणरक्षणप्रार्थनमपि कृष्णचरणवियोगभीत्येति भावोऽसूचि ॥ २५ ॥

सत्यधर्मीया

अकुतोभयं त्वच्चरणं सन्त्यक्तुं न शक्नुमः । एतेन मरणं भविष्यतीति चिन्ताऽपि न, कृष्णविरहभीत्याऽवदन्निति भावः सूचितो भवति ॥ २५ ॥

सुमनोरञ्जिनी

मृत्युभीत्या न वयं प्रार्थयामः किन्तु त्वद्वियोगभीत्येत्याहुः ॥ नेति ॥ अकुतोभयं सर्वतोऽपि भयरहितम् ॥ २५ ॥

इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः ।

तमग्निमपिबत् तीव्रमनन्तोऽनन्तशक्तिधृक् ॥ २६ ॥

पदरत्नावली

अनन्तशक्तिधृक् अपरिमितसामर्थ्यशाली ॥ २६ ॥

॥ इति श्रीमन्महेन्द्रतीर्थपूज्यपादशिष्यविजयध्वजतीर्थभिक्षुकृतायां पदरत्नावल्यभिधायां श्रीमद्भागवतटीकायां दशमस्कन्धपूर्वार्धे पञ्चदशोऽध्यायः ॥

सत्यधर्मीया

अनन्तशक्तिधृक् अपरिमितबलवांस्तीव्रं यथा भवति तथाऽपिबत्पपौ ॥ २६ ॥

सुमनोरञ्जिनी

अनन्तशक्तिधृक् ॥ २६ ॥

अथ कृष्णः परिवृतो ज्ञातिभिर्मुदितात्मभिः ।

अनुगीयमानो न्यविशद् व्रजं गोकुलमण्डितम् ॥ २७ ॥

॥ इति श्रीमद्भागवते दशमस्कन्धपूर्वार्धे पञ्चदशोऽध्यायः ॥

सत्यधर्मीया

अथ तत्पानानन्तरम् । अनुगीयमानोऽनुगैरिति शेषः । गोकुलमण्डितं व्रजं न्यविशत् ॥ २७ ॥

॥ इति श्रीभागवतटिप्पण्यां सत्यधर्मयतिकृतायां

दशमस्कन्धपूर्वार्धे पञ्चदशोऽध्यायः ॥ १०-१५ ॥

सुमनोरञ्जिनी

अथ दावाग्निजन्यभयपरिहारानन्तरम् । अनुगीयमानः स्तूयमानः ॥ २७ ॥

**॥ इति श्रीमद्भागवतदशमस्कन्धपूर्वार्धव्याख्यायां **

(गूढकर्तृकायां) सुमनोरञ्जिन्यां पञ्चदशोऽध्यायः ॥ १०-१५ ॥